Table of Contents
ToggleDevanagari Version
||श्रीभावमिश्रविरचित||
भावप्रकाशनिघण्टु
[भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण]
३. कर्पूरादिवर्ग
कर्पूर
पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः |
घनसारश्चन्द्रसंज्ञो हिमनामापि स स्मृतः ||१||
कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः |
सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः ||२||
दाहतृष्णाऽस्यवैरस्यमेदोदौर्गन्ध्यनाशनः |
कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः |
पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ||३||
चीनाककर्पूर
चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः |
कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः ||४||
कस्तूरी
मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् |
कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ||५||
कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् |
काश्मीरी कपिलच्छाया कस्तूरि त्रिविधा स्मृता ||६||
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् |
काश्मीरदेशसम्भूता कस्तूरी ह्यधमा मता ||७||
कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः |
कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् ||८||
लताकस्तूरी
लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः |
चक्षुष्या छेदिनी श्लेष्मतृष्णाबस्त्यास्यरोगहृत् ||९||
गन्धमार्जार
गन्धमार्जारवीर्यन्तु वीर्यकृत्कफवातहृत् |
कण्डूकुष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् ||१०||
चन्दन
श्रीखण्डं चन्दनं न स्त्री भद्रः श्रीस्तैलपर्णिकः |
गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ||११||
स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् |
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते ||१२||
चन्दनं शीतलं रूक्षं तिक्तमाह्लादनं लघु |
श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् ||१३||
कालीयक (पीत चन्दन)
कालीयकं तु कालीयं पीताभं हरिचन्दनम् |
हरिप्रियं कालसारं तथा कालानुसार्यकम् |
कालीयकं रक्तगुणं विशेषाद् व्यङ्गनाशनम् ||१४||
रक्तचन्दन
रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् |
तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् ||१५||
रक्तं शीतं गुरु स्वादुच्छर्दितृष्णाऽस्रपित्तहृत् |
तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम् ||१६||
पतङ्ग
पतङ्गं रक्तसारञ्च सुरङ्गं रञ्जनं तथा |
पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम् ||१७||
पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् |
हरिचन्दनवद्वेद्यं विशेषाद्दाहनाशनम् ||१८||
चन्दनानि तु सर्वाणि सदृशानि रसादिभिः |
गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः ||१९||
अगुरु
अगुरु प्रवरं लोहं राजार्हं योगजं तथा |
वंशिकं कृमिजं वापि कृमिजग्धमनार्यकम् ||२०||
अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च पित्तलम् |
लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ||२१||
कृष्णं गुणाधिकं तत्तु लोहवद्वारौ मज्जति |
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ||२२||
देवदारु
देवदारु स्मृतं दारुभद्रं दार्विन्द्रदारु च |
मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः ||२३||
देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च |
विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित् |
प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् ||२४||
सरल
सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः |
सरलो मधुरस्तिक्तो कटुपाकरसो लघुः |
स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः |
कफानिलस्वेददाहकासमूर्च्छाव्रणापहः ||२५||
तगर
कालानुसार्यं तगरं कुटिलं नवुषं नतम् |
अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् ||२६||
तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम् |
विषापस्मारशूलाक्षिरोगदोषत्रयापहम् ||२७||
पद्मक
पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम् |
पद्मकं तुवरं तिक्तं शीतलं वातलं लघु |
वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् |
गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् ||२८||
गुग्गुलु
गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः |
कुस्तालू खलकं क्लीबे महिषाक्षः पलङ्कषः ||२९||
महिषाक्षो महानीलः कुमुदः पद्म इत्यपि |
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः ||३०||
भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः |
महानीलस्तु विज्ञेयः स्वनामसमलक्षणः ||३१||
कुमुदः कुमदाह्वः स्यात्पद्मो माणिक्यसन्निभः |
हिरण्याक्षस्तु हेमाभः पञ्चानां लिङ्गमीरितम् ||३२||
महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ |
हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ||३३||
विशेषेण मनुष्याणां कनकः परिकीर्तितः |
कदाचिन्महिषाक्षश्च यतः कैश्चिन्नृणामपि ||३४||
गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः |
कषायः कटुकः पाके कटू रूक्षो लघुः परः ||३५||
भग्नसन्धानकृद्वृष्यः सूक्ष्मः स्वर्यो रसायनः |
दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः ||३६||
मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान् |
पिडकाग्रन्थिशोफार्शोगण्डमालाकृमीञ्जयेत् |
माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा ||३७||
तिक्तत्वाद् कफजित्तेन गुग्गुलुः सर्वदोषहा |
स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः ||३८||
स्निग्धः काञ्चनसंकाशः पक्वजम्बूफलोपमः |
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ||३९||
शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः |
पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्यवर्जितः ||४०||
अम्लं तीक्ष्णमजीर्णञ्च व्यवायं श्रममातपम् |
मद्यं रोषं त्यजेत्सम्यग् गुणार्थी पुरसेवकः ||४१||
श्रीवेष्टक
श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः |
श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः |
पित्तलो वातमूर्द्धाक्षिस्वररोगकफापहः |
रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ||४२||
राल
रालस्तु शालनिर्यासस्तथा सर्जरसः स्मृतः |
देवधूपो यक्षधूपस्तथा सर्वरसश्च सः ||४३||
रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् |
दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः |
ग्रहभग्नाग्निदग्धांश्च श्रीशूलातीसारनाशनः ||४४||
कुन्दुरु
कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि |
कुन्दुरुर्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत् |
ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् ||४५||
सिह्लक
सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः |
कपितैलश्च सङ्ख्यातस्तथा च कपिनामकः ||४६||
सिह्लकःकटुकःस्वादुःस्निग्धोष्णःशुक्रकान्तिकृत् |
वृष्यःकण्ठयःस्वेदकुष्ठज्वरदाहग्रहापहः ||४७||
जातीफल
जातीफलं जातिकोशं मालतीफलमित्यपि |
जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु |
कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम् ||४८||
निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः |
कृमिकासवमिश्वासशोषपीनसहृद्रुजः ||४९||
जातीपत्री
जातीफलस्य त्वक् प्रोक्ता जातीपत्री भिषग्वरैः |
जातीपत्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् |
कफकासवमिश्वासतृष्णाकृमिविषापहा ||५०||
लवङ्ग
लवङ्गं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम् |
लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम् |
दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् ||५१||
तृष्णां छर्दिं तथाध्मानं शूलमाशु विनाशयेत् |
कासं श्वासञ्च हिक्काञ्च क्षयं क्षययति ध्रुवम् ||५२||
बृहदेला
एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च |
भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः ||५३||
स्थूलैला कटुका पाके रसे चानलकृल्लघुः |
रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषापहा |
हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत् ||५४||
सूक्ष्मैला
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः |
एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् |
रसे तु कटुका शीता लघ्वी वातहरी मता ||५५||
त्वक्पत्र
