Table of Contents
ToggleDevanagari Version
||श्रीभावमिश्रविरचित||
भावप्रकाशनिघण्टु
[भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण]
४. गुडूच्यादिवर्ग
गुडूची
अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः |
रामपत्नीं बलात्सीतां जहार मदनातुरः ||१||
ततस्तं बलवान् रामो रिपुं जायापहारिणम् |
वृतो वानरसैन्येन जघान रणमूर्धनि ||२||
हते तस्मिन्सुरारातौ रावणे बलगर्विते |
देवराजः सहस्राक्षः परितुष्टश्च राघवे ||३||
तत्र ये वानराः केचिद्राक्षसैर्निहता रणे |
तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ||४||
ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः |
पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका ||५||
गुडूची नामानि-
गुडूची मधुपर्णी स्यादमृताऽमृतवल्लरी |
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ||६||
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली |
चक्रलक्षणिका धीरा विशल्या च रसायनी |
चन्द्रहासा वयस्था च मण्डली देवनिर्मिता ||७||
गुडूची कटुका तिक्ता स्वादुपाका रसायनी |
संग्राहिणी कषायोष्णा लघ्वी बल्याऽग्निदीपनी |
दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम् ||८||
कामलाकुष्ठवातास्रज्वरकृमिवमीन्हरेत् |
प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ||९||
ताम्बूलवल्ली
ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी |
ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् |
वश्यं तिक्तं कटुक्षारं रक्तपित्तकरं लघु |
बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् ||१०||
बिल्व
बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि |
श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् |
वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः ||११||
गम्भारी
गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका |
काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी |
कृष्णवृन्ता मधुरसा महाकुसुमिकाऽपि च ||१२||
काश्मरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः |
दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् |
दोषतृष्णामशूलार्शोविषदाहज्वरापहा ||१३||
तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम् |
वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत् ||१४||
स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत् |
हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् ||१५||
पाटला
पाटलिः पाटलाऽमोघा मधुदूतो फलेरुहा |
कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा ||१६||
ताम्रपुष्पी च कथिताऽपरा स्यात्पाटला सिता |
मुष्कको मोक्षको घण्टापाटलिः काष्ठपाटला ||१७||
पाटला तुवरा तिक्तानुष्णा दोषत्रयापहा |
अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी ||१८||
पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत् |
पित्तातिसारहृत्कण्ठ्यं फलं हिक्कास्रपित्तहृत् ||१९||
अग्निमन्थ
अग्निमन्थो जयः स स्याच्छ्रीपर्णी गणिकारिका |
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ||२०||
अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत् |
पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः ||२१||
श्योनाक
श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः |
मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः |
दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटम्भरः ||२२||
श्योनाको दीपनः पाके कटुकस्तुवरो हिमः |
ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः ||२३||
टुण्टुकस्य फलं बालं रूक्षं वातकफापहम् |
हृद्यं कषायं मधुरं रोचनं लघु दीपनम् |
गुल्मार्शःकृमिहृत्प्रौढं गुरु वातप्रकोपणम् ||२४||
बृहत्पञ्चमूल
श्रीफलः सर्वतोभद्रा पाटला गणिकारिका |
श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम् ||२५||
पञ्चमूलं महत् तिक्तं कषायं कफवातनुत् |
मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनम् ||२६||
शालिपर्णी
शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा |
विदारिगन्धा दीर्घाङ्गी दीर्घपत्रांशुमत्यपि ||२७||
शालिपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित् |
शोषदोषत्रयहरी बृंहण्युक्ता रसायनी |
तिक्ता विषहरी स्वादुः क्षतकासकृमिप्रणुत् ||२८||
पृष्ठिपर्णी
पृष्ठिपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि |
क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा ||२९||
पृष्ठिपर्णी त्रिदोषघ्नी वृष्योष्णा मधुरा सरा |
हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः ||३०||
बृहती
वार्ताकी क्षुद्रभण्टाकी महती बृहती कुली |
हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी ||३१||
बृहती ग्राहिणी हृद्या पाचनी कफवातहृत् |
कटुतिक्तास्यवैरस्यमलारोचकनाशिनी |
उष्णा कटुज्वरश्वासशूलकासाग्निमान्द्यजित् ||३२||
कण्टकारी
कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका |
कण्टालिका कण्टकिनी धावनी बृहती तथा ||३३||
क्षुद्रा या क्षुद्रभद्राख्या बृहतीति निगद्यते |
श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका |
गर्भदा चन्द्रमा चन्द्री चन्द्रपुष्पा प्रियङ्करी ||३४||
कण्टकारी गुण-
कण्टकारी सरा तिक्ता कटुका दीपनी लघुः |
रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् ||३५||
निहन्ति पीनसं श्वासपार्श्वपीडाहृदामयान् |
तयोः फलं कटु रसे पाके च कटुकं भवेत् |
शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु ||३६||
हन्यात्कफमरुत्कण्डूकासमेदकृमिज्वरान् |
तद्वत्प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी ||३७||
गोक्षुर
गोक्षुरः क्षुरकोऽपि स्यात्त्रिकण्टः स्वादुकण्टकः |
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि |
पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ||३८||
गोक्षुरः शीतलः स्वादुर्बलकृद्बस्तिशोधनः |
मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः |
प्रमेहश्वासकासार्शः कृच्छ्रहृद्रोगवातनुत् ||३९||
लघुपञ्चमूल
शालिपर्णी पृष्ठिपर्णी वार्त्ताकी कण्टकारिका |
गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् ||४०||
पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम् |
नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् ||४१||
दशमूल
उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदाहृतम् |
दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः |
तन्द्राशोथज्वरानाहपार्श्वपीडारुचीर्हरेत् ||४२||
जीवन्ती
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा |
मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ||४३||
जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा |
रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः ||४४||
मुद्गपर्णी
मुद्गपर्णी काकपर्णी सूर्यपर्ण्यल्पिका सहा |
काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका ||४५||
मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला |
चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् |
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित् ||४६||
माषपर्णी
माषपर्णी सूर्यपर्णी काम्बोजी हयपुच्छिका |
पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा ||४७||
माषपर्णी हिमा तिक्ता रूक्षा शुक्रबलास्रकृत् |
मधुरा ग्राहिणी शोथवातपित्तज्वरास्रजित् ||४८||
जीवनीयगण
अष्टवर्गः सयष्टीको जीवन्ती मुद्गपर्णिका |
माषपर्णीगणोऽयं तु जीवनीय इति स्मृतः ||४९||
जीवनो मधुरश्चापि नाम्ना स परिकीर्तितः |
जीवनीयगणः प्रोक्तः शुक्रकृद्बृंहणो हिमः ||५०||
गुरुर्गर्भप्रदः स्तन्यः कफकृत्पित्तरक्तहृत् |
तृष्णां शोषं ज्वरं दाहं रक्तपित्तं व्यपोहति ||५१||
एरण्ड
शुक्ल एरण्ड आमण्डश्चित्रो गन्धर्वहस्तकः |
पञ्चाङ्गुलो वर्धमानो दीर्घदण्डोऽप्यदण्डकः |
वातारिस्तरुणश्चापि रुबूकश्च निगद्यते ||५२||
रक्तैरण्ड-
रक्तोऽपरो रुबूकः स्यादुरुबूको रुबुस्तथा |
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ||५३||
एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् |
शूलशोथकटीबस्तिशिरःपीडोदरज्वरान् ||५४||
ब्रध्नश्वासकफानाहकासकुष्ठाममारुतान् |
एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् ||५५||
मूत्रकृच्छ्रहरं चापि पित्तरक्तप्रकोपणम् |
वातार्यग्रदलं गुल्मं बस्तिशूलहरं परम् ||५६||
कफवातकृमीन्हन्ति वृद्धिं सप्तविधामपि |
एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ||५७||
यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् |
तद्वन्मज्जा च विड्भेदीवातश्लेष्मोदरापहः ||५८||
अलर्क, अर्क
अलर्को गणरूपः स्यान्मन्दारो वसुकोऽपि च |
श्वेतपुष्पः सदापुष्पः सबालार्कः प्रतीयसः ||५९||
रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः |
रक्तपुष्पः शुक्लफलस्तथा स्फोटः प्रकीर्तितः ||६०||
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् |
निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्कृमीन् ||६१||
अलर्ककुसुमं वृष्यं लघु दीपनपाचनम् |
अरोचकप्रसेकार्शःकासश्वासनिवारणम् ||६२||
रक्तार्कपुष्पं मधुरं सतिक्तं कुष्ठक्रिमिघ्नं कफनाशनं च |
अर्शो विषं हन्ति च रक्तपित्तं संग्राहि गुल्मे श्वयथौ हितं तत् ||६३||
क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु |
कुष्ठगुम्लोदरहरं श्रेष्ठमेतद्विरेचनम् ||६४||
स्नुही
सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि च |
सुधा समन्तदुग्धा च स्नुक् स्त्रियां स्यात्स्नुही गुडा ||६५||
सीहुण्डो रेचनस्तीक्ष्णो दीपनः कटुको गुरुः |
शूलमष्ठीलिकाध्मानकफगुल्मोदरानिलान् ||६६||
उन्मादमोहकुष्ठार्शः शोथमेदोऽश्मपाण्डुताः |
व्रणशोथज्वरप्लीहविषदूषीविषं हरेत् ||६७||
उष्णवीर्यं स्नुहीक्षीरं स्निग्धञ्च कटुकं लघु |
गुल्मिनां कुष्ठिनाञ्चापि तथैवोदररोगिणाम् |
हितमेतद्विरेकार्थं ये चान्ये दीर्घरोगिणः ||६८||
सेहुण्डभेद-
शातला सप्तला सारा विमला विदुला च सा |
तथा निगदिता भूरिफेना चर्मकषेत्यपि ||६९||
शातला कटुका पाके वातला शीतला लघुः |
तिक्ता शोथकफानाहपित्तोदावर्तरक्तजित् ||७०||
लाङ्गली
कलिहारी तु हलिनी लाङ्गली शक्रपुष्प्यपि |
विशल्याग्निशिखानन्ता वह्निवक्त्रा च गर्भनुत् ||७१||
कलिहारी सरा कुष्ठशोफार्शोव्रणशूलजित् |
सक्षारा श्लेष्मजित्तिक्ता कटुका तुवरापि च |
तीक्ष्णोष्णा कृमिहृल्लघ्वी पित्तला गर्भपातिनी ||७२||
करवीर
करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः |
द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ||७३||
करवीरद्वयं तिक्तं कषायं कटुकञ्च तत् |
व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् |
वीर्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम् ||७४||
धत्तूर
धत्तूरधूर्तधुत्तूरा उन्मत्तः कनकाह्वयः |
देवता कितवस्तूरी महामोही शिवप्रियः |
मातुलो मदनश्चास्य फले मातुलपुत्रकः ||७५||
धत्तूरो मदवर्णाग्निवातकृजवरकुष्ठनुत् |
कषायो मधुरस्तिक्तो यूकालिक्षाविनाशकः |
उष्णो गुरुर्व्रणश्लेष्मकण्डूकृमिविषापहः ||७६||
आटरूष
वासको वाशिका वासा भिषङ्माता च सिंहिका |
सिंहास्यो वाजिदन्ता स्यादाटरूषोऽटरूषकः |
आटरूषो वृषस्ताम्रः सिंहपर्णश्च स स्मृतः ||७७||
वासको वातकृत्स्वर्यः कफपित्तास्रनाशनः |
तिक्तस्तुवरको हृद्यो लघुशीतस्तृडर्तिहृत् |
श्वासकासज्वरच्छर्दिमेहकुष्ठक्षयापहः ||७८||
पर्पटक
पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः |
कथितः पांशुपर्यायस्तथा कवचनामकः ||७९||
पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान् |
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ||८०||
निम्ब
निम्बः स्यात्पिचुमर्दश्च पिचुमन्दश्च तिक्तकः |
अरिष्टः पारिभद्रश्च हिङ्गुनिर्यास इत्यपि ||८१||
निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत् |
अहृद्यः श्रमतड्कासज्वरारुचिकृमिप्रणुत् ||८२||
व्रणपित्तकफच्छर्दिकुष्ठहृल्लासमेहनुत् |
निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत् ||८३||
वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत् |
निम्बफलं रसे तिक्तं पाके तु कटुभेदनम् |
स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत् ||८४||
महानिम्ब
महानिम्बः स्मृतो द्रेका रम्यको विषमुष्टिकः |
केशामुष्टिर्निम्बकश्च कार्मुको जीव इत्यपि ||८५||
महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः |
कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित् |
प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः ||८६||
पारिभद्र
पारिभद्रो निम्बतरुर्मन्दारः पारिजातकः |
पारिभद्रोऽनिलश्लेष्मशोथमेदःकृमिप्रणुत् |
तत्पत्रं पित्तरोगघ्नं कर्णव्याधिविनाशनम् ||८७||
काञ्चनार
काञ्चनारः काञ्चनको गण्डारिः शोणपुष्पकः |
कोविदारश्चमरिकः कुद्दालो युगपत्रकः |
कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकेशरी ||८८||
काञ्चनारो हिमो ग्राही तुवरः श्लेष्मपित्तनुत् |
कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः ||८९||
कोविदारोऽपि तद्वत्स्यात्तयोः पुष्पं लघु स्मृतम् |
रूक्षं संग्राहि पित्तास्रप्रदरक्षयकासनुत् ||९०||
शोभाञ्जन
शोभाञ्जनः शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः |
तद्बीजं श्वेतमरिचं मधुशिग्रुः सलोहितः ||९१||
शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः |
दीपनो रोचनो रूक्षः क्षारस्तिक्तो विदाहकृत् |
संग्राही शुक्रलो हृद्यः पित्तरक्तप्रकोपणः ||९२||
चक्षुष्यः कफवातघ्नो विद्रधिश्वयथुक्रिमीन् |
मेदोऽपचीविषप्लीहगुल्मगण्डव्रणान्हरेत् ||९३||
श्वेतः प्रोक्तगुणो ज्ञेयो विशेषाद्दाहकृद्भवेत् |
प्लीहानं विद्रधिं हन्ति व्रणघ्नः पित्तरक्तहृत् ||९४||
मधुशिग्रुः प्रोक्तगुणो विशेषाद्दीपनः सरः |
शिग्रुवल्कलपत्राणां स्वरसः परमार्तिहृत् ||९५||
चक्षुष्यं शिग्रुजं बीजं तीक्ष्णोष्णं विषनाशनम् |
अवृष्यं कफवातघ्नं तन्नस्येन शिरोऽर्तिनुत् ||९६||
अपराजिता
आस्फोता गिरिकर्णी स्याद्विष्णुक्रान्ताऽपराजिता |
अपराजिते कटू मेध्ये शीते कण्ठ्ये सुदृष्टिदे |
कुष्ठमूत्रत्रिदोषामशोथव्रणविषापहे |
कषाये कटुके पाके तिक्ते च स्मृतिबुद्धिदे ||९७||
सिन्दुवार
सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः |
नीलपुष्पी तु निर्गुण्डी शेफाली सुवहा च सा ||९८||
सिन्दुकः स्मृतिदस्तिक्तः कषायः कटुको लघुः |
केश्यो नेत्रहितो हन्ति शूलशोथाममारुतान् ||९९||
कृमिकुष्ठारुचिश्लेष्मज्वरान्नीलापि तद्विधा |
सिन्दुवारदलं जन्तुवातश्लेष्महरं लघु ||१००||
कुटज
कुटजः कूटजः कीटो वत्सको गिरिमल्लिका |
कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि |
इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः ||१०१||
कुटजः कटुको रूक्षो दीपनस्तुवरो हिमः |
अर्शोऽतिसारपित्तास्रकफतृष्णामकुष्ठनुत् ||१०२||
करञ्ज
करञ्जो नक्तमालश्च करजश्चिरबिल्वकः |
घृतपूर्णकरञ्जोऽन्यः प्रकीर्यः पूतिकोऽपि च |
स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः ||१०३||
करञ्जः कटुकस्तीक्ष्णो वीर्योष्णो योनिदोषहृत् |
कुष्ठोदावर्तगुल्मार्शोव्रणक्रिमिकफापहः ||१०४||
तत्पत्रं कफवातार्शःकृमिशोथहरं परम् |
भेदनं कटुकं पाके वीर्योष्णं पित्तलं लघु ||१०५||
तत्फलं कफवातघ्नं मेहार्शःकृमिकुष्ठजित् |
घृतपूर्णकरञ्जोऽपि करञ्जसदृशो गुणैः ||१०६||
उदकीर्य
उदकीर्यस्तृतीयोऽन्यः षड्ग्रन्था हस्तिवारुणी |
मर्कटी वायसी चापि करञ्जी करभञ्जिका ||१०७||
करञ्जी स्तम्भनी तिक्ता तुवरा कटुपाकिनी |
वीर्योष्णा वमिपित्तार्शःकृमिकुष्ठप्रमेहजित् ||१०८||
गुञ्जा
श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता |
रक्ता सा काकचिञ्ची स्यात्काकानन्ती च रक्तिका |
काकादनी काकपीलुः सा स्मृता काकवल्लरी ||१०९||
गुञ्जाद्वयन्तु केश्यं स्वाद्वातपित्तज्वरापहम् |
मुखशोषभ्रमश्वासतृष्णामदविनाशनम् ||११०||
नेत्रामयहरं वृष्यं बल्यं कण्डूं व्रणं हरेत् |
कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलापि च ||१११||
कपिकच्छू
कपिकच्छूरात्मगुप्ता वृष्या प्रोक्ता च मर्कटी |
अजरा कण्डुरा व्यङ्गा दुःस्पर्शा प्रावृषायणी |
लाङ्गली शूकशिम्बी च सैव प्रोक्ता महर्षिभिः ||११२||
कपिकच्छूर्भृशं वृष्या मधुरा बृंहणी गुरुः |
तिक्ता वातहरी बल्या कफपित्तास्रनाशिनी |
तद्बीजं वातशमनं स्मृतं वाजीकरं परम् ||११३||
मांसरोहिणी
मांसरोहिण्यतिरुहा वृंता चर्मकरी कृशा |
प्रहारवल्ली विकशा वीरवल्ल्यपि कथ्यते |
स्यान्मांसरोहिणी वृष्या सरा दोषत्रयापहा ||११४||
चिह्लक
चिह्लको वातनिर्हारः श्लेष्मघ्नो धातुपुष्टिकृत् |
आग्नेयो विषवद्यस्य फलं मत्स्यनिषूदनम् ||११५||
टङ्कारी
टङ्कारी वातजित्तिक्ता श्लेष्मघ्नी दीपनी लघुः |
शोथोदरव्यथाहन्त्री हिता पीठविसर्पिणाम् ||११६||
वेतस
वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा |
अभ्रपुष्पश्च विदुलो रथशीतश्च कीर्तितः ||११७||
वेतसः शीतलो दाहशोथार्शोयोनिरुक्प्रणुत् |
हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान् ||११८||
जलवेतस
निकुञ्चकः परिव्याधो नादेयो जलवेतसः |
जलजो वेतसः शीतकुष्ठहृद्वातकोपनः ||११९||
हिज्जल
इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा |
जलेवेतसवद्वेद्यो हिज्जलोऽयं विषापहः ||१२०||
अङ्कोट
अङ्कोटो दीर्घकीलः स्यादङ्कोलश्च निकोचकः |
अङ्कोटकः कटुस्तीक्ष्णः स्निग्धोष्णस्तुवरो लघुः |
रेचनः कृमिशूलामशोफग्रहविषापहः ||१२१||
विसर्पकफपित्तास्रमूषकाहिविषापहः |
तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु |
बल्यं विरेचनं वातपित्तदाहक्षयास्रजित् ||१२२||
बला
बला वाट्यालिका वाट्या सैव वाट्यालकाऽपि च |
महाबला पीतपुष्पा सहदेवी च सा स्मृता ||१२३||
ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिका च सा |
गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ||१२४||
बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् |
स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ||१२५||
बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् |
मूत्रातिसारं हरति दृष्टमेतन्न संशयः ||१२६||
हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी |
हन्यादतिबला मेहं पयसा सितया समम् ||१२७||
लक्ष्मणा
पुत्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छिता सदा |
लक्ष्मणा पुत्रजननी बस्तगन्धाकृतिर्भवेत् |
कथिता पुत्रदाऽवश्यं लक्ष्मणा मुनिपुङ्गवैः ||१२८||
स्वर्णवल्ली
स्वर्णवल्लीरक्तफला काकायुः काकवल्लरी |
स्वर्णवल्ली शिरःपीडां त्रिदोषान्हन्ति दुग्धदा ||१२९||
कार्पासी
कार्पासी तुण्डकेरी च समुद्रान्ता च कथ्यते |
कार्पासकी लघुः कोष्णा मधुरा वातनाशिनी |
तत्पलाशं समीरघ्नं रक्तकृन्मूत्रवर्धनम् ||१३०||
तत्कर्णपीडकानादपूयास्रावविनाशनम् |
तद्बीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु ||१३१||
वंश
