Table of Contents
ToggleDevanagari Version
||श्रीभावमिश्रविरचित||
भावप्रकाशनिघण्टु
[भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण]
६. वटादिवर्ग
वट
वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः |
क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ||१||
वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः |
वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत् ||२||
अश्वत्थ
बोधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः |
पिप्पलो दुर्जरः शीतः पित्तश्लेष्मव्रणास्रजित् |
गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः ||३||
पिप्पलभेद-
पारीषोऽन्यः पलाशश्च कपिचूतः कमण्डलुः |
गर्दभाण्डः कन्दरालः कपीतनसुपार्श्वकौ ||४||
पारीषो दुर्जरः स्निग्धः कृमिशुक्रकफप्रदः |
फलेऽम्लो मधुरो मूले कषायस्वादुमज्जकः ||५||
नन्दीवृक्ष (अश्वत्थभेद)
नन्दीवृक्षोऽश्वत्थभेदः प्ररोही गजपादपः |
स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ||६||
नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर उष्णकः |
कटुपाकरसो ग्राही विषपित्तकफास्रजित् ||७||
उदुम्बर
उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः |
उदुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रजित् |
मधुरस्तुवरो वर्ण्यो व्रणशोधनरोपणः ||८||
काकोदुम्बरिका
काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला |
मलपूः स्तम्भकृत्तिक्ता शीतला तुवरा जयेत् |
कफपित्तव्रणश्वित्रकुष्ठपाण्ड्वर्शकामलाः ||९||
प्लक्ष
प्लक्षो जटी पर्करी च पर्कटी च स्त्रियामपि |
प्लक्षः कषायः शिशिरो व्रणयोनिगदापहः |
दाहपित्तकफास्रघ्नः शोथहा रक्तपित्तहृत् ||१०||
शिरीष
शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः |
शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः ||११||
शिरीषो मधुरोऽनुष्णस्तिक्तश्च तुवरो लघुः |
दोषशोथविसर्पघ्नः कासव्रणविषापहः ||१२||
पञ्चवल्कल, क्षीरिवृक्ष
न्यग्रोधोदुम्बराश्वत्थपारीषप्लक्षपादपाः |
पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चवल्कलम् ||१३||
केचित्तु पारीषस्थाने शिरीषं वेतसं वदन्तीति शेषः |
क्षीरवृक्षा हिमा वर्ण्या योनिरोगव्रणापहाः |
रूक्षाः कषाया मेदोघ्ना विसर्पामयनाशनाः ||१४||
शोथपित्तकफास्रघ्नाः स्तन्या भग्नास्थियोजकः |
त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित् ||१५||
तेषां पत्रं हिमं ग्राहि कफवातास्रनुल्लघु |
विष्टम्भाध्मानजित्तिक्तं कषायं लघु लेखनम् ||१६||
शाल
शालस्तु सर्जकार्श्याश्वकर्णकाः शस्यशम्बरः |
अश्वकर्णः कषायः स्याद् व्रणस्वेदकफक्रिमीन् |
ब्रध्नविद्रधिबाधिर्ययोनिकर्णगदान् हरेत् ||१७||
शालभेद (सर्जक)-
