ebooks

ebooks-esamhita-esushruta-sutrasthana-doshadhatumalakshayavriddhivijnaneeya-adhyaya

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता सूत्रस्थानम् – १५. दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः   अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| अथात इत्यादि| दोषा वातादयः, धातवो रसादय उपधातवश्च, मलाः पुरीषादयः; तेषां क्षयवृद्धिविज्ञानं यस्मिन्नस्ति स तथा| अन्ये तु ‘मलशब्दाग्रे आदिशब्दो लुप्तो द्रष्टव्यः, तेन स्तन्यार्तवगर्भादयोऽपि धातवो गृह्यन्ते’ इति वदन्ति||१-२|| दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां […]

ebooks-esamhita-esushruta-sutrasthana-doshadhatumalakshayavriddhivijnaneeya-adhyaya Read More »

ebooks-esamhita-ecaraka-siddhisthana-kalpana-siddhi

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सिद्धिस्थानम् – १. कल्पनासिद्धिः अथातः कल्पनासिद्धिं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| कल्पस्थानानन्तरं पारिशेष्यादेव सिद्धिस्थानमभिधीयते| सिद्धेरभिधायकं स्थानं सिद्धिस्थानम्| सिद्धिशब्देन चेह वमनादीनां वमनाद्यसम्यग्योगजन्यानां व्यापदां भेषजस्य साध्यतारूपा सिद्धिरुच्यते, एवम्भूतसिद्धिकारणाभिधायकतया चैतत् सिद्धिस्थानमुच्यते; किंवा कार्यकारणयोरभेदोपचारात् सिद्धिशब्देनेह सिद्धिकारणान्येव वमनादीन्युच्यन्ते, उक्तं हि “सम्यक्प्रयोगं चैव कर्मणां व्यापन्नानां च व्यापत्साधनानि सिद्धिषूपदेक्ष्यामः” (सू.अ.४) इति|

ebooks-esamhita-ecaraka-siddhisthana-kalpana-siddhi Read More »

ebooks-esamhita-ecaraka-cikitsasthana-grahanidosha-cikitsa

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – १५. ग्रहणीदोषचिकित्सितम्   अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| अर्शःकार्यत्वाद्ग्रहणीदोषस्य अर्शश्चिकित्सितमनु ग्रहणीचिकित्सितं ब्रूते| ग्रहणीमाश्रितोऽग्निदोषो ग्रहणीदोषः, एवं चाश्रयाश्रयिणोरभेदोपचाराद् ग्रहणीदोषशब्देन ग्रहण्याश्रितोऽग्निदोषोऽपि गृह्यते||१-२|| आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३||शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४|| तत्र ग्रहणीदोषनिर्दिष्टाग्निदोषे वक्तव्ये प्रकृतिज्ञानानन्तरत्वाद्विकृतिज्ञानस्य प्रथमं तावदविकृतस्याग्ने रूपमाह- आयुरित्यादि| आयुः

ebooks-esamhita-ecaraka-cikitsasthana-grahanidosha-cikitsa Read More »

ebooks-esamhita-ecaraka-cikitsasthana-jvara-cikitsa/

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – ३. ज्वरचिकित्सितम् अथातो ज्वरचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| स्वस्थोर्जस्करमभिधाय व्याधिनिर्घातकरचिकित्सितं वक्तव्यम्| सर्वरोगप्रधानत्वेन ज्वरस्यैवादौ चिकित्सितं तत्रोच्यते| ज्वरस्य च यथा प्राधान्यं तथाऽत्रैव वक्ष्यति| ज्वरचिकित्सिताभिधायकोऽध्यायो ज्वरचिकित्सितमुच्यते, अभिधानाभिधेययोरभेदोपचारात्| एवमुत्तराध्यायेष्वपि व्याख्येयम्||१-२|| विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३|| विज्वरमिति विज्वरशब्दो नीरोगोपदर्शकः [१] ; यतो ज्वरशब्देन चात्र सामान्येन

ebooks-esamhita-ecaraka-cikitsasthana-jvara-cikitsa/ Read More »

ebooks-esamhita-ecaraka-sutrasthana-trishotheeya-adhyaya/

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १८. त्रिशोथीयोऽध्यायः अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वाध्याये पिडका उक्ताः, ताश्च शोथरूपाः, अतः शोथाधिकारात् त्रिशोथीयोऽभिधीयते||१-२|| त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन||३|| वक्ष्यमाणद्विविधादिभेदे विद्यमानेऽपि वातादिकृतत्रित्वाभिधानमग्रे वातादिकृतस्यैव प्राधान्यख्यापनार्थम्||३|| तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते||४|| भेदनम् आशयविदारणं, क्षणनम् अस्थिचूर्णनं, भञ्जनं जर्जरीकरणं,

ebooks-esamhita-ecaraka-sutrasthana-trishotheeya-adhyaya/ Read More »

