Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
चिकित्सास्थानम् - २४. मदात्ययचिकित्सितम्
अथातो मदात्ययचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
मोहजनकत्वसामान्यात् तथा विषसमानगुणजन्यत्वाच्च विषचिकित्सितमनु मदात्ययस्य चिकित्सितमुच्यते||१-२||
सुरैः सुरेशसहितैर्या पुरा [१] परिपूजिता|
सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता||३||
यज्ञौही या यया शक्रः सोमातिपतितो भृशम्|
निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः||४||
विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः|
दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये||५||
सुरैरित्यादिना मदिरास्तुत्या तथा वक्ष्यमाणनिन्दया विधिना पीयमानसुरायाः शुभफलमविधिपानाच्चात्यर्थनिन्दितफलवत्त्वं दर्शयति| या पुरा परिपूजितेत्यनेन प्रथमं देवैरेवेयं परिपूजिता, ततः सुरयोगात् सुरेति चोपदिष्टेति दर्शयति| सौत्रामणिः सुराहविर्यज्ञान्तर्निविष्टो यज्ञविशेषः; तस्यां हूयते सुरा| कर्मिभिर्या प्रतिष्ठितेति याज्ञिकैरभिषवणादिभिः प्रतिष्ठिता प्रतिष्ठां प्रापिता| यज्ञं वहतीति यज्ञौही; अनेन च लौकिकयज्ञान्तराण्यपि सुरया क्रियन्त इत्युच्यते; सौत्रामणिहोमे तु तस्या एव प्रधानाङ्गतोच्यते| शक्रश्च सोमातिपतित इति ‘शक्रोऽतिपीतेन सोमेन क्षपितबलो निरोजस्को निर्वीर्यीभूतः स किल पुनराप्याय्य निजं वीर्यमापादितः’ इत्येषा श्रुतिः; अतिपानेन पतितः अतिपतितः [२] | प्रकल्प्या इति अभिषोतव्या सन्धानायेति यावत्| यज्ञीया यज्ञसिद्धय इति यज्ञविधौ कानिचित् क्रत्वर्थानि यूपबर्ह्यादीनि, कानिचित्तु पुरुषार्थानि वासगर्भादीनि, कानिचिद् यज्ञार्थानि पुरुषार्थानि च यथा सर्पिरिष्टकादीनि, तदिह सुरा ‘यज्ञीया’ इत्यनेन वासनादिवत् ‘पुरुषार्था’ इत्युच्यते, यज्ञसिद्धये भवतीत्यनेन यूपादिवद् यज्ञार्थत्वं सुराया उच्यते||३-५||
योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा च या|
भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात्||६||
योनीत्यादौ विशेषशब्दः प्रत्येकमभिसम्बध्यते| योनिः कारणं, तद्विशेषाः- धान्यफलमूलसारपुष्पपत्रकाण्डत्वचः शर्करानवमाः सूत्रस्थानोक्ताः| संस्कारोऽपि बहुप्रकारसंस्कारयोगः| नामविशेषाः सुरामधुमैरेयादयः| आदिग्रहणात् प्रभावगुणादीनां ग्रहणम्| मदो लक्षणं यस्य तस्मान्मदलक्षणात् सामान्यात् मद्यस्वरूपात्||६||
या देवानमृतं भूत्वा स्वधा भूत्वा पित्तॄंश्च या|
सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः||७||
अमृतं भूत्वेत्यादौ सुराधिष्ठात्री देवता अमृतादिरूपेण देवादीन् तर्पयतीति दर्शयति| श्रेयोभिरिति महत्कल्याणैः||७||
आश्विनं या महत्तेजो बलं सारस्वतं च या|
वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या||८||
शोकारतिभयोद्वेगनाशिनी या महाबला|
या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः||९||
या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः|
रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत्||१०||
आश्विनं या महत्तेज इत्यादावपि सुराधिष्ठातृदेवताया एव तेजोवीर्यादिकारणत्वात्ताद्रूप्यं ज्ञेयम्| तेजः सर्वदेवतादिगं, तथा सारस्वतं बलं मन्त्रबलम्| सोमः सौत्रामणौ च येत्यनेन सोमरूपतोच्यते, पूर्वं सौत्रामण्यां हूयत इत्युक्तमिति न पौनरुक्त्यम्| या प्रीतिरित्यादौ प्रीत्यादिकारणत्वेन प्रीत्यादिरूपतया निर्देशो ज्ञेयः||८-१०||
शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान्|
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः||११||
विचित्रविविधस्रग्वी रत्नाभरणभूषितः|
देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम्||१२||
देशे यथर्तुके शस्ते कुसुमप्रकरीकृते|
सरसासम्मते [३] मुख्ये धूपसम्मोदबोधिते||१३||
सोपधाने सुसंस्तीर्णे विहिते शयनासने|
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः||१४||
सौवर्णै राजतैश्चापि तथा मणिमयैरपि|
भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा||१५||
रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः|
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः||१६||
शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः|
संवाह्यमान इष्टाभिः [४] पिबेन्मद्यमनुत्तमम्||१७||
मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः|
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः||१८||
भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम्|
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः||१९||
पूजयित्वा [५] सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च|
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले||२०||
विधिना पिबेदित्यत्रोक्तविधिमाह- शरीरेत्यादि| शरीरे स्नानवस्रादिभिर्बाह्य आभ्यन्तरश्च प्रकृत्याद्यपेक्षया स्निग्धोष्णान्नादिभिः कृतः संस्कारो येन स शरीरकृतसंस्कारः| शुचिरिति मनःशुचिः| यथर्तूद्दामगन्धिभिरिति ऋत्ववस्थानुगुणतया विहितैः| यथर्तुके सर्वर्तुसुखे| कुसुमप्रकरीकृते विसृजत्कुसुमे| सरसाः प्रियाः, तासां सम्मते| स्वशरीरसुखे स्थित इति यथाशरीरसुखं स्थितः| सुकृतैरिति संस्कृतैः| शिक्षिताभिरिति अभ्यस्तोपचाराभिः| गन्धपिशुनैरिति गन्धाढ्यैः| अम्बरचारिणः श्येनादयः| पौरोगवर्गा इति सूदशास्त्राभिज्ञाः| अर्थिभ्य इति अर्थिनो बलदेव-चण्डी-यक्षादयः, तेभ्यः||११-२०||
अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः|
स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत्||२१||
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः|
पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति||२२||
उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्|
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचकैः सह||२३||
विधिर्वसुमतामेष भविष्यद्विभवाश्च ये|
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्||२४||
वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम्|
कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत्||२५||
सामान्यं विधिमुक्त्वा वातिकादीनां पानविधिमाह- अभ्यङ्गेत्यादि| मारिचकैरिति मरिचसंस्कृतैः| वसुमतामिति धनवताम्| भविष्यद्विभवा उत्पद्यमानधनाः| यथोपपत्ति यथापरिच्छदोपपत्ति| कफपित्ताधिकेभ्य इत्यादौ विपर्ययतन्त्रयुक्त्या कफाधिकेभ्यो माधवं, पित्ताधिकेभ्यस्तु मार्द्वीकं; मार्द्वीकं मृद्वीकाकृतं, मधुकृतं तु माधवम्||२१-२५||
बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम्|
गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते||२६||
विधिना मात्रया काले हितैरन्नैर्यथाबलम्|
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा||२७||
यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते|
रूक्षव्यायामनित्येन विषवद्याति तस्य तत्||२८||
बहुद्रव्यमिति नानाविधद्रव्यसम्पादितम्| बहुगुणमिति भूरिवक्ष्यमाणलघ्वादिगुणम्| बहुकर्मेति लेखनदीपनादिबहुकर्मकरम्| मदात्मकमिति मदस्वभावम्| यस्मादेवं स्वभावं तस्माद्गुणदोषे च तं मद्यमपेक्षेते; किञ्चित् पुरुषमपेक्ष्य यौगिकत्वाद्गुणकरं, किञ्चित्त्वयौगिकत्वाद्दोषकरं; यथा- प्रथमे मदे गुणकरं, दोषकरं च द्वितीयमदे इति भावः| विधिनेति यथोक्तविधिना| काले इति यस्य मद्यस्य य उचितो विपरीतगुणः कालस्तस्मिन्| हितैरन्नैरिति मद्यहितैरन्नैः| यथोपेतमिति यदेव मद्यमहितमप्युपगतम्| प्रसङ्गादिति अतियोगेन| विषवदिति मोहादिकर्तृत्वात्||२६-२८||
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्|
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम्||२९||
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च|
रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम्||३०||
गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम्|
प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम्||३१||
गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः|
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात्||३२||
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि|
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा||३३||
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्|
सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्य जनयेन्मदम्||३४||
रसवातादिमार्गाणां [६] सत्त्वबुद्धीन्द्रियात्मनाम्|
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते||३५||
अतिपीतेन मद्येन विहतेनौजसा च तत्|
हृदयं याति विकृतिं तत्रस्था ये च धातवः||३६||
मद्यं यथा मदयति तथा प्राह- मद्यमित्यादि| दशभिरिति लघ्वादिभिर्गुणैः, दशापि गुर्वादीनोजोगुणान् सङ्क्षोभ्य, न द्वित्रादिकैः, चेतो विक्रियां नयति विकृतं करोति| येन गुणेन मद्यस्य ओजोगुणक्षोभो भवति तदाह- गुरुत्वं लाघवादित्यादि| प्रसादं चाशुभावनादिति प्रसादाख्यगुणमाशुगत्वाद्धन्ति; आशुगत्वं च यद्यपि प्रसादविरुद्धं न भवति, तथाऽपि मद्यमेव प्रतिकूलतया ओजःप्रसादं [७] हन्ति, तत्राशुगुण आहनने व्याप्रियत इति ज्ञेयम्| व्यवायित्वात् स्थिरत्वमिति व्यवायित्वं व्यापकत्वं, तच्च स्थिरत्वं तद्विपरीतत्वादेव हन्ति; आशुगत्वव्यवायित्वयोश्चायं विशेषः- यदाशुगं शीघ्रं गच्छति, व्यवायि तु सर्वव्यापकम्| विकासित्वं विकसनशीलत्वं सरत्वमिति यावत्; तच्च श्लक्ष्णविपरीतत्वादेव श्लक्ष्णतां हन्ति| सान्द्रता घनता| एते विकासित्वाशुगत्वादयो गुणा यद्यपि विंशतिगुणगणनायां न पठितास्तथाऽप्यसङ्ख्येयत्वाद्गुणानामेषामपि गुणत्वं सिद्धं; ये तु तत्र पठितास्ते तावदाविष्कृततमा ज्ञेयाः| आश्रयोपघातादाश्रितोपघातो भवतीति दर्शयन्नाह- सत्त्वमित्यादि| सत्त्वस्य च ओज आश्रयः, ओज उपकार्यम्; यथा- राजाश्रितः पुरुषः| रसवातेत्यादि| रसवातादिवहानां दशधमनीनां हृदयं स्थानं, रसवहा एव या दश धमन्यो हृदयाश्रया उक्तास्ता एव वातादिवहाः| यदुक्तं “वातपित्तश्लेष्मणां सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि” (वि.अ.५) इति; रक्तादीनां तु सर्वशरीरचराणामपि विशेषेण हृदयं स्थानमुक्तं- “षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्| आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्” (सू.अ.३०) इति| धातव इति सत्त्वबुद्धीन्द्रियादयः||२९-३६||
ओजस्यविहते पूर्वो हृदि च प्रतिबोधिते|
मध्यमो विहतेऽल्पे च विहते तूत्तमो मदः||३७||
नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः|
विकाशिरूक्षविशदा गुणास्तत्र हि नोल्बणाः||३८||
मद्यं चेतो विक्रियां नयतीत्युत्सर्गविधेः प्रथममदेऽपवादमाह- ओजस्यविहते इत्यादि| हृदयाश्रितबुद्ध्यादौ प्रतिबोधिते, हृदयशब्देनेह तत्स्थोपचाराद्धृदयाश्रिता बुद्ध्यादयोऽभिधीयन्ते, यथा- मञ्चाः क्रोशन्तीति; बुद्ध्यादिबोधनं प्रथममदकार्यं मद्यस्य प्रभावात्| मध्यमोत्तममदोपपत्तिसामग्रीमाह- मध्यम इत्यादि| विहते इति विघाते; ओजसः अल्पे विघाते मध्यमो मदो भवति| विहते इति विशेषेण अत्यर्थं हते, उत्तम इति तृतीयः||३७-३८||
हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम्|
विकाराश्च यथासत्त्वं चित्रा राजसतामसाः||३९||
जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात्|
स मद्यविभ्रमो नाम्ना ‘मद’ इत्यभिधीयते||४०||
हृदीत्यादिना सामान्येन मदलक्षणमाह| तर्षः अभिलाषः| यथासत्त्वमिति प्रकृत्या राजसे सत्त्वे राजसाः, तामसे च तामसाः| चित्रा इति नानाप्रकाराः| मोहनिद्रान्ता इति मोहनिद्रावसानाः||३९-४०||
पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः|
प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे||४१||
प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः|
वाद्यगीतप्रहासानां कथानां च प्रवर्तकः||४२||
न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः|
सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः||४३||
मुहुः स्मृतिर्मुहुर्मोहो(ऽ)व्यक्ता [८] सज्जति वाङ्मुहुः|
युक्तायुक्तप्रलापश्च प्रचलायनमेव च||४४||
स्थानपानान्नसाङ्कथ्ययोजना सविपर्यया|
लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे||४५||
मध्यमं मदमुत्क्रम्य मदमाप्राप्य [९] चोत्तमम्|
न किञ्चिन्नाशुभं कुर्युर्नरा राजसतामसाः||४६||
को मदं तादृशं विद्वानुन्मादमिव दारुणम्|
गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः||४७||
तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः|