त्वक्पत्रञ्च वराङ्गं स्याद् भृङ्गं चोचं तथोत्कटम् |
त्वचं लघूष्णं कटुकं स्वादु तिक्तञ्च रूक्षकम् |
पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् |
हृद्बस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ||५६||
त्वक् (दारुसिता)
त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता |
उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् |
सुरभिः शुक्रला वर्ण्या मुखशोषतृषापहा ||५७||
तमालपत्र
पत्रं तमालपत्रञ्च तथा स्यात्पत्रनामकम् |
पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु |
निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ||५८||
नागकेशर
नागपुष्पः स्मृतो नागः केशरो नागकेशरः |
चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्ययः ||५९||
नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम् |
ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम् |
दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ||६०||
त्रिजातक, चातुर्जातक
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् |
नागकेशरसंयुक्तं चातुर्जातकमुच्यते ||६१||
तद् द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् |
लघुपित्ताग्निकृद्वर्ण्यं कफवातविषापहम् ||६२||
कुङ्कुम
कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् |
संकोचं पिशुनं धीरं बाह्लीकं शोणिताभिधम् ||६३||
काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् |
सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ||६४||
बाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरं स्मृतम् |
केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेशरम् ||६५||
कुङ्कुमं पारसीकं यन्मधुगन्धि तदीरितम् |
ईषत्पाण्डुरवर्णं तदधमं स्थूलकेशरम् ||६६||
कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् |
तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम् ||६७||
गोरोचन
गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना |
गोरोचना हिमा तिक्ता वश्या मङ्गलकान्तिदा |
विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतासुहृत् ||६८||
व्याघ्रनख
नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् |
नखं स्वल्पं नखी प्रोक्ता हनुर्हट्टविलासिनी ||६९||
नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् |
लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् |
अलक्ष्मीमुखदौर्गन्ध्यहृत्पाकरसयोः कटुः ||७०||
बालक
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च |
बालकं शीतलं रूक्षं लघु दीपनपाचनम् |
हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् ||७१||
स्याद्वीरणं वीरतरुर्वीरं च बहुमूलकम् |
वीरणं पाचनं शीतं स्तम्भं लघु तिक्तकम् |
मधुरं ज्वरनुद्वान्तिमदजित्कफपित्तहृत् |
तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ||७२||
वीरण
वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् |
अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ||७३||
उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् |
मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् |
तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम् ||७४||
जटामांसी
जटामांसी भूतजटा जटिला च तपस्विनी |
मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा |
स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् ||७५||
शैलेय
शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्यकम् |
शैलेयं शीतलं हृद्यं कफपित्तहरं लघु |
कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत् ||७६||
मुस्तक
मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् |
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः |
भद्रमुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः ||७७||
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् |
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् ||७८||
अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते |
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ||७९||
कर्चूर
कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शटी |
कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च |
सुगन्धिः कटुपाकः स्यात्कुष्ठार्शोव्रणकासनुत् |
उष्णो लघुर्हरेच्छ्वासं गुल्मवातकफक्रिमीन् ||८०||
मुरा
मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका |
मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा |
ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ||८१||
शटी
शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका |
गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका ||८२||
भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः |
तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी |
शोथकासव्रणश्वासशूलसिध्मग्रहापहा ||८३||
प्रियङ्गु, गन्धप्रियङ्गु
प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया |
गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया ||८४||
प्रियङ्गुः शीतला तिक्ता तुवरानिलपित्तहृत् |
रक्तातिसारदौर्गन्ध्यस्वेददाहज्वरापहा |
गुल्मतृड्विषमोहघ्नी तद्वद् गन्धप्रियङ्गुका ||८५||
तल्फलं मधुरं रूक्षं कषायं शीतलं गुरु |
विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित् ||८६||
हरेणुका
रेणुका राजपुत्री च नन्दिनी कपिला द्विजा |
भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका ||८७||
रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः |
पित्तला दीपनी मेध्या पाचनी गर्भपातिनी |
बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् ||८८||
ग्रन्थिपर्ण
ग्रन्थिपर्णं ग्रन्थिकञ्च काकपुच्छञ्च गुच्छकम् |
नीलपुष्पं सुगन्धञ्च कथितं तैलपर्णकम् ||८९||
ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु |
कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम् ||९०||
स्थौणेयक
स्थौणेयकं बर्हिबर्हं शुकबर्हञ्च कुक्कुरम् |
शीर्णरोम शुकञ्चापि शुक्रपुष्पं शुकच्छदम् ||९१||
स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् |
मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् |
हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् ||९२||
ग्रन्थिपर्णभेद
निशाचरो घनहरः कितवो गणहासकः |
चोरको मधुरस्तिक्तः कटुः पाके कटुर्लघुः |
तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् |
रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ||९३||
तालीसपत्र
तालीसमुक्तं पत्राढ्यं धात्रीपत्रं च तत्स्मृतम् |
तालीसं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् |
निहन्त्यरुचिगुल्मामवह्निमांद्यक्षयामयान् ||९४||
कङ्कोल
कङ्कोलं कोलकं प्रोक्तं तथा कोषफलं स्मृतम् |
कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम् |
आस्यदौर्गन्ध्यहृद्रोगकफवातामयान्ध्यहृत् ||९५||
गन्धकोकिला
स्निग्धोष्णा कफहृत्तिक्ता सुगन्धा गन्धकोकिला |
गन्धकोकिलया तुल्या विज्ञेया गन्धमालती ||९६||
लामज्जक
लामज्जकं सुनालं स्यादमृणालं लयं लघु |
इष्टकापथकं सेव्यं नलदञ्चावदातकम् ||९७||
लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् |
त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् ||९८||
एलवालुक
एलवालुकमैलेयं सुगन्धि हरिवालुकम् |
एलवालुकमेलालु कपित्थं पत्रमीरितम् ||९९||
एलालु कटुकं पाके कषायं शीतलं लघु |
हन्ति कण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः |
बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन् ||१००||
कैवर्तमुस्त
कुटन्नटं दासपुरं बालेयं परिपेलवम् |
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ||१०१||
मुस्तावत्पेलवपुटं शुक्राभं स्याद्वितुन्नकम् |
वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम् |
कफपित्तास्रवीसर्पकुष्ठकण्डूविषप्रणुत् ||१०२||
स्पृक्का
स्पृक्काऽसृग् ब्राह्मणी देवी मरुन्माला लता लघुः |
समुद्रान्ता वधूः कोटिवर्षाऽलङ्कोपिकेत्यपि ||१०३||
स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् |
कुष्ठकण्डूविषस्वेददाहास्रज्वररक्तहृत् ||१०४||
पर्पटी
पर्पटी रञ्जना कृष्णा जतुका जननी जनी |
जतुकृष्णाऽग्निसंस्पर्शा जतुकृच्चक्रवर्तिनी ||१०५||
पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः |
विषव्रणहरी कण्डूकफपित्तास्रकुष्ठनुत् ||१०६||
नलिका
