ebooks-esamhita-ecaraka-cikitsasthana-rasayana-adhyaya

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः


अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते| रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते, तथाऽनन्तरमेव वक्ष्यति| तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर्महाफलत्वेनादावभिधानम्| तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलमिति तदभिधीयते, तत्रापि चाभयामलकीयश्चिकित्सास्थानार्थसूत्राभिधायकतयाऽग्रेऽभिधीयते||१-२||

चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्||३||
विद्याद्भेषजनामानि, …|४|

तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य भेषजस्य पर्यायानाह- चिकित्सितमित्यादि| करोति चैवमादौ प्रधानाभिधेयपर्यायाभिधानं, यथा- निदाने हेतुरूपादिपर्यायकथनम्| एतच्च पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य, यदुक्तं- “चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते” (सू.अ.१०) इति| एवम्भूतभेषजाङ्गरूपतया तु स्थावरजङ्गमद्रव्यरूपस्य भेषजस्य भेषजत्वमेवान्तरव्यवहारकृतं ज्ञेयम्| प्रायश्चित्तमिति भेषजसञ्ज्ञा प्रायश्चित्तवद्भेषजस्याधर्मकार्यव्याधिहरत्वेन||३||-

… भेषजं द्विविधं च तत्|
स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||४||

द्वैविध्यं विवृणोति- स्वस्थस्येत्यादि| किञ्चिदिति न सर्वम्| स्वस्थत्वेन व्यवह्रियमाणस्य पुंसो जरादिस्वाभाविकव्याधिहरत्वेन तथाऽप्रहर्षव्ययायक्षयित्वानुपचितशुक्रत्वाद्यप्रशस्तशारीरभावहरत्वेन ऊर्जः प्रशस्तं भावमादधातीति स्वस्थस्योर्जस्करम्| आर्तस्य रोगनुदिति विशेषणेन ज्वरादिनाऽऽर्तस्य ज्वरादिहरम्| रोगनुदिति वचनेनैवार्तविशेषतायां [१] लब्धायां यत् ‘आर्तस्य’ इति करोति, तेन सहजजरादिकृतां पीडामनुद्वेजिकां परित्यज्य ज्वरादिनाऽस्वाभाविकेन रोगेण पीडितस्येति दर्शयति||४||

अभेषजं च द्विविधं बाधनं सानुबाधनम्|५|

भेषजप्रसङ्गादभेषजद्वैविध्यमाह- अभेषजमित्यादि| बाधनमिह तदात्वमात्रबाधकं, यथा- स्वल्पमपथ्यम्| सानुबाधनं च दीर्घकालावस्थायिकुष्ठादिविकारकारि||-

स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||५||
प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमे मतम्|
प्रायःशब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत्||६||

द्विविधं भेषजमुक्तं विभजते- स्वस्थस्येत्यादि| तद्वृष्यं तद्रसायनं प्राय इति च्छेदः| यद्वृष्यं प्रायो भवति, तथा रसायनं यत् प्रायो भवति, आर्तस्य रोगहरं यद्बाहुल्येन, तत् स्वस्थोर्जस्करमुच्यते; यत्तु द्वितीयमार्तरोगहरं, तत् प्रायेण ज्वरादिशमनं रसायनं वाजीकरणं च भवति; यथा- क्षतक्षीणोक्तं सर्पिर्गुडादि रसायनं वृष्यं च भवति, तथा पाण्डुरोगोक्तो योगराजो रसायनत्वेनोक्तः, तथा कासाधिकारेऽगस्त्यहरीतकी रसायनत्वेनोक्तेत्याद्यनुसरणीयम्| रसायनोक्तानां च ज्वरादिहरत्वमत्र सुव्यक्तमेव रसायनग्रन्थेषु| अन्ये तु ब्रुवते- यद्व्याधिमात्रहरं न तद्रसायनं, किन्तु शरीरसंयोगदार्ढ्याद्दीर्घायुःकर्तृत्वसाधारणधर्मयोगादुपचरितव्याधिहरं रसायनमिहोच्यत इति| ननु यदि स्वस्थोर्जस्करमपि व्याधिहरं, व्याधिहरं च स्वस्थोर्जस्करं तत् किं किञ्चिदिति पदेन भेषजकर्मव्यवस्थादर्शकेन क्रियते? ब्रूमः- बाहुल्येन स्वस्थोर्जस्करत्वं व्याधिहरत्वं च व्यवस्थाप्यते, न चेह सर्वार्तरोगहरस्य स्वस्थोर्जस्करत्वमिति प्रतिज्ञायते, येन पाठासप्तपर्णादीनामपि रसायनत्वं साधनीयशक्तित्वादार्त्तरोगहरत्वेन [२] यदुच्यते तदपि रसायनं वाजीकरणं च भवतीति लवमात्रोपदर्शनं क्रियते, तत् स्वस्थार्तयोरुभयार्थकर्तृत्वम्| प्रायःशब्दतात्पर्यं विवृणोति- प्राय इत्यादि| विशेषार्थ इति बाहुल्यार्थ इत्यर्थः||५-६||

दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः|
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम्||७||
वाक्सिद्धिं प्रणतिं [३] कान्तिं लभते ना रसायनात्|
लाभोपायो हि शस्तानां रसादीनां रसायनम्||८||

रसायनकार्यमाह- दीर्घमित्यादि| प्रभादीनां त्रयाणामौदार्यं योजनीयम्| वाक्सिद्धिः यदुच्यते तदवश्यं भवतीत्यर्थः| प्रणतिः लोकवन्द्यता| कथमेतद्रसायनेन क्रियत इत्याह- लाभेत्यादि| रसादिग्रहणेन स्मृत्यादयोऽपि गृह्यन्ते||७-८||

अपत्यसन्तानकरं यत् सद्यः सम्प्रहर्षणम्|
वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः||९||
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते|
जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते||१०||
प्रभूतशाखः शाखीव येन चैत्यो यथा महान्|
भवत्यर्च्यो [४] बहुमतः प्रजानां सुबहुप्रजः||११||
सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते|
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत्||१२||

वाजीकरणकार्यमाह- अपत्येत्यादि| अपत्यसन्तानः अपत्यपरम्परा, तेन पुत्रपौत्रकरमित्यर्थः; वाजीकरणजनिताच्छुक्राज्जातः पुत्रः पुत्रजननसमर्थो भवतीत्यर्थः| अतिप्रियत्वं चेहोपचितशुक्रतया निरन्तरव्यवायकर्तृत्वात्; यदुक्तं- “विरूपमपि योद्धारं भृत्यमिच्छन्ति पार्थिवाः| व्यवायव्यायतं मूर्खं धृष्टं पतिमिव स्त्रियः” इति| उपचीयत इति पुष्टिं प्राप्नोति| अक्षयमिवाक्षयम्| फलवदिति गर्भजनकम्| चैत्यो देवतायतनम्| अर्च्यः अर्चनीयः [५] | आनन्त्यमिवानन्त्यं; दीर्घसन्तानतामित्यर्थः||९-१२||

स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम्|
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते||१३||
चिकित्सितार्थ एतावान् विकाराणां यदौषधम्|
रसायनविधिश्चाग्रे वाजीकरणमेव च||१४||

चिकित्सित इति ज्वरादिचिकित्सिते| ननु रसायनवाजीकरणे अपि ज्वरादिचिकित्सिते एव, तत् किं विशिष्योच्यते- ‘वक्ष्यते तच्चिकित्सिते’ इत्याह- चिकित्सितार्थ इत्यादि| सत्यं, रसायनं वाजीकरणं च ज्वरादिव्याधिहरत्वाच्चिकित्सितशब्देनोच्यत इत्यर्थः| अथ व्याधिहरत्वाच्चिकित्सिते वक्तव्यत्वाच्च रसायनवाजीकरणे क्व नु [६] वक्तव्ये इत्याह- रसायनेत्यादि| विधिः विधानं रसायनाभिधानमित्यर्थः [७] | अग्रे इति अनन्तरम्| वाजीकरणं चाग्रे ‘अभिधास्यते’ इति शेषः||१३-१४||

अभेषजमिति ज्ञेयं विपरीतं यदौषधात्|
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||

अभेषजमपि पूर्वोद्दिष्टं विवृणोति- अभेषजमित्यादि| विपरीतं रोगजननलक्षणार्थकारि||१५||

रसायनानां द्विविधं प्रयोगमृषयो विदुः|
कुटीप्रावेशिकं चैव वातातपिकमेव च||१६||
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते|
नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम्||१७||
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे|
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्||१८||
विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्|
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९||
शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्|
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् [८] ||२०||
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते|
मुहूर्तकरणोपेते प्रशस्ते कृतवापनः||२१||
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः|
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२||
देवताः पूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्|
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम्||२३||
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः|
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि [९] शोधनम्||२४||

कुटीप्रवेशेन यत् क्रियते तत् कुटीप्रावेशिकम्| वातातपसेवयाऽपि यत् क्रियते तद् वातातपिकम्| त्रिगर्भां प्रथममेकं गृहं, तस्याभ्यन्तरे द्वितीयम्, एवं त्रिगर्भास्त्रयो गर्भा अन्तराणि यस्यां सा; त्रिगर्भामिति अन्तस्त्रिप्रकोष्ठाम्| सूक्ष्मलोचनामिति अल्पद्वारजालकाम्| शुक्ले शुक्लपक्षे| सज्जा वैद्यादयो यस्यां सा तथा| तिथिनक्षत्रपूजित इति शुभतिथिनक्षत्रयोगात् पूजिते| कृतवापन इति कृतक्षौरः| मानसान् दोषानिति कामक्रोधादीन्| संशोधनैरिति वमनविरेचनास्थापनशिरोविरेचनैः| सुखीति अरोगः| जातबल इति संशोधनापहृतमलतया संसर्जनादिक्रमेण पुनर्जातबलः| यद्यपीह संशोधनैरिति बहुवचनप्रयोगात् सर्वाण्येव संशोधनानि सम्मतानि, तथाऽपीह रसायने विशेषेण यौगिकत्वाद्धरीतक्यादिप्रयोग एवोक्तः; अन्ये तु हरीतक्यादिप्रयोगेणैव परं संशोधनं कर्तव्यमित्याहुः, संशोधनैरिति बहुवचनं पुनर्यावच्छुद्धेर्हरीतक्यादिप्रयोगस्यैव करणं दर्शयति||१६-२४||

हरीतकीनां चूर्णानि सैन्धवामलके गुडम्|
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५||
पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः|
तेन शुद्धशरीराय कृतसंसर्जनाय च||२६||
त्रिरात्रं यावकं दद्यात् पञ्चाहं वाऽपि सर्पिषा|
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७||
शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्|
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||

यावकमिति यवान्नम्| त्रिरात्रादिविकल्पत्रयं हीनमध्योत्तमशुद्धिविषयम्||२५-२८||

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|
दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम्||२९||
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्|
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम्||३०||
कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्|
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||
हृद्रोगं सशिरोरोगमतीसारमरोचकम्|
कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्|
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः|
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४||
(अजीर्णिनो [१०] रूक्षभुजः स्त्रीमद्यविषकर्शिताः|
सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये)||३५||
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि|
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः||३६||
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः|
हरीतकीनां शस्यानि भिषगामलकस्य च||३७||

यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायनाधिकृतानि [११] सन्ति, तथाऽपि हरीतक्यामलके एव रोगहरत्वायुष्करत्वरूपोभयधर्मयोगादध्यायादौ गुणकर्मभ्यामुच्येते; तत्रापि यद्यपि “आमलकं वयःस्थापनानाम्” (सू.अ.२५) इत्युक्तम्, तथाऽपि रोगहरत्वे हरीतकी प्रकर्षवतीति कृत्वा हरीतक्यग्रेऽभिहिता| हरीतक्यादिषु पञ्चरसत्वाद्युत्पादोऽदृष्टवशाद्भूतसन्निवेशविशेषप्रभावकृतः; तेन नात्रोपपत्तयः क्रमन्ते| शिवामिति कल्याणकारिणीं, प्रशस्तगुणयुक्तत्वात्| सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना| सर्वरोगहरत्वमभिधायापि कुष्ठादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम्| प्रवर्तकत्वेऽप्यतीसारग्रहणीहरत्वं विबद्धदोषप्रवर्तकतया ज्ञेयं; यदुक्तं- “स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते| अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत्” इति| बुद्धिस्मृतिप्रदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम्| वीर्यस्य तु विपर्यय इत्यनेनामलकस्य शीतवीर्यत्वमुक्तम्| शस्यानीति अस्थिरहितानि फलानि||२९-३७||

ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः|
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८||
आपूर्णरसवीर्याणि काले काले यथाविधि|
आदित्यपवनच्छायासलिलप्रीणितानि च||३९||
यान्यजग्धान्यपूतीनि [१२] निर्व्रणान्यगदानि च|
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||

यद्यपि “हिमवानौषधभूमीनाम्” (सू.अ.२५) इत्युक्तं, तथाऽपि रसायने हिमवत्प्रभवाण्येव भेषजानि ग्राह्याणीति दर्शयितुमौषधीनामित्याद्यभिधानम्| काले काले इति फलपाककाले इत्यर्थः| यथाविधीति यथा भेषजग्रहणं मङ्गलदेवतार्चनादिपूर्वकं स्यात्तथाऽवश्यं रसायने कर्त्तव्यम्| अगदानीत्यनेन पवनदहनाद्यदोषं फलस्य दर्शयति||३८-४०||

पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्|
हरीतकीसहस्रं च त्रिगुणामलकं नवम्||४१||
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्|
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२||
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्|
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च||४३||
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्|
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||
इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्|
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्|
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च||४६||
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः|
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत्||४७||
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च|
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८||
मधुकस्य हरिद्राया वचायाः कनकस्य च|
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९||
सितोपलासहस्रं च चूर्णितं तुलयाऽधिकम्|
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः||५०||
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना|
ज्ञात्वा लेह्यमदग्धं [१३] च शीतं क्षौद्रेण संसृजेत्||५१||
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने|
तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२||
या नोपरुन्ध्यादाहारमेकं [१४] मात्रा जरां प्रति|
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३||
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|
रसायनमिदं प्राश्य [१५] बभूवुरमितायुषः||५४||
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः|
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५||
मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः|
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६||
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्|
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७||
(इति ब्राह्मरसायनम्)|

पञ्चानामित्यादौ प्रतिद्रव्यं दशपलभागग्रहणम् [१६] , उक्तं हि जतूकर्णे- “इति पञ्च पञ्चमूलानि, तेषां प्रतिद्रव्यं दशपलानि” इति| हरीतकीसहस्रमिति हरीतकीफलसहस्रम्| शूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ| वीरा जालन्धरं शाकम्| कूर्चनं जर्जरीकरणसाधनं शिलापुत्रकमुसलादि| विनीयेति प्रक्षिप्य| प्लवः कैवर्तमुस्तकम्| कनकं नागकेशरम्| त्वक् गुडत्वक्| औदुम्बरे इति ताम्रमये| स्नेहार्धमिति सर्पिस्तैलार्धम्| एकम् अनपराह्णिकमाहारम्||४१-५७||

यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्|
तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता- चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||
भवन्ति चात्र-
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः||५९||
कान्तः प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः|
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते||६०||
धरणीधरसारश्च वायुना समविक्रमः|
स भवत्यविषं चास्य गात्रे सम्पद्यते विषम्||६१||
(इति द्वितीयं ब्राह्मरसायनम्)|

पिष्टस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपात्रोपरिदत्ततृणादिसंस्थितं स्वेद्यते, तथा तत् स्वेदनीयमित्यर्थः| स्वरसपरिपीतमिति स्वरसभावितम्| ब्रह्मसुवर्चलाद्यौषधान्यायुर्वेदसमुत्थानीये वक्ष्यमाणानि| युवतिः नवमालिका| अष्टमो भागोऽष्टभागः| क्षुद्रगुडाकृतिमिति फाणिताकृतिम्| अर्धकर्षवृद्ध्येति अर्धकर्षात्प्रभृति वर्धयेत्| यथोक्तविधिनेति कुटीप्रावेशिकेन विधिना| यथोक्तान् गुणानिति पूर्वप्रयोगफलश्रुतिपठितान्| धरणीधरसार इति उष्ट्रमुखवत्; तेन धरणीधराः पर्वताः, तेषां सारो लौहं, तद्वत्सार [१७] इत्यर्थः| अविषमिति विषमविकारि||५८-६१||

बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|
विदारी वृषमूलानि काकोली काकनासिका||६४||
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||
कासश्वासहरश्चैव विशेषेणोपदिश्यते|
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः||७०||
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|
अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा||७२||
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम्||७३||
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
(इति च्यवनप्राशः)|

पर्ण्यश्चतस्र इति शालपर्णी, पृश्निपर्णी, मुद्गपर्णी, माषपर्णी च| तामलकी भूम्यामलकी| काकनासा नासाफला, ‘काकतुण्डक’ इत्यन्ये| गतरसत्वमिह द्रव्याणां चतुर्भागस्थितजले भवति| निष्कुलमिति निरस्थि| तैलसर्पिषोरिति समासनिर्देशादुभाभ्यामेव द्वादशपलानि, न पृथक् पृथक्| मत्स्यण्डिका खण्डसंहतिः| अत्र षट्पलत्वेन समयोरपि मधुसर्पिषोर्द्रव्यान्तरयुक्तत्वेनाविरुद्धत्वम्||६२-७४||

अथामलकहरीतकीनामामलकबिभीतकानां हरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानां मृदाऽवलिप्तानां कुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् [१८] , अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्य [१९] , प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्|
अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः||७५||
(इति चतुर्थामलकरसायनम्)|

कुकूलकः करीषाग्निः| अकुलकानामिति अनस्थ्नाम्| द्रव्यादीनामत्र [२०] मानं नोक्तं, तेन प्रधानस्य चूर्णस्य दध्यादिभिर्मिलितैः समानमानत्वं; किंवा प्रत्येकमेव दध्यादीनां चूर्णसमत्वम्| पललं तिलचूर्णम्| भक्षयेदिति वचनं लेह्येऽपि अल्पाभ्यवहरणमात्रार्थत्वादुपपन्नम्| अनन्नभुगिति सर्वथाऽऽहारान्तराभुक्| तस्यान्त इति एतत्प्रयोगपरित्यागकाले| प्रत्यवस्थापनमिति यवाग्वादिक्रमविशेषणं; तेन प्रयोगान्ते यदा अन्नसंसर्जनं [२१] कर्तव्यं, तदा यवाग्वादिक्रमेणेत्युक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः| यूषेण पयसा वेति विकल्पोऽग्निबलापेक्षया||७५||

हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानोऽग्निबलसमां [२२] मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भः परमायुरनवाप्नुयात्||७६||
(इति पञ्चमो हरीतकीयोगः)|

अत्र हरीतक्यादौ क्षीरशुक्ला क्षीरविदारिका| अत्र हरीतक्यादिक्वाथस्य त्वेको भागः, क्षीरस्याष्टौ भागाः, सर्पिष एको भागः| कुम्भो द्रोणद्वयम्| वचनं हि- “द्रोणस्तु द्विगुणः सूर्पो विज्ञेयः कुम्भ एव च” इति||७६||

हरीतक्यामलकबिभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन [२३] क्षीरसर्पिषा मधुशर्कराभ्यामपि च सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसम्प्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात्, त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति, श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, विषमविषं भवति गात्रे, गात्रमश्मवत् स्थिरीभवति, अधृष्यो भूतानां भवति||७७||
भवन्ति चात्र-
यथाऽमराणाममृतं यथा भोगवतां सुधा|
तथाऽभवन्महर्षीणां रसायनविधिः पुरा||७८||
न जरां न च दौर्बल्यं नातुर्यं निधनं न च|
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||
न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते|
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् [२४] ||८०||

अमृतवल्ली गुडूची| सोमवल्कः विट्खदिरः| क्षीरसर्पिः क्षीरसमुत्थितसर्पिः| अयश्चूर्णस्य चतुर्थो भागः, यत एतदयश्चूर्णं चतुर्थभागमत एवास्मिन् प्रयोगे जतूकर्णेन “अयश्चूर्णपादयुक्तम्” इति कृतम्| अमराणाममृतं जरादिहरं, नागानां च सुधा जरामरणहरी, इत्युभयोपादानं दृष्टान्ते| ब्रह्म मोक्षः| मोक्षसाधनत्वं चेह रसायनस्य विशुद्धसत्त्वकर्तृतयोच्यते|| ७७-८०||