मदमोहावृतमना जीवन्नपि मृतैः समः||४८||
रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम्|
यदर्थं पीयते मद्यं रतिं तां च न विन्दति||४९||
कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम्|
यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः||५०||
स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च|
व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते||५१||
प्रथमादिमदानां लक्षणमाह- प्रहर्षण इत्यादि| पानान्नगुणदर्शक इति पानान्नगुणान् सम्यग्बोधयतीत्यर्थः| विषयेष्विति विषयसेवासु, न चाक्षम इति नाक्षमताकर इत्यर्थः| युक्तायुक्तप्रलाप इति सम्बद्धासम्बद्धवचनः| प्रचलायनं घूर्णनम्| योजना सविपर्ययेति स्थानादीनां सम्यग्योजना कदाचिद्भवति, कदाचिच्च स्थानादियोजनाविपर्ययोऽसम्यग्योजनारूपो भवतीत्यर्थः| मध्यमं मदमुत्क्रम्येत्यादि| यद्यपि त्रिविधो मद उक्तः, तथाऽपि द्वितीयमदावसाने तृतीयमदाप्राप्त्यवस्थाया एव अत्यर्थनिन्द्यतां दर्शयन् तृतीयमदस्यात्यन्तनिन्द्यतां दर्शयति; येन तस्य तृतीयमदस्य पूर्वरूपावस्थैव सर्वाशुभकरणादिहेतुतया नितान्तं निन्द्येति भावः| इयं च मध्यमदातिक्रमतृतीयमदाप्राप्तिशब्दाभिधेयाऽप्यवस्था मध्यममदान्ततृतीयमदाद्यरूपावस्थाभिधायिकैव; यथा- “कुम्भमीनयोर्मध्ये यदा चरति चन्द्रमा” इत्यत्र मध्येपदेन कुम्भान्तमीनादिरेवोच्यते, परमार्थतस्तयोर्मध्यस्याभावात्; तथेहापि [१०] परमार्थतोऽन्यमदकालाभावाद् द्वितीयान्ततृतीयमदाद्यभिधानमेवात्र तृतीयमदात्यर्थनिन्दार्थं, न चतुर्थमदोपदर्शनम्| अस्वन्तमिति अशोभनान्तम्| भग्नदार्विवेति भग्नवृक्ष इव पतितस्तिष्ठति| उदर्कम् उत्तरकालम्| स दुःखं व्याधिमिति मदात्ययम्||४१-५१||
प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम्|
मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम्||५२||
मद्येन मनसश्चास्य सङ्क्षोभः क्रियते महान्|
महामारुतवेगेन तटस्थस्येव शाखिनः||५३||
मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम्|
सुखमित्यधिगच्छन्ति रजोमोहपराजिताः||५४||
मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः|
श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः||५५||
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः|
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः||५६||
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत्|
इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः||५७||
सत्यमेते महादोषा मद्यस्योक्ता न संशयः|
अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम्||५८||
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्|
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम्||५९||
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्|
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम्||६०||
प्रेत्य चेहेत्यादिना एकीयमतं मद्यनिन्दकं दर्शयति| प्रेत्येति जन्मान्तरे| तटस्थस्येति वचनेन वाताक्षोभ्यतां दर्शयति| सत्यमित्यादिना स्वमतमाह| एते दोषाः मद्यस्यैकीयमतोक्ता अहितादिधर्मयुक्तस्यैव भवन्ति, न हिताल्पमात्रविधिपीतस्येति भावः| विधिवर्जितमिति क्रियाविशेषणम्| मद्यस्यान्नसारूप्यदर्शनेन विधिवदुपयोगे गुणवत्तामविध्युपयोगे च दोषवत्तामाह- किन्त्वित्यादि| युक्त्या देशकालमात्राद्यपेक्षया योजनया युक्तं शुभम्, अशुभं चायुक्तियुक्तम्| युक्तेरन्वयव्यतिरेकाभ्यां कार्यमाह- प्राणा इत्यादि| प्राणहेतुत्वात् प्राणाः| अयुक्तियुक्तमिति अविधिप्रयुक्तम्| युक्तियुक्तं रसायनमिति यथा “विषस्य तु तिलं दद्यात्” (चि.अ.१) इत्यादिप्रयोगे तिलमानस्य रसायनत्वं, तथा ज्ञेयम्||५२-६०||
हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम् [११] |
युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम्||६१||
विधिपीतमद्यगुणानाह- हर्षमित्यादि| हर्षम् उत्साहं कायिकम्| मुदमिति मनःसन्तोषम्| पौरुषमिति शुक्रम्| आश्विति वचनेन शीघ्रं हर्षादीनि करोति न परिणामं यावदपेक्षते| सुखमदप्रदमिति सुखप्रदमदं, प्रथमं मदमिति यावत्| अन्ये तु ‘मदसुखप्रदम्’ इति पठन्ति; तत्रापि मदसुखं प्रथममदारम्भ एव||६१||
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्|
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम्||६२||
स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम्|
बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत्||६३||
वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्|
मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम्||६४||
रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम्|
अपि प्रवयसां मद्यमुत्सवामोदकारकम्||६५||
पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे|
यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि||६६||
बहुदुःखहतस्यास्य शोकेनोपहतस्य च|
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम्||६७||
रोचनमित्यादिना मद्यगुणानाह| स्वापनं नष्टनिद्राणां तथा बोधनं चातिनिद्राणामिति कार्यद्वयकरणमुचितनिद्राकरत्वप्रभावादेव; किंवा नष्टनिद्राणां निद्राभिघातहेत्वतिचिन्तनादिविस्मारकतया निद्राकरं भवति, अतिनिद्राणां निद्राहेतुमनोवहस्रोतोरोधादिहन्तृतया प्रबोधकं भवतीति ज्ञेयम्| मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकमिति हेतुविपरीतार्थकारिताप्रभावादित्यर्थः| रतिरिति रतिकारकमित्यर्थः| विषयसंयोगे प्रीतिसंयोगवर्धनमिति विषयाणां शब्दादीनां संयोगे प्रीतिं संयोगं च वर्धयति; पीतमद्यो यदा विषयैः शब्दादिभिः संयुज्यते तदा तेष्वपि प्रीतिमान् भवति, प्रीतश्च सुखाकाङ्क्षी सन् पुनस्तेषु संयुज्यते| प्रवयसामिति वृद्धानाम्| उत्सवः औत्सुक्यं विषयाभिलाष इति यावत्, आमोदो हर्षः| ननु विषये स्वभावादेव प्रीतिर्भवति, तत् किं मद्येन क्रियते? इत्याशङ्क्य प्रथममदस्य विशिष्टरतिकर्तृत्वमाह- पञ्चस्वित्यादि| रतिश्चेह
अत्यर्थसुखजनकत्वादेवोपादेयेति विज्ञेयम्| विश्राम इति दुःखार्तविश्रामहेतुः| जीवलोक इति जीवमानलोकः [१२] ||६२-६७||
अन्नपानवयोव्याधिबलकालत्रिकाणि षट्|
त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा||६८||
तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते|
यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते||६९||
मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते|
धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः||७०||
सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे|
द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः||७१||
सस्यसम्बोधकं वर्षं, हेमप्रकृतिदर्शकः|
हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम्||७२||
प्रधानावरमध्यानां रूपाणां [१३] व्यक्तिदर्शकः|
यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम्||७३||
युक्त्या निषेवितमित्यत्रोक्तां मद्यपानयुक्तिमाह- अन्नपानेत्यादि| तत्रान्नं त्रिविधं वातपित्तकफकरम्, एवं पानमपि त्रिविधं, बाल्यादिभेदाद्वयोऽपि त्रिविधं, व्याधिरपि मृदुमध्यतीव्रभेदेन त्रिविधः, किंवा सौम्याग्नेयवायव्यभेदेन त्रिविधः, बलं प्रवरावरमध्यभेदात्त्रिविधं, कालस्तु शीतोष्णवर्षालक्षणस्त्रिविधः, त्रिविधं सत्त्वं शुद्धं राजसं तामसं च| योजनेति सम्यग्योजनारूपा| युक्तिं फलेनावधारयति- यया युक्त्येत्यादिना| सत्त्वगुणोच्छ्रितो मद्यगुणान् समश्नुते इति योज्यम्| तत्रान्नापेक्षया युक्तिर्यथा- वातकरमन्नमुपयुज्य वातहरं मद्यं पेयम्, एवं पित्तकरकफकरत्वेऽपि पित्तकफहरान्नोपयोगः| एवं पानाद्यपेक्षयाऽपि योजना व्याख्याता भवति| वयस्त्रिकेऽपि बाल्ये स्थविरे च तीक्ष्णं मद्यं न पेयं, यौवने तु तीक्ष्णमपीति| व्याध्यपेक्षयाऽपि योजना यथा- मृदुव्याधौ तीक्ष्णोष्णं, उष्णे च शीतमधुरं, वर्षाकाले तु स्निग्धं दीपनं च मद्यम्| दोषभेदेन तु मद्यं वाते स्निग्धोष्णं गौडिकादि, पित्ते शीतमधुरं शार्करादि, कफे रूक्षतीक्ष्णं माधवादि| उक्तं हि- “वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम्| कफपित्ताधिकेभ्यस्तु फालमाधवशार्करम्” इति| दोषग्रहणेनैव वातलादिप्रकृतिरपि गृहीता| सत्त्वभेदेनापि सात्त्विकेन तु बह्वपि मद्यं पातव्यं, राजसतामसैस्तु स्वल्पमेव| सत्त्वानीति मनांसि| अव्यक्तताम् ईषद्व्यक्ततां, मध्ये चाव्यक्ततां यान्तीत्यर्थः, उत्तमे तु सर्वथाऽप्यव्यक्तं भवतीति भावः| केचित्तु ‘सस्यसम्बोधकं वर्षं’ इत्यादि श्लोकं पठन्ति| तत्र हेमप्रकृतिदर्शको हुताशो यथा सुवर्णस्य शुद्धाशुद्धतां दर्शयति, तथा मद्यं तूभयकारकमिति मनःप्रबोधकं मनोगुणदर्शकं च| रूपाणामिति हेमरूपाणां; किंवा ‘रुक्माणां’ इति पाठः| व्यक्तिदर्शक इति आकारदर्शकः||६८-७३||
सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम्|
मिष्टान्नपानविशदं सदा मधुरसङ्कथम्||७४||
सुखप्रपानं [१४] सुमदं हर्षप्रीतिविवर्धनम्|
स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम्||७५||
वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः|
मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु [१५] ||७६||
सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात्|
चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम्||७७||
हर्षप्रीतिकथापेतमतुष्टं पानभोजने|
सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम्||७८||
सात्त्विकादिभेदेन पानं त्रिविधमाह- सुगन्धीत्यादि| शोभनो गन्धो यस्य तत् सुगन्धि, गन्धर्वः गानम्| शोभनोऽन्तो यस्य तत् स्वन्तम्| सुमदमिति सममदम्| न चोत्तममदप्रदमिति नोत्तममदकरं, कदाचिदपि मद्यपानात्तृतीयमदाशङ्का न भवति; उत्तममदः सात्त्विके न भवतीत्यर्थः| उत्तममदाप्राप्तौ हेतुमाह- वैगुण्यमित्यादि| सत्त्वसंयोगादिति सत्त्वाख्यगुणयोगात्; सत्त्वाख्यो हि गुणः प्रकाशकतया न मदेन मोहकेनाभिभूयत इति भावः| एतदेवाह- सहसेत्यादि| राजसपानमाह- सौम्यासौम्येत्यादि| सौम्यकथा सौम्यसम्बन्धा, तद्विपरीता असौम्या| विशदाविशदमिति प्रसन्नाप्रसन्नम्| चित्रमिति सम्बद्धासम्बद्धवाक्यादियोगान्नानाप्रकारकम्| तथेत्यादिना तामसमाह| सम्मोहः क्रोधो निद्रा च अन्ते यस्य तत् सम्मोहक्रोधनिद्रान्तम्||७४-७८||
आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान्|
जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते||७९||
यैरित्यनेन राजसतामसाः प्रत्यवमृश्यन्ते, तैः समं पिबन् तत्प्रसक्त्या स्वयमप्यतिपिबन् मद्यदोषान् द्वितीयतृतीयमददोषान् प्राप्नोति||७९||
सुखशीलाः सुसम्भाषाः सुमुखाः सम्मताः सताम्|
कलास्वबाह्या विशदा विषयप्रवणाश्च ये||८०||
परस्परविधेया ये येषामैक्यं सुहृत्तया|
प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये||८१||
उत्सवादुत्सवतरं येषामन्योन्यदर्शनम्|
ते सहायाः सुखाः पाने तैः पिबन्सह मोदते||८२||
रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः|
पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः||८३||
पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः [१६] प्रियैः|
देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना||८४||
स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः|
बहुमद्योचिता ये च माद्यन्ति सहसा न ते||८५||
क्षुत्पिपासापरीताश्च [१७] दुर्बला वातपैत्तिकाः|
रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः||८६||
क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः|
स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः||८७||
उपादेयान् सात्त्विकानाह- सुखशीला इत्यादि| सुमुखा इति प्रियाकाराः| विशदा इति अवामाः| आपानं वर्धयन्तीति आपाने प्रसादं वर्धयन्ति न पानप्रसक्तिं वर्धयन्तीत्यर्थः, तस्या निन्दितत्वात्| मनोरमैरित्यत्र ‘साधीयांसैः’ इति शेषः| सुकृतिभिः समा इति एवम्भूतपानस्य सुकृतिलभ्यत्वात्| स्थिरसत्त्वेत्यादौ पूर्वान्ना इति मद्यपानात् पूर्वमुपयुक्तान्नाः| मद्यपान्वया इति मद्यपवंशजाः, तेषां मद्यपानं मद्यसात्म्यत्वादेव न विकारकरं भवति, विषकन्याया विषमिव||८०-८७||
ऊर्ध्वं मदात्ययस्यातः सम्भवं स्वस्वलक्षणम्|
अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम्||८८||
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः|
रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया||८९||
रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च|