वंशस्त्वक्सारकर्मारस्त्वचिसारस्तृणध्वजाः |
शतपर्वा यवफलो वेणुमस्करतेजनाः ||१३२||
वंशः सरो हिमः स्वादुः कषायो बस्तिशोधनः |
छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् ||१३३||
तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः |
कषायः कफकृत्स्वादुर्विदाही वातपित्तलः ||१३४||
तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः |
वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ||१३५||
नल
नलः पोटगलः शून्यमध्यश्च धमनस्तथा |
नलस्तु मधुरस्तिक्तः कषायः कफरक्तजित् |
उष्णो हृद्बस्तियोन्यर्तिदाहपित्तविसर्पहृत् ||१३६||
भद्रमुञ्ज
भद्रमुञ्जः शरो बाणस्तेजनश्चक्षुवेष्टनः |
मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेखलः ||१३७||
मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा |
दाहतृष्णाविसर्पाममूत्रकृच्छ्राक्षिरोगजित् |
दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ||१३८||
काश
काशः काशेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा |
इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः ||१३९||
काशः स्यान्मधुरस्तिक्तः स्वादुपाको हिमः सरः |
मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित् ||१४०||
गुन्द्र
गुन्द्रः पटेरको रच्छः शृङ्गवेराभमूलकः |
गुन्द्रः कषायो मधुरः शिशिरः पित्तरक्तजित् |
स्तन्यशुक्ररजोमूत्रशोधनो मूत्रकृच्छ्रहृत् ||१४१||
गुन्द्रमूल
एरका गुन्द्रमूला च शिविर्गुन्द्रा शरीति च |
एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी |
मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी ||१४२||
कुश
कुशो दर्भस्तथा बर्हिः सूच्यग्रो यज्ञभूषणः |
ततोऽन्यो दीर्घपत्रः स्यात्क्षुरपत्रस्तथैव च ||१४३||
दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् |
मूत्रकृच्छ्राश्मरीतृष्णाबस्तिरुक्प्रदरास्रजित् ||१४४||
कत्तृण
कत्तृणं रोहिषं देवजग्धं सौगन्धिकं तथा |
भूतीकं व्यामपौरे च श्यामकं धूपगन्धिकम् ||१४५||
रोहिषं तुवरं तिक्तं कटुपाकं व्यपोहति |
हृत्कण्ठव्याधिपित्तास्रशूलकासकफज्वरान् ||१४६||
भूतृण
गुह्यबीजं तु भूतीकं सुगन्धं जम्बुकप्रियम् |
भूतृणं तु भवेच्छत्रा मालातृणकमित्यपि ||१४७||
भूतृणं कटुकं तिक्तं तीक्ष्णोष्णं रेचनं लघु |
विदाहि दीपनं रूक्षमनेत्र्यं मुखशोधनम् |
अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम् ||१४८||
नीलदूर्वा
नीलदूर्वा रुहाऽनन्ता भार्गवी शतपर्विका |
शष्पं सहस्रवीर्या च शतवल्ली च कीर्तिता ||१४९||
नीलदूर्वा हिमा तिक्ता मधुरा तुवरा हरेत् |
कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान् ||१५०||
श्वेतदूर्वा, गण्डदूर्वा
दूर्वा शुक्ला तु गोलोमी शतवीर्या च कथ्यते |
श्वेता दूर्वा कषाया स्यात्स्वाद्वी व्रण्या च जीवनी |
तिक्ता हिमा विसर्पास्रतृट्पित्तकफदाहहृत् ||१५१||
गण्डदूर्वा तु गण्डाली मत्स्याक्षी शकुलाक्षकः |
गण्डदूर्वा हिमा लोहद्राविणी ग्राहिणी लघुः |
तिक्ता कषाया मधुरा वातकृत्कटुपाकिनी |
दाहतृष्णाबलासास्रकुष्ठपित्तज्वरापहा ||१५२||
विदारीकन्द
विदारीकन्द एवान्यैश्चर्मकारालुको मतः |
अनूपसम्भवे देशे वराह इव लोमवान् ||१५३||
विदारी स्वादुकन्दा च सा तु क्रोष्ट्री सिता स्मृता |
इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी |
वाराहवदना गृष्टिर्बदरेत्यपि कथ्यते ||१५४||
विदारी मधुरा स्निग्धा बृंहणी स्तन्यशुक्रदा |
शीता स्वर्या मूत्रला च जीवनी बलवर्णदा |
गुरुः पित्तास्रपवनदाहान् हन्ति रसायनी ||१५५||
मुशली
तालमूली तु विद्वद्भिर्मूशली परिकीर्तिता |
मुशली मधुरा वृष्या वीर्योष्णा बृंहणी गुरुः |
तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा ||१५६||
शतावरी, महाशतावरी
शतावरी बहुसुता भीरुरिन्दीवरी वरी |
नारायणी शतपदी शतवीर्या च पीवरी ||१५७||
महाशतावरी चान्या शतमूल्यर्धकण्टिका |
सहस्रवीर्या हेतुश्च ऋष्यप्रोक्ता महोदरी ||१५८||
शतावरी गुरुः शीता तिक्ता स्वाद्वी रसायनी |
मेधाऽग्निपुष्टिदा स्निग्धा नेत्र्या गुल्मातिसारजित् |
शुक्रस्तन्यकरी बल्या वातपित्तास्रशोथजित् ||१५९||
महाशतावरी मेध्या हृद्या वृष्या रसायनी |
शीतवीर्या निहन्त्यर्शोग्रहणीनयनामयान् ||१६०||
अश्वगन्धा
गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया |
वराहकर्णी वरदा बलदा कुष्ठगन्धिनी ||१६१||
अश्वगन्धाऽनिलश्लेष्मश्वित्रशोथक्षयापहा |
बल्या रसायनी तिक्ता कषायोष्णाऽतिशुक्रला ||१६२||
पाठा
पाठाम्बष्ठाम्बष्ठकी च प्राचीना पापचेलिका |
एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ||१६३||
पाठोष्णा कटुका तीक्ष्णा वातश्लेष्महरी लघुः |
हन्ति शूलज्वरच्छर्दिकुष्ठातीसारहृद्रुजः |
दाहकण्डूविषश्वासकृमिगुल्मगरव्रणान् ||१६४||
त्रिवृत्
श्वेतात्रिवृत्-
श्वेता त्रिवृता भण्डी स्यात् त्रिवृता त्रिपुटापि च |
सर्वानुभूतिः सरला निशोत्रा रेचनीति च ||१६५||
श्वेता त्रिवृद्रेचनी स्यात्स्वादुरुष्णा समीरहृत् |
रूक्षा पित्तज्वरश्लेष्मपित्तशोथोदरापहा ||१६६||
श्यामात्रिवृत्-
त्रिवृत्श्यामार्द्धचन्द्रा च पालिन्दी च सुषेणिका |
मसूरविदला कोलकैषिका कालमेषिका ||१६७||
श्यामा त्रिवृत्ततो हीनगुणा तीव्रविरेचिनी |
मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षणकारिणी ||१६८||
लघुदन्ती, बृहद्दन्ती
लघुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि |
तथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया |
वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः ||१६९||
द्रवन्ती साम्बरी चित्रा प्रत्यक्पर्ण्यर्कपर्ण्यपि |
चित्रोपचित्रा न्यग्रोधी प्रत्यक्च्छ्रेण्याखुकर्ण्यपि ||१७०||
दन्तीद्वयं सरं पाके रसे च कटु दीपनम् |
गुदाङ्कुराश्मशूलार्शः कण्डूकुष्ठविदाहनुत् |
तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरकृमीन् ||१७१||
क्षुद्रदन्तीफलं तु स्यान्मधुरं रसपाकयोः |
शीतलं सृष्टविण्मूत्रं गरशोथकफापहम् ||१७२||
जयपाल (दन्तीबीज)
जयपालो दन्तिबीजं विख्यातं तिन्तिलीफलम् |
जयपालो गुरुः स्निग्धो रेची पित्तकफापहः ||१७३||
गवादिनीद्वय
ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादिनी |
वारुणी च पराप्युक्ता सा विशाला महाफला |
श्वेतपुष्पा मृगाक्षी च मृगैर्वारु मृगादनी ||१७४||
गवादिनीद्वयं तिक्तं पाके कटु सरं लघु |
वीर्योष्णं कामलापित्तकफप्लीहोदरापहम् ||१७५||
श्वासकासापहं कुष्ठगुल्मग्रन्थिव्रणप्रणुत् |
प्रमेहमूढगर्भामगण्डामयविषापहम् ||१७६||
नीली
नीली तु नीलिनी तूली कालदोला च नीलिका |
रञ्जनी श्रीफली तुत्था ग्रामीणा मधुपर्णिका |
क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ||१७७||
नीलिनी रेचनी तिक्ता केश्या मोहभ्रमापहा |
उष्णा हन्त्युदरप्लीहवातरक्तकफानिलान् |
आमवातमुदावर्तं मदं च विषमुद्धतम् ||१७८||
शरपुङ्ख
शरपुङ्खः प्लीहशत्रुर्नीलीवृक्षाकृतिश्च सः |
शरपुङ्खो यकृत्प्लीहगुल्मव्रणविषापहः |
तिक्तः कषायः कासास्रश्वासज्वरहरो लघुः ||१७९||
यवास
यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः |
दुरालभा दुरालम्भा समुद्रान्ता च रोदिनी |
गान्धारी कच्छुराऽनन्ता कषाया हरिविग्रहा ||१८०||
यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः |
कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित् ||१८१||
तृष्णाविसर्पवातास्रवमिज्वरहरः स्मृतः |
यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा ||१८२||
श्रावणी, महाश्रावणी
मुण्डी भिक्षुरपि प्रोक्ता श्रावणी च तपोधना |
श्रवणाह्वा मुण्डतिका तथा श्रवणशीर्षका ||१८३||
महाश्रावणी-
महाश्रावणिकाऽन्या तु सा स्मृता भूकदम्बिका |
कदम्बपुष्पिका च स्यादव्यथाऽतितपस्विनी ||१८४||
मुण्डी तिक्ता कटुः पाके वीर्योष्णा मधुरा लघुः |
मेध्या गण्डापचीकृच्छ्रकृमियोन्यर्तिपाण्डुनुत् ||१८५||
श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्तिहृत् |
महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः ||१८६||
अपामार्ग
अपामार्गस्तु शिखरी ह्यधःशल्यो मयूरकः |
मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी ||१८७||
अपामार्गः सरस्तीक्ष्णो दीपनः तिक्तकः कटुः |
पाचनो रोचनश्छर्दिकफमेदोऽनिलापहः |
निहन्ति हृद्रुजाध्मानकण्डूशूलोदरापचीः ||१८८||
रक्तापामार्ग-
रक्तोऽन्यो वसिरो वृत्तफलो धामार्गवोऽपि च |
प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ||१८९||
अपामार्गोऽरुणो वातविष्टम्भी कफकृद्धिमः |
रूक्षः पूर्वगुणैर्न्यूनः कथितो गुणवेदिभिः ||१९०||
अपामार्गफलं स्वादु रसे पाके च दुर्जरम् |
विष्टम्भि वातलं रूक्षं रक्तपित्तप्रसादनम् ||१९१||
कोकिलाक्ष
कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः |
भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका ||१९२||
क्षुरकः शीतलो वृष्यः स्वाद्वम्लः पित्तलस्तथा |
तिक्तो वातामशोथाश्मतृष्णादृष्ट्यनिलास्रजित् ||१९३||
अस्थिसंहार
ग्रन्थिमानस्थिसंहारी वज्राङ्गी वास्थिशृङ्खला |
अस्थिसंहारकः प्रोक्तो वातश्लेष्महरोऽस्थियुक् |
उष्णः सरः कृमिघ्नश्च दुर्नामघ्नोऽक्षिरोगजित् |
रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः ||१९४||
कण्डूत्वग्विरहितमस्थिशृङ्खलाया माषार्द्रं द्विदलमकञ्चुकं तदर्द्धम् |
सम्पिष्टं तदनु ततस्तिलस्य तैले संपक्वं वटकमतीव वातहारि ||१९५||
कुमारी
कुमारी गृहकन्या च कन्या घृतकुमारिका |
कुमारी भेदनी शीता तिक्ता नेत्र्या रसायनी |
मधुरा बृंहणी बल्या वृष्या वातविषप्रणुत् ||१९६||
गुल्मप्लीहयकृद्वृद्धिकफज्वरहरी हरेत् |
ग्रन्थ्यग्निदग्धविस्फोटपित्तरक्तत्वगामयान् ||१९७||