नलिका विद्रुमलता कपोतचरणा नटी |
धमन्यञ्जनकेशी च निर्मध्या सुषिरा नली ||१०७||
नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् |
कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डूज्वरापहा ||१०८||
प्रपौण्डरीक
प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम् |
पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् |
चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् ||१०९||
पुष्पिका
इति श्रीलटकनमिश्रतनयश्रीभावमिश्रविरचिते भावप्रकाशे
पूर्वखण्डे मिश्रप्रकरणे तृतीयः कर्पूरादिवर्गः समाप्तः |
Diacritic Version
||śrībhāvamiśraviracita||
Bhāvaprakāśanighaṇṭu
[bhāvaprakāśa-pūrvakhaṇḍa-prathamabhāga]
3. karpūrādivarga
karpūra
puṁsi klībē ca karpūraḥ sitābhrō himavālukaḥ |
ghanasāraścandrasaṁjñō himanāmāpi sa smr̥taḥ ||1||
karpūraḥ śītalō vr̥ṣyaścakṣuṣyō lēkhanō laghuḥ |
surabhirmadhurastiktaḥ kaphapittaviṣāpahaḥ ||2||
dāhatr̥ṣṇā’syavairasyamēdōdaurgandhyanāśanaḥ |
karpūrō dvividhaḥ prōktaḥ pakvāpakvaprabhēdataḥ |
pakvātkarpūrataḥ prāhurapakvaṁ guṇavattaram ||3||
cīnākakarpūra
cīnākasaṁjñaḥ karpūraḥ kaphakṣayakaraḥ smr̥taḥ |
kuṣṭhakaṇḍūvamiharastathā tiktarasaśca saḥ ||4||
kastūrī
mr̥ganābhirmr̥gamadaḥ kathitastu sahasrabhit |
kastūrikā ca kastūrī vēdhamukhyā ca sā smr̥tā ||5||
kāmarūpōdbhavā kr̥ṣṇā naipālī nīlavarṇayuk |
kāśmīrī kapilacchāyā kastūri trividhā smr̥tā ||6||
kāmarūpōdbhavā śrēṣṭhā naipālī madhyamā bhavēt |
kāśmīradēśasambhūtā kastūrī hyadhamā matā ||7||
kastūrikā kaṭustiktā kṣārōṣṇā śukralā guruḥ |
kaphavātaviṣacchardiśītadaurgandhyaśōṣahr̥t ||8||
latākastūrī
latā kastūrikā tiktā svādvī vr̥ṣyā himā laghuḥ |
cakṣuṣyā chēdinī ślēṣmatr̥ṣṇābastyāsyarōgahr̥t ||9||
gandhamārjāra
gandhamārjāravīryantu vīryakr̥tkaphavātahr̥t |
kaṇḍūkuṣṭhaharaṁ nētryaṁ sugandhaṁ svēdagandhanut ||10||
candana
śrīkhaṇḍaṁ candanaṁ na strī bhadraḥ śrīstailaparṇikaḥ |
gandhasārō malayajastathā candradyutiśca saḥ ||11||
svādē tiktaṁ kaṣē pītaṁ chēdē raktaṁ tanau sitam |
granthikōṭarasaṁyuktaṁ candanaṁ śrēṣṭhamucyatē ||12||
candanaṁ śītalaṁ rūkṣaṁ tiktamāhlādanaṁ laghu |
śramaśōṣaviṣaślēṣmatr̥ṣṇāpittāsradāhanut ||13||
kālīyaka (pīta candana)
kālīyakaṁ tu kālīyaṁ pītābhaṁ haricandanam |
haripriyaṁ kālasāraṁ tathā kālānusāryakam |
kālīyakaṁ raktaguṇaṁ viśēṣād vyaṅganāśanam ||14||
raktacandana
raktacandanamākhyātaṁ raktāṅgaṁ kṣudracandanam |
tilaparṇaṁ raktasāraṁ tatpravālaphalaṁ smr̥tam ||15||
raktaṁ śītaṁ guru svāduccharditr̥ṣṇā’srapittahr̥t |
tiktaṁ nētrahitaṁ vr̥ṣyaṁ jvaravraṇaviṣāpaham ||16||
pataṅga
pataṅgaṁ raktasārañca suraṅgaṁ rañjanaṁ tathā |
paṭṭarañjakamākhyātaṁ pattūrañca kucandanam ||17||
pataṅgaṁ madhuraṁ śītaṁ pittaślēṣmavraṇāsranut |
haricandanavadvēdyaṁ viśēṣāddāhanāśanam ||18||
candanāni tu sarvāṇi sadr̥śāni rasādibhiḥ |
gandhēna tu viśēṣō’sti pūrvaḥ śrēṣṭhatamō guṇaiḥ ||19||
aguru
aguru pravaraṁ lōhaṁ rājārhaṁ yōgajaṁ tathā |
vaṁśikaṁ kr̥mijaṁ vāpi kr̥mijagdhamanāryakam ||20||
agurūṣṇaṁ kaṭu tvacyaṁ tiktaṁ tīkṣṇañca pittalam |
laghu karṇākṣirōgaghnaṁ śītavātakaphapraṇut ||21||
kr̥ṣṇaṁ guṇādhikaṁ tattu lōhavadvārau majjati |
aguruprabhavaḥ snēhaḥ kr̥ṣṇāgurusamaḥ smr̥taḥ ||22||
dēvadāru
dēvadāru smr̥taṁ dārubhadraṁ dārvindradāru ca |
mastadāru drukilimaṁ kilimaṁ surabhūruhaḥ ||23||
dēvadāru laghu snigdhaṁ tiktōṣṇaṁ kaṭupāki ca |
vibandhādhmānaśōthāmatandrāhikkājvarāsrajit |
pramēhapīnasaślēṣmakāsakaṇḍūsamīranut ||24||
sarala
saralaḥ pītavr̥kṣaḥ syāttathā surabhidārukaḥ |
saralō madhurastiktō kaṭupākarasō laghuḥ |
snigdhōṣṇaḥ karṇakaṇṭhākṣirōgarakṣōharaḥ smr̥taḥ |
kaphānilasvēdadāhakāsamūrcchāvraṇāpahaḥ ||25||
tagara
kālānusāryaṁ tagaraṁ kuṭilaṁ navuṣaṁ natam |
aparaṁ piṇḍatagaraṁ daṇḍahastī ca barhiṇam ||26||