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम्||९०||
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः|
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम्||९१||
तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते|
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः||९२||
तस्योपजायते पित्ताद्विशेषेण मदात्ययः|
स [१८] तु वातोल्बणस्याशु प्रशमं याति हन्ति वा||९३||
तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः|
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम्||९४||
तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा|
मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया||९५||
अव्यायामदिवास्वप्नशय्यासनसुखे रतः|
मदात्ययं कफप्रायं स शीघ्रमधिगच्छति||९६||
छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः|
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्||९७||
मद्यपानदोषगुणानभिधाय मदात्ययान् हेत्वादिभिराह- ऊर्ध्वमित्यादि| सम्भवमिति कारणम्| वातप्रायमित्यादौ प्रायःशब्देनाधिकवाचिना वक्ष्यमाणानां सर्वमदात्ययानां त्रिदोषजन्यत्वं दर्शयति| स तु वातेत्यादौ स त्विति पैत्तिकः; वातोल्बणस्य पैत्तो मदात्ययो वातपित्तसंयोगकृततया बाह्य इवाग्निर्वायुयुक्तः शीघ्रकारी भवति| तत्रेयं व्यवस्था- यत्र सद्यःफला क्रिया तत्र शीघ्रमेव शाम्यति, अक्रियायां च शीघ्रं हन्ति, शङ्खकरोहिण्यादिवत्||८८-९७||
विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः|
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः||९८||
हन्त्याशु हि विषं किञ्चित् किञ्चिद्रोगाय कल्पते|
यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः||९९||
तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये|
दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य [१९] लक्ष्यते||१००||
मद्यस्य त्रिदोषकरत्वे हेतुमाह- विषस्येत्यादि| यद्यपि मद्यमम्लं, विषं त्वव्यक्तमधुरं, तथाऽपि बहुगुणसामान्यात् त एव मद्ये दृश्यन्त इत्युक्तम्| तथैवान्त्यो मद इति प्राणहरो रोगकरश्चेत्यर्थः| पृथक्त्वमिति वातिकत्वादिना पार्थक्यम्||९८-१००||
शरीरदुःखं बलवत् सम्मोहो [२०] हृदयव्यथा|
अरुचिः प्रतता [२१] तृष्णा ज्वरः शीतोष्णलक्षणः||१०१||
शिरःपार्श्वास्थिसन्धीनां विद्युत्तुल्या [२२] च वेदना|
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः||१०२||
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः|
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः||१०३||
छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः|
भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम्||१०४||
तृणभस्मलतापर्णपांशुभिश्चावपूरणम्|
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते||१०५||
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च|
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत्||१०६||
शरीरदुःखमित्यादिना सर्वमदात्ययस्य सामान्यं लक्षणं ब्रूते, किंवा त्रिदोषमदात्ययस्यैव लक्षणं; यतो रोगसङ्ग्रहे वातपित्तकफसन्निपातैश्चत्वारो मदा उक्ताः| “यश्च मद्यमदः प्रोक्तो विषजो रौधिरश्च यः| सर्व एते मदा नर्ते वातपित्तकफत्रयात्” (सू.अ.२४) इत्यनेन मदस्य वातादिजत्वेन चातुर्विध्यमुक्तम्| तेन मदात्ययस्य चातुर्विध्यं मदचातुर्विध्यात्; यतो मद एव आत्ययिको मदात्यय इति निरुच्यते| विद्युत्तुल्येति विद्युद्वत्क्षणस्थायिनी| स्फुरणं किञ्चित्कम्पनं, वेपनमेकदेशे व्यक्तकम्पनम्||१०१-१०६||
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम्|
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत्||१०७||
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये|
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः||१०८||
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते|
समपीतेन तेनैव स मद्येनोपशाम्यति||१०९||
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत्|
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत्||११०||
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम्|
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् [२३] ||१११||
उत्क्लेशविशेषेण चिकित्सामाह- सर्वमित्यादि| समसर्वदोषे
चिकित्सामाह- कफस्थानेत्यादि| कफस्थानानुपूर्व्या चात्र चिकित्सा कफस्थानोद्भूततया प्रथमं कफसम्बन्धात् सन्निपातज्वर इव ज्ञेया| आदौ कफप्रबलतामेवाह- पित्तमारुतपर्यन्त इति; अनेन चार्थात् कफादित्वं लम्भयति| समपीतेन तेनैवेति यज्जातीयेन मद्येन मदात्ययो जनितः नितरां तज्जातीयेनैव शाम्यति| यथा विषं मौलं दंष्ट्रीयेण शाम्यति, तथा मद्यमपि विजातीयेन मद्येन शाम्यतीत्येके; किन्तु तेनैवेत्यनेन तामेव मद्यजातिं प्रत्यवमृशति, तेनावश्यं तज्जातीयमेव मद्यं ज्ञेयम्| यतोऽनन्तरं वक्ष्यति- ‘यच्च यस्मै हितं भवेत्’ इति| तथा ‘दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये’ इत्यनेन येन केनचिन्मद्येनोद्भूते वातमदात्यये पैष्टिकमुक्तं, तथा ‘सशर्करं शार्करं वा’ इत्यादि विशेषविधानं बहु करिष्यति; तेन तज्जातीयमन्यजातीयं च मद्यं मदात्यये देयम्||१०७-१११||
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना|
मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः||११२||
अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम्|
जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत्||११३||
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः|
श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु||११४||
मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः|
मधुरश्च कषायश्च तिक्तः कटुक एव च||११५||
गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः|
सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति||११६||
अन्नरसोत्क्लेद इत्यत्र ‘अम्लरसक्लेदः’ इति केचित् पठन्ति| क्षारमाधुर्याय यदाऽम्लमद्यदानं, तदा किमिति अन्यदम्लं न दीयते इत्याह- क्षारो हीत्यादि| उपर्युपरीति उपरिष्टादप्युपरि अत्यर्थं श्रेष्ठमित्यर्थः||११२-११६||
मद्योत्क्लिष्टेन दोषेण रुद्धः [२४] स्रोतःसु मारुतः|
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु||११७||
दोषविष्यन्दनार्थं हि तस्मै [२५] मद्यं विशेषतः|
व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि||११८||
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम्|
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च||११९||
रुजः [२६] स्रोतःस्वरुद्धेषु मारुते चानुलोमिते|
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः||१२०||
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्|
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम्||१२१||
सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् [२७] |
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये||१२२||
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत्|
लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि||१२३||
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः|
भूशयप्रसहानां च रसैः शाल्योदनेन च||१२४||
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः|
चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः [२८] ||१२५||
पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः|
माषपूपलिकाभिश्च वातिकं समुपाचरेत्||१२६||
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम्|
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा||१२७||
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम्|
रसप्रलेपि [२९] सम्पूपैः सुखोष्णैः सम्प्रदापयेत्||१२८||
भुक्ते [३०] तु वारुणीमण्डं दद्यात् पातुं पिपासवे|
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम्||१२९||
धान्यनागरतोयं च दधिमण्डमथापि वा|
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा||१३०||
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति|
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते||१३१||
रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः|
पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः||१३२||
अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः|
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः||१३३||
नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः|
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः||१३४||
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः|
मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः||१३५||
मदोदया इति मदनिमित्तास्तर्षादयः [३१] ; केचित्तु ‘ज्वरादयः’ इति पठन्ति, तत्र ज्वरप्रधानास्तर्षादय इत्यर्थ उन्नेयः| अवदंशो यमुपयुज्य मद्यं पीयते| दक्षः कुक्कुटः| वेशवारः खानिष्कः, स चोक्तलक्षणोऽसकृत्| पूपवर्तिः वर्त्याकारा पूपलिका| रसप्रलेपीति रसप्रलेपनरूपतया निर्वृत्तं ‘रसप्रलेह’ इति यावत्| अगुरुपङ्कैरिति अगुरुलेपैः| घनैरिति बहलैः| संरोधोष्णसुखावहैरिति संरोधजनितोष्मणा सुखकारकैः||११७-१३५||
भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम् [३२] |
सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम्||१३६||
सशर्करं शार्करं वा मार्द्वीकमथवाऽपरम्|
दद्याद्बहूदकं काले पातुं पित्तमदात्यये||१३७||
शशान् कपिञ्जलानेणाँल्लावानसितपुच्छकान्|
मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान्||१३८||
पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम्|
सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम्||१३९||
द्राक्षामलकखर्जूरपरूषकरसेन वा|
कल्पयेत्तर्पणान् यूषान् रसांश्च विविधात्मकान्||१४०||
आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये|
विज्ञाय बहुदोषस्य दह्यमानस्य [३३] तृष्यतः||१४१||
मद्यं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा|
निःशेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते||१४२||
काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते|
तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः||१४३||
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च|
तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि||१४४||
गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक्|
रसं सनागरं दद्यात् तित्तिरिप्रतिभोजनम् [३४] ||१४५||
तृष्यते चातिबलवद्वातपित्ते समुद्धते|
दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम्||१४६||
जीर्णे समधुराम्लेन छागमांसरसेन तम्|
भोजनं भोजयेन्मद्यमनुतर्षं च पाययेत्||१४७||
अनुतर्षस्य मात्रा सा यया नो दूष्यते [३५] मनः|
तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम्||१४८||
तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात्|
परूषकाणां पीलूनां रसं शीतमथापि [३६] वा||१४९||
पर्णिनीनां चतसॄणां पिबेद्वा शिशिरं जलम्|
मुस्तदाडिमलाजानां [३७] तृष्णाघ्नं वा पिबेद्रसम्||१५०||
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः|
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति||१५१||
शीतलान्यन्नपानानि शीतशय्यासनानि [३८] च|
शीतवातजलस्पर्शाः शीतान्युपवनानि च||१५२||
क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च|
चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः||१५३||
हेमराजतकांस्यानां पात्राणां शीतवारिभिः|
पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः||१५४||
संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः|
चन्दनानां च मुख्यानां शस्ताः पित्तमदात्यये [३९] ||१५५||
शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत्|
कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना||१५६||
हिताः स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते|
कथाश्च विविधाः शस्ताः [४०] शब्दाश्च शिखिनां शिवाः||१५७||
तोयदानां च शब्दा हि शमयन्ति मदात्ययम्|
जलयन्त्राभिवर्षीणि वातयन्त्रवहानि च||१५८||
कल्पनीयानि भिषजा दाहे धारागृहाणि च|
फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम्||१५९||
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्|
बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भवः||१६०||
फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम्|
सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु||१६१||
सेके प्रदेहे शस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः|
परिषेकावगाहेषु व्यञ्जनानां च सेवने||१६२||
शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये|
मात्राकालप्रयुक्तेन कर्मणाऽनेन शाम्यति [४१] ||१६३||
धीमतो वैद्यवश्यस्य शीघ्रं पित्तमदात्ययः|१६४|
भव्येत्यादिना पैत्तिके विधिमाह| भव्यम् औत्तरापथिकम्, अन्ये कर्मरङ्गमाहुः| मार्द्वीकमिति मृद्वीकारसकृतम्| सतीनः वर्तुलकलायः| रोगाद्विमुच्यत इति प्रकृतपित्तमदात्ययाद्विमुच्यत इत्यर्थः| क्रममिति वमनानन्तरोक्तमन्नसंसर्जनक्रमम्| दोषशेषः कोष्ठोपलपकोऽत्र ज्ञेयः| गुडूचीत्यादौ रसमिति क्वाथम्| तित्तिरिः प्रतिभोजनं पश्चाज्जीर्णे भोजनं यस्मिन् रसे तं तित्तिरिप्रतिभोजनम्| अनुतर्षं च पाययेदिति भोजनसमये तृषां लक्षीकृत्य पाययेत्; अनुपानं दापयेदिति यावत्| एतदनुपानस्य मात्रामाह- अनुतर्षस्येत्यादि| अनुतर्षस्येति मुहुर्मुहुर्दीयमानानुपानस्य| ययाऽस्य मनो न दूष्यत इति न विकृतिं याति; एतेन तृषायां मनोदैन्यमात्रहन्तृ यन्मद्यं भवति तदनुतर्षसञ्ज्ञं भवति, नतु मदपर्यन्तं मद्यं देयमित्यर्थः| तृष्णाघ्नमिति शीतकषायरूपं रसम्| चुक्रीका चाङ्गेरी| बदरीत्यादौ बदर्यादिपत्राणि मथित्वा तज्जः फेनो ग्राह्यः| अरिष्टकः निम्बः||१३६-१६३||-
उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम्||१६४||
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम्|
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम्||१६५||
सनागराभिः सर्वाभिर्जलं वा शृतशीतलम्|
दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा||१६६||
जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम्|
एतदेव च पानीयं सर्वत्रापि मदात्यये||१६७||
निरत्ययं पीयमानं पिपासाज्वरनाशनम्|
निरामं काङ्क्षितं काले सक्षौद्रं [४२] पाययेत्तु तम्||१६८||
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा|
रूक्षतर्पणसंयुक्तं [४३] यवानीनागरान्वितम्||१६९||
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत्|
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा||१७०||
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा|
पटोलयूषमम्लं वा यूषमामलकस्य वा||१७१||
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत्|
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम्||१७२||
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम्|
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् [४४] ||१७३||
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु|
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम्||१७४||
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम्|
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम्||१७५||
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम्|
पिबेच्च निगदं मद्यं कफप्राये मदात्यये||१७६||
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम्|
त्वगेलामरिचार्धांशं शर्कराभागयोजितम्||१७७||
एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम्|
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम्||१७८||
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम्|
गोधूमान्नयवान्नानां मांसानां चातिरोचनम्||१७९||
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम्|
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा||१८०||
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः|
स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः [४५] ||१८१||
मृद्वीकाया विधानेन कारयेत् कारवीमपि|
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम्||१८२||
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक्|
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्||१८३||
गुडेन [४६] मधुयुक्तेन व्यक्ताम्ललवणीकृतान्|
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति||१८४||
रूक्षोष्णेनान्नपानेन [४७] स्नानेनाशिशिरेण च|
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च||१८५||
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च|
प्राणवर्णकराणां च [४८] प्रघर्षाणां च सेवया||१८६||
सेवया वसनानां च गुरूणामगुरोरपि|
सङ्कोचोष्णसुखाङ्गीनामङ्गनानां च सेवया||१८७||
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च|
मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति||१८८||
उल्लेखनेत्यादिना कफमदात्ययचिकित्सितम्| तृष्यते सलिलमित्यादौ षडङ्गविधिना जलसाधनं साध्विति| मधुप्रकृतिकं माधवम्| व्योषप्रधानो यूषो व्योषयूषः| नीरसवर्तितमिति अनतिद्रववर्तितं शुष्काख्यं व्यञ्जनमित्यर्थः| वृणुयादिति व्याप्नुयात्| आर्द्रकपेशिका आर्द्रकदीर्घखण्डानि; ‘प्रभूतार्द्रकपेषितम्’ इति वा पाठः| सौवर्चलमित्यादौ त्वगेलामरिचादीनां प्रत्येकमेव भागार्धत्वम्| शर्कराभागः पूर्वैकद्रव्यभागः| कटुकैर्युक्तामिति किञ्चिदूषणाम्| श्वेतामिति मृद्वीकां, श्वेता च द्राक्षा काश्मीरभवा ज्ञेया| कारवीमिति स्वल्पद्राक्षाम्| आम्रामलकयोः पेशीत्यनेन फलगतं सस्यं गृह्यते| सङ्कोचोष्णसुखाङ्गीनां सङ्कोचेन संश्लेषेण उष्णसुखमङ्गं यासां तासां; केचित्तु सङ्कोचं कुङ्कुममाहुः||१६४-१८८||
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति|
सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा||१८९||
यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित्|
स साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित्||१९०||
यदिदमित्यादिना सान्निपातिकमदात्ययचिकित्सामाह| यद्यपि त्रयोदशविधः सन्निपातो वृद्धदोषाणामुक्तस्तथाऽपि सर्वमदात्ययानां त्रिदोषजत्वाद् यदेतद्वातादिमदात्ययचिकित्सितमुक्तं तदेकदोषोल्बणसन्निपातजमदात्ययचिकित्सितं भवति, तेन द्व्युल्बणहीनमध्याधिकभेदसमसन्निपातैर्ये दशावशिष्टाः सन्निपातास्तानभिप्रेत्येदमुक्तं- सन्निपाते दशविधे तद्विकल्प्यमिति; हीनमध्याधिकदोषत्रयोद्भूतमदात्ययेषु हीनमध्याधिकदोषभेदेन विकल्प्य चिकित्सा कर्तव्या; समसन्निपाते तु त्रयाणामपि मिलित्वा चिकित्सा कर्तव्या||१८९-१९०||
वनानि रमणीयानि सपद्माः सलिलाशयाः|
विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः||१९१||
माल्यानि गन्धयोगाश्च वासांसि विमलानि च|
गान्धर्वशब्दाः कान्ताश्च गोष्ठ्यश्च हृदयप्रियाः||१९२||
सङ्कथाहास्यगीतानां विशदाश्चैव योजनाः|
प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम्||१९३||
नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च|
कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया||१९४||
आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः|
न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत्||१९५||
लङ्घनैः पाचनैर्दोषशोधनैः शमनैरपि|
विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे||१९६||
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च|
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः||१९७||
पयसाऽभिहृते रोगे बले जाते निवर्तयेत्|
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्||१९८||
मदात्ययस्य प्रहर्षजनिका क्रिया कर्तव्येत्याह- वनानीत्यादि| कस्मात् पुनर्मदात्यये प्रहर्षिणी चिकित्सा कार्येत्याह- नाक्षोभ्येत्यादि| मनःप्रीत्या शरीरप्रशमार्थं प्रहर्षणी क्रिया कर्तव्येति भावः| उक्तक्षीरप्रयोगस्य विषयं गुणं चाह- लङ्घनैरित्यादि| तत्र कार्यक्षीरवृत्तिक्रमं पुनर्मद्याभ्यासक्रमं चाह- पयसाऽभिहृते इत्यादि| क्रमेणेति कालक्रमेण| अल्पाल्पमिति स्तोकं स्तोकम्||१९१-१९८||
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते|
ध्वंसको [४९] विक्षयश्चैव रोगस्तस्योपजायते||१९९||
व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ|
तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते||२००||
श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता|
तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम्||२०१||
हृत्कण्ठरोगः सम्मोहश्छर्दिरङ्गरुजा ज्वरः|
तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम्||२०२||
तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये|
तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै||२०३||
बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः|
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत्||२०४||
ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति|
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते||२०५||
एतद्विपर्ययेण मद्यसेवायां दोषमाह- विच्छिन्नेत्यादि| ध्वंसकविक्षयौ वक्ष्यमाणलक्षणौ| ध्वंसकविक्षयौ चेमौ सुश्रुतेनाप्युक्तौ| केचित्तु “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते| तस्य पानात्ययोद्दिष्टा विकाराः सम्भवन्ति हि” इति ग्रन्थेन ध्वंसकविक्षयावरोधं वर्णयन्ति| एतयोश्चिकित्सामाह- तयोरित्यादि| कर्मेति चिकित्सा| तौ हीत्यादिना प्रक्षीणदुर्बलतया ध्वंसकविक्षययोर्वातप्रधानतां दर्शयति| युक्तमद्यस्येति यथोक्तविधिना मद्यमाचरतः||१९९-२०५||
निवृत्तः सर्वमद्येभ्यो नरो यश्च जितेन्द्रियः|
शारीरमानसैर्धीमान् विकारैर्न स युज्यते||२०६||
सर्वथा मद्यपरित्यागफलमाह- निवृत्त इत्यादि| जितेन्द्रिय इति विशेषणं मद्यनिवृत्तावेव प्रयोजकम्| शारीरमानसैर्विकारैरिति योग्यतया मद्यव्यापत्तिजन्यैरेव शारीरमानसैर्विकारैः; अन्यहेतुजाञ् शारीरमानसविकारान् प्रति मद्यनिवृत्तिरकिञ्चित्करीति भावः| न युज्यत इति शारीरमानसविकारैर्मद्यनिवृत्त्या न युक्तो भवति||२०६||
तत्र श्लोकाः-
यत्प्रभावा भगवती सुरा पेया यथा च सा|
यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा||२०७||
यथा मदयते यैश्च गुणैर्युक्ता महागुणा|
यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः||२०८||
ये च मद्यकृता दोषा गुणा ये च मदात्मकाः|
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम्||२०९||
ये सहायाः सुखाः पाने [५०] चिरक्षिप्रमदा नराः|
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत्||२१०||
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः|
सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते||२११||
यत्प्रभावेत्यादिरध्यायसङ्ग्रहः| सङ्ग्रहार्थो व्यक्त एव||२०७-२११||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने
मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः||२४||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः||२४||
१. ‘सुरा’ इति पा.|
२. ‘अतियोगेन परितोऽतिपरितः’ इति पा.|
३. ‘संवाससम्मते’ इति पा.|
४. ‘सञ्चार्यमाणमिष्टाभिः’ इति पा.|
५. ‘पिबेत् सम्पूज्य विबुधानाशिषः सम्प्रयुज्य च| प्रदाय यजनं चाग्रे त्वर्थिभ्यः पृथिवीतले’ इति पा.|
६. ‘रसधात्वादिमार्गाणां’ इति पा.|
७. ‘ओजः प्रत्याहन्ति’ इति पा.|
८. ‘व्यक्ताऽव्यक्ता च’ इति पा.|
९. ‘मदमप्राप्य’ इति पा.|
१०. ‘तेनेहापि’ इति पा.|
११. ‘बलम्’ इति पा.|
१२. ‘जीववान् लोकः’ इति पा.|
१३. ‘रुक्माणां’ इति पा.|
१४. ‘सुखप्रमाणं’ इति पा.|
१५. ‘सहसा नावगृह्णाति मद्यं सत्त्वबलाधिकम्’ इति पा.|
१६. ‘…रिष्टैरुपेतो मनसः’ इति पा.|
१७. ‘प्राङ्मद्याः क्षुत्पिपासार्ता’ इति पा.|
१८. ‘लक्षणानि भवन्त्यस्य यानि तानि निबोध मे’ इति पा.|
१९. ‘चापि’ इति पा.|
२०. ‘सन्ततं’ इति पा.|
२१. ‘प्रमोहः’ इति पा.|
२२. ‘वेदना विक्षते यथा’ इति पा.|
२३. ‘प्रमाणवत्’ इति पा.|
२४. ‘क्रुद्धः’ इति पा.|
२५. ‘विष्यन्दनार्थं दोषस्य तस्य’ इति पा.|
२६. ‘उरःस्रोतःसु शुद्धेषु’ इति पा.|
२७. ‘…श्चिरोत्थितम्’ इति पा.|
२८. ‘स्निग्धै…’ इति पा.|
२९. ‘रसप्रलेहयूषैश्च’ इति पा.|
३०. ‘भुक्ते न’ इति पा.|
३१. ‘मदनिमित्ता अन्तर्दाहादयः’ इति पा.|
३२. ‘मद्यं’ इति पा.|
३३. ‘तृड्विदाहान्वितस्य च’ इति पा.|
३४. ‘तैत्तिरैः प्रतिभोजनम्’ इति पा.|
३५. ‘नो हन्यते’ इति, ‘नोद्वस्यते’ इति च पा.|
३६. ‘शीतमथाम्बु वा’ इति पा.|
३७. ‘मुद्गदाडिमलाजानां’ इति पा.|
३८. ‘शीतानि सदनानि च’ इति पा.|
