ebooks-enighantu-bhavaprakasha-nighantu-amradiphalavarga

Devanagari Version

||श्रीभावमिश्रविरचित||

भावप्रकाशनिघण्टु

[भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण]

७. आम्रादिफलवर्ग

आम्र
आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः |
कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ||१||

आम्रपुष्प
आम्रपुष्पमतीसारकफपित्तप्रमेहनुत् |
असृग्दुष्टिहरं शीतं रुचिकृद्ग्राहि वातलम् ||२||

आम्रफल
आम्रं बालं कषायाम्लं रुच्यं मारुतपित्तकृत् |
तरुणं तु तदत्यम्लं रूक्षं दोषत्रयास्रकृत् ||३||

आमाम्रफल
आम्रमामं त्वचा हीनमातपातिविशोषितम् |
अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित् ||४||

पक्वाम्रफल
पक्वं तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम् |
गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम् |
कषायानुरसं वह्निश्लेष्मशुक्रविवर्धनम् ||५||
तदेव वृक्षसम्पक्वं गुरु वातहरं परम् |
मधुराम्लरसं किञ्चिद्भवेत्पित्तप्रकोपणम् ||६||
आम्रं कृत्रिमपक्वञ्च तद्भवेत्पित्तनाशनम् |
रसस्याम्लस्य हीनस्तु माधुर्याच्च विशेषतः ||७||
चोषितं तत्परं रुच्यं बल्यं वीर्यकरं लघु |
शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम् ||८||
तद्रसो गालितो बल्यो गुरुर्वातहरः सरः |
अहृद्यस्तर्पणोऽतीव बृंहणः कफवर्धनः ||९||
तस्य खण्डं गुरु परं रोचनं चिरपाकि च |
मधुरं बृंहणं बल्यं शीतलं वातनाशनम् ||१०||
वातपित्तहरं रुच्यं बृंहणं बलवर्धनम् |
वृष्यं वर्णकरं स्वादु दुग्धाम्रं गुरु शीतलम् ||११||

आम्रातियोग
मन्दानलत्वं विषमज्वरं च रक्तामयं बद्धगुदोदरं च |
आम्रातियोगो नयनामयं वा करोति तस्मादति तानि नाद्यात् ||१२||
एतदम्लाम्रविषयं मधुराम्लपरं न तु |
मधुरस्य परं नेत्रहितत्वाद्या गुणा यतः ||१३||
शुण्ठ्याम्भसोऽनुपानं स्यादाम्राणामतिभक्षणे |
जीरकं वा प्रयोक्तव्यं सह सौवर्चलेन च ||१४||

आम्रावर्त
पक्वस्य सहकारस्य पटे विस्तारितो रसः |
घर्मशुष्को मुहुर्दत्त आम्रावर्त इति स्मृतः ||१५||
आम्रावर्तस्तृषाच्छर्दिवातपित्तहरः सरः |
रुच्यः सूर्यांशुभिः पाकाल्लघुश्च स हि कीर्तितः ||१६||

आम्रबीज
आम्रबीजं कषायं स्याच्छर्द्यतीसारनाशनम् |
ईषदम्लञ्च मधुरं तथा हृदयदाहनुत् ||१७||

आम्रपल्लव
आम्रस्य पल्लवो रुच्यः कफपित्तविनाशनः ||१८||

आम्रातक
आम्रातकः पीतनश्च मर्कटाम्रः कपीतनः |
आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्सरम् |
पक्वन्तु तुवरं स्वादु रसे पाके हिमं स्मृतम् |
तर्पणं श्लेष्मलं स्निग्धं वृष्यं विष्टम्भि बृंहणम् |
गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित् ||१९||

राजाम्र
राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्रकः |
राजाम्रं तुवरं स्वादु विशदं शीतलं गुरु |
ग्राहि रूक्षं विबन्धाध्मवातकृत्कफपित्तनुत् ||२०||

कोशाम्र
कोशाम्र उक्तः क्षुद्राम्रः कृमिवृक्षः सुकोशकः |
कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः |
तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् |
पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातनुत् ||२१||

पनस
पनशः कण्टकिफलः पलसोऽतिबृहत्फलः |
पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् |
तर्पणं बृंहणं स्वादु मांसलं श्लेष्मलं भृशम् ||२२||
बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतव्रणान् |
आमं तदेव विष्टम्भि वातलं तुवरं गुरु |
दाहकृन्मधुरं बल्यं कफमेदोविवर्धनम् ||२३||
पनसोद्भूतबीजानि वृष्याणि मधुराणि च |
गुरूणि बद्धविट्कानि सृष्टमूत्राणि संवदेत् ||२४||
मज्जा पनसजो वृष्यो वातपित्तकफापहः |
विशेषात्पनसो वर्ज्यो गुल्मिभिर्मन्दवह्निभिः ||२५||

लकुच
लकुचः क्षुद्रपनसो लिकुचो डहुरित्यपि |
आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा |
मधुरञ्च तथाऽम्लञ्च दोषत्रितयरक्तकृत् ||२६||
शुक्राग्निनाशनं वाऽपि नेत्रयोरहितं स्मृतम् |
सुपक्वं तत्तु मधुरमम्लं चानिलपित्तहृत् |
कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत् ||२७||

कदली
कदली वारणा मोचाम्बुसारांशुमतीफला |
मोचाफलं स्वादु शीतं विष्टम्भि कफकृद् गुरु |
स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित् ||२८||
पक्वं स्वादु हिमं पाके स्वादु वृष्यञ्च बृंहणम् |
क्षुत्तृष्णानेत्रगदहृन्मेहघ्नं रुचिमांसकृत् ||२९||
माणिक्यमर्त्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति |
उक्ता गुणास्तेष्वधिका भवन्ति निर्दोषता स्याल्लघुता च तेषाम् ||३०||

चिर्भिट
चिर्भिटं धेनुदग्धं च तथा गोरक्षकर्कटी |
चिर्भिटं मधुरं रूक्षं गुरु पित्तकफापहम् |
अनुष्णं ग्राहि विष्टम्भि पक्वं तूष्णञ्च पित्तलम् ||३१||

नारिकेर
नारिकेरो दृढफलो लाङ्गली कूर्चशीर्षकः |
तुङ्गः स्कन्धफलश्चैव तृणराजः सदाफलः ||३२||
नारिकेरफलं शीतं दुर्जरं वस्तिशोधनम् |
विष्टम्भि बृंहणं बल्यं वातपित्तास्रदाहनुत् ||३३||
विशेषतः कोमलनारिकेरं निहन्ति पित्तज्वरपित्तदोषान् |
तदेव जीर्णं गुरु पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः ||३४||
तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु |
पिपासापित्तजित्स्वादु बस्तिशुद्धिकरं परम् ||३५||
नारिकेरस्य तालस्य खर्जूरस्य शिरांसि तु |
कषायस्निग्धमधुरबृंहणानि गुरूणि च ||३६||