तत्र श्लोकः-
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||

अभयेत्यादिना सन्देहनिरासार्थमुक्तप्रयोगसङ्ख्यां दर्शयति| एवमन्यत्रापि सङ्ख्याप्रणयनमन्ते ज्ञेयम्|| ८१||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः||१||

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः|| १||

१. ‘आर्तविशेषणतायां’ इति पा.|
२. ‘साधनीयशक्तित्वार्तियोगहरत्वेन’ इति पा.|
३. ‘वृषतां’ इति पा.|
४. ‘भवत्यर्घ्यो बहुमतः’ इति, ‘भवत्यसौ बहुमतः’ इति च पा.|
५. ‘अर्घणीयः स्तुत्यः’ इति पा.|
६. ‘च’ इति पा.|
७. ‘रसायनविधानमित्यर्थः’ इति पा.|
८. ‘सक्त…’ इति पा.|
९. ‘ततो वक्ष्यामि’ इति पा.|
१०. योगीन्द्रनाथसेनसम्मतोऽयं पाठः|
११. ‘दशवर्षसहस्रायुष्कररसायनाधिकृतानि’ इति पा.|
१२. ‘यान्यदग्धानि’ इति पा.|
१३. ‘लेहमदग्धं’ इति पा.|
१४. ‘…दाहारमेवं’ इति पा.|
१५. ‘प्राप्य’ इति पा.|
१६. ‘दशाक्षग्रहणम्’ इति पा.|
१७. ‘तत्सार इत्यर्थः’ इति पा.|
१८. ‘प्रकृत्यवस्थापनं’ इति पा.|
१९. ‘द्विस्तावत् प्रयोगकालाद् द्विगुणकालं प्रतिभोजनं यवागूः यूषेण पयसा वा ससर्पिष्कः षष्टिकः षष्टिकान्नं’ इति योगीन्द्रनाथसेनः|
२०. ‘दध्यादीनां’ इति पा.|
२१. ‘अन्नसेवा कर्तव्या’ इति पा.|
२२. ‘प्रयुञ्जीताग्निबलं समवेक्ष्य, जीर्णे च’ इति पा.|
२३. ‘…वचा…’ इति पा.|
२४. ‘चाक्षरम्’ इति पा.|

चिकित्सास्थानम् - १/२. प्राणकामीयो रसायनपादः


अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||


पूर्वपादे ह्यामलकरसायनान्युक्तानि, इहाप्यामलकरसायनानि सन्तीति प्राणकामीयमनन्तरमुच्यते| प्राणकामशब्दमधिकृत्य कृतमिति प्राणकामीयम्||१-२||

प्राणकामाः शुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरं स्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम्|
अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः, स्थिरसमसुविभक्तमांसाः, सुसंहतस्थिरशरीराः, सुप्रसन्नबलवर्णेन्द्रियाः, सर्वत्राप्रतिहतपराक्रमाः, क्लेशसहाश्च|
सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनां [१] विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसङ्क्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम्; अतोनिमित्तं [२] हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विदह्यते रक्तं, विष्यन्दते चानल्पं मेदः, न सन्धीयतेऽस्थिषु मज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः; स एवम्भूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति, असमर्थश्चेष्टानां शारीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति|
तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच-||३||


निद्राहरत्वं रसायनस्य वैकारिकनिद्राहरत्वेन, किंवा देववत् सर्वदा प्रबुद्धो निद्रारहितो भवति| तन्द्रालक्षणं तन्त्रान्तरे- “इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः| निद्रार्तस्येव यस्यैते [३] तस्य तन्द्रां विनिर्दिशेत्” (सु.शा.अ.४) इति| अबद्धमांसम् अनिबिडमांसम्| उत्तमानि प्रभादीनि करोतीति प्रभावर्णस्वरोत्तमकरम्| एवञ्जातीयश्च पूर्वनिपातानियमोऽप्रतिबन्धेन चरकेऽस्ति, स मयूरव्यंसकादिपाठाद्द्रष्टव्यः| अनेन हीत्यादिना पुरावृत्तकथनेन रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थं स्तौति| रसायनप्रयोगे वर्जनीयं ग्राम्याहारादि दूषणत्वेन निर्दिशन्नाह- सर्वे इत्यादि| तिलस्तु अचूर्णितस्तिलः, पललं तिलचूर्णम्| अतोनिमित्तमिति ग्राम्याहारादिकारणकम्| शुक्रं न प्रवर्तत इति नोत्पद्यते शुक्रमित्यर्थः|| ३||

आमलकानां सुभूमिजानां कालजानामनुपहतगन्धवर्णरसानामापूर्णरसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसम्प्रयुक्तेन सर्पिषः साधयेदाढकम्, अतः परं विदारीस्वरसेन जीवन्तीकल्कसम्प्रयुक्तेन, अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन; अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसम्प्रयुक्तं सौवर्णे राजते मार्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत्; तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत्, जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात्|
अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति, श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, अप्रतिहतगतिः स्त्रीषु, अपत्यवान् भवतीति||४||
भवतश्चात्र-
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च|
अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च||५||
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी|
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य||६||
(इत्यामलकघृतम्)|


एकैकशः शतपाकमित्यर्थः| एकैकपाकसाधनं पृथक् कर्तव्यं; तेन त्रिशतधा पाको भवति| अत्र च कल्कोपलेपादिनोपक्षीणमपि यदवशिष्टं भवति तदेव ग्राह्यं, वचनबलात्| सौवर्णादिपात्रेषु यथापूर्वं वरगुणत्वम्, अन्यथा समानगुणत्वे सर्वेषां मृत्पात्रस्य सुलभत्वेनातिदुर्लभतरं सौवर्णपात्रं नोपदेशमर्हति| यथोक्तेन विधिनेति कुटीप्रावेशिकेन| गिरिसारः लोहम्||४-६||

आमलकसहस्रं पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत्, तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां सन्नीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः|
तस्योत्तरकालमग्निबलसमां मात्रां खादेत्, पौर्वाह्णिकः प्रयोगो नापराह्णिकः, सात्म्यापेक्षश्चाहारविधिः|
अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||७||
(इत्यामलकावलेहः)|


पलाशतरुणः तरुणपलाशः; अनेन बालवृद्धपलाशवर्जनमुच्यते| क्षारोदकोत्तरमिति यथा क्षारोदकं भाव्यादुपरि [४] भवति तथा कर्तव्यमिति दर्शयति| चतुर्भागः पादः| समानं पूर्वेणेति पूर्वयोगफलश्रुत्यैतदपि युक्तमित्यर्थः||७||

आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्; तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत्; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||८||
(इत्यामलकचूर्णम्)|


वर्षान्ते वर्षाकालान्ते||८||

विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशीः||९||
(इति विडङ्गावलेहः)|


यावदाशीरिति आशीः फलश्रुतिः; तेन ‘तद्वर्षान्ते’ इत्यादिग्रन्थोक्तविधिविधानं दर्शयति||९||

यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्, तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम्, अत ऊर्ध्वं प्रयोगः; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||१०||
(इत्यामलकावलेहोऽपरः)|


पूर्वेणेति पूर्वयोगफलश्रुतिपर्यन्तं पूर्वयोगेनास्य समानमित्यर्थः||१०||

धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतवीर्याणि शीर्णपुराणपर्णान्यसञ्जातान्यपर्णानि [५] तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले [६] सुमुहूर्ते नागबलामूलान्युद्धरेत्, तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत्, चूर्णीकृतानि वा पिबेत् पयसा, मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत्, जीर्णे च क्षीरसर्पिर्भ्यां [७] शालिषष्टिकमश्नीयात्|
संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||११||
(इति नागबलारसायनम्)|


धन्वनीति जाङ्गलदेशे| कर्षणं हलादिना| अनध्यारूढानीति न महता पार्श्वस्थेन वृक्षेणाक्रान्तानि| तपसि माघे| तपस्ये इति फाल्गुने| चले सुमुहूर्त इति इन्द्रे मुहूर्ते| आम्नमात्रमिति पलपरिमाणम्||११||

बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश [८] नागबलया व्याख्याताः|
स्वरसानामलाभे त्वयं स्वरसविधिः- चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतं स्वरसवत् प्रयोज्यम्||१२||


पुनर्नवान्ता दश षड्विरेचनशताश्रितीये “अमृताऽभया धात्री मु(यु)क्ता श्रेयसी श्वेताऽतिरसा मण्डूकपर्णी स्थिरा पुनर्नवा” (सू.अ.४) इति सर्वा वयःस्थापनोक्ताः| नागबलया व्याख्याता इति नागबलावत्तेषामपि प्रयोगः| बलादीनां स्वरसेनैव विधानम्| नागबलावद्भोजनादिकं ज्ञेयम्| स्वरसालाभेऽनुकल्पमाह- स्वरसानामित्यादि|| १२||

भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे सङ्गृह्य यवपल्ले माषपल्ले वा निधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुमारभेत शीतस्निग्धमधुरोपस्कृतशरीरः|
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषाऽन्तर्मुखमभ्यज्य|
तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः|
प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः|
जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः|
तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||
(इति भल्लातकक्षीरम्)|


शुचिः ज्येष्ठः, शुक्रस्तु आषाढः, सह आग्रहायणः, सहस्यः पौषः| एतच्च भल्लातकं मासचतुष्टयस्थितं यवपल्लादौ [९] उद्धृतमात्रं न प्रयोज्यं, किन्तु यथोक्त एव काले शीतगुणयुक्ते| मुखदाहपरिहारार्थं सर्पिषाऽन्तर्मुखमभ्यज्येति| नातः परमिति त्रिंशतः परेण प्रयोगो न भल्लातकस्य| सहस्रपरो भल्लातकप्रयोग इति उपयुक्तभल्लातकसम्पिण्डनया यदा सहस्रं पूर्यते तदैवोपरमः कर्तव्यः, सहस्रादर्वागपि च प्रयोगपरित्यागः प्रकृत्याद्यपेक्षया भवत्येव| सहस्रसङ्ख्यापूरणं चेहैकेन वर्धनह्रासक्रमेण न भवति, तेन पुनरावृत्त्या च त्रिंशत्पर्यन्तं प्रयोगः कर्तव्यः, यथा हि भल्लातकप्रयोगाभ्यासेन सहस्रसङ्ख्यापूरणं भवति तथा कृत्वा परित्यागः कर्तव्यः| अन्ये त्वत्र सुश्रुते अर्शश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं विरोधं पश्यन्तः सुश्रुतप्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंशत्कमात्रं [१०] प्रयोगमिच्छन्ति; तच्च व्याख्यानं नातिसङ्गतम्| किञ्च सहस्रद्वयस्य तत्रोपयोगो विहितः, अत्र सहस्रपर्यन्तः प्रयोगः; तेन व्याधिविषयोऽन्य एव स प्रयोगः, अयं तु रसायनविषयः||१३||

भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिरुपस्वेदयेत्; तेषां यः स्वरसः कुम्भं प्रपद्येत, तमष्टभागमधुसम्प्रयुक्तं द्विगुणघृतमद्यात्; तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१४||
(इति भल्लातकक्षौद्रम्)|


पिष्टस्वेदनं तत्, यत्रस्थं पिष्टकमुपस्वेद्यते; तदुपरि यत् पिधानपात्रं तच्चेह सच्छिद्रं ग्राह्यम्, अन्यथोपरिस्थभल्लातकतापाच्च्युतः स्नेहो नाधो याति||१४||

भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण||१५||
(इति भल्लातकतैलम्)|


भल्लातकतैलमिति अनन्तरोक्तविधानेन गृहीतो भल्लातकस्नेहः||१५||

भल्लातकसर्पिः [११] , भल्लातकक्षीरं, भल्लातकक्षौद्रं, गुडभल्लातकं, भल्लातकयूषः, भल्लातकतैलं, भल्लातकपललं, भल्लातकसक्तवः, भल्लातकलवणं, भल्लातकतर्पणम्, इति भल्लातकविधानमुक्तं भवति||१६||


भल्लातकसर्पिरित्यादयो दशप्रयोगाः| अत्र च यथायोग्यतया भल्लातकेन सर्पिरादीनां संस्कारः संयोगश्च ज्ञेयः| यदुक्तं जतूकर्णे- “भल्लातकसंयुक्तसंस्कृतानि च घृतक्षीरक्षौद्रगुडयूषतैलपललसक्तुलवणतर्पणानि” इति| एवं च सर्पिःक्षीरयूषतैलानां संस्कारो यथान्यायं भल्लातकेन, क्षौद्रपललसक्तुतर्पणानां भल्लातकेन योगः, गुडलवणयोस्तु संस्कारः संयोगो वा| लवणे संस्कारपक्षे हि लवणसमं भल्लातकमन्तर्धूमदग्धं ग्राह्यम्| अन्ये तु सर्पिरादीनां सर्वेषामेव भल्लातकेन संस्कारं व्याख्यानयन्ति| इह सक्तुप्रयोगोऽद्रवोत्तरत्वादिविशेषकर्मणा भेदनीयः||१६||

भवन्ति चात्र-
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च|
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||
एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः|
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||
(इति भल्लातकविधिः)|
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||
ब्राह्मं [१२] तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||
तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः|
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||


अग्निसमानीति दाहस्फोटकर्तृतया| सम्भृत्येति निष्पाद्य||१७-२२||

तत्र श्लोकः-
रसायनानां संयोगाः सिद्धा भूतहितैषिणा|
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा [१३] ||२३||


पादानुसङ्ग्रहे सप्तत्रिंशत्प्रयोगा उक्ताः; तत्र बलादिभिरष्टाभिः पुनर्नवान्तैश्च दशभिरष्टादशप्रयोगाः, अपरे तु व्याहृता व्यक्ता एव||२३||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः||२||


इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः||२||

१. ‘… माष…’ इति पा.|
२. ‘अतो निमित्ताद्धि’ इति पा.|
३. ‘यस्येहा’ इति पा.|
४. ‘आमलकादुपरि’ इति पा.|
५. ‘असञ्जातफलानि’ इति पा.|
६. गङ्गाधरस्तु ‘बले मुहूर्ते’ इति पठित्वा ‘बलवति सुमुहूर्ते’ इति व्याख्यानयति|
७. ‘पयसा ससर्पिष्कं’ इति पा.|
८. ‘दश या वयःस्थापना व्याख्यातास्तासां स्वरसा नागबलावत्’ इति पा.|
९. ‘यवपर्णादौ’ इति पा.|
१०. ‘त्रिंशद्गुडकमात्रं’ इति पा.|
११. योगीन्द्रनाथसेनस्तु ‘एवं गुडभल्लातकं, भल्लातकयूषो, भल्लातकसर्पिः, भल्लातकपललं’ इत्यादिपाठं पठति|
१२. ‘ज्ञानं’ इति पा.|
१३. ‘सप्त चैवं दशर्षिणा’ इति पा.|

चिकित्सास्थानम् - १/३. करप्रचितीयो रसायनपादः


अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||


आमलकरसायनत्वसाम्यादनन्तरं करप्रचितीय उच्यते||१-२||

करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकं ग्राहयेत्, अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानां [१] चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः [२] कृत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत् सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति||३||
भवन्ति चात्र-
एतद्रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः|
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः||४||
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्|
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||५||
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्|
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||६||
(इत्यामलकायसं ब्राह्मरसायनम्)|


करप्रचितानामितिपदं स्वयम्पतितग्रहणं निषेधयति| माघे फाल्गुने वेतिग्रहणवचनात्तथैव गृहीतानामधिकार इत्यागमादुन्नीयते| स्वरस इहामलकस्यैव भवति, अधिकारात्| शाकः बृहत्पत्रस्तरुः| कृत्तानामिति च्छिन्नानाम्| इह गोमयाग्न्याद्युपकरणनियमेनैव शक्त्युत्कर्षो भवतीति ऋषिवचनादुन्नीयते| यदुक्तं- “ऋषयस्त्वेव जानन्ति योगसंयोगजं फलम्” इति| एवमन्यत्रापि इतिकर्तव्यतानियमो व्याख्येयः| कृष्णाजिनस्येति कृष्णसाराजिनस्य||३-६||

तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च|
रसायनविधानेन कालयुक्तेन चायुषा||७||
स्थिता महर्षयः पूर्वं, नहि किञ्चिद्रसायनम्|
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८||


सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह- तपसेत्यादि| कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः, नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तमेव| स्थिता इति दीर्घकालजीविनः| विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलतामाह- न हीत्यादि||७-८||

संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९||
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४||
(इति केवलामलकरसायनम्)|


ब्रह्मचारित्वेनेन्द्रियनियमे लब्धेऽपि यतेन्द्रियपदसम्बन्ध इन्द्रियनियमातिशयोपदर्शनार्थः| पौषादिषु संवत्सरान्तत्वं नियमदिनादारभ्य वर्षपूरणेन ज्ञेयम्| फाल्गुनीमित्यस्यान्ते प्राप्येति शेषः| “न द्रुममारोहेत्” (सू.अ.८) इत्यस्येह आरुह्य द्रुममिति वचनेनापवादः| जपन् ब्रह्मेति ओङ्कारं जपन्| अमृतागमादिति अमृतागमपर्यन्तम्| सौहित्यमेषामिति करणे षष्ठी| वाग्रूपिणीति तदधिष्ठात्री देवता||९-१४||

त्रिफलाया रसे मूत्रे गवां क्षारे च लवणे|
क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च||१५||
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् [३] |
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि [४] च||१६||
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|
संवत्सरं निधेयानि यवपल्ले तथैव च||१८||
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||
नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना|
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||
धीमान् यशस्वी वाक्सिद्धः [५] श्रुतधारी महाधनः [६] |
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||
अनेनैव विधानेन हेम्नश्च रजतस्य च|
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||
(इति लौहादिरसायनम्)|


क्षार इति परिस्रावितक्षारोदके| क्षारे लावण इति ज्योतिष्मत्याः क्षारे| साधयेदिति निर्वापयेत्| लौहानामित्यनेनैव लोहान्तर्निविष्टयोः सुवर्णरजतयोर्ग्रहणे सिद्धे पुनस्तयोर्वचनं तयोर्विशेषेणादरोपदर्शनार्थम्| रसायनप्रभावादेव महाधनत्वमिति ज्ञेयम्||१५-२३||

ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम्||२४||
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च||२५||
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते||२६||
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||
(इत्यैन्द्रं रसायनम्)|


मत्स्याख्यको ‘मच्छु’ इति [७] लोके ख्यातः; अन्ये तु ऐन्द्रीभेदं मत्स्याख्यकमाहुः| त्रियवकानिति त्रियवप्रमाणान् [८] | घृतप्रभूतमित्यन्नविशेषणम्| कृत्या अभिचारः||२४-२९||

मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्|
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०||
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी||३१||
(इति मेध्यरसायनानि)|


मण्डूकपर्ण्या इत्यादयश्चत्वारो योगाः||३०-३१||

पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२||
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च|
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३||
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४||
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्|
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५||
(इति पिप्पलीरसायनम्)|


पञ्चेत्यादौ सङ्ख्याव्यतिक्रमेणानुक्तसङ्ख्यानामपि पिप्पलीनामुपयोगं सूचयति| यद्यपि “त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पलीं क्षारं लवणम्” (वि.अ.१) इत्युक्तं, तथाऽपीह द्रव्यान्तरसंयुक्तानां पिप्पलीनामभ्यासो न विरुद्धः; किंवा, उक्तपिप्पलीरसायनव्यतिरेकेणोत्सर्गापवादन्यायात् स निषेधो ज्ञेयः| किंशुकः पलाशः||३२-३५||

क्रमवृद्ध्या दशाहानि दशपैप्पलिकं [९] दिनम्|
वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः||३६||
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा|
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्||३७||
पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः|
चूर्णीकृता [१०] ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८||
दशपैप्पलिकः श्रेष्ठो मध्यमः षट् [११] प्रकीर्तितः|
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः||३९||
बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्|
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०||
(इति पिप्पलीवर्धमानं [१२] रसायनम्)|