ebooks-esamhita-ecaraka-sutrasthana-arthedashmahamooleeya-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – ३०. अर्थेदशमहामूलीयोऽध्यायः   अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पारिशेष्यात् किंवा सूत्रस्थानमभिधाय तन्त्रसङ्ग्रहं वक्तुमर्थेदशमहामूलीय उच्यते| अत्र ‘अधिकृत्य कृते ग्रन्थे’ (पा. अ. ४/३/८७) इत्यनुवर्तमाने “अध्यायानुवाकयोर्लुक् च” (पा. अ. ५/२/६०) इति च्छः||१-२|| अर्थे [१] दश महामूलाः समासक्ता [२] महाफलाः|महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|आत्मा च

ebooks-esamhita-ecaraka-sutrasthana-arthedashmahamooleeya-adhyaya Read More »

ebooks-esamhita-ecaraka-vimanasthana-janapadodhvansaniya-vimana

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता विमानस्थानम् – ३. जनपदोद्ध्वंसनीयविमानम्   अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| द्विविधो हेतुर्व्याधिजनकः प्राणिनां भवति- साधारणः, असाधारणश्च; तत्रासाधारणं प्रतिपुरुषनियतं वातादिजनकमाहाराद्यभिधाय बहुजनसाधारणं वातजलदेशकालरूपं साधारणरोगकारणमभिधातुं जनपदोद्ध्वंसनीयोऽभिधीयते||१-२|| जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत्||३|| जनपदवसत्युपलक्षितं मण्डलं जनपदमण्डलं, ‘पञ्चालक्षेत्रे’ इति तस्य विशेषणम्| द्विजातिवराध्युषित

ebooks-esamhita-ecaraka-vimanasthana-janapadodhvansaniya-vimana Read More »

ebooks-esamhita-ecaraka-sutrasthana-deerghanjeeviteeya-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १. दीर्घञ्जीवितीयोऽध्यायः अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१|| गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे|त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः||१||सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः|बुद्धिदर्पणसङ्क्रान्तं जगदध्यक्षमीक्ष्यते||२||ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसुहुताशवेशचरकप्रभृतिभ्यो नमो [१] नमः||३||पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः|मनोवाक्कायदोषाणां हर्त्रेऽहिपतये [२] नमः||४||नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी|क्रियते चक्रदत्तेन टीकाऽऽयुर्वेददीपिका||५||सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वोनालं तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति|व्याख्याभासरसप्रकाशनमिदं त्वस्मिन् यदि प्राप्यतेक्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् [३] ||६||इह हि

ebooks-esamhita-ecaraka-sutrasthana-deerghanjeeviteeya-adhyaya Read More »

ebooks-esamhita-evagbhata-esangraha-dinacarya-adhyaya

Devanagari Version वाहटापरनामा वृद्धवाग्भटप्रणीतः अष्टाङ्गसङ्ग्रहः इन्दोः शशिलेखाख्यव्याख्यया संवलितः सूत्रस्थानम् – ३. दिनचर्या अथातो दिनचर्यानामाध्यायं व्याख्यास्यामः|इति ह स्माहुरात्रेयादयो महर्षयः||१|| अस्मिंन्त्रे आयुषः पालनं प्रकृतं तच्च द्विविधं स्वस्थवृत्तमातुरवृत्तञ्च| मङ्गल्यत्वात् स्वल्पवक्तव्यत्वात् आतुरोपयोगित्वाच्च स्वस्थवृत्तमेवादावुच्यते- अथातो दिनचर्यामित्यादि| प्रतिदिनं कर्त्तव्या चर्या दिनचर्या|| १|| ब्राह्मे मुहूर्त उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्|रक्षार्थमायुषः स्वस्थः………………..||२|| किं तदित्याह- ब्राह्म इति| स्वस्थो नीरोगः| आयुषो यथोपचितस्य रक्षार्थम्| ब्राह्मे मुहूर्ते उत्तिष्ठेत्| मुहूर्तो नाडिकाद्वयम्|

ebooks-esamhita-evagbhata-esangraha-dinacarya-adhyaya Read More »

ebooks-esamhita-evagbhata-ehrudayam-dinacarya-adhyaya

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् २. दिनचर्याध्यायः अथातो दिनचर्याध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| स०-अथेति सर्वेष्वध्यायेषु मङ्गलार्थः| तथा अत इत्यानन्तर्ये प्रस्तुताभिसम्बन्धे वा| अथेत्यादिशब्दानां पूर्वाध्याये वर्णित एवार्थः| माङ्गलिको ह्याचार्यः प्रत्यध्यायारम्भे मङ्गलार्थमथशब्दं प्रयुङ्क्ते| दिने दिने चर्या दिनचर्या, दिनस्य वा चर्या दिनचर्या| चरणं चर्या| उभयलोकहितमाहारविहारचेष्टितमिति यावत्, प्रतिदिने यत्कर्तव्यम्| दिनचर्या यस्मिन्नध्यायेऽस्तीति

ebooks-esamhita-evagbhata-ehrudayam-dinacarya-adhyaya Read More »