३९. ‘संस्पर्शाश्चन्दनार्द्राणां स्त्रीणां पित्तमदात्यये’ इति पा.|
४०. ‘चित्राः’ इति पा.|
४१. ‘कर्मणाऽनेन सिद्धेन विकार उपशाम्यति’ इति पा.|
४२. ‘पाययेद्बहुमाक्षिकम्’ इति पा.|
४३. ‘रूक्षं तर्पणसंयुक्तं यवान्नं वा प्रदापयेत्’ इति पा.|
४४. ‘नीरसवर्तितम्’ इति पा.|
४५. ‘रोचनदीपनम्’ इति पा.|
४६. ‘गुडेन मधुशुक्तेन व्यक्ताम्लमधुरीकृतान्’ इति पा.|
४७. ‘रूक्षाम्लेनान्नपानेन’ इति पा.|
४८. ‘स्नानवर्णकवासानां’ इति पा.|
४९. ‘ध्वंसो विक्षेपकश्चैव’ इति पा.|
५०. ‘ये च’ इति पा.|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
cikitsāsthānam - 24. madātyayacikitsitam
athātō madātyayacikitsitaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
mōhajanakatvasāmānyāt tathā viṣasamānaguṇajanyatvācca viṣacikitsitamanu madātyayasya cikitsitamucyatē||1-2||
suraiḥ surēśasahitairyā purā [1] paripūjitā|
sautrāmaṇyāṁ hūyatē yā karmibhiryā pratiṣṭhitā||3||
yajñauhī yā yayā śakraḥ sōmātipatitō bhr̥śam|
nirōjastamasā”viṣṭastasmāddurgāt samuddhr̥taḥ||4||
vidhibhirvēdavihitairvā yajadbhirmahātmabhiḥ|
dr̥śyā spr̥śyā prakalpyā ca yajñīyā yajñasiddhayē||5||
surairityādinā madirāstutyā tathā vakṣyamāṇanindayā vidhinā pīyamānasurāyāḥ śubhaphalamavidhipānāccātyarthaninditaphalavattvaṁ darśayati| yā purā paripūjitētyanēna prathamaṁ dēvairēvēyaṁ paripūjitā, tataḥ surayōgāt surēti cōpadiṣṭēti darśayati| sautrāmaṇiḥ surāhaviryajñāntarniviṣṭō yajñaviśēṣaḥ; tasyāṁ hūyatē surā| karmibhiryā pratiṣṭhitēti yājñikairabhiṣavaṇādibhiḥ pratiṣṭhitā pratiṣṭhāṁ prāpitā| yajñaṁ vahatīti yajñauhī; anēna ca laukikayajñāntarāṇyapi surayā kriyanta ityucyatē; sautrāmaṇihōmē tu tasyā ēva pradhānāṅgatōcyatē| śakraśca sōmātipatita iti ‘śakrō’tipītēna sōmēna kṣapitabalō nirōjaskō nirvīryībhūtaḥ sa kila punarāpyāyya nijaṁ vīryamāpāditaḥ’ ityēṣā śrutiḥ; atipānēna patitaḥ atipatitaḥ [2] | prakalpyā iti abhiṣōtavyā sandhānāyēti yāvat| yajñīyā yajñasiddhaya iti yajñavidhau kānicit kratvarthāni yūpabarhyādīni, kānicittu puruṣārthāni vāsagarbhādīni, kānicid yajñārthāni puruṣārthāni ca yathā sarpiriṣṭakādīni, tadiha surā ‘yajñīyā’ ityanēna vāsanādivat ‘puruṣārthā’ ityucyatē, yajñasiddhayē bhavatītyanēna yūpādivad yajñārthatvaṁ surāyā ucyatē||3-5||
yōnisaṁskāranāmādyairviśēṣairbahudhā ca yā|
bhūtvā bhavatyēkavidhā sāmānyānmadalakṣaṇāt||6||
yōnītyādau viśēṣaśabdaḥ pratyēkamabhisambadhyatē| yōniḥ kāraṇaṁ, tadviśēṣāḥ- dhānyaphalamūlasārapuṣpapatrakāṇḍatvacaḥ śarkarānavamāḥ sūtrasthānōktāḥ| saṁskārō’pi bahuprakārasaṁskārayōgaḥ| nāmaviśēṣāḥ surāmadhumairēyādayaḥ| ādigrahaṇāt prabhāvaguṇādīnāṁ grahaṇam| madō lakṣaṇaṁ yasya tasmānmadalakṣaṇāt sāmānyāt madyasvarūpāt||6||
yā dēvānamr̥taṁ bhūtvā svadhā bhūtvā pittr̥̄ṁśca yā|
sōmō bhūtvā dvijātīn yā yuṅktē śrēyōbhiruttamaiḥ||7||
amr̥taṁ bhūtvētyādau surādhiṣṭhātrī dēvatā amr̥tādirūpēṇa dēvādīn tarpayatīti darśayati| śrēyōbhiriti mahatkalyāṇaiḥ||7||
āśvinaṁ yā mahattējō balaṁ sārasvataṁ ca yā|
vīryamaindraṁ ca yā siddhā sōmaḥ sautrāmaṇau ca yā||8||
śōkāratibhayōdvēganāśinī yā mahābalā|
yā prītiryā ratiryā vāgyā puṣṭiryā ca nirvr̥tiḥ||9||
yā surā suragandharvayakṣarākṣasamānuṣaiḥ|
ratiḥ surētyabhihitā tāṁ surāṁ vidhinā pibēt||10||
āśvinaṁ yā mahattēja ityādāvapi surādhiṣṭhātr̥dēvatāyā ēva tējōvīryādikāraṇatvāttādrūpyaṁ jñēyam| tējaḥ sarvadēvatādigaṁ, tathā sārasvataṁ balaṁ mantrabalam| sōmaḥ sautrāmaṇau ca yētyanēna sōmarūpatōcyatē, pūrvaṁ sautrāmaṇyāṁ hūyata ityuktamiti na paunaruktyam| yā prītirityādau prītyādikāraṇatvēna prītyādirūpatayā nirdēśō jñēyaḥ||8-10||
śarīrakr̥tasaṁskāraḥ śuciruttamagandhavān|
prāvr̥tō nirmalairvastrairyathartūddāmagandhibhiḥ||11||
vicitravividhasragvī ratnābharaṇabhūṣitaḥ|
dēvadvijātīn sampūjya spr̥ṣṭvā maṅgalamuttamam||12||
dēśē yathartukē śastē kusumaprakarīkr̥tē|
sarasāsammatē [3] mukhyē dhūpasammōdabōdhitē||13||
sōpadhānē susaṁstīrṇē vihitē śayanāsanē|
upaviṣṭō’thavā tiryak svaśarīrasukhē sthitaḥ||14||
sauvarṇai rājataiścāpi tathā maṇimayairapi|
bhājanairvimalaiścānyaiḥ sukr̥taiśca pibēt sadā||15||
rūpayauvanamattābhiḥ śikṣitābhirviśēṣataḥ|
vastrābharaṇamālyaiśca bhūṣitābhiryathartukaiḥ||16||
śaucānurāgayuktābhiḥ pramadābhiritastataḥ|
saṁvāhyamāna iṣṭābhiḥ [4] pibēnmadyamanuttamam||17||
madyānukūlairvividhaiḥ phalairharitakaiḥ śubhaiḥ|
lavaṇairgandhapiśunairavadaṁśairyathartukaiḥ||18||
bhr̥ṣṭairmāṁsairbahuvidhairbhūjalāmbaracāriṇām|
paurōgavargavihitairbhakṣyaiśca vividhātmakaiḥ||19||
pūjayitvā [5] surān pūrvamāśiṣaḥ prāk prayujya ca|
pradāya sajalaṁ madyamarthibhyō vasudhātalē||20||
vidhinā pibēdityatrōktavidhimāha- śarīrētyādi| śarīrē snānavasrādibhirbāhya ābhyantaraśca prakr̥tyādyapēkṣayā snigdhōṣṇānnādibhiḥ kr̥taḥ saṁskārō yēna sa śarīrakr̥tasaṁskāraḥ| śuciriti manaḥśuciḥ| yathartūddāmagandhibhiriti r̥tvavasthānuguṇatayā vihitaiḥ| yathartukē sarvartusukhē| kusumaprakarīkr̥tē visr̥jatkusumē| sarasāḥ priyāḥ, tāsāṁ sammatē| svaśarīrasukhē sthita iti yathāśarīrasukhaṁ sthitaḥ| sukr̥tairiti saṁskr̥taiḥ| śikṣitābhiriti abhyastōpacārābhiḥ| gandhapiśunairiti gandhāḍhyaiḥ| ambaracāriṇaḥ śyēnādayaḥ| paurōgavargā iti sūdaśāstrābhijñāḥ| arthibhya iti arthinō baladēva-caṇḍī-yakṣādayaḥ, tēbhyaḥ||11-20||
abhyaṅgōtsādanasnānavāsōdhūpānulēpanaiḥ|
snigdhōṣṇairbhāvitaścānnairvātikō madyamācarēt||21||
śītōpacārairvividhairmadhurasnigdhaśītalaiḥ|
paittikō bhāvitaścānnaiḥ pibanmadyaṁ na sīdati||22||
upacārairaśiśirairyavagōdhūmabhuk pibēt|
ślaiṣmikō dhanvajairmāṁsairmadyaṁ māricakaiḥ saha||23||
vidhirvasumatāmēṣa bhaviṣyadvibhavāśca yē|
yathōpapatti tairmadyaṁ pātavyaṁ mātrayā hitam||24||
vātikēbhyō hitaṁ madyaṁ prāyō gauḍikapaiṣṭikam|
kaphapittādhikēbhyastu mārdvīkaṁ mādhavaṁ ca yat||25||
sāmānyaṁ vidhimuktvā vātikādīnāṁ pānavidhimāha- abhyaṅgētyādi| māricakairiti maricasaṁskr̥taiḥ| vasumatāmiti dhanavatām| bhaviṣyadvibhavā utpadyamānadhanāḥ| yathōpapatti yathāparicchadōpapatti| kaphapittādhikēbhya ityādau viparyayatantrayuktyā kaphādhikēbhyō mādhavaṁ, pittādhikēbhyastu mārdvīkaṁ; mārdvīkaṁ mr̥dvīkākr̥taṁ, madhukr̥taṁ tu mādhavam||21-25||
bahudravyaṁ bahuguṇaṁ bahukarma madātmakam|
guṇairdōṣaiśca tanmadyamubhayaṁ cōpalakṣyatē||26||
vidhinā mātrayā kālē hitairannairyathābalam|
prahr̥ṣṭō yaḥ pibēnmadyaṁ tasya syādamr̥taṁ yathā||27||
yathōpētaṁ punarmadyaṁ prasaṅgādyēna pīyatē|
rūkṣavyāyāmanityēna viṣavadyāti tasya tat||28||
bahudravyamiti nānāvidhadravyasampāditam| bahuguṇamiti bhūrivakṣyamāṇalaghvādiguṇam| bahukarmēti lēkhanadīpanādibahukarmakaram| madātmakamiti madasvabhāvam| yasmādēvaṁ svabhāvaṁ tasmādguṇadōṣē ca taṁ madyamapēkṣētē; kiñcit puruṣamapēkṣya yaugikatvādguṇakaraṁ, kiñcittvayaugikatvāddōṣakaraṁ; yathā- prathamē madē guṇakaraṁ, dōṣakaraṁ ca dvitīyamadē iti bhāvaḥ| vidhinēti yathōktavidhinā| kālē iti yasya madyasya ya ucitō viparītaguṇaḥ kālastasmin| hitairannairiti madyahitairannaiḥ| yathōpētamiti yadēva madyamahitamapyupagatam| prasaṅgāditi atiyōgēna| viṣavaditi mōhādikartr̥tvāt||26-28||
madyaṁ hr̥dayamāviśya svaguṇairōjasō guṇān|
daśabhirdaśa saṅkṣōbhya cētō nayati vikriyām||29||
laghūṣṇatīkṣṇasūkṣmāmlavyavāyyāśugamēva ca|
rūkṣaṁ vikāśi viśadaṁ madyaṁ daśaguṇaṁ smr̥tam||30||
guru śītaṁ mr̥du ślakṣṇaṁ bahalaṁ madhuraṁ sthiram|
prasannaṁ picchilaṁ snigdhamōjō daśaguṇaṁ smr̥tam||31||
gurutvaṁ lāghavācchaityamauṣṇādamlasvabhāvataḥ|
mādhuryaṁ mārdavaṁ taikṣṇyātprasādaṁ cāśubhāvanāt||32||
raukṣyāt snēhaṁ vyavāyitvāt sthiratvaṁ ślakṣṇatāmapi|
vikāsibhāvātpaicchilyaṁ vaiśadyātsāndratāṁ tathā||33||
saukṣmyānmadyaṁ nihantyēvamōjasaḥ svaguṇairguṇān|
sattvaṁ tadāśrayaṁ cāśu saṅkṣōbhya janayēnmadam||34||
rasavātādimārgāṇāṁ [6] sattvabuddhīndriyātmanām|
pradhānasyaujasaścaiva hr̥dayaṁ sthānamucyatē||35||
atipītēna madyēna vihatēnaujasā ca tat|
hr̥dayaṁ yāti vikr̥tiṁ tatrasthā yē ca dhātavaḥ||36||
madyaṁ yathā madayati tathā prāha- madyamityādi| daśabhiriti laghvādibhirguṇaiḥ, daśāpi gurvādīnōjōguṇān saṅkṣōbhya, na dvitrādikaiḥ, cētō vikriyāṁ nayati vikr̥taṁ karōti| yēna guṇēna madyasya ōjōguṇakṣōbhō bhavati tadāha- gurutvaṁ lāghavādityādi| prasādaṁ cāśubhāvanāditi prasādākhyaguṇamāśugatvāddhanti; āśugatvaṁ ca yadyapi prasādaviruddhaṁ na bhavati, tathā’pi madyamēva pratikūlatayā ōjaḥprasādaṁ [7] hanti, tatrāśuguṇa āhananē vyāpriyata iti jñēyam| vyavāyitvāt sthiratvamiti vyavāyitvaṁ vyāpakatvaṁ, tacca sthiratvaṁ tadviparītatvādēva hanti; āśugatvavyavāyitvayōścāyaṁ viśēṣaḥ- yadāśugaṁ śīghraṁ gacchati, vyavāyi tu sarvavyāpakam| vikāsitvaṁ vikasanaśīlatvaṁ saratvamiti yāvat; tacca ślakṣṇaviparītatvādēva ślakṣṇatāṁ hanti| sāndratā ghanatā| ētē vikāsitvāśugatvādayō guṇā yadyapi viṁśatiguṇagaṇanāyāṁ na paṭhitāstathā’pyasaṅkhyēyatvādguṇānāmēṣāmapi guṇatvaṁ siddhaṁ; yē tu tatra paṭhitāstē tāvadāviṣkr̥tatamā jñēyāḥ| āśrayōpaghātādāśritōpaghātō bhavatīti darśayannāha- sattvamityādi| sattvasya ca ōja āśrayaḥ, ōja upakāryam; yathā- rājāśritaḥ puruṣaḥ| rasavātētyādi| rasavātādivahānāṁ daśadhamanīnāṁ hr̥dayaṁ sthānaṁ, rasavahā ēva yā daśa dhamanyō hr̥dayāśrayā uktāstā ēva vātādivahāḥ| yaduktaṁ “vātapittaślēṣmaṇāṁ sarvaśarīracarāṇāṁ sarvāṇi srōtāṁsyayanabhūtāni” (vi.a.5) iti; raktādīnāṁ tu sarvaśarīracarāṇāmapi viśēṣēṇa hr̥dayaṁ sthānamuktaṁ- “ṣaḍaṅgamaṅgaṁ vijñānamindriyāṇyarthapañcakam| ātmā ca saguṇaścētaścintyaṁ ca hr̥di saṁśritam” (sū.a.30) iti| dhātava iti sattvabuddhīndriyādayaḥ||29-36||
ōjasyavihatē pūrvō hr̥di ca pratibōdhitē|
madhyamō vihatē’lpē ca vihatē tūttamō madaḥ||37||
naivaṁ vighātaṁ janayēnmadyaṁ paiṣṭikamōjasaḥ|
vikāśirūkṣaviśadā guṇāstatra hi nōlbaṇāḥ||38||
madyaṁ cētō vikriyāṁ nayatītyutsargavidhēḥ prathamamadē’pavādamāha- ōjasyavihatē ityādi| hr̥dayāśritabuddhyādau pratibōdhitē, hr̥dayaśabdēnēha tatsthōpacārāddhr̥dayāśritā buddhyādayō’bhidhīyantē, yathā- mañcāḥ krōśantīti; buddhyādibōdhanaṁ prathamamadakāryaṁ madyasya prabhāvāt| madhyamōttamamadōpapattisāmagrīmāha- madhyama ityādi| vihatē iti vighātē; ōjasaḥ alpē vighātē madhyamō madō bhavati| vihatē iti viśēṣēṇa atyarthaṁ hatē, uttama iti tr̥tīyaḥ||37-38||
hr̥di madyaguṇāviṣṭē harṣastarṣō ratiḥ sukham|
vikārāśca yathāsattvaṁ citrā rājasatāmasāḥ||39||
jāyantē mōhanidrāntā madyasyātiniṣēvaṇāt|
sa madyavibhramō nāmnā ‘mada’ ityabhidhīyatē||40||
hr̥dītyādinā sāmānyēna madalakṣaṇamāha| tarṣaḥ abhilāṣaḥ| yathāsattvamiti prakr̥tyā rājasē sattvē rājasāḥ, tāmasē ca tāmasāḥ| citrā iti nānāprakārāḥ| mōhanidrāntā iti mōhanidrāvasānāḥ||39-40||
pīyamānasya madyasya vijñātavyāstrayō madāḥ|
prathamō madhyamō’ntyaśca lakṣaṇaistān pracakṣmahē||41||
praharṣaṇaḥ prītikaraḥ pānānnaguṇadarśakaḥ|
vādyagītaprahāsānāṁ kathānāṁ ca pravartakaḥ||42||
na ca buddhismr̥tiharō viṣayēṣu na cākṣamaḥ|