कालिन्द
कालिन्दं कृष्णबीजं स्यात्कालिङ्गञ्च सुवर्त्तुलम् |
कालिन्दं ग्राहि दृक्पित्तशुक्रहृच्छीतलं गुरु |
पक्वन्तु सोष्णं सक्षारं पित्तलं कफवातजित् ||३७||

खर्बूज
दशाङ्गुलं तु खर्बूजं कथ्यन्ते तद्गुणा अथ |
खर्बूजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु |
स्निग्धं स्वादुतरं शीतं वृष्यं पित्तानिलापहम् ||३८||
तेषु यच्चाम्लमधुरं सक्षारञ्च रसाद्भवेत् |
रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम् ||३९||

त्रपुस
त्रपुसं कण्टकिफलं सुधावासः सुशीतलम् |
त्रपुसं लघु नीलञ्च नवं तृट्क्लमदाहजित् |
स्वादु पित्तापहं शीतं रक्तपित्तहरं परम् ||४०||
तत्पक्वमम्लमुष्णं स्यात्पित्तलं कफवातनुत् |
तद्बीजं मूत्रलं शीतं रूक्षं पित्तास्रकृच्छ्रजित् ||४१||

पूग
पूगी पूगश्च घोरण्टः गुवाकः क्रमुकोऽस्य तु |
फलं पूगीफलं प्रोक्तमुद्वेगं च तदीरितम् ||४२||
पूगं गुरु हिमं रूक्षं कषायं कफपित्तजित् |
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम् ||४३||
आर्द्रं तद्गुर्वभिष्यन्दि वह्निदृष्टिहरं स्मृतम् |
स्विन्नं दोषत्रयच्छेदि दृढमध्यं तदुत्तमम् ||४४||

ताल
तालस्तु लेखपत्रः स्यात्तृणराजो महोन्नतः |
पक्वं तालफलं पित्तरक्तश्लेष्मविवर्द्धनम् |
दुर्जरं बहुमूत्रञ्च तन्द्राभिष्यन्दशुक्रदम् ||४५||
तालमज्जा तु तरुणः किञ्चिन्मदकरो लघुः |
श्लेष्मलो वातपित्तघ्नः सस्नेहो मधुरः सरः ||४६||
तालजं तरुणं तोयमतीव मदकृन्मतम् |
अम्लीभूतं तदा तु स्यात्पित्तकृद्वातदोषहृत् ||४७||

बिल्व, कपित्थ
बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि |
बालं बिल्वफलं बिल्वकर्कटी बिल्वपेषिका ||४८||
ग्राहिणी कफवातामशूलघ्नी बिल्वपेशिका |
बालं बिल्वफलं ग्राहि दीपनं पाचनं कटु |
कषायोष्णं लघु स्निग्धं तिक्तं वातकफापहम् ||४९||
पक्वं गुरु त्रिदोषं स्याद् दुर्जरं पूतिमारुतम् |
विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत् ||५०||
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् |
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम् |
द्राक्षाबिल्वशिवादीनां फलं शुष्कं गुणाधिकम् ||५१||
कपित्थ-
कपित्थस्तु दधित्थः स्यात्तथा पुष्पफलः स्मृतः |
कपिप्रियो दधिफलस्तथा दन्तशठोऽपि च ||५२||
कपित्थमामं संग्राहि कषायं लघु लेखनम् |
पक्वं गुरु तृषाहिक्काशमनं वातपित्तजित् |
स्यादम्लं तुवरं कण्ठशोधनं ग्राहि दुर्जरम् ||५३||

नारङ्ग
नारङ्गो नागरङ्गः स्यात्त्वक्सुगन्धो मुखप्रियः |
नारङ्गो मधुराम्लः स्याद्रोचनो वातनाशनः |
अपरं त्वम्लमत्युष्णं दुर्जरं वातहृत् सरम् ||५४||

तिन्दुक
तिन्दुकः स्फूर्जकः कालस्कन्धश्चासितकारकः |
स्यादामं तिन्दुकं ग्राहि वातलं शीतलं लघु |
पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु ||५५||

कुपीलु
तिन्दुको यस्तु कथितो जलदो दीर्घपत्रकः |
कुपीलुः कुलकः काकतिन्दुकः काकपीलुकः |
काकेन्दुर्विषतिन्दुश्च मर्कटतिन्दुकः ||५६||
कुपीलुः शीतलस्तिक्तो वातलो मदकृल्लघुः |
पादव्यथाहरो ग्राही कफपित्तास्रनाशनः ||५७||

राजजम्बू
फलेन्द्रा कथिता नन्दी राजजम्बूर्महाफला |
तथा सुरभिपत्रा च महाजम्बूरपि स्मृता |
राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम् ||५८||

जलजम्बु
क्षुद्राजम्बुः सूक्ष्मपत्रा नादेयी जलजम्बुका |
जम्बूः संग्राहिणी रूक्षा कफपित्तास्रदाहजित् ||५९||

बदरी
पुंसि स्त्रियाञ्च कर्कन्धूर्बदरी कोलमित्यपि |
फेनिलं कुवलं घोण्टा सौवीरं बदरं महत् |
अजप्रिया कुहा कोली विषमोभयकण्टका ||६०||
पच्यमानं सुमधुरं सौवीरं बदरं महत् |
सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम् ||६१||
बृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् |
सौवीरं लघु सम्पक्वं मधुरं कोलमुच्यते ||६२||
कोलं तु बदरं ग्राहि रुच्यमुष्णञ्च वातलम् |
कफपित्तकरं चापि गुरु सारकमीरितम् ||६३||
कर्कन्धूः क्षुद्रबदरं कथितं पूर्वसूरिभिः |
अम्लं स्यात्क्षुद्रबदरं कषायं मधुरं मनाक् ||६४||
स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् |
शुष्कं भेद्यग्निकृत्सर्वं लघुतृष्णाक्लमास्रजित् ||६५||

प्राचीनामलक
प्राचीनामलकं लोके पानीयामलकं स्मृतम् |
प्राचीनामलकं दोषत्रयजिज्ज्वरघाति च ||६६||

लवली
सुगन्धमूला लवली पाण्डुः कोमलवल्कला |
लवलीफलमश्मार्शःकफपित्तहरं गुरु |
विशदं रोचनं रूक्षं स्वाद्वम्लं तुवरं रसे ||६७||

करमर्द
करमर्दः सुषेणः स्यात्कृष्णपाकफलस्तथा |
तस्माल्लघुफला या तु सा ज्ञेया करमर्दिका ||६८||
करमर्दद्वयं त्वाममम्लं गुरु तृषाहरम् |
उष्णं रुचिकरं प्रोक्तं रक्तपित्तकफप्रदम् |
तत्पक्वं मधुरं रुच्यं लघु पित्तसमीरजित् ||६९||

प्रियाल
प्रियालस्तु खरस्कन्धश्चारो बहुलवल्कलः |
राजादनस्तापसेष्टः सन्नकद्रुर्धनुष्पटः ||७०||
चारः पित्तकफास्रघ्नस्तत्फलं मधुरं गुरु |
स्निग्धं सरं मरुत्पित्तदाहज्वरतृषापहम् ||७१||
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः |
हृद्योऽतिदुर्जरः स्निग्धो विष्टम्भी चामवर्धनः ||७२||

