ecaraka

ebooks/esamhita/ecaraka

ebooks-esamhita-ecaraka-vimanasthana-janapadodhvansaniya-vimana

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता विमानस्थानम् – ३. जनपदोद्ध्वंसनीयविमानम्   अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| द्विविधो हेतुर्व्याधिजनकः प्राणिनां भवति- साधारणः, असाधारणश्च; तत्रासाधारणं प्रतिपुरुषनियतं वातादिजनकमाहाराद्यभिधाय बहुजनसाधारणं वातजलदेशकालरूपं साधारणरोगकारणमभिधातुं जनपदोद्ध्वंसनीयोऽभिधीयते||१-२|| जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत्||३|| जनपदवसत्युपलक्षितं मण्डलं जनपदमण्डलं, ‘पञ्चालक्षेत्रे’ इति तस्य विशेषणम्| द्विजातिवराध्युषित […]

ebooks-esamhita-ecaraka-vimanasthana-janapadodhvansaniya-vimana Read More »

ebooks-esamhita-ecaraka-sutrasthana-deerghanjeeviteeya-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १. दीर्घञ्जीवितीयोऽध्यायः अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१|| गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे|त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः||१||सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः|बुद्धिदर्पणसङ्क्रान्तं जगदध्यक्षमीक्ष्यते||२||ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसुहुताशवेशचरकप्रभृतिभ्यो नमो [१] नमः||३||पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः|मनोवाक्कायदोषाणां हर्त्रेऽहिपतये [२] नमः||४||नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी|क्रियते चक्रदत्तेन टीकाऽऽयुर्वेददीपिका||५||सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वोनालं तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति|व्याख्याभासरसप्रकाशनमिदं त्वस्मिन् यदि प्राप्यतेक्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् [३] ||६||इह हि

ebooks-esamhita-ecaraka-sutrasthana-deerghanjeeviteeya-adhyaya Read More »

ebooks-esamhita-ecaraka-sutrasthana-upakalpaneeya-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १५. उपकल्पनीयोऽध्यायः   अथात उपकल्पनीयमध्यायं व्याख्यास्यामः।।१।। इति ह स्माह भगवानात्रेयः।।२।। ।     स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोक्तात् सम्बन्धात् स्वेदाध्यायानन्तरं शोधनविधेरभिधायकमुपकल्पनीयमाह। उपकल्पनीयमिति शोधनोपकल्पनामधिकृत्य कृतोऽध्याय उपकल्पनीयः।।१-२।।॥   इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पाययितुकामेन भिषजा प्रागेवौषधपानात् सम्भारा उपकल्पनीया भवन्ति सम्यक्चैव हि गच्छत्यौषधे

ebooks-esamhita-ecaraka-sutrasthana-upakalpaneeya-adhyaya Read More »

ebooks-esamhita-ecaraka-sutrasthana-sveda-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १४. स्वेदाध्यायः अथातः स्वेदाध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| स्नेहपूर्वकत्वात् स्वेदस्य स्वेदाध्यायोऽभिधीयते| स्वेदप्रतिपादकोऽध्यायः स्वेदाध्यायः||१-२|| अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः|स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः||३||स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले|पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन||४||शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः|नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्||५|| वातकफात्मका असंसृष्टवातकफजाः, वातकफजत्वेऽप्युदरादयः स्वेदेन न शाम्यन्ति, अत आह- स्वेदसाध्याः; एतेनोदरादयोऽस्वेद्या व्यावर्त्यन्ते| स्नेहपूर्वमिति क्रियाविशेषणम्| न सज्जन्ति अप्रवृत्तानि न भवन्ति  यथान्यायं यथागमम्, एतच्च स्नेहस्वेदोपपादनैरित्यनेन सम्बध्यते; यदि वा यथान्यायं यथासहजं नमयन्तीति सम्बन्धः||३-५|| रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च|द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः||६|| रोगमृतुं व्याधितं च बलवत्त्वादिनाऽपेक्षत इति रोगर्तुव्याधितापेक्षः| नात्युष्णो नातिचण्डतापः| द्रव्यवानिति स्निग्धरूक्षादिद्रव्यवान्| कल्पित इति रोगादीनपेक्ष्य यथोचितेन द्रव्येण देशे चामाशयादौ यथायोग्यतया सम्पादित इति मन्तव्यम्||६||

ebooks-esamhita-ecaraka-sutrasthana-sveda-adhyaya Read More »

ebooks-esamhita-ecaraka-sutrasthana-sneha-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १३. स्नेहाध्यायः अथातः स्नेहाध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| निर्देशवातकलाकलीये वातादयोऽभिहिताः, तेषां भेषजं यथा कल्पनीयं तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते| भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्रव्याभिधानं विना न पार्यते कल्पयितुम् [१] ; अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पनेहाभिधीयते, बस्तिकल्पना त्विह बहुवक्तव्यत्वान्नोक्ता| अत्रापि वमनादिप्रवृत्तौ स्नेहस्यैव प्रथमं विधीयमानतया तथा

ebooks-esamhita-ecaraka-sutrasthana-sneha-adhyaya Read More »