tagaradvayamuṣṇaṁ syātsvādu snigdhaṁ laghu smr̥tam |
viṣāpasmāraśūlākṣirōgadōṣatrayāpaham ||27||
padmaka
padmakaṁ padmagandhi syāttathā padmāhvayaṁ smr̥tam |
padmakaṁ tuvaraṁ tiktaṁ śītalaṁ vātalaṁ laghu |
vīsarpadāhavisphōṭakuṣṭhaślēṣmāsrapittanut |
garbhasaṁsthāpanaṁ rucyaṁ vamivraṇatr̥ṣāpraṇut ||28||
guggulu
guggulurdēvadhūpaśca jaṭāyuḥ kauśikaḥ puraḥ |
kustālū khalakaṁ klībē mahiṣākṣaḥ palaṅkaṣaḥ ||29||
mahiṣākṣō mahānīlaḥ kumudaḥ padma ityapi |
hiraṇyaḥ pañcamō jñēyō guggulōḥ pañca jātayaḥ ||30||
bhr̥ṅgāñjanasavarṇastu mahiṣākṣa iti smr̥taḥ |
mahānīlastu vijñēyaḥ svanāmasamalakṣaṇaḥ ||31||
kumudaḥ kumadāhvaḥ syātpadmō māṇikyasannibhaḥ |
hiraṇyākṣastu hēmābhaḥ pañcānāṁ liṅgamīritam ||32||
mahiṣākṣō mahānīlō gajēndrāṇāṁ hitāvubhau |
hayānāṁ kumudaḥ padmaḥ svastyārōgyakarau parau ||33||
viśēṣēṇa manuṣyāṇāṁ kanakaḥ parikīrtitaḥ |
kadācinmahiṣākṣaśca yataḥ kaiścinnr̥ṇāmapi ||34||
guggulurviśadastiktō vīryōṣṇaḥ pittalaḥ saraḥ |
kaṣāyaḥ kaṭukaḥ pākē kaṭū rūkṣō laghuḥ paraḥ ||35||
bhagnasandhānakr̥dvr̥ṣyaḥ sūkṣmaḥ svaryō rasāyanaḥ |
dīpanaḥ picchilō balyaḥ kaphavātavraṇāpacīḥ ||36||
mēdōmēhāśmavātāṁśca klēdakuṣṭhāmamārutān |
piḍakāgranthiśōphārśōgaṇḍamālākr̥mīñjayēt |
mādhuryācchamayēdvātaṁ kaṣāyatvācca pittahā ||37||
tiktatvād kaphajittēna gugguluḥ sarvadōṣahā |
sa navō br̥ṁhaṇō vr̥ṣyaḥ purāṇastvatilēkhanaḥ ||38||
snigdhaḥ kāñcanasaṁkāśaḥ pakvajambūphalōpamaḥ |
nūtanō gugguluḥ prōktaḥ sugandhiryastu picchilaḥ ||39||
śuṣkō durgandhakaścaiva tyaktaprakr̥tivarṇakaḥ |
purāṇaḥ sa tu vijñēyō guggulurvīryavarjitaḥ ||40||
amlaṁ tīkṣṇamajīrṇañca vyavāyaṁ śramamātapam |
madyaṁ rōṣaṁ tyajētsamyag guṇārthī purasēvakaḥ ||41||
śrīvēṣṭaka
śrīvāsaḥ saralasrāvaḥ śrīvēṣṭō vr̥kṣadhūpakaḥ |
śrīvāsō madhurastiktaḥ snigdhōṣṇastuvaraḥ saraḥ |
pittalō vātamūrddhākṣisvararōgakaphāpahaḥ |
rakṣōghnaḥ svēdadaurgandhyayūkākaṇḍūvraṇapraṇut ||42||
rāla
rālastu śālaniryāsastathā sarjarasaḥ smr̥taḥ |
dēvadhūpō yakṣadhūpastathā sarvarasaśca saḥ ||43||
rālō himō gurustiktaḥ kaṣāyō grāhakō harēt |
dōṣāsrasvēdavīsarpajvaravraṇavipādikāḥ |
grahabhagnāgnidagdhāṁśca śrīśūlātīsāranāśanaḥ ||44||
kunduru
kundurustu mukundaḥ syātsugandhaḥ kunda ityapi |
kundururmadhurastiktastīkṣṇastvacyaḥ kaṭurharēt |
jvarasvēdagrahālakṣmīmukharōgakaphānilān ||45||
sihlaka
sihlakastu turuṣkaḥ syādyatō yavanadēśajaḥ |
kapitailaśca saṅkhyātastathā ca kapināmakaḥ ||46||
sihlakaḥkaṭukaḥsvāduḥsnigdhōṣṇaḥśukrakāntikr̥t |
vr̥ṣyaḥkaṇṭhayaḥsvēdakuṣṭhajvaradāhagrahāpahaḥ ||47||
jātīphala
jātīphalaṁ jātikōśaṁ mālatīphalamityapi |
jātīphalaṁ rasē tiktaṁ tīkṣṇōṣṇaṁ rōcanaṁ laghu |
kaṭukaṁ dīpanaṁ grāhi svaryaṁ ślēṣmānilāpaham ||48||
nihanti mukhavairasyaṁ maladaurgandhyakr̥ṣṇatāḥ |
kr̥mikāsavamiśvāsaśōṣapīnasahr̥drujaḥ ||49||
jātīpatrī
jātīphalasya tvak prōktā jātīpatrī bhiṣagvaraiḥ |
jātīpatrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakr̥t |
kaphakāsavamiśvāsatr̥ṣṇākr̥miviṣāpahā ||50||
lavaṅga
lavaṅgaṁ dēvakusumaṁ śrīsaṁjñaṁ śrīprasūnakam |
lavaṅgaṁ kaṭukaṁ tiktaṁ laghu nētrahitaṁ himam |
dīpanaṁ pācanaṁ rucyaṁ kaphapittāsranāśakr̥t ||51||
tr̥ṣṇāṁ chardiṁ tathādhmānaṁ śūlamāśu vināśayēt |
kāsaṁ śvāsañca hikkāñca kṣayaṁ kṣayayati dhruvam ||52||
br̥hadēlā
ēlā sthūlā ca bahulā pr̥thvīkā tripuṭāpi ca |
bhadrailā br̥hadēlā ca candrabālā ca niṣkuṭiḥ ||53||
sthūlailā kaṭukā pākē rasē cānalakr̥llaghuḥ |
rūkṣōṣṇā ślēṣmapittāsrakaṇḍūśvāsatr̥ṣāpahā |
hr̥llāsaviṣabastyāsyaśirōrugvamikāsanut ||54||
sūkṣmailā
sūkṣmōpakuñcikā tutthā kōraṅgī drāviḍī truṭiḥ |
ēlā sūkṣmā kaphaśvāsakāsārśōmūtrakr̥cchrahr̥t |
rasē tu kaṭukā śītā laghvī vātaharī matā ||55||
tvakpatra
