ebooks

ebooks-esamhita-evagbhata-ehrudayam-sutrasthana-doshadivijnaneeya-adhyaya

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् सूत्रस्थानम् – ११. दोषादिविज्ञानीयाध्यायः रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते| यतो “दोषभेषजवशादुपयोज्याः” इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते- ० रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते|यतो “दोषभेषजवशादुपयोज्याः” इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते – – – – अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः|इति ह स्माहुरात्रेयादयो महर्षयः|गद्यसूत्रे||२|| स०-दोषा आदयो येषां ते-दोषादयः, तेषां विज्ञानं-प्राकृतेन वैकृतेन […]

ebooks-esamhita-evagbhata-ehrudayam-sutrasthana-doshadivijnaneeya-adhyaya Read More »

ebooks-esamhita-esushruta-sutrasthana-shonitavarnaneeya-adhyaya

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता सूत्रस्थानम् – १४. शोणितवर्णनीयाध्यायः अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| अथात इत्यादि||१-२|| तत्र [१] पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य [२] द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगादश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति [३] यापयति चादृष्टहेतुकेन

ebooks-esamhita-esushruta-sutrasthana-shonitavarnaneeya-adhyaya Read More »

ebooks-esamhita-evagbhata-ehrudayam-shareerasthana-garbhavakranti-shareera

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् शारीरस्थानम् – १. गर्भावक्रान्तिरध्यायः श्रीगणेशाय नमः| अथ सूत्रस्थानादनन्तरं शारीरस्थानमिदमारभ्यते| तत्रायं सम्बन्धः,-पूर्वस्मिन्स्थाने कायादीन्यष्टावङ्गानि चिकित्साधारभूतानि सकलतन्त्रसारभूतानि सूत्रितानि “कायबाल” (हृ. सू. अ. १/५) इत्यादिना ग्रन्थेन| कायश्च निजागन्तूनां व्याधीनामधिष्ठानम्| तस्य च कायस्य चतुर्वर्गसाधनस्य पालनार्थं हेतुलिङ्गौषधस्कन्धभेदेन त्रिस्कन्धोऽयं ग्रन्थो ग्रन्थकृता प्रणीतः| ततश्च शरीरस्य प्रथमं सूत्रितत्वात्प्राधान्याच्च प्राक् सूत्रस्थानमनन्तरं शारीरस्थानमिदमारभ्यत इत्याह-

ebooks-esamhita-evagbhata-ehrudayam-shareerasthana-garbhavakranti-shareera Read More »

ebooks-esamhita-esushruta-cikitsasthana-niruhakrama-cikitsa

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता चिकित्सास्थानम् – ३८. निरूहक्रमचिकित्सितम् अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| निरूहस्य क्रमो निरूहक्रमः अनुक्रमविधानं [१] , स एव चिकित्सितं व्याधिप्रतीकारः| निरूहोपक्रमचिकित्सितमिति केचित् पठन्ति, तन्मतेऽपि निरूहोपक्रमो निरूहारम्भः, स एव चिकित्सितमिति व्याख्यानम्||१-२|| अथानुवासितमास्थापयेत्; स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं सुमनसं जीर्णान्नं

ebooks-esamhita-esushruta-cikitsasthana-niruhakrama-cikitsa Read More »

ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता निदानस्थानम् – १. वातव्याधिनिदानम् अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| हेतुलिङ्गौषधज्ञानबीजभूतेन सूत्रस्थानेन सङ्क्षेपोद्दिष्टस्य हेतुलिङ्गौषधस्य विवरणे सर्वाण्येव स्थानानि प्रस्तुतानि, तेषु च प्रस्तुतेषु स्वाधिकारिणां शल्यतन्त्रव्याधीनां हेतुलक्षणप्रतिपादकतया निदानस्थानस्यारम्भः, तत्रापि दोषाणां वातस्य प्रधानत्वात्तद्व्याधीनां हेतुलक्षणाभ्यां प्राक् प्रतिपादनं युज्यत इत्याह- अथात इत्यादि| वातव्याधेराक्षेपकादेर्निदानं हेतुलक्षणनिर्देशः| अथातो वातव्याधिनिदानमित्यादि यद्यपि

ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana Read More »

ebooks-esamhita-ecaraka-cikitsasthana-vatavyadhi-cikitsa

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – २८. वातव्याधिचिकित्सितम् अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| ऊरुस्तम्भभेषजेन विरूक्षणाद्वातप्रकोपो भवतीति सम्बन्धादूरुस्तम्भानन्तरं वातव्याधिचिकित्सितमुच्यते| तत्र वात एव व्याधिर्वातव्याधिरिति पक्षे वात एव तत्तद्दूष्यसम्प्राप्तः सर्वाङ्गैकाङ्गरूपतामापन्नो विविधपीडाकर्तृत्वाद्वातव्याधिरुच्यते; यदा तु वाताद्व्याधिर्वातव्याधिरिति पक्षस्तदा वातदोषाद् दोषदूष्यसम्मूर्च्छनविशेषरूपः सर्वाङ्गैकाङ्गरूपो व्याधिर्वातव्याधिरुच्यते| ज्वरादयस्तु यद्यपि वातादुत्पद्यन्ते, तथाऽपि ते दोषान्तरेणापि वातं विना भवन्तीति कृत्वा

ebooks-esamhita-ecaraka-cikitsasthana-vatavyadhi-cikitsa Read More »

ebooks-esamhita-ecaraka-nidanasthana-jvara-nidana

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता निदानस्थानम् – १. ज्वरनिदानम् अथातो ज्वरनिदानं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| सङ्क्षेपेण हेतुलिङ्गाभिधायकं सूत्रस्थानमनु प्रपञ्चेन हेतुलिङ्गाभिधायकं निदानस्थानमुच्यते; हेतुलिङ्गज्ञानपूर्विका हि चिकित्सा साध्वी भवति| यच्च चिकित्सासूत्रमात्रमभिधातव्यं, तदुपशयान्तर्गतमेवेति कृत्वा; किंवा, हेतुलिङ्गाभिधानस्यापि चिकित्सार्थत्वाच्चिकित्सासूत्रमात्राभिधानमिह [१] | तत्रापि च शारीरविकारेषु प्रधानत्वाज्ज्वरस्यैव निदानमादावुच्यते| यथा च ज्वरः प्रधानं तथाऽत्रैव ‘ज्वरस्तु खलु’ इत्यादिना

ebooks-esamhita-ecaraka-nidanasthana-jvara-nidana Read More »

ebooks-esamhita-ecaraka-sutrasthana-annapanavidhi-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – २७. अन्नपानविध्यध्यायः अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| सम्प्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्राय उपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थमन्नपानविधिरध्यायोऽभिधीयते| अत्रोत्पन्नस्य छप्रत्ययस्य लुक्| अत्रान्ने काठिन्यसामान्यात् खाद्यं, पाने च द्रवत्वसामान्याल्लेह्यमवरुद्धं ज्ञेयम्| अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया प्रतिपाद्यतेऽनेनेत्यन्नपानविधिः; द्रव्याणां गुणकर्मकथनमेव चान्नपानविधिः, यतस्तद्धि ज्ञात्वाऽन्नपानं विधीयते||१-२|| इष्टवर्णगन्धरसस्पर्शं [१] विधिविहितमन्नपानं प्राणिनां प्राणिसञ्ज्ञकानां प्राणमाचक्षते कुशलाः,

ebooks-esamhita-ecaraka-sutrasthana-annapanavidhi-adhyaya Read More »

ebooks-esamhita-ecaraka-cikitsasthana-madatyaya-cikitsa

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – २४. मदात्ययचिकित्सितम् अथातो मदात्ययचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| मोहजनकत्वसामान्यात् तथा विषसमानगुणजन्यत्वाच्च विषचिकित्सितमनु मदात्ययस्य चिकित्सितमुच्यते||१-२|| सुरैः सुरेशसहितैर्या पुरा [१] परिपूजिता|सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता||३||यज्ञौही या यया शक्रः सोमातिपतितो भृशम्|निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः||४||विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः|दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये||५|| सुरैरित्यादिना मदिरास्तुत्या तथा वक्ष्यमाणनिन्दया विधिना पीयमानसुरायाः

ebooks-esamhita-ecaraka-cikitsasthana-madatyaya-cikitsa Read More »

ebooks-esamhita-ecaraka-cikitsasthana-rasayana-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – १/१. अभयामलकीयरसायनपादः अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते| रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते, तथाऽनन्तरमेव वक्ष्यति| तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर्महाफलत्वेनादावभिधानम्| तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलमिति तदभिधीयते, तत्रापि चाभयामलकीयश्चिकित्सास्थानार्थसूत्राभिधायकतयाऽग्रेऽभिधीयते||१-२|| चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्||३||विद्याद्भेषजनामानि, …|४| तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य

ebooks-esamhita-ecaraka-cikitsasthana-rasayana-adhyaya Read More »