पुनर्नवा
पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका |
कटु कषायानुरसा पाण्डुघ्नी दीपनी परा |
शोफानिलगरश्लेष्महरी व्रण्योदरप्रणुत् ||१९८||
रक्तपुनर्नवा-
पुनर्नवापरा रक्ता रक्तपुष्पा शिलाटिका |
शोथघ्नः क्षुद्रवर्षाभूर्वृषकेतुः कपिल्लकः ||१९९||
पुनर्नवारुणा तिक्ता कटुपाका हिमा लघुः |
वातला ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी ||२००||
गन्धप्रसारणी
प्रसारणी राजबला भद्रपर्णी प्रतापनी |
सरणी सारणी भद्रा बला चापि कटम्भरा ||२०१||
प्रसारिणी गुरुर्वृष्या बलसन्धानकृत्सरा |
वीर्योष्णा वातहृत्तिक्ता वातरक्तकफापहा ||२०२||
सारिवा
इन्द्रजम्बूकवत्पत्रा सुगन्धा कलघण्टिका |
कृष्णा तु शारिवा श्यामा गोपी गोपवधूश्च सा ||२०३||
श्वेतसारिवा-
धवला शारिवा गोपी गोपा कन्या कृशोदरी |
स्फोटा श्यामा गोपवल्ली लतास्फोता च चन्दना ||२०४||
सारिवायुगलं स्वादु स्निग्धं शुक्रकरं गुरु |
अग्निमान्द्यारुचिश्वासकासामविषनाशनम् |
दोषत्रयास्रप्रदरज्वरातीसारनाशनम् ||२०५||
भृङ्गराज
भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च |
अङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ||२०६||
भृङ्गारः कटुकस्तीक्ष्णो रूक्षोष्णः कफवातनुत् |
केश्यस्त्वच्यः कृमिश्वासकासशोथामपाण्डुनुत् |
दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्तिनुत् ||२०७||
शणपुष्पी
शणपुष्पी स्मृता घण्टा शणपुष्पसमाकृतिः |
शणपुष्पी कटुस्तिक्ता वामिनी कफपित्तजित् ||२०८||
त्रायमाण
बलभद्रा त्रायमाणा त्रायन्ती गिरिसानुजा |
त्रायन्ती तुवरा तिक्ता सरा पित्तकफापहा |
ज्वरहृद्रोगगुल्मार्शोभ्रमशूलविषप्रणुत् ||२०९||
मूर्वा
मूर्वा मधुरसा देवी मोरटा तेजनी स्रुवा |
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि |
मूर्वा सरा गुरुः स्वादुस्तिक्ता पित्तास्रमेहनुत् |
त्रिदोषतृष्णाहृद्रोगकण्डूकुष्ठज्वरापहा ||२१०||
काकमाची
काकमाची ध्वाङ्क्षमाची काकाह्वा चैव वायसी |
काकमाची त्रिदोषघ्नी स्निग्धोष्णा स्वरशुक्रदा |
तिक्ता रसायनी शोथकुष्ठार्शोज्वरमेहजित् |
कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रोगनाशिनी ||२११||
काकनासा
काकनासा तु काकाङ्गी काकतुण्डफला च सा |
काकनासा कषायोष्णा कटुका रसपाकयोः |
कफघ्नी वामनी तिक्ता शोथार्शःश्वित्रकुष्ठहृत् ||२१२||
काकजङ्घा
काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा |
पारावतपदी दासी काका चापि प्रकीर्तिता ||२१३||
काकजंघा हिता तिक्ता कषाया कफपित्तजित् |
निहन्ति ज्वरपित्तास्रव्रणकण्डूविषकृमीन् ||२१४||
नागपुष्पी
नागपुष्पी श्वेतपुष्पा नागिनी रामदूतिका |
नागिनी रोचनी तिक्ता तीक्ष्णोष्णा कफपित्तनुत् |
विनिहन्ति विषं शूलं योनिदोषवमिकृमीन् ||२१५||
मेषशृङ्गी
मेषशृङ्गी विषाणी स्यान्मेषवल्ल्यजशृङ्गिका |
मेषशृङ्गी रसे तिक्ता वातला श्वासकासहृत् |
रूक्षा पाके कटुस्तिक्ता व्रणश्लेष्माक्षिशूलनुत् ||२१६||
मेषशृङ्गीफलं तिक्तं कुष्ठमेहकफप्रणुत् |
दीपनं स्रंसनं कासकृमिव्रणविषापहम् ||२१७||
हंसपादी
हंसपादी हंसपदी कीटमाता त्रिपादिका |
हंसपादी गुरुः शीता हन्ति रक्तविषव्रणान् |
विसर्पदाहातीसारलूताभूताग्निरोहिणीः ||२१८||
सोमलता
सोमवल्ली सोमलता सोमक्षीरी द्विजप्रिया |
सोमवल्ली त्रिदोषघ्नी कटुस्तिक्ता रसायनी ||२१९||
आकाशवल्ली
आकाशवल्ली तु बुधैः कथिताऽमरवल्लरी |
खवल्ली ग्राहिणी तिक्ता पिच्छिलाक्ष्मामयापहा |
तुवराऽग्निकरी हृद्या पित्तश्लेष्मामनाशिनी ||२२०||
पातालगरुडी
छिलिहिण्टो महामूलः पातालगरुडाह्वयः |
छिलिहिण्टः परं वृष्यः कफघ्नः पवनापहः ||२२१||
वन्दा
वन्दा वृक्षादनी वृक्षभक्ष्या वृक्षरुहापि च |
बन्दाकः स्याद्धिमस्तिक्तः कषायो मधुरो रसे |
माङ्गल्यः कफवातास्ररक्षोव्रणविषापहः ||२२२||
वटपत्री
वटपत्री तु कथिता मोहिनी रेचनी बुधैः |
वटपत्री कषायोष्णा योनिमूत्रगदापहा ||२२३||
हिङ्गुपत्री
हिङ्गुपत्री तु कबरी पृथ्वीका पृथका पृथुः |
हिङ्गुपत्री भवेद्रुच्या तीक्ष्णोष्णा पाचनी कटुः |
हृद्बस्तिरुग्विबन्धार्शःश्लेष्मगुल्मानिलापहा ||२२४||
वंशपत्री
वंशपत्री वेणुपत्री पिण्डा हिङ्गुशिवाटिका |
हिङ्गुपत्रीगुणा विज्ञैर्वंशपत्री च कीर्तिता ||२२५||
मत्स्याक्षी
मत्स्याक्षी बाह्लिका मत्स्यगन्धा मत्स्यादनीति च |
मत्स्याक्षी ग्राहिणी शीता कुष्ठपित्तकफास्रजित् |
लघुस्तिक्ता कषाया च स्वाद्वी कटुविपाकिनी ||२२६||
सर्पाक्षी
सर्पाक्षी स्यात्तु गण्डाली तथा नाडीकलापकः |
सर्पाक्षी कटुका तिक्ता सोष्णा कृमिनिकृन्तनी |
वृश्चिकोन्दुरसर्पाणां विषघ्नी व्रणरोपिणी ||२२७||
शङ्खपुष्पी
शङ्खपुष्पी तु शङ्खाह्वा माङ्गल्यकुसुमापि च |
शङ्खपुष्पी सरा मेध्या वृष्या मानसरोगहृत् |
रसायनी कषायोष्णा स्मृतिकान्तिबलाग्निदा |
दोषापस्मारभूताश्रीकुष्ठकृमिविषप्रणुत् ||२२८||
अर्कपुष्पी
अर्कपुष्पी क्रूरकर्मा पयस्या जलकामुका |
अर्कपुष्पी कृमिश्लेष्ममेहपित्तविकारजित् ||२२९||
लज्जालु
लज्जालुः स्याच्छमीपत्रा समङ्गा जलकारिका |
रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि ||२३०||
लज्जालुः शीतला तिक्ता कषाया कफपित्तजित् |
रक्तपित्तमतीसारं योनिरोगान् विनाशयेत् ||२३१||
अलम्बुषा
अलम्बुषा खरत्वक् च तथा मेदोगला स्मृता |
अलम्बुषा लघुः स्वादुः क्रिमिपित्तकफापहा ||२३२||
दुग्धिका
दुग्धिका स्वादुपर्णी स्यात्क्षीरा विक्षीरिणी तथा |
दुग्धिकोष्णा गुरू रूक्षा वातला गर्भकारिणी |
स्वादुक्षीरा कटुस्तिक्ता सृष्टमूत्रामलापहा |
स्वादुर्विष्टम्भिनी वृष्या कफकुष्ठक्रिमिप्रणुत् ||२३३||
भूम्यामलकी
भूम्यामलकिका प्रोक्ता शिवा तामलकीति च |
बहुपत्रा बहुफला बहुवीर्या जटापि च ||२३४||
भूधात्री वातकृत्तिक्ता कषाया मधुरा हिमा |
पिपासाकासपित्तास्रकफकण्डूक्षतापहा ||२३५||
ब्राह्मी, मण्डूकपर्णी
ब्राह्मी कपोतवङ्का च सोमवल्ली सरस्वती |
मण्डूकपर्णी-
मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी |
ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च शीतला |
कषाया मधुरा स्वादुपाकायुष्या रसायनी ||२३६||
स्वर्या स्मृतिप्रदा कुष्ठपाण्डुमेहास्रकासजित् |
विषशोथज्वरहरी तद्वन्मण्डूकपर्णिनी ||२३७||
द्रोणपुष्पी
द्रोणा च द्रोणपुष्पी च फलेपुष्पा च कीर्तिता |
द्रोणपुष्पी गुरुः स्वादू रूक्षोष्णा वातपित्तकृत् |
सतीक्ष्णलवणा स्वादुपाका कट्वी च भेदिनी |
कफामकामलाशोथतमकश्वासजन्तुजित् ||२३८||
सुवर्चला
सुवर्चला सूर्यभक्ता वरदा बदराऽपि च |
सूर्यावर्त्ता रविप्रीताऽपरा ब्रह्मसुदुर्लभा ||२३९||
सुवर्चला हिमा रूक्षा स्वादुपाका सरा गुरुः |
अपित्तला कटुः क्षारा विष्टम्भकफवातजित् ||२४०||
अन्या तिक्ता कषायोष्णा सरा रूक्षा लघुः कटुः |
निहन्ति कफपित्तास्रश्वासकासारुचिज्वरान् |
विस्फोटकुष्ठमेहास्रयोनिरुक्कृमिपाण्डुताः ||२४१||
वन्ध्याकर्कोटकी
वन्ध्याकर्कोटकी देवी कन्या योगीश्वरीति च |
नागारिर्नक्रदमनी विषकण्टकिनी तथा ||२४२||
वन्ध्या कर्कोटकी लघ्वी कफनुद् व्रणशोधिनी |
सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी ||२४३||
मार्कण्डिक
मार्कण्डिका भूमिवल्ली मार्कण्डी मृदुरेचनी |
मार्कण्डिका कुष्ठहरी ऊर्ध्वाधःकायशोधिनी |
विषदुर्गन्धकासघ्नी गुल्मोदरविनाशिनी ||२४४||
देवदाली
देवदाली तु वेणी स्यात्कर्कटी च गरागरी |
देवताण्डी वृत्तकोशस्तथा जीमूत इत्यपि |
पीता परा खरस्पर्शा विषघ्नी गरनाशिनी ||२४५||
देवदाली रसे तिक्ता कफार्शःशोफपाण्डुताः |
नाशयेद्वामनी तिक्ता क्षयहिक्काकृमिज्वरान् ||२४६||
देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम् |
स्रंसनं गुल्मशूलघ्नमर्शोघ्नं वातजित्परम् ||२४७||
जलपिप्पली
जलपिप्पल्यभिहिता शारदी शकुलादनी |
मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्तिता ||२४८||
जलपिप्पलिका हृद्या चक्षुष्या शुक्रला लघुः |
संग्राहिणी हिमा रूक्षा रक्तदाहव्रणापहा |
कटुपाकरसा रुच्या कषाया वह्निवर्धिनी ||२४९||
गोजिह्वा
गोजिह्वा गोजिका गोभी दार्विका खरपर्णिनी |
गोजिह्वा वातला शीता ग्राहिणी कफपित्तनुत् |
हृद्या प्रमेहकासास्रव्रणज्वरहरी लघुः |
कोमला तुवरा तिक्ता स्वादुपाकरसा स्मृता ||२५०||
नागदमनी
विज्ञेया नागदमनी बलामोटा विषापहा |
नागपुष्पी नागपत्रा महायोगेश्वरीति च ||२५१||
बलामोटा कटुस्तिक्ता लघुः पित्तकफापहा |
मूत्रकृच्छ्रव्रणान् रक्षो नाशयेज्जालगर्दभम् ||२५२||
सर्व्रग्रहप्रशमनी निःशेषविषनाशिनी |
जयं सर्वत्र कुरुते धनदा सुमतिप्रदा ||२५३||
वीरतरु
वेल्लन्तरो जगति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितनीलपुष्पः |
स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात्कण्टकी विजलदेशज एव वृक्षः ||२५४||
वेल्लन्तरो रसे पाके तिक्तस्तृष्णाकफापहः |
मूत्राघाताश्मजिद्ग्राही योनिमूत्रानिलार्तिजित् ||२५५||
छिक्कनी
छिक्कनी क्षवकृत्तीक्ष्णा छिक्किका घ्राणदुःखदा |
छिक्कनी कटुका रुच्या तीक्ष्णोष्णा वह्निपित्तकृत् |
वातरक्तहरी कुष्ठकृमिवातकफापहा ||२५६||
ताम्रचूड
कुकुन्दरस्ताम्रचूडः सूक्ष्मपत्रो मृदुच्छदः |
कुकुन्दरः कटुस्तिक्तो ज्वररक्तकफापहः |
तन्मूलमार्द्रं निःक्षिप्तं वदने मुखशोषहृत् ||२५७||
सुदर्शन
सुदर्शना सोमवल्ली चक्राह्वा मधुपर्णिका |
सुदर्शना स्वादुरुष्णा कफशोफास्रवातजित् ||२५८||
आखुकर्णी
आखुकर्णी त्वाखुकर्णपर्णिका भूदरीभवा |
आखुकर्णी कटुस्तिक्ता कषाया शीतला लघुः |
विपाके कटुका मूत्रकफामयकृमिप्रणुत् ||२५९||
मयूरशिख
मयूराह्वशिखा प्रोक्ता सहस्राहिर्मधुच्छदा |
नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित् ||२६०||
पुष्पिका
इति श्रीलटकनमिश्रतनयश्रीभावमिश्रविरचिते भावप्रकाशे