पिप्पलीवर्धमानमाह- क्रमवृद्ध्येत्यादि| दशपिप्पल्यो यत्र वर्धन्ते तद्दिनं दशपैप्पलिकं, तेन प्रत्यहं दशपिप्पल्यो वर्धनीया इत्यर्थः; ततश्चोनविंशतिदिनैर्वृद्धिहानिक्रमेणैकेनैव सहस्रं पूर्णं भवति| ‘चूर्णीकृता’ इत्यत्र ‘शीतीकृता’ इति वा पाठः| पिप्पलीवर्धमानक्रमभुक्तमुत्कृष्टं दर्शयन्नपरमपि वर्धमानक्रमद्वयं मध्यमत्वावरत्वाभ्यामाह- दशेत्यादि| षट् प्रकीर्तित इति षड्वृद्ध्या पूर्वाचार्यैरुक्तः| त्रिपर्यन्त इत्यस्यान्ते पिप्पलीत्रयावस्थानात् पिप्पलीत्रिकेणैव वृद्धिर्भवति, ततो दशपिप्पलीके दशैवान्ते भवन्ति||३६-४०||

जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके|
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च||४१||
प्रयोजयन् समामेकां त्रिफलाया रसायनम्|
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च||४२||
(इति त्रिफलारसायनम्)|
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्|
तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम्||४३||
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते|
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४||
(इति त्रिफलारसायनमपरम्)|
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा|
त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५||
(इति त्रिफलारसायनमपरम्)|
सर्वलौहैः [१३] सुवर्णेन वचया मधुसर्पिषा|
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च||४६||
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा|
भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी||४७||
(इति त्रिफलारसायनमपरम्)|


जरणान्त इत्यादौ मधुसर्पिर्भ्यामिति अभयां बिभीतके आमलकानीत्यनेन च युज्यते| मधुकेनेत्यादिरेकः प्रयोगः| सर्वलौहैरित्याद्यपरः| लौहैरित्युक्ते सुवर्णे प्राप्ते सुवर्णेनेतिपदं लोहत्वेनाभिप्रसिद्धस्याग्रहणनिरासार्थम्||४१-४७||

अनम्लं च कषायं च कटु पाके शिलाजतु|
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः||४८||
हेम्नश्च रजतात्ताम्राद्वरात् [१४] कृष्णायसादपि|
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||


शिलाजतुरसायनं दर्शयितुं शिलाजतुनोऽभ्यर्हितस्य गुणानेव तावदाह- अनम्लमित्यादि| वरादिति श्रेष्ठात्| सुश्रुते यद्यपि त्रपुसीसभवं प्रक्षिप्य षड्विधशिलाजतु सामान्येन रोगे रसायनाधिकारे चोक्तं, तथाऽपीह रसायनाधिकारे तदधिकृतचतुर्विधमेवोक्तम्||४८-५०||

प्रक्षिप्तोद्धृतमप्येनत् [१५] पुनस्तत् प्रक्षिपेद्रसे|
कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१||
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह|
तत् पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम्||५२||
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्|
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३||
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः|
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४||
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता|५५|


शिलाजतुभावनाविधिमाह- प्रक्षिप्तेत्यादि| प्रक्षिप्तानन्तरमुद्धृतं प्रक्षिप्तोद्धृतम्| लौहैः सहेति भागानियमे लोहसमानभागता शिलाजतुनः| प्रयोगः सप्तसप्ताहा इति सप्तसप्ताहव्यापकप्रयोग इत्यर्थः; एवं त्रयश्चैकश्च सप्तक इत्यत्रापि बोद्धव्यम्||५१-५४||-

जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम्||५५||
हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः|
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६||
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः|
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः||५७||
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते|
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु||५८||
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः|
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः||५९||
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते||६०||
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु|
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः||६१||


सविधिमिति विधानसहितम्| शिलाजतुविधानं च यथाक्रमं ‘वातपित्ते’ [१६] इत्यादिग्रन्थेन वक्तव्यम्| हेमादिशब्देनेह हेमादिसम्भवस्थानभूतशिलोच्यते, यतो न साक्षात् सुवर्णादिभ्य एव शिलाजतु स्रवति| मृत्स्नं मसृणम्, अच्छं स्वच्छम्| यस्तु रूप्यभवे कटुरसे विरुद्धः स्वादुः [१७] पाक उक्तः स उत्सर्गापवादन्यायेन ज्ञेयः| वीर्यं तु ताम्रभवस्योष्णस्य तथा त्रयाणां च शीतत्वयुक्तानामत्युष्णशीतवीर्यताया अवकाशो नास्ति, अतः सामान्यगुणकथने नात्युष्णशीतमितिपदेन उष्णस्य शीतस्य च वीर्यस्य प्रकर्षो निषिध्यते; तेनानुष्णाशीतत्वं विधीयते; ततश्च शिलाजतुनि वीर्यं शीतमुष्णं वाऽभिहितमपि न बलवद्भवतीति लभ्यते||५५-६१||

शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|
वर्जयेत् सर्वकालं तु कुलत्थान् [१८] परिवर्जयेत्||६२||
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|
लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते||६३||
पयांसि तक्राणि [१९] रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम्||६४||
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||
(इति शिलाजतुरसायनम्)|
तत्र श्लोकः-
करप्रचितिके पादे दश षट् च महर्षिणा|
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||


शिलाजतुप्रयोगेष्विति बहुवचनमालोडनादिभेदेन प्रयोगभेदं बुद्धिस्थीकृत्य ज्ञेयम्| शिलाजतुप्रयोगे गुरुनिषेधेऽपि विशेषवचनात् क्षीरादिप्रयोगः| सर्वकालमिति यावद्रसायनाहिता गुणाः सन्ति| केचित्तु यावज्जीवं कुलत्थवर्जनमाहुः; यदुक्तं सुश्रुते- “तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत्” (सु.चि.अ.१३) इति| शिलाजतुप्रयोगं स्तौति- न सोऽस्तीत्यादि||६२-६६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः||३||


इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः|| ३||

१. ‘षड्विरेचनशतीयोक्तानां’ इति पा.|
२. ‘खण्डशः कृत्तानां’ इति पा.|
३. ‘वापयेत्’ इति पा.|
४. ‘तिलोत्सेधसमानि’ इति पा.
५. ‘वाग्मी च’ इति पा.|
६. ‘महाबलः’ इति पा.|
७. ‘मत्स्याक्षको ‘मछेछी’ इति लोके’ इति पा.|
८. ‘त्रियवप्रमाणतुल्यान्’ इति पा.|
९. ‘दशपिप्पलीकं’ इति पा.|
१०. ‘शीतीकृताः’ इति पा.|
११. ‘षट् षट्पैपलिकः योगः’ इति योगीन्द्रनाथसेनः| ‘षट् प्रकीर्तिता यत्र स षट्प्रकीर्तितः’ इति गङ्गाधरः|
१२. ‘वर्धमानपिप्पलीरसायनम्’ इति पा.|
१३. ‘सर्वैर्लोहैः पञ्चभिर्लोहैः त्रपुसीसताम्ररूप्यकृष्णलोहैः’ इति योगीन्द्रनाथसेनः|
१४. ‘वरं’ इति पा.|
१५. ‘शिलाजतु कोष्णे वातहरादिक्वाथे प्रक्षिप्य अथैनं रौद्रे शोषयेत्| पीततत्क्वाथमुद्धृतं पुनरपि तद् रसे क्वाथे प्रक्षिपेत्| अनेन विधिना सप्ताहं (सप्तवारान्) तस्य भावना’ इति गङ्गाधरः|
१६. ‘श्लेष्मपित्ते’ इति पा.|
१७. ‘गुरुः’ इति पा.|
१८. ‘कुनखान्’ इति पा.|
१९. ‘शुक्तानि’ इति पा.|

चिकित्सास्थानम् - १/४. आयुर्वेदसमुत्थानीयो रसायनपादः

 


अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||


आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्यादुच्यते| आयुर्वेदसमुत्थानमस्मिन्नस्तीति मत्वर्थीयच्छप्रत्ययेणायुर्वेदसमुत्थानीयः||१-२||

ऋषयः खलु कदाचिच्छालीना यायावराश्च [१] ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः|
ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||


ऋषीणां शालीनत्वं यायावरत्वं च कर्मविशेषपरिग्रहात्| सम्पन्नमनु उपयुज्यन्त इति साम्पन्निकाः| नातिकल्या इति नातिनीरोगाः| इतिकर्तव्यता व्यापारः| इन्द्रपर्यायकथनं स्तुत्यर्थं; स्तुतिश्चेयमिन्द्रस्यायुर्येदप्रकाशकत्वात्||३||

तानिन्द्रः सहस्रदृगमरगुरुरब्रवीत्- स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम्|
अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं कालः [२] कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयं मत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति||४||
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||५||


असुखानुबन्धमिति रोगरूपमसुखमनुबध्नातीत्यसुखानुबन्धम् [३] | मूलमिति कारणम्| कृतः प्रजानामनुग्रह इति ग्रामे स्थित्वा आयुर्वेदोक्तारोग्यसाधनधर्मादिप्रकाशनेन प्रजानुग्रहः कृत एवेत्यर्थः| अयं शब्द उभाभ्यां कालशब्दाभ्यां योजनीयः| प्रजापतये ब्रह्मेति च्छेदः| प्रजानामल्पादिकमायुर्मत्त्वेति योजना| अल्पत्वात् ‘आयुष’ इति शेषः| अल्पस्तपःप्रभृतीनां सञ्चयोऽस्मिन् अल्पे आयुषि तत् तथा| प्रतिशब्दो मैत्र्यादिभिः प्रत्येकं सम्बध्यते| अथशब्दश्चाधिकारे| तेन, मैत्रीकारुण्यादीन्यधिकृत्य यं ब्रह्मा प्रजापतयेऽदात्, तमनुश्रोतुमर्हतेति योजना| यद्यपि च ऋषयो भरद्वाजद्वारा इन्द्रादधिगतायुर्वेदाः, तथाऽपि ग्राम्यवासकृतमनोग्लान्या न तथा स्फुटार्थो वर्तत इति शङ्कया पुनरिन्द्रस्तानुपदिशति||४-५||

अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [४] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||६||
(इतीन्द्रोक्तं रसायनम्)|


महाश्रावणी अलम्बुषा| अतिच्छत्रा मधुरिका||६||

ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च, नारीनामौषधिः ‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा [५] , काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा [६] स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं च भवति, गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति||७||


ब्रह्मसुवर्चलाप्रभृतयो यथोक्तलक्षणा दिव्यौषधयो नातिप्रसिद्धाः| आदित्यपर्णी सूर्यावर्तमेव देशविशेषजातं केचिद्वर्णयन्ति| अश्वबलेति ज्ञायत इति ऋषिभिरेवानेन नाम्ना ज्ञायते, न लौकिकैः, लोकाप्रसिद्धत्वात्| सोम इव वर्धते हीयत इति यथा सोमवृद्धिक्षयौ, तथा तत्कालमेव तस्य वृद्धिक्षयौ भवतः| प्रलीयत इति द्रुतो भवति, अन्ये तु मूर्च्छतीति वर्णयन्ति| प्रत्यवस्थापनमिति आहारसेवायां योज्यमित्यर्थः| सर्ववाचोगतानि सर्ववाक्यविशेषाः||७||

भवन्ति चात्र-
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः|
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८||
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि|
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||९||
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||


एताद्दिव्यं रसायनमृषिभिस्तद्विधैर्वा सेव्यमिति दर्शयन्नाह- दिव्यानामित्यादि| विषयाभिजा इति स्वोचितपुण्यदेशे जाता इत्यर्थः, अपुण्ये तु देशे दिव्यौषधिजन्मैव न भवति, भवन्त्योऽपि निर्वीर्या भवन्तीति भावः||८-१०||

यास्तु [७] क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा|
मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु||११||
पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः|
रसायनविधिस्तेषामयमन्यः प्रशस्यते||१२||


सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीर्यत्वं भवति, तदाह- यास्त्वित्यादि| क्षेत्रगुणैरिति हिमालयादिप्रशस्तदेशव्यतिरिक्तक्षेत्रधर्मैः| तेषामिति ऋषिव्यतिरिक्तानां वानप्रस्थादीनाम्| मध्यमेन च कर्मणेति असम्यक्प्रयोगेण; किंवा, अनतिमहताऽदृष्टेन||११-१२||

बल्यानां जीवनीयानां बृंहणीयाश्च या दश|
वयसः स्थापनानां च खदिरस्यासनस्य च||१३||
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च|
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च||१४||
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च|
ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च||१५||
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च|
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च||१६||
रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव च|
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्||१७||
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः|
तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८||
तत्रामलकचूर्णानामाढकं शतभावितम्|
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च||१९||
शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्|
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं च तत्||२०||
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते|
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्||२१||
हेमताम्रप्रवालानामयसः स्फटिकस्य च|
मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च||२२||
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्|
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा||२३||
सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्|
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्||२४||
परमूर्जस्करं चैव वर्णस्वरकरं तथा|
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्||२५||
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके|
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्||२६||
(इतीन्द्रोक्तरसायनमपरम्)|


बल्यानामित्यादौ जोङ्गकम् अगुरु| द्वारदा शाकतरुः, कपिकच्छुर्वा| श्रीपर्णी गाम्भारी| पलाशक्षारः पलाशक्षारोदकम्| सुचौक्षे इति सुविशुद्धे| अग्निसमामिति अग्न्यनुरूपाम्| षोडशीं मात्रामिति आमलकादिचूर्णयुक्तघृतापेक्षया षोडशभागो हेमादिचूर्णाद्ग्राह्यः||१३-२६||

समर्थानामरोगाणां धीमतां नियतात्मनाम्|
कुटीप्रवेशः क्षणिनां [८] परिच्छदवतां हितः||२७||
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः|
तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः||२८||
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि|
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२९||


कुटीप्रावेशिकरसायनविषयान् वातातपिकरसायनविषयांश्च पुरुषानाह- समर्थानामित्यादि| क्षणिनामिति कृतक्षणानाम्| सूर्यमारुतसेवयाऽपि क्रियत इति सौर्यमारुतिकः||२७-२९||

सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्|
अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||३०||
जपशौचपरं धीरं दाननित्यं तपस्विनम्|
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||३१||
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् [९] |
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||३२||
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्|
शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||३३||
उपासितारं वृद्धानामास्तिकानां जितात्मनाम्|
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||३४||
गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्|
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते||३५||
(इत्याचाररसायनम्)|


सामान्येन रसायनविषयपुरुषगुणानाह- सत्यवादिनमित्यादि| करुणया सत्त्वानि पश्यतीति करुणवेदी| असङ्कीर्णः असङ्कीर्णभोजी [१०] | नित्यं [११] रसायनप्रयोगो यस्य स नित्यरसायनः||३०-३५||

यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्|
रसायनगुणैर्जन्तुर्युज्यते न कदाचन||३६||
योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः|
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्||३७||
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु|
अरुजेभ्योऽद्विजातिभ्यः [१२] शुश्रूषा येषु नास्ति च||३८||


मनःशुद्ध्यैव प्रयतात्मतायां लब्धायां पुनस्तदभिधानमितरमानसगुणेषु प्रयतात्मताया अभ्यर्हिततोपदर्शनार्थम्| अरुजेभ्योऽद्विजातिभ्यो येषु च पुरुषेषु शुश्रूषा नास्ति तेषु चैतन्न वाच्यमिति योजना||३६-३८||

ये रसायनसंयोगा वृष्ययोगाश्च ये मताः|
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्||३९||
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्|
अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः||४०||
अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ|
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्||४१||
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च|
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः||४२||
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा|
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी||४३||
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः|
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा||४४||
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ|
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम्||४५||
ग्रहाः स्तोत्राणि मन्त्राणि तथा [१३] नानाहवींषि च|
धूम्राश्च [१४] पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः||४६||
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते||४७||
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८||
अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|
पूज्येते प्रयतैरेवमश्विनौ भिषजाविति||४९||
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||
शीलवान्मतिमान् युक्तो द्विजातिः [१५] शास्त्रपारगः|
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||


सम्प्रति रसायनादिसिद्धिर्वैद्याधीना, तेन वैद्यस्तुतिमारभते- य इत्यादि| प्राणाचार्यमित्यत्र ‘प्राणिवर्यं’ इति वा पाठः; तत्र प्राणिनां वर्यः श्रेष्ठः प्राणिवर्यः| यज्ञं वहत इति यज्ञवाहौ| एतद्यज्ञवाहत्वमेव दर्शयति- दक्षस्य हीत्यादि| पूष्णः सूर्यस्य, भगोऽपि सूर्यभेदः| सोमाभिपतित इति सोमाभिपतनयोगेन पीडित इत्यर्थः; ‘सोमातिपचित’ इति वा पाठः, तत्राप्यतिपचनेन सोमपानातियोगं दर्शयति| ग्रहाः सोमपानपात्राणि| स्तोत्राणि स्तवाः स्तावकवा(ऋ)चः; शस्त्राणीति केचित्, संशस्यतेऽनेनेति कृत्वा सामऋग्व्यतिरिक्तं स्तोत्रमाहुः; शस्त्राणि अस्त्राण्येव, वषट्युक्तानि शस्त्राणि च यज्ञे कल्प्यन्त एव| धूम्राश्च पशव इति धूम्रवर्णपशवः; एवंवर्णाश्च पशवः श्रेष्ठा भवन्ति| सवन इति यज्ञस्थाने| सौत्रामणी यज्ञविशेषः| अतिशक्तित इति निजशक्तेरप्यतिरेकेण||३९-५१||

विद्यासमाप्तौ भिषजो [१६] द्वितीया जातिरुच्यते|
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२||
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो [१७] द्विजः स्मृतः||५३||
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्|
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||


वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह- विद्येत्यादि| तेन विद्यायोगाद् वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना द्विजत्वं भवतीत्युक्तं भवति| ब्राह्मं वा आर्षं वा इति विकल्पो वैद्यविशेषाभिप्रायाद्भवति [१८] ; तयोर्यो नैष्ठिकचिकित्सार्थस्तस्य ब्राह्मम्, इतरस्य तु लोकानुग्राहिण आर्षमिति व्यवस्था||५२-५४||

चिकित्सितस्तु संश्रुत्य [१९] यो वाऽसंश्रुत्य मानवः|
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||
धर्मार्थं चार्थकामार्थमायुर्वेदो [२०] महर्षिभिः|
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८||
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|
ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते||५९||
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||
परो भूतदया धर्म इति मत्वा चिकित्सया|
वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते||६२||


संश्रुत्येति प्रतिज्ञाय| चिकित्सैव पण्यं विक्रेतव्यमिति चिकित्सापण्यम्| ते हित्वेत्यादौ धर्मार्थं क्रियमाणचिकित्सा महाफलत्वेन काञ्चनराशितुल्या, इतरा त्वसारकल्पा पांशुराशितुल्या| वैवस्वतक्षयमिति यमगृहम्||५५-६२||

तत्र श्लोकौ-
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्|
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्||६३||
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः|
आयुर्वेदसमुत्थाने तत् सर्वं सम्प्रकाशितम्||६४||


सङ्ग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम्| आयुर्वेदसमुत्थाने प्रकाशिततया दिव्यौषधिविध्यादि यदुवाच ब्रह्मचारिभ्योऽमरेश्वरः, तत् सम्प्रकाशितमिति योजना||६३-६४||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः||४||
समाप्तश्चायं रसायनाध्यायः||१||


इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः||४||

१. ‘शालाप्रवेशमर्हन्तीति शालीनाः| गृहं निर्माय एकत्र कृतावस्थानाः| यायावराः पुनः पुनर्गमनशीलाः| अर्थादिसम्पत्त्या सम्पन्ना एव साम्पन्निकाः’ इति योगीन्द्रनाथसेनः|
२. ‘स्वशरीरमरक्षिभिः, कालश्चायं’ इति पा.|
३. ‘रोगरूपमनर्थमनुबध्नातीत्यसुखानुबन्धम्’ इति पा.|
४. ‘हिमवतः प्रभावात्’ इति पा.|
५. ‘पुनरजसदृशपत्रा’ इति पा.|
६. ‘पञ्चदशपर्णः’ इति पा.|
७. ‘तास्तु’ इति पा.|
८. ‘क्षमिणां इति पा.|
९. ‘कारुण्यवेदिनम्’ इति पा.|
१०. ‘असङ्कीर्णः कुलजः’ इति पा.|
११. ‘नित्यं योगेन’ इति पा.|
१२. ‘अरजोभ्यः’ इति, ‘अजरेभ्यः’ इति च पा.|
१३. ‘तथाऽन्यानि हवींषि च’ इति पा.|
१४. ‘धूमाश्च’ इति पा.|
१५. ‘त्रिजातिः’ इति पा.|
१६. ‘भिषजस्तृतीया’ इति पा.|
१७. ‘वैद्यस्त्रिजः’ इति पा.| ‘प्रथमा जातिः मातृगर्भतो जन्म, द्वितीया जातिरुपनयनात्, तृतीया तु वैद्यविद्यासमाप्तौ| अतः शास्त्रपारगो वैद्यः विद्यासमाप्तिलक्षणतृतीयजन्मना त्रिज उच्यते’ इति योगीन्द्रनाथसेनः|
१८. ‘वैद्याभिप्रायविशेषाद्भवति’ इति पा.|
१९. ‘यो मानवो वैद्येन चिकित्सितो रोगमुक्तः सन् वैद्यं संश्रुत्य प्रतिश्रुत्य प्रतिज्ञाय असंश्रुत्य वा नोपाकरोति धनादिकं न ददाति इह लोके परत्रापि च तस्य निष्कृतिः निस्तारो नास्ति’ इति योगीन्द्रनाथसेनः|
२०. ‘नार्थकामार्थं’ इति पा.|

