ebooks-esamhita-ecaraka-cikitsasthana-grahanidosha-cikitsa

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

चिकित्सास्थानम् - १५. ग्रहणीदोषचिकित्सितम्

 


अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||


अर्शःकार्यत्वाद्ग्रहणीदोषस्य अर्शश्चिकित्सितमनु ग्रहणीचिकित्सितं ब्रूते| ग्रहणीमाश्रितोऽग्निदोषो ग्रहणीदोषः, एवं चाश्रयाश्रयिणोरभेदोपचाराद् ग्रहणीदोषशब्देन ग्रहण्याश्रितोऽग्निदोषोऽपि गृह्यते||१-२||

आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|
ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३||
शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|
रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४||


तत्र ग्रहणीदोषनिर्दिष्टाग्निदोषे वक्तव्ये प्रकृतिज्ञानानन्तरत्वाद्विकृतिज्ञानस्य प्रथमं तावदविकृतस्याग्ने रूपमाह- आयुरित्यादि| आयुः चेतनानुवृत्तिः| वर्णः गौरादिः| बलं शक्तिः व्यायामाद्यनुमेया| स्वास्थ्यशब्देनैव वर्णादिग्रहणं यद्यपि लभ्यते, तथाऽपि “स्वस्थस्यौजस्करं यत्तु तद्वृष्यं तद्रसायनम्” (चि.अ.१,पा.१) इति [१] ; तेन वर्णादीनामविकारत्वं नावश्यं स्वस्थे भवतीति वर्णादीनां पृथगुपादानं कृतम्| उत्साहः दुष्करेष्वपि कार्येष्वध्यवसायः, उपचयः देहपुष्टिः| ओजः हृदयस्थं सर्वधातुसाररूपम्| तेजः देहोष्मा शुक्रं वा; यदुक्तं शालाक्ये- “दृष्टिस्तेजोमयी प्रोक्ता शुक्रं तेजश्च केवलम्| तस्माद्दृष्टिबलापेक्षी तेजोवृद्धिं समाचरेत्” इति| अग्नय इति भूताग्नयः पञ्च, धात्वग्नयः सप्त, इति द्वादशाग्नयः| प्राणा इति प्राणापानोपलक्षिताः पञ्चापि वायवः; किंवा प्राणवायुरेव ‘प्राणाः’ इति शब्देन नित्यं बहुवचनान्तेनोच्यते; यथा- अप्सरस्शब्देन एकाऽपि विद्याधरी कीर्त्यते| देहाग्निहेतुका इति देहपोषकप्रधानजाठराग्निकारणकाः| शान्ते इत्युत्सन्ने| युक्ते इति समे| विकृते इति मन्दे विषमे तीक्ष्णे वा| मूलमग्निस्तस्मादिति तस्मात् प्राशस्त्यादन्वयव्यतिरेकविधानादायुर्वर्णादीनामग्निर्मूलं प्रधानं कारणमित्यर्थः| निरुच्यते इति निश्चयेनोच्यते||३-४||

यदन्नं देहधात्वोजोबलवर्णादिपोषकम्|
तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः||५||


सामान्यकारणमुक्त्वा, अग्नेः साक्षात्कारणत्वं [२] व्युत्पादयन्नाह- यदन्नमित्यादि| बाह्या अपि गैरिकादयो धातुशब्देनोच्यन्ते इति तद्व्यवच्छेदार्थं धातोर्देहविशेषणम्| अथाहोरात्रजन्येषु देहधात्वादिषु कथमग्नेः कारणत्वमित्याह- आहारादिति- एतेनाहारमप्यपेक्ष्यैव [३] रसादीञ्जनयति| आदिग्रहणेन रक्तादीनि सङ्गृह्यन्ते||५||

अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति|
तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्||६||
समानेनावधूतोऽग्निरुदर्यः [४] पवनोद्वहः|
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये||७||
एवं रसमलायान्नमाशयस्थमधः स्थितः|
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्||८||


सम्प्रति सम्प्राप्तस्यान्नस्याग्निना यथा पाको भवति, यथा च पच्यमानमन्नं देहधात्वादिरूपतामापद्यते, तदाह- अन्नमित्यादि| मुखप्रवेशादारभ्यान्नस्य व्यापार इहोच्यते| आदानमाहारप्रणयनं [५] कर्म यस्य स तथा, प्रकर्षतीति नयति| द्रवैरिति पानीयादिभिः [६] | भिन्नसङ्घातमिति अवयवशैथिल्यमापन्नम्| काले इति बुभुक्षाकाले| भुक्तं सममिति मात्राप्रकृत्यादिसमम्| समानेनावधूत इति अग्निपार्श्वस्थितेन समानेन सन्धुक्षितः, अयं च समानः प्राकृतत्वाद् बाह्यो वायुरिव अग्नेः सन्धुक्षणो भवति न वैषम्यकरः, विकृतस्तु वैषम्यं करोति; तेन वातेन विषमोऽग्निर्भवतीति चोपपन्नं भवति| एते च द्रवादयः पाचकस्याग्नेः सहाया भवन्तीत्यनेन ग्रन्थेनोच्यते; “आहारपरिणामकरास्त्विमे भावा भवन्ति; तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्च” (शा.अ.६) इति| उदर्यः पाचक इत्यर्थः| ‘पवनोद्वह’ इत्यग्निविशेषणं केचित् पठन्ति| सम्यगिति भुक्तविशेषणं केचित् पठन्ति; तदा सम्यगित्यनेन मात्रासाम्यमुच्यते| सम्यग्ग्रहणेन तु प्रकृत्यादिसम्पदुच्यते| आयुर्विवृद्धये इति शरीरेन्द्रियसत्त्वात्मसंयोगानुवर्तनाय तद्विवृद्धये च| रसमलायेति तादर्थ्ये चतुर्थी| आशयस्थमिति आमाशयस्थम्| अधःस्थित इत्यनेन अग्नेरूर्ध्वज्वलनस्वभावतया ऊर्ध्वस्थान्नपाके सामर्थ्यं सूचयति| अत्रार्थे यथेत्यादिना दृष्टान्तमाह||६-८||

अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः|
मधुराद्यात् कफो भावात् फेनभूत [७] उदीर्यते||९||
परं तु पच्यमानस्य विदग्धस्याम्लभावतः|
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०||
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना|
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||


एवं स्थूलपाकक्रममभिधाय, अवान्तरमणुपाकक्रममाह- अन्नस्येत्यादि| भुक्तमात्रस्येति भुक्तानन्तरमेव| षड्रसस्येति प्राशस्त्येनाभिधानं, किंवा षड्रसस्यापि प्रथमं मधुरता निरुक्ता भवतीति दर्शयति| प्रपाकत इति प्रथमपाकतः; प्रशब्द आदिकर्मणि| मधुरश्चासौ आद्यश्चेति मधुराद्यः; किंवा ‘मधुरात् प्राक् कफो भावात्’ इति पाठः| फेनभूत इति फेनसदृशोऽघन इत्यर्थः| परमिति आद्यमधुरपाकानन्तरम्| विदग्धस्येति पक्वापक्वस्य| अम्लभावा इति जाताम्लस्वरूपतः| आशयात् आमाशयात्| च्यवमानस्य अधोभागं वायुना नीयमानस्य, अनेन च पित्तस्थानसम्बन्धं विदग्धाहारस्य दर्शयति| अच्छमिति अघनम्| उदीर्यते इति पित्तमुत्पद्यते; अम्लं च पित्तमम्लभावादाहारस्य उत्पद्यत इति युक्तमेव| पक्वाशयं तु प्राप्तस्येति मलरूपतया पक्वाशयं गतस्य| शोष्यमाणस्य वह्निनेति यद्यप्यूर्ध्वदाहक्षमो वह्निः, तथाऽप्यस्याधोगतस्य वह्निना शोष्यमाणत्वं पक्वाशयगतस्याप्युपपन्नम्| यतश्चाधोगमने सम्यग्वह्निव्यापारो नास्ति, अतः ‘पच्यमानस्य’ इति पदं परित्यज्य ‘शोष्यमाणस्य’ इति कृतम्| परिपिण्डितपक्वस्येति परिपिण्डितरूपतया मलरूपतया पक्वस्य| वायुः स्यात् कटुभावत इति परिपिण्डितावस्थोद्भूतकटुता वायोरुत्पद्यते| एवमीदृशः षड्रसाहारस्यावस्थापाको भवति| ननु यद्यत्रावस्थापाकवशात् षण्णामेव रसानां कफादिकर्तृत्वमुच्यते, तदा “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः” (सू.अ.२६) इत्यादिना यो विपाक उच्यते स विरुध्यते, अवस्थापाकेनैव बाधितत्वात्; मैवं, नह्यवस्थापाकोऽयं रसस्वभावं निष्ठापाकं बाधते, किन्त्ववस्थायां स्वकार्यं करोति; तेन रसादयोऽपि स्वकार्यं कुर्वन्ति, अवस्थापाकोऽपि स्वकीयं कार्यं करोति; यथा- मधुरतिक्तादिषड्रसेऽन्ने उपयुक्ते मधुरोऽपि स्वकार्यं करोति, तिक्तादयश्च स्वकार्यं कुर्वन्ति; अयं तु विशेषः- यन्मधुराख्यस्यावस्थापाकस्य मधुरादयः श्लेष्मजनका रसा अनुगुणा भवन्ति तदा स बहुश्लेष्माणं जनयति, यदा त्ववस्थापाको विपरीतकटुकादिपरिगृहीतो भवति तदा स्तोकमात्रं कफं जनयति; एवं पित्तजनकेऽवस्थापाकेऽपि वाच्यम्| “कटुतिक्तकषायाणां” (सू.अ.२६) इत्यादिनोक्तस्त्रिधा विपाकस्तु रसमलविवेकसमकालो भिन्नकाल एवावस्थापाकैः सममिति न विरोधः| स च भिन्नकालोऽप्यवस्थापाककार्यदोषानुगुणतयाऽननुगुणतया वा अवस्थापाकाहितदोषाणां वर्धनं क्षपणं वा करोतीति तस्याभिधानं शास्त्रे प्रयोजनवदेव| यद्यपि सर्वमन्नमवस्थायां विदह्यते, तथाऽपि येऽत्यर्थं विदाहिनस्त एव ‘विदाहिनः’ इत्युच्यन्ते, विशेषविदाहकर्तृत्वात्| अन्ये त्वाहुः- न षड्रसादप्यन्नात् सामान्येनावस्थापाके कफाद्युत्पत्तिः, किन्तु षड्रसादप्यन्नात् प्रथमे पाके मधुरोऽयमुद्भूतो रसः स कफं जनयति, तथा पित्तं विदाहावस्थायामुद्भूतादम्लरसादुत्पद्यते, एवं वायुरपि आहारकटुतावस्थायां भवतीति| अन्ये त्वाहुः- यत्- नान्नस्याग्निसंयोगान्मधुराद्यावस्थिकं भवति, किन्तु कफादिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति, ते चान्नं स्वस्वभावं नीत्वा कफादीञ्जनयन्ति| उक्तं हि तन्त्रान्तरे- “मधुरो हृदयादूर्ध्वं रसः कोष्ठे व्यवस्थितः| ततः संवर्धते श्लेष्मा शरीरबलवर्धनः|| नाभीहृदयमध्ये च रसस्त्वम्लो व्यवस्थितः| स्वभावेन मनुष्याणां ततः पित्तं विवर्धते|| अधो नाभ्यास्तु खल्वेकः कटुकोऽवस्थितो रसः| प्रायः श्रेष्ठतमस्तत्र प्राणिनां वर्धतेऽनिलः|| तस्माद्विपाकस्त्रिविधो रसानां नात्र संशयः” इति| इह तु तत्रेत्यादिग्रन्थार्थालोचनया यथोक्त एव ग्रन्थार्थो न्याय्यः| तन्त्रान्तरे तु श्लेष्मपित्तगतमधुराम्लरसौ वर्णयन्ति, ते कफाद्यधिगता रसा अस्माकमपि पाकसहकारितया अनुमता एव| यत्तु श्लेष्मजनकांशस्यैवावस्थापाके श्लेष्मकर्तृत्वमित्युक्तं, तदनुमतमेव; एवं यः श्लेष्मजनकोंऽश आहारगतः स स्थानमहिम्ना तदाहारस्य मधुरतामापाद्य श्लेष्माणं विशेषेण जनयतीति ब्रूमः| यत्तु, अनेनावस्थापाकेन कफपित्तयोरीरणमात्रं क्रियते नतु वृद्धिः, वृद्धिः निष्ठापाके एव भवतीति वदन्ति, तदुपपत्तिशून्यं भाति; किञ्च, अवस्थापाकात् कफपित्तयोर्वृद्धिः, तथा निष्ठापाकाच्च मलरूपतया उत्पाद इति युक्तं पश्यामः||९-११||

अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः [८] पृथक्|
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि [९] च||१२||


कर्मान्तरेणाप्यन्नस्य पाकः सम्पद्यते, तमाह- अन्नमित्यादि| अन्नमिष्टं ह्युपहितमिति हिशब्दोऽवधारणे; इष्टशब्देनेह प्रियं हितं चोच्यते न प्रियमात्रम्, अहितस्य प्रियमात्रस्य न देहव्यवस्थितिः गन्धादितर्पकत्वं च भवति; उपहितमिति उपयुक्तम्| इष्टैरिति प्रियहितैः गन्धरसरूपस्पर्शशब्दैः| अत्र यद्यपि हितत्वमेव गन्धादीनामाहारगतानां देहगतगन्धादिपोषणे प्रधानं, तथाऽपि प्रियत्वमप्याहारगतगन्धादीनां तदात्वोपकारकतया ग्रहीतुं प्रियत्वहितत्वयोर्द्वयोरप्युपादानं कृतम्| देहे प्रीणाति गन्धादीनिति देहश्रितान् गन्धादीन् पोषयति| तथा घ्राणादीनि च घ्राणदर्शनरसनस्पर्शनश्रोत्राणि इष्टैर्गन्धादिभिः प्रीणाति तर्पयति, पोषयतीति यावत्| इन्द्रियाण्यपि हि पाञ्चभौतिकान्यस्मद्दर्शने; तानि च प्रतिक्षणं क्षीयमाणानि||१२||

भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि||१३||


भौतिकवह्निव्यापारमाह- भौमेत्यादि| भौमादयः पञ्चोष्माणः पार्थिवादिद्रव्यव्यवस्थिता जाठराग्निसन्धुक्षितबला अन्तरीयं द्रव्यं पचन्तः स्वान् स्वान् पार्थिवादीन् पूर्वपार्थिवगन्धत्वाद्यविलक्षणान् गुणान् निर्वर्तयन्ति| एतदेव “विविधमशितपीतलीढखादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं” (सू.अ.२८) इत्यादिना सूत्रास्थानेऽप्युक्तम्| यद्यपि भूताग्निना पार्थिवादिद्रव्यं पच्यते, तथाऽपि पार्थिवादिद्रव्याणां पाकेनैतदेव जननं यद्विशिष्टगुणयुक्तत्वं, तेन पाकेन जन्यमानेऽपि द्रव्ये गुणा एव जन्यन्त इत्यभिप्रायेण पार्थिवादीनाहारगुणाञ्जनयन्तीत्युच्यते| अनेन गुणजननमेवाग्निनोच्यते; न द्रव्यजननम्| किंवा आहाराश्च गुणाश्चेति विग्रहादाहारशब्देन आहाराधिकरणरूपं द्रव्यमपि गृह्यते| पार्थिवादीनिति पार्थिवाप्यतैजसवायवीयनाभसान्| तत्र जाठराग्निः सर्वानेवाहाररसमलविपाकान् पचति, भौतिकास्त्वग्नयः स्वान् स्वान् गुणाञ्जनयन्ति| उक्तं च- “जाठरेणाग्निना पूर्वं कृते सङ्घातभेदे पश्चाद्भूताग्नयः पञ्च स्वं स्वं द्रव्यं पचन्ति” इति| अयं च भूताग्निव्यापारो धातुष्वप्यस्ति, यतो धातुष्वपि पञ्चभूतानि सन्ति, तत्रापि धात्वग्निव्यापारो भूताग्निव्यापारश्च जाठराग्निक्रमेणैवोक्तो ज्ञेयः||१३||

यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणाः पृथक्|
पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः||१४||


अग्निपक्वानाहारगुणानाह- यथास्वमित्यादि| यथास्वमिति यद्यस्यात्मीयं; सजातीया द्रव्यगुणा सजातीयान् द्रव्यगुणान् पुष्णन्ति| तेन द्रव्याणि पार्थिवादिद्रव्यरूपाणि देहधातुदोषमलाख्यानि पुष्णन्ति, गुणास्तु पाकस्थितगन्धस्नेहौष्ण्यगौरवादयः देहगन्धस्नेहौष्ण्यगौरवादीन् पुष्णन्ति| यथास्वमित्यादिशब्दार्थं स्फोरयति- पार्थिवा इत्यादि| पार्थिवा आहारद्रव्यगुणा देहगतान् पार्थिवानेव द्रव्यगुणान् पुष्णन्ति| आहारद्रव्यगुणा इत्यत्र द्रव्यगतगुणा एव उच्यन्ते| द्रव्यपोषणं तु गुणपोषणेन लभ्यते, गुणपोषणं द्रव्यपोषणमन्तरा कर्तुमशक्यत्वात्||१४||

सप्तभिर्देहधातारो धातवो द्विविधं पुनः|
यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् [१०] ||१५||


भूताग्निव्यापारं दर्शयित्वा धात्वग्निव्यापारं दर्शयन्नाह- सप्तभिरित्यादि| देहधातार इति विशेषेण देहधारकाः| द्विविधमिति द्विप्रकारं पाकम्| तदेव प्रकारद्वयमाह- किट्टप्रसादवदिति; किट्टप्रसादरूपमित्यर्थः| शुक्रस्य यद्यपि किट्टवान् पाको न भवति, तथाऽपि बहूनां किट्टवत्त्वाद् द्विविधमिति निर्देशश्छत्रिणो गच्छन्तीति न्यायाज्ज्ञेयः| पुनरिति जाठराग्निपाकानन्तरम्||१५||

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च|
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः||१६||


पाकजन्यानां रसादीनामुत्पादं क्रमेणाह- रसादित्यादि| रसाद्रक्तं प्रसादजं, ततो रक्तान्मांसं प्रसादजं, मांसान्मेदः प्रसादजमित्यादि यावच्छुक्राद्गर्भः प्रसादज इति| प्रसादजशब्देन रसादिभ्यः प्रसादांशजन्या रक्तादयः, किट्टांशजन्यास्तु वक्ष्यमाणाः कफादय इति| शुक्रात्तु निर्मलतया प्रसादज एव गर्भो भवति, नतु मलजन्यं किञ्चित्| केचित्तु शुक्रमलतया श्मश्रूणि वदन्ति; तन्न, तन्त्रेऽनभिधानात्| तथा शुक्रमलं यदि श्मश्रूणि स्युस्तदा स्त्रीणामपि सशुक्रतया श्मश्रूणि भवेयुः; स्त्रियश्च सशुक्रा एव, परं तासां शुक्रं गर्भारम्भकं न भवतीत्यादि प्रतिपादितं प्राक्| अन्ये तु गर्भप्रसादजशब्देन नपुंसकेन ओजोऽभिदधति| प्रसादज इत्यत्र जातशब्दः पोषण एव वर्तते, नापूर्वोत्पादे; रक्तादयो हि गर्भात्प्रभृत्येवोत्पन्ना रसादिभिः पोष्यन्ते; रक्तादयो हि गर्भप्रभृत्येव पोष्यन्ते| तत्र च त्रिधातूत्पादे व्याख्यातारो वर्णयन्ति- तत्र रसः स्वाग्निपच्यमानो रक्ततां याति, रक्तं मांसतामित्यादि पूर्वपूर्वधातुपरिणामादुत्तरोत्तरधातूत्पादः; यथा क्षीराद्दधि भवति, दध्नो नवनीतं, नवनीताद्घृतं, घृताद् घृतमण्डः, इत्येकः पक्षः| किंवा रस एव रक्तं प्रथमं प्लावयति, तत्र च रक्तस्थानसम्बन्धाद्रक्तसादृश्यमनुभवति, रक्तं च रक्तसमानेनांशेन पोषयति; ततो रक्तमाप्लाव्य मांसमाप्लावयति, तत्रापि मांसपोषणं करोति, मांससादृश्यतामनुभवति; एवं उत्तरोत्तरधातून् रस एवाप्लावयति वर्धयति च; यथा केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां केदारीं तर्पयित्वा क्रमेण केदारिकान्तराणि आप्लावयति| किंवा आहाररसस्य उत्पन्नो भिन्नैरेव मार्गै रसरुधिरादीनि समानेनांशेन तर्पयति, तत्र च यः प्रत्यासन्नो धातुस्तत्पोषको धातुभागस्तं शीघ्रं पुष्णाति, यस्तु विदूरो धातुस्तस्य विदूरमार्गतया चिरेण पोषणं भवति, एवं भिन्नैरेव मार्गैर्धातूनां पोषणं भवति; यथा खले उत्पतितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव गच्छतां गम्यदेशस्य प्रत्यासन्नविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण च गमनं भवति, तद्वत्| इति क्षीरदधिन्याय-केदारीकुल्यान्याय-खलेकपोतन्यायात्त्रेधा धातुपोषणक्रमः| तत्रेह शब्दार्थपर्यालोचनया केदारीकुल्यान्यायः क्षीरदधिन्यायो वा सङ्गत एवः, खलेकपोतन्यायस्तु मनाग्दुर्घटः| तस्मिन् हि पक्षे रसाद्रक्तं प्रसादजमित्यर्थव्युत्पादनं दुःशकं, प्रपञ्चितं चैतद्विविधाशितपीतीये, तत्रैवानुसरणीयः प्रपञ्चः| ननु, विविधाशितपीतीये आहाररसाद्रसादिपुष्टिरुक्ता “पुष्यन्ति त्वाहाररसाद्रसरुधिर” (सू.अ.२८) इत्यादिना; तत्र रसद्वयं स्वीकृतम्, इह त्वेक एव रक्तपोषको रस इति कथं न विरोधः? मैवं, तत्रापि आहाररसशब्देन आहारजः प्रसादोऽभिधीयते, स च रसग्रहणगृहीत एव| यतो द्विविधो रसः- स्थायी, पोषकश्चेति; तेन तत्र धातुपोषकपोष्यरसांशयोर्भेदविवक्षया भेद उक्तः; इह स्थायीपोषकरसांशावप्येकतया निर्दिष्टौ, स्थायिरसपोषकरसभागयोः स्थानभेदाद्यभावादेकत्वम्; एवं कृत्वा सप्तधातुकं शरीरमुच्यते| एतदपि विविधाशितपीतीये एव प्रपञ्चितम्||१६||

रसात् स्तन्यं ततो [११] रक्तमसृजः कण्डराः सिराः|
मांसाद्वसा त्वचः षट् च मेदसः स्नायुसम्भवः [१२] ||१७||


धातूनां पोषणमभिधायोपधातुपोषणमाह- रसात् स्तन्यमित्यादि| रसात् स्तन्यं प्रसादजं, तथा रक्तमपि रजःसञ्ज्ञं रसादेव प्रसादभागजन्यम्; उक्तं च सुश्रुते- “रसादेव स्त्रिया रक्तं रजःसञ्ज्ञं प्रवर्तते” (सु.सू.अ.१४) इति| एतच्च रजो रसजन्यमपि सूक्ष्मतया चिरेणैव जायते; यदुक्तं सुश्रुते- “एवं मासेन रसः शुक्रभवति, स्त्रीणां चार्तवम्” (सु.सू.अ.१४) इति| अस्रजः कण्डराः स्थूल स्नायवः, मेदसस्तु सूक्ष्मस्नायुपोषणं ‘मेदसः स्नायुसम्भवः’ इत्यनेन वक्तव्यम्| इह हि कण्डराशब्देन स्थूलस्नायुरुच्यते, सुश्रुते तु स्थूलसिरा| ते च स्तन्यादयो धात्वन्तरापोषणाच्छरीरपोषका अप्युपधातुशब्देनोच्यन्ते, रसादयस्तु शरीरधारकतया धात्वन्तरपोषकतया च धातुशब्देनोच्यन्ते; उक्तं च भोजे- “सिरास्नायुरजःस्तन्यत्वचो गतिविवर्जिताः| धातुभ्यश्चोपजायन्ते तस्मात्त उपधातवः” इति| अत्रापि हि ‘धातुभ्यश्चोपजायन्ते’ इत्यनेन जायन्त एव, परं न जनयन्तीत्युक्तम्| शुक्रं तु ओजोजनकत्वाद् धात्वन्तर्गतमेव| ओजस्तु इह न धातुषु नाप्युपधातुषु पठितं, तस्य सप्तधातुसाररूपतया सप्तधात्वन्तरगतत्वादेव, अत एव तस्याग्निरपि पृथङ्नोक्तः||१७||

किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः|
पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः||१८||
स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम्|
प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छतः [१३] ||१९||
परस्परोपसंस्तब्धा धातुस्नेहपरम्परा [१४] |२०|


प्रसादभागोत्पादमभिधाय मलभागोत्पादमाह- किट्टमित्यादि| रसस्य कफ इति रसे पच्यमाने किट्टं कफो भवति, प्रसादश्च रक्तं; एवं रक्तादिमलेऽपि ज्ञेयम्| मांसस्य खमला इति कर्णाक्षिनासास्यप्रजननमलाः| मलः स्वेदस्तु मेदस इति स्वेदो यद्यपि उदकविशेष एव उक्तस्तथाऽपि तस्य मेदोमलत्वेनैवोत्पतिः; किंवा, उदकादपि स्वेदो भवति मेदोमलतया च भवति, यथा- कफोऽवस्थापाकाद् रसमलतया च भवति| अस्थिमलं नखोऽपि सुश्रुतप्रामाण्यादुन्नेयः| तत्र हि “नखलोम च” (सु.सू.अ.४६) इत्यनेनास्थिमलत्वं नखस्योक्तम्| उक्तं च विविधाशितपीतीये- “किट्टात् केशनखादयः पुष्यन्ति” (सू.अ.२८) इति; किन्तु शारीरेऽस्थिगणनायां “विंशतिर्नखा” (शा.अ.७) इत्यनेनास्थित्वेन प्रोक्ताः| एवमुक्तेन क्रमेण प्रसादकिट्टे द्विधा ऋच्छतो भवत इत्यर्थः| सम्प्रति पोष्येणापि रक्तेन रसस्याप्यायनं क्रियते, तथा मांसेनापि रक्तस्येत्यादि परस्परं धातूनामुत्पादकत्वमाह- परस्परेत्यादि| धातुस्नेहपरम्परा परस्परोपसंस्तब्धेति अन्योन्यमुपस्नेहेन संस्तब्धत्वात् सन्तर्पितेति यावत्||१८-१९||-

वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि||२०||
षड्भिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम्|
सन्तत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत्||२१||
(इत्युक्तवन्तमाचार्यं [१५] शिष्यस्त्विदमचोदयत्|
रसाद्रक्तं विसदृशात् [१६] कथं देहेऽभिजायते||२२||
रसस्य च न रागोऽस्ति स कथं याति रक्तताम्|
द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम्||२३||
द्रवधातोः [१७] स्थिरान्मांसान्मेदसः सम्भवः कथम्|
श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु||२४||
खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा|
मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते||२५||
सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिणः|
तथाऽस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम्||२६||
छिद्रं न दृश्यतेऽस्थ्नां च तन्निःसरति वा कथम्|
एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्||२७||
तेजो रसानां सर्वेषां मनुजानां यदुच्यते|
पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति||२८||
वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम्|
स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव तत् [१८] ||२९||
स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते|
पृथिव्यग्न्यनिलादीनां सङ्घातः स्वोष्मणा [१९] कृतः||३०||
खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्|
करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः||३१||
मेदसस्तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः|
तस्मान्मज्ज्ञस्तु यः स्नेहः शुक्रं सञ्जायते ततः||३२||
वाय्वाकाशादिभिर्भावैः सौषिर्यं जायतेऽस्थिषु|
तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदकम्||३३||
स्रोतोभिः स्यन्दते देहात् समन्ताच्छुक्रवाहिभिः [२०] |
हर्षेणोदीरितं वेगात् सङ्कल्पाच्च मनोभवात्||३४||
विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम्|
बस्तौ सम्भृत्य निर्याति स्थलान्निम्नादिवोदकम्)||३५||


वृष्यादिद्रव्याणां धातुपरम्पराक्रमेण शुक्रजननादिकार्यं निषेधयन्नाह- वृष्यादीनामित्यादि| आदिशब्देन बल्यभेदनादीनि ग्राहयति| वृष्यादीनां क्षीरादिद्रव्याणां प्रभावो बलं शीघ्रं पुष्णाति, ततस्ते क्षीरादयः प्रभाववर्धितबलाः शीघ्रमेवान्नकार्यं शुक्रजननादि कुर्वन्ति, न यथोक्तधातुक्रमेणेत्यर्थः| किंवा वृष्यादीनां क्षीरादिद्रव्याणां यः प्रभावः स आशु बलं पुष्णाति स्वजन्यानां शुक्रादीनामित्यर्थः; हिशब्दोऽवधारणे; एवं वृष्यादीनां प्रभावाच्छुक्राद्युत्पत्तिः शीघ्रं भवति| अथोत्सर्गतः कियता कालेन धातुपरिवृत्तिर्भवतीत्याह- षड्भिरित्यादि| षड्भिरहोरात्रै रसस्य शुक्ररूपतया परिवर्तनं भवतीति केचिदिच्छन्ति| तत्रोत्पन्नो रसो रक्तमेकेनाहोरात्रेण याति, एवं रसोत्पत्तिदिनं परित्यज्य षडहेन शुक्रता भवति; यदा तु रसोत्पत्तिदिनमपि प्रक्षिप्यते तदा षड्भिर्दिनैरतिक्रान्तैः सप्तमे शुक्रभावतया परिवर्तनं भवतीति ज्ञेयम्| उक्तं हि पराशरे- “आहारोऽद्यतनः श्वो हि रसत्वं गच्छति नृणाम्| शोणितत्वं तृतीयेऽह्नि, चतुर्थे मांसतामपि|| मेदस्त्वं पञ्चमे, षष्ठे त्वस्थित्वं, सप्तमे त्वियात्| मज्जतां, शुक्रतां याति नियमादष्टमे नृणाम्” इति| एवदप्युपयोगदिनं सम्पूर्णं परित्यज्यैव व्याख्यातव्यमित्याहुः| किञ्च रसधातोः रक्तधातुरूपतया च परिणमनं यत्तदपि षष्ठदिननिर्वर्त्यमेवेति| यदुक्तं सुश्रुते- “स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासह स्राण्यवतिष्ठति दश च कलाः, एवं मासेन रसः शुक्रीभवति” (सु.सू.अ.१४) इति| तेनैतत्पक्षद्वयमपि केचिदित्यादिना दर्शयति| स्वमतमाह- सन्तत्येत्यादि| भोज्ये उपयुक्ते सति धातूनां रसादीनां चक्रवत् परिवृत्तिर्भवति अविश्रान्ता समुत्पत्तिर्धातूनां भवति| चक्रदृष्टान्तेन तु परिवृत्तिकालानियमं दर्शयति; यथा चक्रं पानीयोद्धारणार्थं नियुक्तं बाह्यमानं बाहुबलप्रकर्षात् कदाचिदाश्वेव परिवर्तते, कदाचिद् बाहुबलमान्द्याच्चिरेण; एवं धातवोऽपि अग्न्यादिसौष्ठवाच्छीघ्रमेव परिवर्तन्ते, अग्न्यादिवैगुण्ये चिरेण परिवर्तन्ते इति; एवं सुश्रुतेनापि “शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येव शरीरं केवलम्” (सु.सू.अ.१४) इत्यत्र दृष्टान्तत्रयेण रसपरिणामोऽपि अग्न्यादिभेदेन प्रकृष्टाप्रकृष्टकालज उक्त एव| तत्र हि जलसन्तानदृष्टान्तेन चिरेण मासपर्यन्तेन शुक्रतापत्ती रसस्योक्ता, शब्दसन्तानदृष्टान्तेन तु नातिशीघ्रं नातिचिराच्च शुक्रोत्पत्तिरुक्ता, अर्चिःसन्तानदृष्टान्तेन त्वतिशीघ्रं शुक्रोत्पत्तिरुक्ता| तथाऽन्यत्राप्युक्तं- “केचिदाहुरहोरात्रात्, षड्रात्रादपरे, परे| मासेन याति शुक्रत्वमन्नं पाकक्रमादिति”| तदेतत् सकलं चक्रदृष्टान्तेन गृहीतं ज्ञेयम्||२०-३५||

व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा|
युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा||३६||
क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः|
करोति [२१] विकृतिं तत्र खे वर्षमिव तोयदः||३७||
दोषाणामपि चैवं स्यादेकदेशप्रकोपणम् [२२] |३८|


अथ कोऽन्नरसं रक्तादिधातुपोषकं प्रेरयति; येन तत्र तत्र रसः सर्पतीत्याह- व्यानेनेत्यादि| रसरूपो धातुः, किंवा रसतीति रसो द्रवधातुरुच्यते, तेन रुधिरादीनामपि द्रवाणां ग्रहणं भवति; विक्षेपः उचितं प्राकृतं कर्म यस्य स विक्षेपोचितकर्मा; तेन व्यानेन, युगपदिति एककालं, सर्वत इति सर्वस्मिन् देहे, विक्षिप्यते इति नीयते, अजस्रमिति अविश्रान्तं विक्षिप्यते, सदेति सर्वकालम्| नन्वेवं सर्वत्र रसविक्षेपे कथमेकदेशे रसादौ विकाराश्रयो दृश्यत इत्याह- क्षिप्यमाण इत्यादि| खवैगुण्यादिति स्रोतोवैगुण्यात्| सज्जतीति तिष्ठति| विकारं कुरुते इति रसाश्रयिविकारं कुरुते; रसोऽपि हि विकारकरणे आश्रयतया व्याप्रियते, तेनेह तस्य कर्तृत्वं युक्तम्| खे वर्षमिव तोयद इति यथा चण्डेन वायुना नीयमानो मेघो यत्र सक्तो भवति तत्रैव वर्षं करोति, तथा रसोऽपीत्यर्थः| यथा रस एकदेशे विकारं करोति, एवं दोषा अप्येकदेशविकारं कुर्वन्तीत्याह- दोषाणामित्यादि| सुश्रुतोऽप्याह- “कुपितानां हि दोषाणां शरीरे परिधावताम्| यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते” (सु.सू.अ.२४) इति||३६-३७||-

इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम्||३८||
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मतः|
तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः||३९||
तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः|
पालयेत् प्रयतस्तस्य स्थितौ ह्ययुर्बलस्थितिः||४०||
यो हि भुङ्क्ते विधिं त्याक्त्वा ग्रहणीदोषजान् गदान्|
स लौल्याल्लभते शीघ्रं, वक्ष्यन्तेऽतः परं तु ते||४१||


उक्तमग्नीनां कर्म उपसंहरति- इति भौतिकेत्यादि| भौतिकाः पञ्च, धात्वग्नयः सप्त, अन्नपक्तैकः| अत्र च यान्यग्न्यन्तराणि उपधातुमलादिगतानि तान्यप्यवरुद्धानि भूताग्निष्वेव; किंवा, अप्राधान्यादन्यान्यकिञ्चित्कराणि नोक्तानि| सर्वाग्निषु जाठराग्नेः प्राधान्यमाह- अन्नस्येत्यादि| प्राधान्ये हेतुमाह- तन्मूला इत्यादि| तन्मूलत्वे हेतुगर्भविशेषणमाह- तद्वृद्धीत्यादि| तस्य जाठराग्नेः वृद्ध्या वृद्ध्यात्मकाः क्षयेण च क्षयात्मका यस्मादिहाग्नयस्तस्मादन्वयव्यतिरेकार्थविधायित्वात्तन्मूला इत्यर्थः| यतश्चायमन्तरग्निर्मूलं सर्वत्र तस्मात्तं पालयेदिति योज्यम्| विधिवद्युक्तैरित्यत्र आहारविधियोगादुपयुक्तैः| आयुर्बलस्थितिरिति अन्नपाचकाग्निस्थितौ आयुर्बलस्थित्या अन्येऽप्यतिप्रेया वर्णादयो लक्षणीयाः| विपर्यये दोषमाह- यो हीत्यादि| ग्रहणीदोषजानिति ग्रहण्याश्रितदोषजान्| एतेन वक्ष्यमाणलक्षणाश्चत्वारो ग्रहणीविकारा विशेषेण ग्रहणीदोषशब्दवाच्या गृह्यन्ते, तथाऽग्निमान्द्याजीर्णादयश्च ग्रहण्याश्रिता रोगा गृह्यन्ते| अग्निमान्द्याजीर्णादयस्तु यद्यपि ग्रहण्याश्रितत्वेन ग्रहणीरोगा एव, तथाऽपीह ग्रहणीरूपनाडीव्यापारवैपरीत्येन ये जायन्ते त एव मुख्यग्रहणीशब्दवाच्याश्चत्वारो रोगाः| यतो ‘अधस्तु पक्वमामं वा’ इत्यादिना ग्रहणीगदसामान्यलक्षणविशिष्टमेव ग्रहणीगदं ग्रहणीप्राकृतव्यापारोपमर्देन जायमानं वक्ष्यति| वक्ष्यति च ग्रहण्या दुष्टमदुष्टं च रूपं “अपक्वं धारयत्यन्नं पक्वं सृजति पार्श्वतः| सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति” इति| न चेयं पक्वान्नविमोक्षलक्षणा दुष्टिरग्निदोषे आमाद्यजीर्णे वा| अनेन विशेषाभिधेयग्रहणीशब्दत्वं ग्रहण्याश्रितदोषजन्यग्रहणीगदस्यैवेहोच्यते; अग्निदोषाणां न विशेषाद्ग्रहणीगदत्वम्; अतिसारे यद्यपि पक्वान्नमुञ्चनमस्ति, तथाऽपि तस्य भिन्नसम्प्राप्तिकत्वात् तथा चिकित्साभेदाद् ग्रहणीदोषादन्यत्वमुक्तम्||३८-४१||

अभोजनादजीर्णातिभोजनाद्विषमाशनात्|
असात्म्यगुरुशीतातिरूक्षसन्दुष्टभोजनात्||४२||
विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात्|
देशकालर्तुवैषम्याद्वेगानां च विधारणात्||४३||
दुष्यत्यग्निः, स दुष्टोऽन्नं न तत् पचति लघ्वपि|
अपच्यमानं शुक्तत्वं यात्यन्नं विषरूपताम् [२३] ||४४||


एवं व्यवस्थिते सामान्येन ग्रहणीदोषविकारणां हेत्वादीन्याह- अभोजनादित्यादि| कालशब्देन च संवत्सरात्मकः काल उच्यते| देशवैषम्यं देशव्यापत्; सा च जनपदोद्ध्वंसनीये प्रोक्ता| ऋतुशब्देन तु शिशिराद्यृतुः| कालवैषम्येण सर्वेषामृतूनां वैषम्यं गृह्यते, ऋतुवैषम्येण द्व्येकर्तुवैषम्यमिति विशेषः| शुक्तत्वमिति अम्लताम्| विषरूपतामिति यथा विषं बहुविकारकारि भवति तथा तद्रूपताम्, अनेन सर्व एवाजीर्णभेदा अवरुद्धा ज्ञेयाः, ये तन्त्रान्तरे “आमं विदग्धं विष्टब्धं कफपित्तानिलैः क्रमात्| अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः” (सु.सू.अ.४६) इत्यनेनोक्ताः||४२-४४||

तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा|
शिरसो रुक् च मूर्च्छा च भ्रमः पृष्ठकटिग्रहः||४५||
जृम्भाऽङ्गमर्दस्तृष्णा च ज्वरश्छर्दिः प्रवाहणम्|
अरोचकोऽविपाकश्च, घोरमन्नविषं च तत्||४६||
संसृज्यमानं [२४] पित्तेन दाहं तृष्णां मुखामयान्|
जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान्||४७||
यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम्|
करोति वातसंसृष्टं वातजांश्च [२५] गदान् बहून्||४८||
मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्|
रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान्||४९||


तस्येति सामान्याजीर्णस्य लक्षणम्| विष्टम्भ इति विष्टम्भोऽप्रचलनरूपतयाऽवस्थानम्| घोरमन्नविषं च तत् पित्तेन संसृज्यमानमित्यादिना पित्तादिदुष्टस्याजीर्णस्य लक्षणमाह| एतच्च पित्तादिसंसर्गकृतं लक्षणम्, अजीर्णस्य कोष्ठमात्रगतत्वेन यक्ष्मादिविकारकरणेऽसामर्थ्योपलब्धेः| अम्लपित्तं चेति अम्लगुणोद्रिक्तं पित्तम्| अस्य तन्त्रान्तरे लक्षणमुक्तं- “अविपाकक्लमोत्क्लेदतिक्ताम्लोद्गारगौरवैः| हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं विनिर्दिशेत्” इति| यक्ष्मणस्त्रिदोषजत्वेऽपि स्रोतोऽवरोधे कफव्यापारप्राधान्यादिह कफजत्वमुक्तम्| किट्टधातुयोगेन रसशेषान्नस्य गदानाह- मूत्ररोगांश्चेत्यादि| रसादिजानित्यत्र ये रसादिजा अरुच्यादय उक्तास्ते भवन्तीति ज्ञेयम्||४५-४९||

विषमो धातुवैषम्यं करोति विषमं पचन्|
तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावकः||५०||


अजीर्णलक्षणमभिधाय अग्निदोषलक्षणमाह- विषम इत्यादि| तीक्ष्णाग्निकार्यमाह- तीक्ष्णमित्यादि| अत्र मन्देन्धन इत्यनेन तीक्ष्णोऽपि यदि शुचीन्धनो भवति तदा धातुपोषणं भवतीति दर्शयति||५०||

युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन्|५१|


अग्निप्रसङ्गात् समाग्नेः कार्यमाह- युक्तमित्यादि| युक्त इति समः| युक्तमन्नं पचन् धातुसाम्यं करोतीत्यर्थः| समशब्देन समानो वायुरग्निसहायो गृह्यते| किंवा युक्तवायुतया धातुसाम्यं करोति, युक्तशब्देन च कफपित्तसाम्यमग्नौ गृह्यते| यतः “समः समैः” (वा.सू.अ.१) इति वचनेन दोषाणां समत्वेनैव समाग्नित्वमुक्तम्|५१|

दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा||५१||
अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः|
उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते||५२||
अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते|
तृष्णारोचकवैरस्यप्रसेकतमकान्वितः||५३||
शूनपादकरः सास्थिपर्वरुक् छर्दनं ज्वरः|
लोहामगन्धिस्तिक्ताम्ल [२६] उद्गारश्चास्य जायते||५४||


मन्दाग्निव्यापारमाह- दुर्बल इत्यादि| उक्तविकारेषु प्रधानत्वेन अध्यायप्रकृतं ग्रहणीदोषविकारं निर्धारयन्नाह- अधस्त्वित्यादि| पक्वमामं वेति वाशब्दः समुच्चये; तेन किञ्चित्पक्वं किञ्चिदपक्वं च| कुतः पक्वापक्वं सृजतीत्याह- सर्वमेवान्नं प्रयो ह्यस्य विदह्यते इति; पक्वापक्वं भवति| अतिसृष्टमिति विमुक्तम्| तम एव तमकः||५१-५४||

पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः|
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम्||५५||


पूर्वरूपे विदाहोऽन्नस्येति विशिष्टो दाहो विदाहः||५५||

अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता|
नाभेरुपर्यह्यग्निबलेनोपष्टब्धोपबृंहिता [२७] ||५६||
अपक्वं धारत्यन्नं पक्वं सृजति पार्श्वतः|
दुर्बलाग्निबला दुष्टा [२८] त्वाममेव विमुञ्चति||५७||


सम्प्रति ग्रहणीदोषस्य सुखप्रतिपत्त्यर्थं ग्रहण्याः स्वरूपं प्राकृतं कर्म चाह- अग्न्यधिष्ठानमित्यादि| अग्न्यधिष्ठानम् अग्नेराश्रय इत्यर्थः| ग्रहणीसञ्ज्ञानिमित्तमाह- अन्नस्येत्यादि| ग्रहणादिति धारणात्, नाभेरुपर्यन्नस्य धारणादित्यर्थः| किंवा नाभेरुपरि अग्नेरूर्ध्वज्वलनेन बलेनोपस्तम्भिता उपबृंहिता च सति अपक्वमन्नं धारयति, पक्वं च पार्श्वतः सृजतीति वामपार्श्वतः सृजति; यतः ग्रहणीगुदौ वामपार्श्वाश्रयौ, तेन वामे पार्श्वे पक्वं सृजतीति युक्तम्| उपस्तम्भिता इति अग्निना पित्तव्यापारकरणेन अनुकूलिता, उपबृंहितेति अग्निना बृंहणव्यापारकरणेन सशक्तीकृता; किंवा उपस्तम्भत्वेन उपबृंहिता, अत्र पक्षे उपस्तम्भसाधारण्यं ग्रहण्या आह| ग्रहण्याः प्राकृतं कर्माभिधाय वैकृतं कर्माह- दुर्बलेत्यादि| दुर्बलाग्निश्च अबला चेति, किंवा दुर्बलमग्निबलं यस्याः सा दुर्बलाग्निबला| दुष्टा इति दोषदुष्टा| आमं विमुञ्चतीति अपक्वमेवान्नं विमुञ्चति| पूर्वरूपे पक्वमामं वा विमुञ्चतीत्यनेन विदग्धरूपमाममेवोक्तम्, इह त्वामं [२९] नियमेन विमुञ्चतीति न विरोधः||५६-५७||

वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव च|
हेतुं लिङ्गं रूपभेदाञ् [३०] शृणु तस्य पृथक् पृथक्||५८||
कटुतिक्तकषायातिरूक्षशीतलभोजनैः|
प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः||५९||
करोति कुपितो मन्दमग्निं सञ्छाद्य मारुतः [३१] |
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता||६०||
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः|
पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका||६१||
हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका|
गृद्धिः सर्वरसानां च मनसः सदनं तथा||६२||
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च|
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः||६३||
चिरादुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्|
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात्||६४||
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्|
अग्निमाप्लावयद्धन्ति [३२] जलं तप्तमिवानलम्||६५||
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्|
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः||६६||
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्|
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७||
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः|
आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८||
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९||
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्|
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके||७०||
यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः|
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१||
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे|
त्रिदोषं निर्दिशेत्तेषां भेषजं [३३] शृण्वतः परम्||७२||


वातपित्तकफसन्निपातजान् ग्रहणीभेदान् तेषां पृथग्घेत्वादींश्चाह- वातादित्यादि| त्रिभ्य इति सन्निपातात्| रूपभेदानिति ग्रहणीदोषलिङ्गत्वेन वक्ष्यमाणान्| शुक्तमिवान्नस्य पाकः शुक्तपाकः| गृद्धिः सर्वरसानामिति सप्तम्यर्थे षष्ठी| जीर्णे जीर्यति ‘अन्ने’ इति शेषः| गुल्मादिशङ्कित्वं गुल्मादिसदृशपीडायुक्तत्वेन भवति| पैत्तिकग्रहण्यां पित्तस्याग्निसमानतया वर्धनमेव युक्तमित्याशङ्क्य पित्तस्य द्रवत्वेनाग्निहननं क्रियते इति दर्शयन्नाह- आप्लावयद्धन्त्यनलमिति; आप्लावनं द्रवेणार्द्रीकरणम्| उष्णस्यापि द्रवतया अग्निनिर्वापणे दृष्टान्तमाह- जलं तप्तमित्यादि| दौर्बल्यं बलहानिः| यश्चाग्निरित्यादिश्लोकं केचिद्वैशेषिकग्रहणीदोषव्यतिरिक्ताग्निदोषत्रयस्य ग्रहणीरोगान्तर्निवेशनमसङ्गतमिति कृत्वाऽनार्षं वदन्ति, किन्तु तं चापीतिपदेनाऽग्निमान्द्यादीनां प्राकृतानां सामान्यग्रहणीदोषाबाधे सति न किञ्चिद्विरोधं पश्यामः; सामान्यग्रहणीदोषेऽपि अग्निमान्द्यादय उक्ता [३४] एवेति दर्शितमेव| समवर्जमिति समप्रकृतिपुरुषगतत्वेनोक्ताग्निवर्जम्||५८-७२||

ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्|
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३||
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्|
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४||
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः|
शरीरानुगते सामे रसे लङ्घनपाचनम्||७५||
विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्|
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६||
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्|
दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७||
किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्|
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८||
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९||
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्|
दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०||
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्|
लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||


ग्रहणीमाश्रितमित्यादौ दोषमिति सामान्यवचनाद्वातादीनां त्रयाणामपि ग्रहणम्| आमस्यापक्वस्य लिङ्गैरन्वितमिति आमलिङ्गान्वितम्| उद्धरेदिति वमेत्| फलानामिति मदनफलानाम्| लीनमिति अनुत्क्लिष्टम्| पक्वाशयस्थमिति अधोगतत्वेन पक्वाशयसमीपगतम्| स्राव्यमिति विरेचनीयम्| सदीपनैरिति दीपनद्रव्यसंयुक्तैर्विरेचनप्रयोगैः| शरीरानुगते इति शरीरव्यापके| सामे रसे इति अपक्वे रसे; आमश्चात्रापक्वरसरूप एवेष्टः, आहाररसस्य रससम्बन्धेन शरीरव्यापकतया दुर्घटत्वात्| लङ्घनम् अनशनं, पाचनं यवाग्वादि| विशुद्धामाशये इत्यत्र विशुद्धिर्हि विरेचनलङ्घनैर्यथायोग्यतया ज्ञेया| दीपनीययुतमिति षड्विरेचनशताश्रितीयोक्तदीपनीयगणसाधितम्| स्विन्नाभ्यक्तमिति स्विन्नं चाभ्यक्तं चेति स्विन्नाभ्यक्तम्| स्रस्तदोषमिति [३५] निरूहेण स्रस्तदोषम्||७३-८१||

द्वे पञ्चमूले सरलं देवदारु सनागरम्|
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२||
शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा [३६] |
पाचयेदारनालेन दध्ना सौवीरकेण वा||८३||
चतुर्भागावशेषेण पचेत्तेन घृताढकम्|
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः||८४||
सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च|
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५||
विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः|
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६||
इति दशमूलाद्यं घृतम्|


द्वे पञ्चमूले इत्यादौ सुषवीस्वरसो [३७] जलस्थानीयः, आरनालादि क्वाथ्यं च मिलित्वा द्रोणं मानं ग्राह्यम्| क्षारौ दत्त्वा च युक्तित इत्यनेन क्षारयोरल्पमानत्वमुच्यते, किन्तु प्रक्षेप्यान्यतमलवणमानेन पृथक् क्षारौ देयौ; युक्तित इत्यनेन तु योग्ये काले क्षारयोगमाह, स च योग्यकालोऽत्र घृतावतारणकाल एव| यदाह जतूकर्णः- “दशमूलं पञ्चकोलं कुलत्थं सुरभिं यवम्| देवदारुं च सरलं शणबीजं च साधयेत्|| दध्ना सौवीरकेणैव तेन पक्वे घृताढके| द्वौ क्षारौ सप्तलवणान्यावपेद् द्विपलानि तु” इति| औद्भिदम् उत्कारिकालवणम्| रोमकं रुमाहृद्भवम्| पाक्यं पाकजम्||८२-८६||

त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले|
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्||८७||
इति त्र्यूषणाद्यं घृतम्|


बिल्वमात्रे इति पलमाने कल्के, अष्टपलमानमेवात्र सर्पिः पक्तव्यं महर्षिवचनेन फलदायित्वात्||८७||

पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः|
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८||
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च|
शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च||८९||
तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः|
काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम्||९०||
शूलगुल्मोदरश्वासकासानिलकफापहम्|
सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्||९१||
सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्|
एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना||९२||
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते|
दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्||९३||
इति पञ्चमूलाद्यं घृतं चूर्णं च|


पञ्चमूलाद्ये शुक्तादित्रयोदशद्रवाणां प्रत्येकं स्नेहसमत्वम्| सबीजपूरकरसमित्यत्रापि पञ्चमूल्यादीनि कल्कत्वेनेच्छन्ति; किंवा पूर्वमेव घृतं बीजपुररससंयुक्तं पेयमित्यर्थः| तैलमित्यादौ एतैः पञ्चमूल्यादिभिः सिद्धं तैलमभ्यङ्गार्थं योज्यं, तथा एतेषामेव कल्कोक्तानां पञ्चमूल्यादीनां चूर्णं सुखाम्बुना पेयम्| चूर्णविषयमाह- वाते इत्यादि| वातश्लेष्मावृते ग्रहणीगदे तथा सामे ग्रहणीगदे; केचित् “सामे पुरीषे” इति वदन्ति; आमं चानेकविधमाहुः, यदुच्यते- “आममन्नरसं केचित् केचित्तु मलसञ्चयम्| प्रथमां दोषदुष्टिं च केचिदामं प्रचक्षते” इति| भोजोऽप्याह- “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आम इति सञ्ज्ञितः” इति| ईश्वरसेनोऽप्याह- “एवमामाशयेऽप्यन्नं बहु सम्यङ्न जीर्यति| चीयमानं तदेवान्नं कालेनामत्वमाप्नुयात्” इत्यादि| तदिहापि तद्वचनप्रामाण्यादामव्यवस्था कर्तव्या||८८-९३||

मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले|
विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्||९४||
परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्|
विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा||९५||


सामनिरामग्रहणीगदज्ञानार्थं सामनिरामविड्लक्षणमाह- मज्जतीत्यादि| आमेति आमाश्रिता| गुरुत्वादिति आमाहितगुरुत्वात्| पक्वेति निरामा; उपसंहरिष्यत्यामपक्वलक्षणान्ते ‘परीक्ष्यैवं पुरा सामं निरामं वा’ इति| द्वयोरपि आमपक्वलक्षणयोरपवादमाह- विनाऽतिद्रवेत्यादि| अतिद्रवत्वादामाऽपि प्लवते, अतिसंहता तु पक्वाऽपि अतिसङ्घातादेव मज्जति, शैत्यश्लेष्मप्रदूषणाच्च कफयोगाहितगौरवा पक्वाऽपि मज्जति गुरुत्वादेव न प्लवते| ननु सविष्टम्भप्रसेकार्तीत्यादिनैव सामस्योक्तत्वात् किमनेन सामतालक्षणेन पुनरुक्तेन? उच्यते- वातकफाधिकारात्तदुक्तम्, इदं तु विडामताज्ञानार्थमुक्तमिति विशेषः| परीक्ष्येत्यादौ निरामं चामदोषिणमिति कथं, यावता न निरामतायामामदोषत्वमस्ति? न, आमदोषशब्देन ग्रहणीदोषिणोऽभिप्रेतत्वात्| इतरेणेति ग्रहणीदोषशमनेन||९४-९५||

चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च|
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्||९६||
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा|
कृता विपाचयत्यामं दीपयत्याशु चालनम्||९७||
इति चित्रकाद्या गुटिका|


चित्रकेत्यादौ लवणानि चेत्यत्र कपिञ्जलाधिकरणन्यायेन लवणत्रयमिच्छन्ति; किन्त्वनियते स न्यायो भवति, इह तु पञ्चलवणानां प्राधान्येन दीर्घञ्जीवितीये निर्दिष्टत्वात् पञ्चलवणस्य च शक्योपादानत्वात् पञ्चैव लवणानि ग्राह्याणि||९६-९७||

नागरातिविषामुस्तक्वाथः स्यादामपाचनः|
मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा||९८||
देवदारुवचामुस्तनागरातिविषाभयाः|
वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत्||९९||
वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना|
विडेन [३८] लवणं पिष्टं बिल्वं चित्रकनागरम्||१००||
सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्|
कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः||१०१||
छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा|
पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्||१०२||
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्|
पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्||१०३||
पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा|
पित्तश्लेष्माभिभृतायां ग्रहण्यां शूलनुद्धितम्||१०४||
सामे सातिविषं व्योषं लवणक्षारहिङ्गु च|
निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा||१०५||
पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्|
चित्रकं कौटजं बीजं लवणान्यथ पञ्च च||१०६||
तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः|
पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः||१०७||
मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्|
पलानि [३९] दश चाम्लस्य वेतसस्य पलार्धिकम्||१०८||
सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः|
शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका||१०९||
तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्|
हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा||११०||
इति मरिचाद्यं चूर्णम्|


मुस्तान्तकल्क इति पश्चादुक्तनागरादिकल्क इत्यर्थः| अर्शोग्रन्थिः अर्शोऽनुग्रथितवर्चस्त्वम्| मरिचसंयुतमिति पर्यन्तं ‘चूर्णं कृत्वा पिबेत्’ इत्यनुवर्तते| सामे दोषे सति पिप्पलीमूलादिषु अतिविषादि प्रक्षिप्य चूर्णं कर्तव्यमित्यर्थः| सुरादिभिरित्यत्रादिशब्देन काञ्जिकसौवीरादिग्रहणम्||९८-११०||

चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम्|
लवणानां च चत्वारि शर्करायाः पलाष्टकम्|
सञ्चूर्ण्य शाकसूपान्नरागादिष्ववचारयेत्||१११||
कासाजीर्णारुचिश्वासाहृत्पाण्ड्वामयशूलनुत्|११२|


चतुर्णां प्रस्थमम्लानामित्यत्र चतुरम्लं हृद्यवर्गे प्रथमोक्तं वृक्षाम्लाम्लवेतसदाडिमबदररूपमाहुः; अन्ये तु चव्यत्वगित्यादिप्रयोगवक्ष्यमाणकपित्थचुक्रिकावृक्षाम्लदाडिमानां ग्रहणमाहुः| तन्त्रान्तरे तु “वृक्षाम्लमातुलुङ्गाम्लबदराम्लाम्लवेतसैः| चतुरम्लमिदं प्रोक्तं पञ्चाम्लं तु सदाडिमम्” इत्युक्तम्| त्र्यूषणाच्च पलत्रयमिति मिलितात् पलत्रयम्| रागः कपित्थादिद्रव्यकृतो व्यञ्जनविशेषः||१११||-

चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान्||११२||
कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम्|
शिलोद्भेदं तथाऽजाजीं पिष्ट्वा बदरसम्मितम्||११३||
परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक्|
रसैः कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य च||११४||
सर्वातिसारग्रहणीगुल्मार्शःप्लीहनाशिनी|
पञ्चकोलकयूषश्च मूलकानां च सोषणः||११५||
स्निग्धो दाडिमतक्राम्लो जाङ्गलः संस्कृतो रसः|
क्रव्यादस्वरसः शस्तो भोजनार्थे सदीपनः||११६||
तक्रारनालमद्यानि पानायारिष्ट एव च|११७|


चव्येत्यादौ शाल्मलं शाल्मलीवेष्टकम्| शिलोद्भवं शैलजम्| चुक्रिका चाङ्गेरी| सोषण इति समरिचः||११२-११६||-

तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात्||११७||
श्रेष्ठं मधुरपाकित्वान्न च पित्तं प्रकोपयेत्|
कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम्||११८||
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्|
तस्मात् तक्रप्रयोगा ये जठराणां तथाऽर्शसाम्||११९||
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्|
यवान्यामलके पथ्या मरिचं त्रिपलंशिकम्||१२०||
लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्|
तक्रे तदासुतं [४०] जातं तक्रारिष्टं पिबेन्नरः|
दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम्||१२१||
इति तक्रारिष्टः|


तक्रमित्यादिना तक्रगुणाभिधानम्| मधुरपाकित्वान्न च पित्तप्रकोपणम्; अम्लत्वात् पित्तप्रकोपणे प्राप्ते मधुरपाकितया पित्तं न प्रकोपयति, नापि पित्तं प्रशमयतीत्याहुः| सद्यस्कमविदाहीति सद्यो मथितमेव तक्रं पच्यमानावस्थायां विदाहकृन्न भवति, किञ्चित्कालस्थितं तु विदाही भवत्येव| यवानीत्यादौ तक्रे तदासुतमिति तक्राढके आसुतम्| जातमिति अम्लरसतया जातम्||११८-१२१||

स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक्|
पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा||१२२||
अविदाहिभिरन्नैश्च लघुभिस्तिक्तसंयुतैः|
जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि||१२३||
दाडिमाम्लैः ससर्पिष्कैर्दीपनग्राहिसंयुतैः|
तस्याग्निं दीपयेच्चूर्णैः सर्पिर्भिश्चापि तिक्तकैः||१२४||


वमनेन वेत्यूर्ध्वगपित्तापेक्षया ज्ञेयम्| सर्पिर्भिश्चापि तिक्तकैरित्यत्र जात्याख्यायां बहुवचनं; किंवा कुष्ठोक्तं तिक्तघृतद्वयमन्यच्च तिक्तसाधितं घृतमिति बहुवचनं साधु||१२२-१२४||

चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्|
षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान्||१२५||
पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्|
कटुकां रोहिणीं मुस्तं निम्बं च द्विपलांशिकम्||१२६||
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्|
किराततिक्तेन्द्रयववीरामागधिकोत्पलैः||१२७||
कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे|
तिक्तकं यद्घृतं चोक्तं कौष्ठिके तच्च दापयेत्||१२८||
इति चन्दनाद्यं घृतम्|


कुटन्नटं कैवर्तमुस्तकम्| षड्ग्रन्था वचा| आस्फोता ‘अस्फुरमल्लिका’ इति लोके ख्याता| कपीतनः ‘गन्धमुण्ड’ इति ख्यातः||१२५-१२८||

नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्|
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्||१२९||
पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना|
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते||१३०||
अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्|
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्||१३१||
इति नागराद्यं चूर्णम्|


नागराद्ये सक्षौद्रमिति मधुप्रक्षेपयुक्तम्| तण्डुलाम्बुनेति तण्डुलधावनाम्बुना; अन्ये तु तण्डुलाद्द्विगुणमम्लं तण्डुलेन समं चिरं स्थितं तत्तण्डुलाम्बु वदन्ति| कृष्णात्रेयेण पूजितत्वोपदर्शनादस्य सिद्धयोगत्वं दर्श्यते; कृष्णात्रेयः पुनर्वसोरभिन्न एवेति वृद्धाः||१२९-१३१||

भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्|
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्||१३२||
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्|
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्||१३३||
इति भूनिम्बाद्यं चूर्णम्|


भूनिम्बाद्ये गुडयुतं शीताम्बु गुडशीताम्बु; गुडश्चात्र गुडवर्णतामाधुर्यापत्तिमात्रो देयः||१३२-१३३||

वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्|
स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः||१३४||
दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्|
पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्||१३५||
जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च|
तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्||१३६||
किराततिक्तः षड्ग्रन्था त्रायमाणा कटुत्रिकम्|
चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी||१३७||
कुटजत्वक्फलं मुस्तं यवानी देवदारु च|
पटोलनिम्बपत्रैलासौराष्ट्रयतिविषात्वचः||१३८||
मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा|
तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा||१३९||
हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्|
कामलां सन्निपातं च मुखरोगांश्च नाशयेत्||१४०||
इति किराताद्यं चूर्णम्|


वचामित्यादौ स्योनाककट्वङ्गशब्दाभ्यां द्वावपि पृथुशिम्बाल्पशिम्बौ स्योनाकौ गृह्येते| तद्रोगशममन्विच्छन्निति भूनिम्बाद्युक्तग्रहणीदोषादिरोगशान्तिं काङ्क्षन्| भूनिम्बाद्येनेति भूनिम्बाद्युक्तद्रव्यगणेन यथोक्तमानेन योजयद् वचादीन्; अपरे तु भूनिम्बाद्येनेति वचनेनात्र भूनिम्बाद्युक्तगुडशीताम्बुपेयतामस्याप्यतिदिशतीति वदन्ति||१३४-१४०||

ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि|
कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत्||१४१||
पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम्|
पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम्||१४२||
कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम्|
पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत्||१४३||
शुष्कमूलकयूषेण कौलत्थेनाथवा पुनः|
कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत्||१४४||
अम्लं चानु पिबेत्तक्रं तक्रारिष्टमथापि वा|
मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा||१४५||


पानीयार्थं पानाय| कट्वम्लक्षारपटुनेति कट्वादियोगात् पटुना इन्द्रियोत्तेजकेनेत्यर्थः| कफग्रहण्यां सद्यस्कमेव यद्यपि कषायत्वात्तक्रमुचितं, तथाऽपि अग्निदीपनतया अम्लमेव तक्रं ‘अम्लं चानुपिबेत्’ इत्यनेनैवोक्तम्| निगदं सीधुमिति निर्दोषं सीधुम्||१४१-१४५||

द्रोणं मधूकपुष्पाणां विडङ्गानां ततोऽर्धतः|
चित्रकस्य ततोऽर्धं स्यात्तथा भल्लातकाढकम्||१४६||
मञ्जिष्ठाष्टपलं [४१] चैव त्रिद्रोणेऽपां विपाचयेत्|
द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम्||१४७||
एलामृणालागुरुभिश्चन्दनेन च रूषिते|
कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत्||१४८||
ग्रहणीं दीपयत्येव बृंहणः [४२] कफपित्तजित्|
शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत्||१४९||
इति मधूकासवः|
मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्|
क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत्||१५०||
तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशनः|
तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् [४३] पिबेत्||१५१||


अर्धक्षयीकृतमिति पाकादर्धावशिष्टं कृतम्| पूर्ववत्सन्निधापयेदिति एलादिलिप्ते कुम्भे संस्थापयेत्||१४६-१५१||

प्रस्थौ दुरालभाया द्वौ पस्थमामलकस्य च|
दन्तीचित्रकमुष्टी [४४] द्वे प्रत्यग्रं चाभयाशतम्||१५२||
चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्|
सगुडद्विशतं पूतं मधुनः कुडवायुतम्||१५३||
तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः|
कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्||१५४||
ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्|
स्वरवर्णकरश्चैष रक्तपित्तकफापहः||१५५||
इति दुरालभासवः|
हरिद्रा पञ्चमूले द्वे वीरर्षभकजीवकम्|
एषां [४५] पञ्चपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत्||१५६||
द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक्|
चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान्||१५७||
प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान्|
लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम्||१५८||
एष मूलासवः सिद्धो दीपनो रक्तपित्तजित्|
आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत्||१५९||
इति मूलासवः|


दन्तीचित्रकमुष्टी द्वे इति चित्रकदन्त्योर्मिलित्वा द्विपलम्| तद्वदिति एलादिना लिप्तबृहत्कुम्भस्थम्||१५२-१५९||

प्रास्थिकं [४६] पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकात्|
उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत्||१६०||
तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम्|
पिबेत्पिण्डासवो ह्येष रोगानीकविनाशनः||१६१||
स्वस्थोऽप्येनं पिबेन्मासं नरः स्निग्धरसाशनः [४७] |
इच्छंस्तेषामनुत्पत्तिं रोगाणां येऽत्र कीर्तिताः||१६२||
इति पिण्डासवः|


प्रास्थिकमित्यादौ पिप्पलीगुडबिभीतकमज्जानः प्रत्येकं प्रस्थमानाः| स्निग्धरसाशन इति स्नेहवन्मांसरसभोजनः||१६०-१६२||

नवे पिप्पलिमध्वाक्ते कलसेऽगुरुधूपिते|
मध्वाढकं जलसमं चूर्णानीमानि दापयेत्||१६३||
कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा|
चतुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि च||१६४||
त्वगेलापत्रकशटीक्रमुकातिविषाघनान्|
हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान्||१६५||
कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्|
मन्दं सन्दपयत्यग्निं करोति विषमं समम्||१६६||
हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्|
वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति||१६७||
इति मध्वरिष्टः|


नवे इत्यादौ त्वगेलादीनां कार्षिकत्वम्||१६३-१६७||

समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च|
मातुलुङ्गाभयारास्नाशटीमरिचनागरम्||१६८||
कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना|
श्लेष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम्||१६९||
एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते|
गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत्||१७०||


समूलां पिप्पलीमिति पिप्पलीं पिप्पलीमूलं च| भल्लातकघृतं च गुल्मोक्तमिति ज्ञेयम्||१६८-१७०||

बिडं कालोत्थलवणं सर्जिकायवशूकजम्|
सप्तलां कण्टकारीं च चित्रकं चेति दाहयेत्||१७१||
सप्तकृत्वः स्रुतस्यास्य क्षारस्य [४८] द्व्याढकेन तु|
आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम्||१७२||
इति क्षारघृतम्|
समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम्|
चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम्||१७३||
वचां च कार्षिकं पञ्चलवणानां पलानि च|
दध्नः प्रस्थद्वये तैलसर्पिषोः कुडवद्वये||१७४||
खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे|
अन्तर्धूमं ततो दग्धवा चूर्णं कृत्वा घृताप्लुतम्||१७५||
पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः|
वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च सः||१७६||
भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम्|
अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्||१७७||
स क्षारः सर्पिषा पीतो भोज्ये वाऽप्यवचूर्णितः|
हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत्||१७८||


बिडं कालोत्थलवणमिति बिडं बिडलवणं, काललवणं तु सौवर्चललवणमित्यर्थः| खण्डीकृतानीति खण्डं खण्डं कृतानि| अनुगते रसे इति निपीते द्रवे| पाणितलमिति कर्षः| मधुराशनत्वमिह क्षारप्रयोगाभिच्छेदकत्वहन्तृतया यौगिकत्वाज्ज्ञेयम्||१७१-१७८||

दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम्|
षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा||१७९||
गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत्|
दग्ध्वा च तं पिबेत् क्षारं ग्रहणीबलवर्धनम्||१८०||


गोमूत्रेण समांशानीति गोमूत्रेण मिलितं चूर्णं तुल्यम्| अस्य च पानं पूर्वक्षारवत् सर्पिषा ज्ञेयम्||१७९-१८०||

भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्|
दहेन्माहिषमूत्रेण क्षार एषोऽग्निवर्धनः||१८१||
द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी|
मुस्तं च बस्तमूत्रेण दहेत् क्षारोऽग्निवर्धनः||१८२||


माहिषमूत्रेणेत्यादौ चूर्णसमत्वं माहिषमूत्रस्य, पूर्वप्रयोगदृष्टत्वात्||१८१-१८२||

चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्|
वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले||१८३||
दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः|
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः||१८४||
विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः|
इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता||१८५||
इति क्षारगुडिका|
वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्|
चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्||१८६||
आयसे भाजने सान्द्रात्तस्मात् [४९] कोलं सुखाम्बुना|
मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्||१८७||
इति चतुर्थक्षारः|


चतुष्पलमित्यादौ, ‘चतुष्पलं सुधाकाण्डात्त्रिफलालवणानि च’ इति ये पठन्ति, ते त्रिफलालवणैर्मिलित्वा चतुष्पलं वदन्ति| दग्धानि वार्ताकुरसे इति क्षारीभूतानि पुनर्वार्ताकुरसे गुटिकाः कर्तव्याः||१८३-१८७||

त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः|
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च||१८८||
मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्|
विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ||१८९||
मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च|
कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक्||१९०||
भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्|
अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्||१९१||
सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्|
प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्||१९२||
शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्|
हन्यात् सर्वविषं [५०] चैव क्षारोऽग्निजननो वरः||१९३||
जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वा|
इति पञ्चमक्षारः|


त्रिफलामित्यादौ मुष्ककं घण्टापाटलकम्| घृततैलेनेत्यत्र दधिसाहचर्याद्घृततैलस्यापि मिलितस्य कुडवत्रयम्||१८८-१९३||-

त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्||१९४||
घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्|
क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति||१९५||
व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित्|१९६|


त्रिदोषे पञ्चकर्माणीत्यत्र शिरोविरेचनस्यायौगिकत्वेऽप्यत्र भूयसां कर्मणां यौगिकत्वात् पञ्चकर्माणीति कृतं, किंवा शिरोरोगादिसद्भावे शिरोविरेचनमप्यत्र देयमेव| व्यत्यासात्तां समस्तां चेति उक्तवातादिक्रियां व्यत्यासादेकैकदोषक्रियापरिवर्तनेन कुर्यात्, किंवा मिलितैरपि क्रिया एककालं कर्तव्या; क्रियामेलनं च वातादिद्रव्यमेलनादेव भवति||१९४-१९५||-

स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत्||१९६||
चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः|
विविधास्तक्रयोगाश्च दीपनानां च सर्पिषाम्||१९७||
ग्रहणीरोगिभिः सेव्याः, …|१९८|


स्नेहनमित्यादिना ग्रहणीदोषभेषजं सङ्कलय्याह||१९६-१९७||-

… क्रियां चावस्थिकीं शृणु|
ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम्||१९८||
सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम्|
परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम्||१९९||
दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम्|
बहुवातस्य तु स्नेहलवणाम्लयुतं हितम्||२००||
सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनैः|२०१|


क्रियां चावस्थिकीमिति ग्रहणीदोष एव अवस्थाविशेषे कर्तव्यां क्रियां शृणु| सकृद्रूक्षं सकृत्स्निग्धं कृश इति यदि रूक्षमेव क्रियते तदा कृशस्य बलहानिः स्यात्, अथ स्निग्धमेव क्रियते तदा बहुकफे कफवृद्धिः स्यात्, तेनोभयापेक्षया अन्तरा रूक्षमन्तरा च स्निग्धं कर्तव्यमित्यर्थः| स्नेहलवणाम्लयुतमिति दीपनमित्यर्थः| सन्धुक्षति विधिवदिन्धनैरिति यथाविधानदीपित इत्यर्थः||१९८-२००||-

स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्||२०१||
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि|
मन्दाग्निरविपक्वं तु पुरीषं योऽतिसार्यते||२०२||
दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु सः|
तया समानः पवनः प्रसन्नो [५१] मार्गमास्थितः||२०३||
अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्|
काठिन्याद्यः पुरीषं तु कृच्छ्रान्मुञ्चति मानवः||२०४||
सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्|
रौक्ष्यान्मन्दे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम्||२०५||


उक्तानुक्तस्नेहफलमवधारयन्नाह- स्नेहमेवेत्यादि| परमिति श्रेष्ठम्| स्नेहस्य दीपनश्रेष्ठत्वे हेतुमाह- नालमित्यादिना| नालमिति न समर्थम्| स्नेहसमिद्धस्येति स्नेहदीप्तस्य| स्नेहशब्देनात्र सामान्यवाचिना सर्पिरेवोच्यते, सर्पिष एवात्राधिकारात्| मन्दाग्निरित्यादौ अविपक्वमिति पुरीषविशेषणं; तेनाविपक्वशब्देनेह रसामस्य ग्रहणं न भवति, रसामे “जठरामगरार्दिताः” (सू.अ.१३) इत्यत्र स्नेहो निषिद्धः, स्नेहापक्वपुरीषं प्रति स्नेहप्रयोगो विरुद्ध एव; किञ्च दीपनीयौषधसंस्कारादपि स्नेहस्य संस्कारगुणाविघातादेव अपक्वपुरीषं प्रति हितत्वं भवति; स्नेहांशस्तु वातप्रगुणताकरणत्वेन सहायतया उपादीयते, अत एवोक्तं- तया समान इत्यादि| प्रसन्न इति दुष्टिविरहतः| मार्गमास्थित इति स्वाभाविकमार्गमापन्नः| समीपचारित्वादिति प्रसन्नत्वादिगुणयोगे सति अग्निपार्श्वस्थितत्वाद्बलमेव वह्नेः करोति न वैषम्यम्, अग्निदीप्तिकरत्वस्वभावादित्यर्थः| अन्नावग्रहमिति अन्नेनावग्रहोऽस्येति अन्नावग्रहः; अन्नमध्यप्रयुक्तमित्यर्थः||२०१-२०५||

अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः|
भिन्ने गुदोपलेपात्तु मले तैलसुरासवाः||२०६||
उदावर्तात्तु मन्देऽग्नौ निरूहाः स्नेहबस्तयः|
दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोषविधिं चरेत्||२०७||
व्याधियुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम्|
उपवासाच्च मन्देऽग्नौ यवागूभिः पिबेद्घृतम्||२०८||
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्|
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्||२०९||
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्|
लघु, तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम्||२१०||
मांसोपचितमांसत्वात्तथाऽऽशुतरबृंहणाः|२११|


अतिस्नेहान्मन्देऽग्नौ सति चूर्णारिष्टादीनि योज्यानि| भिन्ने इति विशिष्टगुदोपलेपादग्नौ मन्दे, तैलसुरासवा देया इति वाक्यार्थः| दोषविधिं चरेदिति अग्निमान्द्यकारकदोषौषधविधिं कुर्यात्| अन्नावपीडितं यथा भवति तथा यवागूभिर्घृतं पिबेत्; अन्नावपीडितं च मध्यभोजनपीतं घृतं भवति| दीर्घकालेत्यादौ क्षामो व्यवसायशून्यः [५२] , क्षीणो दुर्बलः, कृशो हीनमांसः| प्रसहानां द्वैविध्यान्मांसाशिनामिति विशेषणं, तेन तृणादप्रसहानां गवादीनां निषेधः| ननु प्रसहाः “गुरूष्णस्निग्धमधुरा” (सू.अ.२७) इत्यन्नपाने उक्तं, इह तु लघुतीक्ष्णेत्यादिना कथं लाघवमुच्यते तेषां? मैवं, भोजयेल्लघ्विति योजनात्; तेन प्रसहानां मध्ये ये लघवस्तेषां रसेनात्र लघ्वन्नं भोजयेत्| तीक्ष्णेत्यादिना प्रसहगुणाभिधानम्| अन्ये तु प्रसहान्तरापेक्षया ये प्रसहा लघवस्तेषमिह लघुशब्देनोपादानम्, तथाऽन्ये अम्लादियोगात् संस्कारेणेह लाघवं साधयन्ति; एतेन राजयक्ष्मचिकित्सितेऽपि प्रसहगुणास्तीक्ष्णोष्णलघुत्वादय उक्तास्ते न्याय्या एव||२०६-२१०||-

नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्||२११||
यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः|
स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवैः [५३] ||२१२||
सम्यक्प्रयुक्तैर्भिषजा बलमग्नेः प्रवर्धते|
यथा हि सारदार्वग्निः स्थिरः सन्तिष्ठते चिरम्||२१३||
स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिरः|
हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते||२१४||
अवैषम्येण धातूनामग्निवृद्धौ यतेत ना|
समैर्दोषैः समो मध्ये देहस्योष्माऽग्निसंस्थितः||२१५||
पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये|
दोषैर्मन्दोऽतिवृद्धो वा विषमैर्जनयेद्गदान्||२१६||
वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते|२१७|


नाभोजनेनेत्यादिना अभोजनातिभोजननिरासं कृत्वाऽन्नसम्यक्प्रयोगस्याग्निजनकतामाह| अभोजनेनेत्यनेनाभोजनमल्पभोजनं च गृह्यते| अल्पो वा अतीन्धनावृतो वा न दीप्यते इति योजना| सारदार्वग्निरिति सारदार्वाश्रयोऽग्निः सारदार्वग्निः| स्नेहवदन्नं स्नेहान्नम्| मितमिति मात्रावत्, यद्यपि च हितमिताशिनोऽपि कालविपर्ययादिना रोगा भवन्त्येव, तथाऽपि हितमिताशिनां नाहारजरोगोत्पत्तिर्भवतीति दर्शयति| चिरमारोग्यमश्नुते इति आहारजरोगं [५४] न प्राप्नोतीति भावः| अवैषम्येण धातूनामिति धातुसाम्येन क्रियमाणायामग्निवृद्धौ यतेत; एतेन दोषवैषम्येण पित्तोद्रेकरूपेण याऽग्निवृद्धिरत्यग्निरूपा, तां निषेधयति| समैरित्यादिनाऽग्निभेदान् समाग्निपरिपालनार्थमाह| मध्ये इति नातिसमीपे| अग्निसञ्ज्ञित इति भाषया ऊष्मारूपे जाठराग्नौ बाह्याग्निना साम्यं निषेधयति| दोषैरिति सामान्योक्तेऽपि योग्यतया कफपित्तवातैर्यथाक्रममेव मन्दतीक्ष्णविषमत्वानि ज्ञेयानि| वाच्यमिति प्रतिक्रियार्थं वचनीयं चिकित्सितमिति यावत्||२११-२१६||-

नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्||२१७||
स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति|
तदा लब्धबलो देहे विरूक्षे सानिलोऽनलः||२१८||
परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः|
पक्त्वाऽन्नं स ततो धातूञ्छोणितादीन् पचत्यपि||२१९||
ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्|
भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति||२२०||
तृट्श्वासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः|
तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलैः||२२१||
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः|
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्||२२२||
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्|
पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्||२२३||
अद्यात्तथौदकानूपपिशितानि भृतानि च|
मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा||२२४||
आविकं च भृतं मांसमद्यादत्यग्निनाशनम् [५५] |
यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्||२२५||
गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्|
पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्||२२६||
फलानां तैलयोनीनामुत्क्रुञ्चाश्च [५६] सशर्कराः|
मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा||२२७||
पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्|
गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः||२२८||
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्|
पयसा सम्मितं [५७] चापि घनं त्रिस्नेहसंयुतम्||२२९||
नारिस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्|
ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये||२३०||
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्|
असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्||२३१||
प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्|
यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्||२३२||
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा|
मेद्यान्यन्नानि योऽत्यग्नावप्रतान्तः [५८] समश्नुते||२३३||
न तन्निमित्तं व्यसनं लभते पुष्टिमेव च|
कफे वृद्धे जिते पित्ते मारुते चानलः समः||२३४||
समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये|२३५|


पित्तं पावकस्थाने कुपितमिति सम्बन्धः| तच्च पित्तं मारुतानुगतत्वादत्यग्निकरं [५९] भवति; एवं धर्मभेदाद्विरुद्धकार्यकरं ज्ञेयम्| पित्तोष्मरूपस्यापि च बह्नेः प्रादेशिकपित्तोष्मणो हानिजनकत्वं [६०] जन्यजनकयोर्भेदत्वादुपपन्नमेव ज्ञेयम्| स्थिरतोयचरानित्यनेन स्थिरतोयचारिणां निष्क्रियतया गौरवातिशयं दर्शयति| तिलवातामादीनां दृषदि पिष्टानामुष्णोदकमृदिता पिण्डा उत्क्रुञ्चा उच्यन्ते, ‘उत्कारिका’ इत्यन्ये| घनं त्रिस्नेहसंयुतमित्यत्र घनशब्देन दध्युच्यते| पायसेन प्रतिभोजनं यस्मिन् पित्तहरणे तत् पायसप्रतिभोजनम्| मेद्यमिति मेदुरं मेदोजनकं वा| अप्रतान्त इति अबुभुक्षितः| व्यसनं मरणमित्यर्थः [६१] | पुष्टिमेव च लभते इति योज्यम्||२१७-२३४||-

भवन्ति चात्र-
पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्||२३५||
विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयोः|
भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्||२३६||
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा|
प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति||२३७||
दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्|
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः||२३८||
व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः|
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः||२३९||
अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति|
अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्||२४०||
नैव दूष्यति तेनैव समं सम्पद्यते यथा|
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च|
यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः||२४१||
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति|
विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्||२४२||
नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्|
तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी||२४३||


सम्प्रति प्रागुक्तसमशनादिलक्षणमाह- पथ्यापथ्यमित्यादि| पथ्यापथ्यं किञ्चिदेकत्र मिलितं, यथा- रक्तशाल्यन्नं यवकान्नं च मिलितम्| बहुभुक्तमल्पभुक्तं वा तथाऽप्राप्तमतीतकालं च भुक्तं विषममुच्यते| पूर्वान्नेत्यादि दिवा भुक्तस्योपरि तदहरेव पुनर्भुज्यते तदध्यशनं; तन्निषेधयन्नाह- प्रातराशे इत्यादि| अशनमाशो भोजनमित्यर्थः| कस्मान्न दूष्यतीत्याह- दिवेत्यादि| स्फुटत्वमिति विवृतत्वं, विवृतत्वाच्च स्रोतसां स्रोतोभिर्वहनेन रसोऽव्याहतगतिर्भवति, ततश्च न क्लेदं स्रोतांसि यान्ति; तथा व्यायामादिभिश्च शोष्यमाणानि न क्लेदमुपयान्ति स्रोतांसि| व्यायामो गमनादिः, विहारः अङ्गक्षेपणादिका चेष्टा| स्रोतोऽक्लेदे किं भवतीत्याह- अक्लिन्नेष्वित्यादि| आसिक्तमिति प्रक्षिप्तम्| अविदग्धे इत्यादिनाऽत्र दृष्टान्तमाह| म्लाने इति सङ्कुचिते| अपक्वेष्विति अन्येषु| उपसंहरति- नैशेष्वित्यादिना| नान्यत् समश्नीयादिति योजना||२३५-२४३||

तत्र श्लोकाः-
अन्तरग्निगुणा देहं यथा धारयते च सः|
यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४||
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्|
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च||२४५||
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः|
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६||
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि|
ग्रहणी या यथा [६२] यच्च ग्रहणीदोषलक्षणम्||२४७||
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्|
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८||
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्|
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||


अन्तरग्निरित्यादिना अध्यायसङ्ग्रहं ब्रूते| येऽग्नय इति ‘भौमाप्याग्नेय …’ इत्यादिनोक्ताः| यांश्चेति ‘पञ्चाहारगुणान्’ इत्याद्युक्तमर्थं सङ्गृह्णाति| पुष्यन्ति यावन्त इति ‘यथास्वं स्वं’ इत्याद्युक्तं सङ्गृह्णाति| ये पचन्ति यानिति ‘सप्तभिर्देहधातारः’ इत्याद्युक्तसङ्ग्रहः| आशुकारित्वेन हेतुना आशुकृद्धेतुः| शेषं व्यक्तम्||२४४-२४९||

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने
ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपकायां चिकित्सास्थाने ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||

१. ‘अत्रान्तरा किज्चिद्ग्रन्थस्त्रुटितः प्रतिभाति|
२. ‘साक्षात्कार्यकारणत्वं’ इति पा.|
३. ‘आहारोऽप्यग्निपाकमपेक्ष्यैव’ इति पा.|
४. ‘उदीर्णः पवनेन तु’ इति पा.|
५. ‘आहारप्रकर्षणं’ इति पा.|
६. ‘द्रवैः क्लेदकश्लेष्मद्रवैः’ इति जल्पकल्पतरा गङ्गाधरः|
७. ‘फेनभावः’ इति पा.|
८. ‘ह्युपकृत…’ इति पा.|
९. ‘प्राणादीनिन्द्रियाणि’ इति पा.|
१०. ‘किट्टप्रसादतः’ इति पा.|
११. ‘स्त्रियाः’ इति पा.|
१२. ‘स्नायुसन्धयः’ इति पा.|
१३. ‘पाकादेवाविगर्हतः’ इति पा.|
१४. ‘परस्परोपसंस्तम्भाद्धत्तो देहे परस्परम्’ इति पा.|
१५. ‘इत्युक्तवन्तं’ इत्यादिः ‘स्थलान्निम्नादिवोदकं’ इत्यन्तः पाठश्चक्रपाणिदत्तेनाव्याख्यातत्वादनार्ष इति प्रतिभाति|
१६. ‘प्रविशतः’ इति गङ्गाधरसम्मतः पाठः|
१७. ‘रसाद्रक्तात्तथा मांसान्मेदसः श्वेतता कथम्’ इति पा.|
१८. “शोणितं स्वाग्निना पक्वं वायुना च घनीकृतम्| तदेव मांसं जानीयात् स्थिरं भवति देहिनाम्||” इति पा.|
१९. ‘श्लेष्मणा वृतः’ इति पा.|
२०. ‘समेतं’ इति पा.|
२१. ‘स्यात्तस्मिन् विकारान् कुरुते विवर्षमिव तोयदः’ इति पा.|
२२. ‘स्यात्तत्र देशे प्रकोपणम्’ इति पा.|
२३. ‘विषतां च तत्’ इति पा.|
२४. ‘पित्तेन सह संसृष्टं तृष्णादाहमुखामयान्’ इति पा.|
२५. ‘वातजांश्चापरान् गदान्’ इति पा.|
२६. ‘लोहानुगन्धिः’ इति पा.|
२७. ‘नाभेरुपरि सा ह्यग्निबलोपस्तम्भबृंहिता’ इति पा.|
२८. ‘दुर्बलाग्निबलादृष्टा’ इति पा.|
२९. ‘अतीवाममुञ्चनेन समं न विरोधः’ इति पा.|
३०. ‘चिकित्सां च’ इति पा.|
३१. ‘मारुतः कुपितो वह्निं सञ्छाद्य कुरुते गदान्’ इति पा.|
३२. ‘आप्लावयद्धन्त्यनलं’ इति पा.|
३३. ‘तेषामतो वक्ष्यामि भेषजम्’ इति पा.|
३४. ‘व्यक्ताः’ इति पा.|
३५. ‘सृष्टदोषमिति’ इति पा.|
३६. ‘सुरभिं’ इति पा.|
३७. ‘सुरभिस्वरसः’ इति पा.|
३८. ‘विडेन लवणेन लवणं कृत्वा’ इति गङ्गाधरः|
३९. ‘दशाम्लवेतसपलानिमांश्चापि पलांशिकान्’ इति पा.|
४०. ‘तक्रकं सासुतं’ इति पा.|
४१. ‘मञ्जिष्ठात्रिपलं’ इति पा.|
४२. ‘बृंहणोऽनिलरोगजित्’ इति पा.|
४३. ‘…द्द्राक्षेक्षुकाश्मर्यस्वरसा’ इति पा.|
४४. ‘मुष्टी चित्रकदन्त्योर्द्वे’ इति पा.|
४५. ‘पृथक्’ इति पा.|
४६. ‘प्रास्थिकीं’ इति पा.|
४७. ‘सिद्धं रसायनम्’ इति पा.|
४८. ‘क्षारस्यार्धाढकेन’ इति पा.|
४९. ‘सान्द्रं’ इति पा.|
५०. ‘सर्वविषाणां च क्षारोऽयं शमनो वरः’ इति पा.|
५१. ‘प्रशान्तः’ इति पा.|
५२. ‘अव्यसायशून्यः’ इति पा.|
५३. ‘स्नेहान्नपानैर्विधै’ इति पा.|
५४. आहारोपबाधजरोगं’ इति पा.|
५५. ‘…दत्यग्निराबलम्’ इति पा.|
५६. ‘तैलयोनीनां मृत्कुञ्जाः’ इति पा.|
५७. ‘पयसा समितां चापि घनां त्रिस्नेहसंयुताम्’ इति पा.|
५८. ‘…वप्रशान्तः’ इति पा.|
५९. ‘मारुतानुगतत्वादिधर्मयुक्तमत्यग्निकरं’ इति पा.|
६०. ‘हानिजननं’ इति पा.|
६१. ‘मरणमनर्थं वा लभते’ इति पा.|
६२. ‘समासाच्च’ इति पा.|

 

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

Carakasaṁhitā

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

cikitsāsthānam - 15. grahaṇīdōṣacikitsitam

 


athātō grahaṇīdōṣacikitsitaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


arśaḥkāryatvādgrahaṇīdōṣasya arśaścikitsitamanu grahaṇīcikitsitaṁ brūtē| grahaṇīmāśritō’gnidōṣō grahaṇīdōṣaḥ, ēvaṁ cāśrayāśrayiṇōrabhēdōpacārād grahaṇīdōṣaśabdēna grahaṇyāśritō’gnidōṣō’pi gr̥hyatē||1-2||

āyurvarṇō balaṁ svāsthyamutsāhōpacayau prabhā|
ōjastējō’gnayaḥ prāṇāścōktā dēhāgnihētukāḥ||3||
śāntē’gnau mriyatē, yuktē ciraṁ jīvatyanāmayaḥ|
rōgī syādvikr̥tē, mūlamagnistasmānnirucyatē||4||


tatra grahaṇīdōṣanirdiṣṭāgnidōṣē vaktavyē prakr̥tijñānānantaratvādvikr̥tijñānasya prathamaṁ tāvadavikr̥tasyāgnē rūpamāha- āyurityādi| āyuḥ cētanānuvr̥ttiḥ| varṇaḥ gaurādiḥ| balaṁ śaktiḥ vyāyāmādyanumēyā| svāsthyaśabdēnaiva varṇādigrahaṇaṁ yadyapi labhyatē, tathā’pi “svasthasyaujaskaraṁ yattu tadvr̥ṣyaṁ tadrasāyanam” (ci.a.1,pā.1) iti [1] ; tēna varṇādīnāmavikāratvaṁ nāvaśyaṁ svasthē bhavatīti varṇādīnāṁ pr̥thagupādānaṁ kr̥tam| utsāhaḥ duṣkarēṣvapi kāryēṣvadhyavasāyaḥ, upacayaḥ dēhapuṣṭiḥ| ōjaḥ hr̥dayasthaṁ sarvadhātusārarūpam| tējaḥ dēhōṣmā śukraṁ vā; yaduktaṁ śālākyē- “dr̥ṣṭistējōmayī prōktā śukraṁ tējaśca kēvalam| tasmāddr̥ṣṭibalāpēkṣī tējōvr̥ddhiṁ samācarēt” iti| agnaya iti bhūtāgnayaḥ pañca, dhātvagnayaḥ sapta, iti dvādaśāgnayaḥ| prāṇā iti prāṇāpānōpalakṣitāḥ pañcāpi vāyavaḥ; kiṁvā prāṇavāyurēva ‘prāṇāḥ’ iti śabdēna nityaṁ bahuvacanāntēnōcyatē; yathā- apsarasśabdēna ēkā’pi vidyādharī kīrtyatē| dēhāgnihētukā iti dēhapōṣakapradhānajāṭharāgnikāraṇakāḥ| śāntē ityutsannē| yuktē iti samē| vikr̥tē iti mandē viṣamē tīkṣṇē vā| mūlamagnistasmāditi tasmāt prāśastyādanvayavyatirēkavidhānādāyurvarṇādīnāmagnirmūlaṁ pradhānaṁ kāraṇamityarthaḥ| nirucyatē iti niścayēnōcyatē||3-4||

yadannaṁ dēhadhātvōjōbalavarṇādipōṣakam|
tatrāgnirhēturāhārānna hyapakvādrasādayaḥ||5||


sāmānyakāraṇamuktvā, agnēḥ sākṣātkāraṇatvaṁ [2] vyutpādayannāha- yadannamityādi| bāhyā api gairikādayō dhātuśabdēnōcyantē iti tadvyavacchēdārthaṁ dhātōrdēhaviśēṣaṇam| athāhōrātrajanyēṣu dēhadhātvādiṣu kathamagnēḥ kāraṇatvamityāha- āhārāditi- ētēnāhāramapyapēkṣyaiva [3] rasādīñjanayati| ādigrahaṇēna raktādīni saṅgr̥hyantē||5||

annamādānakarmā tu prāṇaḥ kōṣṭhaṁ prakarṣati|
taddravairbhinnasaṅghātaṁ snēhēna mr̥dutāṁ gatam||6||
samānēnāvadhūtō’gnirudaryaḥ [4] pavanōdvahaḥ|
kālē bhuktaṁ samaṁ samyak pacatyāyurvivr̥ddhayē||7||
ēvaṁ rasamalāyānnamāśayasthamadhaḥ sthitaḥ|
pacatyagniryathā sthālyāmōdanāyāmbutaṇḍulam||8||


samprati samprāptasyānnasyāgninā yathā pākō bhavati, yathā ca pacyamānamannaṁ dēhadhātvādirūpatāmāpadyatē, tadāha- annamityādi| mukhapravēśādārabhyānnasya vyāpāra ihōcyatē| ādānamāhārapraṇayanaṁ [5] karma yasya sa tathā, prakarṣatīti nayati| dravairiti pānīyādibhiḥ [6] | bhinnasaṅghātamiti avayavaśaithilyamāpannam| kālē iti bubhukṣākālē| bhuktaṁ samamiti mātrāprakr̥tyādisamam| samānēnāvadhūta iti agnipārśvasthitēna samānēna sandhukṣitaḥ, ayaṁ ca samānaḥ prākr̥tatvād bāhyō vāyuriva agnēḥ sandhukṣaṇō bhavati na vaiṣamyakaraḥ, vikr̥tastu vaiṣamyaṁ karōti; tēna vātēna viṣamō’gnirbhavatīti cōpapannaṁ bhavati| ētē ca dravādayaḥ pācakasyāgnēḥ sahāyā bhavantītyanēna granthēnōcyatē; “āhārapariṇāmakarāstvimē bhāvā bhavanti; tadyathā- ūṣmā, vāyuḥ, klēdaḥ, snēhaḥ, kālaḥ, samayōgaśca” (śā.a.6) iti| udaryaḥ pācaka ityarthaḥ| ‘pavanōdvaha’ ityagniviśēṣaṇaṁ kēcit paṭhanti| samyagiti bhuktaviśēṣaṇaṁ kēcit paṭhanti; tadā samyagityanēna mātrāsāmyamucyatē| samyaggrahaṇēna tu prakr̥tyādisampaducyatē| āyurvivr̥ddhayē iti śarīrēndriyasattvātmasaṁyōgānuvartanāya tadvivr̥ddhayē ca| rasamalāyēti tādarthyē caturthī| āśayasthamiti āmāśayastham| adhaḥsthita ityanēna agnērūrdhvajvalanasvabhāvatayā ūrdhvasthānnapākē sāmarthyaṁ sūcayati| atrārthē yathētyādinā dr̥ṣṭāntamāha||6-8||

annasya bhuktamātrasya ṣaḍrasasya prapākataḥ|
madhurādyāt kaphō bhāvāt phēnabhūta [7] udīryatē||9||
paraṁ tu pacyamānasya vidagdhasyāmlabhāvataḥ|
āśayāccyavamānasya pittamacchamudīryatē||10||
pakvāśayaṁ tu prāptasya śōṣyamāṇasya vahninā|
paripiṇḍitapakvasya vāyuḥ syāt kaṭubhāvataḥ||11||


ēvaṁ sthūlapākakramamabhidhāya, avāntaramaṇupākakramamāha- annasyētyādi| bhuktamātrasyēti bhuktānantaramēva| ṣaḍrasasyēti prāśastyēnābhidhānaṁ, kiṁvā ṣaḍrasasyāpi prathamaṁ madhuratā niruktā bhavatīti darśayati| prapākata iti prathamapākataḥ; praśabda ādikarmaṇi| madhuraścāsau ādyaścēti madhurādyaḥ; kiṁvā ‘madhurāt prāk kaphō bhāvāt’ iti pāṭhaḥ| phēnabhūta iti phēnasadr̥śō’ghana ityarthaḥ| paramiti ādyamadhurapākānantaram| vidagdhasyēti pakvāpakvasya| amlabhāvā iti jātāmlasvarūpataḥ| āśayāt āmāśayāt| cyavamānasya adhōbhāgaṁ vāyunā nīyamānasya, anēna ca pittasthānasambandhaṁ vidagdhāhārasya darśayati| acchamiti aghanam| udīryatē iti pittamutpadyatē; amlaṁ ca pittamamlabhāvādāhārasya utpadyata iti yuktamēva| pakvāśayaṁ tu prāptasyēti malarūpatayā pakvāśayaṁ gatasya| śōṣyamāṇasya vahninēti yadyapyūrdhvadāhakṣamō vahniḥ, tathā’pyasyādhōgatasya vahninā śōṣyamāṇatvaṁ pakvāśayagatasyāpyupapannam| yataścādhōgamanē samyagvahnivyāpārō nāsti, ataḥ ‘pacyamānasya’ iti padaṁ parityajya ‘śōṣyamāṇasya’ iti kr̥tam| paripiṇḍitapakvasyēti paripiṇḍitarūpatayā malarūpatayā pakvasya| vāyuḥ syāt kaṭubhāvata iti paripiṇḍitāvasthōdbhūtakaṭutā vāyōrutpadyatē| ēvamīdr̥śaḥ ṣaḍrasāhārasyāvasthāpākō bhavati| nanu yadyatrāvasthāpākavaśāt ṣaṇṇāmēva rasānāṁ kaphādikartr̥tvamucyatē, tadā “kaṭutiktakaṣāyāṇāṁ vipākaḥ prāyaśaḥ kaṭuḥ” (sū.a.26) ityādinā yō vipāka ucyatē sa virudhyatē, avasthāpākēnaiva bādhitatvāt; maivaṁ, nahyavasthāpākō’yaṁ rasasvabhāvaṁ niṣṭhāpākaṁ bādhatē, kintvavasthāyāṁ svakāryaṁ karōti; tēna rasādayō’pi svakāryaṁ kurvanti, avasthāpākō’pi svakīyaṁ kāryaṁ karōti; yathā- madhuratiktādiṣaḍrasē’nnē upayuktē madhurō’pi svakāryaṁ karōti, tiktādayaśca svakāryaṁ kurvanti; ayaṁ tu viśēṣaḥ- yanmadhurākhyasyāvasthāpākasya madhurādayaḥ ślēṣmajanakā rasā anuguṇā bhavanti tadā sa bahuślēṣmāṇaṁ janayati, yadā tvavasthāpākō viparītakaṭukādiparigr̥hītō bhavati tadā stōkamātraṁ kaphaṁ janayati; ēvaṁ pittajanakē’vasthāpākē’pi vācyam| “kaṭutiktakaṣāyāṇāṁ” (sū.a.26) ityādinōktastridhā vipākastu rasamalavivēkasamakālō bhinnakāla ēvāvasthāpākaiḥ samamiti na virōdhaḥ| sa ca bhinnakālō’pyavasthāpākakāryadōṣānuguṇatayā’nanuguṇatayā vā avasthāpākāhitadōṣāṇāṁ vardhanaṁ kṣapaṇaṁ vā karōtīti tasyābhidhānaṁ śāstrē prayōjanavadēva| yadyapi sarvamannamavasthāyāṁ vidahyatē, tathā’pi yē’tyarthaṁ vidāhinasta ēva ‘vidāhinaḥ’ ityucyantē, viśēṣavidāhakartr̥tvāt| anyē tvāhuḥ- na ṣaḍrasādapyannāt sāmānyēnāvasthāpākē kaphādyutpattiḥ, kintu ṣaḍrasādapyannāt prathamē pākē madhurō’yamudbhūtō rasaḥ sa kaphaṁ janayati, tathā pittaṁ vidāhāvasthāyāmudbhūtādamlarasādutpadyatē, ēvaṁ vāyurapi āhārakaṭutāvasthāyāṁ bhavatīti| anyē tvāhuḥ- yat- nānnasyāgnisaṁyōgānmadhurādyāvasthikaṁ bhavati, kintu kaphādisthānēṣu manuṣyāṇāṁ svabhāvādēva madhurādayō rasāstiṣṭhanti, tē cānnaṁ svasvabhāvaṁ nītvā kaphādīñjanayanti| uktaṁ hi tantrāntarē- “madhurō hr̥dayādūrdhvaṁ rasaḥ kōṣṭhē vyavasthitaḥ| tataḥ saṁvardhatē ślēṣmā śarīrabalavardhanaḥ|| nābhīhr̥dayamadhyē ca rasastvamlō vyavasthitaḥ| svabhāvēna manuṣyāṇāṁ tataḥ pittaṁ vivardhatē|| adhō nābhyāstu khalvēkaḥ kaṭukō’vasthitō rasaḥ| prāyaḥ śrēṣṭhatamastatra prāṇināṁ vardhatē’nilaḥ|| tasmādvipākastrividhō rasānāṁ nātra saṁśayaḥ” iti| iha tu tatrētyādigranthārthālōcanayā yathōkta ēva granthārthō nyāyyaḥ| tantrāntarē tu ślēṣmapittagatamadhurāmlarasau varṇayanti, tē kaphādyadhigatā rasā asmākamapi pākasahakāritayā anumatā ēva| yattu ślēṣmajanakāṁśasyaivāvasthāpākē ślēṣmakartr̥tvamityuktaṁ, tadanumatamēva; ēvaṁ yaḥ ślēṣmajanakōṁ’śa āhāragataḥ sa sthānamahimnā tadāhārasya madhuratāmāpādya ślēṣmāṇaṁ viśēṣēṇa janayatīti brūmaḥ| yattu, anēnāvasthāpākēna kaphapittayōrīraṇamātraṁ kriyatē natu vr̥ddhiḥ, vr̥ddhiḥ niṣṭhāpākē ēva bhavatīti vadanti, tadupapattiśūnyaṁ bhāti; kiñca, avasthāpākāt kaphapittayōrvr̥ddhiḥ, tathā niṣṭhāpākācca malarūpatayā utpāda iti yuktaṁ paśyāmaḥ||9-11||