पूर्वखण्डे मिश्रप्रकरणे चतुर्थो गुडूच्यादिवर्गः समाप्तः |
Diacritic Version
||śrībhāvamiśraviracita||
Bhāvaprakāśanighaṇṭu
[bhāvaprakāśa-pūrvakhaṇḍa-prathamabhāga]
4. guḍūcyādivarga
guḍūcī
atha laṅkēśvarō mānī rāvaṇō rākṣasādhipaḥ |
rāmapatnīṁ balātsītāṁ jahāra madanāturaḥ ||1||
tatastaṁ balavān rāmō ripuṁ jāyāpahāriṇam |
vr̥tō vānarasainyēna jaghāna raṇamūrdhani ||2||
hatē tasminsurārātau rāvaṇē balagarvitē |
dēvarājaḥ sahasrākṣaḥ parituṣṭaśca rāghavē ||3||
tatra yē vānarāḥ kēcidrākṣasairnihatā raṇē |
tānindrō jīvayāmāsa saṁsicyāmr̥tavr̥ṣṭibhiḥ ||4||
tatō yēṣu pradēśēṣu kapigātrātparicyutāḥ |
pīyūṣabindavaḥ pētustēbhyō jātā guḍūcikā ||5||
guḍūcī nāmāni-
guḍūcī madhuparṇī syādamr̥tā’mr̥tavallarī |
chinnā chinnaruhā chinnōdbhavā vatsādanīti ca ||6||
jīvantī tantrikā sōmā sōmavallī ca kuṇḍalī |
cakralakṣaṇikā dhīrā viśalyā ca rasāyanī |
candrahāsā vayasthā ca maṇḍalī dēvanirmitā ||7||
guḍūcī kaṭukā tiktā svādupākā rasāyanī |
saṁgrāhiṇī kaṣāyōṣṇā laghvī balyā’gnidīpanī |
dōṣatrayāmatr̥ḍdāhamēhakāsāṁśca pāṇḍutām ||8||
kāmalākuṣṭhavātāsrajvarakr̥mivamīnharēt |
pramēhaśvāsakāsārśaḥkr̥cchrahr̥drōgavātanut ||9||
tāmbūlavallī
tāmbūlavallī tāmbūlī nāginī nāgavallarī |
tāmbūlaṁ viśadaṁ rucyaṁ tīkṣṇōṣṇaṁ tuvaraṁ saram |
vaśyaṁ tiktaṁ kaṭukṣāraṁ raktapittakaraṁ laghu |
balyaṁ ślēṣmāsyadaurgandhyamalavātaśramāpaham ||10||
bilva
bilvaḥ śāṇḍilyaśailūṣau mālūraśrīphalāvapi |
śrīphalastuvarastiktō grāhī rūkṣō’gnipittakr̥t |
vātaślēṣmaharō balyō laghuruṣṇaśca pācanaḥ ||11||
gambhārī
gambhārī bhadraparṇī ca śrīparṇī madhuparṇikā |
kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarōhiṇī |
kr̥ṣṇavr̥ntā madhurasā mahākusumikā’pi ca ||12||
kāśmarī tuvarā tiktā vīryōṣṇā madhurā guruḥ |
dīpanī pācanī mēdhyā bhēdinī bhramaśōṣajit |
dōṣatr̥ṣṇāmaśūlārśōviṣadāhajvarāpahā ||13||
tatphalaṁ br̥ṁhaṇaṁ vr̥ṣyaṁ guru kēśyaṁ rasāyanam |
vātapittatr̥ṣāraktakṣayamūtravibandhanut ||14||
svādu pākē himaṁ snigdhaṁ tuvarāmlaṁ viśuddhikr̥t |
hanyāddāhatr̥ṣāvātaraktapittakṣatakṣayān ||15||
pāṭalā
pāṭaliḥ pāṭalā’mōghā madhudūtō phalēruhā |
kr̥ṣṇavr̥ntā kubērākṣī kālasthālyalivallabhā ||16||
tāmrapuṣpī ca kathitā’parā syātpāṭalā sitā |
muṣkakō mōkṣakō ghaṇṭāpāṭaliḥ kāṣṭhapāṭalā ||17||
pāṭalā tuvarā tiktānuṣṇā dōṣatrayāpahā |
aruciśvāsaśōthāsracchardihikkātr̥ṣāharī ||18||
puṣpaṁ kaṣāyaṁ madhuraṁ himaṁ hr̥dyaṁ kaphāsranut |
pittātisārahr̥tkaṇṭhyaṁ phalaṁ hikkāsrapittahr̥t ||19||
agnimantha
agnimanthō jayaḥ sa syācchrīparṇī gaṇikārikā |
jayā jayantī tarkārī nādēyī vaijayantikā ||20||
agnimanthaḥ śvayathunudvīryōṣṇaḥ kaphavātahr̥t |
pāṇḍunutkaṭukastiktastuvarō madhurō’gnidaḥ ||21||
śyōnāka
śyōnākaḥ śōṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukāḥ |
maṇḍūkaparṇapatrōrṇaśukanāsakuṭannaṭāḥ |
dīrghavr̥ntō’raluścāpi pr̥thuśimbaḥ kaṭambharaḥ ||22||
śyōnākō dīpanaḥ pākē kaṭukastuvarō himaḥ |
grāhī tiktō’nilaślēṣmapittakāsapraṇāśanaḥ ||23||
ṭuṇṭukasya phalaṁ bālaṁ rūkṣaṁ vātakaphāpaham |
hr̥dyaṁ kaṣāyaṁ madhuraṁ rōcanaṁ laghu dīpanam |
gulmārśaḥkr̥mihr̥tprauḍhaṁ guru vātaprakōpaṇam ||24||
br̥hatpañcamūla
śrīphalaḥ sarvatōbhadrā pāṭalā gaṇikārikā |
śyōnākaḥ pañcabhiścaitaiḥ pañcamūlaṁ mahanmatam ||25||
pañcamūlaṁ mahat tiktaṁ kaṣāyaṁ kaphavātanut |
madhuraṁ śvāsakāsaghnamuṣṇaṁ laghvagnidīpanam ||26||
śāliparṇī
śāliparṇī sthirā saumyā triparṇī pīvarī guhā |
vidārigandhā dīrghāṅgī dīrghapatrāṁśumatyapi ||27||
śāliparṇī guruśchardijvaraśvāsātisārajit |
śōṣadōṣatrayaharī br̥ṁhaṇyuktā rasāyanī |
tiktā viṣaharī svāduḥ kṣatakāsakr̥mipraṇut ||28||
pr̥ṣṭhiparṇī
pr̥ṣṭhiparṇī pr̥thakparṇī citraparṇyahiparṇyapi |
krōṣṭuvinnā siṁhapucchī kalaśī dhāvanirguhā ||29||
pr̥ṣṭhiparṇī tridōṣaghnī vr̥ṣyōṣṇā madhurā sarā |
hanti dāhajvaraśvāsaraktātīsāratr̥ḍvamīḥ ||30||
br̥hatī
vārtākī kṣudrabhaṇṭākī mahatī br̥hatī kulī |
hiṅgulī rāṣṭrikā siṁhī mahōṣṭrī duṣpradharṣiṇī ||31||
br̥hatī grāhiṇī hr̥dyā pācanī kaphavātahr̥t |
kaṭutiktāsyavairasyamalārōcakanāśinī |
uṣṇā kaṭujvaraśvāsaśūlakāsāgnimāndyajit ||32||
kaṇṭakārī
kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā |
kaṇṭālikā kaṇṭakinī dhāvanī br̥hatī tathā ||33||
kṣudrā yā kṣudrabhadrākhyā br̥hatīti nigadyatē |
śvētā kṣudrā candrahāsā lakṣmaṇā kṣētradūtikā |
garbhadā candramā candrī candrapuṣpā priyaṅkarī ||34||
kaṇṭakārī guṇa-
kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ |
rūkṣōṣṇā pācanī kāsaśvāsajvarakaphānilān ||35||
nihanti pīnasaṁ śvāsapārśvapīḍāhr̥dāmayān |
tayōḥ phalaṁ kaṭu rasē pākē ca kaṭukaṁ bhavēt |
śukrasya rēcanaṁ bhēdi tiktaṁ pittāgnikr̥llaghu ||36||
hanyātkaphamarutkaṇḍūkāsamēdakr̥mijvarān |
tadvatprōktā sitā kṣudrā viśēṣādgarbhakāriṇī ||37||
gōkṣura
gōkṣuraḥ kṣurakō’pi syāttrikaṇṭaḥ svādukaṇṭakaḥ |
gōkaṇṭakō gōkṣurakō vanaśr̥ṅgāṭa ityapi |
palaṅkaṣā śvadaṁṣṭrā ca tathā syādikṣugandhikā ||38||
gōkṣuraḥ śītalaḥ svādurbalakr̥dbastiśōdhanaḥ |
madhurō dīpanō vr̥ṣyaḥ puṣṭidaścāśmarīharaḥ |
pramēhaśvāsakāsārśaḥ kr̥cchrahr̥drōgavātanut ||39||
laghupañcamūla
śāliparṇī pr̥ṣṭhiparṇī vārttākī kaṇṭakārikā |
gōkṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṁ pañcamūlakam ||40||
pañcamūlaṁ laghu svādu balyaṁ pittānilāpaham |
nātyuṣṇaṁ br̥ṁhaṇaṁ grāhi jvaraśvāsāśmarīpraṇut ||41||
daśamūla
ubhābhyāṁ pañcamūlābhyāṁ daśamūlamudāhr̥tam |
daśamūlaṁ tridōṣaghnaṁ śvāsakāsaśirōrujaḥ |
tandrāśōthajvarānāhapārśvapīḍārucīrharēt ||42||
jīvantī
jīvantī jīvanī jīvā jīvanīyā madhusravā |
maṅgalyanāmadhēyā ca śākaśrēṣṭhā payasvinī ||43||
jīvantī śītalā svāduḥ snigdhā dōṣatrayāpahā |
rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ ||44||
mudgaparṇī
mudgaparṇī kākaparṇī sūryaparṇyalpikā sahā |
kākamudgā ca sā prōktā tathā mārjāragandhikā ||45||
mudgaparṇī himā rūkṣā tiktā svāduśca śukralā |
cakṣuṣyā kṣataśōthaghnī grāhiṇī jvaradāhanut |
dōṣatrayaharī laghvī grahaṇyarśō’tisārajit ||46||
māṣaparṇī
māṣaparṇī sūryaparṇī kāmbōjī hayapucchikā |
pāṇḍulōmaśaparṇī ca kr̥ṣṇavr̥ntā mahāsahā ||47||
māṣaparṇī himā tiktā rūkṣā śukrabalāsrakr̥t |
madhurā grāhiṇī śōthavātapittajvarāsrajit ||48||
jīvanīyagaṇa
aṣṭavargaḥ sayaṣṭīkō jīvantī mudgaparṇikā |
māṣaparṇīgaṇō’yaṁ tu jīvanīya iti smr̥taḥ ||49||
jīvanō madhuraścāpi nāmnā sa parikīrtitaḥ |
jīvanīyagaṇaḥ prōktaḥ śukrakr̥dbr̥ṁhaṇō himaḥ ||50||
gururgarbhapradaḥ stanyaḥ kaphakr̥tpittaraktahr̥t |
tr̥ṣṇāṁ śōṣaṁ jvaraṁ dāhaṁ raktapittaṁ vyapōhati ||51||
ēraṇḍa
śukla ēraṇḍa āmaṇḍaścitrō gandharvahastakaḥ |
pañcāṅgulō vardhamānō dīrghadaṇḍō’pyadaṇḍakaḥ |
vātāristaruṇaścāpi rubūkaśca nigadyatē ||52||
raktairaṇḍa-
raktō’parō rubūkaḥ syādurubūkō rubustathā |
vyāghrapucchaśca vātāriścañcuruttānapatrakaḥ ||53||
ēraṇḍayugmaṁ madhuramuṣṇaṁ guru vināśayēt |
śūlaśōthakaṭībastiśiraḥpīḍōdarajvarān ||54||
bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān |
ēraṇḍapatraṁ vātaghnaṁ kaphakrimivināśanam ||55||
mūtrakr̥cchraharaṁ cāpi pittaraktaprakōpaṇam |
vātāryagradalaṁ gulmaṁ bastiśūlaharaṁ param ||56||
kaphavātakr̥mīnhanti vr̥ddhiṁ saptavidhāmapi |
ēraṇḍaphalamatyuṣṇaṁ gulmaśūlānilāpaham ||57||
yakr̥tplīhōdarārśōghnaṁ kaṭukaṁ dīpanaṁ param |
tadvanmajjā ca viḍbhēdīvātaślēṣmōdarāpahaḥ ||58||
alarka, arka
alarkō gaṇarūpaḥ syānmandārō vasukō’pi ca |
śvētapuṣpaḥ sadāpuṣpaḥ sabālārkaḥ pratīyasaḥ ||59||
raktō’parō’rkanāmā syādarkaparṇō vikīraṇaḥ |
raktapuṣpaḥ śuklaphalastathā sphōṭaḥ prakīrtitaḥ ||60||
arkadvayaṁ saraṁ vātakuṣṭhakaṇḍūviṣavraṇān |
nihanti plīhagulmārśaḥślēṣmōdaraśakr̥tkr̥mīn ||61||
alarkakusumaṁ vr̥ṣyaṁ laghu dīpanapācanam |
arōcakaprasēkārśaḥkāsaśvāsanivāraṇam ||62||
raktārkapuṣpaṁ madhuraṁ satiktaṁ kuṣṭhakrimighnaṁ kaphanāśanaṁ ca |
arśō viṣaṁ hanti ca raktapittaṁ saṁgrāhi gulmē śvayathau hitaṁ tat ||63||
kṣīramarkasya tiktōṣṇaṁ snigdhaṁ salavaṇaṁ laghu |
kuṣṭhagumlōdaraharaṁ śrēṣṭhamētadvirēcanam ||64||
snuhī
sēhuṇḍaḥ siṁhatuṇḍaḥ syādvajrī vajradrumō’pi ca |
sudhā samantadugdhā ca snuk striyāṁ syātsnuhī guḍā ||65||
sīhuṇḍō rēcanastīkṣṇō dīpanaḥ kaṭukō guruḥ |
śūlamaṣṭhīlikādhmānakaphagulmōdarānilān ||66||
unmādamōhakuṣṭhārśaḥ śōthamēdō’śmapāṇḍutāḥ |
vraṇaśōthajvaraplīhaviṣadūṣīviṣaṁ harēt ||67||