 

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

Carakasaṁhitā

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

cikitsāsthānam - 1/1. abhayāmalakīyarasāyanapādaḥ


athātō’bhayāmalakīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


pūrvasthānōktalakṣaṇābhāvēnāvadhāritāyuṣmadbhāvēna cikitsā dharmārthayaśaskarī kartavyētyanantaraṁ cikitsābhidhāyakaṁ sthānamucyatē| rasāyanavājīkaraṇasādhanamapi yathā cikitsōcyatē, tathā’nantaramēva vakṣyati| tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayōrmahāphalatvēnādāvabhidhānam| tayōrapi ca rasāyanamēva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalamiti tadabhidhīyatē, tatrāpi cābhayāmalakīyaścikitsāsthānārthasūtrābhidhāyakatayā’grē’bhidhīyatē||1-2||

cikitsitaṁ vyādhiharaṁ pathyaṁ sādhanamauṣadham|
prāyaścittaṁ praśamanaṁ prakr̥tisthāpanaṁ hitam||3||
vidyādbhēṣajanāmāni, …|4|


tatrādau vyavahārārthaṁ sthānābhidhēyasya bhēṣajasya paryāyānāha- cikitsitamityādi| karōti caivamādau pradhānābhidhēyaparyāyābhidhānaṁ, yathā- nidānē hēturūpādiparyāyakathanam| ētacca paryāyābhidhānaṁ prādhānyēna catuṣpādasyaiva bhēṣajasya, yaduktaṁ- “catuṣpādaṁ ṣōḍaśakalaṁ bhēṣajamiti bhiṣajō bhāṣantē” (sū.a.10) iti| ēvambhūtabhēṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bhēṣajasya bhēṣajatvamēvāntaravyavahārakr̥taṁ jñēyam| prāyaścittamiti bhēṣajasañjñā prāyaścittavadbhēṣajasyādharmakāryavyādhiharatvēna||3||-

… bhēṣajaṁ dvividhaṁ ca tat|
svasthasyōrjaskaraṁ kiñcit kiñcidārtasya rōganut||4||


dvaividhyaṁ vivr̥ṇōti- svasthasyētyādi| kiñciditi na sarvam| svasthatvēna vyavahriyamāṇasya puṁsō jarādisvābhāvikavyādhiharatvēna tathā’praharṣavyayāyakṣayitvānupacitaśukratvādyapraśastaśārīrabhāvaharatvēna ūrjaḥ praśastaṁ bhāvamādadhātīti svasthasyōrjaskaram| ārtasya rōganuditi viśēṣaṇēna jvarādinā”rtasya jvarādiharam| rōganuditi vacanēnaivārtaviśēṣatāyāṁ [1] labdhāyāṁ yat ‘ārtasya’ iti karōti, tēna sahajajarādikr̥tāṁ pīḍāmanudvējikāṁ parityajya jvarādinā’svābhāvikēna rōgēṇa pīḍitasyēti darśayati||4||

abhēṣajaṁ ca dvividhaṁ bādhanaṁ sānubādhanam|5|


bhēṣajaprasaṅgādabhēṣajadvaividhyamāha- abhēṣajamityādi| bādhanamiha tadātvamātrabādhakaṁ, yathā- svalpamapathyam| sānubādhanaṁ ca dīrghakālāvasthāyikuṣṭhādivikārakāri||-

svasthasyōrjaskaraṁ yattu tadvr̥ṣyaṁ tadrasāyanam||5||
prāyaḥ, prāyēṇa rōgāṇāṁ dvitīyaṁ praśamē matam|
prāyaḥśabdō viśēṣārthō hyubhayaṁ hyubhayārthakr̥t||6||


dvividhaṁ bhēṣajamuktaṁ vibhajatē- svasthasyētyādi| tadvr̥ṣyaṁ tadrasāyanaṁ prāya iti cchēdaḥ| yadvr̥ṣyaṁ prāyō bhavati, tathā rasāyanaṁ yat prāyō bhavati, ārtasya rōgaharaṁ yadbāhulyēna, tat svasthōrjaskaramucyatē; yattu dvitīyamārtarōgaharaṁ, tat prāyēṇa jvarādiśamanaṁ rasāyanaṁ vājīkaraṇaṁ ca bhavati; yathā- kṣatakṣīṇōktaṁ sarpirguḍādi rasāyanaṁ vr̥ṣyaṁ ca bhavati, tathā pāṇḍurōgōktō yōgarājō rasāyanatvēnōktaḥ, tathā kāsādhikārē’gastyaharītakī rasāyanatvēnōktētyādyanusaraṇīyam| rasāyanōktānāṁ ca jvarādiharatvamatra suvyaktamēva rasāyanagranthēṣu| anyē tu bruvatē- yadvyādhimātraharaṁ na tadrasāyanaṁ, kintu śarīrasaṁyōgadārḍhyāddīrghāyuḥkartr̥tvasādhāraṇadharmayōgādupacaritavyādhiharaṁ rasāyanamihōcyata iti| nanu yadi svasthōrjaskaramapi vyādhiharaṁ, vyādhiharaṁ ca svasthōrjaskaraṁ tat kiṁ kiñciditi padēna bhēṣajakarmavyavasthādarśakēna kriyatē? brūmaḥ- bāhulyēna svasthōrjaskaratvaṁ vyādhiharatvaṁ ca vyavasthāpyatē, na cēha sarvārtarōgaharasya svasthōrjaskaratvamiti pratijñāyatē, yēna pāṭhāsaptaparṇādīnāmapi rasāyanatvaṁ sādhanīyaśaktitvādārttarōgaharatvēna [2] yaducyatē tadapi rasāyanaṁ vājīkaraṇaṁ ca bhavatīti lavamātrōpadarśanaṁ kriyatē, tat svasthārtayōrubhayārthakartr̥tvam| prāyaḥśabdatātparyaṁ vivr̥ṇōti- prāya ityādi| viśēṣārtha iti bāhulyārtha ityarthaḥ||5-6||

dīrghamāyuḥ smr̥tiṁ mēdhāmārōgyaṁ taruṇaṁ vayaḥ|
prabhāvarṇasvaraudāryaṁ dēhēndriyabalaṁ param||7||
vāksiddhiṁ praṇatiṁ [3] kāntiṁ labhatē nā rasāyanāt|
lābhōpāyō hi śastānāṁ rasādīnāṁ rasāyanam||8||


rasāyanakāryamāha- dīrghamityādi| prabhādīnāṁ trayāṇāmaudāryaṁ yōjanīyam| vāksiddhiḥ yaducyatē tadavaśyaṁ bhavatītyarthaḥ| praṇatiḥ lōkavandyatā| kathamētadrasāyanēna kriyata ityāha- lābhētyādi| rasādigrahaṇēna smr̥tyādayō’pi gr̥hyantē||7-8||

apatyasantānakaraṁ yat sadyaḥ sampraharṣaṇam|
vājīvātibalō yēna yātyapratihataḥ striyaḥ||9||
bhavatyatipriyaḥ strīṇāṁ yēna yēnōpacīyatē|
jīryatō’pyakṣayaṁ śukraṁ phalavadyēna dr̥śyatē||10||
prabhūtaśākhaḥ śākhīva yēna caityō yathā mahān|
bhavatyarcyō [4] bahumataḥ prajānāṁ subahuprajaḥ||11||
santānamūlaṁ yēnēha prētya cānantyamaśnutē|
yaśaḥ śriyaṁ balaṁ puṣṭiṁ vājīkaraṇamēva tat||12||


vājīkaraṇakāryamāha- apatyētyādi| apatyasantānaḥ apatyaparamparā, tēna putrapautrakaramityarthaḥ; vājīkaraṇajanitācchukrājjātaḥ putraḥ putrajananasamarthō bhavatītyarthaḥ| atipriyatvaṁ cēhōpacitaśukratayā nirantaravyavāyakartr̥tvāt; yaduktaṁ- “virūpamapi yōddhāraṁ bhr̥tyamicchanti pārthivāḥ| vyavāyavyāyataṁ mūrkhaṁ dhr̥ṣṭaṁ patimiva striyaḥ” iti| upacīyata iti puṣṭiṁ prāpnōti| akṣayamivākṣayam| phalavaditi garbhajanakam| caityō dēvatāyatanam| arcyaḥ arcanīyaḥ [5] | ānantyamivānantyaṁ; dīrghasantānatāmityarthaḥ||9-12||

svasthasyōrjaskaraṁ tvētaddvividhaṁ prōktamauṣadham|
yadvyādhinirghātakaraṁ vakṣyatē taccikitsitē||13||
cikitsitārtha ētāvān vikārāṇāṁ yadauṣadham|
rasāyanavidhiścāgrē vājīkaraṇamēva ca||14||


cikitsita iti jvarādicikitsitē| nanu rasāyanavājīkaraṇē api jvarādicikitsitē ēva, tat kiṁ viśiṣyōcyatē- ‘vakṣyatē taccikitsitē’ ityāha- cikitsitārtha ityādi| satyaṁ, rasāyanaṁ vājīkaraṇaṁ ca jvarādivyādhiharatvāccikitsitaśabdēnōcyata ityarthaḥ| atha vyādhiharatvāccikitsitē vaktavyatvācca rasāyanavājīkaraṇē kva nu [6] vaktavyē ityāha- rasāyanētyādi| vidhiḥ vidhānaṁ rasāyanābhidhānamityarthaḥ [7] | agrē iti anantaram| vājīkaraṇaṁ cāgrē ‘abhidhāsyatē’ iti śēṣaḥ||13-14||

abhēṣajamiti jñēyaṁ viparītaṁ yadauṣadhāt|
tadasēvyaṁ niṣēvyaṁ tu pravakṣyāmi yadauṣadham||15||


abhēṣajamapi pūrvōddiṣṭaṁ vivr̥ṇōti- abhēṣajamityādi| viparītaṁ rōgajananalakṣaṇārthakāri||15||

rasāyanānāṁ dvividhaṁ prayōgamr̥ṣayō viduḥ|
kuṭīprāvēśikaṁ caiva vātātapikamēva ca||16||
kuṭīprāvēśikasyādau vidhiḥ samupadēkṣyatē|
nr̥pavaidyadvijātīnāṁ sādhūnāṁ puṇyakarmaṇām||17||
nivāsē nirbhayē śastē prāpyōpakaraṇē purē|
diśi pūrvōttarasyāṁ ca subhūmau kārayēt kuṭīm||18||
vistārōtsēdhasampannāṁ trigarbhāṁ sūkṣmalōcanām|
ghanabhittimr̥tusukhāṁ suspaṣṭāṁ manasaḥ priyām||19||
śabdādīnāmaśastānāmagamyaṁ strīvivarjitām|
iṣṭōpakaraṇōpētāṁ sajjavaidyauṣadhadvijām [8] ||20||
athōdagayanē śuklē tithinakṣatrapūjitē|
muhūrtakaraṇōpētē praśastē kr̥tavāpanaḥ||21||
dhr̥tismr̥tibalaṁ kr̥tvā śraddadhānaḥ samāhitaḥ|
vidhūya mānasān dōṣān maitrīṁ bhūtēṣu cintayan||22||
dēvatāḥ pūjayitvā’grē dvijātīṁśca pradakṣiṇam|
dēvagōbrāhmaṇān kr̥tvā tatastāṁ praviśēt kuṭīm||23||
tasyāṁ saṁśōdhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ|
rasāyanaṁ prayuñjīta tatpravakṣyāmi [9] śōdhanam||24||


kuṭīpravēśēna yat kriyatē tat kuṭīprāvēśikam| vātātapasēvayā’pi yat kriyatē tad vātātapikam| trigarbhāṁ prathamamēkaṁ gr̥haṁ, tasyābhyantarē dvitīyam, ēvaṁ trigarbhāstrayō garbhā antarāṇi yasyāṁ sā; trigarbhāmiti antastriprakōṣṭhām| sūkṣmalōcanāmiti alpadvārajālakām| śuklē śuklapakṣē| sajjā vaidyādayō yasyāṁ sā tathā| tithinakṣatrapūjita iti śubhatithinakṣatrayōgāt pūjitē| kr̥tavāpana iti kr̥takṣauraḥ| mānasān dōṣāniti kāmakrōdhādīn| saṁśōdhanairiti vamanavirēcanāsthāpanaśirōvirēcanaiḥ| sukhīti arōgaḥ| jātabala iti saṁśōdhanāpahr̥tamalatayā saṁsarjanādikramēṇa punarjātabalaḥ| yadyapīha saṁśōdhanairiti bahuvacanaprayōgāt sarvāṇyēva saṁśōdhanāni sammatāni, tathā’pīha rasāyanē viśēṣēṇa yaugikatvāddharītakyādiprayōga ēvōktaḥ; anyē tu harītakyādiprayōgēṇaiva paraṁ saṁśōdhanaṁ kartavyamityāhuḥ, saṁśōdhanairiti bahuvacanaṁ punaryāvacchuddhērharītakyādiprayōgasyaiva karaṇaṁ darśayati||16-24||

harītakīnāṁ cūrṇāni saindhavāmalakē guḍam|
vacāṁ viḍaṅgaṁ rajanīṁ pippalīṁ viśvabhēṣajam||25||
pibēduṣṇāmbunā jantuḥ snēhasvēdōpapāditaḥ|
tēna śuddhaśarīrāya kr̥tasaṁsarjanāya ca||26||
trirātraṁ yāvakaṁ dadyāt pañcāhaṁ vā’pi sarpiṣā|
saptāhaṁ vā purāṇasya yāvacchuddhēstu varcasaḥ||27||
śuddhakōṣṭhaṁ tu taṁ jñātvā rasāyanamupācarēt|
vayaḥprakr̥tisātmyajñō yaugikaṁ yasya yadbhavēt||28||


yāvakamiti yavānnam| trirātrādivikalpatrayaṁ hīnamadhyōttamaśuddhiviṣayam||25-28||

harītakīṁ pañcarasāmuṣṇāmalavaṇāṁ śivām|
dōṣānulōmanīṁ laghvīṁ vidyāddīpanapācanīm||29||
āyuṣyāṁ pauṣṭikīṁ dhanyāṁ vayasaḥ sthāpanīṁ parām|
sarvarōgapraśamanīṁ buddhīndriyabalapradām||30||
kuṣṭhaṁ gulmamudāvartaṁ śōṣaṁ pāṇḍvāmayaṁ madam|
arśāṁsi grahaṇīdōṣaṁ purāṇaṁ viṣamajvaram||31||
hr̥drōgaṁ saśirōrōgamatīsāramarōcakam|
kāsaṁ pramēhamānāhaṁ plīhānamudaraṁ navam||32||
kaphaprasēkaṁ vaisvaryaṁ vaivarṇyaṁ kāmalāṁ krimīn|
śvayathuṁ tamakaṁ chardiṁ klaibyamaṅgāvasādanam||33||
srōtōvibandhān vividhān pralēpaṁ hr̥dayōrasōḥ|
smr̥tibuddhipramōhaṁ ca jayēcchīghraṁ harītakī||34||
(ajīrṇinō [10] rūkṣabhujaḥ strīmadyaviṣakarśitāḥ|
sēvērannābhayāmētē kṣuttr̥ṣṇōṣṇārditāśca yē)||35||
tān guṇāṁstāni karmāṇi vidyādāmalakīṣvapi|
yānyuktāni harītakyā vīryasya tu viparyayaḥ||36||
ataścāmr̥takalpāni vidyāt karmabhirīdr̥śaiḥ|
harītakīnāṁ śasyāni bhiṣagāmalakasya ca||37||


yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikr̥tāni [11] santi, tathā’pi harītakyāmalakē ēva rōgaharatvāyuṣkaratvarūpōbhayadharmayōgādadhyāyādau guṇakarmabhyāmucyētē; tatrāpi yadyapi “āmalakaṁ vayaḥsthāpanānām” (sū.a.25) ityuktam, tathā’pi rōgaharatvē harītakī prakarṣavatīti kr̥tvā harītakyagrē’bhihitā| harītakyādiṣu pañcarasatvādyutpādō’dr̥ṣṭavaśādbhūtasannivēśaviśēṣaprabhāvakr̥taḥ; tēna nātrōpapattayaḥ kramantē| śivāmiti kalyāṇakāriṇīṁ, praśastaguṇayuktatvāt| sarvarōgapraśamanīmiti saṁyōgasaṁskārādinā| sarvarōgaharatvamabhidhāyāpi kuṣṭhādihantr̥tvābhidhānaṁ viśēṣēṇa kuṣṭhādihantr̥tvōpadarśanārtham| pravartakatvē’pyatīsāragrahaṇīharatvaṁ vibaddhadōṣapravartakatayā jñēyaṁ; yaduktaṁ- “stōkaṁ stōkaṁ vibaddhaṁ vā saśūlaṁ yō’tisāryatē| abhayāpippalīkalkaiḥ sukhōṣṇaistaṁ virēcayēt” iti| buddhismr̥tipradatvamabhidhāyāpi smr̥tibuddhipramōhaharatvābhidhānaṁ tatra viśiṣṭaśaktyupadarśanārtham| vīryasya tu viparyaya ityanēnāmalakasya śītavīryatvamuktam| śasyānīti asthirahitāni phalāni||29-37||