sukhanidrāprabōdhaśca prathamaḥ sukhadō madaḥ||43||
muhuḥ smr̥tirmuhurmōhō(‘)vyaktā [8] sajjati vāṅmuhuḥ|
yuktāyuktapralāpaśca pracalāyanamēva ca||44||
sthānapānānnasāṅkathyayōjanā saviparyayā|
liṅgānyētāni jānīyādāviṣṭē madhyamē madē||45||
madhyamaṁ madamutkramya madamāprāpya [9] cōttamam|
na kiñcinnāśubhaṁ kuryurnarā rājasatāmasāḥ||46||
kō madaṁ tādr̥śaṁ vidvānunmādamiva dāruṇam|
gacchēdadhvānamasvantaṁ bahudōṣamivādhvagaḥ||47||
tr̥tīyaṁ tu madaṁ prāpya bhagnadārviva niṣkriyaḥ|
madamōhāvr̥tamanā jīvannapi mr̥taiḥ samaḥ||48||
ramaṇīyān sa viṣayānna vētti na suhr̥jjanam|
yadarthaṁ pīyatē madyaṁ ratiṁ tāṁ ca na vindati||49||
kāryākāryaṁ sukhaṁ duḥkhaṁ lōkē yacca hitāhitam|
yadavasthō na jānāti kō’vasthāṁ tāṁ vrajēdbudhaḥ||50||
sa dūṣyaḥ sarvabhūtānāṁ nindyaścāgrāhya ēva ca|
vyasanitvādudarkē ca sa duḥkhaṁ vyādhimaśnutē||51||
prathamādimadānāṁ lakṣaṇamāha- praharṣaṇa ityādi| pānānnaguṇadarśaka iti pānānnaguṇān samyagbōdhayatītyarthaḥ| viṣayēṣviti viṣayasēvāsu, na cākṣama iti nākṣamatākara ityarthaḥ| yuktāyuktapralāpa iti sambaddhāsambaddhavacanaḥ| pracalāyanaṁ ghūrṇanam| yōjanā saviparyayēti sthānādīnāṁ samyagyōjanā kadācidbhavati, kadācicca sthānādiyōjanāviparyayō’samyagyōjanārūpō bhavatītyarthaḥ| madhyamaṁ madamutkramyētyādi| yadyapi trividhō mada uktaḥ, tathā’pi dvitīyamadāvasānē tr̥tīyamadāprāptyavasthāyā ēva atyarthanindyatāṁ darśayan tr̥tīyamadasyātyantanindyatāṁ darśayati; yēna tasya tr̥tīyamadasya pūrvarūpāvasthaiva sarvāśubhakaraṇādihētutayā nitāntaṁ nindyēti bhāvaḥ| iyaṁ ca madhyamadātikramatr̥tīyamadāprāptiśabdābhidhēyā’pyavasthā madhyamamadāntatr̥tīyamadādyarūpāvasthābhidhāyikaiva; yathā- “kumbhamīnayōrmadhyē yadā carati candramā” ityatra madhyēpadēna kumbhāntamīnādirēvōcyatē, paramārthatastayōrmadhyasyābhāvāt; tathēhāpi [10] paramārthatō’nyamadakālābhāvād dvitīyāntatr̥tīyamadādyabhidhānamēvātra tr̥tīyamadātyarthanindārthaṁ, na caturthamadōpadarśanam| asvantamiti aśōbhanāntam| bhagnadārvivēti bhagnavr̥kṣa iva patitastiṣṭhati| udarkam uttarakālam| sa duḥkhaṁ vyādhimiti madātyayam||41-51||
prētya cēha ca yacchrēyaḥ śrēyō mōkṣē ca yat param|
manaḥsamādhau tat sarvamāyattaṁ sarvadēhinām||52||
madyēna manasaścāsya saṅkṣōbhaḥ kriyatē mahān|
mahāmārutavēgēna taṭasthasyēva śākhinaḥ||53||
madyaprasaṅgaṁ taṁ cājñā mahādōṣaṁ mahāgadam|
sukhamityadhigacchanti rajōmōhaparājitāḥ||54||
madyōpahatavijñānā viyuktāḥ sāttvikairguṇaiḥ|
śrēyōbhirviprayujyantē madāndhā madalālasāḥ||55||
madyē mōhō bhayaṁ śōkaḥ krōdhō mr̥tyuśca saṁśritaḥ|
sōnmādamadamūrcchāyāḥ sāpasmārāpatānakāḥ||56||
yatraikaḥ smr̥tivibhraṁśastatra sarvamasādhuvat|
ityēvaṁ madyadōṣajñā madyaṁ garhanti yatnataḥ||57||
satyamētē mahādōṣā madyasyōktā na saṁśayaḥ|
ahitasyātimātrasya pītasya vidhivarjitam||58||
kintu madyaṁ svabhāvēna yathaivānnaṁ tathā smr̥tam|
ayuktiyuktaṁ rōgāya yuktiyuktaṁ yathā’mr̥tam||59||
prāṇāḥ prāṇabhr̥tāmannaṁ tadayuktyā nihantyasūn|
viṣaṁ prāṇaharaṁ tacca yuktiyuktaṁ rasāyanam||60||
prētya cēhētyādinā ēkīyamataṁ madyanindakaṁ darśayati| prētyēti janmāntarē| taṭasthasyēti vacanēna vātākṣōbhyatāṁ darśayati| satyamityādinā svamatamāha| ētē dōṣāḥ madyasyaikīyamatōktā ahitādidharmayuktasyaiva bhavanti, na hitālpamātravidhipītasyēti bhāvaḥ| vidhivarjitamiti kriyāviśēṣaṇam| madyasyānnasārūpyadarśanēna vidhivadupayōgē guṇavattāmavidhyupayōgē ca dōṣavattāmāha- kintvityādi| yuktyā dēśakālamātrādyapēkṣayā yōjanayā yuktaṁ śubham, aśubhaṁ cāyuktiyuktam| yuktēranvayavyatirēkābhyāṁ kāryamāha- prāṇā ityādi| prāṇahētutvāt prāṇāḥ| ayuktiyuktamiti avidhiprayuktam| yuktiyuktaṁ rasāyanamiti yathā “viṣasya tu tilaṁ dadyāt” (ci.a.1) ityādiprayōgē tilamānasya rasāyanatvaṁ, tathā jñēyam||52-60||
harṣamūrjaṁ mudaṁ puṣṭimārōgyaṁ pauruṣaṁ param [11] |
yuktyā pītaṁ karōtyāśu madyaṁ sukhamadapradam||61||
vidhipītamadyaguṇānāha- harṣamityādi| harṣam utsāhaṁ kāyikam| mudamiti manaḥsantōṣam| pauruṣamiti śukram| āśviti vacanēna śīghraṁ harṣādīni karōti na pariṇāmaṁ yāvadapēkṣatē| sukhamadapradamiti sukhapradamadaṁ, prathamaṁ madamiti yāvat| anyē tu ‘madasukhapradam’ iti paṭhanti; tatrāpi madasukhaṁ prathamamadārambha ēva||61||
rōcanaṁ dīpanaṁ hr̥dyaṁ svaravarṇaprasādanam|
prīṇanaṁ br̥ṁhaṇaṁ balyaṁ bhayaśōkaśramāpaham||62||
svāpanaṁ naṣṭanidrāṇāṁ mūkānāṁ vāgvibōdhanam|
bōdhanaṁ cātinidrāṇāṁ vibaddhānāṁ vibandhanut||63||
vadhabandhapariklēśaduḥkhānāṁ cāpyabōdhanam|
madyōtthānāṁ ca rōgāṇāṁ madyamēva prabādhakam||64||
ratirviṣayasaṁyōgē prītisaṁyōgavardhanam|
api pravayasāṁ madyamutsavāmōdakārakam||65||
pañcasvarthēṣu kāntēṣu yā ratiḥ prathamē madē|
yūnāṁ vā sthavirāṇāṁ vā tasya nāstyupamā bhuvi||66||
bahuduḥkhahatasyāsya śōkēnōpahatasya ca|
viśrāmō jīvalōkasya madyaṁ yuktyā niṣēvitam||67||
rōcanamityādinā madyaguṇānāha| svāpanaṁ naṣṭanidrāṇāṁ tathā bōdhanaṁ cātinidrāṇāmiti kāryadvayakaraṇamucitanidrākaratvaprabhāvādēva; kiṁvā naṣṭanidrāṇāṁ nidrābhighātahētvaticintanādivismārakatayā nidrākaraṁ bhavati, atinidrāṇāṁ nidrāhētumanōvahasrōtōrōdhādihantr̥tayā prabōdhakaṁ bhavatīti jñēyam| madyōtthānāṁ ca rōgāṇāṁ madyamēva prabādhakamiti hētuviparītārthakāritāprabhāvādityarthaḥ| ratiriti ratikārakamityarthaḥ| viṣayasaṁyōgē prītisaṁyōgavardhanamiti viṣayāṇāṁ śabdādīnāṁ saṁyōgē prītiṁ saṁyōgaṁ ca vardhayati; pītamadyō yadā viṣayaiḥ śabdādibhiḥ saṁyujyatē tadā tēṣvapi prītimān bhavati, prītaśca sukhākāṅkṣī san punastēṣu saṁyujyatē| pravayasāmiti vr̥ddhānām| utsavaḥ autsukyaṁ viṣayābhilāṣa iti yāvat, āmōdō harṣaḥ| nanu viṣayē svabhāvādēva prītirbhavati, tat kiṁ madyēna kriyatē? ityāśaṅkya prathamamadasya viśiṣṭaratikartr̥tvamāha- pañcasvityādi| ratiścēha
atyarthasukhajanakatvādēvōpādēyēti vijñēyam| viśrāma iti duḥkhārtaviśrāmahētuḥ| jīvalōka iti jīvamānalōkaḥ [12] ||62-67||
annapānavayōvyādhibalakālatrikāṇi ṣaṭ|
trīndōṣāṁstrividhaṁ sattvaṁ jñātvā madyaṁ pibētsadā||68||
tēṣāṁ trikāṇāmaṣṭānāṁ yōjanā yuktirucyatē|
yayā yuktyā pibanmadyaṁ madyadōṣairna yujyatē||69||
madyasya ca guṇān sarvān yathōktān sa samaśnutē|
dharmārthayōrapīḍāyai naraḥ sattvaguṇōcchritaḥ||70||
sattvāni tu prabudhyantē prāyaśaḥ prathamē madē|
dvitīyē’vyaktatāṁ yānti madhyē cōttamamadhyayōḥ||71||
sasyasambōdhakaṁ varṣaṁ, hēmaprakr̥tidarśakaḥ|
hutāśaḥ, sarvasattvānāṁ madyaṁ tūbhayakārakam||72||
pradhānāvaramadhyānāṁ rūpāṇāṁ [13] vyaktidarśakaḥ|
yathā’gnirēvaṁ sattvānāṁ madyaṁ prakr̥tidarśakam||73||
yuktyā niṣēvitamityatrōktāṁ madyapānayuktimāha- annapānētyādi| tatrānnaṁ trividhaṁ vātapittakaphakaram, ēvaṁ pānamapi trividhaṁ, bālyādibhēdādvayō’pi trividhaṁ, vyādhirapi mr̥dumadhyatīvrabhēdēna trividhaḥ, kiṁvā saumyāgnēyavāyavyabhēdēna trividhaḥ, balaṁ pravarāvaramadhyabhēdāttrividhaṁ, kālastu śītōṣṇavarṣālakṣaṇastrividhaḥ, trividhaṁ sattvaṁ śuddhaṁ rājasaṁ tāmasaṁ ca| yōjanēti samyagyōjanārūpā| yuktiṁ phalēnāvadhārayati- yayā yuktyētyādinā| sattvaguṇōcchritō madyaguṇān samaśnutē iti yōjyam| tatrānnāpēkṣayā yuktiryathā- vātakaramannamupayujya vātaharaṁ madyaṁ pēyam, ēvaṁ pittakarakaphakaratvē’pi pittakaphaharānnōpayōgaḥ| ēvaṁ pānādyapēkṣayā’pi yōjanā vyākhyātā bhavati| vayastrikē’pi bālyē sthavirē ca tīkṣṇaṁ madyaṁ na pēyaṁ, yauvanē tu tīkṣṇamapīti| vyādhyapēkṣayā’pi yōjanā yathā- mr̥duvyādhau tīkṣṇōṣṇaṁ, uṣṇē ca śītamadhuraṁ, varṣākālē tu snigdhaṁ dīpanaṁ ca madyam| dōṣabhēdēna tu madyaṁ vātē snigdhōṣṇaṁ gauḍikādi, pittē śītamadhuraṁ śārkarādi, kaphē rūkṣatīkṣṇaṁ mādhavādi| uktaṁ hi- “vātikēbhyō hitaṁ madyaṁ prāyō gauḍikapaiṣṭikam| kaphapittādhikēbhyastu phālamādhavaśārkaram” iti| dōṣagrahaṇēnaiva vātalādiprakr̥tirapi gr̥hītā| sattvabhēdēnāpi sāttvikēna tu bahvapi madyaṁ pātavyaṁ, rājasatāmasaistu svalpamēva| sattvānīti manāṁsi| avyaktatām īṣadvyaktatāṁ, madhyē cāvyaktatāṁ yāntītyarthaḥ, uttamē tu sarvathā’pyavyaktaṁ bhavatīti bhāvaḥ| kēcittu ‘sasyasambōdhakaṁ varṣaṁ’ ityādi ślōkaṁ paṭhanti| tatra hēmaprakr̥tidarśakō hutāśō yathā suvarṇasya śuddhāśuddhatāṁ darśayati, tathā madyaṁ tūbhayakārakamiti manaḥprabōdhakaṁ manōguṇadarśakaṁ ca| rūpāṇāmiti hēmarūpāṇāṁ; kiṁvā ‘rukmāṇāṁ’ iti pāṭhaḥ| vyaktidarśaka iti ākāradarśakaḥ||68-73||
sugandhimālyagandharvaṁ supraṇītamamākulam|
miṣṭānnapānaviśadaṁ sadā madhurasaṅkatham||74||
sukhaprapānaṁ [14] sumadaṁ harṣaprītivivardhanam|
svantaṁ sāttvikamāpānaṁ na cōttamamadapradam||75||
vaiguṇyaṁ sahasā yānti madyadōṣairna sāttvikāḥ|
madyaṁ hi balavatsattvaṁ gr̥hṇāti sahasā na tu [15] ||76||
saumyāsaumyakathāprāyaṁ viśadāviśadaṁ kṣaṇāt|
citraṁ rājasamāpannaṁ prāyēṇāsvantakākulam||77||
harṣaprītikathāpētamatuṣṭaṁ pānabhōjanē|
sammōhakrōdhanidrāntamāpānaṁ tāmasaṁ smr̥tam||78||
sāttvikādibhēdēna pānaṁ trividhamāha- sugandhītyādi| śōbhanō gandhō yasya tat sugandhi, gandharvaḥ gānam| śōbhanō’ntō yasya tat svantam| sumadamiti samamadam| na cōttamamadapradamiti nōttamamadakaraṁ, kadācidapi madyapānāttr̥tīyamadāśaṅkā na bhavati; uttamamadaḥ sāttvikē na bhavatītyarthaḥ| uttamamadāprāptau hētumāha- vaiguṇyamityādi| sattvasaṁyōgāditi sattvākhyaguṇayōgāt; sattvākhyō hi guṇaḥ prakāśakatayā na madēna mōhakēnābhibhūyata iti bhāvaḥ| ētadēvāha- sahasētyādi| rājasapānamāha- saumyāsaumyētyādi| saumyakathā saumyasambandhā, tadviparītā asaumyā| viśadāviśadamiti prasannāprasannam| citramiti sambaddhāsambaddhavākyādiyōgānnānāprakārakam| tathētyādinā tāmasamāha| sammōhaḥ krōdhō nidrā ca antē yasya tat sammōhakrōdhanidrāntam||74-78||
āpānē sāttvikān buddhvā tathā rājasatāmasān|
jahyātsahāyān yaiḥ pītvā madyadōṣānupāśnutē||79||
yairityanēna rājasatāmasāḥ pratyavamr̥śyantē, taiḥ samaṁ piban tatprasaktyā svayamapyatipiban madyadōṣān dvitīyatr̥tīyamadadōṣān prāpnōti||79||
sukhaśīlāḥ susambhāṣāḥ sumukhāḥ sammatāḥ satām|
kalāsvabāhyā viśadā viṣayapravaṇāśca yē||80||
parasparavidhēyā yē yēṣāmaikyaṁ suhr̥ttayā|
praharṣaprītimādhuryairāpānaṁ vardhayanti yē||81||
utsavādutsavataraṁ yēṣāmanyōnyadarśanam|
tē sahāyāḥ sukhāḥ pānē taiḥ pibansaha mōdatē||82||
rūpagandharasasparśaiḥ śabdaiścāpi manōramaiḥ|
pibanti susahāyā yē tē vai sukr̥tibhiḥ samāḥ||83||
pañcabhirviṣayairiṣṭairupētairmanasaḥ [16] priyaiḥ|
dēśē kālē pibēnmadyaṁ prahr̥ṣṭēnāntarātmanā||84||
sthirasattvaśarīrā yē pūrvānnā madyapānvayāḥ|
bahumadyōcitā yē ca mādyanti sahasā na tē||85||
kṣutpipāsāparītāśca [17] durbalā vātapaittikāḥ|
rūkṣālpapramitāhārā viṣṭabdhāḥ sattvadurbalāḥ||86||
krōdhinō’nucitāḥ kṣīṇāḥ pariśrāntā madakṣatāḥ|
svalpēnāpi madaṁ śīghraṁ yānti madyēna mānavāḥ||87||
