ehrudayam

ebooks-esamhita-evagbhata-ehrudayam-sutrasthana-doshadivijnaneeya-adhyaya

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् सूत्रस्थानम् – ११. दोषादिविज्ञानीयाध्यायः रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते| यतो “दोषभेषजवशादुपयोज्याः” इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते- ० रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते|यतो “दोषभेषजवशादुपयोज्याः” इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते – – – – अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः|इति ह स्माहुरात्रेयादयो महर्षयः|गद्यसूत्रे||२|| स०-दोषा आदयो येषां ते-दोषादयः, तेषां विज्ञानं-प्राकृतेन वैकृतेन […]

ebooks-esamhita-evagbhata-ehrudayam-sutrasthana-doshadivijnaneeya-adhyaya Read More »

ebooks-esamhita-evagbhata-ehrudayam-shareerasthana-garbhavakranti-shareera

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् शारीरस्थानम् – १. गर्भावक्रान्तिरध्यायः श्रीगणेशाय नमः| अथ सूत्रस्थानादनन्तरं शारीरस्थानमिदमारभ्यते| तत्रायं सम्बन्धः,-पूर्वस्मिन्स्थाने कायादीन्यष्टावङ्गानि चिकित्साधारभूतानि सकलतन्त्रसारभूतानि सूत्रितानि “कायबाल” (हृ. सू. अ. १/५) इत्यादिना ग्रन्थेन| कायश्च निजागन्तूनां व्याधीनामधिष्ठानम्| तस्य च कायस्य चतुर्वर्गसाधनस्य पालनार्थं हेतुलिङ्गौषधस्कन्धभेदेन त्रिस्कन्धोऽयं ग्रन्थो ग्रन्थकृता प्रणीतः| ततश्च शरीरस्य प्रथमं सूत्रितत्वात्प्राधान्याच्च प्राक् सूत्रस्थानमनन्तरं शारीरस्थानमिदमारभ्यत इत्याह-

ebooks-esamhita-evagbhata-ehrudayam-shareerasthana-garbhavakranti-shareera Read More »

Ashtangahridayam – ebook – chapters

Ashtangahridayam Sutrasthana ADHYAYA-1 ADHYAYA-2 ADHYAYA-3 ADHYAYA-4 ADHYAYA-5 ADHYAYA-6 ADHYAYA-7 ADHYAYA-8 ADHYAYA-9 ADHYAYA-10 ADHYAYA-11 ADHYAYA-12 ADHYAYA-13 ADHYAYA-14 ADHYAYA-15 ADHYAYA-16 ADHYAYA-17 ADHYAYA-18 ADHYAYA-19 ADHYAYA-20 ADHYAYA-21 ADHYAYA-22 ADHYAYA-23 ADHYAYA-24 ADHYAYA-25 ADHYAYA-26 ADHYAYA-27 ADHYAYA-28 ADHYAYA-29 ADHYAYA-30 Shareerasthana ADHYAYA-1 ADHYAYA-2 ADHYAYA-3 ADHYAYA-4 ADHYAYA-5 ADHYAYA-6 Nidanasthana ADHYAYA-1 ADHYAYA-2 ADHYAYA-3 ADHYAYA-4 ADHYAYA-5 ADHYAYA-6 ADHYAYA-7 ADHYAYA-8 ADHYAYA-9 ADHYAYA-10 ADHYAYA-11 ADHYAYA-12 ADHYAYA-13 ADHYAYA-14 ADHYAYA-15

Ashtangahridayam – ebook – chapters Read More »

ebooks-esamhita-evagbhata-ehrudayam-dinacarya-adhyaya

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् २. दिनचर्याध्यायः अथातो दिनचर्याध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| स०-अथेति सर्वेष्वध्यायेषु मङ्गलार्थः| तथा अत इत्यानन्तर्ये प्रस्तुताभिसम्बन्धे वा| अथेत्यादिशब्दानां पूर्वाध्याये वर्णित एवार्थः| माङ्गलिको ह्याचार्यः प्रत्यध्यायारम्भे मङ्गलार्थमथशब्दं प्रयुङ्क्ते| दिने दिने चर्या दिनचर्या, दिनस्य वा चर्या दिनचर्या| चरणं चर्या| उभयलोकहितमाहारविहारचेष्टितमिति यावत्, प्रतिदिने यत्कर्तव्यम्| दिनचर्या यस्मिन्नध्यायेऽस्तीति

ebooks-esamhita-evagbhata-ehrudayam-dinacarya-adhyaya Read More »

ebooks-esamhita-evagbhata-ehrudayam-ayushkaameeya-adhyaya

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् सूत्रस्थानम् – १. आयुष्कामीयाध्यायः सन्धिविच्छेदेन मूलश्लोकः / moola śloka with sandhiviccheda रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्|औत्सुक्यमोहारतिदाञ्जघानयोऽपूर्ववैद्याय नमोस्तु तस्मै|१| राग-आदि-रोगान् सतत-अनुषक्तान् अशेष-काय-प्रसृतान्-अशेषान्|औत्सुक्य-मोह-अरति-दन् जघानयः अपूर्व-वैद्याय नमः अस्तु तस्मै|   इदानीमिष्टदेवतां नमस्कृत्य शास्त्रकारस्तन्त्रमारिरिप्सुरिदमाह —- अथात आयुष्कामीयमध्यायं व्याख्यास्यामः|(गद्यसूत्रम्)||१||इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रम्)|२| अथ अतः आयुष्कामीयम् अध्यायं व्याख्यास्यामः|इति ह स्म आहुः आत्रेय-आदयः महर्षयः|   आयुःकामायमानेन धर्मार्थसुखसाधनम्|आयुर्वेदोपदेशेषु विधेयः परमादरः||२|| आयुः-कामाय-मानेन धर्म-अर्थ-सुख-साधनम्|आयुर्वेद-उपदेशेषु विधेयः परम-आदरः||   अथास्यायुर्वेदस्य गौरवोत्पादनायागमशुद्धिं दर्शयति —- ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्|सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्||३||तेऽग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे|————————————————|४| ब्रह्मा

ebooks-esamhita-evagbhata-ehrudayam-ayushkaameeya-adhyaya Read More »