ōṣadhīnāṁ parā bhūmirhimavāñ śailasattamaḥ|
tasmātphalāni tajjāni grāhayētkālajāni tu||38||
āpūrṇarasavīryāṇi kālē kālē yathāvidhi|
ādityapavanacchāyāsalilaprīṇitāni ca||39||
yānyajagdhānyapūtīni [12] nirvraṇānyagadāni ca|
tēṣāṁ prayōgaṁ vakṣyāmi phalānāṁ karma cōttamam||40||


yadyapi “himavānauṣadhabhūmīnām” (sū.a.25) ityuktaṁ, tathā’pi rasāyanē himavatprabhavāṇyēva bhēṣajāni grāhyāṇīti darśayitumauṣadhīnāmityādyabhidhānam| kālē kālē iti phalapākakālē ityarthaḥ| yathāvidhīti yathā bhēṣajagrahaṇaṁ maṅgaladēvatārcanādipūrvakaṁ syāttathā’vaśyaṁ rasāyanē karttavyam| agadānītyanēna pavanadahanādyadōṣaṁ phalasya darśayati||38-40||

pañcānāṁ pañcamūlānāṁ bhāgān daśapalōnmitān|
harītakīsahasraṁ ca triguṇāmalakaṁ navam||41||
vidārigandhāṁ br̥hatīṁ pr̥śniparṇīṁ nidigdhikām|
vidyādvidārigandhādyaṁ śvadaṁṣṭrāpañcamaṁ gaṇam||42||
bilvāgnimanthaśyōnākaṁ kāśmaryamatha pāṭalām|
punarnavāṁ śūrpaparṇyau balāmēraṇḍamēva ca||43||
jīvakarṣabhakau mēdāṁ jīvantīṁ saśatāvarīm|
śarēkṣudarbhakāśānāṁ śālīnāṁ mūlamēva ca||44||
ityēṣāṁ pañcamūlānāṁ pañcānāmupakalpayēt|
bhāgān yathōktāṁstatsarvaṁ sādhyaṁ daśaguṇē’mbhasi||45||
daśabhāgāvaśēṣaṁ tu pūtaṁ taṁ grāhayēdrasam|
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca||46||
tāni sarvāṇyanasthīni phalānyāpōthya kūrcanaiḥ|
vinīya tasminniryūhē cūrṇānīmāni dāpayēt||47||
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca|
mustānāṁ saviḍaṅgānāṁ candanāguruṇōstathā||48||
madhukasya haridrāyā vacāyāḥ kanakasya ca|
bhāgāṁścatuṣpalān kr̥tvā sūkṣmailāyāstvacastathā||49||
sitōpalāsahasraṁ ca cūrṇitaṁ tulayā’dhikam|
tailasya dvyāḍhakaṁ tatra dadyāttrīṇi ca sarpiṣaḥ||50||
sādhyamaudumbarē pātrē tat sarvaṁ mr̥dunā’gninā|
jñātvā lēhyamadagdhaṁ [13] ca śītaṁ kṣaudrēṇa saṁsr̥jēt||51||
kṣaudrapramāṇaṁ snēhārdhaṁ tat sarvaṁ ghr̥tabhājanē|
tiṣṭhētsammūrcchitaṁ tasya mātrāṁ kālē prayōjayēt||52||
yā nōparundhyādāhāramēkaṁ [14] mātrā jarāṁ prati|
ṣaṣṭikaḥ payasā cātra jīrṇē bhōjanamiṣyatē||53||
vaikhānasā vālakhilyāstathā cānyē tapōdhanāḥ|
rasāyanamidaṁ prāśya [15] babhūvuramitāyuṣaḥ||54||
muktvā jīrṇaṁ vapuścāgryamavāpustaruṇaṁ vayaḥ|
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ||55||
mēdhāsmr̥tibalōpētāścirarātraṁ tapōdhanāḥ|
brāhmaṁ tapō brahmacaryaṁ cēruścātyantaniṣṭhayā||56||
rasāyanamidaṁ brāhmamāyuṣkāmaḥ prayōjayēt|
dīrghamāyurvayaścāgryaṁ kāmāṁścēṣṭān samaśnutē||57||
(iti brāhmarasāyanam)|


pañcānāmityādau pratidravyaṁ daśapalabhāgagrahaṇam [16] , uktaṁ hi jatūkarṇē- “iti pañca pañcamūlāni, tēṣāṁ pratidravyaṁ daśapalāni” iti| harītakīsahasramiti harītakīphalasahasram| śūrpaparṇyau mudgamāṣaparṇyau| vīrā jālandharaṁ śākam| kūrcanaṁ jarjarīkaraṇasādhanaṁ śilāputrakamusalādi| vinīyēti prakṣipya| plavaḥ kaivartamustakam| kanakaṁ nāgakēśaram| tvak guḍatvak| audumbarē iti tāmramayē| snēhārdhamiti sarpistailārdham| ēkam anaparāhṇikamāhāram||41-57||

yathōktaguṇānāmāmalakānāṁ sahasraṁ piṣṭasvēdanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayēt|
tadāmalakasahasrasvarasaparipītaṁ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmr̥tā- candanāgurumadhukamadhūkapuṣpōtpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁ punarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākr̥tiṁ kr̥tvā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē bhasmarāśēradhaḥ sthāpayēdantarbhūmēḥ pakṣaṁ kr̥tarakṣāvidhānamatharvavēdavidā, pakṣātyayē cōddhr̥tya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktamardhakarṣavr̥ddhyā yathōktēna vidhinā prātaḥ prātaḥ prayuñjānō’gnibalamabhisamīkṣya, jīrṇē ca ṣaṣṭikaṁ payasā sasarpiṣkamupasēvamānō yathōktān guṇān samaśnuta iti||58||
bhavanti cātra-
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasēvitam|
bhavatyarōgō dīrghāyuḥ prayuñjānō mahābalaḥ||59||
kāntaḥ prajānāṁ siddhārthaścandrādityasamadyutiḥ|
śrutaṁ dhārayatē sattvamārṣaṁ cāsya pravartatē||60||
dharaṇīdharasāraśca vāyunā samavikramaḥ|
sa bhavatyaviṣaṁ cāsya gātrē sampadyatē viṣam||61||
(iti dvitīyaṁ brāhmarasāyanam)|


piṣṭasvēdanavidhinēti yathā piṣṭakaṁ tōyaparipūritapātrōparidattatr̥ṇādisaṁsthitaṁ svēdyatē, tathā tat svēdanīyamityarthaḥ| svarasaparipītamiti svarasabhāvitam| brahmasuvarcalādyauṣadhānyāyurvēdasamutthānīyē vakṣyamāṇāni| yuvatiḥ navamālikā| aṣṭamō bhāgō’ṣṭabhāgaḥ| kṣudraguḍākr̥timiti phāṇitākr̥tim| ardhakarṣavr̥ddhyēti ardhakarṣātprabhr̥ti vardhayēt| yathōktavidhinēti kuṭīprāvēśikēna vidhinā| yathōktān guṇāniti pūrvaprayōgaphalaśrutipaṭhitān| dharaṇīdharasāra iti uṣṭramukhavat; tēna dharaṇīdharāḥ parvatāḥ, tēṣāṁ sārō lauhaṁ, tadvatsāra [17] ityarthaḥ| aviṣamiti viṣamavikāri||58-61||

bilvō’gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalirbalā|
parṇyaścatasraḥ pippalyaḥ śvadaṁṣṭrā br̥hatīdvayam||62||
śr̥ṅgī tāmalakī drākṣā jīvantī puṣkarāguru|
abhayā cāmr̥tā r̥ddhirjīvakarṣabhakau śaṭī||63||
mustaṁ punarnavā mēdā sailā candanamutpalam|
vidārī vr̥ṣamūlāni kākōlī kākanāsikā||64||
ēṣāṁ palōnmitān bhāgāñchatānyāmalakasya ca|
pañca dadyāttadaikadhyaṁ jaladrōṇē vipācayēt||65||
jñātvā gatarasānyētānyauṣadhānyatha taṁ rasam|
taccāmalakamuddhr̥tya niṣkulaṁ tailasarpiṣōḥ||66||
paladvādaśakē bhr̥ṣṭvā dattvā cārdhatulāṁ bhiṣak|
matsyaṇḍikāyāḥ pūtāyā lēhavatsādhu sādhayēt||67||
ṣaṭpalaṁ madhunaścātra siddhaśītē pradāpayēt|
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā||68||
palamēkaṁ nidadhyācca tvagēlāpatrakēśarāt|
ityayaṁ cyavanaprāśaḥ paramuktō rasāyanaḥ||69||
kāsaśvāsaharaścaiva viśēṣēṇōpadiśyatē|
kṣīṇakṣatānāṁ vr̥ddhānāṁ bālānāṁ cāṅgavardhanaḥ||70||
svarakṣayamurōrōgaṁ hr̥drōgaṁ vātaśōṇitam|
pipāsāṁ mūtraśukrasthān dōṣāṁścāpyapakarṣati||71||
asya mātrāṁ prayuñjīta yōparundhyānna bhōjanam|
asya prayōgāccyavanaḥ suvr̥ddhō’bhūt punaryuvā||72||
mēdhāṁ smr̥tiṁ kāntimanāmayatvamāyuḥprakarṣaṁ balamindriyāṇām|
strīṣu praharṣaṁ paramagnivr̥ddhiṁ varṇaprasādaṁ pavanānulōmyam||73||
rasāyanasyāsya naraḥ prayōgāllabhēta jīrṇō’pi kuṭīpravēśāt|
jarākr̥taṁ rūpamapāsya sarvaṁ bibharti rūpaṁ navayauvanasya||74||
(iti cyavanaprāśaḥ)|


parṇyaścatasra iti śālaparṇī, pr̥śniparṇī, mudgaparṇī, māṣaparṇī ca| tāmalakī bhūmyāmalakī| kākanāsā nāsāphalā, ‘kākatuṇḍaka’ ityanyē| gatarasatvamiha dravyāṇāṁ caturbhāgasthitajalē bhavati| niṣkulamiti nirasthi| tailasarpiṣōriti samāsanirdēśādubhābhyāmēva dvādaśapalāni, na pr̥thak pr̥thak| matsyaṇḍikā khaṇḍasaṁhatiḥ| atra ṣaṭpalatvēna samayōrapi madhusarpiṣōrdravyāntarayuktatvēnāviruddhatvam||62-74||

athāmalakaharītakīnāmāmalakabibhītakānāṁ harītakībibhītakānāmāmalakaharītakībibhītakānāṁ vā palāśatvagavanaddhānāṁ mr̥dā’valiptānāṁ kukūlasvinnānāmakulakānāṁ palasahasramulūkhalē sampōthya dadhighr̥tamadhupalalatailaśarkarāsaṁyuktaṁ bhakṣayēdanannabhugyathōktēna vidhinā; tasyāntē yavāgvādibhiḥ pratyavasthāpanam [18] , abhyaṅgōtsādanaṁ sarpiṣā yavacūrṇaiśca, ayaṁ ca rasāyanaprayōgaprakarṣō dvistāvadagnibalamabhisamīkṣya [19] , pratibhōjanaṁ yūṣēṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ, ataḥ paraṁ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt|
anēna prayōgēṇarṣayaḥ punaryuvatvamavāpurbabhūvuścānēkavarṣaśatajīvinō nirvikārāḥ paraṁ śarīrabuddhīndriyabalasamuditāścēruścātyantaniṣṭhayā tapaḥ||75||
(iti caturthāmalakarasāyanam)|


kukūlakaḥ karīṣāgniḥ| akulakānāmiti anasthnām| dravyādīnāmatra [20] mānaṁ nōktaṁ, tēna pradhānasya cūrṇasya dadhyādibhirmilitaiḥ samānamānatvaṁ; kiṁvā pratyēkamēva dadhyādīnāṁ cūrṇasamatvam| palalaṁ tilacūrṇam| bhakṣayēditi vacanaṁ lēhyē’pi alpābhyavaharaṇamātrārthatvādupapannam| anannabhugiti sarvathā”hārāntarābhuk| tasyānta iti ētatprayōgaparityāgakālē| pratyavasthāpanamiti yavāgvādikramaviśēṣaṇaṁ; tēna prayōgāntē yadā annasaṁsarjanaṁ [21] kartavyaṁ, tadā yavāgvādikramēṇētyuktasyārthasya pratyavasthāpanaṁ kriyata ityarthaḥ| yūṣēṇa payasā vēti vikalpō’gnibalāpēkṣayā||75||

harītakyāmalakabibhītakapañcapañcamūlaniryūhē pippalīmadhukamadhūkakākōlīkṣīrakākōlyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktēna vidārīsvarasēna kṣīrāṣṭaguṇasamprayuktēna ca sarpiṣaḥ kumbhaṁ sādhayitvā prayuñjānō’gnibalasamāṁ [22] mātrāṁ jīrṇē ca kṣīrasarpirbhyāṁ śāliṣaṣṭikamuṣṇōdakānupānamaśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrēndriyabuddhibalamatulamupalabhyāpratihatasarvārambhaḥ paramāyuranavāpnuyāt||76||
(iti pañcamō harītakīyōgaḥ)|


atra harītakyādau kṣīraśuklā kṣīravidārikā| atra harītakyādikvāthasya tvēkō bhāgaḥ, kṣīrasyāṣṭau bhāgāḥ, sarpiṣa ēkō bhāgaḥ| kumbhō drōṇadvayam| vacanaṁ hi- “drōṇastu dviguṇaḥ sūrpō vijñēyaḥ kumbha ēva ca” iti||76||

harītakyāmalakabibhītakaharidrāsthirābalāviḍaṅgāmr̥tavallīviśvabhēṣajamadhukapippalīsōmavalkasiddhēna [23] kṣīrasarpiṣā madhuśarkarābhyāmapi ca sannīyāmalakasvarasaśataparipītamāmalakacūrṇamayaścūrṇacaturbhāgasamprayuktaṁ pāṇitalamātraṁ prātaḥ prātaḥ prāśya yathōktēna vidhinā sāyaṁ mudgayūṣēṇa payasā vā sasarpiṣkaṁ śāliṣaṣṭikānnamaśnīyāt, trivarṣaprayōgādasya varṣaśatamajaraṁ vayastiṣṭhati, śrutamavatiṣṭhatē, sarvāmayāḥ praśāmyanti, viṣamaviṣaṁ bhavati gātrē, gātramaśmavat sthirībhavati, adhr̥ṣyō bhūtānāṁ bhavati||77||
bhavanti cātra-
yathā’marāṇāmamr̥taṁ yathā bhōgavatāṁ sudhā|
tathā’bhavanmaharṣīṇāṁ rasāyanavidhiḥ purā||78||
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca|
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā||79||
na kēvalaṁ dīrghamihāyuraśnutē rasāyanaṁ yō vidhivanniṣēvatē|
gatiṁ sa dēvarṣiniṣēvitāṁ śubhāṁ prapadyatē brahma tathēti cākṣayam [24] ||80||


amr̥tavallī guḍūcī| sōmavalkaḥ viṭkhadiraḥ| kṣīrasarpiḥ kṣīrasamutthitasarpiḥ| ayaścūrṇasya caturthō bhāgaḥ, yata ētadayaścūrṇaṁ caturthabhāgamata ēvāsmin prayōgē jatūkarṇēna “ayaścūrṇapādayuktam” iti kr̥tam| amarāṇāmamr̥taṁ jarādiharaṁ, nāgānāṁ ca sudhā jarāmaraṇaharī, ityubhayōpādānaṁ dr̥ṣṭāntē| brahma mōkṣaḥ| mōkṣasādhanatvaṁ cēha rasāyanasya viśuddhasattvakartr̥tayōcyatē|| 77-80||

tatra ślōkaḥ-
abhayāmalakīyē’smin ṣaḍyōgāḥ parikīrtitāḥ|
rasāyanānāṁ siddhānāmāyuryairanuvartatē||81||


abhayētyādinā sandēhanirāsārthamuktaprayōgasaṅkhyāṁ darśayati| ēvamanyatrāpi saṅkhyāpraṇayanamantē jñēyam|| 81||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē’bhayāmalakīyō nāma rasāyanapādaḥ prathamaḥ||1||


iti śrīcakrapāṇidattaviracitāyāmāyurvēdadīpikāyāṁ carakatātparyaṭīkāyāṁ cikitsāsthānē rasāyanādhyāyē’bhayāmalakīyō nāma rasāyanapādaḥ prathamaḥ|| 1||

1. ‘ārtaviśēṣaṇatāyāṁ’ iti pā.|
2. ‘sādhanīyaśaktitvārtiyōgaharatvēna’ iti pā.|
3. ‘vr̥ṣatāṁ’ iti pā.|
4. ‘bhavatyarghyō bahumataḥ’ iti, ‘bhavatyasau bahumataḥ’ iti ca pā.|
5. ‘arghaṇīyaḥ stutyaḥ’ iti pā.|
6. ‘ca’ iti pā.|
7. ‘rasāyanavidhānamityarthaḥ’ iti pā.|
8. ‘sakta…’ iti pā.|
9. ‘tatō vakṣyāmi’ iti pā.|
10. yōgīndranāthasēnasammatō’yaṁ pāṭhaḥ|
11. ‘daśavarṣasahasrāyuṣkararasāyanādhikr̥tāni’ iti pā.|
12. ‘yānyadagdhāni’ iti pā.|
13. ‘lēhamadagdhaṁ’ iti pā.|
14. ‘…dāhāramēvaṁ’ iti pā.|
15. ‘prāpya’ iti pā.|
16. ‘daśākṣagrahaṇam’ iti pā.|
17. ‘tatsāra ityarthaḥ’ iti pā.|
18. ‘prakr̥tyavasthāpanaṁ’ iti pā.|
19. ‘dvistāvat prayōgakālād dviguṇakālaṁ pratibhōjanaṁ yavāgūḥ yūṣēṇa payasā vā sasarpiṣkaḥ ṣaṣṭikaḥ ṣaṣṭikānnaṁ’ iti yōgīndranāthasēnaḥ|
20. ‘dadhyādīnāṁ’ iti pā.|
21. ‘annasēvā kartavyā’ iti pā.|
22. ‘prayuñjītāgnibalaṁ samavēkṣya, jīrṇē ca’ iti pā.|
23. ‘…vacā…’ iti pā.|
24. ‘cākṣaram’ iti pā.|

cikitsāsthānam - 1/2. prāṇakāmīyō rasāyanapādaḥ

 

athātaḥ prāṇakāmīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


pūrvapādē hyāmalakarasāyanānyuktāni, ihāpyāmalakarasāyanāni santīti prāṇakāmīyamanantaramucyatē| prāṇakāmaśabdamadhikr̥tya kr̥tamiti prāṇakāmīyam||1-2||

prāṇakāmāḥ śuśrūṣadhvamidamucyamānamamr̥tamivāparamaditisutahitakaramacintyādbhutaprabhāvamāyuṣyamārōgyakaraṁ vayasaḥ sthāpanaṁ nidrātandrāśramaklamālasyadaurbalyāpaharamanilakaphapittasāmyakaraṁ sthairyakaramabaddhamāṁsaharamantaragnisandhukṣaṇaṁ prabhāvarṇasvarōttamakaraṁ rasāyanavidhānam|
anēna cyavanādayō maharṣayaḥ punaryuvatvamāpurnārīṇāṁ cēṣṭatamā babhūvuḥ, sthirasamasuvibhaktamāṁsāḥ, susaṁhatasthiraśarīrāḥ, suprasannabalavarṇēndriyāḥ, sarvatrāpratihataparākramāḥ, klēśasahāśca|
sarvē śarīradōṣā bhavanti grāmyāhārādamlalavaṇakaṭukakṣāraśuṣkaśākamāṁsatilapalalapiṣṭānnabhōjināṁ [1] virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhōjināṁ klinnagurupūtiparyuṣitabhōjināṁ viṣamādhyaśanaprāyāṇāṁ divāsvapnastrīmadyanityānāṁ viṣamātimātravyāyāmasaṅkṣōbhitaśarīrāṇāṁ bhayakrōdhaśōkalōbhamōhāyāsabahulānām; atōnimittaṁ [2] hi śithilībhavanti māṁsāni, vimucyantē sandhayaḥ, vidahyatē raktaṁ, viṣyandatē cānalpaṁ mēdaḥ, na sandhīyatē’sthiṣu majjā, śukraṁ na pravartatē, kṣayamupaityōjaḥ; sa ēvambhūtō glāyati, sīdati, nidrātandrālasyasamanvitō nirutsāhaḥ śvasiti, asamarthaścēṣṭānāṁ śārīramānasīnāṁ, naṣṭasmr̥tibuddhicchāyō rōgāṇāmadhiṣṭhānabhūtō na sarvamāyuravāpnōti|
tasmādētān dōṣānavēkṣamāṇaḥ sarvān yathōktānahitānapāsyāhāravihārān rasāyanāni prayōktumarhatītyuktvā bhagavān punarvasurātrēya uvāca-||3||


nidrāharatvaṁ rasāyanasya vaikārikanidrāharatvēna, kiṁvā dēvavat sarvadā prabuddhō nidrārahitō bhavati| tandrālakṣaṇaṁ tantrāntarē- “indriyārthēṣvasaṁvittirgauravaṁ jr̥mbhaṇaṁ klamaḥ| nidrārtasyēva yasyaitē [3] tasya tandrāṁ vinirdiśēt” (su.śā.a.4) iti| abaddhamāṁsam anibiḍamāṁsam| uttamāni prabhādīni karōtīti prabhāvarṇasvarōttamakaram| ēvañjātīyaśca pūrvanipātāniyamō’pratibandhēna carakē’sti, sa mayūravyaṁsakādipāṭhāddraṣṭavyaḥ| anēna hītyādinā purāvr̥ttakathanēna rasāyanāni vakṣyamāṇāni pravr̥ttyarthaṁ stauti| rasāyanaprayōgē varjanīyaṁ grāmyāhārādi dūṣaṇatvēna nirdiśannāha- sarvē ityādi| tilastu acūrṇitastilaḥ, palalaṁ tilacūrṇam| atōnimittamiti grāmyāhārādikāraṇakam| śukraṁ na pravartata iti nōtpadyatē śukramityarthaḥ|| 3||

āmalakānāṁ subhūmijānāṁ kālajānāmanupahatagandhavarṇarasānāmāpūrṇarasapramāṇavīryāṇāṁ svarasēna punarnavākalkapādasamprayuktēna sarpiṣaḥ sādhayēdāḍhakam, ataḥ paraṁ vidārīsvarasēna jīvantīkalkasamprayuktēna, ataḥ paraṁ caturguṇēna payasā balātibalākaṣāyēṇa śatāvarīkalkasaṁyuktēna; anēna kramēṇaikaikaṁ śatapākaṁ sahasrapākaṁ vā śarkarākṣaudracaturbhāgasamprayuktaṁ sauvarṇē rājatē mārtikē vā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē sthāpayēt; tadyathōktēna vidhinā yathāgni prātaḥ prātaḥ prayōjayēt, jīrṇē ca kṣīrasarpirbhyāṁ śāliṣaṣṭikamaśnīyāt|
asya prayōgādvarṣaśataṁ vayō’jaraṁ tiṣṭhati, śrutamavatiṣṭhatē, sarvāmayāḥ praśāmyanti, apratihatagatiḥ strīṣu, apatyavān bhavatīti||4||
bhavataścātra-
br̥haccharīraṁ girisārasāraṁ sthirēndriyaṁ cātibalēndriyaṁ ca|
adhr̥ṣyamanyairatikāntarūpaṁ praśastipūjāsukhacittabhāk ca||5||
balaṁ mahadvarṇaviśuddhiragryā svarō ghanaughastanitānukārī|
bhavatyapatyaṁ vipulaṁ sthiraṁ ca samaśnatō yōgamimaṁ narasya||6||
(ityāmalakaghr̥tam)|