सर्जकोऽन्योऽजकर्णः स्याच्छालो मरिचपत्रकः |
अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति |
कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान् ||१८||
शल्लकी
शल्लकी गजभक्ष्या च सुवहा सुरभी रसा |
महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा ||१९||
शल्लकी तुवरा शीता पित्तश्लेष्मातिसारजित् |
रक्तपित्तव्रणहरी पुष्टिकृत्समुदीरिता ||२०||
शिंशपा
शिंशपा पिच्छिला श्यामा कृष्णसारा च सा गुरु |
कपिला सैव मुनिभिर्भस्मगर्भेतिकीर्तिता ||२१||
शिंशपा कटुका तिक्ता कषाया शोषहारिणी |
उष्णवीर्या हरेन्मेदःकुष्ठश्वित्रवमिकृमीन् |
वस्तिरुग्व्रणदाहास्रबलासान् गर्भपातिनी ||२२||
ककुभ
ककुभोऽर्जुननामाख्यो नदीसर्जश्च कीर्तितः |
इन्द्रद्रुर्वीरवृक्षश्च वीरश्च धवलः स्मृतः ||२३||
ककुभः शीतलो हृद्यः क्षतक्षयविषास्रजित् |
मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत् ||२४||
बीजक
बीजकः पीतसारश्च पीतशालक इत्यपि |
बन्धूकपुष्पः प्रियकः सर्जकश्चासनः स्मृतः ||२५||
बीजकः कुष्ठवीसर्पश्वित्रमेहगुदक्रिमीन् |
हन्ति श्लेष्मास्रपित्तञ्च त्वच्यः केश्यो रसायनः ||२६||
खदिर
खदिरो रक्तसारश्च गायत्री दन्तधावनः |
कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः |
खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् |
तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् |
श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ||२७||
श्वेत खदिर-
खदिरः श्वेतसारोऽन्यः कदरः सोमवल्कलः |
कदरो विशदो वर्ण्यो मुखरोगकफास्रजित् ||२८||
इरिमेद
इरिमेदो विट्खदिरः कालस्कन्धोऽरिमेदकः |
इरिमेदः कषायोष्णो मुखदन्तगदाऽस्रजित् |
हन्ति कण्डूविषश्लेष्मकृमिकुष्ठविषव्रणान् ||२९||
रोहीतक
रोहीतको रोहितका रोही दाडिमपुष्पकः |
रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः ||३०||
बब्बूल
बब्बूलः किङ्किरातः स्यात्किङ्किराटः सपीतकः |
स एव कथितस्तज्ज्ञैराभाषट्प्रदमोदिनी |
बब्बूलः कफनुद् ग्राही कुष्ठक्रिमिविषापहः ||३१||
अरिष्टक
अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः |
रक्तबीजः पीतफेनः फेनिलो गर्भपातनः |
अरिष्टस्तु त्रिदोषघ्नो ग्रहभिद्गर्भपातनः ||३२||
पुत्रजीव
पुत्रजीवो गर्भकरो यष्टीपुष्पोऽर्थसाधकः |
पुत्रजीवो गुरुर्वृष्यो गर्भदः श्लेष्मवातहृत् |
सृष्टमूत्रमलो रूक्षो हिमः स्वादुः पटुः कटुः ||३३||
इङ्गुद
इङ्गुदोऽङ्गारवृक्षश्च तिक्तकस्तापसद्रुमः |
इङ्गुदः कुष्ठभूतादिग्रहव्रणविषक्रिमीन् |
हन्त्युष्णः श्वित्रशूलघ्नस्तिक्तकः कटुपाकवान् ||३४||
जिङ्गिनी
जिङ्गिनी झिङ्गिनी झिङ्गी सुनिर्यासा प्रमोदिनी |
जिङ्गिनी मधुरा सोष्णा कषाया योनिशोधिनी |
कटुका व्रणहृद्रोगवातातीसारहृत् पटुः ||३५||
तमाल
(तमाल उक्तस्तापि च्छः कालस्कन्धोऽमितद्रुमः |
