ebooks-esamhita-ecaraka-shareerasthana-shareerasankhya-shareera

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता शारीरस्थानम् – ७. शरीरसङ्ख्याशारीरम् अथातः शरीरसङ्ख्याशारीरं [१] व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२||शरीरसङ्ख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेशः पप्रच्छ||३|| पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसङ्ख्याभेदेन प्रतिपादयितुं शरीरसङ्ख्याध्यायोऽभिधीयते| अवयवसङ्ख्याभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् [२] साधनं चिकित्सोपयुक्तं कथयिष्यत्यध्यायान्ते ‘शरीरसङ्ख्यां यो वेद’ इत्यादिना| अवयवशः शरीरं प्रविभज्य शरीरसङ्ख्यां पप्रच्छेति योजना| पृच्छाप्रयोजनमाह- […]

ebooks-esamhita-ecaraka-shareerasthana-shareerasankhya-shareera Read More »