ēkaikaśaḥ śatapākamityarthaḥ| ēkaikapākasādhanaṁ pr̥thak kartavyaṁ; tēna triśatadhā pākō bhavati| atra ca kalkōpalēpādinōpakṣīṇamapi yadavaśiṣṭaṁ bhavati tadēva grāhyaṁ, vacanabalāt| sauvarṇādipātrēṣu yathāpūrvaṁ varaguṇatvam, anyathā samānaguṇatvē sarvēṣāṁ mr̥tpātrasya sulabhatvēnātidurlabhataraṁ sauvarṇapātraṁ nōpadēśamarhati| yathōktēna vidhinēti kuṭīprāvēśikēna| girisāraḥ lōham||4-6||

āmalakasahasraṁ pippalīsahasrasamprayuktaṁ palāśataruṇakṣārōdakōttaraṁ tiṣṭhēt, tadanugatakṣārōdakamanātapaśuṣkamanasthi cūrṇīkr̥taṁ caturguṇābhyāṁ madhusarpirbhyāṁ sannīya śarkarācūrṇacaturbhāgasamprayuktaṁ ghr̥tabhājanasthaṁ ṣaṇmāsān sthāpayēdantarbhūmēḥ|
tasyōttarakālamagnibalasamāṁ mātrāṁ khādēt, paurvāhṇikaḥ prayōgō nāparāhṇikaḥ, sātmyāpēkṣaścāhāravidhiḥ|
asya prayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||7||
(ityāmalakāvalēhaḥ)|


palāśataruṇaḥ taruṇapalāśaḥ; anēna bālavr̥ddhapalāśavarjanamucyatē| kṣārōdakōttaramiti yathā kṣārōdakaṁ bhāvyādupari [4] bhavati tathā kartavyamiti darśayati| caturbhāgaḥ pādaḥ| samānaṁ pūrvēṇēti pūrvayōgaphalaśrutyaitadapi yuktamityarthaḥ||7||

āmalakacūrṇāḍhakamēkaviṁśatirātramāmalakasvarasaparipītaṁ madhughr̥tāḍhakābhyāṁ dvābhyāmēkīkr̥tamaṣṭabhāgapippalīkaṁ śarkarācūrṇacaturbhāgasamprayuktaṁ ghr̥tabhājanasthaṁ prāvr̥ṣi bhasmarāśau nidadhyāt; tadvarṣāntē sātmyapathyāśī prayōjayēt; asya prayōgādvarṣaśatamajaramāyustiṣṭhatīti samānaṁ pūrvēṇa||8||
(ityāmalakacūrṇam)|


varṣāntē varṣākālāntē||8||

viḍaṅgataṇḍulacūrṇānāmāḍhakamāḍhakaṁ pippalītaṇḍulānāmadhyardhāḍhakaṁ sitōpalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhirēkīkr̥taṁ ghr̥tabhājanasthaṁ prāvr̥ṣi bhasmarāśāviti sarvaṁ samānaṁ pūrvēṇa yāvadāśīḥ||9||
(iti viḍaṅgāvalēhaḥ)|


yāvadāśīriti āśīḥ phalaśrutiḥ; tēna ‘tadvarṣāntē’ ityādigranthōktavidhividhānaṁ darśayati||9||

yathōktaguṇānāmāmalakānāṁ sahasramārdrapalāśadrōṇyāṁ sapidhānāyāṁ bāṣpamanudvamantyāmāraṇyagōmayāgnibhirupasvēdayēt, tāni susvinnaśītānyuddhr̥takulakānyāpōthyāḍhakēna pippalīcūrṇānāmāḍhakēna ca viḍaṅgataṇḍulacūrṇānāmadhyardhēna cāḍhakēna śarkarāyā dvābhyāṁ dvābhyāmāḍhakābhyāṁ tailasya madhunaḥ sarpiṣaśca saṁyōjya śucau dr̥ḍhē ghr̥tabhāvitē kumbhē sthāpayēdēkaviṁśatirātram, ata ūrdhvaṁ prayōgaḥ; asya prayōgādvarṣaśatamajaramāyustiṣṭhatīti samānaṁ pūrvēṇa||10||
(ityāmalakāvalēhō’paraḥ)|


pūrvēṇēti pūrvayōgaphalaśrutiparyantaṁ pūrvayōgēnāsya samānamityarthaḥ||10||

dhanvani kuśāstīrṇē snigdhakr̥ṣṇamadhuramr̥ttikē suvarṇavarṇamr̥ttikē vā vyapagataviṣaśvāpadapavanasalilāgnidōṣē karṣaṇavalmīkaśmaśānacaityōṣarāvasathavarjitē dēśē yathartusukhapavanasalilādityasēvitē jātānyanupahatānyanadhyārūḍhānyabālānyajīrṇānyadhigatavīryāṇi śīrṇapurāṇaparṇānyasañjātānyaparṇāni [5] tapasi tapasyē vā māsē śuciḥ prayataḥ kr̥tadēvārcanaḥ svasti vācayitvā dvijātīn calē [6] sumuhūrtē nāgabalāmūlānyuddharēt, tēṣāṁ suprakṣālitānāṁ tvakpiṇḍamāmramātramakṣamātraṁ vā ślakṣṇapiṣṭamālōḍya payasā prātaḥ prayōjayēt, cūrṇīkr̥tāni vā pibēt payasā, madhusarpirbhyāṁ vā saṁyōjya bhakṣayēt, jīrṇē ca kṣīrasarpirbhyāṁ [7] śāliṣaṣṭikamaśnīyāt|
saṁvatsaraprayōgādasya varṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||11||
(iti nāgabalārasāyanam)|


dhanvanīti jāṅgaladēśē| karṣaṇaṁ halādinā| anadhyārūḍhānīti na mahatā pārśvasthēna vr̥kṣēṇākrāntāni| tapasi māghē| tapasyē iti phālgunē| calē sumuhūrta iti indrē muhūrtē| āmnamātramiti palaparimāṇam||11||

balātibalācandanāgurudhavatiniśakhadiraśiṁśapāsanasvarasāḥ punarnavāntāścauṣadhayō daśa [8] nāgabalayā vyākhyātāḥ|
svarasānāmalābhē tvayaṁ svarasavidhiḥ- cūrṇānāmāḍhakamāḍhakamudakasyāhōrātrasthitaṁ mr̥ditapūtaṁ svarasavat prayōjyam||12||


punarnavāntā daśa ṣaḍvirēcanaśatāśritīyē “amr̥tā’bhayā dhātrī mu(yu)ktā śrēyasī śvētā’tirasā maṇḍūkaparṇī sthirā punarnavā” (sū.a.4) iti sarvā vayaḥsthāpanōktāḥ| nāgabalayā vyākhyātā iti nāgabalāvattēṣāmapi prayōgaḥ| balādīnāṁ svarasēnaiva vidhānam| nāgabalāvadbhōjanādikaṁ jñēyam| svarasālābhē’nukalpamāha- svarasānāmityādi|| 12||

bhallātakānyanupahatānyanāmayānyāpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukrē vā māsē saṅgr̥hya yavapallē māṣapallē vā nidhāpayēt, tāni caturmāsasthitāni sahasi sahasyē vā māsē prayōktumārabhēta śītasnigdhamadhurōpaskr̥taśarīraḥ|
pūrvaṁ daśabhallātakānyāpōthyāṣṭaguṇēnāmbhasā sādhu sādhayēt, tēṣāṁ rasamaṣṭabhāgāvaśēṣaṁ pūtaṁ sapayaskaṁ pibēt sarpiṣā’ntarmukhamabhyajya|
tānyēkaikabhallātakōtkarṣāpakarṣēṇa daśabhallātakānyātriṁśataḥ prayōjyāni, nātaḥ paramutkarṣaḥ|
prayōgavidhānēna sahasrapara ēva bhallātakaprayōgaḥ|
jīrṇē ca sasarpiṣā payasā śāliṣaṣṭikāśanamupacāraḥ, prayōgāntē ca dvistāvat payasaivōpacāraḥ|
tatprayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||13||
(iti bhallātakakṣīram)|


śuciḥ jyēṣṭhaḥ, śukrastu āṣāḍhaḥ, saha āgrahāyaṇaḥ, sahasyaḥ pauṣaḥ| ētacca bhallātakaṁ māsacatuṣṭayasthitaṁ yavapallādau [9] uddhr̥tamātraṁ na prayōjyaṁ, kintu yathōkta ēva kālē śītaguṇayuktē| mukhadāhaparihārārthaṁ sarpiṣā’ntarmukhamabhyajyēti| nātaḥ paramiti triṁśataḥ parēṇa prayōgō na bhallātakasya| sahasraparō bhallātakaprayōga iti upayuktabhallātakasampiṇḍanayā yadā sahasraṁ pūryatē tadaivōparamaḥ kartavyaḥ, sahasrādarvāgapi ca prayōgaparityāgaḥ prakr̥tyādyapēkṣayā bhavatyēva| sahasrasaṅkhyāpūraṇaṁ cēhaikēna vardhanahrāsakramēṇa na bhavati, tēna punarāvr̥ttyā ca triṁśatparyantaṁ prayōgaḥ kartavyaḥ, yathā hi bhallātakaprayōgābhyāsēna sahasrasaṅkhyāpūraṇaṁ bhavati tathā kr̥tvā parityāgaḥ kartavyaḥ| anyē tvatra suśrutē arśaścikitsitōktaśataparyantaṁ bhallātakaprayōgēṇa samaṁ virōdhaṁ paśyantaḥ suśrutaprayōgasyāpyanyathā vyākhyānēna triṁśatkamātraṁ [10] prayōgamicchanti; tacca vyākhyānaṁ nātisaṅgatam| kiñca sahasradvayasya tatrōpayōgō vihitaḥ, atra sahasraparyantaḥ prayōgaḥ; tēna vyādhiviṣayō’nya ēva sa prayōgaḥ, ayaṁ tu rasāyanaviṣayaḥ||13||

bhallātakānāṁ jarjarīkr̥tānāṁ piṣṭasvēdanaṁ pūrayitvā bhūmāvākaṇṭhaṁ nikhātasya snēhabhāvitasya dr̥ḍhasyōpari kumbhasyārōpyōḍupēnāpidhāya kr̥ṣṇamr̥ttikāvaliptaṁ gōmayāgnibhirupasvēdayēt; tēṣāṁ yaḥ svarasaḥ kumbhaṁ prapadyēta, tamaṣṭabhāgamadhusamprayuktaṁ dviguṇaghr̥tamadyāt; tatprayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||14||
(iti bhallātakakṣaudram)|


piṣṭasvēdanaṁ tat, yatrasthaṁ piṣṭakamupasvēdyatē; tadupari yat pidhānapātraṁ taccēha sacchidraṁ grāhyam, anyathōparisthabhallātakatāpāccyutaḥ snēhō nādhō yāti||14||

bhallātakatailapātraṁ sapayaskaṁ madhukēna kalkēnākṣamātrēṇa śatapākaṁ kuryāditi samānaṁ pūrvēṇa||15||
(iti bhallātakatailam)|


bhallātakatailamiti anantarōktavidhānēna gr̥hītō bhallātakasnēhaḥ||15||

bhallātakasarpiḥ [11] , bhallātakakṣīraṁ, bhallātakakṣaudraṁ, guḍabhallātakaṁ, bhallātakayūṣaḥ, bhallātakatailaṁ, bhallātakapalalaṁ, bhallātakasaktavaḥ, bhallātakalavaṇaṁ, bhallātakatarpaṇam, iti bhallātakavidhānamuktaṁ bhavati||16||


bhallātakasarpirityādayō daśaprayōgāḥ| atra ca yathāyōgyatayā bhallātakēna sarpirādīnāṁ saṁskāraḥ saṁyōgaśca jñēyaḥ| yaduktaṁ jatūkarṇē- “bhallātakasaṁyuktasaṁskr̥tāni ca ghr̥takṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni” iti| ēvaṁ ca sarpiḥkṣīrayūṣatailānāṁ saṁskārō yathānyāyaṁ bhallātakēna, kṣaudrapalalasaktutarpaṇānāṁ bhallātakēna yōgaḥ, guḍalavaṇayōstu saṁskāraḥ saṁyōgō vā| lavaṇē saṁskārapakṣē hi lavaṇasamaṁ bhallātakamantardhūmadagdhaṁ grāhyam| anyē tu sarpirādīnāṁ sarvēṣāmēva bhallātakēna saṁskāraṁ vyākhyānayanti| iha saktuprayōgō’dravōttaratvādiviśēṣakarmaṇā bhēdanīyaḥ||16||

bhavanti cātra-
bhallātakāni tīkṣṇāni pākīnyagnisamāni ca|
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||
ētē daśavidhāstvēṣāṁ prayōgāḥ parikīrtitāḥ|
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||
kaphajō na sa rōgō’sti na vibandhō’sti kaścana|
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||
(iti bhallātakavidhiḥ)|
prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ|
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||
brāhmaṁ [12] tapō brahmacaryamadhyātmadhyānamēva ca|
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||


agnisamānīti dāhasphōṭakartr̥tayā| sambhr̥tyēti niṣpādya||17-22||

tatra ślōkaḥ-
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā [13] ||23||


pādānusaṅgrahē saptatriṁśatprayōgā uktāḥ; tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayōgāḥ, aparē tu vyāhr̥tā vyaktā ēva||23||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē prāṇakāmīyō nāma rasāyanapādō dvitīyaḥ||2||


iti śrīcakrapāṇidattaviracitāyāmāyurvēdadīpikāyāṁ carakatātparyaṭīkāyāṁ cikitsitasthānē rasāyanādhyāyē prāṇakāmīyō nāma rasāyanapādō dvitīyaḥ||2||

1. ‘… māṣa…’ iti pā.|
2. ‘atō nimittāddhi’ iti pā.|
3. ‘yasyēhā’ iti pā.|
4. ‘āmalakādupari’ iti pā.|
5. ‘asañjātaphalāni’ iti pā.|
6. gaṅgādharastu ‘balē muhūrtē’ iti paṭhitvā ‘balavati sumuhūrtē’ iti vyākhyānayati|
7. ‘payasā sasarpiṣkaṁ’ iti pā.|
8. ‘daśa yā vayaḥsthāpanā vyākhyātāstāsāṁ svarasā nāgabalāvat’ iti pā.|
9. ‘yavaparṇādau’ iti pā.|
10. ‘triṁśadguḍakamātraṁ’ iti pā.|
11. yōgīndranāthasēnastu ‘ēvaṁ guḍabhallātakaṁ, bhallātakayūṣō, bhallātakasarpiḥ, bhallātakapalalaṁ’ ityādipāṭhaṁ paṭhati|
12. ‘jñānaṁ’ iti pā.|
13. ‘sapta caivaṁ daśarṣiṇā’ iti pā.|

 

cikitsāsthānam - 1/3. karapracitīyō rasāyanapādaḥ

athātaḥ karapracitīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


āmalakarasāyanatvasāmyādanantaraṁ karapracitīya ucyatē||1-2||

karapracitānāṁ yathōktaguṇānāmāmalakānāmuddhr̥tāsthnāṁ śuṣkacūrṇitānāṁ punarmāghē phālgunē vā māsē triḥsaptakr̥tvaḥ svarasaparipītānāṁ punaḥ śuṣkacūrṇīkr̥tānāmāḍhakamēkaṁ grāhayēt, atha jīvanīyānāṁ br̥ṁhaṇīyānāṁ stanyajananānāṁ śukrajananānāṁ vayaḥsthāpanānāṁ ṣaḍvirēcanaśatāśritīyōktānāmauṣadhagaṇānāṁ [1] candanāgurudhavatiniśakhadiraśiṁśapāsanasārāṇāṁ cāṇuśaḥ [2] kr̥ttānāmabhayābibhītakapippalīvacācavyacitrakaviḍaṅgānāṁ ca samastānāmāḍhakamēkaṁ daśaguṇēnāmbhasā sādhayēt, tasminnāḍhakāvaśēṣē rasē supūtē tānyāmalakacūrṇāni dattvā gōmayāgnibhirvaṁśavidalaśaratējanāgnibhirvā sādhayēdyāvadapanayādrasasya, tamanupadagdhamupahr̥tyāyasīṣu pātrīṣvāstīrya śōṣayēt, suśuṣkaṁ tat kr̥ṣṇājinasyōpari dr̥ṣadi ślakṣṇapiṣṭamayaḥsthālyāṁ nidhāpayēt samyak, taccūrṇamayaścūrṇāṣṭabhāgasamprayuktaṁ madhusarpirbhyāmagnibalamabhisamīkṣya prayōjayēditi||3||
bhavanti cātra-
ētadrasāyanaṁ pūrvaṁ vasiṣṭhaḥ kaśyapō’ṅgirāḥ|
jamadagnirbharadvājō bhr̥guranyē ca tadvidhāḥ||4||
prayujya prayatā muktāḥ śramavyādhijarābhayāt|
yāvadaicchaṁstapastēpustatprabhāvānmahābalāḥ||5||
idaṁ rasāyanaṁ cakrē brahmā vārṣasahasrikam|
jarāvyādhipraśamanaṁ buddhīndriyabalapradam||6||
(ityāmalakāyasaṁ brāhmarasāyanam)|


karapracitānāmitipadaṁ svayampatitagrahaṇaṁ niṣēdhayati| māghē phālgunē vētigrahaṇavacanāttathaiva gr̥hītānāmadhikāra ityāgamādunnīyatē| svarasa ihāmalakasyaiva bhavati, adhikārāt| śākaḥ br̥hatpatrastaruḥ| kr̥ttānāmiti cchinnānām| iha gōmayāgnyādyupakaraṇaniyamēnaiva śaktyutkarṣō bhavatīti r̥ṣivacanādunnīyatē| yaduktaṁ- “r̥ṣayastvēva jānanti yōgasaṁyōgajaṁ phalam” iti| ēvamanyatrāpi itikartavyatāniyamō vyākhyēyaḥ| kr̥ṣṇājinasyēti kr̥ṣṇasārājinasya||3-6||

tapasā brahmacaryēṇa dhyānēna praśamēna ca|
rasāyanavidhānēna kālayuktēna cāyuṣā||7||
sthitā maharṣayaḥ pūrvaṁ, nahi kiñcidrasāyanam|
grāmyānāmanyakāryāṇāṁ sidhyatyaprayatātmanām||8||


samprati rasāyanasya tapōbrahmacaryadhyānādiyuktasyaiva mahāphalatvaṁ bhavatīti darśayannāha- tapasētyādi| kālayuktēna cāyuṣēti aniyatakālayuktēna cāyuṣētyarthaḥ, niyatakālāyuṣaṁ prati tu na rasāyanaṁ phalavadityuktamēva| sthitā iti dīrghakālajīvinaḥ| viparyayēṇa tapaḥprabhr̥tivirahē rasāyanasyāphalatāmāha- na hītyādi||7-8||

saṁvatsaraṁ payōvr̥ttirgavāṁ madhyē vasēt sadā|
sāvitrīṁ manasā dhyāyan brahmacārī yatēndriyaḥ||9||
saṁvatsarāntē pauṣīṁ vā māghīṁ vā phālgunīṁ tithim|
tryahōpavāsī śuklasya praviśyāmalakīvanam||10||
br̥hatphalāḍhyamāruhya drumaṁ śākhāgataṁ phalam|
gr̥hītvā pāṇinā tiṣṭhējjapan brahmāmr̥tāgamāt||11||
tadā hyavaśyamamr̥taṁ vasatyāmalakē kṣaṇam|
śarkarāmadhukalpāni snēhavanti mr̥dūni ca||12||
bhavantyamr̥tasaṁyōgāttāni yāvanti bhakṣayēt|
jīvēdvarṣasahasrāṇi tāvantyāgatayauvanaḥ||13||
sauhityamēṣāṁ gatvā tu bhavatyamarasannibhaḥ|
svayaṁ cāsyōpatiṣṭhantē śrīrvēdā vāk ca rūpiṇī||14||
(iti kēvalāmalakarasāyanam)|