लोकस्कन्धो नीलध्वजो नीलतालश्च स स्मृतः) |
तमालः शालवद्वेद्यो दाहविस्फोटहृत् पुनः ||३६||
तूणी
तूणी तुन्नक आपीनस्तुणिकः कच्छकस्तथा |
कुठेरकः कान्तलको नन्दीवृक्षश्च नन्दकः ||३७||
तूणी रक्तः कटुः पाके कषायो मधुरो लघुः |
तिक्तो ग्राही हिमो वृष्यो व्रणकुष्ठास्रपित्तजित् ||३८||
भूर्ज
भूर्जपत्रः स्मृतो भूर्जश्चर्म्मी बहुलवल्कलः |
भूर्जो भूतग्रहश्लेष्मकर्णरुक्पित्तरक्तजित् |
कषायो राक्षसघ्नश्च मेदोविषहरः परः ||३९||
पलाश
पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः |
क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः ||४०||
पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् |
कषायः कटुकस्तिक्तः स्निग्धो गुदजरोगजित् ||४१||
भग्नसन्धानकृद्दोषग्रहण्यर्शःकृमीन्हरेत् |
तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम् ||४२||
वातलं कफपित्तास्रकृच्छ्रजिद्ग्राहि शीतलम् |
तृड्दाहशमकं वातरक्तकुष्ठहरं परम् ||४३||
फलं लघूष्णं मेहार्शःकृमिवातकफापहम् |
विपाके कटुकं रूक्षं कुष्ठं गुल्मोदरप्रणुत् ||४४||
शाल्मलि
शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च |
रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ||४५||
शाल्मली शीतला स्वाद्वी रसे पाके रसायनी |
श्लेष्मला पित्तवातास्रहारिणी रक्तपित्तजित् ||४६||
मोचरस
निर्यासः शाल्मलेः पिच्छा शाल्मलीवेष्टकोऽपि च |
मोचास्रावो मोचरसो मोचनिर्यास इत्यपि ||४७||
मोचास्रावो हिमो ग्राही स्निग्धो वृष्यः कषायकः |
प्रवाहिकाऽतिसारामकफपित्तास्रदाहनुत् ||४८||
कूटशाल्मलि
कुत्सितः शाल्मलिः प्रोक्तो रोचनः कूटशाल्मलिः |
कूटशाल्मलिकस्तिक्तः कटुकः कफवातनुत् |
भेद्युष्णः प्लीहजठरयकृद्गुल्मविषापहः |
भूतानाहविबन्धास्रमेदःशूलकफापहः ||४९||
धव
धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः |
धवः शीतः प्रमेहार्शःपाण्डुपित्तकफापहः |
मधुरस्तुवरस्तस्य फलञ्च मधुरं मनाक् ||५०||
धन्वङ्ग
धन्वङ्गस्तु धनुर्वृक्षो गोत्रवृक्षः सुतेजनः |
धन्वङ्गः कफपित्तास्रकासहृत्तुवरो लघुः |
बृंहणो बलकृद्रूक्षः सन्धिकृद् व्रणरोपणः ||५१||
करीर
करीरः क्रकरोऽपत्रो ग्रन्थिलो मरुभूरुहः |
करीरः कटुकस्तिक्तः स्वेद्युष्णो भेदनः स्मृतः |
दुर्नामकफवातामगरशोथव्रणप्रणुत् ||५२||
शाखोट
शाखोटः पीतफलको भूतावासः खरच्छदः |
शाखोटो रक्तपित्तार्शोवातश्लेष्मातिसारजित् ||५३||
वरुण
वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः |
वरुणः पित्तलो भेदी श्लेष्मकृच्छ्राश्ममारुतान् |
निहन्ति गुल्मवातास्रकृमींश्चोष्णोऽग्निदीपकः |
कषायो मधुरस्तिक्तः कटुकी रूक्षको लघुः ||५४||
कटभी
कटभी स्वादुपुष्पश्च मधुरेणुः कटम्भरः |
कटभी तु प्रमेहार्शोनाडीव्रणविषक्रिमीन् |