uṣṇavīryaṁ snuhīkṣīraṁ snigdhañca kaṭukaṁ laghu |
gulmināṁ kuṣṭhināñcāpi tathaivōdararōgiṇām |
hitamētadvirēkārthaṁ yē cānyē dīrgharōgiṇaḥ ||68||
sēhuṇḍabhēda-
śātalā saptalā sārā vimalā vidulā ca sā |
tathā nigaditā bhūriphēnā carmakaṣētyapi ||69||
śātalā kaṭukā pākē vātalā śītalā laghuḥ |
tiktā śōthakaphānāhapittōdāvartaraktajit ||70||
lāṅgalī
kalihārī tu halinī lāṅgalī śakrapuṣpyapi |
viśalyāgniśikhānantā vahnivaktrā ca garbhanut ||71||
kalihārī sarā kuṣṭhaśōphārśōvraṇaśūlajit |
sakṣārā ślēṣmajittiktā kaṭukā tuvarāpi ca |
tīkṣṇōṣṇā kr̥mihr̥llaghvī pittalā garbhapātinī ||72||
karavīra
karavīraḥ śvētapuṣpaḥ śatakumbhō’śvamārakaḥ |
dvitīyō raktapuṣpaśca caṇḍātō laguḍastathā ||73||
karavīradvayaṁ tiktaṁ kaṣāyaṁ kaṭukañca tat |
vraṇalāghavakr̥nnētrakōpakuṣṭhavraṇāpaham |
vīryōṣṇaṁ kr̥mikaṇḍūghnaṁ bhakṣitaṁ viṣavanmatam ||74||
dhattūra
dhattūradhūrtadhuttūrā unmattaḥ kanakāhvayaḥ |
dēvatā kitavastūrī mahāmōhī śivapriyaḥ |
mātulō madanaścāsya phalē mātulaputrakaḥ ||75||
dhattūrō madavarṇāgnivātakr̥javarakuṣṭhanut |
kaṣāyō madhurastiktō yūkālikṣāvināśakaḥ |
uṣṇō gururvraṇaślēṣmakaṇḍūkr̥miviṣāpahaḥ ||76||
āṭarūṣa
vāsakō vāśikā vāsā bhiṣaṅmātā ca siṁhikā |
siṁhāsyō vājidantā syādāṭarūṣō’ṭarūṣakaḥ |
āṭarūṣō vr̥ṣastāmraḥ siṁhaparṇaśca sa smr̥taḥ ||77||
vāsakō vātakr̥tsvaryaḥ kaphapittāsranāśanaḥ |
tiktastuvarakō hr̥dyō laghuśītastr̥ḍartihr̥t |
śvāsakāsajvaracchardimēhakuṣṭhakṣayāpahaḥ ||78||
parpaṭaka
parpaṭō varatiktaśca smr̥taḥ parpaṭakaśca saḥ |
kathitaḥ pāṁśuparyāyastathā kavacanāmakaḥ ||79||
parpaṭō hanti pittāsrabhramatr̥ṣṇākaphajvarān |
saṁgrāhī śītalastiktō dāhanudvātalō laghuḥ ||80||
nimba
nimbaḥ syātpicumardaśca picumandaśca tiktakaḥ |
ariṣṭaḥ pāribhadraśca hiṅguniryāsa ityapi ||81||
nimbaḥ śītō laghurgrāhī kaṭupākō’gnivātanut |
ahr̥dyaḥ śramataḍkāsajvarārucikr̥mipraṇut ||82||
vraṇapittakaphacchardikuṣṭhahr̥llāsamēhanut |
nimbapatraṁ smr̥taṁ nētryaṁ kr̥mipittaviṣapraṇut ||83||
vātalaṁ kaṭupākañca sarvārōcakakuṣṭhanut |
nimbaphalaṁ rasē tiktaṁ pākē tu kaṭubhēdanam |
snigdhaṁ laghūṣṇaṁ kuṣṭhaghnaṁ gulmārśaḥkr̥mimēhanut ||84||
mahānimba
mahānimbaḥ smr̥tō drēkā ramyakō viṣamuṣṭikaḥ |
kēśāmuṣṭirnimbakaśca kārmukō jīva ityapi ||85||
mahānimbō himō rūkṣastiktō grāhī kaṣāyakaḥ |
kaphapittabhramacchardikuṣṭhahr̥llāsaraktajit |
pramēhaśvāsagulmārśōmūṣikāviṣanāśanaḥ ||86||
pāribhadra
pāribhadrō nimbatarurmandāraḥ pārijātakaḥ |
pāribhadrō’nilaślēṣmaśōthamēdaḥkr̥mipraṇut |
tatpatraṁ pittarōgaghnaṁ karṇavyādhivināśanam ||87||
kāñcanāra
kāñcanāraḥ kāñcanakō gaṇḍāriḥ śōṇapuṣpakaḥ |
kōvidāraścamarikaḥ kuddālō yugapatrakaḥ |
kuṇḍalī tāmrapuṣpaścāśmantakaḥ svalpakēśarī ||88||
kāñcanārō himō grāhī tuvaraḥ ślēṣmapittanut |
kr̥mikuṣṭhagudabhraṁśagaṇḍamālāvraṇāpahaḥ ||89||
kōvidārō’pi tadvatsyāttayōḥ puṣpaṁ laghu smr̥tam |
rūkṣaṁ saṁgrāhi pittāsrapradarakṣayakāsanut ||90||
śōbhāñjana
śōbhāñjanaḥ śigrutīkṣṇagandhakākṣīvamōcakāḥ |
tadbījaṁ śvētamaricaṁ madhuśigruḥ salōhitaḥ ||91||
śigruḥ kaṭuḥ kaṭuḥ pākē tīkṣṇōṣṇō madhurō laghuḥ |
dīpanō rōcanō rūkṣaḥ kṣārastiktō vidāhakr̥t |
saṁgrāhī śukralō hr̥dyaḥ pittaraktaprakōpaṇaḥ ||92||
cakṣuṣyaḥ kaphavātaghnō vidradhiśvayathukrimīn |
mēdō’pacīviṣaplīhagulmagaṇḍavraṇānharēt ||93||
śvētaḥ prōktaguṇō jñēyō viśēṣāddāhakr̥dbhavēt |
plīhānaṁ vidradhiṁ hanti vraṇaghnaḥ pittaraktahr̥t ||94||
madhuśigruḥ prōktaguṇō viśēṣāddīpanaḥ saraḥ |
śigruvalkalapatrāṇāṁ svarasaḥ paramārtihr̥t ||95||
cakṣuṣyaṁ śigrujaṁ bījaṁ tīkṣṇōṣṇaṁ viṣanāśanam |
avr̥ṣyaṁ kaphavātaghnaṁ tannasyēna śirō’rtinut ||96||
aparājitā
āsphōtā girikarṇī syādviṣṇukrāntā’parājitā |
aparājitē kaṭū mēdhyē śītē kaṇṭhyē sudr̥ṣṭidē |
kuṣṭhamūtratridōṣāmaśōthavraṇaviṣāpahē |
kaṣāyē kaṭukē pākē tiktē ca smr̥tibuddhidē ||97||
sinduvāra
sinduvāraḥ śvētapuṣpaḥ sindukaḥ sinduvārakaḥ |
nīlapuṣpī tu nirguṇḍī śēphālī suvahā ca sā ||98||
sindukaḥ smr̥tidastiktaḥ kaṣāyaḥ kaṭukō laghuḥ |
kēśyō nētrahitō hanti śūlaśōthāmamārutān ||99||
kr̥mikuṣṭhāruciślēṣmajvarānnīlāpi tadvidhā |
sinduvāradalaṁ jantuvātaślēṣmaharaṁ laghu ||100||
kuṭaja
kuṭajaḥ kūṭajaḥ kīṭō vatsakō girimallikā |
kāliṅgaḥ śakraśākhī ca mallikāpuṣpa ityapi |
indrō yavaphalaḥ prōktō vr̥kṣakaḥ pāṇḍuradrumaḥ ||101||
kuṭajaḥ kaṭukō rūkṣō dīpanastuvarō himaḥ |
arśō’tisārapittāsrakaphatr̥ṣṇāmakuṣṭhanut ||102||
karañja
karañjō naktamālaśca karajaścirabilvakaḥ |
ghr̥tapūrṇakarañjō’nyaḥ prakīryaḥ pūtikō’pi ca |
sa cōktaḥ pūtikarañjaḥ sōmavalkaśca sa smr̥taḥ ||103||
karañjaḥ kaṭukastīkṣṇō vīryōṣṇō yōnidōṣahr̥t |
kuṣṭhōdāvartagulmārśōvraṇakrimikaphāpahaḥ ||104||
tatpatraṁ kaphavātārśaḥkr̥miśōthaharaṁ param |
bhēdanaṁ kaṭukaṁ pākē vīryōṣṇaṁ pittalaṁ laghu ||105||
tatphalaṁ kaphavātaghnaṁ mēhārśaḥkr̥mikuṣṭhajit |
ghr̥tapūrṇakarañjō’pi karañjasadr̥śō guṇaiḥ ||106||
udakīrya
udakīryastr̥tīyō’nyaḥ ṣaḍgranthā hastivāruṇī |
markaṭī vāyasī cāpi karañjī karabhañjikā ||107||
karañjī stambhanī tiktā tuvarā kaṭupākinī |
vīryōṣṇā vamipittārśaḥkr̥mikuṣṭhapramēhajit ||108||
guñjā
śvētā raktōccaṭā prōktā kr̥ṣṇalā cāpi sā smr̥tā |
raktā sā kākaciñcī syātkākānantī ca raktikā |
kākādanī kākapīluḥ sā smr̥tā kākavallarī ||109||
guñjādvayantu kēśyaṁ svādvātapittajvarāpaham |
mukhaśōṣabhramaśvāsatr̥ṣṇāmadavināśanam ||110||
nētrāmayaharaṁ vr̥ṣyaṁ balyaṁ kaṇḍūṁ vraṇaṁ harēt |
kr̥mīndraluptakuṣṭhāni raktā ca dhavalāpi ca ||111||
kapikacchū
kapikacchūrātmaguptā vr̥ṣyā prōktā ca markaṭī |
ajarā kaṇḍurā vyaṅgā duḥsparśā prāvr̥ṣāyaṇī |
lāṅgalī śūkaśimbī ca saiva prōktā maharṣibhiḥ ||112||
kapikacchūrbhr̥śaṁ vr̥ṣyā madhurā br̥ṁhaṇī guruḥ |
tiktā vātaharī balyā kaphapittāsranāśinī |
tadbījaṁ vātaśamanaṁ smr̥taṁ vājīkaraṁ param ||113||
māṁsarōhiṇī
māṁsarōhiṇyatiruhā vr̥ṁtā carmakarī kr̥śā |
prahāravallī vikaśā vīravallyapi kathyatē |
syānmāṁsarōhiṇī vr̥ṣyā sarā dōṣatrayāpahā ||114||
cihlaka
cihlakō vātanirhāraḥ ślēṣmaghnō dhātupuṣṭikr̥t |
āgnēyō viṣavadyasya phalaṁ matsyaniṣūdanam ||115||
ṭaṅkārī
ṭaṅkārī vātajittiktā ślēṣmaghnī dīpanī laghuḥ |
śōthōdaravyathāhantrī hitā pīṭhavisarpiṇām ||116||
vētasa
vētasō namrakaḥ prōktō vānīrō vañjulastathā |
abhrapuṣpaśca vidulō rathaśītaśca kīrtitaḥ ||117||
vētasaḥ śītalō dāhaśōthārśōyōnirukpraṇut |
hanti vīsarpakr̥cchrāsrapittāśmarikaphānilān ||118||
jalavētasa
nikuñcakaḥ parivyādhō nādēyō jalavētasaḥ |
jalajō vētasaḥ śītakuṣṭhahr̥dvātakōpanaḥ ||119||
hijjala
ijjalō hijjalaścāpi niculaścāmbujastathā |
jalēvētasavadvēdyō hijjalō’yaṁ viṣāpahaḥ ||120||
aṅkōṭa
aṅkōṭō dīrghakīlaḥ syādaṅkōlaśca nikōcakaḥ |
aṅkōṭakaḥ kaṭustīkṣṇaḥ snigdhōṣṇastuvarō laghuḥ |
rēcanaḥ kr̥miśūlāmaśōphagrahaviṣāpahaḥ ||121||
visarpakaphapittāsramūṣakāhiviṣāpahaḥ |
tatphalaṁ śītalaṁ svādu ślēṣmaghnaṁ br̥ṁhaṇaṁ guru |
balyaṁ virēcanaṁ vātapittadāhakṣayāsrajit ||122||
balā
balā vāṭyālikā vāṭyā saiva vāṭyālakā’pi ca |
mahābalā pītapuṣpā sahadēvī ca sā smr̥tā ||123||
tatō’nyātibalā r̥ṣyaprōktā kaṅkatikā ca sā |
gāṅgērukī nāgabalā jhaṣā hrasvagavēdhukā ||124||
balācatuṣṭayaṁ śītaṁ madhuraṁ balakāntikr̥t |
snigdhaṁ grāhi samīrāsrapittāsrakṣatanāśanam ||125||
balāmūlatvacaścūrṇaṁ pītaṁ sakṣīraśarkaram |
mūtrātisāraṁ harati dr̥ṣṭamētanna saṁśayaḥ ||126||
harēnmahābalā kr̥cchraṁ bhavēdvātānulōmanī |
hanyādatibalā mēhaṁ payasā sitayā samam ||127||
lakṣmaṇā
putrakākāraraktālpabindubhirlāñchitā sadā |
lakṣmaṇā putrajananī bastagandhākr̥tirbhavēt |
kathitā putradā’vaśyaṁ lakṣmaṇā munipuṅgavaiḥ ||128||
svarṇavallī
svarṇavallīraktaphalā kākāyuḥ kākavallarī |
svarṇavallī śiraḥpīḍāṁ tridōṣānhanti dugdhadā ||129||
kārpāsī
kārpāsī tuṇḍakērī ca samudrāntā ca kathyatē |
kārpāsakī laghuḥ kōṣṇā madhurā vātanāśinī |
tatpalāśaṁ samīraghnaṁ raktakr̥nmūtravardhanam ||130||
tatkarṇapīḍakānādapūyāsrāvavināśanam |
tadbījaṁ stanyadaṁ vr̥ṣyaṁ snigdhaṁ kaphakaraṁ guru ||131||
vaṁśa
vaṁśastvaksārakarmārastvacisārastr̥ṇadhvajāḥ |
śataparvā yavaphalō vēṇumaskaratējanāḥ ||132||
vaṁśaḥ sarō himaḥ svāduḥ kaṣāyō bastiśōdhanaḥ |
chēdanaḥ kaphapittaghnaḥ kuṣṭhāsravraṇaśōthajit ||133||
tatkarīraḥ kaṭuḥ pākē rasē rūkṣō guruḥ saraḥ |
kaṣāyaḥ kaphakr̥tsvādurvidāhī vātapittalaḥ ||134||
tadyavāstu sarā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ |
vātapittakarā uṣṇā baddhamūtrāḥ kaphāpahāḥ ||135||
nala
nalaḥ pōṭagalaḥ śūnyamadhyaśca dhamanastathā |
nalastu madhurastiktaḥ kaṣāyaḥ kapharaktajit |
uṣṇō hr̥dbastiyōnyartidāhapittavisarpahr̥t ||136||
bhadramuñja
bhadramuñjaḥ śarō bāṇastējanaścakṣuvēṣṭanaḥ |
muñjō muñjātakō bāṇaḥ sthūladarbhaḥ sumēkhalaḥ ||137||
muñjadvayantu madhuraṁ tuvaraṁ śiśiraṁ tathā |
dāhatr̥ṣṇāvisarpāmamūtrakr̥cchrākṣirōgajit |
dōṣatrayaharaṁ vr̥ṣyaṁ mēkhalāsūpayujyatē ||138||
kāśa
kāśaḥ kāśēkṣuruddiṣṭaḥ sa syādikṣurasastathā |
ikṣvālikēkṣugandhā ca tathā pōṭagalaḥ smr̥taḥ ||139||
kāśaḥ syānmadhurastiktaḥ svādupākō himaḥ saraḥ |
mūtrakr̥cchrāśmadāhāsrakṣayapittajarōgajit ||140||
gundra
gundraḥ paṭērakō racchaḥ śr̥ṅgavērābhamūlakaḥ |
gundraḥ kaṣāyō madhuraḥ śiśiraḥ pittaraktajit |
stanyaśukrarajōmūtraśōdhanō mūtrakr̥cchrahr̥t ||141||
gundramūla
ērakā gundramūlā ca śivirgundrā śarīti ca |
ērakā śiśirā vr̥ṣyā cakṣuṣyā vātakōpinī |
mūtrakr̥cchrāśmarīdāhapittaśōṇitanāśinī ||142||
kuśa
kuśō darbhastathā barhiḥ sūcyagrō yajñabhūṣaṇaḥ |
tatō’nyō dīrghapatraḥ syātkṣurapatrastathaiva ca ||143||
darbhadvayaṁ tridōṣaghnaṁ madhuraṁ tuvaraṁ himam |
mūtrakr̥cchrāśmarītr̥ṣṇābastirukpradarāsrajit ||144||
kattr̥ṇa
kattr̥ṇaṁ rōhiṣaṁ dēvajagdhaṁ saugandhikaṁ tathā |
bhūtīkaṁ vyāmapaurē ca śyāmakaṁ dhūpagandhikam ||145||
rōhiṣaṁ tuvaraṁ tiktaṁ kaṭupākaṁ vyapōhati |
hr̥tkaṇṭhavyādhipittāsraśūlakāsakaphajvarān ||146||
bhūtr̥ṇa
guhyabījaṁ tu bhūtīkaṁ sugandhaṁ jambukapriyam |
bhūtr̥ṇaṁ tu bhavēcchatrā mālātr̥ṇakamityapi ||147||
bhūtr̥ṇaṁ kaṭukaṁ tiktaṁ tīkṣṇōṣṇaṁ rēcanaṁ laghu |
vidāhi dīpanaṁ rūkṣamanētryaṁ mukhaśōdhanam |
avr̥ṣyaṁ bahuviṭkañca pittaraktapradūṣaṇam ||148||
nīladūrvā
nīladūrvā ruhā’nantā bhārgavī śataparvikā |
śaṣpaṁ sahasravīryā ca śatavallī ca kīrtitā ||149||
nīladūrvā himā tiktā madhurā tuvarā harēt |
kaphapittāsravīsarpatr̥ṣṇādāhatvagāmayān ||150||
śvētadūrvā, gaṇḍadūrvā
dūrvā śuklā tu gōlōmī śatavīryā ca kathyatē |
śvētā dūrvā kaṣāyā syātsvādvī vraṇyā ca jīvanī |
tiktā himā visarpāsratr̥ṭpittakaphadāhahr̥t ||151||
gaṇḍadūrvā tu gaṇḍālī matsyākṣī śakulākṣakaḥ |
gaṇḍadūrvā himā lōhadrāviṇī grāhiṇī laghuḥ |
tiktā kaṣāyā madhurā vātakr̥tkaṭupākinī |
dāhatr̥ṣṇābalāsāsrakuṣṭhapittajvarāpahā ||152||
vidārīkanda
vidārīkanda ēvānyaiścarmakārālukō mataḥ |
anūpasambhavē dēśē varāha iva lōmavān ||153||
vidārī svādukandā ca sā tu krōṣṭrī sitā smr̥tā |
ikṣugandhā kṣīravallī kṣīraśuklā payasvinī |
vārāhavadanā gr̥ṣṭirbadarētyapi kathyatē ||154||
vidārī madhurā snigdhā br̥ṁhaṇī stanyaśukradā |
śītā svaryā mūtralā ca jīvanī balavarṇadā |
guruḥ pittāsrapavanadāhān hanti rasāyanī ||155||
muśalī
tālamūlī tu vidvadbhirmūśalī parikīrtitā |
muśalī madhurā vr̥ṣyā vīryōṣṇā br̥ṁhaṇī guruḥ |
tiktā rasāyanī hanti gudajānyanilaṁ tathā ||156||
śatāvarī, mahāśatāvarī
śatāvarī bahusutā bhīrurindīvarī varī |
nārāyaṇī śatapadī śatavīryā ca pīvarī ||157||
mahāśatāvarī cānyā śatamūlyardhakaṇṭikā |
sahasravīryā hētuśca r̥ṣyaprōktā mahōdarī ||158||
śatāvarī guruḥ śītā tiktā svādvī rasāyanī |
mēdhā’gnipuṣṭidā snigdhā nētryā gulmātisārajit |
śukrastanyakarī balyā vātapittāsraśōthajit ||159||
mahāśatāvarī mēdhyā hr̥dyā vr̥ṣyā rasāyanī |
śītavīryā nihantyarśōgrahaṇīnayanāmayān ||160||
aśvagandhā
gandhāntā vājināmādiraśvagandhā hayāhvayā |
varāhakarṇī varadā baladā kuṣṭhagandhinī ||161||
aśvagandhā’nilaślēṣmaśvitraśōthakṣayāpahā |
balyā rasāyanī tiktā kaṣāyōṣṇā’tiśukralā ||162||
pāṭhā
pāṭhāmbaṣṭhāmbaṣṭhakī ca prācīnā pāpacēlikā |
ēkāṣṭhīlā rasā prōktā pāṭhikā varatiktikā ||163||
pāṭhōṣṇā kaṭukā tīkṣṇā vātaślēṣmaharī laghuḥ |
hanti śūlajvaracchardikuṣṭhātīsārahr̥drujaḥ |
dāhakaṇḍūviṣaśvāsakr̥migulmagaravraṇān ||164||
trivr̥t
śvētātrivr̥t-
śvētā trivr̥tā bhaṇḍī syāt trivr̥tā tripuṭāpi ca |
sarvānubhūtiḥ saralā niśōtrā rēcanīti ca ||165||
śvētā trivr̥drēcanī syātsvāduruṣṇā samīrahr̥t |
rūkṣā pittajvaraślēṣmapittaśōthōdarāpahā ||166||
śyāmātrivr̥t-
trivr̥tśyāmārddhacandrā ca pālindī ca suṣēṇikā |
masūravidalā kōlakaiṣikā kālamēṣikā ||167||
śyāmā trivr̥ttatō hīnaguṇā tīvravirēcinī |
mūrcchādāhamadabhrāntikaṇṭhōtkarṣaṇakāriṇī ||168||
laghudantī, br̥haddantī
laghudantī viśalyā ca syādudumbaraparṇyapi |
tathairaṇḍaphalā śīghrā śyēnaghaṇṭā ghuṇapriyā |
vārāhāṅgī ca kathitā nikumbhaśca makūlakaḥ ||169||
dravantī sāmbarī citrā pratyakparṇyarkaparṇyapi |
citrōpacitrā nyagrōdhī pratyakcchrēṇyākhukarṇyapi ||170||
dantīdvayaṁ saraṁ pākē rasē ca kaṭu dīpanam |
gudāṅkurāśmaśūlārśaḥ kaṇḍūkuṣṭhavidāhanut |
tīkṣṇōṣṇaṁ hanti pittāsrakaphaśōthōdarakr̥mīn ||171||
kṣudradantīphalaṁ tu syānmadhuraṁ rasapākayōḥ |
śītalaṁ sr̥ṣṭaviṇmūtraṁ garaśōthakaphāpaham ||172||
jayapāla (dantībīja)
jayapālō dantibījaṁ vikhyātaṁ tintilīphalam |
jayapālō guruḥ snigdhō rēcī pittakaphāpahaḥ ||173||
gavādinīdvaya
aindrīndravāruṇī citrā gavākṣī ca gavādinī |
vāruṇī ca parāpyuktā sā viśālā mahāphalā |
śvētapuṣpā mr̥gākṣī ca mr̥gairvāru mr̥gādanī ||174||
gavādinīdvayaṁ tiktaṁ pākē kaṭu saraṁ laghu |
vīryōṣṇaṁ kāmalāpittakaphaplīhōdarāpaham ||175||
śvāsakāsāpahaṁ kuṣṭhagulmagranthivraṇapraṇut |
pramēhamūḍhagarbhāmagaṇḍāmayaviṣāpaham ||176||
nīlī
nīlī tu nīlinī tūlī kāladōlā ca nīlikā |
rañjanī śrīphalī tutthā grāmīṇā madhuparṇikā |
klītakā kālakēśī ca nīlapuṣpā ca sā smr̥tā ||177||
nīlinī rēcanī tiktā kēśyā mōhabhramāpahā |
uṣṇā hantyudaraplīhavātaraktakaphānilān |
āmavātamudāvartaṁ madaṁ ca viṣamuddhatam ||178||
śarapuṅkha
śarapuṅkhaḥ plīhaśatrurnīlīvr̥kṣākr̥tiśca saḥ |
śarapuṅkhō yakr̥tplīhagulmavraṇaviṣāpahaḥ |
tiktaḥ kaṣāyaḥ kāsāsraśvāsajvaraharō laghuḥ ||179||
yavāsa
yāsō yavāsō duḥsparśō dhanvayāsaḥ kunāśakaḥ |
durālabhā durālambhā samudrāntā ca rōdinī |
gāndhārī kacchurā’nantā kaṣāyā harivigrahā ||180||
yāsaḥ svāduḥ sarastiktastuvaraḥ śītalō laghuḥ |
kaphamēdōmadabhrāntipittāsr̥kkuṣṭhakāsajit ||181||
tr̥ṣṇāvisarpavātāsravamijvaraharaḥ smr̥taḥ |
yavāsasya guṇaistulyā budhairuktā durālabhā ||182||
śrāvaṇī, mahāśrāvaṇī
muṇḍī bhikṣurapi prōktā śrāvaṇī ca tapōdhanā |
śravaṇāhvā muṇḍatikā tathā śravaṇaśīrṣakā ||183||
mahāśrāvaṇī-
mahāśrāvaṇikā’nyā tu sā smr̥tā bhūkadambikā |
kadambapuṣpikā ca syādavyathā’titapasvinī ||184||
muṇḍī tiktā kaṭuḥ pākē vīryōṣṇā madhurā laghuḥ |
mēdhyā gaṇḍāpacīkr̥cchrakr̥miyōnyartipāṇḍunut ||185||
ślīpadārucyapasmāraplīhamēdōgudārtihr̥t |
mahāmuṇḍī ca tattulyā guṇairuktā maharṣibhiḥ ||186||
apāmārga
apāmārgastu śikharī hyadhaḥśalyō mayūrakaḥ |
markaṭī durgrahā cāpi kiṇihī kharamañjarī ||187||
apāmārgaḥ sarastīkṣṇō dīpanaḥ tiktakaḥ kaṭuḥ |
pācanō rōcanaśchardikaphamēdō’nilāpahaḥ |
nihanti hr̥drujādhmānakaṇḍūśūlōdarāpacīḥ ||188||
raktāpāmārga-
raktō’nyō vasirō vr̥ttaphalō dhāmārgavō’pi ca |
pratyakparṇī kēśaparṇī kathitā kapipippalī ||189||
apāmārgō’ruṇō vātaviṣṭambhī kaphakr̥ddhimaḥ |
rūkṣaḥ pūrvaguṇairnyūnaḥ kathitō guṇavēdibhiḥ ||190||
apāmārgaphalaṁ svādu rasē pākē ca durjaram |
viṣṭambhi vātalaṁ rūkṣaṁ raktapittaprasādanam ||191||
kōkilākṣa
kōkilākṣastu kākēkṣurikṣuraḥ kṣurakaḥ kṣuraḥ |
bhikṣuḥ kāṇḍēkṣurapyukta ikṣugandhēkṣubālikā ||192||
kṣurakaḥ śītalō vr̥ṣyaḥ svādvamlaḥ pittalastathā |
tiktō vātāmaśōthāśmatr̥ṣṇādr̥ṣṭyanilāsrajit ||193||
asthisaṁhāra
granthimānasthisaṁhārī vajrāṅgī vāsthiśr̥ṅkhalā |
asthisaṁhārakaḥ prōktō vātaślēṣmaharō’sthiyuk |
uṣṇaḥ saraḥ kr̥mighnaśca durnāmaghnō’kṣirōgajit |
rūkṣaḥ svādurlaghurvr̥ṣyaḥ pācanaḥ pittalaḥ smr̥taḥ ||194||
kaṇḍūtvagvirahitamasthiśr̥ṅkhalāyā māṣārdraṁ dvidalamakañcukaṁ tadarddham |
sampiṣṭaṁ tadanu tatastilasya tailē saṁpakvaṁ vaṭakamatīva vātahāri ||195||
kumārī
kumārī gr̥hakanyā ca kanyā ghr̥takumārikā |
kumārī bhēdanī śītā tiktā nētryā rasāyanī |
madhurā br̥ṁhaṇī balyā vr̥ṣyā vātaviṣapraṇut ||196||
gulmaplīhayakr̥dvr̥ddhikaphajvaraharī harēt |
granthyagnidagdhavisphōṭapittaraktatvagāmayān ||197||
punarnavā
punarnavā śvētamūlā śōthaghnī dīrghapatrikā |
kaṭu kaṣāyānurasā pāṇḍughnī dīpanī parā |
śōphānilagaraślēṣmaharī vraṇyōdarapraṇut ||198||
raktapunarnavā-
punarnavāparā raktā raktapuṣpā śilāṭikā |
śōthaghnaḥ kṣudravarṣābhūrvr̥ṣakētuḥ kapillakaḥ ||199||
punarnavāruṇā tiktā kaṭupākā himā laghuḥ |