annamiṣṭaṁ hyupahitamiṣṭairgandhādibhiḥ [8] pr̥thak|
dēhē prīṇāti gandhādīn ghrāṇādīnīndriyāṇi [9] ca||12||


karmāntarēṇāpyannasya pākaḥ sampadyatē, tamāha- annamityādi| annamiṣṭaṁ hyupahitamiti hiśabdō’vadhāraṇē; iṣṭaśabdēnēha priyaṁ hitaṁ cōcyatē na priyamātram, ahitasya priyamātrasya na dēhavyavasthitiḥ gandhāditarpakatvaṁ ca bhavati; upahitamiti upayuktam| iṣṭairiti priyahitaiḥ gandharasarūpasparśaśabdaiḥ| atra yadyapi hitatvamēva gandhādīnāmāhāragatānāṁ dēhagatagandhādipōṣaṇē pradhānaṁ, tathā’pi priyatvamapyāhāragatagandhādīnāṁ tadātvōpakārakatayā grahītuṁ priyatvahitatvayōrdvayōrapyupādānaṁ kr̥tam| dēhē prīṇāti gandhādīniti dēhaśritān gandhādīn pōṣayati| tathā ghrāṇādīni ca ghrāṇadarśanarasanasparśanaśrōtrāṇi iṣṭairgandhādibhiḥ prīṇāti tarpayati, pōṣayatīti yāvat| indriyāṇyapi hi pāñcabhautikānyasmaddarśanē; tāni ca pratikṣaṇaṁ kṣīyamāṇāni||12||

bhaumāpyāgnēyavāyavyāḥ pañcōṣmāṇaḥ sanābhasāḥ|
pañcāhāraguṇānsvānsvānpārthivādīnpacanti hi||13||


bhautikavahnivyāpāramāha- bhaumētyādi| bhaumādayaḥ pañcōṣmāṇaḥ pārthivādidravyavyavasthitā jāṭharāgnisandhukṣitabalā antarīyaṁ dravyaṁ pacantaḥ svān svān pārthivādīn pūrvapārthivagandhatvādyavilakṣaṇān guṇān nirvartayanti| ētadēva “vividhamaśitapītalīḍhakhāditaṁ jantōrhitamantaragnisandhukṣitabalēna yathāsvēnōṣmaṇā samyagvipacyamānaṁ” (sū.a.28) ityādinā sūtrāsthānē’pyuktam| yadyapi bhūtāgninā pārthivādidravyaṁ pacyatē, tathā’pi pārthivādidravyāṇāṁ pākēnaitadēva jananaṁ yadviśiṣṭaguṇayuktatvaṁ, tēna pākēna janyamānē’pi dravyē guṇā ēva janyanta ityabhiprāyēṇa pārthivādīnāhāraguṇāñjanayantītyucyatē| anēna guṇajananamēvāgninōcyatē; na dravyajananam| kiṁvā āhārāśca guṇāścēti vigrahādāhāraśabdēna āhārādhikaraṇarūpaṁ dravyamapi gr̥hyatē| pārthivādīniti pārthivāpyataijasavāyavīyanābhasān| tatra jāṭharāgniḥ sarvānēvāhārarasamalavipākān pacati, bhautikāstvagnayaḥ svān svān guṇāñjanayanti| uktaṁ ca- “jāṭharēṇāgninā pūrvaṁ kr̥tē saṅghātabhēdē paścādbhūtāgnayaḥ pañca svaṁ svaṁ dravyaṁ pacanti” iti| ayaṁ ca bhūtāgnivyāpārō dhātuṣvapyasti, yatō dhātuṣvapi pañcabhūtāni santi, tatrāpi dhātvagnivyāpārō bhūtāgnivyāpāraśca jāṭharāgnikramēṇaivōktō jñēyaḥ||13||

yathāsvaṁ svaṁ ca puṣṇanti dēhē dravyaguṇāḥ pr̥thak|
pārthivāḥ pārthivānēva śēṣāḥ śēṣāṁśca kr̥tsnaśaḥ||14||


agnipakvānāhāraguṇānāha- yathāsvamityādi| yathāsvamiti yadyasyātmīyaṁ; sajātīyā dravyaguṇā sajātīyān dravyaguṇān puṣṇanti| tēna dravyāṇi pārthivādidravyarūpāṇi dēhadhātudōṣamalākhyāni puṣṇanti, guṇāstu pākasthitagandhasnēhauṣṇyagauravādayaḥ dēhagandhasnēhauṣṇyagauravādīn puṣṇanti| yathāsvamityādiśabdārthaṁ sphōrayati- pārthivā ityādi| pārthivā āhāradravyaguṇā dēhagatān pārthivānēva dravyaguṇān puṣṇanti| āhāradravyaguṇā ityatra dravyagataguṇā ēva ucyantē| dravyapōṣaṇaṁ tu guṇapōṣaṇēna labhyatē, guṇapōṣaṇaṁ dravyapōṣaṇamantarā kartumaśakyatvāt||14||

saptabhirdēhadhātārō dhātavō dvividhaṁ punaḥ|
yathāsvamagnibhiḥ pākaṁ yānti kiṭṭaprasādavat [10] ||15||


bhūtāgnivyāpāraṁ darśayitvā dhātvagnivyāpāraṁ darśayannāha- saptabhirityādi| dēhadhātāra iti viśēṣēṇa dēhadhārakāḥ| dvividhamiti dviprakāraṁ pākam| tadēva prakāradvayamāha- kiṭṭaprasādavaditi; kiṭṭaprasādarūpamityarthaḥ| śukrasya yadyapi kiṭṭavān pākō na bhavati, tathā’pi bahūnāṁ kiṭṭavattvād dvividhamiti nirdēśaśchatriṇō gacchantīti nyāyājjñēyaḥ| punariti jāṭharāgnipākānantaram||15||

rasādraktaṁ tatō māṁsaṁ māṁsānmēdastatō’sthi ca|
asthnō majjā tataḥ śukraṁ śukrādgarbhaḥ prasādajaḥ||16||


pākajanyānāṁ rasādīnāmutpādaṁ kramēṇāha- rasādityādi| rasādraktaṁ prasādajaṁ, tatō raktānmāṁsaṁ prasādajaṁ, māṁsānmēdaḥ prasādajamityādi yāvacchukrādgarbhaḥ prasādaja iti| prasādajaśabdēna rasādibhyaḥ prasādāṁśajanyā raktādayaḥ, kiṭṭāṁśajanyāstu vakṣyamāṇāḥ kaphādaya iti| śukrāttu nirmalatayā prasādaja ēva garbhō bhavati, natu malajanyaṁ kiñcit| kēcittu śukramalatayā śmaśrūṇi vadanti; tanna, tantrē’nabhidhānāt| tathā śukramalaṁ yadi śmaśrūṇi syustadā strīṇāmapi saśukratayā śmaśrūṇi bhavēyuḥ; striyaśca saśukrā ēva, paraṁ tāsāṁ śukraṁ garbhārambhakaṁ na bhavatītyādi pratipāditaṁ prāk| anyē tu garbhaprasādajaśabdēna napuṁsakēna ōjō’bhidadhati| prasādaja ityatra jātaśabdaḥ pōṣaṇa ēva vartatē, nāpūrvōtpādē; raktādayō hi garbhātprabhr̥tyēvōtpannā rasādibhiḥ pōṣyantē; raktādayō hi garbhaprabhr̥tyēva pōṣyantē| tatra ca tridhātūtpādē vyākhyātārō varṇayanti- tatra rasaḥ svāgnipacyamānō raktatāṁ yāti, raktaṁ māṁsatāmityādi pūrvapūrvadhātupariṇāmāduttarōttaradhātūtpādaḥ; yathā kṣīrāddadhi bhavati, dadhnō navanītaṁ, navanītādghr̥taṁ, ghr̥tād ghr̥tamaṇḍaḥ, ityēkaḥ pakṣaḥ| kiṁvā rasa ēva raktaṁ prathamaṁ plāvayati, tatra ca raktasthānasambandhādraktasādr̥śyamanubhavati, raktaṁ ca raktasamānēnāṁśēna pōṣayati; tatō raktamāplāvya māṁsamāplāvayati, tatrāpi māṁsapōṣaṇaṁ karōti, māṁsasādr̥śyatāmanubhavati; ēvaṁ uttarōttaradhātūn rasa ēvāplāvayati vardhayati ca; yathā kēdāraniṣiktaṁ kulyājalaṁ pratyāsannāṁ kēdārīṁ tarpayitvā kramēṇa kēdārikāntarāṇi āplāvayati| kiṁvā āhārarasasya utpannō bhinnairēva mārgai rasarudhirādīni samānēnāṁśēna tarpayati, tatra ca yaḥ pratyāsannō dhātustatpōṣakō dhātubhāgastaṁ śīghraṁ puṣṇāti, yastu vidūrō dhātustasya vidūramārgatayā cirēṇa pōṣaṇaṁ bhavati, ēvaṁ bhinnairēva mārgairdhātūnāṁ pōṣaṇaṁ bhavati; yathā khalē utpatitānāṁ kapōtānāṁ bhinnadiggāmināṁ svīyasvīyamārgēṇaiva gacchatāṁ gamyadēśasya pratyāsannaviprakr̥ṣṭatvādibhēdēna śīghraṁ cirēṇa ca gamanaṁ bhavati, tadvat| iti kṣīradadhinyāya-kēdārīkulyānyāya-khalēkapōtanyāyāttrēdhā dhātupōṣaṇakramaḥ| tatrēha śabdārthaparyālōcanayā kēdārīkulyānyāyaḥ kṣīradadhinyāyō vā saṅgata ēvaḥ, khalēkapōtanyāyastu manāgdurghaṭaḥ| tasmin hi pakṣē rasādraktaṁ prasādajamityarthavyutpādanaṁ duḥśakaṁ, prapañcitaṁ caitadvividhāśitapītīyē, tatraivānusaraṇīyaḥ prapañcaḥ| nanu, vividhāśitapītīyē āhārarasādrasādipuṣṭiruktā “puṣyanti tvāhārarasādrasarudhira” (sū.a.28) ityādinā; tatra rasadvayaṁ svīkr̥tam, iha tvēka ēva raktapōṣakō rasa iti kathaṁ na virōdhaḥ? maivaṁ, tatrāpi āhārarasaśabdēna āhārajaḥ prasādō’bhidhīyatē, sa ca rasagrahaṇagr̥hīta ēva| yatō dvividhō rasaḥ- sthāyī, pōṣakaścēti; tēna tatra dhātupōṣakapōṣyarasāṁśayōrbhēdavivakṣayā bhēda uktaḥ; iha sthāyīpōṣakarasāṁśāvapyēkatayā nirdiṣṭau, sthāyirasapōṣakarasabhāgayōḥ sthānabhēdādyabhāvādēkatvam; ēvaṁ kr̥tvā saptadhātukaṁ śarīramucyatē| ētadapi vividhāśitapītīyē ēva prapañcitam||16||

rasāt stanyaṁ tatō [11] raktamasr̥jaḥ kaṇḍarāḥ sirāḥ|
māṁsādvasā tvacaḥ ṣaṭ ca mēdasaḥ snāyusambhavaḥ [12] ||17||


dhātūnāṁ pōṣaṇamabhidhāyōpadhātupōṣaṇamāha- rasāt stanyamityādi| rasāt stanyaṁ prasādajaṁ, tathā raktamapi rajaḥsañjñaṁ rasādēva prasādabhāgajanyam; uktaṁ ca suśrutē- “rasādēva striyā raktaṁ rajaḥsañjñaṁ pravartatē” (su.sū.a.14) iti| ētacca rajō rasajanyamapi sūkṣmatayā cirēṇaiva jāyatē; yaduktaṁ suśrutē- “ēvaṁ māsēna rasaḥ śukrabhavati, strīṇāṁ cārtavam” (su.sū.a.14) iti| asrajaḥ kaṇḍarāḥ sthūla snāyavaḥ, mēdasastu sūkṣmasnāyupōṣaṇaṁ ‘mēdasaḥ snāyusambhavaḥ’ ityanēna vaktavyam| iha hi kaṇḍarāśabdēna sthūlasnāyurucyatē, suśrutē tu sthūlasirā| tē ca stanyādayō dhātvantarāpōṣaṇāccharīrapōṣakā apyupadhātuśabdēnōcyantē, rasādayastu śarīradhārakatayā dhātvantarapōṣakatayā ca dhātuśabdēnōcyantē; uktaṁ ca bhōjē- “sirāsnāyurajaḥstanyatvacō gativivarjitāḥ| dhātubhyaścōpajāyantē tasmātta upadhātavaḥ” iti| atrāpi hi ‘dhātubhyaścōpajāyantē’ ityanēna jāyanta ēva, paraṁ na janayantītyuktam| śukraṁ tu ōjōjanakatvād dhātvantargatamēva| ōjastu iha na dhātuṣu nāpyupadhātuṣu paṭhitaṁ, tasya saptadhātusārarūpatayā saptadhātvantaragatatvādēva, ata ēva tasyāgnirapi pr̥thaṅnōktaḥ||17||

kiṭṭamannasya viṇmūtraṁ, rasasya tu kaphō’sr̥jaḥ|
pittaṁ, māṁsasya khamalā, malaḥ svēdastu mēdasaḥ||18||
syātkiṭṭaṁ kēśalōmāsthnō, majjñaḥ snēhō’kṣiviṭtvacām|
prasādakiṭṭē dhātūnāṁ pākādēvaṁvidharcchataḥ [13] ||19||
parasparōpasaṁstabdhā dhātusnēhaparamparā [14] |20|


prasādabhāgōtpādamabhidhāya malabhāgōtpādamāha- kiṭṭamityādi| rasasya kapha iti rasē pacyamānē kiṭṭaṁ kaphō bhavati, prasādaśca raktaṁ; ēvaṁ raktādimalē’pi jñēyam| māṁsasya khamalā iti karṇākṣināsāsyaprajananamalāḥ| malaḥ svēdastu mēdasa iti svēdō yadyapi udakaviśēṣa ēva uktastathā’pi tasya mēdōmalatvēnaivōtpatiḥ; kiṁvā, udakādapi svēdō bhavati mēdōmalatayā ca bhavati, yathā- kaphō’vasthāpākād rasamalatayā ca bhavati| asthimalaṁ nakhō’pi suśrutaprāmāṇyādunnēyaḥ| tatra hi “nakhalōma ca” (su.sū.a.46) ityanēnāsthimalatvaṁ nakhasyōktam| uktaṁ ca vividhāśitapītīyē- “kiṭṭāt kēśanakhādayaḥ puṣyanti” (sū.a.28) iti; kintu śārīrē’sthigaṇanāyāṁ “viṁśatirnakhā” (śā.a.7) ityanēnāsthitvēna prōktāḥ| ēvamuktēna kramēṇa prasādakiṭṭē dvidhā r̥cchatō bhavata ityarthaḥ| samprati pōṣyēṇāpi raktēna rasasyāpyāyanaṁ kriyatē, tathā māṁsēnāpi raktasyētyādi parasparaṁ dhātūnāmutpādakatvamāha- parasparētyādi| dhātusnēhaparamparā parasparōpasaṁstabdhēti anyōnyamupasnēhēna saṁstabdhatvāt santarpitēti yāvat||18-19||-

vr̥ṣyādīnāṁ prabhāvastu puṣṇāti balamāśu hi||20||
ṣaḍbhiḥ kēcidahōrātrairicchanti parivartanam|
santatyā bhōjyadhātūnāṁ parivr̥ttistu cakravat||21||
(ityuktavantamācāryaṁ [15] śiṣyastvidamacōdayat|
rasādraktaṁ visadr̥śāt [16] kathaṁ dēhē’bhijāyatē||22||
rasasya ca na rāgō’sti sa kathaṁ yāti raktatām|
dravādraktātsthiraṁ māṁsaṁ kathaṁ tajjāyatē nr̥ṇām||23||
dravadhātōḥ [17] sthirānmāṁsānmēdasaḥ sambhavaḥ katham|
ślakṣṇābhyāṁ māṁsamēdōbhyāṁ kharatvaṁ kathamasthiṣu||24||
kharēṣvasthiṣu majjā ca kēna snigdhō mr̥dustathā|
majjñaśca pariṇāmēna yadi śukraṁ pravartatē||25||
sarvadēhagataṁ śukraṁ pravadanti manīṣiṇaḥ|
tathā’sthimadhyamajjñaśca śukraṁ bhavati dēhinām||26||
chidraṁ na dr̥śyatē’sthnāṁ ca tanniḥsarati vā katham|
ēvamuktastu śiṣyēṇa guruḥ prāhēdamuttaram||27||
tējō rasānāṁ sarvēṣāṁ manujānāṁ yaducyatē|
pittōṣmaṇaḥ sa rāgēṇa rasō raktatvamr̥cchati||28||
vāyvambutējasā raktamūṣmaṇā cābhisaṁyutam|
sthiratāṁ prāpya māṁsaṁ syāt svōṣmaṇā pakvamēva tat [18] ||29||
svatējō’mbuguṇasnigdhōdriktaṁ mēdō’bhijāyatē|
pr̥thivyagnyanilādīnāṁ saṅghātaḥ svōṣmaṇā [19] kr̥taḥ||30||
kharatvaṁ prakarōtyasya jāyatē’sthi tatō nr̥ṇām|
karōti tatra sauṣiryamasthnāṁ madhyē samīraṇaḥ||31||
mēdasastāni pūryantē snēhō majjā tataḥ smr̥taḥ|
tasmānmajjñastu yaḥ snēhaḥ śukraṁ sañjāyatē tataḥ||32||
vāyvākāśādibhirbhāvaiḥ sauṣiryaṁ jāyatē’sthiṣu|
tēna sravati tacchukraṁ navāt kumbhādivōdakam||33||
srōtōbhiḥ syandatē dēhāt samantācchukravāhibhiḥ [20] |
harṣēṇōdīritaṁ vēgāt saṅkalpācca manōbhavāt||34||
vilīnaṁ ghr̥tavadvyāyāmōṣmaṇā sthānavicyutam|
bastau sambhr̥tya niryāti sthalānnimnādivōdakam)||35||


vr̥ṣyādidravyāṇāṁ dhātuparamparākramēṇa śukrajananādikāryaṁ niṣēdhayannāha- vr̥ṣyādīnāmityādi| ādiśabdēna balyabhēdanādīni grāhayati| vr̥ṣyādīnāṁ kṣīrādidravyāṇāṁ prabhāvō balaṁ śīghraṁ puṣṇāti, tatastē kṣīrādayaḥ prabhāvavardhitabalāḥ śīghramēvānnakāryaṁ śukrajananādi kurvanti, na yathōktadhātukramēṇētyarthaḥ| kiṁvā vr̥ṣyādīnāṁ kṣīrādidravyāṇāṁ yaḥ prabhāvaḥ sa āśu balaṁ puṣṇāti svajanyānāṁ śukrādīnāmityarthaḥ; hiśabdō’vadhāraṇē; ēvaṁ vr̥ṣyādīnāṁ prabhāvācchukrādyutpattiḥ śīghraṁ bhavati| athōtsargataḥ kiyatā kālēna dhātuparivr̥ttirbhavatītyāha- ṣaḍbhirityādi| ṣaḍbhirahōrātrai rasasya śukrarūpatayā parivartanaṁ bhavatīti kēcidicchanti| tatrōtpannō rasō raktamēkēnāhōrātrēṇa yāti, ēvaṁ rasōtpattidinaṁ parityajya ṣaḍahēna śukratā bhavati; yadā tu rasōtpattidinamapi prakṣipyatē tadā ṣaḍbhirdinairatikrāntaiḥ saptamē śukrabhāvatayā parivartanaṁ bhavatīti jñēyam| uktaṁ hi parāśarē- “āhārō’dyatanaḥ śvō hi rasatvaṁ gacchati nr̥ṇām| śōṇitatvaṁ tr̥tīyē’hni, caturthē māṁsatāmapi|| mēdastvaṁ pañcamē, ṣaṣṭhē tvasthitvaṁ, saptamē tviyāt| majjatāṁ, śukratāṁ yāti niyamādaṣṭamē nr̥ṇām” iti| ēvadapyupayōgadinaṁ sampūrṇaṁ parityajyaiva vyākhyātavyamityāhuḥ| kiñca rasadhātōḥ raktadhāturūpatayā ca pariṇamanaṁ yattadapi ṣaṣṭhadinanirvartyamēvēti| yaduktaṁ suśrutē- “sa khalvāpyō rasa ēkaikasmin dhātau trīṇi trīṇi kalāsaha srāṇyavatiṣṭhati daśa ca kalāḥ, ēvaṁ māsēna rasaḥ śukrībhavati” (su.sū.a.14) iti| tēnaitatpakṣadvayamapi kēcidityādinā darśayati| svamatamāha- santatyētyādi| bhōjyē upayuktē sati dhātūnāṁ rasādīnāṁ cakravat parivr̥ttirbhavati aviśrāntā samutpattirdhātūnāṁ bhavati| cakradr̥ṣṭāntēna tu parivr̥ttikālāniyamaṁ darśayati; yathā cakraṁ pānīyōddhāraṇārthaṁ niyuktaṁ bāhyamānaṁ bāhubalaprakarṣāt kadācidāśvēva parivartatē, kadācid bāhubalamāndyāccirēṇa; ēvaṁ dhātavō’pi agnyādisauṣṭhavācchīghramēva parivartantē, agnyādivaiguṇyē cirēṇa parivartantē iti; ēvaṁ suśrutēnāpi “śabdārcirjalasantānavadaṇunā viśēṣēṇānudhāvatyēva śarīraṁ kēvalam” (su.sū.a.14) ityatra dr̥ṣṭāntatrayēṇa rasapariṇāmō’pi agnyādibhēdēna prakr̥ṣṭāprakr̥ṣṭakālaja ukta ēva| tatra hi jalasantānadr̥ṣṭāntēna cirēṇa māsaparyantēna śukratāpattī rasasyōktā, śabdasantānadr̥ṣṭāntēna tu nātiśīghraṁ nāticirācca śukrōtpattiruktā, arciḥsantānadr̥ṣṭāntēna tvatiśīghraṁ śukrōtpattiruktā| tathā’nyatrāpyuktaṁ- “kēcidāhurahōrātrāt, ṣaḍrātrādaparē, parē| māsēna yāti śukratvamannaṁ pākakramāditi”| tadētat sakalaṁ cakradr̥ṣṭāntēna gr̥hītaṁ jñēyam||20-35||

vyānēna rasadhāturhi vikṣēpōcitakarmaṇā|
yugapat sarvatō’jasraṁ dēhē vikṣipyatē sadā||36||
kṣipyamāṇaḥ khavaiguṇyādrasaḥ sajjati yatra saḥ|
karōti [21] vikr̥tiṁ tatra khē varṣamiva tōyadaḥ||37||
dōṣāṇāmapi caivaṁ syādēkadēśaprakōpaṇam [22] |38|


atha kō’nnarasaṁ raktādidhātupōṣakaṁ prērayati; yēna tatra tatra rasaḥ sarpatītyāha- vyānēnētyādi| rasarūpō dhātuḥ, kiṁvā rasatīti rasō dravadhāturucyatē, tēna rudhirādīnāmapi dravāṇāṁ grahaṇaṁ bhavati; vikṣēpaḥ ucitaṁ prākr̥taṁ karma yasya sa vikṣēpōcitakarmā; tēna vyānēna, yugapaditi ēkakālaṁ, sarvata iti sarvasmin dēhē, vikṣipyatē iti nīyatē, ajasramiti aviśrāntaṁ vikṣipyatē, sadēti sarvakālam| nanvēvaṁ sarvatra rasavikṣēpē kathamēkadēśē rasādau vikārāśrayō dr̥śyata ityāha- kṣipyamāṇa ityādi| khavaiguṇyāditi srōtōvaiguṇyāt| sajjatīti tiṣṭhati| vikāraṁ kurutē iti rasāśrayivikāraṁ kurutē; rasō’pi hi vikārakaraṇē āśrayatayā vyāpriyatē, tēnēha tasya kartr̥tvaṁ yuktam| khē varṣamiva tōyada iti yathā caṇḍēna vāyunā nīyamānō mēghō yatra saktō bhavati tatraiva varṣaṁ karōti, tathā rasō’pītyarthaḥ| yathā rasa ēkadēśē vikāraṁ karōti, ēvaṁ dōṣā apyēkadēśavikāraṁ kurvantītyāha- dōṣāṇāmityādi| suśrutō’pyāha- “kupitānāṁ hi dōṣāṇāṁ śarīrē paridhāvatām| yatra saṅgaḥ khavaiguṇyādvyādhistatrōpajāyatē” (su.sū.a.24) iti||36-37||-