हन्त्युष्णा कफकुष्ठघ्नी कटु रूक्षा च कीर्तिता |
तत्फलं तुवरं ज्ञेयं विशेषात्कफशुक्रहृत् ||५५||
मोक्ष
मोक्षस्तु मोक्षकोऽपि स्याद् गोलीढो गोलिहस्तथा |
क्षारश्रेष्ठः क्षारवृक्षो द्विविधः श्वेतकृष्णकः ||५६||
मोक्षकः कटुकस्तिक्तो ग्राह्युष्णः कफवातहृत् |
विषमेदोगुल्मकण्डूबस्तिरुक्कृमिशुक्रनुत् ||५७||
शिरीषिका
शिरीषिका टिण्टिणिका दुर्बलाऽम्बुशिरीषिका |
त्रिदोषविषकुष्ठार्शोहरी वारिशिरीषिका ||५८||
शमी
शमी सक्तुफला तुङ्गा केशहन्त्री फला शिवा |
मङ्गल्या च तथा लक्ष्मीः शमीरः साऽल्पिका स्मृता ||५९||
शमी तिक्ता कटुः शीता कषाया रेचनी लघुः |
कफकासभ्रमश्वासकुष्ठार्शःकृमिजित् स्मृता ||६०||
सप्तपर्ण
सप्तपर्णो विशालत्वक् शारदो विषमच्छदः |
सप्तपर्णो व्रणश्लेष्मवातकुष्ठास्रजन्तुजित् |
दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः सरः ||६१||
तिनिश
तिनिशः स्यन्दनो नेमी रथद्रुर्वञ्जुलस्तथा |
तिनिशः श्लेष्मपित्तास्रमेदःकुष्ठप्रमेहजित् |
तुवरः श्वित्रदाहघ्नो व्रणपाण्डुकृमिप्रणुत् ||६२||
भूमीसह
भूमीसहो द्वारदारुर्नरिदारुः खरच्छदः |
भूमीसहस्तु शिशिरो रक्तपित्तप्रसादनः ||६३||
पुष्पिका
इति श्रीलटकनमिश्रतनयश्रीभावमिश्रविरचिते भावप्रकाशे
पूर्वखण्डे मिश्रप्रकरणे षष्ठो वटादिवर्गः समाप्तः |
Diacritic Version
||śrībhāvamiśraviracita||
Bhāvaprakāśanighaṇṭu
[bhāvaprakāśa-pūrvakhaṇḍa-prathamabhāga]
6. vaṭādivarga
vaṭa
vaṭō raktaphalaḥ śr̥ṅgī nyagrōdhaḥ skandhajō dhruvaḥ |
kṣīrī vaiśravaṇō vāsō bahupādō vanaspatiḥ ||1||
vaṭaḥ śītō gururgrāhī kaphapittavraṇāpahaḥ |
varṇyō visarpadāhaghnaḥ kaṣāyō yōnidōṣahr̥t ||2||
aśvattha
bōdhidruḥ pippalō’śvatthaścalapatrō gajāśanaḥ |
pippalō durjaraḥ śītaḥ pittaślēṣmavraṇāsrajit |
gurustuvarakō rūkṣō varṇyō yōniviśōdhanaḥ ||3||
pippalabhēda-
pārīṣō’nyaḥ palāśaśca kapicūtaḥ kamaṇḍaluḥ |
gardabhāṇḍaḥ kandarālaḥ kapītanasupārśvakau ||4||
pārīṣō durjaraḥ snigdhaḥ kr̥miśukrakaphapradaḥ |
phalē’mlō madhurō mūlē kaṣāyasvādumajjakaḥ ||5||
nandīvr̥kṣa (aśvatthabhēda)
nandīvr̥kṣō’śvatthabhēdaḥ prarōhī gajapādapaḥ |
sthālīvr̥kṣaḥ kṣayataruḥ kṣīrī ca syādvanaspatiḥ ||6||
nandīvr̥kṣō laghuḥ svādustiktastuvara uṣṇakaḥ |
kaṭupākarasō grāhī viṣapittakaphāsrajit ||7||
udumbara
udumbarō jantuphalō yajñāṅgō hēmadugdhakaḥ |
udumbarō himō rūkṣō guruḥ pittakaphāsrajit |
madhurastuvarō varṇyō vraṇaśōdhanarōpaṇaḥ ||8||
kākōdumbarikā
kākōdumbarikā phalgurmalayūrjaghanēphalā |
malapūḥ stambhakr̥ttiktā śītalā tuvarā jayēt |
kaphapittavraṇaśvitrakuṣṭhapāṇḍvarśakāmalāḥ ||9||
plakṣa