राजादन
राजादनः फलाध्यक्षो राजन्या क्षीरिकापि च |
क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु |
तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित् ||७३||

विकङ्कत
विकङ्कतः स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः |
स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि |
विकङ्कतफलं पक्वं मधुरं सर्वदोषजित् ||७४||

पद्मबीज
पद्मबीजं तु पद्माक्षं गालोड्यं पद्मकर्कटी |
पद्मबीजं हिमं स्वादु कषायं तिक्तकं गुरु |
विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम् |
कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत् ||७५||

मखान्न
मखान्नं पद्मबीजाभं पानीयफलमित्यपि |
मखान्नं पद्मबीजस्य गुणैस्तुल्यं विनिर्दिशेत् ||७६||

शृङ्गाटक
शृङ्गाटकं जलफलं त्रिकोणफलमित्यपि |
शृङ्गाटकं हिमं स्वादु गुरु वृष्यं कषायकम् |
ग्राही शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनुत् ||७७||

कैरविणीफल
उक्तं कुमुदबीजन्तु बुधैः कैरविणीफलम् |
भवेत्कुमुद्वतीबीजं स्वादु रूक्षं हिमं गुरु ||७८||

मधूक
मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः |
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ||७९||
मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् |
बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ||८०||
फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् |
अहृद्यं हन्ति तृष्णाऽस्रदाहश्वासक्षतक्षयान् ||८१||

परूषक
परूषकं तु परुषमल्पास्थि च परापरम् |
परूषकं कषायाम्लमामं पित्तकरं लघु |
तत्पक्वं मधुरं पाके शीतं विष्टम्भि बृंहणम् |
हृद्यन्तु पित्तदाहास्रज्वरक्षयसमीरहृत् ||८२||

तूत
तूतः स्थूलश्च पूगश्च क्रमुको ब्रह्मदारु च |
तूतं पक्वं गुरु स्वादु हिमं पित्तानिलापहम् |
तदेवामं गुरु सरमम्लोष्णं रक्तपित्तकृत् ||८३||

दाडिम
दाडिमः करको दन्तबीजो लोहितपुष्पकः |
तत्फलं त्रिविधं स्वादु स्वाद्वम्लं केवलाम्लकम् |
तत्तु स्वादु त्रिदोषघ्नं तृड्दाहज्वरनाशनम् ||८४||
हृत्कण्ठमुखगन्धघ्नं तर्पणं शुक्रलं लघु |
कषायानुरसं ग्राहि स्निग्धं मेधाबलावहम् ||८५||
स्वाद्वम्लं दीपनं रुच्यं किञ्चित्पित्तकरं लघु |
अम्लन्तु पित्तजनकमम्लं वातकफापहम् ||८६||

बहुवार
बहुवारस्तु शीतः स्यादुद्दालो बहुवारकः |
शेलुः श्लेष्मातकश्चापि पिच्छिलो भूतवृक्षकः ||८७||
बहुवारो विषस्फोटव्रणवीसर्पकुष्ठनुत् |
मधुरस्तुवरस्तिक्तः केश्यश्च कफपित्तहृत् ||८८||
फलमामन्तु विष्टम्भि रूक्षं पित्तकफास्रजित् |
तत्पक्वं मधुरं स्निग्धं श्लेष्मलं शीतलं गुरु ||८९||

कतक
पयःप्रसादिः कतकः कतकं तत्फलं च तत् |
कतकस्य फलं नेत्र्यं जलनिर्मलताकरम् |
वातश्लेष्महरं शीतं मधुरं तुवरं गुरु ||९०||

द्राक्षा
द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसाऽपि च |
मृद्वीका हारहूरा च गोस्तनी चापि कीर्तिता ||९१||
द्राक्षा पक्वा सरा शीता चक्षुष्या बृंहणी गुरुः |
स्वादुपाकरसा स्वर्या तुवरा सृष्टमूत्रविट् ||९२||
कोष्ठमारुतकृद् वृष्या कफपुष्टिरुचिप्रदा |
हन्ति तृष्णाज्वरश्वासवातवातास्रकामलाः ||९३||
कृच्छ्रास्रपित्तसंमोहदाहशोषमदात्ययान् |
आमा स्वल्पगुणा गुर्वी सैवाम्ला रक्तपित्तकृत् |
वृष्या स्याद् गोस्तनी द्राक्षा गुर्वी च कफपित्तनुत् ||९४||
अबीजाऽन्या स्वल्पतरा गोस्तनीसदृशी गुणैः |
द्राक्षा पर्वतजा लघ्वी साऽम्ला श्लेष्माम्लपित्तकृत् ||९५||
द्राक्षा पर्वतजा यादृक् तादृशी करमर्दिका ||९६||

खर्जूरत्रय
भूमिखर्जूरिका स्वाद्वी दुरारोहा मृदुच्छदा |
तथा स्कन्धफला काककर्कटी स्वादुमस्तका ||९७||
पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत् |
खर्जूरी गोस्तनाकारा परद्वीपादिहागता |
जायते पश्चिमे देशे सा च्छोहारेति कीर्त्यते ||९८||
खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः |
स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु ||९९||
तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम् |
कोष्ठमारुतहृद् बल्यं वान्तिवातकफापहम् ||१००||
ज्वरातिसारक्षुत्तृष्णाकासश्वासनिवारकम् |
मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् |
महतीभ्यां गुणैरल्पा स्वल्पखर्जूरिका स्मृता ||१०१||
खर्जूरीतरुतोयं तु मदपित्तकरं भवेत् |
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् |
सुलेमानी तु मृदुला दलहीनफला च सा |
सुलेमानी श्रमभ्रान्तिदाहमूर्च्छाऽस्रपित्तहृत् ||१०२||

वाताद
वातादो वातवैरी स्यान्नेत्रोपमफलस्तथा |
वातादः उष्णः सुस्निग्धो वातघ्नः शुक्रकृद् गुरुः |
वातादमज्जा मधुरो वृष्यः पित्तानिलापहः |
स्निग्धोष्णः कफकृन्नेष्टो रक्तपित्तविकारिणाम् ||१०३||

सेव
मुष्टिप्रमाणं बदरं सेवं सिवितिकाफलम् |
सेवं समीरपित्तघ्नं बृंहणं कफकृद्गुरु |
रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् ||१०४||

अमृतफल
अमृतफलं लघु वृष्यं सुस्वादु त्रीन्हरेद्दोषान् |
देशेषु मुद्गलानां बहुलं तल्लभ्यते लोकैः ||१०५||

पीलु
पीलुर्गुलफलः स्रंसी तथा शीतफलोऽपि च |
पीलु श्लेष्मसमीरघ्नं पित्तलं भेदि गुल्मनुत् |
स्वादु तिक्तञ्च यत्पीलु तन्नात्युष्णं त्रिदोषहृत् ||१०६||

अक्षोट
पीलुः शैलभवोऽक्षोटः कर्परालश्च कीर्तितः |
अक्षोटकोऽपि वातादसदृशः कफपित्तकृत् ||१०७||