tvakpatrañca varāṅgaṁ syād bhr̥ṅgaṁ cōcaṁ tathōtkaṭam |
tvacaṁ laghūṣṇaṁ kaṭukaṁ svādu tiktañca rūkṣakam |
pittalaṁ kaphavātaghnaṁ kaṇḍvāmārucināśanam |
hr̥dbastirōgavātārśaḥkr̥mipīnasaśukrahr̥t ||56||
tvak (dārusitā)
tvaksvādvī tu tanutvaksyāttathā dārusitā matā |
uktā dārusitā svādvī tiktā cānilapittahr̥t |
surabhiḥ śukralā varṇyā mukhaśōṣatr̥ṣāpahā ||57||
tamālapatra
patraṁ tamālapatrañca tathā syātpatranāmakam |
patrakaṁ madhuraṁ kiñcittīkṣṇōṣṇaṁ picchilaṁ laghu |
nihanti kaphavātārśōhr̥llāsārucipīnasān ||58||
nāgakēśara
nāgapuṣpaḥ smr̥tō nāgaḥ kēśarō nāgakēśaraḥ |
cāmpēyō nāgakiñjalkaḥ kathitaḥ kāñcanāhyayaḥ ||59||
nāgapuṣpaṁ kaṣāyōṣṇaṁ rūkṣaṁ laghvāmapācanam |
jvarakaṇḍūtr̥ṣāsvēdacchardihr̥llāsanāśanam |
daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham ||60||
trijātaka, cāturjātaka
tvagēlāpatrakaistulyaistrisugandhi trijātakam |
nāgakēśarasaṁyuktaṁ cāturjātakamucyatē ||61||
tad dvayaṁ rōcanaṁ rūkṣaṁ tīkṣṇōṣṇaṁ mukhagandhahr̥t |
laghupittāgnikr̥dvarṇyaṁ kaphavātaviṣāpaham ||62||
kuṅkuma
kuṅkumaṁ ghusr̥ṇaṁ raktaṁ kāśmīraṁ pītakaṁ varam |
saṁkōcaṁ piśunaṁ dhīraṁ bāhlīkaṁ śōṇitābhidham ||63||
kāśmīradēśajē kṣētrē kuṅkumaṁ yadbhavēddhi tat |
sūkṣmakēśaramāraktaṁ padmagandhi taduttamam ||64||
bāhlīkadēśasañjātaṁ kuṅkumaṁ pāṇḍuraṁ smr̥tam |
kētakīgandhayuktaṁ tanmadhyamaṁ sūkṣmakēśaram ||65||
kuṅkumaṁ pārasīkaṁ yanmadhugandhi tadīritam |
īṣatpāṇḍuravarṇaṁ tadadhamaṁ sthūlakēśaram ||66||
kuṅkumaṁ kaṭukaṁ snigdhaṁ śirōrugvraṇajantujit |
tiktaṁ vamiharaṁ varṇyaṁ vyaṅgadōṣatrayāpaham ||67||
gōrōcana
gōrōcanā tu maṅgalyā vandyā gaurī ca rōcanā |
gōrōcanā himā tiktā vaśyā maṅgalakāntidā |
viṣālakṣmīgrahōnmādagarbhasrāvakṣatāsuhr̥t ||68||
vyāghranakha
nakhaṁ vyāghranakhaṁ vyāghrāyudhaṁ taccakrakārakam |
nakhaṁ svalpaṁ nakhī prōktā hanurhaṭṭavilāsinī ||69||
nakhadvayaṁ grahaślēṣmavātāsrajvarakuṣṭhahr̥t |
laghūṣṇaṁ śukralaṁ varṇyaṁ svādu vraṇaviṣāpaham |
alakṣmīmukhadaurgandhyahr̥tpākarasayōḥ kaṭuḥ ||70||
bālaka
bālaṁ hrībērabarhiṣṭhōdīcyaṁ kēśāmbunāma ca |
bālakaṁ śītalaṁ rūkṣaṁ laghu dīpanapācanam |
hr̥llāsārucivīsarpahr̥drōgāmātisārajit ||71||
syādvīraṇaṁ vīratarurvīraṁ ca bahumūlakam |
vīraṇaṁ pācanaṁ śītaṁ stambhaṁ laghu tiktakam |
madhuraṁ jvaranudvāntimadajitkaphapittahr̥t |
tr̥ṣṇāsraviṣavīsarpakr̥cchradāhavraṇāpaham ||72||
vīraṇa
vīraṇasya tu mūlaṁ syāduśīraṁ naladañca tat |
amr̥ṇālañca sēvyañca samagandhikamityapi ||73||
uśīraṁ pācanaṁ śītaṁ stambhanaṁ laghu tiktakam |
madhuraṁ jvarahr̥dvāntimadanutkaphapittahr̥t |
tr̥ṣṇāsraviṣavīsarpadāhakr̥cchravraṇāpaham ||74||
jaṭāmāṁsī
jaṭāmāṁsī bhūtajaṭā jaṭilā ca tapasvinī |
māṁsī tiktā kaṣāyā ca mēdhyā kāntibalapradā |
svādvī himā tridōṣāsradāhavīsarpakuṣṭhanut ||75||
śailēya
śailēyantu śilāpuṣpaṁ vr̥ddhaṁ kālānusāryakam |
śailēyaṁ śītalaṁ hr̥dyaṁ kaphapittaharaṁ laghu |
kaṇḍūkuṣṭhāśmarīdāhaviṣahr̥dgudaraktahr̥t ||76||
mustaka
mustakaṁ na striyāṁ mustaṁ triṣu vāridanāmakam |
kuruvindaśca saṁkhyātō’paraḥ krōḍakasērukaḥ |
bhadramustañca gundrā ca tathā nāgaramustakaḥ ||77||
mustaṁ kaṭu himaṁ grāhi tiktaṁ dīpanapācanam |
kaṣāyaṁ kaphapittāsratr̥ḍjvarārucijantuhr̥t ||78||
anūpadēśē yajjātaṁ mustakaṁ tatpraśasyatē |
tatrāpi munibhiḥ prōktaṁ varaṁ nāgaramustakam ||79||
karcūra
karcūrō vēdhamukhyaśca drāviḍaḥ kalpakaḥ śaṭī |
karcūrō dīpanō rucyaḥ kaṭukastikta ēva ca |
sugandhiḥ kaṭupākaḥ syātkuṣṭhārśōvraṇakāsanut |
uṣṇō laghurharēcchvāsaṁ gulmavātakaphakrimīn ||80||
murā
murā gandhakuṭī daityā surabhiḥ śālaparṇikā |
murā tiktā himā svādvī laghvī pittānilāpahā |
jvarāsr̥gbhūtarakṣōghnī kuṣṭhakāsavināśinī ||81||
śaṭī
śaṭhī palāśī ṣaḍgranthā suvratā gandhamūlikā |