iti bhautikadhātvannapaktr̥̄ṇāṁ karma bhāṣitam||38||
annasya paktā sarvēṣāṁ paktr̥̄ṇāmadhipō mataḥ|
tanmūlāstē hi tadvr̥ddhikṣayavr̥ddhikṣayātmakāḥ||39||
tasmāttaṁ vidhivadyuktairannapānēndhanairhitaiḥ|
pālayēt prayatastasya sthitau hyayurbalasthitiḥ||40||
yō hi bhuṅktē vidhiṁ tyāktvā grahaṇīdōṣajān gadān|
sa laulyāllabhatē śīghraṁ, vakṣyantē’taḥ paraṁ tu tē||41||


uktamagnīnāṁ karma upasaṁharati- iti bhautikētyādi| bhautikāḥ pañca, dhātvagnayaḥ sapta, annapaktaikaḥ| atra ca yānyagnyantarāṇi upadhātumalādigatāni tānyapyavaruddhāni bhūtāgniṣvēva; kiṁvā, aprādhānyādanyānyakiñcitkarāṇi nōktāni| sarvāgniṣu jāṭharāgnēḥ prādhānyamāha- annasyētyādi| prādhānyē hētumāha- tanmūlā ityādi| tanmūlatvē hētugarbhaviśēṣaṇamāha- tadvr̥ddhītyādi| tasya jāṭharāgnēḥ vr̥ddhyā vr̥ddhyātmakāḥ kṣayēṇa ca kṣayātmakā yasmādihāgnayastasmādanvayavyatirēkārthavidhāyitvāttanmūlā ityarthaḥ| yataścāyamantaragnirmūlaṁ sarvatra tasmāttaṁ pālayēditi yōjyam| vidhivadyuktairityatra āhāravidhiyōgādupayuktaiḥ| āyurbalasthitiriti annapācakāgnisthitau āyurbalasthityā anyē’pyatiprēyā varṇādayō lakṣaṇīyāḥ| viparyayē dōṣamāha- yō hītyādi| grahaṇīdōṣajāniti grahaṇyāśritadōṣajān| ētēna vakṣyamāṇalakṣaṇāścatvārō grahaṇīvikārā viśēṣēṇa grahaṇīdōṣaśabdavācyā gr̥hyantē, tathā’gnimāndyājīrṇādayaśca grahaṇyāśritā rōgā gr̥hyantē| agnimāndyājīrṇādayastu yadyapi grahaṇyāśritatvēna grahaṇīrōgā ēva, tathā’pīha grahaṇīrūpanāḍīvyāpāravaiparītyēna yē jāyantē ta ēva mukhyagrahaṇīśabdavācyāścatvārō rōgāḥ| yatō ‘adhastu pakvamāmaṁ vā’ ityādinā grahaṇīgadasāmānyalakṣaṇaviśiṣṭamēva grahaṇīgadaṁ grahaṇīprākr̥tavyāpārōpamardēna jāyamānaṁ vakṣyati| vakṣyati ca grahaṇyā duṣṭamaduṣṭaṁ ca rūpaṁ “apakvaṁ dhārayatyannaṁ pakvaṁ sr̥jati pārśvataḥ| sā duṣṭā bahuśō bhuktamāmamēva vimuñcati” iti| na cēyaṁ pakvānnavimōkṣalakṣaṇā duṣṭiragnidōṣē āmādyajīrṇē vā| anēna viśēṣābhidhēyagrahaṇīśabdatvaṁ grahaṇyāśritadōṣajanyagrahaṇīgadasyaivēhōcyatē; agnidōṣāṇāṁ na viśēṣādgrahaṇīgadatvam; atisārē yadyapi pakvānnamuñcanamasti, tathā’pi tasya bhinnasamprāptikatvāt tathā cikitsābhēdād grahaṇīdōṣādanyatvamuktam||38-41||

abhōjanādajīrṇātibhōjanādviṣamāśanāt|
asātmyaguruśītātirūkṣasanduṣṭabhōjanāt||42||
virēkavamanasnēhavibhramādvyādhikarṣaṇāt|
dēśakālartuvaiṣamyādvēgānāṁ ca vidhāraṇāt||43||
duṣyatyagniḥ, sa duṣṭō’nnaṁ na tat pacati laghvapi|
apacyamānaṁ śuktatvaṁ yātyannaṁ viṣarūpatām [23] ||44||


ēvaṁ vyavasthitē sāmānyēna grahaṇīdōṣavikāraṇāṁ hētvādīnyāha- abhōjanādityādi| kālaśabdēna ca saṁvatsarātmakaḥ kāla ucyatē| dēśavaiṣamyaṁ dēśavyāpat; sā ca janapadōddhvaṁsanīyē prōktā| r̥tuśabdēna tu śiśirādyr̥tuḥ| kālavaiṣamyēṇa sarvēṣāmr̥tūnāṁ vaiṣamyaṁ gr̥hyatē, r̥tuvaiṣamyēṇa dvyēkartuvaiṣamyamiti viśēṣaḥ| śuktatvamiti amlatām| viṣarūpatāmiti yathā viṣaṁ bahuvikārakāri bhavati tathā tadrūpatām, anēna sarva ēvājīrṇabhēdā avaruddhā jñēyāḥ, yē tantrāntarē “āmaṁ vidagdhaṁ viṣṭabdhaṁ kaphapittānilaiḥ kramāt| ajīrṇaṁ kēcidicchanti caturthaṁ rasaśēṣataḥ” (su.sū.a.46) ityanēnōktāḥ||42-44||

tasya liṅgamajīrṇasya viṣṭambhaḥ sadanaṁ tathā|
śirasō ruk ca mūrcchā ca bhramaḥ pr̥ṣṭhakaṭigrahaḥ||45||
jr̥mbhā’ṅgamardastr̥ṣṇā ca jvaraśchardiḥ pravāhaṇam|
arōcakō’vipākaśca, ghōramannaviṣaṁ ca tat||46||
saṁsr̥jyamānaṁ [24] pittēna dāhaṁ tr̥ṣṇāṁ mukhāmayān|
janayatyamlapittaṁ ca pittajāṁścāparān gadān||47||
yakṣmapīnasamēhādīn kaphajān kaphasaṅgatam|
karōti vātasaṁsr̥ṣṭaṁ vātajāṁśca [25] gadān bahūn||48||
mūtrarōgāṁśca mūtrasthaṁ kukṣirōgān śakr̥dgatam|
rasādibhiśca saṁsr̥ṣṭaṁ kuryādrōgān rasādijān||49||


tasyēti sāmānyājīrṇasya lakṣaṇam| viṣṭambha iti viṣṭambhō’pracalanarūpatayā’vasthānam| ghōramannaviṣaṁ ca tat pittēna saṁsr̥jyamānamityādinā pittādiduṣṭasyājīrṇasya lakṣaṇamāha| ētacca pittādisaṁsargakr̥taṁ lakṣaṇam, ajīrṇasya kōṣṭhamātragatatvēna yakṣmādivikārakaraṇē’sāmarthyōpalabdhēḥ| amlapittaṁ cēti amlaguṇōdriktaṁ pittam| asya tantrāntarē lakṣaṇamuktaṁ- “avipākaklamōtklēdatiktāmlōdgāragauravaiḥ| hr̥tkaṇṭhadāhārucibhiścāmlapittaṁ vinirdiśēt” iti| yakṣmaṇastridōṣajatvē’pi srōtō’varōdhē kaphavyāpāraprādhānyādiha kaphajatvamuktam| kiṭṭadhātuyōgēna rasaśēṣānnasya gadānāha- mūtrarōgāṁścētyādi| rasādijānityatra yē rasādijā arucyādaya uktāstē bhavantīti jñēyam||45-49||

viṣamō dhātuvaiṣamyaṁ karōti viṣamaṁ pacan|
tīkṣṇō mandēndhanō dhātūn viśōṣayati pāvakaḥ||50||


ajīrṇalakṣaṇamabhidhāya agnidōṣalakṣaṇamāha- viṣama ityādi| tīkṣṇāgnikāryamāha- tīkṣṇamityādi| atra mandēndhana ityanēna tīkṣṇō’pi yadi śucīndhanō bhavati tadā dhātupōṣaṇaṁ bhavatīti darśayati||50||

yuktaṁ bhuktavatō yuktō dhātusāmyaṁ samaṁ pacan|51|


agniprasaṅgāt samāgnēḥ kāryamāha- yuktamityādi| yukta iti samaḥ| yuktamannaṁ pacan dhātusāmyaṁ karōtītyarthaḥ| samaśabdēna samānō vāyuragnisahāyō gr̥hyatē| kiṁvā yuktavāyutayā dhātusāmyaṁ karōti, yuktaśabdēna ca kaphapittasāmyamagnau gr̥hyatē| yataḥ “samaḥ samaiḥ” (vā.sū.a.1) iti vacanēna dōṣāṇāṁ samatvēnaiva samāgnitvamuktam|51|

durbalō vidahatyannaṁ tadyātyūrdhvamadhō’pi vā||51||
adhastu pakvamāmaṁ vā pravr̥ttaṁ grahaṇīgadaḥ|
ucyatē sarvamēvānnaṁ prāyō hyasya vidahyatē||52||
atisr̥ṣṭaṁ vibaddhaṁ vā dravaṁ tadupadiśyatē|
tr̥ṣṇārōcakavairasyaprasēkatamakānvitaḥ||53||
śūnapādakaraḥ sāsthiparvaruk chardanaṁ jvaraḥ|
lōhāmagandhistiktāmla [26] udgāraścāsya jāyatē||54||


mandāgnivyāpāramāha- durbala ityādi| uktavikārēṣu pradhānatvēna adhyāyaprakr̥taṁ grahaṇīdōṣavikāraṁ nirdhārayannāha- adhastvityādi| pakvamāmaṁ vēti vāśabdaḥ samuccayē; tēna kiñcitpakvaṁ kiñcidapakvaṁ ca| kutaḥ pakvāpakvaṁ sr̥jatītyāha- sarvamēvānnaṁ prayō hyasya vidahyatē iti; pakvāpakvaṁ bhavati| atisr̥ṣṭamiti vimuktam| tama ēva tamakaḥ||51-54||

pūrvarūpaṁ tu tasyēdaṁ tr̥ṣṇā”lasyaṁ balakṣayaḥ|
vidāhō’nnasya pākaśca cirāt kāyasya gauravam||55||


pūrvarūpē vidāhō’nnasyēti viśiṣṭō dāhō vidāhaḥ||55||

agnyadhiṣṭhānamannasya grahaṇādgrahaṇī matā|
nābhēruparyahyagnibalēnōpaṣṭabdhōpabr̥ṁhitā [27] ||56||
apakvaṁ dhāratyannaṁ pakvaṁ sr̥jati pārśvataḥ|
durbalāgnibalā duṣṭā [28] tvāmamēva vimuñcati||57||


samprati grahaṇīdōṣasya sukhapratipattyarthaṁ grahaṇyāḥ svarūpaṁ prākr̥taṁ karma cāha- agnyadhiṣṭhānamityādi| agnyadhiṣṭhānam agnērāśraya ityarthaḥ| grahaṇīsañjñānimittamāha- annasyētyādi| grahaṇāditi dhāraṇāt, nābhēruparyannasya dhāraṇādityarthaḥ| kiṁvā nābhērupari agnērūrdhvajvalanēna balēnōpastambhitā upabr̥ṁhitā ca sati apakvamannaṁ dhārayati, pakvaṁ ca pārśvataḥ sr̥jatīti vāmapārśvataḥ sr̥jati; yataḥ grahaṇīgudau vāmapārśvāśrayau, tēna vāmē pārśvē pakvaṁ sr̥jatīti yuktam| upastambhitā iti agninā pittavyāpārakaraṇēna anukūlitā, upabr̥ṁhitēti agninā br̥ṁhaṇavyāpārakaraṇēna saśaktīkr̥tā; kiṁvā upastambhatvēna upabr̥ṁhitā, atra pakṣē upastambhasādhāraṇyaṁ grahaṇyā āha| grahaṇyāḥ prākr̥taṁ karmābhidhāya vaikr̥taṁ karmāha- durbalētyādi| durbalāgniśca abalā cēti, kiṁvā durbalamagnibalaṁ yasyāḥ sā durbalāgnibalā| duṣṭā iti dōṣaduṣṭā| āmaṁ vimuñcatīti apakvamēvānnaṁ vimuñcati| pūrvarūpē pakvamāmaṁ vā vimuñcatītyanēna vidagdharūpamāmamēvōktam, iha tvāmaṁ [29] niyamēna vimuñcatīti na virōdhaḥ||56-57||

vātāt pittāt kaphācca syāttadrōgastribhya ēva ca|
hētuṁ liṅgaṁ rūpabhēdāñ [30] śr̥ṇu tasya pr̥thak pr̥thak||58||
kaṭutiktakaṣāyātirūkṣaśītalabhōjanaiḥ|
pramitānaśanātyadhvavēganigrahamaithunaiḥ||59||
karōti kupitō mandamagniṁ sañchādya mārutaḥ [31] |
tasyānnaṁ pacyatē duḥkhaṁ śuktapākaṁ kharāṅgatā||60||
kaṇṭhāsyaśōṣaḥ kṣuttr̥ṣṇā timiraṁ karṇayōḥ svanaḥ|
pārśvōruvaṅkṣaṇagrīvārujō’bhīkṣṇaṁ visūcikā||61||
hr̥tpīḍā kārśyadaurbalyaṁ vairasyaṁ parikartikā|
gr̥ddhiḥ sarvarasānāṁ ca manasaḥ sadanaṁ tathā||62||
jīrṇē jīryati cādhmānaṁ bhuktē svāsthyamupaiti ca|
sa vātagulmahr̥drōgaplīhāśaṅkī ca mānavaḥ||63||
cirāduḥkhaṁ dravaṁ śuṣkaṁ tanvāmaṁ śabdaphēnavat|
punaḥ punaḥ sr̥jēdvarcaḥ kāsaśvāsārditō’nilāt||64||
kaṭvajīrṇavidāhyamlakṣārādyaiḥ pittamulbaṇam|
agnimāplāvayaddhanti [32] jalaṁ taptamivānalam||65||
sō’jīrṇaṁ nīlapītābhaṁ pītābhaḥ sāryatē dravam|
pūtyamlōdgārahr̥tkaṇṭhadāhārucitr̥ḍarditaḥ||66||
gurvatisnigdhaśītādibhōjanādatibhōjanāt|
bhuktamātrasya ca svapnāddhantyagniṁ kupitaḥ kaphaḥ||67||
tasyānnaṁ pacyatē duḥkhaṁ hr̥llāsacchardyarōcakāḥ|
āsyōpadēhamādhuryakāsaṣṭhīvanapīnasāḥ||68||
hr̥dayaṁ manyatē styānamudaraṁ stimitaṁ guru|
duṣṭō madhura udgāraḥ sadanaṁ strīṣvaharṣaṇam||69||
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam|
akr̥śasyāpi daurbalyamālasyaṁ ca kaphātmakē||70||
yaścāgniḥ pūrvamuddiṣṭō rōgānīkē caturvidhaḥ|
taṁ cāpi grahaṇīdōṣaṁ samavarjaṁ pracakṣmahē||71||
pr̥thagvātādinirdiṣṭahētuliṅgasamāgamē|
tridōṣaṁ nirdiśēttēṣāṁ bhēṣajaṁ [33] śr̥ṇvataḥ param||72||


vātapittakaphasannipātajān grahaṇībhēdān tēṣāṁ pr̥thagghētvādīṁścāha- vātādityādi| tribhya iti sannipātāt| rūpabhēdāniti grahaṇīdōṣaliṅgatvēna vakṣyamāṇān| śuktamivānnasya pākaḥ śuktapākaḥ| gr̥ddhiḥ sarvarasānāmiti saptamyarthē ṣaṣṭhī| jīrṇē jīryati ‘annē’ iti śēṣaḥ| gulmādiśaṅkitvaṁ gulmādisadr̥śapīḍāyuktatvēna bhavati| paittikagrahaṇyāṁ pittasyāgnisamānatayā vardhanamēva yuktamityāśaṅkya pittasya dravatvēnāgnihananaṁ kriyatē iti darśayannāha- āplāvayaddhantyanalamiti; āplāvanaṁ dravēṇārdrīkaraṇam| uṣṇasyāpi dravatayā agninirvāpaṇē dr̥ṣṭāntamāha- jalaṁ taptamityādi| daurbalyaṁ balahāniḥ| yaścāgnirityādiślōkaṁ kēcidvaiśēṣikagrahaṇīdōṣavyatiriktāgnidōṣatrayasya grahaṇīrōgāntarnivēśanamasaṅgatamiti kr̥tvā’nārṣaṁ vadanti, kintu taṁ cāpītipadēnā’gnimāndyādīnāṁ prākr̥tānāṁ sāmānyagrahaṇīdōṣābādhē sati na kiñcidvirōdhaṁ paśyāmaḥ; sāmānyagrahaṇīdōṣē’pi agnimāndyādaya uktā [34] ēvēti darśitamēva| samavarjamiti samaprakr̥tipuruṣagatatvēnōktāgnivarjam||58-72||

grahaṇīmāśritaṁ dōṣaṁ vidagdhāhāramūrcchitam|
saviṣṭambhaprasēkārtividāhārucigauravaiḥ||73||
āmaliṅgānvitaṁ dr̥ṣṭvā sukhōṣṇēnāmbunōddharēt|
phalānāṁ vā kaṣāyēṇa pippalīsarṣapaistathā||74||
līnaṁ pakvāśayasthaṁ vā”pyāmaṁ srāvyaṁ sadīpanaiḥ|
śarīrānugatē sāmē rasē laṅghanapācanam||75||
viśuddhāmāśayāyāsmai pañcakōlādibhiḥ śr̥tam|
dadyāt pēyādi laghvannaṁ punaryōgāṁśca dīpanān||76||
jñātvā tu paripakvāmaṁ mārutagrahaṇīgadam|
dīpanīyayutaṁ sarpiḥ pāyayētālpaśō bhiṣak||77||
kiñcitsandhukṣitē tvagnau saktaviṇmūtramārutam|
dvyahaṁ tryahaṁ vā saṁsnēhya svinnābhyaktaṁ nirūhayēt||78||
tata ēraṇḍatailēna sarpiṣā tailvakēna vā|
sakṣārēṇānilē śāntē srastadōṣaṁ virēcayēt||79||
śuddhaṁ rūkṣāśayaṁ baddhavarcasaṁ cānuvāsayēt|
dīpanīyāmlavātaghnasiddhātailēna mātrayā||80||
nirūḍhaṁ ca viriktaṁ ca samyak caivānuvāsitam|
laghvannaṁ pratisambhuktaṁ sarpirabhyāsayēt punaḥ||81||


grahaṇīmāśritamityādau dōṣamiti sāmānyavacanādvātādīnāṁ trayāṇāmapi grahaṇam| āmasyāpakvasya liṅgairanvitamiti āmaliṅgānvitam| uddharēditi vamēt| phalānāmiti madanaphalānām| līnamiti anutkliṣṭam| pakvāśayasthamiti adhōgatatvēna pakvāśayasamīpagatam| srāvyamiti virēcanīyam| sadīpanairiti dīpanadravyasaṁyuktairvirēcanaprayōgaiḥ| śarīrānugatē iti śarīravyāpakē| sāmē rasē iti apakvē rasē; āmaścātrāpakvarasarūpa ēvēṣṭaḥ, āhārarasasya rasasambandhēna śarīravyāpakatayā durghaṭatvāt| laṅghanam anaśanaṁ, pācanaṁ yavāgvādi| viśuddhāmāśayē ityatra viśuddhirhi virēcanalaṅghanairyathāyōgyatayā jñēyā| dīpanīyayutamiti ṣaḍvirēcanaśatāśritīyōktadīpanīyagaṇasādhitam| svinnābhyaktamiti svinnaṁ cābhyaktaṁ cēti svinnābhyaktam| srastadōṣamiti [35] nirūhēṇa srastadōṣam||73-81||

dvē pañcamūlē saralaṁ dēvadāru sanāgaram|
pippalīṁ pippalīmūlaṁ citrakaṁ hastipippalīm||82||
śaṇabījaṁ yavān kōlan kulatthān suṣavīṁ tathā [36] |
pācayēdāranālēna dadhnā sauvīrakēṇa vā||83||
caturbhāgāvaśēṣēṇa pacēttēna ghr̥tāḍhakam|
svarjikāyāvaśūkākhyau kṣārau dattvā ca yuktitaḥ||84||
saindhavaudbhidasāmudrabiḍānāṁ rōmakasya ca|
sasauvarcalapākyānāṁ bhāgāndvipalikān pr̥thak||85||
vinīya cūrṇitān tasmāt pāyayēt prasr̥taṁ budhaḥ|
karōtyagniṁ balaṁ varṇaṁ vātaghnaṁ bhuktapācanam||86||
iti daśamūlādyaṁ ghr̥tam|


dvē pañcamūlē ityādau suṣavīsvarasō [37] jalasthānīyaḥ, āranālādi kvāthyaṁ ca militvā drōṇaṁ mānaṁ grāhyam| kṣārau dattvā ca yuktita ityanēna kṣārayōralpamānatvamucyatē, kintu prakṣēpyānyatamalavaṇamānēna pr̥thak kṣārau dēyau; yuktita ityanēna tu yōgyē kālē kṣārayōgamāha, sa ca yōgyakālō’tra ghr̥tāvatāraṇakāla ēva| yadāha jatūkarṇaḥ- “daśamūlaṁ pañcakōlaṁ kulatthaṁ surabhiṁ yavam| dēvadāruṁ ca saralaṁ śaṇabījaṁ ca sādhayēt|| dadhnā sauvīrakēṇaiva tēna pakvē ghr̥tāḍhakē| dvau kṣārau saptalavaṇānyāvapēd dvipalāni tu” iti| audbhidam utkārikālavaṇam| rōmakaṁ rumāhr̥dbhavam| pākyaṁ pākajam||82-86||

tryūṣaṇatriphalākalkē bilvamātrē guḍāt palē|
sarpiṣō’ṣṭapalaṁ paktvā mātrāṁ mandānalaḥ pibēt||87||
iti tryūṣaṇādyaṁ ghr̥tam|


bilvamātrē iti palamānē kalkē, aṣṭapalamānamēvātra sarpiḥ paktavyaṁ maharṣivacanēna phaladāyitvāt||87||

pañcamūlābhayāvyōṣapippalīmūlasaindhavaiḥ|
rāsnākṣāradvayājājīviḍaṅgaśaṭibhirghr̥tam||88||
śuktēna mātuluṅgasya svarasēnārdrakasya ca|
śuṣkamūlakakōlāmbucukrikādāḍimasya ca||89||
takramastusurāmaṇḍasauvīrakatuṣōdakaiḥ|
kāñjikēna ca tat pakvamagnidīptikaraṁ param||90||
śūlagulmōdaraśvāsakāsānilakaphāpaham|
sabījapūrakarasaṁ siddhaṁ vā pāyayēdghr̥tam||91||
siddhamabhyañjanārthaṁ ca tailamētaiḥ prayōjayēt|
ētēṣāmauṣadhānāṁ vā pibēccūrṇaṁ sukhāmbunā||92||
vātē ślēṣmāvr̥tē sāmē kaphē vā vāyunōddhatē|
dadyāccūrṇaṁ pācanārthamagnisandīpanaṁ param||93||
iti pañcamūlādyaṁ ghr̥taṁ cūrṇaṁ ca|


pañcamūlādyē śuktāditrayōdaśadravāṇāṁ pratyēkaṁ snēhasamatvam| sabījapūrakarasamityatrāpi pañcamūlyādīni kalkatvēnēcchanti; kiṁvā pūrvamēva ghr̥taṁ bījapurarasasaṁyuktaṁ pēyamityarthaḥ| tailamityādau ētaiḥ pañcamūlyādibhiḥ siddhaṁ tailamabhyaṅgārthaṁ yōjyaṁ, tathā ētēṣāmēva kalkōktānāṁ pañcamūlyādīnāṁ cūrṇaṁ sukhāmbunā pēyam| cūrṇaviṣayamāha- vātē ityādi| vātaślēṣmāvr̥tē grahaṇīgadē tathā sāmē grahaṇīgadē; kēcit “sāmē purīṣē” iti vadanti; āmaṁ cānēkavidhamāhuḥ, yaducyatē- “āmamannarasaṁ kēcit kēcittu malasañcayam| prathamāṁ dōṣaduṣṭiṁ ca kēcidāmaṁ pracakṣatē” iti| bhōjō’pyāha- “āmāśayasthaḥ kāyāgnērdaurbalyādavipācitaḥ| ādya āhāradhāturyaḥ sa āma iti sañjñitaḥ” iti| īśvarasēnō’pyāha- “ēvamāmāśayē’pyannaṁ bahu samyaṅna jīryati| cīyamānaṁ tadēvānnaṁ kālēnāmatvamāpnuyāt” ityādi| tadihāpi tadvacanaprāmāṇyādāmavyavasthā kartavyā||88-93||

majjatyāmā gurutvādviṭ pakvā tūtplavatē jalē|
vinā’tidravasaṅghātaśaityaślēṣmapradūṣaṇāt||94||
parīkṣyaivaṁ purā sāmaṁ nirāmaṁ cāmadōṣiṇam|
vidhinōpācarēt samyak pācanēnētarēṇa vā||95||


sāmanirāmagrahaṇīgadajñānārthaṁ sāmanirāmaviḍlakṣaṇamāha- majjatītyādi| āmēti āmāśritā| gurutvāditi āmāhitagurutvāt| pakvēti nirāmā; upasaṁhariṣyatyāmapakvalakṣaṇāntē ‘parīkṣyaivaṁ purā sāmaṁ nirāmaṁ vā’ iti| dvayōrapi āmapakvalakṣaṇayōrapavādamāha- vinā’tidravētyādi| atidravatvādāmā’pi plavatē, atisaṁhatā tu pakvā’pi atisaṅghātādēva majjati, śaityaślēṣmapradūṣaṇācca kaphayōgāhitagauravā pakvā’pi majjati gurutvādēva na plavatē| nanu saviṣṭambhaprasēkārtītyādinaiva sāmasyōktatvāt kimanēna sāmatālakṣaṇēna punaruktēna? ucyatē- vātakaphādhikārāttaduktam, idaṁ tu viḍāmatājñānārthamuktamiti viśēṣaḥ| parīkṣyētyādau nirāmaṁ cāmadōṣiṇamiti kathaṁ, yāvatā na nirāmatāyāmāmadōṣatvamasti? na, āmadōṣaśabdēna grahaṇīdōṣiṇō’bhiprētatvāt| itarēṇēti grahaṇīdōṣaśamanēna||94-95||