बीजपूर
बीजपूरो मातुलुङ्गो रुचकः फलपूरकः |
बीजपूरफलं स्वादु रसेऽम्लं दीपनं लघु |
रक्तपित्तहरं कण्ठजिह्वाहृदयशोधनम् |
श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम् ||१०८||

मधुकर्कटी
बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी |
मधुकर्कटिका स्वाद्वी रोचनी शीतलाः गुरुः |
रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा ||१०९||

जम्बीरद्वय
स्याज्जम्बीरो दन्तशठो जम्भजम्भीरजम्भलाः |
जम्बीरमुष्णं गुर्वम्लं वातश्लेष्मविबन्धनुत् |
शूलकासकफोत्क्लेशच्छर्दितृष्णामदोषजित् ||११०||
आस्यवैरस्यहृत्पीडावह्निमान्द्यकृमीन्हरेत् |
स्वल्पजम्बीरिका तद्वत्तृष्णाच्छर्दिनिवारिणी ||१११||

निम्बूक
निम्बूः स्त्री निम्बुकं क्लीबे निम्बूकमपि कीर्तितम् |
निम्बूकमम्लं वातघ्नं दीपनं पाचनं लघु |
निम्बुकं कृमिसमूहनाशनं तीक्ष्णमम्लमुदरग्रहापहम् |
वातपित्तकफशूलिने हितं कष्टनष्टरुचिरोचनं परम् ||११२||
त्रिदोषवह्निक्षयवातरोगनिपीडितानां विषविह्वलानाम् |
मन्दानले बद्धगुदे प्रदेयं विषूचिकायां मुनयो वदन्ति ||११३||

मिष्टनिम्बूफल
मिष्टनिम्बूफलं स्वादु गुरु मारुतपित्तनुत् |
गररोगविषध्वंसि कफोत्क्लेशि च रक्तहृत् |
शोषारुचितृषाच्छर्दिहरं बल्यञ्च बृंहणम् ||११४||

कर्मरङ्ग
(कर्मरङ्गं शिरालं च बृहदम्लं रुजाकरम्) |
कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातहृत् ||११५||

अम्लिका
अम्लिका चुक्रिकाम्ली च चुक्रा दन्तशठापि च |
अम्ला च चिञ्चिका चिञ्चा तिन्तिडीका च तिन्तिडी ||११६||
अम्लिकाऽम्ला गुरुर्वातहरी पित्तकफास्रकृत् |
पक्वा तु दीपनी रूक्षा सरोष्णा कफवातनुत् ||११७||

अम्लवेतस
स्यादम्लवेतसश्चुक्रं शतवेधि सहस्रनुत् |
अम्लवेतसमत्यम्लं भेदनं लघु दीपनम् |
हृद्रोगशूलगुल्मघ्नं पित्तलं लोमहर्षणम् ||११८||
रूक्षं विण्मूत्रदोषघ्नं प्लीहोदावर्तनाशनम् |
हिक्कानाहारुचिश्वासकासाजीर्णवमिप्रणुत् ||११९||
कफवातामयध्वंसि च्छागमांसद्रवत्वकृत् |
चणकाम्लगुणं ज्ञेयं लोहसूचीद्रवत्वकृत् ||१२०||

वृक्षाम्ल
वृक्षाम्लं तिन्तिडीकञ्च चुक्रं स्यादम्लवृक्षकम् |
वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् |
पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु ||१२१||
अम्लोष्णं रोचनं रूक्षं दीपनं कफवातकृत् |
तृष्णार्शोग्रहणीगुल्मशूलहृद्रोगजन्तुजित् ||१२२||

चतुरम्ल, पञ्चाम्ल
अम्लवेतसवृक्षाम्लबृहज्जम्बीरनिम्बुकैः |
चतुरम्लं हि पञ्चाम्लं बीजपूरयुतैर्भवेत् ||१२३||

परिभाषा
फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम् |
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम् ||१२४||
फलेषु सरसं यत्स्याद् गुणवत्तदुदाहृतम् |
द्राक्षाबिल्वशिवादीनां फलं शुष्कं गुणाधिकम् ||१२५||
फलतुल्यगुणं सर्वं मज्जानमपि निर्दिशेत् |
फलं हिमाग्निदुर्वातव्यालकीटादिदूषितम् |
अकालजं कुभूमिजं पाकातीतं न भक्षयेत् |
पाकातीतं पाकमतिक्रम्य स्थितम् ||१२६||

पुष्पिका
इति श्रीलटकनमिश्रतनयश्रीभावमिश्रविरचिते भावप्रकाशे
पूर्वखण्डे मिश्रप्रकरणे सप्तमः आम्रादिफलवर्गः समाप्तः |

Diacritic Version

||śrībhāvamiśraviracita||

Bhāvaprakāśanighaṇṭu

[bhāvaprakāśa-pūrvakhaṇḍa-prathamabhāga]

7. āmrādiphalavarga

āmra
āmraḥ prōktō rasālaśca sahakārō’tisaurabhaḥ |
kāmāṅgō madhudūtaśca mākandaḥ pikavallabhaḥ ||1||

āmrapuṣpa
āmrapuṣpamatīsārakaphapittapramēhanut |
asr̥gduṣṭiharaṁ śītaṁ rucikr̥dgrāhi vātalam ||2||

āmraphala
āmraṁ bālaṁ kaṣāyāmlaṁ rucyaṁ mārutapittakr̥t |
taruṇaṁ tu tadatyamlaṁ rūkṣaṁ dōṣatrayāsrakr̥t ||3||

āmāmraphala
āmramāmaṁ tvacā hīnamātapātiviśōṣitam |
amlaṁ svādu kaṣāyaṁ syādbhēdanaṁ kaphavātajit ||4||

pakvāmraphala
pakvaṁ tu madhuraṁ vr̥ṣyaṁ snigdhaṁ balasukhapradam |
guru vātaharaṁ hr̥dyaṁ varṇyaṁ śītamapittalam |
kaṣāyānurasaṁ vahniślēṣmaśukravivardhanam ||5||
tadēva vr̥kṣasampakvaṁ guru vātaharaṁ param |
madhurāmlarasaṁ kiñcidbhavētpittaprakōpaṇam ||6||
āmraṁ kr̥trimapakvañca tadbhavētpittanāśanam |
rasasyāmlasya hīnastu mādhuryācca viśēṣataḥ ||7||
cōṣitaṁ tatparaṁ rucyaṁ balyaṁ vīryakaraṁ laghu |
śītalaṁ śīghrapāki syādvātapittaharaṁ saram ||8||
tadrasō gālitō balyō gururvātaharaḥ saraḥ |
ahr̥dyastarpaṇō’tīva br̥ṁhaṇaḥ kaphavardhanaḥ ||9||
tasya khaṇḍaṁ guru paraṁ rōcanaṁ cirapāki ca |
madhuraṁ br̥ṁhaṇaṁ balyaṁ śītalaṁ vātanāśanam ||10||
vātapittaharaṁ rucyaṁ br̥ṁhaṇaṁ balavardhanam |
vr̥ṣyaṁ varṇakaraṁ svādu dugdhāmraṁ guru śītalam ||11||