plakṣō jaṭī parkarī ca parkaṭī ca striyāmapi |
plakṣaḥ kaṣāyaḥ śiśirō vraṇayōnigadāpahaḥ |
dāhapittakaphāsraghnaḥ śōthahā raktapittahr̥t ||10||
śirīṣa
śirīṣō bhaṇḍilō bhaṇḍī bhaṇḍīraśca kapītanaḥ |
śukapuṣpaḥ śukatarurmr̥dupuṣpaḥ śukapriyaḥ ||11||
śirīṣō madhurō’nuṣṇastiktaśca tuvarō laghuḥ |
dōṣaśōthavisarpaghnaḥ kāsavraṇaviṣāpahaḥ ||12||
pañcavalkala, kṣīrivr̥kṣa
nyagrōdhōdumbarāśvatthapārīṣaplakṣapādapāḥ |
pañcaitē kṣīriṇō vr̥kṣāstēṣāṁ tvakpañcavalkalam ||13||
kēcittu pārīṣasthānē śirīṣaṁ vētasaṁ vadantīti śēṣaḥ |
kṣīravr̥kṣā himā varṇyā yōnirōgavraṇāpahāḥ |
rūkṣāḥ kaṣāyā mēdōghnā visarpāmayanāśanāḥ ||14||
śōthapittakaphāsraghnāḥ stanyā bhagnāsthiyōjakaḥ |
tvakpañcakaṁ himaṁ grāhi vraṇaśōthavisarpajit ||15||
tēṣāṁ patraṁ himaṁ grāhi kaphavātāsranullaghu |
viṣṭambhādhmānajittiktaṁ kaṣāyaṁ laghu lēkhanam ||16||
śāla
śālastu sarjakārśyāśvakarṇakāḥ śasyaśambaraḥ |
aśvakarṇaḥ kaṣāyaḥ syād vraṇasvēdakaphakrimīn |
bradhnavidradhibādhiryayōnikarṇagadān harēt ||17||
śālabhēda (sarjaka)-
sarjakō’nyō’jakarṇaḥ syācchālō maricapatrakaḥ |
ajakarṇaḥ kaṭustiktaḥ kaṣāyōṣṇō vyapōhati |
kaphapāṇḍuśrutigadān mēhakuṣṭhaviṣavraṇān ||18||
śallakī
śallakī gajabhakṣyā ca suvahā surabhī rasā |
mahēruṇā kundurukī vallakī ca bahusravā ||19||
śallakī tuvarā śītā pittaślēṣmātisārajit |
raktapittavraṇaharī puṣṭikr̥tsamudīritā ||20||
śiṁśapā
śiṁśapā picchilā śyāmā kr̥ṣṇasārā ca sā guru |
kapilā saiva munibhirbhasmagarbhētikīrtitā ||21||
śiṁśapā kaṭukā tiktā kaṣāyā śōṣahāriṇī |
uṣṇavīryā harēnmēdaḥkuṣṭhaśvitravamikr̥mīn |
vastirugvraṇadāhāsrabalāsān garbhapātinī ||22||
kakubha
kakubhō’rjunanāmākhyō nadīsarjaśca kīrtitaḥ |
indradrurvīravr̥kṣaśca vīraśca dhavalaḥ smr̥taḥ ||23||
kakubhaḥ śītalō hr̥dyaḥ kṣatakṣayaviṣāsrajit |
mēdōmēhavraṇān hanti tuvaraḥ kaphapittahr̥t ||24||
bījaka
bījakaḥ pītasāraśca pītaśālaka ityapi |
bandhūkapuṣpaḥ priyakaḥ sarjakaścāsanaḥ smr̥taḥ ||25||
bījakaḥ kuṣṭhavīsarpaśvitramēhagudakrimīn |
hanti ślēṣmāsrapittañca tvacyaḥ kēśyō rasāyanaḥ ||26||
khadira
khadirō raktasāraśca gāyatrī dantadhāvanaḥ |
kaṇṭakī bālapatraśca bahuśalyaśca yajñiyaḥ |
khadiraḥ śītalō dantyaḥ kaṇḍūkāsārucipraṇut |
tiktaḥ kaṣāyō mēdōghnaḥ kr̥mimēhajvaravraṇān |
śvitraśōthāmapittāsrapāṇḍukuṣṭhakaphān harēt ||27||
śvēta khadira-
khadiraḥ śvētasārō’nyaḥ kadaraḥ sōmavalkalaḥ |
kadarō viśadō varṇyō mukharōgakaphāsrajit ||28||
irimēda