gandhārikā gandhavadhūrvadhūḥ pr̥thupalāśikā ||82||
bhavēdgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ |
tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī |
śōthakāsavraṇaśvāsaśūlasidhmagrahāpahā ||83||
priyaṅgu, gandhapriyaṅgu
priyaṅguḥ phalinī kāntā latā ca mahilāhvayā |
gundrā gandhaphalā śyāmā viṣvaksēnāṅganāpriyā ||84||
priyaṅguḥ śītalā tiktā tuvarānilapittahr̥t |
raktātisāradaurgandhyasvēdadāhajvarāpahā |
gulmatr̥ḍviṣamōhaghnī tadvad gandhapriyaṅgukā ||85||
talphalaṁ madhuraṁ rūkṣaṁ kaṣāyaṁ śītalaṁ guru |
vibandhādhmānabalakr̥tsaṁgrāhi kaphapittajit ||86||
harēṇukā
rēṇukā rājaputrī ca nandinī kapilā dvijā |
bhasmagandhā pāṇḍuputrī smr̥tā kauntī harēṇukā ||87||
rēṇukā kaṭukā pākē tiktānuṣṇā kaṭurlaghuḥ |
pittalā dīpanī mēdhyā pācanī garbhapātinī |
balāsavātakr̥ccaiva tr̥ṭkaṇḍūviṣadāhanut ||88||
granthiparṇa
granthiparṇaṁ granthikañca kākapucchañca gucchakam |
nīlapuṣpaṁ sugandhañca kathitaṁ tailaparṇakam ||89||
granthiparṇaṁ tiktatīkṣṇaṁ kaṭūṣṇaṁ dīpanaṁ laghu |
kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam ||90||
sthauṇēyaka
sthauṇēyakaṁ barhibarhaṁ śukabarhañca kukkuram |
śīrṇarōma śukañcāpi śukrapuṣpaṁ śukacchadam ||91||
sthauṇēyakaṁ kaṭu svādu tiktaṁ snigdhaṁ tridōṣanut |
mēdhāśukrakaraṁ rucyaṁ rakṣōghnaṁ jvarajantujit |
hanti kuṣṭhāsratr̥ḍdāhadaurgandhyatilakālakān ||92||
granthiparṇabhēda
niśācarō ghanaharaḥ kitavō gaṇahāsakaḥ |
cōrakō madhurastiktaḥ kaṭuḥ pākē kaṭurlaghuḥ |
tīkṣṇō hr̥dyō himō hanti kuṣṭhakaṇḍūkaphānilān |
rakṣō’śrīsvēdamēdō’srajvaragandhaviṣavraṇān ||93||
tālīsapatra
tālīsamuktaṁ patrāḍhyaṁ dhātrīpatraṁ ca tatsmr̥tam |
tālīsaṁ laghu tīkṣṇōṣṇaṁ śvāsakāsakaphānilān |
nihantyarucigulmāmavahnimāṁdyakṣayāmayān ||94||
kaṅkōla
kaṅkōlaṁ kōlakaṁ prōktaṁ tathā kōṣaphalaṁ smr̥tam |
kaṅkōlaṁ laghu tīkṣṇōṣṇaṁ tiktaṁ hr̥dyaṁ rucipradam |
āsyadaurgandhyahr̥drōgakaphavātāmayāndhyahr̥t ||95||
gandhakōkilā
snigdhōṣṇā kaphahr̥ttiktā sugandhā gandhakōkilā |
gandhakōkilayā tulyā vijñēyā gandhamālatī ||96||
lāmajjaka
lāmajjakaṁ sunālaṁ syādamr̥ṇālaṁ layaṁ laghu |
iṣṭakāpathakaṁ sēvyaṁ naladañcāvadātakam ||97||
lāmajjakaṁ himaṁ tiktaṁ laghu dōṣatrayāsrajit |
tvagāmayasvēdakr̥cchradāhapittāsrarōganut ||98||
ēlavāluka
ēlavālukamailēyaṁ sugandhi harivālukam |
ēlavālukamēlālu kapitthaṁ patramīritam ||99||
ēlālu kaṭukaṁ pākē kaṣāyaṁ śītalaṁ laghu |
hanti kaṇḍūvraṇaccharditr̥ṭkāsārucihr̥drujaḥ |
balāsaviṣapittāsrakuṣṭhamūtragadakrimīn ||100||
kaivartamusta
kuṭannaṭaṁ dāsapuraṁ bālēyaṁ paripēlavam |
plavagōpuragōnardakaivartīmustakāni ca ||101||
mustāvatpēlavapuṭaṁ śukrābhaṁ syādvitunnakam |
vitunnakaṁ himaṁ tiktaṁ kaṣāyaṁ kaṭu kāntidam |
kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut ||102||
spr̥kkā
spr̥kkā’sr̥g brāhmaṇī dēvī marunmālā latā laghuḥ |
samudrāntā vadhūḥ kōṭivarṣā’laṅkōpikētyapi ||103||
spr̥kkā svādvī himā vr̥ṣyā tiktā nikhiladōṣanut |
kuṣṭhakaṇḍūviṣasvēdadāhāsrajvararaktahr̥t ||104||
parpaṭī
parpaṭī rañjanā kr̥ṣṇā jatukā jananī janī |
jatukr̥ṣṇā’gnisaṁsparśā jatukr̥ccakravartinī ||105||
parpaṭī tuvarā tiktā śiśirā varṇakr̥llaghuḥ |
viṣavraṇaharī kaṇḍūkaphapittāsrakuṣṭhanut ||106||
nalikā
nalikā vidrumalatā kapōtacaraṇā naṭī |
dhamanyañjanakēśī ca nirmadhyā suṣirā nalī ||107||
nalikā śītalā laghvī cakṣuṣyā kaphapittahr̥t |
kr̥cchrāśmavātatr̥ṣṇāsrakuṣṭhakaṇḍūjvarāpahā ||108||
prapauṇḍarīka
prapauṇḍarīkaṁ pauṇḍaryaṁ cakṣuṣyaṁ pauṇḍarīyakam |
pauṇḍaryaṁ madhuraṁ tiktaṁ kaṣāyaṁ śukralaṁ himam |
cakṣuṣyaṁ madhuraṁ pākē varṇyaṁ pittakaphapraṇut ||109||
puṣpikā
iti śrīlaṭakanamiśratanayaśrībhāvamiśraviracitē bhāvaprakāśē
pūrvakhaṇḍē miśraprakaraṇē tr̥tīyaḥ karpūrādivargaḥ samāptaḥ