brahmacāritvēnēndriyaniyamē labdhē’pi yatēndriyapadasambandha indriyaniyamātiśayōpadarśanārthaḥ| pauṣādiṣu saṁvatsarāntatvaṁ niyamadinādārabhya varṣapūraṇēna jñēyam| phālgunīmityasyāntē prāpyēti śēṣaḥ| “na drumamārōhēt” (sū.a.8) ityasyēha āruhya drumamiti vacanēnāpavādaḥ| japan brahmēti ōṅkāraṁ japan| amr̥tāgamāditi amr̥tāgamaparyantam| sauhityamēṣāmiti karaṇē ṣaṣṭhī| vāgrūpiṇīti tadadhiṣṭhātrī dēvatā||9-14||

triphalāyā rasē mūtrē gavāṁ kṣārē ca lavaṇē|
kramēṇa cēṅgudīkṣārē kiṁśukakṣāra ēva ca||15||
tīkṣṇāyasasya patrāṇi vahnivarṇāni sādhayēt [3] |
caturaṅguladīrghāṇi tilōtsēdhatanūni [4] ca||16||
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayēt|
tāni cūrṇāni madhunā rasēnāmalakasya ca||17||
yuktāni lēhavat kumbhē sthitāni ghr̥tabhāvitē|
saṁvatsaraṁ nidhēyāni yavapallē tathaiva ca||18||
dadyādālōḍanaṁ māsē sarvatrālōḍayan budhaḥ|
saṁvatsarātyayē tasya prayōgō madhusarpiṣā||19||
prātaḥ prātarbalāpēkṣī sātmyaṁ jīrṇē ca bhōjanam|
ēṣa ēva ca lauhānāṁ prayōgaḥ samprakīrtitaḥ||20||
nābhighātairna cātaṅkairjarayā na ca mr̥tyunā|
sa dhr̥ṣyaḥ syādgajaprāṇaḥ sadā cātibalēndriyaḥ||21||
dhīmān yaśasvī vāksiddhaḥ [5] śrutadhārī mahādhanaḥ [6] |
bhavēt samāṁ prayuñjānō narō lauharasāyanam||22||
anēnaiva vidhānēna hēmnaśca rajatasya ca|
āyuḥprakarṣakr̥tsiddhaḥ prayōgaḥ sarvarōganut||23||
(iti lauhādirasāyanam)|


kṣāra iti parisrāvitakṣārōdakē| kṣārē lāvaṇa iti jyōtiṣmatyāḥ kṣārē| sādhayēditi nirvāpayēt| lauhānāmityanēnaiva lōhāntarniviṣṭayōḥ suvarṇarajatayōrgrahaṇē siddhē punastayōrvacanaṁ tayōrviśēṣēṇādarōpadarśanārtham| rasāyanaprabhāvādēva mahādhanatvamiti jñēyam||15-23||

aindrī matsyākhyakō brāhmī vacā brahmasuvarcalā|
pippalyō lavaṇaṁ hēma śaṅkhapuṣpī viṣaṁ ghr̥tam||24||
ēṣāṁ triyavakān bhāgān hēmasarpirviṣairvinā|
dvau yavau tatra hēmnastu tilaṁ dadyādviṣasya ca||25||
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayōjayēt|
ghr̥taprabhūtaṁ sakṣaudraṁ jīrṇē cānnaṁ praśasyatē||26||
jarāvyādhipraśamanaṁ smr̥timēdhākaraṁ param|
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam||27||
paramōjaskaraṁ caitat siddhamaindraṁ rasāyanam|
nainat prasahatē kr̥tyā nālakṣmīrna viṣaṁ na ruk||28||
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇō viṣamajvaraśca|
mēdhāsmr̥tijñānaharāśca rōgāḥ śāmyantyanēnātibalāśca vātāḥ||29||
(ityaindraṁ rasāyanam)|


matsyākhyakō ‘macchu’ iti [7] lōkē khyātaḥ; anyē tu aindrībhēdaṁ matsyākhyakamāhuḥ| triyavakāniti triyavapramāṇān [8] | ghr̥taprabhūtamityannaviśēṣaṇam| kr̥tyā abhicāraḥ||24-29||

maṇḍūkaparṇyāḥ svarasaḥ prayōjyaḥ kṣīrēṇa yaṣṭīmadhukasya cūrṇam|
rasō guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayōjyaḥ khalu śaṅkhapuṣpyāḥ||30||
āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni|
mēdhyāni caitāni rasāyanāni mēdhyā viśēṣēṇa ca śaṅkhapuṣpī||31||
(iti mēdhyarasāyanāni)|


maṇḍūkaparṇyā ityādayaścatvārō yōgāḥ||30-31||

pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā|
rasāyanaguṇānvēṣī samāmēkāṁ prayōjayēt||32||
tisrastisrastu pūrvāhṇē bhuktvā’grē bhōjanasya ca|
pippalyaḥ kiṁśukakṣārabhāvitā ghr̥tabharjitāḥ||33||
prayōjyā madhusammiśrā rasāyanaguṇaiṣiṇā|
jētuṁ kāsaṁ kṣayaṁ śōṣaṁ śvāsaṁ hikkāṁ galāmayān||34||
arśāṁsi grahaṇīdōṣaṁ pāṇḍutāṁ viṣamajvaram|
vaisvaryaṁ pīnasaṁ śōphaṁ gulmaṁ vātabalāsakam||35||
(iti pippalīrasāyanam)|


pañcētyādau saṅkhyāvyatikramēṇānuktasaṅkhyānāmapi pippalīnāmupayōgaṁ sūcayati| yadyapi “trīṇi dravyāṇi nātyupayuñjīta pippalīṁ kṣāraṁ lavaṇam” (vi.a.1) ityuktaṁ, tathā’pīha dravyāntarasaṁyuktānāṁ pippalīnāmabhyāsō na viruddhaḥ; kiṁvā, uktapippalīrasāyanavyatirēkēṇōtsargāpavādanyāyāt sa niṣēdhō jñēyaḥ| kiṁśukaḥ palāśaḥ||32-35||

kramavr̥ddhyā daśāhāni daśapaippalikaṁ [9] dinam|
vardhayēt payasā sārdhaṁ tathaivāpanayēt punaḥ||36||
jīrṇē jīrṇē ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā|
pippalīnāṁ sahasrasya prayōgō’yaṁ rasāyanam||37||
piṣṭāstā balibhiḥ sēvyāḥ, śr̥tā madhyabalairnaraiḥ|
cūrṇīkr̥tā [10] hrasvabalairyōjyā dōṣāmayān prati||38||
daśapaippalikaḥ śrēṣṭhō madhyamaḥ ṣaṭ [11] prakīrtitaḥ|
prayōgō yastriparyantaḥ sa kanīyān sa cābalaiḥ||39||
br̥haṇaṁ svaryamāyuṣyaṁ plīhōdaravināśanam|
vayasaḥ sthāpanaṁ mēdhyaṁ pippalīnāṁ rasāyanam||40||
(iti pippalīvardhamānaṁ [12] rasāyanam)|


pippalīvardhamānamāha- kramavr̥ddhyētyādi| daśapippalyō yatra vardhantē taddinaṁ daśapaippalikaṁ, tēna pratyahaṁ daśapippalyō vardhanīyā ityarthaḥ; tataścōnaviṁśatidinairvr̥ddhihānikramēṇaikēnaiva sahasraṁ pūrṇaṁ bhavati| ‘cūrṇīkr̥tā’ ityatra ‘śītīkr̥tā’ iti vā pāṭhaḥ| pippalīvardhamānakramabhuktamutkr̥ṣṭaṁ darśayannaparamapi vardhamānakramadvayaṁ madhyamatvāvaratvābhyāmāha- daśētyādi| ṣaṭ prakīrtita iti ṣaḍvr̥ddhyā pūrvācāryairuktaḥ| triparyanta ityasyāntē pippalītrayāvasthānāt pippalītrikēṇaiva vr̥ddhirbhavati, tatō daśapippalīkē daśaivāntē bhavanti||36-40||

jaraṇāntē’bhayāmēkāṁ prāgbhuktād dvē bibhītakē|
bhuktvā tu madhusarpirbhyāṁ catvāryāmalakāni ca||41||
prayōjayan samāmēkāṁ triphalāyā rasāyanam|
jīvēdvarṣaśataṁ pūrṇamajarō’vyādhirēva ca||42||
(iti triphalārasāyanam)|
traiphalēnāyasīṁ pātrīṁ kalkēnālēpayēnnavām|
tamahōrātrikaṁ lēpaṁ pibēt kṣaudrōdakāplutam||43||
prabhūtasnēhamaśanaṁ jīrṇē tatra praśasyatē|
ajarō’ruk samābhyāsājjīvēccaiva samāḥ śatam||44||
(iti triphalārasāyanamaparam)|
madhukēna tugākṣīryā pippalyā kṣaudrasarpiṣā|
triphalā sitayā cāpi yuktā siddhaṁ rasāyanam||45||
(iti triphalārasāyanamaparam)|
sarvalauhaiḥ [13] suvarṇēna vacayā madhusarpiṣā|
viḍaṅgapippalībhyāṁ ca triphalā lavaṇēna ca||46||
saṁvatsaraprayōgēṇa mēdhāsmr̥tibalapradā|
bhavatyāyuḥpradā dhanyā jarārōganibarhaṇī||47||
(iti triphalārasāyanamaparam)|


jaraṇānta ityādau madhusarpirbhyāmiti abhayāṁ bibhītakē āmalakānītyanēna ca yujyatē| madhukēnētyādirēkaḥ prayōgaḥ| sarvalauhairityādyaparaḥ| lauhairityuktē suvarṇē prāptē suvarṇēnētipadaṁ lōhatvēnābhiprasiddhasyāgrahaṇanirāsārtham||41-47||

anamlaṁ ca kaṣāyaṁ ca kaṭu pākē śilājatu|
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ||48||
hēmnaśca rajatāttāmrādvarāt [14] kr̥ṣṇāyasādapi|
rasāyanaṁ tadvidhibhistadvr̥ṣyaṁ tacca rōganut||49||
vātapittakaphaghnaiśca niryūhaistat subhāvitam|
vīryōtkarṣaṁ paraṁ yāti sarvairēkaikaśō’pi vā||50||


śilājaturasāyanaṁ darśayituṁ śilājatunō’bhyarhitasya guṇānēva tāvadāha- anamlamityādi| varāditi śrēṣṭhāt| suśrutē yadyapi trapusīsabhavaṁ prakṣipya ṣaḍvidhaśilājatu sāmānyēna rōgē rasāyanādhikārē cōktaṁ, tathā’pīha rasāyanādhikārē tadadhikr̥tacaturvidhamēvōktam||48-50||

prakṣiptōddhr̥tamapyēnat [15] punastat prakṣipēdrasē|
kōṣṇē saptāhamētēna vidhinā tasya bhāvanā||51||
pūrvōktēna vidhānēna lōhaiścūrṇīkr̥taiḥ saha|
tat pītaṁ payasā dadyāddīrghamāyuḥ sukhānvitam||52||
jarāvyādhipraśamanaṁ dēhadārḍhyakaraṁ param|
mēdhāsmr̥tikaraṁ dhanyaṁ kṣīrāśī tat prayōjayēt||53||
prayōgaḥ saptasaptāhāstrayaścaikaśca saptakaḥ|
nirdiṣṭastrividhastasya parō madhyō’varastathā||54||
palamardhapalaṁ karṣō mātrā tasya tridhā matā|55|


śilājatubhāvanāvidhimāha- prakṣiptētyādi| prakṣiptānantaramuddhr̥taṁ prakṣiptōddhr̥tam| lauhaiḥ sahēti bhāgāniyamē lōhasamānabhāgatā śilājatunaḥ| prayōgaḥ saptasaptāhā iti saptasaptāhavyāpakaprayōga ityarthaḥ; ēvaṁ trayaścaikaśca saptaka ityatrāpi bōddhavyam||51-54||-

jātērviśēṣaṁ savidhiṁ tasya vakṣyāmyataḥ param||55||
hēmādyāḥ sūryasantaptāḥ sravanti giridhātavaḥ|
jatvābhaṁ mr̥du mr̥tsnācchaṁ yanmalaṁ tacchilājatu||56||
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ|
kaṭurvipākē śītaśca sa suvarṇasya nisravaḥ||57||
rūpyasya kaṭukaḥ śvētaḥ śītaḥ svādu vipacyatē|
tāmrasya barhikaṇṭhābhastiktōṣṇaḥ pacyatē kaṭu||58||
yastu guggulukābhāsastiktakō lavaṇānvitaḥ|
kaṭurvipākē śītaśca sarvaśrēṣṭhaḥ sa cāyasaḥ||59||
gōmūtragandhayaḥ sarvē sarvakarmasu yaugikāḥ|
rasāyanaprayōgēṣu paścimastu viśiṣyatē||60||
yathākramaṁ vātapittē ślēṣmapittē kaphē triṣu|
viśēṣataḥ praśasyantē malā hēmādidhātujāḥ||61||


savidhimiti vidhānasahitam| śilājatuvidhānaṁ ca yathākramaṁ ‘vātapittē’ [16] ityādigranthēna vaktavyam| hēmādiśabdēnēha hēmādisambhavasthānabhūtaśilōcyatē, yatō na sākṣāt suvarṇādibhya ēva śilājatu sravati| mr̥tsnaṁ masr̥ṇam, acchaṁ svaccham| yastu rūpyabhavē kaṭurasē viruddhaḥ svāduḥ [17] pāka uktaḥ sa utsargāpavādanyāyēna jñēyaḥ| vīryaṁ tu tāmrabhavasyōṣṇasya tathā trayāṇāṁ ca śītatvayuktānāmatyuṣṇaśītavīryatāyā avakāśō nāsti, ataḥ sāmānyaguṇakathanē nātyuṣṇaśītamitipadēna uṣṇasya śītasya ca vīryasya prakarṣō niṣidhyatē; tēnānuṣṇāśītatvaṁ vidhīyatē; tataśca śilājatuni vīryaṁ śītamuṣṇaṁ vā’bhihitamapi na balavadbhavatīti labhyatē||55-61||

śilājatuprayōgēṣu vidāhīni gurūṇi ca|
varjayēt sarvakālaṁ tu kulatthān [18] parivarjayēt||62||
tē hyatyantaviruddhatvādaśmanō bhēdanāḥ param|
lōkē dr̥ṣṭāstatastēṣāṁ prayōgaḥ pratiṣidhyatē||63||
payāṁsi takrāṇi [19] rasāḥ sayūṣāstōyaṁ samūtrā vividhāḥ kaṣāyāḥ|
ālōḍanārthaṁ girijasya śastāstē tē prayōjyāḥ prasamīkṣya kāryam||64||
na sō’sti rōgō bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayēt prasahya|
tat kālayōgairvidhibhiḥ prayuktaṁ svasthasya cōrjāṁ vipulāṁ dadāti||65||
(iti śilājaturasāyanam)|
tatra ślōkaḥ-
karapracitikē pādē daśa ṣaṭ ca maharṣiṇā|
rasāyanānāṁ siddhānāṁ saṁyōgāḥ samudāhr̥tāḥ||66||


śilājatuprayōgēṣviti bahuvacanamālōḍanādibhēdēna prayōgabhēdaṁ buddhisthīkr̥tya jñēyam| śilājatuprayōgē guruniṣēdhē’pi viśēṣavacanāt kṣīrādiprayōgaḥ| sarvakālamiti yāvadrasāyanāhitā guṇāḥ santi| kēcittu yāvajjīvaṁ kulatthavarjanamāhuḥ; yaduktaṁ suśrutē- “tadbhāvitaḥ kapōtāṁśca kulatthāṁśca vivarjayēt” (su.ci.a.13) iti| śilājatuprayōgaṁ stauti- na sō’stītyādi||62-66||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē karapracitīyō nāma rasāyanapādastr̥tīyaḥ||3||


iti śrīcakrapāṇidattaviracitāyāmāyurvēdadīpikāyāṁ carakatātparyaṭīkāyāṁ cikitsāsthānē rasāyanādhyāyē karapracitīyō nāma rasāyanapādastr̥tīyaḥ|| 3||

1. ‘ṣaḍvirēcanaśatīyōktānāṁ’ iti pā.|
2. ‘khaṇḍaśaḥ kr̥ttānāṁ’ iti pā.|
3. ‘vāpayēt’ iti pā.|
4. ‘tilōtsēdhasamāni’ iti pā.
5. ‘vāgmī ca’ iti pā.|
6. ‘mahābalaḥ’ iti pā.|
7. ‘matsyākṣakō ‘machēchī’ iti lōkē’ iti pā.|
8. ‘triyavapramāṇatulyān’ iti pā.|
9. ‘daśapippalīkaṁ’ iti pā.|
10. ‘śītīkr̥tāḥ’ iti pā.|
11. ‘ṣaṭ ṣaṭpaipalikaḥ yōgaḥ’ iti yōgīndranāthasēnaḥ| ‘ṣaṭ prakīrtitā yatra sa ṣaṭprakīrtitaḥ’ iti gaṅgādharaḥ|
12. ‘vardhamānapippalīrasāyanam’ iti pā.|
13. ‘sarvairlōhaiḥ pañcabhirlōhaiḥ trapusīsatāmrarūpyakr̥ṣṇalōhaiḥ’ iti yōgīndranāthasēnaḥ|
14. ‘varaṁ’ iti pā.|
15. ‘śilājatu kōṣṇē vātaharādikvāthē prakṣipya athainaṁ raudrē śōṣayēt| pītatatkvāthamuddhr̥taṁ punarapi tad rasē kvāthē prakṣipēt| anēna vidhinā saptāhaṁ (saptavārān) tasya bhāvanā’ iti gaṅgādharaḥ|
16. ‘ślēṣmapittē’ iti pā.|
17. ‘guruḥ’ iti pā.|
18. ‘kunakhān’ iti pā.|
19. ‘śuktāni’ iti pā.|

cikitsāsthānam - 1/4. āyurvēdasamutthānīyō rasāyanapādaḥ

athāta āyurvēdasamutthānīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


āyurvēdasamutthānīyō nāma rasāyanapādaḥ pāriśēṣyāducyatē| āyurvēdasamutthānamasminnastīti matvarthīyacchapratyayēṇāyurvēdasamutthānīyaḥ||1-2||

r̥ṣayaḥ khalu kadācicchālīnā yāyāvarāśca [1] grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandacēṣṭā nātikalyāśca prāyēṇa babhūvuḥ|
tē sarvāsāmitikartavyatānāmasamarthāḥ santō grāmyavāsakr̥tamātmadōṣaṁ matvā pūrvanivāsamapagatagrāmyadōṣaṁ śivaṁ puṇyamudāraṁ mēdhyamagamyamasukr̥tibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanēkaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣiśiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavamatiśaraṇyaṁ himavantamamarādhipatiguptaṁ jagmurbhr̥gvaṅgirō’trivasiṣṭhakaśyapāgastyapulastyavāmadēvāsitagautamaprabhr̥tayō maharṣayaḥ||3||


r̥ṣīṇāṁ śālīnatvaṁ yāyāvaratvaṁ ca karmaviśēṣaparigrahāt| sampannamanu upayujyanta iti sāmpannikāḥ| nātikalyā iti nātinīrōgāḥ| itikartavyatā vyāpāraḥ| indraparyāyakathanaṁ stutyarthaṁ; stutiścēyamindrasyāyuryēdaprakāśakatvāt||3||

tānindraḥ sahasradr̥gamaragururabravīt- svāgataṁ brahmavidāṁ jñānatapōdhanānāṁ brahmarṣīṇām|
asti nanu vō glāniraprabhāvatvaṁ vaisvaryaṁ vaivarṇyaṁ ca grāmyavāsakr̥tamasukhamasukhānubandhaṁ ca; grāmyō hi vāsō mūlamaśastānāṁ, tat kr̥taḥ puṇyakr̥dbhiranugrahaḥ prajānāṁ, svaśarīramavēkṣituṁ kālaḥ [2] kālaścāyamāyurvēdōpadēśasya brahmarṣīṇām; ātmanaḥ prajānāṁ cānugrahārthamāyurvēdamaśvinau mahyaṁ prāyacchatāṁ, prajāpatiraśvibhyāṁ, prajāpatayē brahmā, prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhamalpatvādalpatapōdamaniyamadānādhyayanasañcayaṁ matvā puṇyatamamāyuḥprakarṣakaraṁ jarāvyādhipraśamanamūrjaskaramamr̥taṁ śivaṁ śaraṇyamudāraṁ bhavantō mattaḥ śrōtumarhatāthōpadhārayituṁ prakāśayituṁ ca prajānugrahārthamārṣaṁ brahma ca prati maitrīṁ kāruṇyamātmanaścānuttamaṁ puṇyamudāraṁ brāhmamakṣayaṁ karmēti||4||
tacchrutvā vibudhapativacanamr̥ṣayaḥ sarva ēvāmaravaramr̥gbhistuṣṭuvuḥ, prahr̥ṣṭāśca tadvacanamabhinananduścēti||5||