irimēdō viṭkhadiraḥ kālaskandhō’rimēdakaḥ |
irimēdaḥ kaṣāyōṣṇō mukhadantagadā’srajit |
hanti kaṇḍūviṣaślēṣmakr̥mikuṣṭhaviṣavraṇān ||29||
rōhītaka
rōhītakō rōhitakā rōhī dāḍimapuṣpakaḥ |
rōhītakaḥ plīhaghātī rucyō raktaprasādanaḥ ||30||
babbūla
babbūlaḥ kiṅkirātaḥ syātkiṅkirāṭaḥ sapītakaḥ |
sa ēva kathitastajjñairābhāṣaṭpradamōdinī |
babbūlaḥ kaphanud grāhī kuṣṭhakrimiviṣāpahaḥ ||31||
ariṣṭaka
ariṣṭakastu māṅgalyaḥ kr̥ṣṇavarṇō’rthasādhanaḥ |
raktabījaḥ pītaphēnaḥ phēnilō garbhapātanaḥ |
ariṣṭastu tridōṣaghnō grahabhidgarbhapātanaḥ ||32||
putrajīva
putrajīvō garbhakarō yaṣṭīpuṣpō’rthasādhakaḥ |
putrajīvō gururvr̥ṣyō garbhadaḥ ślēṣmavātahr̥t |
sr̥ṣṭamūtramalō rūkṣō himaḥ svāduḥ paṭuḥ kaṭuḥ ||33||
iṅguda
iṅgudō’ṅgāravr̥kṣaśca tiktakastāpasadrumaḥ |
iṅgudaḥ kuṣṭhabhūtādigrahavraṇaviṣakrimīn |
hantyuṣṇaḥ śvitraśūlaghnastiktakaḥ kaṭupākavān ||34||
jiṅginī
jiṅginī jhiṅginī jhiṅgī suniryāsā pramōdinī |
jiṅginī madhurā sōṣṇā kaṣāyā yōniśōdhinī |
kaṭukā vraṇahr̥drōgavātātīsārahr̥t paṭuḥ ||35||
tamāla
(tamāla uktastāpi cchaḥ kālaskandhō’mitadrumaḥ |
lōkaskandhō nīladhvajō nīlatālaśca sa smr̥taḥ) |
tamālaḥ śālavadvēdyō dāhavisphōṭahr̥t punaḥ ||36||
tūṇī
tūṇī tunnaka āpīnastuṇikaḥ kacchakastathā |
kuṭhērakaḥ kāntalakō nandīvr̥kṣaśca nandakaḥ ||37||
tūṇī raktaḥ kaṭuḥ pākē kaṣāyō madhurō laghuḥ |
tiktō grāhī himō vr̥ṣyō vraṇakuṣṭhāsrapittajit ||38||
bhūrja
bhūrjapatraḥ smr̥tō bhūrjaścarmmī bahulavalkalaḥ |
bhūrjō bhūtagrahaślēṣmakarṇarukpittaraktajit |
kaṣāyō rākṣasaghnaśca mēdōviṣaharaḥ paraḥ ||39||
palāśa
palāśaḥ kiṁśukaḥ parṇō yajñiyō raktapuṣpakaḥ |
kṣāraśrēṣṭhō vātaharō brahmavr̥kṣaḥ samidvaraḥ ||40||
palāśō dīpanō vr̥ṣyaḥ sarōṣṇō vraṇagulmajit |
kaṣāyaḥ kaṭukastiktaḥ snigdhō gudajarōgajit ||41||
bhagnasandhānakr̥ddōṣagrahaṇyarśaḥkr̥mīnharēt |
tatpuṣpaṁ svādu pākē tu kaṭu tiktaṁ kaṣāyakam ||42||
vātalaṁ kaphapittāsrakr̥cchrajidgrāhi śītalam |
tr̥ḍdāhaśamakaṁ vātaraktakuṣṭhaharaṁ param ||43||
phalaṁ laghūṣṇaṁ mēhārśaḥkr̥mivātakaphāpaham |
vipākē kaṭukaṁ rūkṣaṁ kuṣṭhaṁ gulmōdarapraṇut ||44||
śālmali
śālmalistu bhavēnmōcā picchilā pūraṇīti ca |
raktapuṣpā sthirāyuśca kaṇṭakāḍhyā ca tūlinī ||45||
śālmalī śītalā svādvī rasē pākē rasāyanī |
ślēṣmalā pittavātāsrahāriṇī raktapittajit ||46||
mōcarasa
niryāsaḥ śālmalēḥ picchā śālmalīvēṣṭakō’pi ca |
mōcāsrāvō mōcarasō mōcaniryāsa ityapi ||47||