āmrātiyōga
mandānalatvaṁ viṣamajvaraṁ ca raktāmayaṁ baddhagudōdaraṁ ca |
āmrātiyōgō nayanāmayaṁ vā karōti tasmādati tāni nādyāt ||12||
ētadamlāmraviṣayaṁ madhurāmlaparaṁ na tu |
madhurasya paraṁ nētrahitatvādyā guṇā yataḥ ||13||
śuṇṭhyāmbhasō’nupānaṁ syādāmrāṇāmatibhakṣaṇē |
jīrakaṁ vā prayōktavyaṁ saha sauvarcalēna ca ||14||

āmrāvarta
pakvasya sahakārasya paṭē vistāritō rasaḥ |
gharmaśuṣkō muhurdatta āmrāvarta iti smr̥taḥ ||15||
āmrāvartastr̥ṣācchardivātapittaharaḥ saraḥ |
rucyaḥ sūryāṁśubhiḥ pākāllaghuśca sa hi kīrtitaḥ ||16||

āmrabīja
āmrabījaṁ kaṣāyaṁ syācchardyatīsāranāśanam |
īṣadamlañca madhuraṁ tathā hr̥dayadāhanut ||17||

āmrapallava
āmrasya pallavō rucyaḥ kaphapittavināśanaḥ ||18||

āmrātaka
āmrātakaḥ pītanaśca markaṭāmraḥ kapītanaḥ |
āmrātamamlaṁ vātaghnaṁ gurūṣṇaṁ rucikr̥tsaram |
pakvantu tuvaraṁ svādu rasē pākē himaṁ smr̥tam |
tarpaṇaṁ ślēṣmalaṁ snigdhaṁ vr̥ṣyaṁ viṣṭambhi br̥ṁhaṇam |
guru balyaṁ marutpittakṣatadāhakṣayāsrajit ||19||

rājāmra
rājāmraṣṭaṅka āmrātaḥ kāmāhvō rājaputrakaḥ |
rājāmraṁ tuvaraṁ svādu viśadaṁ śītalaṁ guru |
grāhi rūkṣaṁ vibandhādhmavātakr̥tkaphapittanut ||20||

kōśāmra
kōśāmra uktaḥ kṣudrāmraḥ kr̥mivr̥kṣaḥ sukōśakaḥ |
kōśāmraḥ kuṣṭhaśōthāsrapittavraṇakaphāpahaḥ |
tatphalaṁ grāhi vātaghnamamlōṣṇaṁ guru pittalam |
pakvantu dīpanaṁ rucyaṁ laghūṣṇaṁ kaphavātanut ||21||

panasa
panaśaḥ kaṇṭakiphalaḥ palasō’tibr̥hatphalaḥ |
panasaṁ śītalaṁ pakvaṁ snigdhaṁ pittānilāpaham |
tarpaṇaṁ br̥ṁhaṇaṁ svādu māṁsalaṁ ślēṣmalaṁ bhr̥śam ||22||
balyaṁ śukrapradaṁ hanti raktapittakṣatavraṇān |
āmaṁ tadēva viṣṭambhi vātalaṁ tuvaraṁ guru |
dāhakr̥nmadhuraṁ balyaṁ kaphamēdōvivardhanam ||23||
panasōdbhūtabījāni vr̥ṣyāṇi madhurāṇi ca |
gurūṇi baddhaviṭkāni sr̥ṣṭamūtrāṇi saṁvadēt ||24||
majjā panasajō vr̥ṣyō vātapittakaphāpahaḥ |
viśēṣātpanasō varjyō gulmibhirmandavahnibhiḥ ||25||

lakuca
lakucaḥ kṣudrapanasō likucō ḍahurityapi |
āmaṁ lakucamuṣṇañca guru viṣṭambhakr̥ttathā |
madhurañca tathā’mlañca dōṣatritayaraktakr̥t ||26||
śukrāgnināśanaṁ vā’pi nētrayōrahitaṁ smr̥tam |
supakvaṁ tattu madhuramamlaṁ cānilapittahr̥t |
kaphavahnikaraṁ rucyaṁ vr̥ṣyaṁ viṣṭambhakañca tat ||27||

kadalī
kadalī vāraṇā mōcāmbusārāṁśumatīphalā |
mōcāphalaṁ svādu śītaṁ viṣṭambhi kaphakr̥d guru |
snigdhaṁ pittāsratr̥ḍdāhakṣatakṣayasamīrajit ||28||
pakvaṁ svādu himaṁ pākē svādu vr̥ṣyañca br̥ṁhaṇam |
kṣuttr̥ṣṇānētragadahr̥nmēhaghnaṁ rucimāṁsakr̥t ||29||
māṇikyamarttyāmr̥tacampakādyā bhēdāḥ kadalyā bahavō’pi santi |
uktā guṇāstēṣvadhikā bhavanti nirdōṣatā syāllaghutā ca tēṣām ||30||

cirbhiṭa
cirbhiṭaṁ dhēnudagdhaṁ ca tathā gōrakṣakarkaṭī |
cirbhiṭaṁ madhuraṁ rūkṣaṁ guru pittakaphāpaham |
anuṣṇaṁ grāhi viṣṭambhi pakvaṁ tūṣṇañca pittalam ||31||

nārikēra
nārikērō dr̥ḍhaphalō lāṅgalī kūrcaśīrṣakaḥ |
tuṅgaḥ skandhaphalaścaiva tr̥ṇarājaḥ sadāphalaḥ ||32||
nārikēraphalaṁ śītaṁ durjaraṁ vastiśōdhanam |
viṣṭambhi br̥ṁhaṇaṁ balyaṁ vātapittāsradāhanut ||33||
viśēṣataḥ kōmalanārikēraṁ nihanti pittajvarapittadōṣān |
tadēva jīrṇaṁ guru pittakāri vidāhi viṣṭambhi mataṁ bhiṣagbhiḥ ||34||
tasyāmbhaḥ śītalaṁ hr̥dyaṁ dīpanaṁ śukralaṁ laghu |
pipāsāpittajitsvādu bastiśuddhikaraṁ param ||35||
nārikērasya tālasya kharjūrasya śirāṁsi tu |
kaṣāyasnigdhamadhurabr̥ṁhaṇāni gurūṇi ca ||36||

kālinda
kālindaṁ kr̥ṣṇabījaṁ syātkāliṅgañca suvarttulam |
kālindaṁ grāhi dr̥kpittaśukrahr̥cchītalaṁ guru |
pakvantu sōṣṇaṁ sakṣāraṁ pittalaṁ kaphavātajit ||37||

kharbūja
daśāṅgulaṁ tu kharbūjaṁ kathyantē tadguṇā atha |
kharbūjaṁ mūtralaṁ balyaṁ kōṣṭhaśuddhikaraṁ guru |
snigdhaṁ svādutaraṁ śītaṁ vr̥ṣyaṁ pittānilāpaham ||38||
tēṣu yaccāmlamadhuraṁ sakṣārañca rasādbhavēt |
raktapittakaraṁ tattu mūtrakr̥cchrakaraṁ param ||39||