vātalā grāhiṇī ślēṣmapittaraktavināśinī ||200||
gandhaprasāraṇī
prasāraṇī rājabalā bhadraparṇī pratāpanī |
saraṇī sāraṇī bhadrā balā cāpi kaṭambharā ||201||
prasāriṇī gururvr̥ṣyā balasandhānakr̥tsarā |
vīryōṣṇā vātahr̥ttiktā vātaraktakaphāpahā ||202||
sārivā
indrajambūkavatpatrā sugandhā kalaghaṇṭikā |
kr̥ṣṇā tu śārivā śyāmā gōpī gōpavadhūśca sā ||203||
śvētasārivā-
dhavalā śārivā gōpī gōpā kanyā kr̥śōdarī |
sphōṭā śyāmā gōpavallī latāsphōtā ca candanā ||204||
sārivāyugalaṁ svādu snigdhaṁ śukrakaraṁ guru |
agnimāndyāruciśvāsakāsāmaviṣanāśanam |
dōṣatrayāsrapradarajvarātīsāranāśanam ||205||
bhr̥ṅgarāja
bhr̥ṅgarājō bhr̥ṅgarajō mārkavō bhr̥ṅga ēva ca |
aṅgārakaḥ kēśarājō bhr̥ṅgāraḥ kēśarañjanaḥ ||206||
bhr̥ṅgāraḥ kaṭukastīkṣṇō rūkṣōṣṇaḥ kaphavātanut |
kēśyastvacyaḥ kr̥miśvāsakāsaśōthāmapāṇḍunut |
dantyō rasāyanō balyaḥ kuṣṭhanētraśirō’rtinut ||207||
śaṇapuṣpī
śaṇapuṣpī smr̥tā ghaṇṭā śaṇapuṣpasamākr̥tiḥ |
śaṇapuṣpī kaṭustiktā vāminī kaphapittajit ||208||
trāyamāṇa
balabhadrā trāyamāṇā trāyantī girisānujā |
trāyantī tuvarā tiktā sarā pittakaphāpahā |
jvarahr̥drōgagulmārśōbhramaśūlaviṣapraṇut ||209||
mūrvā
mūrvā madhurasā dēvī mōraṭā tējanī sruvā |
madhūlikā madhuśrēṇī gōkarṇī pīluparṇyapi |
mūrvā sarā guruḥ svādustiktā pittāsramēhanut |
tridōṣatr̥ṣṇāhr̥drōgakaṇḍūkuṣṭhajvarāpahā ||210||
kākamācī
kākamācī dhvāṅkṣamācī kākāhvā caiva vāyasī |
kākamācī tridōṣaghnī snigdhōṣṇā svaraśukradā |
tiktā rasāyanī śōthakuṣṭhārśōjvaramēhajit |
kaṭurnētrahitā hikkācchardihr̥drōganāśinī ||211||
kākanāsā
kākanāsā tu kākāṅgī kākatuṇḍaphalā ca sā |
kākanāsā kaṣāyōṣṇā kaṭukā rasapākayōḥ |
kaphaghnī vāmanī tiktā śōthārśaḥśvitrakuṣṭhahr̥t ||212||
kākajaṅghā
kākajaṅghā nadīkāntā kākatiktā sulōmaśā |
pārāvatapadī dāsī kākā cāpi prakīrtitā ||213||
kākajaṁghā hitā tiktā kaṣāyā kaphapittajit |
nihanti jvarapittāsravraṇakaṇḍūviṣakr̥mīn ||214||
nāgapuṣpī
nāgapuṣpī śvētapuṣpā nāginī rāmadūtikā |
nāginī rōcanī tiktā tīkṣṇōṣṇā kaphapittanut |
vinihanti viṣaṁ śūlaṁ yōnidōṣavamikr̥mīn ||215||
mēṣaśr̥ṅgī
mēṣaśr̥ṅgī viṣāṇī syānmēṣavallyajaśr̥ṅgikā |
mēṣaśr̥ṅgī rasē tiktā vātalā śvāsakāsahr̥t |
rūkṣā pākē kaṭustiktā vraṇaślēṣmākṣiśūlanut ||216||
mēṣaśr̥ṅgīphalaṁ tiktaṁ kuṣṭhamēhakaphapraṇut |
dīpanaṁ sraṁsanaṁ kāsakr̥mivraṇaviṣāpaham ||217||
haṁsapādī
haṁsapādī haṁsapadī kīṭamātā tripādikā |
haṁsapādī guruḥ śītā hanti raktaviṣavraṇān |
visarpadāhātīsāralūtābhūtāgnirōhiṇīḥ ||218||
sōmalatā
sōmavallī sōmalatā sōmakṣīrī dvijapriyā |
sōmavallī tridōṣaghnī kaṭustiktā rasāyanī ||219||
ākāśavallī
ākāśavallī tu budhaiḥ kathitā’maravallarī |
khavallī grāhiṇī tiktā picchilākṣmāmayāpahā |
tuvarā’gnikarī hr̥dyā pittaślēṣmāmanāśinī ||220||
pātālagaruḍī
chilihiṇṭō mahāmūlaḥ pātālagaruḍāhvayaḥ |
chilihiṇṭaḥ paraṁ vr̥ṣyaḥ kaphaghnaḥ pavanāpahaḥ ||221||
vandā
vandā vr̥kṣādanī vr̥kṣabhakṣyā vr̥kṣaruhāpi ca |
bandākaḥ syāddhimastiktaḥ kaṣāyō madhurō rasē |
māṅgalyaḥ kaphavātāsrarakṣōvraṇaviṣāpahaḥ ||222||
vaṭapatrī
vaṭapatrī tu kathitā mōhinī rēcanī budhaiḥ |
vaṭapatrī kaṣāyōṣṇā yōnimūtragadāpahā ||223||
hiṅgupatrī
hiṅgupatrī tu kabarī pr̥thvīkā pr̥thakā pr̥thuḥ |
hiṅgupatrī bhavēdrucyā tīkṣṇōṣṇā pācanī kaṭuḥ |
hr̥dbastirugvibandhārśaḥślēṣmagulmānilāpahā ||224||
vaṁśapatrī
vaṁśapatrī vēṇupatrī piṇḍā hiṅguśivāṭikā |
hiṅgupatrīguṇā vijñairvaṁśapatrī ca kīrtitā ||225||
matsyākṣī
matsyākṣī bāhlikā matsyagandhā matsyādanīti ca |
matsyākṣī grāhiṇī śītā kuṣṭhapittakaphāsrajit |
laghustiktā kaṣāyā ca svādvī kaṭuvipākinī ||226||
sarpākṣī
sarpākṣī syāttu gaṇḍālī tathā nāḍīkalāpakaḥ |
sarpākṣī kaṭukā tiktā sōṣṇā kr̥minikr̥ntanī |
vr̥ścikōndurasarpāṇāṁ viṣaghnī vraṇarōpiṇī ||227||
śaṅkhapuṣpī
śaṅkhapuṣpī tu śaṅkhāhvā māṅgalyakusumāpi ca |
śaṅkhapuṣpī sarā mēdhyā vr̥ṣyā mānasarōgahr̥t |
rasāyanī kaṣāyōṣṇā smr̥tikāntibalāgnidā |
dōṣāpasmārabhūtāśrīkuṣṭhakr̥miviṣapraṇut ||228||
arkapuṣpī
arkapuṣpī krūrakarmā payasyā jalakāmukā |
arkapuṣpī kr̥miślēṣmamēhapittavikārajit ||229||
lajjālu
lajjāluḥ syācchamīpatrā samaṅgā jalakārikā |
raktapādī namaskārī nāmnā khadirakētyapi ||230||
lajjāluḥ śītalā tiktā kaṣāyā kaphapittajit |
raktapittamatīsāraṁ yōnirōgān vināśayēt ||231||
alambuṣā
alambuṣā kharatvak ca tathā mēdōgalā smr̥tā |
alambuṣā laghuḥ svāduḥ krimipittakaphāpahā ||232||
dugdhikā
dugdhikā svāduparṇī syātkṣīrā vikṣīriṇī tathā |
dugdhikōṣṇā gurū rūkṣā vātalā garbhakāriṇī |
svādukṣīrā kaṭustiktā sr̥ṣṭamūtrāmalāpahā |
svādurviṣṭambhinī vr̥ṣyā kaphakuṣṭhakrimipraṇut ||233||
bhūmyāmalakī
bhūmyāmalakikā prōktā śivā tāmalakīti ca |
bahupatrā bahuphalā bahuvīryā jaṭāpi ca ||234||
bhūdhātrī vātakr̥ttiktā kaṣāyā madhurā himā |
pipāsākāsapittāsrakaphakaṇḍūkṣatāpahā ||235||
brāhmī, maṇḍūkaparṇī
brāhmī kapōtavaṅkā ca sōmavallī sarasvatī |
maṇḍūkaparṇī-
maṇḍūkaparṇī māṇḍūkī tvāṣṭrī divyā mahauṣadhī |
brāhmī himā sarā tiktā laghurmēdhyā ca śītalā |
kaṣāyā madhurā svādupākāyuṣyā rasāyanī ||236||
svaryā smr̥tipradā kuṣṭhapāṇḍumēhāsrakāsajit |
viṣaśōthajvaraharī tadvanmaṇḍūkaparṇinī ||237||
drōṇapuṣpī
drōṇā ca drōṇapuṣpī ca phalēpuṣpā ca kīrtitā |
drōṇapuṣpī guruḥ svādū rūkṣōṣṇā vātapittakr̥t |
satīkṣṇalavaṇā svādupākā kaṭvī ca bhēdinī |
kaphāmakāmalāśōthatamakaśvāsajantujit ||238||
suvarcalā
suvarcalā sūryabhaktā varadā badarā’pi ca |
sūryāvarttā raviprītā’parā brahmasudurlabhā ||239||
suvarcalā himā rūkṣā svādupākā sarā guruḥ |
apittalā kaṭuḥ kṣārā viṣṭambhakaphavātajit ||240||
anyā tiktā kaṣāyōṣṇā sarā rūkṣā laghuḥ kaṭuḥ |
nihanti kaphapittāsraśvāsakāsārucijvarān |
visphōṭakuṣṭhamēhāsrayōnirukkr̥mipāṇḍutāḥ ||241||
vandhyākarkōṭakī
vandhyākarkōṭakī dēvī kanyā yōgīśvarīti ca |
nāgārirnakradamanī viṣakaṇṭakinī tathā ||242||
vandhyā karkōṭakī laghvī kaphanud vraṇaśōdhinī |
sarpadarpaharī tīkṣṇā visarpaviṣahāriṇī ||243||
mārkaṇḍika
mārkaṇḍikā bhūmivallī mārkaṇḍī mr̥durēcanī |
mārkaṇḍikā kuṣṭhaharī ūrdhvādhaḥkāyaśōdhinī |
viṣadurgandhakāsaghnī gulmōdaravināśinī ||244||
dēvadālī
dēvadālī tu vēṇī syātkarkaṭī ca garāgarī |
dēvatāṇḍī vr̥ttakōśastathā jīmūta ityapi |
pītā parā kharasparśā viṣaghnī garanāśinī ||245||
dēvadālī rasē tiktā kaphārśaḥśōphapāṇḍutāḥ |
nāśayēdvāmanī tiktā kṣayahikkākr̥mijvarān ||246||
dēvadālīphalaṁ tiktaṁ kr̥miślēṣmavināśanam |
sraṁsanaṁ gulmaśūlaghnamarśōghnaṁ vātajitparam ||247||
jalapippalī
jalapippalyabhihitā śāradī śakulādanī |
matsyādanī matsyagandhā lāṅgalītyapi kīrtitā ||248||
jalapippalikā hr̥dyā cakṣuṣyā śukralā laghuḥ |
saṁgrāhiṇī himā rūkṣā raktadāhavraṇāpahā |
kaṭupākarasā rucyā kaṣāyā vahnivardhinī ||249||
gōjihvā
gōjihvā gōjikā gōbhī dārvikā kharaparṇinī |
gōjihvā vātalā śītā grāhiṇī kaphapittanut |
hr̥dyā pramēhakāsāsravraṇajvaraharī laghuḥ |
kōmalā tuvarā tiktā svādupākarasā smr̥tā ||250||
nāgadamanī
vijñēyā nāgadamanī balāmōṭā viṣāpahā |
nāgapuṣpī nāgapatrā mahāyōgēśvarīti ca ||251||
balāmōṭā kaṭustiktā laghuḥ pittakaphāpahā |
mūtrakr̥cchravraṇān rakṣō nāśayējjālagardabham ||252||
sarvragrahapraśamanī niḥśēṣaviṣanāśinī |
jayaṁ sarvatra kurutē dhanadā sumatipradā ||253||
vīrataru
vēllantarō jagati vīrataruḥ prasiddhaḥ śvētāsitāruṇavilōhitanīlapuṣpaḥ |
syājjātitulyakusumaḥ śamisūkṣmapatraḥ syātkaṇṭakī vijaladēśaja ēva vr̥kṣaḥ ||254||
vēllantarō rasē pākē tiktastr̥ṣṇākaphāpahaḥ |
mūtrāghātāśmajidgrāhī yōnimūtrānilārtijit ||255||
chikkanī
chikkanī kṣavakr̥ttīkṣṇā chikkikā ghrāṇaduḥkhadā |
chikkanī kaṭukā rucyā tīkṣṇōṣṇā vahnipittakr̥t |
vātaraktaharī kuṣṭhakr̥mivātakaphāpahā ||256||
tāmracūḍa
kukundarastāmracūḍaḥ sūkṣmapatrō mr̥ducchadaḥ |
kukundaraḥ kaṭustiktō jvararaktakaphāpahaḥ |
tanmūlamārdraṁ niḥkṣiptaṁ vadanē mukhaśōṣahr̥t ||257||
sudarśana
sudarśanā sōmavallī cakrāhvā madhuparṇikā |
sudarśanā svāduruṣṇā kaphaśōphāsravātajit ||258||
ākhukarṇī
ākhukarṇī tvākhukarṇaparṇikā bhūdarībhavā |
ākhukarṇī kaṭustiktā kaṣāyā śītalā laghuḥ |
vipākē kaṭukā mūtrakaphāmayakr̥mipraṇut ||259||
mayūraśikha
mayūrāhvaśikhā prōktā sahasrāhirmadhucchadā |
nīlakaṇṭhaśikhā laghvī pittaślēṣmātisārajit ||260||
puṣpikā
iti śrīlaṭakanamiśratanayaśrībhāvamiśraviracitē bhāvaprakāśē
pūrvakhaṇḍē miśraprakaraṇē caturthō guḍūcyādivargaḥ samāptaḥ |