Sutrasthana

ebooks-esamhita-esushruta-sutrasthana-shonitavarnaneeya-adhyaya

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता सूत्रस्थानम् – १४. शोणितवर्णनीयाध्यायः अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| अथात इत्यादि||१-२|| तत्र [१] पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य [२] द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगादश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति [३] यापयति चादृष्टहेतुकेन […]

ebooks-esamhita-esushruta-sutrasthana-shonitavarnaneeya-adhyaya Read More »

ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता निदानस्थानम् – १. वातव्याधिनिदानम् अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| हेतुलिङ्गौषधज्ञानबीजभूतेन सूत्रस्थानेन सङ्क्षेपोद्दिष्टस्य हेतुलिङ्गौषधस्य विवरणे सर्वाण्येव स्थानानि प्रस्तुतानि, तेषु च प्रस्तुतेषु स्वाधिकारिणां शल्यतन्त्रव्याधीनां हेतुलक्षणप्रतिपादकतया निदानस्थानस्यारम्भः, तत्रापि दोषाणां वातस्य प्रधानत्वात्तद्व्याधीनां हेतुलक्षणाभ्यां प्राक् प्रतिपादनं युज्यत इत्याह- अथात इत्यादि| वातव्याधेराक्षेपकादेर्निदानं हेतुलक्षणनिर्देशः| अथातो वातव्याधिनिदानमित्यादि यद्यपि

ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana Read More »

ebooks-esamhita-esushruta-sutrasthana-doshadhatumalakshayavriddhivijnaneeya-adhyaya

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता सूत्रस्थानम् – १५. दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः   अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| अथात इत्यादि| दोषा वातादयः, धातवो रसादय उपधातवश्च, मलाः पुरीषादयः; तेषां क्षयवृद्धिविज्ञानं यस्मिन्नस्ति स तथा| अन्ये तु ‘मलशब्दाग्रे आदिशब्दो लुप्तो द्रष्टव्यः, तेन स्तन्यार्तवगर्भादयोऽपि धातवो गृह्यन्ते’ इति वदन्ति||१-२|| दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां

ebooks-esamhita-esushruta-sutrasthana-doshadhatumalakshayavriddhivijnaneeya-adhyaya Read More »