trapusa
trapusaṁ kaṇṭakiphalaṁ sudhāvāsaḥ suśītalam |
trapusaṁ laghu nīlañca navaṁ tr̥ṭklamadāhajit |
svādu pittāpahaṁ śītaṁ raktapittaharaṁ param ||40||
tatpakvamamlamuṣṇaṁ syātpittalaṁ kaphavātanut |
tadbījaṁ mūtralaṁ śītaṁ rūkṣaṁ pittāsrakr̥cchrajit ||41||

pūga
pūgī pūgaśca ghōraṇṭaḥ guvākaḥ kramukō’sya tu |
phalaṁ pūgīphalaṁ prōktamudvēgaṁ ca tadīritam ||42||
pūgaṁ guru himaṁ rūkṣaṁ kaṣāyaṁ kaphapittajit |
mōhanaṁ dīpanaṁ rucyamāsyavairasyanāśanam ||43||
ārdraṁ tadgurvabhiṣyandi vahnidr̥ṣṭiharaṁ smr̥tam |
svinnaṁ dōṣatrayacchēdi dr̥ḍhamadhyaṁ taduttamam ||44||

tāla
tālastu lēkhapatraḥ syāttr̥ṇarājō mahōnnataḥ |
pakvaṁ tālaphalaṁ pittaraktaślēṣmavivarddhanam |
durjaraṁ bahumūtrañca tandrābhiṣyandaśukradam ||45||
tālamajjā tu taruṇaḥ kiñcinmadakarō laghuḥ |
ślēṣmalō vātapittaghnaḥ sasnēhō madhuraḥ saraḥ ||46||
tālajaṁ taruṇaṁ tōyamatīva madakr̥nmatam |
amlībhūtaṁ tadā tu syātpittakr̥dvātadōṣahr̥t ||47||

bilva, kapittha
bilvaḥ śāṇḍilyaśailūṣau mālūraśrīphalāvapi |
bālaṁ bilvaphalaṁ bilvakarkaṭī bilvapēṣikā ||48||
grāhiṇī kaphavātāmaśūlaghnī bilvapēśikā |
bālaṁ bilvaphalaṁ grāhi dīpanaṁ pācanaṁ kaṭu |
kaṣāyōṣṇaṁ laghu snigdhaṁ tiktaṁ vātakaphāpaham ||49||
pakvaṁ guru tridōṣaṁ syād durjaraṁ pūtimārutam |
vidāhi viṣṭambhakaraṁ madhuraṁ vahnimāndyakr̥t ||50||
phalēṣu paripakvaṁ yadguṇavattadudāhr̥tam |
bilvādanyatra vijñēyamāmaṁ taddhi guṇādhikam |
drākṣābilvaśivādīnāṁ phalaṁ śuṣkaṁ guṇādhikam ||51||
kapittha-
kapitthastu dadhitthaḥ syāttathā puṣpaphalaḥ smr̥taḥ |
kapipriyō dadhiphalastathā dantaśaṭhō’pi ca ||52||
kapitthamāmaṁ saṁgrāhi kaṣāyaṁ laghu lēkhanam |
pakvaṁ guru tr̥ṣāhikkāśamanaṁ vātapittajit |
syādamlaṁ tuvaraṁ kaṇṭhaśōdhanaṁ grāhi durjaram ||53||

nāraṅga
nāraṅgō nāgaraṅgaḥ syāttvaksugandhō mukhapriyaḥ |
nāraṅgō madhurāmlaḥ syādrōcanō vātanāśanaḥ |
aparaṁ tvamlamatyuṣṇaṁ durjaraṁ vātahr̥t saram ||54||

tinduka
tindukaḥ sphūrjakaḥ kālaskandhaścāsitakārakaḥ |
syādāmaṁ tindukaṁ grāhi vātalaṁ śītalaṁ laghu |
pakvaṁ pittapramēhāsraślēṣmaghnaṁ madhuraṁ guru ||55||

kupīlu
tindukō yastu kathitō jaladō dīrghapatrakaḥ |
kupīluḥ kulakaḥ kākatindukaḥ kākapīlukaḥ |
kākēndurviṣatinduśca markaṭatindukaḥ ||56||
kupīluḥ śītalastiktō vātalō madakr̥llaghuḥ |
pādavyathāharō grāhī kaphapittāsranāśanaḥ ||57||

rājajambū
phalēndrā kathitā nandī rājajambūrmahāphalā |
tathā surabhipatrā ca mahājambūrapi smr̥tā |
rājajambūphalaṁ svādu viṣṭambhi guru rōcanam ||58||

jalajambu
kṣudrājambuḥ sūkṣmapatrā nādēyī jalajambukā |
jambūḥ saṁgrāhiṇī rūkṣā kaphapittāsradāhajit ||59||

badarī
puṁsi striyāñca karkandhūrbadarī kōlamityapi |
phēnilaṁ kuvalaṁ ghōṇṭā sauvīraṁ badaraṁ mahat |
ajapriyā kuhā kōlī viṣamōbhayakaṇṭakā ||60||
pacyamānaṁ sumadhuraṁ sauvīraṁ badaraṁ mahat |
sauvīraṁ badaraṁ śītaṁ bhēdanaṁ guru śukralam ||61||
br̥ṁhaṇaṁ pittadāhāsrakṣayatr̥ṣṇānivāraṇam |
sauvīraṁ laghu sampakvaṁ madhuraṁ kōlamucyatē ||62||
kōlaṁ tu badaraṁ grāhi rucyamuṣṇañca vātalam |
kaphapittakaraṁ cāpi guru sārakamīritam ||63||
karkandhūḥ kṣudrabadaraṁ kathitaṁ pūrvasūribhiḥ |
amlaṁ syātkṣudrabadaraṁ kaṣāyaṁ madhuraṁ manāk ||64||
snigdhaṁ guru ca tiktañca vātapittāpahaṁ smr̥tam |
śuṣkaṁ bhēdyagnikr̥tsarvaṁ laghutr̥ṣṇāklamāsrajit ||65||

prācīnāmalaka
prācīnāmalakaṁ lōkē pānīyāmalakaṁ smr̥tam |
prācīnāmalakaṁ dōṣatrayajijjvaraghāti ca ||66||

lavalī
sugandhamūlā lavalī pāṇḍuḥ kōmalavalkalā |
lavalīphalamaśmārśaḥkaphapittaharaṁ guru |
viśadaṁ rōcanaṁ rūkṣaṁ svādvamlaṁ tuvaraṁ rasē ||67||

karamarda
karamardaḥ suṣēṇaḥ syātkr̥ṣṇapākaphalastathā |
tasmāllaghuphalā yā tu sā jñēyā karamardikā ||68||
karamardadvayaṁ tvāmamamlaṁ guru tr̥ṣāharam |
uṣṇaṁ rucikaraṁ prōktaṁ raktapittakaphapradam |
tatpakvaṁ madhuraṁ rucyaṁ laghu pittasamīrajit ||69||

