ebooks-esamhita-ecaraka-sutrasthana-kiyantahshiraseeya-adhyaya
Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १७. कियन्तःशिरसीयोऽध्यायः अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वचतुष्कचतुष्टयेन भेषजमभिहितं, सम्प्रति तद्विषयरोगाभिधानार्थं रोगचतुष्कोऽभिधातव्यः, चिकित्सा च विधेयत्वेनैव प्रधानमतः प्रथममुक्ता, किञ्च दर्शितश्चायं प्रथमाध्याय एव सम्बन्धः, एवं चाङ्गेषु मर्मसु च प्रधानभूतशिरोहृदयरोगाभिधायकत्वेन कियन्तः शिरसीयोऽभिधीयते||१-२|| कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम्|कति चाप्यनिलादीनां रोगा मानविकल्पजाः||३||क्षयाः कति […]
ebooks-esamhita-ecaraka-sutrasthana-kiyantahshiraseeya-adhyaya Read More »