citrakaṁ pippalīmūlaṁ dvau kṣārau lavaṇāni ca|
vyōṣaṁ hiṅgvajamōdāṁ ca cavyaṁ caikatra cūrṇayēt||96||
guṭikā mātuluṅgasya dāḍimasya rasēna vā|
kr̥tā vipācayatyāmaṁ dīpayatyāśu cālanam||97||
iti citrakādyā guṭikā|


citrakētyādau lavaṇāni cētyatra kapiñjalādhikaraṇanyāyēna lavaṇatrayamicchanti; kintvaniyatē sa nyāyō bhavati, iha tu pañcalavaṇānāṁ prādhānyēna dīrghañjīvitīyē nirdiṣṭatvāt pañcalavaṇasya ca śakyōpādānatvāt pañcaiva lavaṇāni grāhyāṇi||96-97||

nāgarātiviṣāmustakvāthaḥ syādāmapācanaḥ|
mustāntakalkaḥ pathyā vā nāgaraṁ cōṣṇavāriṇā||98||
dēvadāruvacāmustanāgarātiviṣābhayāḥ|
vāruṇyāmāsutāstōyē kōṣṇē vā’lavaṇāḥ pibēt||99||
varcasyāmē saśūlē ca pibēdvā dāḍimāmbunā|
viḍēna [38] lavaṇaṁ piṣṭaṁ bilvaṁ citrakanāgaram||100||
sāmē vā sakaphē vātē kōṣṭhaśūlakarē pibēt|
kaliṅgahiṅgvativiṣāvacāsauvarcalābhayāḥ||101||
chardyarśōgranthiśūlēṣu pibēduṣṇēna vāriṇā|
pathyāsauvarcalājājīcūrṇaṁ maricasaṁyutam||102||
abhayāṁ pippalīmūlaṁ vacāṁ kaṭukarōhiṇīm|
pāṭhāṁ vatsakabījāni citrakaṁ viśvabhēṣajam||103||
pibēnniṣkvāthya cūrṇaṁ vā kr̥tvā kōṣṇēna vāriṇā|
pittaślēṣmābhibhr̥tāyāṁ grahaṇyāṁ śūlanuddhitam||104||
sāmē sātiviṣaṁ vyōṣaṁ lavaṇakṣārahiṅgu ca|
niḥkvāthya pāyayēccūrṇaṁ kr̥tvā vā kōṣṇavāriṇā||105||
pippalīṁ nāgaraṁ pāṭhāṁ sārivāṁ br̥hatīdvayam|
citrakaṁ kauṭajaṁ bījaṁ lavaṇānyatha pañca ca||106||
taccūrṇaṁ sayavakṣāraṁ dadhyuṣṇāmbusurādibhiḥ|
pibēdagnivivr̥ddhyarthaṁ kōṣṭhavātaharaṁ naraḥ||107||
maricaṁ kuñcikāmbaṣṭhāvr̥kṣāmlāḥ kuḍavāḥ pr̥thak|
palāni [39] daśa cāmlasya vētasasya palārdhikam||108||
sauvarcalaṁ biḍaṁ pākyaṁ yavakṣāraḥ sasaindhavaḥ|
śaṭīpuṣkaramūlāni hiṅgu hiṅguśivāṭikā||109||
tat sarvamēkataḥ sūkṣmaṁ cūrṇaṁ kr̥tvā prayōjayēt|
hitaṁ vātābhibhūtāyāṁ grahaṇyāmarucau tathā||110||
iti maricādyaṁ cūrṇam|


mustāntakalka iti paścāduktanāgarādikalka ityarthaḥ| arśōgranthiḥ arśō’nugrathitavarcastvam| maricasaṁyutamiti paryantaṁ ‘cūrṇaṁ kr̥tvā pibēt’ ityanuvartatē| sāmē dōṣē sati pippalīmūlādiṣu ativiṣādi prakṣipya cūrṇaṁ kartavyamityarthaḥ| surādibhirityatrādiśabdēna kāñjikasauvīrādigrahaṇam||98-110||

caturṇāṁ prasthamamlānāṁ tryūṣaṇasya palatrayam|
lavaṇānāṁ ca catvāri śarkarāyāḥ palāṣṭakam|
sañcūrṇya śākasūpānnarāgādiṣvavacārayēt||111||
kāsājīrṇāruciśvāsāhr̥tpāṇḍvāmayaśūlanut|112|


caturṇāṁ prasthamamlānāmityatra caturamlaṁ hr̥dyavargē prathamōktaṁ vr̥kṣāmlāmlavētasadāḍimabadararūpamāhuḥ; anyē tu cavyatvagityādiprayōgavakṣyamāṇakapitthacukrikāvr̥kṣāmladāḍimānāṁ grahaṇamāhuḥ| tantrāntarē tu “vr̥kṣāmlamātuluṅgāmlabadarāmlāmlavētasaiḥ| caturamlamidaṁ prōktaṁ pañcāmlaṁ tu sadāḍimam” ityuktam| tryūṣaṇācca palatrayamiti militāt palatrayam| rāgaḥ kapitthādidravyakr̥tō vyañjanaviśēṣaḥ||111||-

cavyatvakpippalīmūladhātakīvyōṣacitrakān||112||
kapitthaṁ bilvamambaṣṭhāṁ śālmalaṁ hastipippalīm|
śilōdbhēdaṁ tathā’jājīṁ piṣṭvā badarasammitam||113||
paribharjya ghr̥tē dadhnā yavāgūṁ sādhayēdbhiṣak|
rasaiḥ kapitthacukrīkāvr̥kṣāmlairdāḍimasya ca||114||
sarvātisāragrahaṇīgulmārśaḥplīhanāśinī|
pañcakōlakayūṣaśca mūlakānāṁ ca sōṣaṇaḥ||115||
snigdhō dāḍimatakrāmlō jāṅgalaḥ saṁskr̥tō rasaḥ|
kravyādasvarasaḥ śastō bhōjanārthē sadīpanaḥ||116||
takrāranālamadyāni pānāyāriṣṭa ēva ca|117|


cavyētyādau śālmalaṁ śālmalīvēṣṭakam| śilōdbhavaṁ śailajam| cukrikā cāṅgērī| sōṣaṇa iti samaricaḥ||112-116||-

takraṁ tu grahaṇīdōṣē dīpanagrāhilāghavāt||117||
śrēṣṭhaṁ madhurapākitvānna ca pittaṁ prakōpayēt|
kaṣāyōṣṇavikāśitvādraukṣyāccaiva kaphē hitam||118||
vātē svādvamlasāndratvāt sadyaskamavidāhi tat|
tasmāt takraprayōgā yē jaṭharāṇāṁ tathā’rśasām||119||
vihitā grahaṇīdōṣē sarvaśastān prayōjayēt|
yavānyāmalakē pathyā maricaṁ tripalaṁśikam||120||
lavaṇāni palāṁśāni pañca caikatra cūrṇayēt|
takrē tadāsutaṁ [40] jātaṁ takrāriṣṭaṁ pibēnnaraḥ|
dīpanaṁ śōthagulmārśaḥkrimimēhōdarāpaham||121||
iti takrāriṣṭaḥ|


takramityādinā takraguṇābhidhānam| madhurapākitvānna ca pittaprakōpaṇam; amlatvāt pittaprakōpaṇē prāptē madhurapākitayā pittaṁ na prakōpayati, nāpi pittaṁ praśamayatītyāhuḥ| sadyaskamavidāhīti sadyō mathitamēva takraṁ pacyamānāvasthāyāṁ vidāhakr̥nna bhavati, kiñcitkālasthitaṁ tu vidāhī bhavatyēva| yavānītyādau takrē tadāsutamiti takrāḍhakē āsutam| jātamiti amlarasatayā jātam||118-121||

svasthānagatamutkliṣṭamagninirvāpakaṁ bhiṣak|
pittaṁ jñātvā virēkēṇa nirharēdvamanēna vā||122||
avidāhibhirannaiśca laghubhistiktasaṁyutaiḥ|
jāṅgalānāṁ rasairyūṣairmudgādīnāṁ khaḍairapi||123||
dāḍimāmlaiḥ sasarpiṣkairdīpanagrāhisaṁyutaiḥ|
tasyāgniṁ dīpayēccūrṇaiḥ sarpirbhiścāpi tiktakaiḥ||124||


vamanēna vētyūrdhvagapittāpēkṣayā jñēyam| sarpirbhiścāpi tiktakairityatra jātyākhyāyāṁ bahuvacanaṁ; kiṁvā kuṣṭhōktaṁ tiktaghr̥tadvayamanyacca tiktasādhitaṁ ghr̥tamiti bahuvacanaṁ sādhu||122-124||

candanaṁ padmakōśīraṁ pāṭhāṁ mūrvāṁ kuṭannaṭam|
ṣaḍgranthāsārivāsphōtāsaptaparṇāṭarūṣakān||125||
paṭōlōdumbarāśvatthavaṭaplakṣakapītanān|
kaṭukāṁ rōhiṇīṁ mustaṁ nimbaṁ ca dvipalāṁśikam||126||
drōṇē’pāṁ sādhayēt pādaśēṣē prasthaṁ ghr̥tāt pacēt|
kirātatiktēndrayavavīrāmāgadhikōtpalaiḥ||127||
kalkairakṣasamaiḥ pēyaṁ tat pittagrahaṇīgadē|
tiktakaṁ yadghr̥taṁ cōktaṁ kauṣṭhikē tacca dāpayēt||128||
iti candanādyaṁ ghr̥tam|


kuṭannaṭaṁ kaivartamustakam| ṣaḍgranthā vacā| āsphōtā ‘asphuramallikā’ iti lōkē khyātā| kapītanaḥ ‘gandhamuṇḍa’ iti khyātaḥ||125-128||

nāgarātiviṣē mustaṁ dhātakīṁ ca rasāñjanam|
vatsakatvakphalaṁ bilvaṁ pāṭhāṁ kaṭukarōhiṇīm||129||
pibēt samāṁśaṁ taccūrṇaṁ sakṣaudraṁ taṇḍulāmbunā|
paittikē grahaṇīdōṣē raktaṁ yaccōpavēśyatē||130||
arśāṁsi ca gudē śūlaṁ jayēccaiva pravāhikām|
nāgarādyamidaṁ cūrṇaṁ kr̥ṣṇātrēyēṇa pūjitam||131||
iti nāgarādyaṁ cūrṇam|


nāgarādyē sakṣaudramiti madhuprakṣēpayuktam| taṇḍulāmbunēti taṇḍuladhāvanāmbunā; anyē tu taṇḍulāddviguṇamamlaṁ taṇḍulēna samaṁ ciraṁ sthitaṁ tattaṇḍulāmbu vadanti| kr̥ṣṇātrēyēṇa pūjitatvōpadarśanādasya siddhayōgatvaṁ darśyatē; kr̥ṣṇātrēyaḥ punarvasōrabhinna ēvēti vr̥ddhāḥ||129-131||

bhūnimbakaṭukāvyōṣamustakēndrayavān samān|
dvau citrakādvatsakatvagbhāgān ṣōḍaśa cūrṇayēt||132||
guḍaśītāmbunā pītaṁ grahaṇīdōṣagulmanut|
kāmalājvarapāṇḍutvamēhārucyatisāranut||133||
iti bhūnimbādyaṁ cūrṇam|


bhūnimbādyē guḍayutaṁ śītāmbu guḍaśītāmbu; guḍaścātra guḍavarṇatāmādhuryāpattimātrō dēyaḥ||132-133||

vacāmativiṣāṁ pāṭhāṁ saptaparṇaṁ rasāñjanam|
syōnākōdīcyakaṭvaṅgavatsakatvagdurālabhāḥ||134||
dārvīṁ parpaṭakaṁ pāṭhāṁ yavānīṁ madhuśigrukam|
paṭōlapatraṁ siddhārthān yūthikāṁ jātipallavān||135||
jambvāmrabilvamadhyāni nimbaśākaphalāni ca|
tadrōgaśamamanvicchan bhūnimbādyēna yōjayēt||136||
kirātatiktaḥ ṣaḍgranthā trāyamāṇā kaṭutrikam|
candanaṁ padmakōśīraṁ dārvītvak kaṭurōhiṇī||137||
kuṭajatvakphalaṁ mustaṁ yavānī dēvadāru ca|
paṭōlanimbapatrailāsaurāṣṭrayativiṣātvacaḥ||138||
madhuśigrōśca bījāni mūrvā parpaṭakastathā|
taccūrṇaṁ madhunā lēhyaṁ pēyaṁ madyairjalēna vā||139||
hr̥tpāṇḍugrahaṇīrōgagulmaśūlārucijvarān|
kāmalāṁ sannipātaṁ ca mukharōgāṁśca nāśayēt||140||
iti kirātādyaṁ cūrṇam|


vacāmityādau syōnākakaṭvaṅgaśabdābhyāṁ dvāvapi pr̥thuśimbālpaśimbau syōnākau gr̥hyētē| tadrōgaśamamanvicchanniti bhūnimbādyuktagrahaṇīdōṣādirōgaśāntiṁ kāṅkṣan| bhūnimbādyēnēti bhūnimbādyuktadravyagaṇēna yathōktamānēna yōjayad vacādīn; aparē tu bhūnimbādyēnēti vacanēnātra bhūnimbādyuktaguḍaśītāmbupēyatāmasyāpyatidiśatīti vadanti||134-140||

grahaṇyāṁ ślēṣmaduṣṭāyāṁ vamitasya yathāvidhi|
kaṭvamlalavaṇakṣāraistiktaiścāgniṁ vivardhayēt||141||
palāśaṁ citrakaṁ cavyaṁ mātuluṅgaṁ harītakīm|
pippalīṁ pippalīmūlaṁ pāṭhāṁ nāgaradhānyakam||142||
kārṣikāṇyudakaprasthē paktvā pādāvaśēṣitam|
pānīyārthaṁ prayuñjīta yavāgūṁ taiśca sādhayēt||143||
śuṣkamūlakayūṣēṇa kaulatthēnāthavā punaḥ|
kaṭvamlakṣārapaṭunā laghūnyannāni bhōjayēt||144||
amlaṁ cānu pibēttakraṁ takrāriṣṭamathāpi vā|
madirāṁ madhvariṣṭaṁ vā nigadaṁ sīdhumēva vā||145||


pānīyārthaṁ pānāya| kaṭvamlakṣārapaṭunēti kaṭvādiyōgāt paṭunā indriyōttējakēnētyarthaḥ| kaphagrahaṇyāṁ sadyaskamēva yadyapi kaṣāyatvāttakramucitaṁ, tathā’pi agnidīpanatayā amlamēva takraṁ ‘amlaṁ cānupibēt’ ityanēnaivōktam| nigadaṁ sīdhumiti nirdōṣaṁ sīdhum||141-145||

drōṇaṁ madhūkapuṣpāṇāṁ viḍaṅgānāṁ tatō’rdhataḥ|
citrakasya tatō’rdhaṁ syāttathā bhallātakāḍhakam||146||
mañjiṣṭhāṣṭapalaṁ [41] caiva tridrōṇē’pāṁ vipācayēt|
drōṇaśēṣaṁ tu tacchītaṁ madhvardhāḍhakasaṁyutam||147||
ēlāmr̥ṇālāgurubhiścandanēna ca rūṣitē|
kumbhē māsasthitaṁ jātamāsavaṁ taṁ prayōjayēt||148||
grahaṇīṁ dīpayatyēva br̥ṁhaṇaḥ [42] kaphapittajit|
śōthaṁ kuṣṭhaṁ kilāsaṁ ca pramēhāṁśca praṇāśayēt||149||
iti madhūkāsavaḥ|
madhūkapuṣpasvarasaṁ śr̥tamardhakṣayīkr̥tam|
kṣaudrapādayutaṁ śītaṁ pūrvavat sannidhāpayēt||150||
taṁ piban grahaṇīdōṣāñjayēt sarvān hitāśanaḥ|
tadvaddrākṣēkṣukharjūrasvarasānāsutān [43] pibēt||151||


ardhakṣayīkr̥tamiti pākādardhāvaśiṣṭaṁ kr̥tam| pūrvavatsannidhāpayēditi ēlādiliptē kumbhē saṁsthāpayēt||146-151||

prasthau durālabhāyā dvau pasthamāmalakasya ca|
dantīcitrakamuṣṭī [44] dvē pratyagraṁ cābhayāśatam||152||
caturdrōṇē’mbhasaḥ paktvā śītaṁ drōṇāvaśēṣitam|
saguḍadviśataṁ pūtaṁ madhunaḥ kuḍavāyutam||153||
tadvat priyaṅgōḥ pippalyā viḍaṅgānāṁ ca cūrṇitaiḥ|
kuḍavairghr̥takumbhasthaṁ pakṣājjātaṁ tataḥ pibēt||154||
grahaṇīpāṇḍurōgārśaḥkuṣṭhavīsarpamēhanut|
svaravarṇakaraścaiṣa raktapittakaphāpahaḥ||155||
iti durālabhāsavaḥ|
haridrā pañcamūlē dvē vīrarṣabhakajīvakam|
ēṣāṁ [45] pañcapalān bhāgāṁścaturdrōṇē’mbhasaḥ pacēt||156||
drōṇaśēṣē rasē pūtē guḍasya dviśataṁ bhiṣak|
cūrṇitān kuḍavārdhāṁśān prakṣipēcca samākṣikān||157||
priyaṅgumustamañjiṣṭhāviḍaṅgamadhukaplavān|
lōdhraṁ śābarakaṁ caiva māsārdhasthaṁ pibēttu tam||158||
ēṣa mūlāsavaḥ siddhō dīpanō raktapittajit|
ānāhakaphahr̥drōgapāṇḍurōgāṅgasādanut||159||
iti mūlāsavaḥ|


dantīcitrakamuṣṭī dvē iti citrakadantyōrmilitvā dvipalam| tadvaditi ēlādinā liptabr̥hatkumbhastham||152-159||

prāsthikaṁ [46] pippalīṁ piṣṭvā guḍaṁ madhyaṁ bibhītakāt|
udakaprasthasaṁyuktaṁ yavapallē nidhāpayēt||160||
tasmāt palaṁ sujātāttu salilāñjalisaṁyutam|
pibētpiṇḍāsavō hyēṣa rōgānīkavināśanaḥ||161||
svasthō’pyēnaṁ pibēnmāsaṁ naraḥ snigdharasāśanaḥ [47] |
icchaṁstēṣāmanutpattiṁ rōgāṇāṁ yē’tra kīrtitāḥ||162||
iti piṇḍāsavaḥ|


prāsthikamityādau pippalīguḍabibhītakamajjānaḥ pratyēkaṁ prasthamānāḥ| snigdharasāśana iti snēhavanmāṁsarasabhōjanaḥ||160-162||

navē pippalimadhvāktē kalasē’gurudhūpitē|
madhvāḍhakaṁ jalasamaṁ cūrṇānīmāni dāpayēt||163||
kuḍavārdhaṁ viḍaṅgānāṁ pippalyāḥ kuḍavaṁ tathā|
caturthikāṁśāṁ tvakkṣīrīṁ kēśaraṁ maricāni ca||164||
tvagēlāpatrakaśaṭīkramukātiviṣāghanān|
harēṇvēlvālutējōhvāpippalīmūlacitrakān||165||
kārṣikāṁstat sthitaṁ māsamata ūrdhvaṁ prayōjayēt|
mandaṁ sandapayatyagniṁ karōti viṣamaṁ samam||166||
hr̥tpāṇḍugrahaṇīrōgakuṣṭhārśaḥśvayathujvarān|
vātaślēṣmāmayāṁścānyānmadhvariṣṭō vyapōhati||167||
iti madhvariṣṭaḥ|


navē ityādau tvagēlādīnāṁ kārṣikatvam||163-167||

samūlāṁ pippalīṁ kṣārau dvau pañca lavaṇāni ca|
mātuluṅgābhayārāsnāśaṭīmaricanāgaram||168||
kr̥tvā samāṁśaṁ taccūrṇaṁ pibēt prātaḥ sukhāmbunā|
ślēṣmikē grahaṇīdōṣē balavarṇāgnivardhanam||169||
ētairēvauṣadhaiḥ siddhaṁ sarpiḥ pēyaṁ samārutē|
gaulmikē ṣaṭpalaṁ prōktaṁ bhallātakaghr̥taṁ ca yat||170||


samūlāṁ pippalīmiti pippalīṁ pippalīmūlaṁ ca| bhallātakaghr̥taṁ ca gulmōktamiti jñēyam||168-170||

biḍaṁ kālōtthalavaṇaṁ sarjikāyavaśūkajam|
saptalāṁ kaṇṭakārīṁ ca citrakaṁ cēti dāhayēt||171||
saptakr̥tvaḥ srutasyāsya kṣārasya [48] dvyāḍhakēna tu|
āḍhakaṁ sarpiṣaḥ paktvā pibēdagnivivardhanam||172||
iti kṣāraghr̥tam|
samūlāṁ pippalīṁ pāṭhāṁ cavyēndrayavanāgaram|
citrakātiviṣē hiṅgu śvadaṁṣṭrāṁ kaṭurōhiṇīm||173||
vacāṁ ca kārṣikaṁ pañcalavaṇānāṁ palāni ca|
dadhnaḥ prasthadvayē tailasarpiṣōḥ kuḍavadvayē||174||
khaṇḍīkr̥tāni niṣkvāthya śanairantargatē rasē|
antardhūmaṁ tatō dagdhavā cūrṇaṁ kr̥tvā ghr̥tāplutam||175||
pibēt pāṇitalaṁ tasmiñjīrṇē syānmadhurāśanaḥ|
vātaślēṣmāmayānsarvānhanyādviṣagarāṁśca saḥ||176||
bhallātakaṁ trikaṭukaṁ triphalāṁ lavaṇatrayam|
antardhūmaṁ dvipalikaṁ gōpurīṣāgninā dahēt||177||
sa kṣāraḥ sarpiṣā pītō bhōjyē vā’pyavacūrṇitaḥ|
hr̥tpāṇḍugrahaṇīdōṣagulmōdāvartaśūlanut||178||


biḍaṁ kālōtthalavaṇamiti biḍaṁ biḍalavaṇaṁ, kālalavaṇaṁ tu sauvarcalalavaṇamityarthaḥ| khaṇḍīkr̥tānīti khaṇḍaṁ khaṇḍaṁ kr̥tāni| anugatē rasē iti nipītē dravē| pāṇitalamiti karṣaḥ| madhurāśanatvamiha kṣāraprayōgābhicchēdakatvahantr̥tayā yaugikatvājjñēyam||171-178||

durālabhāṁ karañjau dvau saptaparṇaṁ savatsakam|
ṣaḍgranthāṁ madanaṁ mūrvāṁ pāṭhāmāragvadhaṁ tathā||179||
gōmūtrēṇa samāṁśāni kr̥tvā cūrṇāni dāhayēt|
dagdhvā ca taṁ pibēt kṣāraṁ grahaṇībalavardhanam||180||


gōmūtrēṇa samāṁśānīti gōmūtrēṇa militaṁ cūrṇaṁ tulyam| asya ca pānaṁ pūrvakṣāravat sarpiṣā jñēyam||179-180||

bhūnimbaṁ rōhiṇīṁ tiktāṁ paṭōlaṁ nimbaparpaṭam|
dahēnmāhiṣamūtrēṇa kṣāra ēṣō’gnivardhanaḥ||181||
dvē haridrē vacā kuṣṭhaṁ citrakaḥ kaṭurōhiṇī|
mustaṁ ca bastamūtrēṇa dahēt kṣārō’gnivardhanaḥ||182||


māhiṣamūtrēṇētyādau cūrṇasamatvaṁ māhiṣamūtrasya, pūrvaprayōgadr̥ṣṭatvāt||181-182||

catuṣpalaṁ sudhākāṇḍāttripalaṁ lavaṇatrayāt|
vārtākīkuḍavaṁ cārkādaṣṭau dvē citrakāt palē||183||
dagdhāni vārtākurasē guṭikā bhōjanōttarāḥ|
bhuktaṁ bhuktaṁ pacantyāśu kāsaśvāsārśasāṁ hitāḥ||184||
visūcikāpratiśyāyahr̥drōgaśamanāśca tāḥ|
ityēṣā kṣāraguṭikā kr̥ṣṇātrēyēṇa kīrtitā||185||
iti kṣāraguḍikā|
vatsakātiviṣē pāṭhāṁ duḥsparśāṁ hiṅgu citrakam|
cūrṇīkr̥tya palāśāgrakṣārē mūtrasrutē pacēt||186||
āyasē bhājanē sāndrāttasmāt [49] kōlaṁ sukhāmbunā|
madyairvā grahaṇīdōṣaśōthārśaḥpāṇḍumān pibēt||187||
iti caturthakṣāraḥ|


catuṣpalamityādau, ‘catuṣpalaṁ sudhākāṇḍāttriphalālavaṇāni ca’ iti yē paṭhanti, tē triphalālavaṇairmilitvā catuṣpalaṁ vadanti| dagdhāni vārtākurasē iti kṣārībhūtāni punarvārtākurasē guṭikāḥ kartavyāḥ||183-187||

triphalāṁ kaṭabhīṁ cavyaṁ bilvamadhyamayōrajaḥ|
rōhiṇīṁ kaṭukāṁ mustaṁ kuṣṭhaṁ pāṭhāṁ ca hiṅgu ca||188||
madhukaṁ muṣkakayavakṣārau trikaṭukaṁ vacām|
viḍaṅgaṁ pippalīmūlaṁ svarjikāṁ nimbacitrakau||189||
mūrvājamōdēndrayavān guḍūcīṁ dēvadāru ca|
kārṣikaṁ lavaṇānāṁ ca pañcānāṁ palikānpr̥thak||190||
bhāgān dadhni trikuḍavē ghr̥tatailēna mūrcchitam|
antardhūmaṁ śanairdagdhvā tasmāt pāṇitalaṁ pibēt||191||
sarpiṣā kaphavātārśōgrahaṇīpāṇḍurōgavān|
plīhamūtragrahaśvāsahikkākāsakrimijvarān||192||
śōṣātisārau śvayathuṁ pramēhānāhahr̥dgrahān|
hanyāt sarvaviṣaṁ [50] caiva kṣārō’gnijananō varaḥ||193||
jīrṇē rasairvā madhurairaśnīyāt payasā’pi vā|
iti pañcamakṣāraḥ|