priyāla
priyālastu kharaskandhaścārō bahulavalkalaḥ |
rājādanastāpasēṣṭaḥ sannakadrurdhanuṣpaṭaḥ ||70||
cāraḥ pittakaphāsraghnastatphalaṁ madhuraṁ guru |
snigdhaṁ saraṁ marutpittadāhajvaratr̥ṣāpaham ||71||
priyālamajjā madhurō vr̥ṣyaḥ pittānilāpahaḥ |
hr̥dyō’tidurjaraḥ snigdhō viṣṭambhī cāmavardhanaḥ ||72||

rājādana
rājādanaḥ phalādhyakṣō rājanyā kṣīrikāpi ca |
kṣīrikāyāḥ phalaṁ vr̥ṣyaṁ balyaṁ snigdhaṁ himaṁ guru |
tr̥ṣṇāmūrcchāmadabhrāntikṣayadōṣatrayāsrajit ||73||

vikaṅkata
vikaṅkataḥ sruvāvr̥kṣō granthilaḥ svādukaṇṭakaḥ |
sa ēva yajñavr̥kṣaśca kaṇṭakī vyāghrapādapi |
vikaṅkataphalaṁ pakvaṁ madhuraṁ sarvadōṣajit ||74||

padmabīja
padmabījaṁ tu padmākṣaṁ gālōḍyaṁ padmakarkaṭī |
padmabījaṁ himaṁ svādu kaṣāyaṁ tiktakaṁ guru |
viṣṭambhi vr̥ṣyaṁ rūkṣañca garbhasaṁsthāpakaṁ param |
kaphavātakaraṁ balyaṁ grāhi pittāsradāhanut ||75||

makhānna
makhānnaṁ padmabījābhaṁ pānīyaphalamityapi |
makhānnaṁ padmabījasya guṇaistulyaṁ vinirdiśēt ||76||

śr̥ṅgāṭaka
śr̥ṅgāṭakaṁ jalaphalaṁ trikōṇaphalamityapi |
śr̥ṅgāṭakaṁ himaṁ svādu guru vr̥ṣyaṁ kaṣāyakam |
grāhī śukrānilaślēṣmapradaṁ pittāsradāhanut ||77||

kairaviṇīphala
uktaṁ kumudabījantu budhaiḥ kairaviṇīphalam |
bhavētkumudvatībījaṁ svādu rūkṣaṁ himaṁ guru ||78||

madhūka
madhūkō guḍapuṣpaḥ syānmadhupuṣpō madhusravaḥ |
vānaprasthō madhuṣṭhīlō jalajē’tra madhūlakaḥ ||79||
madhūkapuṣpaṁ madhuraṁ śītalaṁ guru br̥ṁhaṇam |
balaśukrakaraṁ prōktaṁ vātapittavināśanam ||80||
phalaṁ śītaṁ guru svādu śukralaṁ vātapittanut |
ahr̥dyaṁ hanti tr̥ṣṇā’sradāhaśvāsakṣatakṣayān ||81||

parūṣaka
parūṣakaṁ tu paruṣamalpāsthi ca parāparam |
parūṣakaṁ kaṣāyāmlamāmaṁ pittakaraṁ laghu |
tatpakvaṁ madhuraṁ pākē śītaṁ viṣṭambhi br̥ṁhaṇam |
hr̥dyantu pittadāhāsrajvarakṣayasamīrahr̥t ||82||

tūta
tūtaḥ sthūlaśca pūgaśca kramukō brahmadāru ca |
tūtaṁ pakvaṁ guru svādu himaṁ pittānilāpaham |
tadēvāmaṁ guru saramamlōṣṇaṁ raktapittakr̥t ||83||

dāḍima
dāḍimaḥ karakō dantabījō lōhitapuṣpakaḥ |
tatphalaṁ trividhaṁ svādu svādvamlaṁ kēvalāmlakam |
tattu svādu tridōṣaghnaṁ tr̥ḍdāhajvaranāśanam ||84||
hr̥tkaṇṭhamukhagandhaghnaṁ tarpaṇaṁ śukralaṁ laghu |
kaṣāyānurasaṁ grāhi snigdhaṁ mēdhābalāvaham ||85||
svādvamlaṁ dīpanaṁ rucyaṁ kiñcitpittakaraṁ laghu |
amlantu pittajanakamamlaṁ vātakaphāpaham ||86||

bahuvāra
bahuvārastu śītaḥ syāduddālō bahuvārakaḥ |
śēluḥ ślēṣmātakaścāpi picchilō bhūtavr̥kṣakaḥ ||87||
bahuvārō viṣasphōṭavraṇavīsarpakuṣṭhanut |
madhurastuvarastiktaḥ kēśyaśca kaphapittahr̥t ||88||
phalamāmantu viṣṭambhi rūkṣaṁ pittakaphāsrajit |
tatpakvaṁ madhuraṁ snigdhaṁ ślēṣmalaṁ śītalaṁ guru ||89||

kataka
payaḥprasādiḥ katakaḥ katakaṁ tatphalaṁ ca tat |
katakasya phalaṁ nētryaṁ jalanirmalatākaram |
vātaślēṣmaharaṁ śītaṁ madhuraṁ tuvaraṁ guru ||90||

drākṣā
drākṣā svāduphalā prōktā tathā madhurasā’pi ca |
mr̥dvīkā hārahūrā ca gōstanī cāpi kīrtitā ||91||
drākṣā pakvā sarā śītā cakṣuṣyā br̥ṁhaṇī guruḥ |
svādupākarasā svaryā tuvarā sr̥ṣṭamūtraviṭ ||92||
kōṣṭhamārutakr̥d vr̥ṣyā kaphapuṣṭirucipradā |
hanti tr̥ṣṇājvaraśvāsavātavātāsrakāmalāḥ ||93||
kr̥cchrāsrapittasaṁmōhadāhaśōṣamadātyayān |
āmā svalpaguṇā gurvī saivāmlā raktapittakr̥t |
vr̥ṣyā syād gōstanī drākṣā gurvī ca kaphapittanut ||94||
abījā’nyā svalpatarā gōstanīsadr̥śī guṇaiḥ |
drākṣā parvatajā laghvī sā’mlā ślēṣmāmlapittakr̥t ||95||
drākṣā parvatajā yādr̥k tādr̥śī karamardikā ||96||

kharjūratraya
bhūmikharjūrikā svādvī durārōhā mr̥ducchadā |
tathā skandhaphalā kākakarkaṭī svādumastakā ||97||
piṇḍakharjūrikā tvanyā sā dēśē paścimē bhavēt |
kharjūrī gōstanākārā paradvīpādihāgatā |
jāyatē paścimē dēśē sā cchōhārēti kīrtyatē ||98||
kharjūrītritayaṁ śītaṁ madhuraṁ rasapākayōḥ |
snigdhaṁ rucikaraṁ hr̥dyaṁ kṣatakṣayaharaṁ guru ||99||
tarpaṇaṁ raktapittaghnaṁ puṣṭiviṣṭambhaśukradam |
kōṣṭhamārutahr̥d balyaṁ vāntivātakaphāpaham ||100||
jvarātisārakṣuttr̥ṣṇākāsaśvāsanivārakam |
madamūrcchāmarutpittamadyōdbhūtagadāntakr̥t |
mahatībhyāṁ guṇairalpā svalpakharjūrikā smr̥tā ||101||
kharjūrītarutōyaṁ tu madapittakaraṁ bhavēt |
vātaślēṣmaharaṁ rucyaṁ dīpanaṁ balaśukrakr̥t |
sulēmānī tu mr̥dulā dalahīnaphalā ca sā |
sulēmānī śramabhrāntidāhamūrcchā’srapittahr̥t ||102||