upādēyān sāttvikānāha- sukhaśīlā ityādi| sumukhā iti priyākārāḥ| viśadā iti avāmāḥ| āpānaṁ vardhayantīti āpānē prasādaṁ vardhayanti na pānaprasaktiṁ vardhayantītyarthaḥ, tasyā ninditatvāt| manōramairityatra ‘sādhīyāṁsaiḥ’ iti śēṣaḥ| sukr̥tibhiḥ samā iti ēvambhūtapānasya sukr̥tilabhyatvāt| sthirasattvētyādau pūrvānnā iti madyapānāt pūrvamupayuktānnāḥ| madyapānvayā iti madyapavaṁśajāḥ, tēṣāṁ madyapānaṁ madyasātmyatvādēva na vikārakaraṁ bhavati, viṣakanyāyā viṣamiva||80-87||
ūrdhvaṁ madātyayasyātaḥ sambhavaṁ svasvalakṣaṇam|
agnivēśa! cikitsāṁ ca pravakṣyāmi yathākramam||88||
strīśōkabhayabhārādhvakarmabhiryō’tikarśitaḥ|
rūkṣālpapramitāśī ca yaḥ pibatyatimātrayā||89||
rūkṣaṁ pariṇataṁ madyaṁ niśi nidrāṁ vihatya ca|
karōti tasya tacchīghraṁ vātaprāyaṁ madātyayam||90||
hikkāśvāsaśiraḥkampapārśvaśūlaprajāgaraiḥ|
vidyādbahupralāpasya vātaprāyaṁ madātyayam||91||
tīkṣṇōṣṇaṁ madyamamlaṁ ca yō’timātraṁ niṣēvatē|
amlōṣṇatīkṣṇabhōjī ca krōdhanō’gnyātapapriyaḥ||92||
tasyōpajāyatē pittādviśēṣēṇa madātyayaḥ|
sa [18] tu vātōlbaṇasyāśu praśamaṁ yāti hanti vā||93||
tr̥ṣṇādāhajvarasvēdamūrcchātīsāravibhramaiḥ|
vidyāddharitavarṇasya pittaprāyaṁ madātyayam||94||
taruṇaṁ madhuraprāyaṁ gauḍaṁ paiṣṭikamēva vā|
madhurasnigdhagurvāśī yaḥ pibatyatimātrayā||95||
avyāyāmadivāsvapnaśayyāsanasukhē rataḥ|
madātyayaṁ kaphaprāyaṁ sa śīghramadhigacchati||96||
chardyarōcakahr̥llāsatandrāstaimityagauravaiḥ|
vidyācchītaparītasya kaphaprāyaṁ madātyayam||97||
madyapānadōṣaguṇānabhidhāya madātyayān hētvādibhirāha- ūrdhvamityādi| sambhavamiti kāraṇam| vātaprāyamityādau prāyaḥśabdēnādhikavācinā vakṣyamāṇānāṁ sarvamadātyayānāṁ tridōṣajanyatvaṁ darśayati| sa tu vātētyādau sa tviti paittikaḥ; vātōlbaṇasya paittō madātyayō vātapittasaṁyōgakr̥tatayā bāhya ivāgnirvāyuyuktaḥ śīghrakārī bhavati| tatrēyaṁ vyavasthā- yatra sadyaḥphalā kriyā tatra śīghramēva śāmyati, akriyāyāṁ ca śīghraṁ hanti, śaṅkhakarōhiṇyādivat||88-97||
viṣasya yē guṇā dr̥ṣṭāḥ sannipātaprakōpaṇāḥ|
ta ēva madyē dr̥śyantē viṣē tu balavattarāḥ||98||
hantyāśu hi viṣaṁ kiñcit kiñcidrōgāya kalpatē|
yathā viṣaṁ tathaivāntyō jñēyō madyakr̥tō madaḥ||99||
tasmāt tridōṣajaṁ liṅgaṁ sarvatrāpi madātyayē|
dr̥śyatē rūpavaiśēṣyāt pr̥thaktvaṁ cāsya [19] lakṣyatē||100||
madyasya tridōṣakaratvē hētumāha- viṣasyētyādi| yadyapi madyamamlaṁ, viṣaṁ tvavyaktamadhuraṁ, tathā’pi bahuguṇasāmānyāt ta ēva madyē dr̥śyanta ityuktam| tathaivāntyō mada iti prāṇaharō rōgakaraścētyarthaḥ| pr̥thaktvamiti vātikatvādinā pārthakyam||98-100||
śarīraduḥkhaṁ balavat sammōhō [20] hr̥dayavyathā|
aruciḥ pratatā [21] tr̥ṣṇā jvaraḥ śītōṣṇalakṣaṇaḥ||101||
śiraḥpārśvāsthisandhīnāṁ vidyuttulyā [22] ca vēdanā|
jāyatē’tibalā jr̥mbhā sphuraṇaṁ vēpanaṁ śramaḥ||102||
urōvibandhaḥ kāsaśca hikkā śvāsaḥ prajāgaraḥ|
śarīrakampaḥ karṇākṣimukharōgastrikagrahaḥ||103||
chardyatīsārahr̥llāsā vātapittakaphātmakāḥ|
bhramaḥ pralāpō rūpāṇāmasatāṁ caiva darśanam||104||
tr̥ṇabhasmalatāparṇapāṁśubhiścāvapūraṇam|
pradharṣaṇaṁ vihaṅgaiśca bhrāntacētāḥ sa manyatē||105||
vyākulānāmaśastānāṁ svapnānāṁ darśanāni ca|
madātyayasya rūpāṇi sarvāṇyētāni lakṣayēt||106||
śarīraduḥkhamityādinā sarvamadātyayasya sāmānyaṁ lakṣaṇaṁ brūtē, kiṁvā tridōṣamadātyayasyaiva lakṣaṇaṁ; yatō rōgasaṅgrahē vātapittakaphasannipātaiścatvārō madā uktāḥ| “yaśca madyamadaḥ prōktō viṣajō raudhiraśca yaḥ| sarva ētē madā nartē vātapittakaphatrayāt” (sū.a.24) ityanēna madasya vātādijatvēna cāturvidhyamuktam| tēna madātyayasya cāturvidhyaṁ madacāturvidhyāt; yatō mada ēva ātyayikō madātyaya iti nirucyatē| vidyuttulyēti vidyudvatkṣaṇasthāyinī| sphuraṇaṁ kiñcitkampanaṁ, vēpanamēkadēśē vyaktakampanam||101-106||
sarvaṁ madātyayaṁ vidyāt tridōṣamadhikaṁ tu yam|
dōṣaṁ madātyayē paśyēt tasyādau pratikārayēt||107||
kaphasthānānupūrvyā ca kriyā kāryā madātyayē|
pittamārutaparyantaḥ prāyēṇa hi madātyayaḥ||108||
mithyātihīnapītēna yō vyādhirupajāyatē|
samapītēna tēnaiva sa madyēnōpaśāmyati||109||
jīrṇāmamadyadōṣāya madyamēva pradāpayēt|
prakāṅkṣālāghavē jātē yadyadasmai hitaṁ bhavēt||110||
sauvarcalānusaṁviddhaṁ śītaṁ sabiḍasaindhavam|
mātuluṅgārdrakōpētaṁ jalayuktaṁ pramāṇavit [23] ||111||
utklēśaviśēṣēṇa cikitsāmāha- sarvamityādi| samasarvadōṣē
cikitsāmāha- kaphasthānētyādi| kaphasthānānupūrvyā cātra cikitsā kaphasthānōdbhūtatayā prathamaṁ kaphasambandhāt sannipātajvara iva jñēyā| ādau kaphaprabalatāmēvāha- pittamārutaparyanta iti; anēna cārthāt kaphāditvaṁ lambhayati| samapītēna tēnaivēti yajjātīyēna madyēna madātyayō janitaḥ nitarāṁ tajjātīyēnaiva śāmyati| yathā viṣaṁ maulaṁ daṁṣṭrīyēṇa śāmyati, tathā madyamapi vijātīyēna madyēna śāmyatītyēkē; kintu tēnaivētyanēna tāmēva madyajātiṁ pratyavamr̥śati, tēnāvaśyaṁ tajjātīyamēva madyaṁ jñēyam| yatō’nantaraṁ vakṣyati- ‘yacca yasmai hitaṁ bhavēt’ iti| tathā ‘dadyāt salavaṇaṁ madyaṁ paiṣṭikaṁ vātaśāntayē’ ityanēna yēna kēnacinmadyēnōdbhūtē vātamadātyayē paiṣṭikamuktaṁ, tathā ‘saśarkaraṁ śārkaraṁ vā’ ityādi viśēṣavidhānaṁ bahu kariṣyati; tēna tajjātīyamanyajātīyaṁ ca madyaṁ madātyayē dēyam||107-111||
tīkṣōṣṇēnātimātrēṇa pītēnāmlavidāhinā|
madyēnānnarasōtklēdō vidagdhaḥ kṣāratāṁ gataḥ||112||
antardāhaṁ jvaraṁ tr̥ṣṇāṁ pramōhaṁ vibhramaṁ madam|
janayatyāśu tacchāntyai madyamēva pradāpayēt||113||
kṣārō hi yāti mādhuryaṁ śīghramamlōpasaṁhitaḥ|
śrēṣṭhamamlēṣu madyaṁ ca yairguṇaistān paraṁ śr̥ṇu||114||
madyasyāmlasvabhāvasya catvārō’nurasāḥ smr̥tāḥ|
madhuraśca kaṣāyaśca tiktaḥ kaṭuka ēva ca||115||
guṇāśca daśa pūrvōktāstaiścaturdaśabhirguṇaiḥ|
sarvēṣāṁ madyamamlānāmuparyupari tiṣṭhati||116||
annarasōtklēda ityatra ‘amlarasaklēdaḥ’ iti kēcit paṭhanti| kṣāramādhuryāya yadā’mlamadyadānaṁ, tadā kimiti anyadamlaṁ na dīyatē ityāha- kṣārō hītyādi| uparyuparīti upariṣṭādapyupari atyarthaṁ śrēṣṭhamityarthaḥ||112-116||
madyōtkliṣṭēna dōṣēṇa ruddhaḥ [24] srōtaḥsu mārutaḥ|
karōti vēdanāṁ tīvrāṁ śirasyasthiṣu sandhiṣu||117||
dōṣaviṣyandanārthaṁ hi tasmai [25] madyaṁ viśēṣataḥ|
vyavāyitīkṣṇōṣṇatayā dēyamamlē(nyē)ṣu satsvapi||118||
srōtōvibandhanunmadyaṁ mārutasyānulōmanam|
rōcanaṁ dīpanaṁ cāgnērabhyāsāt sātmyamēva ca||119||
rujaḥ [26] srōtaḥsvaruddhēṣu mārutē cānulōmitē|
nivartantē vikārāśca śāmyantyasya madōdayāḥ||120||
bījapūrakavr̥kṣāmlakōladāḍimasaṁyutam|
yavānīhapuṣājājīśr̥ṅgavērāvacūrṇitam||121||
sasnēhaiḥ śaktubhiryuktamavadaṁśairvirōcitam [27] |
dadyāt salavaṇaṁ madyaṁ paiṣṭikaṁ vātaśāntayē||122||
dr̥ṣṭvā vātōlbaṇaṁ liṅgaṁ rasaiścainamupācarēt|
lāvatittiradakṣāṇāṁ snigdhāmlaiḥ śikhināmapi||123||
pakṣiṇāṁ mr̥gamatsyānāmānūpānāṁ ca saṁskr̥taiḥ|
bhūśayaprasahānāṁ ca rasaiḥ śālyōdanēna ca||124||
snigdhōṣṇalavaṇāmlaiśca vēśavārairmukhapriyaiḥ|
citrairgaudhūmikaiścānnairvāruṇīmaṇḍasaṁyutaiḥ [28] ||125||
piśitārdrakagarbhābhiḥ snigdhābhiḥ pūpavartibhiḥ|
māṣapūpalikābhiśca vātikaṁ samupācarēt||126||
nātisnigdhaṁ na cāmlēna yuktaṁ samaricārdrakam|
mēdyaṁ prāguditaṁ māṁsaṁ dāḍimasvarasēna vā||127||
pr̥thaktrijātakōpētaṁ sadhānyamaricārdrakam|
rasapralēpi [29] sampūpaiḥ sukhōṣṇaiḥ sampradāpayēt||128||
bhuktē [30] tu vāruṇīmaṇḍaṁ dadyāt pātuṁ pipāsavē|
dāḍimasya rasaṁ vā’pi jalaṁ vā pāñcamūlikam||129||
dhānyanāgaratōyaṁ ca dadhimaṇḍamathāpi vā|
amlakāñjikamaṇḍaṁ vā śuktōdakamathāpi vā||130||
karmaṇā’nēna siddhēna vikāra upaśāmyati|
mātrākālaprayuktēna balaṁ varṇaśca vardhatē||131||
rāgaṣāḍavasaṁyōgairvividhairbhaktarōcanaiḥ|
piśitaiḥ śākapiṣṭānnairyavagōdhūmaśālibhiḥ||132||
abhyaṅgōtsādanaiḥ snānairuṣṇaiḥ prāvaraṇairghanaiḥ|
ghanairagurupaṅkaiśca dhūpaiścāgurujairghanaiḥ||133||
nārīṇāṁ yauvanōṣṇānāṁ nirdayairupagūhanaiḥ|
śrōṇyūrukucabhāraiśca saṁrōdhōṣṇasukhāvahaiḥ||134||
śayanācchādanairuṣṇairuṣṇaiścāntargr̥haiḥ sukhaiḥ|
mārutaprabalaḥ śīghraṁ praśāmyati madātyayaḥ||135||
madōdayā iti madanimittāstarṣādayaḥ [31] ; kēcittu ‘jvarādayaḥ’ iti paṭhanti, tatra jvarapradhānāstarṣādaya ityartha unnēyaḥ| avadaṁśō yamupayujya madyaṁ pīyatē| dakṣaḥ kukkuṭaḥ| vēśavāraḥ khāniṣkaḥ, sa cōktalakṣaṇō’sakr̥t| pūpavartiḥ vartyākārā pūpalikā| rasapralēpīti rasapralēpanarūpatayā nirvr̥ttaṁ ‘rasapralēha’ iti yāvat| agurupaṅkairiti agurulēpaiḥ| ghanairiti bahalaiḥ| saṁrōdhōṣṇasukhāvahairiti saṁrōdhajanitōṣmaṇā sukhakārakaiḥ||117-135||
bhavyakharjūramr̥dvīkāparūṣakarasairyutam [32] |
sadāḍimarasaṁ śītaṁ saktubhiścāvacūrṇitam||136||
saśarkaraṁ śārkaraṁ vā mārdvīkamathavā’param|
dadyādbahūdakaṁ kālē pātuṁ pittamadātyayē||137||
śaśān kapiñjalānēṇāmँllāvānasitapucchakān|
madhurāmlān prayuñjīta bhōjanē śāliṣaṣṭikān||138||
paṭōlayūṣamiśraṁ vā chāgalaṁ kalpayēdrasam|
satīnamudgamiśraṁ vā dāḍimāmalakānvitam||139||
drākṣāmalakakharjūraparūṣakarasēna vā|
kalpayēttarpaṇān yūṣān rasāṁśca vividhātmakān||140||
āmāśayasthamutkliṣṭaṁ kaphapittaṁ madātyayē|
vijñāya bahudōṣasya dahyamānasya [33] tr̥ṣyataḥ||141||
madyaṁ drākṣārasaṁ tōyaṁ dattvā tarpaṇamēva vā|
niḥśēṣaṁ vāmayēcchīghramēvaṁ rōgādvimucyatē||142||
kālē punastarpaṇādyaṁ kramaṁ kuryāt prakāṅkṣitē|
tēnāgnirdīpyatē tasya dōṣaśēṣānnapācakaḥ||143||
kāsē saraktaniṣṭhīvē pārśvastanarujāsu ca|
tr̥ṣyatē savidāhē ca sōtklēśē hr̥dayōrasi||144||
guḍūcībhadramustānāṁ paṭōlasyāthavā bhiṣak|
rasaṁ sanāgaraṁ dadyāt tittiripratibhōjanam [34] ||145||
tr̥ṣyatē cātibalavadvātapittē samuddhatē|
dadyāddrākṣārasaṁ pātuṁ śītaṁ dōṣānulōmanam||146||
jīrṇē samadhurāmlēna chāgamāṁsarasēna tam|
bhōjanaṁ bhōjayēnmadyamanutarṣaṁ ca pāyayēt||147||
anutarṣasya mātrā sā yayā nō dūṣyatē [35] manaḥ|
tr̥ṣyatē madyamalpālpaṁ pradēyaṁ syādbahūdakam||148||
tr̥ṣṇā yēnōpaśāmyēta madaṁ yēna ca nāpnuyāt|
parūṣakāṇāṁ pīlūnāṁ rasaṁ śītamathāpi [36] vā||149||
parṇinīnāṁ catasr̥̄ṇāṁ pibēdvā śiśiraṁ jalam|
mustadāḍimalājānāṁ [37] tr̥ṣṇāghnaṁ vā pibēdrasam||150||
kōladāḍimavr̥kṣāmlacukrīkācukrikārasaḥ|
pañcāmlakō mukhālēpaḥ sadyastr̥ṣṇāṁ niyacchati||151||
śītalānyannapānāni śītaśayyāsanāni [38] ca|
śītavātajalasparśāḥ śītānyupavanāni ca||152||
kṣaumapadmōtpalānāṁ ca maṇīnāṁ mauktikasya ca|
candanōdakaśītānāṁ sparśāścandrāṁśuśītalāḥ||153||
hēmarājatakāṁsyānāṁ pātrāṇāṁ śītavāribhiḥ|
pūrṇānāṁ himapūrṇānāṁ dr̥tīnāṁ pavanāhatāḥ||154||
saṁsparśāścandanārdrāṇāṁ nārīṇāṁ ca samārutāḥ|
candanānāṁ ca mukhyānāṁ śastāḥ pittamadātyayē [39] ||155||
śītavīryaṁ yadanyacca tat sarvaṁ viniyōjayēt|
kumudōtpalapatrāṇāṁ siktānāṁ candanāmbunā||156||
hitāḥ sparśā manōjñānāṁ dāhē madyasamutthitē|
kathāśca vividhāḥ śastāḥ [40] śabdāśca śikhināṁ śivāḥ||157||
tōyadānāṁ ca śabdā hi śamayanti madātyayam|
jalayantrābhivarṣīṇi vātayantravahāni ca||158||
kalpanīyāni bhiṣajā dāhē dhārāgr̥hāṇi ca|
phalinīsēvyalōdhrāmbuhēmapatraṁ kuṭannaṭam||159||
kālīyakarasōpētaṁ dāhē śastaṁ pralēpanam|
badarīpallavōtthaśca tathaivāriṣṭakōdbhavaḥ||160||
phēnilāyāśca yaḥ phēnastairdāhē lēpanaṁ śubham|
surā samaṇḍā dadhyamlaṁ mātuluṅgarasō madhu||161||