triphalāmityādau muṣkakaṁ ghaṇṭāpāṭalakam| ghr̥tatailēnētyatra dadhisāhacaryādghr̥tatailasyāpi militasya kuḍavatrayam||188-193||-

tridōṣē vidhividvaidyaḥ pañca karmāṇi kārayēt||194||
ghr̥takṣārāsavāriṣṭān dadyāccāgnivivardhanān|
kriyā yā cānilādīnāṁ nirdiṣṭā grahaṇīṁ prati||195||
vyatyāsāttāṁ samastāṁ vā kuryāddōṣaviśēṣavit|196|


tridōṣē pañcakarmāṇītyatra śirōvirēcanasyāyaugikatvē’pyatra bhūyasāṁ karmaṇāṁ yaugikatvāt pañcakarmāṇīti kr̥taṁ, kiṁvā śirōrōgādisadbhāvē śirōvirēcanamapyatra dēyamēva| vyatyāsāttāṁ samastāṁ cēti uktavātādikriyāṁ vyatyāsādēkaikadōṣakriyāparivartanēna kuryāt, kiṁvā militairapi kriyā ēkakālaṁ kartavyā; kriyāmēlanaṁ ca vātādidravyamēlanādēva bhavati||194-195||-

snēhanaṁ svēdanaṁ śuddhirlaṅghanaṁ dīpanaṁ ca yat||196||
cūrṇāni lavaṇakṣāramadhvariṣṭasurāsavāḥ|
vividhāstakrayōgāśca dīpanānāṁ ca sarpiṣām||197||
grahaṇīrōgibhiḥ sēvyāḥ, …|198|


snēhanamityādinā grahaṇīdōṣabhēṣajaṁ saṅkalayyāha||196-197||-

… kriyāṁ cāvasthikīṁ śr̥ṇu|
ṣṭhīvanaṁ ślaiṣmikē rūkṣaṁ dīpanaṁ tiktasaṁyutam||198||
sakr̥drūkṣaṁ sakr̥tsnigdhaṁ kr̥śē bahukaphē hitam|
parīkṣyāmaṁ śarīrasya dīpanaṁ snēhasaṁyutam||199||
dīpanaṁ bahupittasya tiktaṁ madhurasaṁyutam|
bahuvātasya tu snēhalavaṇāmlayutaṁ hitam||200||
sandhukṣati tathā vahnirēṣāṁ vidhivadindhanaiḥ|201|


kriyāṁ cāvasthikīmiti grahaṇīdōṣa ēva avasthāviśēṣē kartavyāṁ kriyāṁ śr̥ṇu| sakr̥drūkṣaṁ sakr̥tsnigdhaṁ kr̥śa iti yadi rūkṣamēva kriyatē tadā kr̥śasya balahāniḥ syāt, atha snigdhamēva kriyatē tadā bahukaphē kaphavr̥ddhiḥ syāt, tēnōbhayāpēkṣayā antarā rūkṣamantarā ca snigdhaṁ kartavyamityarthaḥ| snēhalavaṇāmlayutamiti dīpanamityarthaḥ| sandhukṣati vidhivadindhanairiti yathāvidhānadīpita ityarthaḥ||198-200||-

snēhamēva paraṁ vidyāddurbalānaladīpanam||201||
nālaṁ snēhasamiddhasya śamāyānnaṁ sugurvapi|
mandāgniravipakvaṁ tu purīṣaṁ yō’tisāryatē||202||
dīpanīyauṣadhairyuktāṁ ghr̥tamātrāṁ pibēttu saḥ|
tayā samānaḥ pavanaḥ prasannō [51] mārgamāsthitaḥ||203||
agnēḥ samīpacāritvādāśu prakurutē balam|
kāṭhinyādyaḥ purīṣaṁ tu kr̥cchrānmuñcati mānavaḥ||204||
saghr̥taṁ lavaṇairyuktaṁ narō’nnāvagrahaṁ pibēt|
raukṣyānmandē pibētsarpistailaṁ vā dīpanairyutam||205||


uktānuktasnēhaphalamavadhārayannāha- snēhamēvētyādi| paramiti śrēṣṭham| snēhasya dīpanaśrēṣṭhatvē hētumāha- nālamityādinā| nālamiti na samartham| snēhasamiddhasyēti snēhadīptasya| snēhaśabdēnātra sāmānyavācinā sarpirēvōcyatē, sarpiṣa ēvātrādhikārāt| mandāgnirityādau avipakvamiti purīṣaviśēṣaṇaṁ; tēnāvipakvaśabdēnēha rasāmasya grahaṇaṁ na bhavati, rasāmē “jaṭharāmagarārditāḥ” (sū.a.13) ityatra snēhō niṣiddhaḥ, snēhāpakvapurīṣaṁ prati snēhaprayōgō viruddha ēva; kiñca dīpanīyauṣadhasaṁskārādapi snēhasya saṁskāraguṇāvighātādēva apakvapurīṣaṁ prati hitatvaṁ bhavati; snēhāṁśastu vātapraguṇatākaraṇatvēna sahāyatayā upādīyatē, ata ēvōktaṁ- tayā samāna ityādi| prasanna iti duṣṭivirahataḥ| mārgamāsthita iti svābhāvikamārgamāpannaḥ| samīpacāritvāditi prasannatvādiguṇayōgē sati agnipārśvasthitatvādbalamēva vahnēḥ karōti na vaiṣamyam, agnidīptikaratvasvabhāvādityarthaḥ| annāvagrahamiti annēnāvagrahō’syēti annāvagrahaḥ; annamadhyaprayuktamityarthaḥ||201-205||

atisnēhāttu mandē’gnau cūrṇāriṣṭāsavā hitāḥ|
bhinnē gudōpalēpāttu malē tailasurāsavāḥ||206||
udāvartāttu mandē’gnau nirūhāḥ snēhabastayaḥ|
dōṣavr̥ddhyā tu mandē’gnau śuddhō dōṣavidhiṁ carēt||207||
vyādhiyuktasya mandē tu sarpirēvāgnidīpanam|
upavāsācca mandē’gnau yavāgūbhiḥ pibēdghr̥tam||208||
annāvapīḍitaṁ balyaṁ dīpanaṁ br̥ṁhaṇaṁ ca tat|
dīrghakālaprasaṅgāttu kṣāmakṣīṇakr̥śānnarān||209||
prasahānāṁ rasaiḥ sāmlairbhōjayēt piśitāśinām|
laghu, tīkṣṇōṣṇaśōdhitvāddīpayantyāśu tē’nalam||210||
māṁsōpacitamāṁsatvāttathā”śutarabr̥ṁhaṇāḥ|211|


atisnēhānmandē’gnau sati cūrṇāriṣṭādīni yōjyāni| bhinnē iti viśiṣṭagudōpalēpādagnau mandē, tailasurāsavā dēyā iti vākyārthaḥ| dōṣavidhiṁ carēditi agnimāndyakārakadōṣauṣadhavidhiṁ kuryāt| annāvapīḍitaṁ yathā bhavati tathā yavāgūbhirghr̥taṁ pibēt; annāvapīḍitaṁ ca madhyabhōjanapītaṁ ghr̥taṁ bhavati| dīrghakālētyādau kṣāmō vyavasāyaśūnyaḥ [52] , kṣīṇō durbalaḥ, kr̥śō hīnamāṁsaḥ| prasahānāṁ dvaividhyānmāṁsāśināmiti viśēṣaṇaṁ, tēna tr̥ṇādaprasahānāṁ gavādīnāṁ niṣēdhaḥ| nanu prasahāḥ “gurūṣṇasnigdhamadhurā” (sū.a.27) ityannapānē uktaṁ, iha tu laghutīkṣṇētyādinā kathaṁ lāghavamucyatē tēṣāṁ? maivaṁ, bhōjayēllaghviti yōjanāt; tēna prasahānāṁ madhyē yē laghavastēṣāṁ rasēnātra laghvannaṁ bhōjayēt| tīkṣṇētyādinā prasahaguṇābhidhānam| anyē tu prasahāntarāpēkṣayā yē prasahā laghavastēṣamiha laghuśabdēnōpādānam, tathā’nyē amlādiyōgāt saṁskārēṇēha lāghavaṁ sādhayanti; ētēna rājayakṣmacikitsitē’pi prasahaguṇāstīkṣṇōṣṇalaghutvādaya uktāstē nyāyyā ēva||206-210||-

nābhōjanēna kāyāgnirdīpyatē nātibhōjanāt||211||
yathā nirindhanō vahniralpō vā’tīndhanāvr̥taḥ|
snēhānnavidhibhiścitraiścūrṇāriṣṭasurāsavaiḥ [53] ||212||
samyakprayuktairbhiṣajā balamagnēḥ pravardhatē|
yathā hi sāradārvagniḥ sthiraḥ santiṣṭhatē ciram||213||
snēhānnavidhibhistadvadantaragnirbhavēt sthiraḥ|
hitaṁ jīrṇē mitaṁ cāśnaṁściramārōgyamaśnutē||214||
avaiṣamyēṇa dhātūnāmagnivr̥ddhau yatēta nā|
samairdōṣaiḥ samō madhyē dēhasyōṣmā’gnisaṁsthitaḥ||215||
pacatyannaṁ tadārōgyapuṣṭyāyurbalavr̥ddhayē|
dōṣairmandō’tivr̥ddhō vā viṣamairjanayēdgadān||216||
vācyaṁ mandasya tatrōktamativr̥ddhasya vakṣyatē|217|


nābhōjanēnētyādinā abhōjanātibhōjananirāsaṁ kr̥tvā’nnasamyakprayōgasyāgnijanakatāmāha| abhōjanēnētyanēnābhōjanamalpabhōjanaṁ ca gr̥hyatē| alpō vā atīndhanāvr̥tō vā na dīpyatē iti yōjanā| sāradārvagniriti sāradārvāśrayō’gniḥ sāradārvagniḥ| snēhavadannaṁ snēhānnam| mitamiti mātrāvat, yadyapi ca hitamitāśinō’pi kālaviparyayādinā rōgā bhavantyēva, tathā’pi hitamitāśināṁ nāhārajarōgōtpattirbhavatīti darśayati| ciramārōgyamaśnutē iti āhārajarōgaṁ [54] na prāpnōtīti bhāvaḥ| avaiṣamyēṇa dhātūnāmiti dhātusāmyēna kriyamāṇāyāmagnivr̥ddhau yatēta; ētēna dōṣavaiṣamyēṇa pittōdrēkarūpēṇa yā’gnivr̥ddhiratyagnirūpā, tāṁ niṣēdhayati| samairityādinā’gnibhēdān samāgniparipālanārthamāha| madhyē iti nātisamīpē| agnisañjñita iti bhāṣayā ūṣmārūpē jāṭharāgnau bāhyāgninā sāmyaṁ niṣēdhayati| dōṣairiti sāmānyōktē’pi yōgyatayā kaphapittavātairyathākramamēva mandatīkṣṇaviṣamatvāni jñēyāni| vācyamiti pratikriyārthaṁ vacanīyaṁ cikitsitamiti yāvat||211-216||-

narē kṣīṇakaphē pittaṁ kupitaṁ mārutānugam||217||
svōṣmaṇā pāvakasthānē balamagnēḥ prayacchati|
tadā labdhabalō dēhē virūkṣē sānilō’nalaḥ||218||
paribhūya pacatyannaṁ taikṣṇyādāśu muhurmuhuḥ|
paktvā’nnaṁ sa tatō dhātūñchōṇitādīn pacatyapi||219||
tatō daurbalyamātaṅkānmr̥tyuṁ cōpanayēnnaram|
bhuktē’nnē labhatē śāntiṁ jīrṇamātrē pratāmyati||220||
tr̥ṭśvāsadāhamūrcchādyā vyādhayō’tyagnisambhavāḥ|
tamatyagniṁ gurusnigdhaśītairmadhuravijjalaiḥ||221||
annapānairnayēcchāntiṁ dīptamagnimivāmbubhiḥ|
muhurmuhurajīrṇē’pi bhōjyānyasyōpahārayēt||222||
nirindhanō’ntaraṁ labdhvā yathainaṁ na vipādayēt|
pāyasaṁ kr̥śarāṁ snigdhaṁ paiṣṭikaṁ guḍavaikr̥tam||223||
adyāttathaudakānūpapiśitāni bhr̥tāni ca|
matsyānviśēṣataḥ ślakṣṇānsthiratōyacarāṁstathā||224||
āvikaṁ ca bhr̥taṁ māṁsamadyādatyagnināśanam [55] |
yavāgūṁ samadhūcchiṣṭāṁ ghr̥taṁ vā kṣudhitaḥ pibēt||225||
gōdhūmacūrṇamanthaṁ vā vyadhayitvā sirāṁ pibēt|
payō vā śarkarāsarpirjīvanīyauṣadhaiḥ śr̥tam||226||
phalānāṁ tailayōnīnāmutkruñcāśca [56] saśarkarāḥ|
mārdavaṁ janayantyagnēḥ snigdhā māṁsarasāstathā||227||
pibēcchītāmbunā sarpirmadhūcchiṣṭēna saṁyutam|
gōdhūmacūrṇaṁ payasā sasarpiṣkaṁ pibēnnaraḥ||228||
ānūparasasiddhān vā trīn snēhāṁstailavarjitān|
payasā sammitaṁ [57] cāpi ghanaṁ trisnēhasaṁyutam||229||
nāristanyēna saṁyuktāṁ pibēdaudumbarīṁ tvacam|
tābhyāṁ vā pāyasaṁ siddhamadyādatyagniśāntayē||230||
śyāmātrivr̥dvipakvaṁ vā payō dadyādvirēcanam|
asakr̥t pittaśāntyarthaṁ pāyasapratibhōjanam||231||
prasamīkṣya bhiṣak prājñastasmai dadyādvidhānavit|
yatkiñcinmadhuraṁ mēdyaṁ ślēṣmalaṁ gurubhōjanam||232||
sarvaṁ tadatyagnihitaṁ bhuktvā prasvapanaṁ divā|
mēdyānyannāni yō’tyagnāvapratāntaḥ [58] samaśnutē||233||
na tannimittaṁ vyasanaṁ labhatē puṣṭimēva ca|
kaphē vr̥ddhē jitē pittē mārutē cānalaḥ samaḥ||234||
samadhātōḥ pacatyannaṁ puṣṭyāyurbalavr̥ddhayē|235|


pittaṁ pāvakasthānē kupitamiti sambandhaḥ| tacca pittaṁ mārutānugatatvādatyagnikaraṁ [59] bhavati; ēvaṁ dharmabhēdādviruddhakāryakaraṁ jñēyam| pittōṣmarūpasyāpi ca bahnēḥ prādēśikapittōṣmaṇō hānijanakatvaṁ [60] janyajanakayōrbhēdatvādupapannamēva jñēyam| sthiratōyacarānityanēna sthiratōyacāriṇāṁ niṣkriyatayā gauravātiśayaṁ darśayati| tilavātāmādīnāṁ dr̥ṣadi piṣṭānāmuṣṇōdakamr̥ditā piṇḍā utkruñcā ucyantē, ‘utkārikā’ ityanyē| ghanaṁ trisnēhasaṁyutamityatra ghanaśabdēna dadhyucyatē| pāyasēna pratibhōjanaṁ yasmin pittaharaṇē tat pāyasapratibhōjanam| mēdyamiti mēduraṁ mēdōjanakaṁ vā| apratānta iti abubhukṣitaḥ| vyasanaṁ maraṇamityarthaḥ [61] | puṣṭimēva ca labhatē iti yōjyam||217-234||-

bhavanti cātra-
pathyāpathyamihaikatra bhuktaṁ samaśanaṁ matam||235||
viṣamaṁ bahu vā’lpaṁ vā’pyaprāptātītakālayōḥ|
bhuktaṁ pūrvānnaśēṣē tu punaradhyaśanaṁ matam||236||
trīṇyapyētāni mr̥tyuṁ vā ghōrān vyādhīnsr̥janti vā|
prātarāśē tvajīrṇē’pi sāyamāśō na duṣyati||237||
divā prabudhyatē’rkēṇa hr̥dayaṁ puṇḍarīkavat|
tasminvibuddhē srōtāṁsi sphuṭatvaṁ yānti sarvaśaḥ||238||
vyāyāmācca vihārācca vikṣiptatvācca cētasaḥ|
na klēdamupagacchanti divā tēnāsya dhātavaḥ||239||
aklinnēṣvannamāsiktamanyattēṣu na duṣyati|
avidagdha iva kṣīrē kṣīramanyadvimiśritam||240||
naiva dūṣyati tēnaiva samaṁ sampadyatē yathā|
rātrau tu hr̥dayē mlānē saṁvr̥tēṣvayanēṣu ca|
yānti kōṣṭhē pariklēdaṁ saṁvr̥tē dēhadhātavaḥ||241||
klinnēṣvanyadapakvēṣu tēṣvāsiktaṁ praduṣyati|
vidagdhēṣu payaḥsvanyat payastaptamivārpitam||242||
naiśēṣvāhārajātēṣu nāvipakvēṣu buddhimān|
tasmādanyatsamaśnīyātpālayiṣyanbalāyuṣī||243||


samprati prāguktasamaśanādilakṣaṇamāha- pathyāpathyamityādi| pathyāpathyaṁ kiñcidēkatra militaṁ, yathā- raktaśālyannaṁ yavakānnaṁ ca militam| bahubhuktamalpabhuktaṁ vā tathā’prāptamatītakālaṁ ca bhuktaṁ viṣamamucyatē| pūrvānnētyādi divā bhuktasyōpari tadaharēva punarbhujyatē tadadhyaśanaṁ; tanniṣēdhayannāha- prātarāśē ityādi| aśanamāśō bhōjanamityarthaḥ| kasmānna dūṣyatītyāha- divētyādi| sphuṭatvamiti vivr̥tatvaṁ, vivr̥tatvācca srōtasāṁ srōtōbhirvahanēna rasō’vyāhatagatirbhavati, tataśca na klēdaṁ srōtāṁsi yānti; tathā vyāyāmādibhiśca śōṣyamāṇāni na klēdamupayānti srōtāṁsi| vyāyāmō gamanādiḥ, vihāraḥ aṅgakṣēpaṇādikā cēṣṭā| srōtō’klēdē kiṁ bhavatītyāha- aklinnēṣvityādi| āsiktamiti prakṣiptam| avidagdhē ityādinā’tra dr̥ṣṭāntamāha| mlānē iti saṅkucitē| apakvēṣviti anyēṣu| upasaṁharati- naiśēṣvityādinā| nānyat samaśnīyāditi yōjanā||235-243||

tatra ślōkāḥ-
antaragniguṇā dēhaṁ yathā dhārayatē ca saḥ|
yathā’nnaṁ pacyatē yāṁśca yathā”hāraḥ karōtyapi||244||
yē’gnayō yāṁśca puṣyanti yāvantō yē pacanti yān|
rasādīnāṁ kramōtpattirmalānāṁ tēbhya ēva ca||245||
vr̥ṣyāṇāmāśukr̥ddhēturdhātukālōdbhavakramaḥ|
rōgaikadēśakr̥ddhēturantaragniryathā’dhikaḥ||246||
praduṣyati yathā duṣṭō yān rōgāñjanayatyapi|
grahaṇī yā yathā [62] yacca grahaṇīdōṣalakṣaṇam||247||
pūrvarūpaṁ pr̥thak caiva vyañjanaṁ sacikitsitam|
caturvidhasya nirdiṣṭaṁ tathā cāvasthikī kriyā||248||
jāyatē ca yathā’tyagniryacca tasya cikitsitam|
uktavāniha tat sarvaṁ grahaṇīdōṣakē muniḥ||249||


antaragnirityādinā adhyāyasaṅgrahaṁ brūtē| yē’gnaya iti ‘bhaumāpyāgnēya …’ ityādinōktāḥ| yāṁścēti ‘pañcāhāraguṇān’ ityādyuktamarthaṁ saṅgr̥hṇāti| puṣyanti yāvanta iti ‘yathāsvaṁ svaṁ’ ityādyuktaṁ saṅgr̥hṇāti| yē pacanti yāniti ‘saptabhirdēhadhātāraḥ’ ityādyuktasaṅgrahaḥ| āśukāritvēna hētunā āśukr̥ddhētuḥ| śēṣaṁ vyaktam||244-249||

ityagnivēśakr̥tē tantrē’prāptē dr̥ḍhabalasampūritē cikitsāsthānē
grahaṇīcikitsitaṁ nāma pañcadaśō’dhyāyaḥ||15||


iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpakāyāṁ cikitsāsthānē grahaṇīcikitsitaṁ nāma pañcadaśō’dhyāyaḥ||15||

1. ‘atrāntarā kijcidgranthastruṭitaḥ pratibhāti|
2. ‘sākṣātkāryakāraṇatvaṁ’ iti pā.|
3. ‘āhārō’pyagnipākamapēkṣyaiva’ iti pā.|
4. ‘udīrṇaḥ pavanēna tu’ iti pā.|
5. ‘āhāraprakarṣaṇaṁ’ iti pā.|
6. ‘dravaiḥ klēdakaślēṣmadravaiḥ’ iti jalpakalpatarā gaṅgādharaḥ|
7. ‘phēnabhāvaḥ’ iti pā.|
8. ‘hyupakr̥ta…’ iti pā.|
9. ‘prāṇādīnindriyāṇi’ iti pā.|
10. ‘kiṭṭaprasādataḥ’ iti pā.|
11. ‘striyāḥ’ iti pā.|
12. ‘snāyusandhayaḥ’ iti pā.|
13. ‘pākādēvāvigarhataḥ’ iti pā.|
14. ‘parasparōpasaṁstambhāddhattō dēhē parasparam’ iti pā.|
15. ‘ityuktavantaṁ’ ityādiḥ ‘sthalānnimnādivōdakaṁ’ ityantaḥ pāṭhaścakrapāṇidattēnāvyākhyātatvādanārṣa iti pratibhāti|
16. ‘praviśataḥ’ iti gaṅgādharasammataḥ pāṭhaḥ|
17. ‘rasādraktāttathā māṁsānmēdasaḥ śvētatā katham’ iti pā.|
18. “śōṇitaṁ svāgninā pakvaṁ vāyunā ca ghanīkr̥tam| tadēva māṁsaṁ jānīyāt sthiraṁ bhavati dēhinām||” iti pā.|
19. ‘ślēṣmaṇā vr̥taḥ’ iti pā.|
20. ‘samētaṁ’ iti pā.|
21. ‘syāttasmin vikārān kurutē vivarṣamiva tōyadaḥ’ iti pā.|
22. ‘syāttatra dēśē prakōpaṇam’ iti pā.|
23. ‘viṣatāṁ ca tat’ iti pā.|
24. ‘pittēna saha saṁsr̥ṣṭaṁ tr̥ṣṇādāhamukhāmayān’ iti pā.|
25. ‘vātajāṁścāparān gadān’ iti pā.|
26. ‘lōhānugandhiḥ’ iti pā.|
27. ‘nābhērupari sā hyagnibalōpastambhabr̥ṁhitā’ iti pā.|
28. ‘durbalāgnibalādr̥ṣṭā’ iti pā.|
29. ‘atīvāmamuñcanēna samaṁ na virōdhaḥ’ iti pā.|
30. ‘cikitsāṁ ca’ iti pā.|
31. ‘mārutaḥ kupitō vahniṁ sañchādya kurutē gadān’ iti pā.|
32. ‘āplāvayaddhantyanalaṁ’ iti pā.|
33. ‘tēṣāmatō vakṣyāmi bhēṣajam’ iti pā.|
34. ‘vyaktāḥ’ iti pā.|
35. ‘sr̥ṣṭadōṣamiti’ iti pā.|
36. ‘surabhiṁ’ iti pā.|
37. ‘surabhisvarasaḥ’ iti pā.|
38. ‘viḍēna lavaṇēna lavaṇaṁ kr̥tvā’ iti gaṅgādharaḥ|
39. ‘daśāmlavētasapalānimāṁścāpi palāṁśikān’ iti pā.|
40. ‘takrakaṁ sāsutaṁ’ iti pā.|
41. ‘mañjiṣṭhātripalaṁ’ iti pā.|
42. ‘br̥ṁhaṇō’nilarōgajit’ iti pā.|
43. ‘…ddrākṣēkṣukāśmaryasvarasā’ iti pā.|
44. ‘muṣṭī citrakadantyōrdvē’ iti pā.|
45. ‘pr̥thak’ iti pā.|
46. ‘prāsthikīṁ’ iti pā.|
47. ‘siddhaṁ rasāyanam’ iti pā.|
48. ‘kṣārasyārdhāḍhakēna’ iti pā.|
49. ‘sāndraṁ’ iti pā.|
50. ‘sarvaviṣāṇāṁ ca kṣārō’yaṁ śamanō varaḥ’ iti pā.|
51. ‘praśāntaḥ’ iti pā.|
52. ‘avyasāyaśūnyaḥ’ iti pā.|
53. ‘snēhānnapānairvidhai’ iti pā.|
54. āhārōpabādhajarōgaṁ’ iti pā.|
55. ‘…datyagnirābalam’ iti pā.|
56. ‘tailayōnīnāṁ mr̥tkuñjāḥ’ iti pā.|
57. ‘payasā samitāṁ cāpi ghanāṁ trisnēhasaṁyutām’ iti pā.|
58. ‘…vapraśāntaḥ’ iti pā.|
59. ‘mārutānugatatvādidharmayuktamatyagnikaraṁ’ iti pā.|
60. ‘hānijananaṁ’ iti pā.|
61. ‘maraṇamanarthaṁ vā labhatē’ iti pā.|
62. ‘samāsācca’ iti pā.|