mōcāsrāvō himō grāhī snigdhō vr̥ṣyaḥ kaṣāyakaḥ |
pravāhikā’tisārāmakaphapittāsradāhanut ||48||
kūṭaśālmali
kutsitaḥ śālmaliḥ prōktō rōcanaḥ kūṭaśālmaliḥ |
kūṭaśālmalikastiktaḥ kaṭukaḥ kaphavātanut |
bhēdyuṣṇaḥ plīhajaṭharayakr̥dgulmaviṣāpahaḥ |
bhūtānāhavibandhāsramēdaḥśūlakaphāpahaḥ ||49||
dhava
dhavō dhaṭō nanditaruḥ sthirō gaurō dhurandharaḥ |
dhavaḥ śītaḥ pramēhārśaḥpāṇḍupittakaphāpahaḥ |
madhurastuvarastasya phalañca madhuraṁ manāk ||50||
dhanvaṅga
dhanvaṅgastu dhanurvr̥kṣō gōtravr̥kṣaḥ sutējanaḥ |
dhanvaṅgaḥ kaphapittāsrakāsahr̥ttuvarō laghuḥ |
br̥ṁhaṇō balakr̥drūkṣaḥ sandhikr̥d vraṇarōpaṇaḥ ||51||
karīra
karīraḥ krakarō’patrō granthilō marubhūruhaḥ |
karīraḥ kaṭukastiktaḥ svēdyuṣṇō bhēdanaḥ smr̥taḥ |
durnāmakaphavātāmagaraśōthavraṇapraṇut ||52||
śākhōṭa
śākhōṭaḥ pītaphalakō bhūtāvāsaḥ kharacchadaḥ |
śākhōṭō raktapittārśōvātaślēṣmātisārajit ||53||
varuṇa
varuṇō varaṇaḥ sētustiktaśākaḥ kumārakaḥ |
varuṇaḥ pittalō bhēdī ślēṣmakr̥cchrāśmamārutān |
nihanti gulmavātāsrakr̥mīṁścōṣṇō’gnidīpakaḥ |
kaṣāyō madhurastiktaḥ kaṭukī rūkṣakō laghuḥ ||54||
kaṭabhī
kaṭabhī svādupuṣpaśca madhurēṇuḥ kaṭambharaḥ |
kaṭabhī tu pramēhārśōnāḍīvraṇaviṣakrimīn |
hantyuṣṇā kaphakuṣṭhaghnī kaṭu rūkṣā ca kīrtitā |
tatphalaṁ tuvaraṁ jñēyaṁ viśēṣātkaphaśukrahr̥t ||55||
mōkṣa
mōkṣastu mōkṣakō’pi syād gōlīḍhō gōlihastathā |
kṣāraśrēṣṭhaḥ kṣāravr̥kṣō dvividhaḥ śvētakr̥ṣṇakaḥ ||56||
mōkṣakaḥ kaṭukastiktō grāhyuṣṇaḥ kaphavātahr̥t |
viṣamēdōgulmakaṇḍūbastirukkr̥miśukranut ||57||
śirīṣikā
śirīṣikā ṭiṇṭiṇikā durbalā’mbuśirīṣikā |
tridōṣaviṣakuṣṭhārśōharī vāriśirīṣikā ||58||
śamī
śamī saktuphalā tuṅgā kēśahantrī phalā śivā |
maṅgalyā ca tathā lakṣmīḥ śamīraḥ sā’lpikā smr̥tā ||59||
śamī tiktā kaṭuḥ śītā kaṣāyā rēcanī laghuḥ |
kaphakāsabhramaśvāsakuṣṭhārśaḥkr̥mijit smr̥tā ||60||
saptaparṇa
saptaparṇō viśālatvak śāradō viṣamacchadaḥ |
saptaparṇō vraṇaślēṣmavātakuṣṭhāsrajantujit |
dīpanaḥ śvāsagulmaghnaḥ snigdhōṣṇastuvaraḥ saraḥ ||61||
tiniśa
tiniśaḥ syandanō nēmī rathadrurvañjulastathā |
tiniśaḥ ślēṣmapittāsramēdaḥkuṣṭhapramēhajit |
tuvaraḥ śvitradāhaghnō vraṇapāṇḍukr̥mipraṇut ||62||
bhūmīsaha
bhūmīsahō dvāradārurnaridāruḥ kharacchadaḥ |
bhūmīsahastu śiśirō raktapittaprasādanaḥ ||63||
puṣpikā
iti śrīlaṭakanamiśratanayaśrībhāvamiśraviracitē bhāvaprakāśē
pūrvakhaṇḍē miśraprakaraṇē ṣaṣṭhō vaṭādivargaḥ samāptaḥ