sēkē pradēhē śasyantē dāhaghnāḥ sāmlakāñjikāḥ|
pariṣēkāvagāhēṣu vyañjanānāṁ ca sēvanē||162||
śasyatē śiśiraṁ tōyaṁ dāhatr̥ṣṇāpraśāntayē|
mātrākālaprayuktēna karmaṇā’nēna śāmyati [41] ||163||
dhīmatō vaidyavaśyasya śīghraṁ pittamadātyayaḥ|164|
bhavyētyādinā paittikē vidhimāha| bhavyam auttarāpathikam, anyē karmaraṅgamāhuḥ| mārdvīkamiti mr̥dvīkārasakr̥tam| satīnaḥ vartulakalāyaḥ| rōgādvimucyata iti prakr̥tapittamadātyayādvimucyata ityarthaḥ| kramamiti vamanānantarōktamannasaṁsarjanakramam| dōṣaśēṣaḥ kōṣṭhōpalapakō’tra jñēyaḥ| guḍūcītyādau rasamiti kvātham| tittiriḥ pratibhōjanaṁ paścājjīrṇē bhōjanaṁ yasmin rasē taṁ tittiripratibhōjanam| anutarṣaṁ ca pāyayēditi bhōjanasamayē tr̥ṣāṁ lakṣīkr̥tya pāyayēt; anupānaṁ dāpayēditi yāvat| ētadanupānasya mātrāmāha- anutarṣasyētyādi| anutarṣasyēti muhurmuhurdīyamānānupānasya| yayā’sya manō na dūṣyata iti na vikr̥tiṁ yāti; ētēna tr̥ṣāyāṁ manōdainyamātrahantr̥ yanmadyaṁ bhavati tadanutarṣasañjñaṁ bhavati, natu madaparyantaṁ madyaṁ dēyamityarthaḥ| tr̥ṣṇāghnamiti śītakaṣāyarūpaṁ rasam| cukrīkā cāṅgērī| badarītyādau badaryādipatrāṇi mathitvā tajjaḥ phēnō grāhyaḥ| ariṣṭakaḥ nimbaḥ||136-163||-
ullēkhanōpavāsābhyāṁ jayēt kaphamadātyayam||164||
tr̥ṣyatē salilaṁ cāsmai dadyāddhrībērasādhitam|
balayā pr̥śniparṇyā vā kaṇṭakāryā’thavā śr̥tam||165||
sanāgarābhiḥ sarvābhirjalaṁ vā śr̥taśītalam|
duḥsparśēna samustēna mustaparpaṭakēna vā||166||
jalaṁ mustaiḥ śr̥taṁ vā’pi dadyāddōṣavipācanam|
ētadēva ca pānīyaṁ sarvatrāpi madātyayē||167||
niratyayaṁ pīyamānaṁ pipāsājvaranāśanam|
nirāmaṁ kāṅkṣitaṁ kālē sakṣaudraṁ [42] pāyayēttu tam||168||
śārkaraṁ madhu vā jīrṇamariṣṭaṁ sīdhumēva vā|
rūkṣatarpaṇasaṁyuktaṁ [43] yavānīnāgarānvitam||169||
yāvagaudhūmikaṁ cānnaṁ rūkṣayūṣēṇa bhōjayēt|
kulatthānāṁ suśuṣkāṇāṁ mūlakānāṁ rasēna vā||170||
tanunā’lpēna laghunā kaṭvamlēnālpasarpiṣā|
paṭōlayūṣamamlaṁ vā yūṣamāmalakasya vā||171||
prabhūtakaṭusaṁyuktaṁ sayavānnaṁ pradāpayēt|
vyōṣayūṣamathāmlaṁ vā yūṣaṁ vā sāmlavētasam||172||
chāgamāṁsarasaṁ rūkṣamamlaṁ vā jāṅgalaṁ rasam|
sthālyāṁ vā’tha kapālē vā bhr̥ṣṭaṁ nirdravavartitam [44] ||173||
kaṭvamlalavaṇaṁ māṁsaṁ bhakṣayan vr̥ṇuyānmadhu|
vyaktamārīcakaṁ māṁsaṁ mātuluṅgarasānvitam||174||
prabhūtakaṭusaṁyuktaṁ yavānīnāgarānvitam|
bhr̥ṣṭaṁ dāḍimasārāmlamuṣṇapūpōpavēṣṭitam||175||
yathāgni bhakṣayēt kālē prabhūtārdrakapēśikam|
pibēcca nigadaṁ madyaṁ kaphaprāyē madātyayē||176||
sauvarcalamajājī ca vr̥kṣāmlaṁ sāmlavētasam|
tvagēlāmaricārdhāṁśaṁ śarkarābhāgayōjitam||177||
ētallavaṇamaṣṭāṅgamagnisandīpanaṁ param|
madātyayē kaphaprāyē dadyāt srōtōviśōdhanam||178||
ētadēva punaryuktyā madhurāmlairdravīkr̥tam|
gōdhūmānnayavānnānāṁ māṁsānāṁ cātirōcanam||179||
pēṣayēt kaṭukairyuktāṁ śvētāṁ bījavivarjitām|
mr̥dvīkāṁ mātuluṅgasya dāḍimasya rasēna vā||180||
sauvarcalailāmaricairajājībhr̥ṅgadīpyakaiḥ|
sa rāgaḥ kṣaudrasaṁyuktaḥ śrēṣṭhō rōcanadīpanaḥ [45] ||181||
mr̥dvīkāyā vidhānēna kārayēt kāravīmapi|
śuktamatsyaṇḍikōpētaṁ rāgaṁ dīpanapācanam||182||
āmrāmalakapēśīnāṁ rāgān kuryāt pr̥thak pr̥thak|
dhānyasauvarcalājājīkāravīmaricānvitān||183||
guḍēna [46] madhuyuktēna vyaktāmlalavaṇīkr̥tān|
tairannaṁ rōcatē digdhaṁ samyagbhuktaṁ ca jīryati||184||
rūkṣōṣṇēnānnapānēna [47] snānēnāśiśirēṇa ca|
vyāyāmalaṅghanābhyāṁ ca yuktyā jāgaraṇēna ca||185||
kālayuktēna rūkṣēṇa snānēnōdvartanēna ca|
prāṇavarṇakarāṇāṁ ca [48] pragharṣāṇāṁ ca sēvayā||186||
sēvayā vasanānāṁ ca gurūṇāmagurōrapi|
saṅkōcōṣṇasukhāṅgīnāmaṅganānāṁ ca sēvayā||187||
sukhaśikṣitahastānāṁ strīṇāṁ saṁvāhanēna ca|
madātyayaḥ kaphaprāyaḥ śīghramēvōpaśāmyati||188||
ullēkhanētyādinā kaphamadātyayacikitsitam| tr̥ṣyatē salilamityādau ṣaḍaṅgavidhinā jalasādhanaṁ sādhviti| madhuprakr̥tikaṁ mādhavam| vyōṣapradhānō yūṣō vyōṣayūṣaḥ| nīrasavartitamiti anatidravavartitaṁ śuṣkākhyaṁ vyañjanamityarthaḥ| vr̥ṇuyāditi vyāpnuyāt| ārdrakapēśikā ārdrakadīrghakhaṇḍāni; ‘prabhūtārdrakapēṣitam’ iti vā pāṭhaḥ| sauvarcalamityādau tvagēlāmaricādīnāṁ pratyēkamēva bhāgārdhatvam| śarkarābhāgaḥ pūrvaikadravyabhāgaḥ| kaṭukairyuktāmiti kiñcidūṣaṇām| śvētāmiti mr̥dvīkāṁ, śvētā ca drākṣā kāśmīrabhavā jñēyā| kāravīmiti svalpadrākṣām| āmrāmalakayōḥ pēśītyanēna phalagataṁ sasyaṁ gr̥hyatē| saṅkōcōṣṇasukhāṅgīnāṁ saṅkōcēna saṁślēṣēṇa uṣṇasukhamaṅgaṁ yāsāṁ tāsāṁ; kēcittu saṅkōcaṁ kuṅkumamāhuḥ||164-188||
yadidaṁ karma nirdiṣṭaṁ pr̥thagdōṣabalaṁ prati|
sannipātē daśavidhē tadvikalpyaṁ bhiṣagvidā||189||
yastu dōṣavikalpajñō yaścauṣadhivikalpavit|
sa sādhyānsādhayēdvyādhīn sādhyāsādhyavibhāgavit||190||
yadidamityādinā sānnipātikamadātyayacikitsāmāha| yadyapi trayōdaśavidhaḥ sannipātō vr̥ddhadōṣāṇāmuktastathā’pi sarvamadātyayānāṁ tridōṣajatvād yadētadvātādimadātyayacikitsitamuktaṁ tadēkadōṣōlbaṇasannipātajamadātyayacikitsitaṁ bhavati, tēna dvyulbaṇahīnamadhyādhikabhēdasamasannipātairyē daśāvaśiṣṭāḥ sannipātāstānabhiprētyēdamuktaṁ- sannipātē daśavidhē tadvikalpyamiti; hīnamadhyādhikadōṣatrayōdbhūtamadātyayēṣu hīnamadhyādhikadōṣabhēdēna vikalpya cikitsā kartavyā; samasannipātē tu trayāṇāmapi militvā cikitsā kartavyā||189-190||
vanāni ramaṇīyāni sapadmāḥ salilāśayāḥ|
viśadānyannapānāni sahāyāśca praharṣaṇāḥ||191||
mālyāni gandhayōgāśca vāsāṁsi vimalāni ca|
gāndharvaśabdāḥ kāntāśca gōṣṭhyaśca hr̥dayapriyāḥ||192||
saṅkathāhāsyagītānāṁ viśadāścaiva yōjanāḥ|
priyāścānugatā nāryō nāśayanti madātyayam||193||
nākṣōbhya hi manō madyaṁ śarīramavihatya ca|
kuryānmadātyayaṁ tasmādēṣṭavyā harṣaṇī kriyā||194||
ābhiḥ kriyābhiḥ siddhābhiḥ śamaṁ yāti madātyayaḥ|
na cēnmadyavidhiṁ muktvā kṣīramasya prayōjayēt||195||
laṅghanaiḥ pācanairdōṣaśōdhanaiḥ śamanairapi|
vimadyasya kaphē kṣīṇē jātē daurbalyalāghavē||196||
tasya madyavidagdhasya vātapittādhikasya ca|
grīṣmōpataptasya tarōryathā varṣaṁ tathā payaḥ||197||
payasā’bhihr̥tē rōgē balē jātē nivartayēt|
kṣīraprayōgaṁ madyaṁ ca kramēṇālpālpamācarēt||198||
madātyayasya praharṣajanikā kriyā kartavyētyāha- vanānītyādi| kasmāt punarmadātyayē praharṣiṇī cikitsā kāryētyāha- nākṣōbhyētyādi| manaḥprītyā śarīrapraśamārthaṁ praharṣaṇī kriyā kartavyēti bhāvaḥ| uktakṣīraprayōgasya viṣayaṁ guṇaṁ cāha- laṅghanairityādi| tatra kāryakṣīravr̥ttikramaṁ punarmadyābhyāsakramaṁ cāha- payasā’bhihr̥tē ityādi| kramēṇēti kālakramēṇa| alpālpamiti stōkaṁ stōkam||191-198||
vicchinnamadyaḥ sahasā yō’timadyaṁ niṣēvatē|
dhvaṁsakō [49] vikṣayaścaiva rōgastasyōpajāyatē||199||
vyādhyupakṣīṇadēhasya duścikitsyatamau hi tau|
tayōrliṅgaṁ cikitsā ca yathāvadupadēkṣyatē||200||
ślēṣmaprasēkaḥ kaṇṭhāsyaśōṣaḥ śabdāsahiṣṇutā|
tandrānidrātiyōgaśca jñēyaṁ dhvaṁsakalakṣaṇam||201||
hr̥tkaṇṭharōgaḥ sammōhaśchardiraṅgarujā jvaraḥ|
tr̥ṣṇā kāsaḥ śiraḥśūlamētadvikṣayalakṣaṇam||202||
tayōḥ karma tadēvēṣṭaṁ vātikē yanmadātyayē|
tau hi prakṣīṇadēhasya jāyētē durbalasya vai||203||
bastayaḥ sarpiṣaḥ pānaṁ prayōgaḥ kṣīrasarpiṣōḥ|
abhyaṅgōdvartanasnānānyannapānaṁ ca vātanut||204||
dhvaṁsakō vikṣayaścaiva karmaṇā’nēna śāmyati|
yuktamadyasya madyōtthō na vyādhirupajāyatē||205||
ētadviparyayēṇa madyasēvāyāṁ dōṣamāha- vicchinnētyādi| dhvaṁsakavikṣayau vakṣyamāṇalakṣaṇau| dhvaṁsakavikṣayau cēmau suśrutēnāpyuktau| kēcittu “vicchinnamadyaḥ sahasā yō’timadyaṁ niṣēvatē| tasya pānātyayōddiṣṭā vikārāḥ sambhavanti hi” iti granthēna dhvaṁsakavikṣayāvarōdhaṁ varṇayanti| ētayōścikitsāmāha- tayōrityādi| karmēti cikitsā| tau hītyādinā prakṣīṇadurbalatayā dhvaṁsakavikṣayayōrvātapradhānatāṁ darśayati| yuktamadyasyēti yathōktavidhinā madyamācarataḥ||199-205||
nivr̥ttaḥ sarvamadyēbhyō narō yaśca jitēndriyaḥ|
śārīramānasairdhīmān vikārairna sa yujyatē||206||
sarvathā madyaparityāgaphalamāha- nivr̥tta ityādi| jitēndriya iti viśēṣaṇaṁ madyanivr̥ttāvēva prayōjakam| śārīramānasairvikārairiti yōgyatayā madyavyāpattijanyairēva śārīramānasairvikāraiḥ; anyahētujāñ śārīramānasavikārān prati madyanivr̥ttirakiñcitkarīti bhāvaḥ| na yujyata iti śārīramānasavikārairmadyanivr̥ttyā na yuktō bhavati||206||
tatra ślōkāḥ-
yatprabhāvā bhagavatī surā pēyā yathā ca sā|
yaddravyā yasya yā cēṣṭā yōgaṁ cāpēkṣatē yathā||207||
yathā madayatē yaiśca guṇairyuktā mahāguṇā|
yō madō madabhēdāśca yē trayaḥ svasvalakṣaṇāḥ||208||
yē ca madyakr̥tā dōṣā guṇā yē ca madātmakāḥ|
yacca trividhamāpānaṁ yathāsattvaṁ ca lakṣaṇam||209||
yē sahāyāḥ sukhāḥ pānē [50] cirakṣipramadā narāḥ|
madātyayasya yō hēturlakṣaṇaṁ yad yathā ca yat||210||
madyaṁ madyōtthitān rōgān hanti yaśca kriyākramaḥ|
sarvaṁ taduktamakhilaṁ madātyayacikitsitē||211||
yatprabhāvētyādiradhyāyasaṅgrahaḥ| saṅgrahārthō vyakta ēva||207-211||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē
madātyayacikitsitaṁ nāma caturviṁśō’dhyāyaḥ||24||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ cikitsāsthānē madātyayacikitsitaṁ nāma caturviṁśō’dhyāyaḥ||24||
1. ‘surā’ iti pā.|
2. ‘atiyōgēna paritō’tiparitaḥ’ iti pā.|
3. ‘saṁvāsasammatē’ iti pā.|
4. ‘sañcāryamāṇamiṣṭābhiḥ’ iti pā.|
5. ‘pibēt sampūjya vibudhānāśiṣaḥ samprayujya ca| pradāya yajanaṁ cāgrē tvarthibhyaḥ pr̥thivītalē’ iti pā.|
6. ‘rasadhātvādimārgāṇāṁ’ iti pā.|
7. ‘ōjaḥ pratyāhanti’ iti pā.|
8. ‘vyaktā’vyaktā ca’ iti pā.|
9. ‘madamaprāpya’ iti pā.|
10. ‘tēnēhāpi’ iti pā.|
11. ‘balam’ iti pā.|
12. ‘jīvavān lōkaḥ’ iti pā.|
13. ‘rukmāṇāṁ’ iti pā.|
14. ‘sukhapramāṇaṁ’ iti pā.|
15. ‘sahasā nāvagr̥hṇāti madyaṁ sattvabalādhikam’ iti pā.|
16. ‘…riṣṭairupētō manasaḥ’ iti pā.|
17. ‘prāṅmadyāḥ kṣutpipāsārtā’ iti pā.|
18. ‘lakṣaṇāni bhavantyasya yāni tāni nibōdha mē’ iti pā.|
19. ‘cāpi’ iti pā.|
20. ‘santataṁ’ iti pā.|
21. ‘pramōhaḥ’ iti pā.|
22. ‘vēdanā vikṣatē yathā’ iti pā.|
23. ‘pramāṇavat’ iti pā.|
24. ‘kruddhaḥ’ iti pā.|
25. ‘viṣyandanārthaṁ dōṣasya tasya’ iti pā.|
26. ‘uraḥsrōtaḥsu śuddhēṣu’ iti pā.|
27. ‘…ścirōtthitam’ iti pā.|
28. ‘snigdhai…’ iti pā.|
29. ‘rasapralēhayūṣaiśca’ iti pā.|
30. ‘bhuktē na’ iti pā.|
31. ‘madanimittā antardāhādayaḥ’ iti pā.|
32. ‘madyaṁ’ iti pā.|
33. ‘tr̥ḍvidāhānvitasya ca’ iti pā.|
34. ‘taittiraiḥ pratibhōjanam’ iti pā.|
35. ‘nō hanyatē’ iti, ‘nōdvasyatē’ iti ca pā.|
36. ‘śītamathāmbu vā’ iti pā.|
37. ‘mudgadāḍimalājānāṁ’ iti pā.|
38. ‘śītāni sadanāni ca’ iti pā.|
39. ‘saṁsparśāścandanārdrāṇāṁ strīṇāṁ pittamadātyayē’ iti pā.|
40. ‘citrāḥ’ iti pā.|
41. ‘karmaṇā’nēna siddhēna vikāra upaśāmyati’ iti pā.|
42. ‘pāyayēdbahumākṣikam’ iti pā.|
43. ‘rūkṣaṁ tarpaṇasaṁyuktaṁ yavānnaṁ vā pradāpayēt’ iti pā.|
44. ‘nīrasavartitam’ iti pā.|
45. ‘rōcanadīpanam’ iti pā.|
46. ‘guḍēna madhuśuktēna vyaktāmlamadhurīkr̥tān’ iti pā.|
47. ‘rūkṣāmlēnānnapānēna’ iti pā.|
48. ‘snānavarṇakavāsānāṁ’ iti pā.|
49. ‘dhvaṁsō vikṣēpakaścaiva’ iti pā.|
50. ‘yē ca’ iti pā.|