vātāda
vātādō vātavairī syānnētrōpamaphalastathā |
vātādaḥ uṣṇaḥ susnigdhō vātaghnaḥ śukrakr̥d guruḥ |
vātādamajjā madhurō vr̥ṣyaḥ pittānilāpahaḥ |
snigdhōṣṇaḥ kaphakr̥nnēṣṭō raktapittavikāriṇām ||103||

sēva
muṣṭipramāṇaṁ badaraṁ sēvaṁ sivitikāphalam |
sēvaṁ samīrapittaghnaṁ br̥ṁhaṇaṁ kaphakr̥dguru |
rasē pākē ca madhuraṁ śiśiraṁ ruciśukrakr̥t ||104||

amr̥taphala
amr̥taphalaṁ laghu vr̥ṣyaṁ susvādu trīnharēddōṣān |
dēśēṣu mudgalānāṁ bahulaṁ tallabhyatē lōkaiḥ ||105||

pīlu
pīlurgulaphalaḥ sraṁsī tathā śītaphalō’pi ca |
pīlu ślēṣmasamīraghnaṁ pittalaṁ bhēdi gulmanut |
svādu tiktañca yatpīlu tannātyuṣṇaṁ tridōṣahr̥t ||106||

akṣōṭa
pīluḥ śailabhavō’kṣōṭaḥ karparālaśca kīrtitaḥ |
akṣōṭakō’pi vātādasadr̥śaḥ kaphapittakr̥t ||107||

bījapūra
bījapūrō mātuluṅgō rucakaḥ phalapūrakaḥ |
bījapūraphalaṁ svādu rasē’mlaṁ dīpanaṁ laghu |
raktapittaharaṁ kaṇṭhajihvāhr̥dayaśōdhanam |
śvāsakāsāruciharaṁ hr̥dyaṁ tr̥ṣṇāharaṁ smr̥tam ||108||

madhukarkaṭī
bījapūrō’paraḥ prōktō madhurō madhukarkaṭī |
madhukarkaṭikā svādvī rōcanī śītalāḥ guruḥ |
raktapittakṣayaśvāsakāsahikkābhramāpahā ||109||

jambīradvaya
syājjambīrō dantaśaṭhō jambhajambhīrajambhalāḥ |
jambīramuṣṇaṁ gurvamlaṁ vātaślēṣmavibandhanut |
śūlakāsakaphōtklēśaccharditr̥ṣṇāmadōṣajit ||110||
āsyavairasyahr̥tpīḍāvahnimāndyakr̥mīnharēt |
svalpajambīrikā tadvattr̥ṣṇācchardinivāriṇī ||111||

nimbūka
nimbūḥ strī nimbukaṁ klībē nimbūkamapi kīrtitam |
nimbūkamamlaṁ vātaghnaṁ dīpanaṁ pācanaṁ laghu |
nimbukaṁ kr̥misamūhanāśanaṁ tīkṣṇamamlamudaragrahāpaham |
vātapittakaphaśūlinē hitaṁ kaṣṭanaṣṭarucirōcanaṁ param ||112||
tridōṣavahnikṣayavātarōganipīḍitānāṁ viṣavihvalānām |
mandānalē baddhagudē pradēyaṁ viṣūcikāyāṁ munayō vadanti ||113||

miṣṭanimbūphala
miṣṭanimbūphalaṁ svādu guru mārutapittanut |
gararōgaviṣadhvaṁsi kaphōtklēśi ca raktahr̥t |
śōṣārucitr̥ṣācchardiharaṁ balyañca br̥ṁhaṇam ||114||

karmaraṅga
(karmaraṅgaṁ śirālaṁ ca br̥hadamlaṁ rujākaram) |
karmaraṅgaṁ himaṁ grāhi svādvamlaṁ kaphavātahr̥t ||115||

amlikā
amlikā cukrikāmlī ca cukrā dantaśaṭhāpi ca |
amlā ca ciñcikā ciñcā tintiḍīkā ca tintiḍī ||116||
amlikā’mlā gururvātaharī pittakaphāsrakr̥t |
pakvā tu dīpanī rūkṣā sarōṣṇā kaphavātanut ||117||

amlavētasa
syādamlavētasaścukraṁ śatavēdhi sahasranut |
amlavētasamatyamlaṁ bhēdanaṁ laghu dīpanam |
hr̥drōgaśūlagulmaghnaṁ pittalaṁ lōmaharṣaṇam ||118||
rūkṣaṁ viṇmūtradōṣaghnaṁ plīhōdāvartanāśanam |
hikkānāhāruciśvāsakāsājīrṇavamipraṇut ||119||
kaphavātāmayadhvaṁsi cchāgamāṁsadravatvakr̥t |
caṇakāmlaguṇaṁ jñēyaṁ lōhasūcīdravatvakr̥t ||120||

vr̥kṣāmla
vr̥kṣāmlaṁ tintiḍīkañca cukraṁ syādamlavr̥kṣakam |
vr̥kṣāmlamāmamamlōṣṇaṁ vātaghnaṁ kaphapittalam |
pakvantu guru saṁgrāhi kaṭukaṁ tuvaraṁ laghu ||121||
amlōṣṇaṁ rōcanaṁ rūkṣaṁ dīpanaṁ kaphavātakr̥t |
tr̥ṣṇārśōgrahaṇīgulmaśūlahr̥drōgajantujit ||122||

caturamla, pañcāmla
amlavētasavr̥kṣāmlabr̥hajjambīranimbukaiḥ |
caturamlaṁ hi pañcāmlaṁ bījapūrayutairbhavēt ||123||

paribhāṣā
phalēṣu paripakvaṁ yad guṇavattadudāhr̥tam |
bilvādanyatra vijñēyamāmaṁ taddhi guṇādhikam ||124||
phalēṣu sarasaṁ yatsyād guṇavattadudāhr̥tam |
drākṣābilvaśivādīnāṁ phalaṁ śuṣkaṁ guṇādhikam ||125||
phalatulyaguṇaṁ sarvaṁ majjānamapi nirdiśēt |
phalaṁ himāgnidurvātavyālakīṭādidūṣitam |
akālajaṁ kubhūmijaṁ pākātītaṁ na bhakṣayēt |
pākātītaṁ pākamatikramya sthitam ||126||

puṣpikā
iti śrīlaṭakanamiśratanayaśrībhāvamiśraviracitē bhāvaprakāśē
pūrvakhaṇḍē miśraprakaraṇē saptamaḥ āmrādiphalavargaḥ samāptaḥ |