asukhānubandhamiti rōgarūpamasukhamanubadhnātītyasukhānubandham [3] | mūlamiti kāraṇam| kr̥taḥ prajānāmanugraha iti grāmē sthitvā āyurvēdōktārōgyasādhanadharmādiprakāśanēna prajānugrahaḥ kr̥ta ēvētyarthaḥ| ayaṁ śabda ubhābhyāṁ kālaśabdābhyāṁ yōjanīyaḥ| prajāpatayē brahmēti cchēdaḥ| prajānāmalpādikamāyurmattvēti yōjanā| alpatvāt ‘āyuṣa’ iti śēṣaḥ| alpastapaḥprabhr̥tīnāṁ sañcayō’smin alpē āyuṣi tat tathā| pratiśabdō maitryādibhiḥ pratyēkaṁ sambadhyatē| athaśabdaścādhikārē| tēna, maitrīkāruṇyādīnyadhikr̥tya yaṁ brahmā prajāpatayē’dāt, tamanuśrōtumarhatēti yōjanā| yadyapi ca r̥ṣayō bharadvājadvārā indrādadhigatāyurvēdāḥ, tathā’pi grāmyavāsakr̥tamanōglānyā na tathā sphuṭārthō vartata iti śaṅkayā punarindrastānupadiśati||4-5||

athēndrastadāyurvēdāmr̥tamr̥ṣibhyaḥ saṅkramyōvāca- ētat sarvamanuṣṭhēyam, ayaṁ ca śivaḥ kālō rasāyanānāṁ, divyāścauṣadhayō himavatprabhavāḥ [4] prāptavīryāḥ; tadyathā- aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, mēdā, mahāmēdā, jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṁ svaravarṇasampadamupacayaṁ mēdhāṁ smr̥timuttamabalamiṣṭāṁścāparān bhāvānāvahanti siddhāḥ||6||
(itīndrōktaṁ rasāyanam)|


mahāśrāvaṇī alambuṣā| aticchatrā madhurikā||6||

brahmasuvarcalā nāmauṣadhiryā hiraṇyakṣīrā puṣkarasadr̥śapatrā, ādityaparṇī nāmauṣadhiryā ‘sūryakāntā’ iti vijñāyatē suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca, nārīnāmauṣadhiḥ ‘aśvabalā’ iti vijñāyatē yā balvajasadr̥śapatrā [5] , kāṣṭhagōdhā nāmauṣadhirgōdhākārā, sarpānāmauṣadhiḥ sarpākārā, sōmō nāmauṣadhirājaḥ pañcadaśaparvā [6] sa sōma iva hīyatē vardhatē ca, padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca, ajā nāmauṣadhiḥ ‘ajaśr̥ṅgī’ iti vijñāyatē, nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahulēti; āsāmōṣadhīnāṁ yāṁ yāmēvōpalabhēta tasyāstasyāḥ svarasasya sauhityaṁ gatvā snēhabhāvitāyāmārdrapalāśadrōṇyāṁ sapidhānāyāṁ digvāsāḥ śayīta, tatra pralīyatē, ṣaṇmāsēna punaḥ sambhavati, tasyājaṁ payaḥ pratyavasthāpanaṁ; ṣaṇmāsēna dēvatānukārī bhavati vayōvarṇasvarākr̥tibalaprabhābhiḥ, svayaṁ cāsya sarvavācōgatāni prādurbhavanti, divyaṁ cāsya cakṣuḥ śrōtraṁ ca bhavati, gatiryōjanasahasraṁ daśavarṣasahasrāṇyāyuranupadravaṁ cēti||7||


brahmasuvarcalāprabhr̥tayō yathōktalakṣaṇā divyauṣadhayō nātiprasiddhāḥ| ādityaparṇī sūryāvartamēva dēśaviśēṣajātaṁ kēcidvarṇayanti| aśvabalēti jñāyata iti r̥ṣibhirēvānēna nāmnā jñāyatē, na laukikaiḥ, lōkāprasiddhatvāt| sōma iva vardhatē hīyata iti yathā sōmavr̥ddhikṣayau, tathā tatkālamēva tasya vr̥ddhikṣayau bhavataḥ| pralīyata iti drutō bhavati, anyē tu mūrcchatīti varṇayanti| pratyavasthāpanamiti āhārasēvāyāṁ yōjyamityarthaḥ| sarvavācōgatāni sarvavākyaviśēṣāḥ||7||

bhavanti cātra-
divyānāmōṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ|
śakyaḥ sōḍhumaśakyastu syāt sōḍhumakr̥tātmabhiḥ||8||
ōṣadhīnāṁ prabhāvēṇa tiṣṭhatāṁ svē ca karmaṇi|
bhavatāṁ nikhilaṁ śrēyaḥ sarvamēvōpapatsyatē||9||
vānaprasthairgr̥hasthaiśca prayatairniyatātmabhiḥ|
śakyā ōṣadhayō hyētāḥ sēvituṁ viṣayābhijāḥ||10||


ētāddivyaṁ rasāyanamr̥ṣibhistadvidhairvā sēvyamiti darśayannāha- divyānāmityādi| viṣayābhijā iti svōcitapuṇyadēśē jātā ityarthaḥ, apuṇyē tu dēśē divyauṣadhijanmaiva na bhavati, bhavantyō’pi nirvīryā bhavantīti bhāvaḥ||8-10||

yāstu [7] kṣētraguṇaistēṣāṁ madhyamēna ca karmaṇā|
mr̥duvīryatarāstāsāṁ vidhirjñēyaḥ sa ēva tu||11||
paryēṣṭuṁ tāḥ prayōktuṁ vā yē’samarthāḥ sukhārthinaḥ|
rasāyanavidhistēṣāmayamanyaḥ praśasyatē||12||


samprati brahmasuvarcalādīnāṁ yathā mr̥duvīryatvaṁ bhavati, tadāha- yāstvityādi| kṣētraguṇairiti himālayādipraśastadēśavyatiriktakṣētradharmaiḥ| tēṣāmiti r̥ṣivyatiriktānāṁ vānaprasthādīnām| madhyamēna ca karmaṇēti asamyakprayōgēṇa; kiṁvā, anatimahatā’dr̥ṣṭēna||11-12||

balyānāṁ jīvanīyānāṁ br̥ṁhaṇīyāśca yā daśa|
vayasaḥ sthāpanānāṁ ca khadirasyāsanasya ca||13||
kharjūrāṇāṁ madhūkānāṁ mustānāmutpalasya ca|
mr̥dvīkānāṁ viḍaṅgānāṁ vacāyāścitrakasya ca||14||
śatāvaryāḥ payasyāyāḥ pippalyā jōṅgakasya ca|
r̥dhdyā nāgabalāyāśca dvāradāyā dhavasya ca||15||
triphalākaṇṭakāryōśca vidāryāścandanasya ca|
ikṣūṇāṁ śaramūlānāṁ śrīparṇyāstiniśasya ca||16||
rasāḥ pr̥thak pr̥thaggrāhyāḥ palāśakṣāra ēva ca|
ēṣāṁ palōnmitān bhāgān payō gavyaṁ caturguṇam||17||
dvē pātrē tilatailasya dvē ca gavyasya sarpiṣaḥ|
tat sādhyaṁ sarvamēkatra susiddhaṁ snēhamuddharēt||18||
tatrāmalakacūrṇānāmāḍhakaṁ śatabhāvitam|
svarasēnaiva dātavyaṁ kṣaudrasyābhinavasya ca||19||
śarkarācūrṇapātraṁ ca prasthamēkaṁ pradāpayēt|
tugākṣīryāḥ sapippalyāḥ sthāpyaṁ sammūrcchitaṁ ca tat||20||
sucaukṣē mārtikē kumbhē māsārdhaṁ ghr̥tabhāvitē|
mātrāmagnisamāṁ tasya tata ūrdhvaṁ prayōjayēt||21||
hēmatāmrapravālānāmayasaḥ sphaṭikasya ca|
muktāvaidūryaśaṅkhānāṁ cūrṇānāṁ rajatasya ca||22||
prakṣipya ṣōḍaśīṁ mātrāṁ vihāyāyāsamaithunam|
jīrṇē jīrṇē ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā||23||
sarvarōgapraśamanaṁ vr̥ṣyamāyuṣyamuttamam|
sattvasmr̥tiśarīrāgnibuddhīndriyabalapradam||24||
paramūrjaskaraṁ caiva varṇasvarakaraṁ tathā|
viṣālakṣmīpraśamanaṁ sarvavācōgatapradam||25||
siddhārthatāṁ cābhinavaṁ vayaśca prajāpriyatvaṁ ca yaśaśca lōkē|
prayōjyamicchadbhiridaṁ yathāvadrasāyanaṁ brāhmamudāravīryam||26||
(itīndrōktarasāyanamaparam)|


balyānāmityādau jōṅgakam aguru| dvāradā śākataruḥ, kapikacchurvā| śrīparṇī gāmbhārī| palāśakṣāraḥ palāśakṣārōdakam| sucaukṣē iti suviśuddhē| agnisamāmiti agnyanurūpām| ṣōḍaśīṁ mātrāmiti āmalakādicūrṇayuktaghr̥tāpēkṣayā ṣōḍaśabhāgō hēmādicūrṇādgrāhyaḥ||13-26||

samarthānāmarōgāṇāṁ dhīmatāṁ niyatātmanām|
kuṭīpravēśaḥ kṣaṇināṁ [8] paricchadavatāṁ hitaḥ||27||
atō’nyathā tu yē tēṣāṁ sauryamārutikō vidhiḥ|
tayōḥ śrēṣṭhataraḥ pūrvō vidhiḥ sa tu suduṣkaraḥ||28||
rasāyanavidhibhraṁśājjāyēran vyādhayō yadi|
yathāsvamauṣadhaṁ tēṣāṁ kāryaṁ muktvā rasāyanam||29||


kuṭīprāvēśikarasāyanaviṣayān vātātapikarasāyanaviṣayāṁśca puruṣānāha- samarthānāmityādi| kṣaṇināmiti kr̥takṣaṇānām| sūryamārutasēvayā’pi kriyata iti sauryamārutikaḥ||27-29||

satyavādinamakrōdhaṁ nivr̥ttaṁ madyamaithunāt|
ahiṁsakamanāyāsaṁ praśāntaṁ priyavādinam||30||
japaśaucaparaṁ dhīraṁ dānanityaṁ tapasvinam|
dēvagōbrāhmaṇācāryaguruvr̥ddhārcanē ratam||31||
ānr̥śaṁsyaparaṁ nityaṁ nityaṁ karuṇavēdinam [9] |
samajāgaraṇasvapnaṁ nityaṁ kṣīraghr̥tāśinam||32||
dēśakālapramāṇajñaṁ yuktijñamanahaṅkr̥tam|
śastācāramasaṅkīrṇamadhyātmapravaṇēndriyam||33||
upāsitāraṁ vr̥ddhānāmāstikānāṁ jitātmanām|
dharmaśāstraparaṁ vidyānnaraṁ nityarasāyanam||34||
guṇairētaiḥ samuditaiḥ prayuṅktē yō rasāyanam|
rasāyanaguṇān sarvān yathōktān sa samaśnutē||35||
(ityācārarasāyanam)|


sāmānyēna rasāyanaviṣayapuruṣaguṇānāha- satyavādinamityādi| karuṇayā sattvāni paśyatīti karuṇavēdī| asaṅkīrṇaḥ asaṅkīrṇabhōjī [10] | nityaṁ [11] rasāyanaprayōgō yasya sa nityarasāyanaḥ||30-35||

yathāsthūlamanirvāhya dōṣāñchārīramānasān|
rasāyanaguṇairjanturyujyatē na kadācana||36||
yōgā hyāyuḥprakarṣārthā jarārōganibarhaṇāḥ|
manaḥśarīraśuddhānāṁ sidhyanti prayatātmanām||37||
tadētanna bhavēdvācyaṁ sarvamēva hatātmasu|
arujēbhyō’dvijātibhyaḥ [12] śuśrūṣā yēṣu nāsti ca||38||


manaḥśuddhyaiva prayatātmatāyāṁ labdhāyāṁ punastadabhidhānamitaramānasaguṇēṣu prayatātmatāyā abhyarhitatōpadarśanārtham| arujēbhyō’dvijātibhyō yēṣu ca puruṣēṣu śuśrūṣā nāsti tēṣu caitanna vācyamiti yōjanā||36-38||

yē rasāyanasaṁyōgā vr̥ṣyayōgāśca yē matāḥ|
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam||39||
prāṇācāryaṁ budhastasmāddhīmantaṁ vēdapāragam|
aśvināviva dēvēndraḥ pūjayēdatiśaktitaḥ||40||
aśvinau dēvabhiṣajau yajñavāhāviti smr̥tau|
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam||41||
praśīrṇā daśanāḥ pūṣṇō nētrē naṣṭē bhagasya ca|
vajriṇaśca bhujastambhastābhyāmēva cikitsitaḥ||42||
cikitsitaśca śītāṁśurgr̥hītō rājayakṣmaṇā|
sōmābhipatitaścandraḥ kr̥tastābhyāṁ punaḥ sukhī||43||
bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ|
vītavarṇasvarōpētaḥ kr̥tastābhyāṁ punaryuvā||44||
ētaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau|
babhūvaturbhr̥śaṁ pūjyāvindrādīnāṁ mahātmanām||45||
grahāḥ stōtrāṇi mantrāṇi tathā [13] nānāhavīṁṣi ca|
dhūmrāśca [14] paśavastābhyāṁ prakalpyantē dvijātibhiḥ||46||
prātaśca savanē sōmaṁ śakrō’śvibhyāṁ sahāśnutē|
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha mōdatē||47||
indrāgnī cāśvinau caiva stūyantē prāyaśō dvijaiḥ|
stūyantē vēdavākyēṣu na tathā’nyā hi dēvatāḥ||48||
ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ|
pūjyētē prayatairēvamaśvinau bhiṣajāviti||49||
mr̥tyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ|
kiṁ punarbhiṣajō martyaiḥ pūjyāḥ syurnātiśaktitaḥ||50||
śīlavānmatimān yuktō dvijātiḥ [15] śāstrapāragaḥ|
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smr̥taḥ||51||


samprati rasāyanādisiddhirvaidyādhīnā, tēna vaidyastutimārabhatē- ya ityādi| prāṇācāryamityatra ‘prāṇivaryaṁ’ iti vā pāṭhaḥ; tatra prāṇināṁ varyaḥ śrēṣṭhaḥ prāṇivaryaḥ| yajñaṁ vahata iti yajñavāhau| ētadyajñavāhatvamēva darśayati- dakṣasya hītyādi| pūṣṇaḥ sūryasya, bhagō’pi sūryabhēdaḥ| sōmābhipatita iti sōmābhipatanayōgēna pīḍita ityarthaḥ; ‘sōmātipacita’ iti vā pāṭhaḥ, tatrāpyatipacanēna sōmapānātiyōgaṁ darśayati| grahāḥ sōmapānapātrāṇi| stōtrāṇi stavāḥ stāvakavā(r̥)caḥ; śastrāṇīti kēcit, saṁśasyatē’nēnēti kr̥tvā sāmar̥gvyatiriktaṁ stōtramāhuḥ; śastrāṇi astrāṇyēva, vaṣaṭyuktāni śastrāṇi ca yajñē kalpyanta ēva| dhūmrāśca paśava iti dhūmravarṇapaśavaḥ; ēvaṁvarṇāśca paśavaḥ śrēṣṭhā bhavanti| savana iti yajñasthānē| sautrāmaṇī yajñaviśēṣaḥ| atiśaktita iti nijaśaktērapyatirēkēṇa||39-51||

vidyāsamāptau bhiṣajō [16] dvitīyā jātirucyatē|
aśnutē vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā||52||
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā|
dhruvamāviśati jñānāttasmādvaidyō [17] dvijaḥ smr̥taḥ||53||
nābhidhyāyēnna cākrōśēdahitaṁ na samācarēt|
prāṇācāryaṁ budhaḥ kaścidicchannāyuranitvaram||54||


vaidyaśabdadvijaśabdayōḥ pravr̥ttinimittamāha- vidyētyādi| tēna vidyāyōgād vaidyatvaṁ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṁ bhavatītyuktaṁ bhavati| brāhmaṁ vā ārṣaṁ vā iti vikalpō vaidyaviśēṣābhiprāyādbhavati [18] ; tayōryō naiṣṭhikacikitsārthastasya brāhmam, itarasya tu lōkānugrāhiṇa ārṣamiti vyavasthā||52-54||

cikitsitastu saṁśrutya [19] yō vā’saṁśrutya mānavaḥ|
nōpākarōti vaidyāya nāsti tasyēha niṣkr̥tiḥ||55||
bhiṣagapyāturān sarvān svasutāniva yatnavān|
ābādhēbhyō hi saṁrakṣēdicchan dharmamanuttamam||56||
dharmārthaṁ cārthakāmārthamāyurvēdō [20] maharṣibhiḥ|
prakāśitō dharmaparairicchadbhiḥ sthānamakṣaram||57||
nārthārthaṁ nāpi kāmārthamatha bhūtadayāṁ prati|
vartatē yaścikitsāyāṁ sa sarvamativartatē||58||
kurvatē yē tu vr̥ttyarthaṁ cikitsāpaṇyavikrayam|
tē hitvā kāñcanaṁ rāśiṁ pāṁśurāśimupāsatē||59||
dāruṇaiḥ kr̥ṣyamāṇānāṁ gadairvaivasvatakṣayam|
chittvā vaivasvatān pāśān jīvitaṁ yaḥ prayacchati||60||
dharmārthadātā sadr̥śastasya nēhōpalabhyatē|
na hi jīvitadānāddhi dānamanyadviśiṣyatē||61||
parō bhūtadayā dharma iti matvā cikitsayā|
vartatē yaḥ sa siddhārthaḥ sukhamatyantamaśnutē||62||


saṁśrutyēti pratijñāya| cikitsaiva paṇyaṁ vikrētavyamiti cikitsāpaṇyam| tē hitvētyādau dharmārthaṁ kriyamāṇacikitsā mahāphalatvēna kāñcanarāśitulyā, itarā tvasārakalpā pāṁśurāśitulyā| vaivasvatakṣayamiti yamagr̥ham||55-62||

tatra ślōkau-
āyurvēdasamutthānaṁ divyauṣadhividhiṁ śubham|
amr̥tālpāntaraguṇaṁ siddhaṁ ratnarasāyanam||63||
siddhēbhyō brahmacāribhyō yaduvācāmarēśvaraḥ|
āyurvēdasamutthānē tat sarvaṁ samprakāśitam||64||


saṅgrahē ratnarasāyanamiti hēmādiratnasaṁyuktaṁ rasāyanam| āyurvēdasamutthānē prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyō’marēśvaraḥ, tat samprakāśitamiti yōjanā||63-64||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsitasthānē rasāyanādhyāyē āyurvēdasamutthānīyō nāma rasāyanapādaścaturthaḥ||4||
samāptaścāyaṁ rasāyanādhyāyaḥ||1||


iti śrīcakrapāṇidattaviracitāyāmāyurvēdadīpikāyāṁ carakatātparyaṭīkāyāṁ rasāyanādhyāyē āyurvēdasamutthānīyō nāma rasāyanapādaścaturthaḥ||4||

1. ‘śālāpravēśamarhantīti śālīnāḥ| gr̥haṁ nirmāya ēkatra kr̥tāvasthānāḥ| yāyāvarāḥ punaḥ punargamanaśīlāḥ| arthādisampattyā sampannā ēva sāmpannikāḥ’ iti yōgīndranāthasēnaḥ|
2. ‘svaśarīramarakṣibhiḥ, kālaścāyaṁ’ iti pā.|
3. ‘rōgarūpamanarthamanubadhnātītyasukhānubandham’ iti pā.|
4. ‘himavataḥ prabhāvāt’ iti pā.|
5. ‘punarajasadr̥śapatrā’ iti pā.|
6. ‘pañcadaśaparṇaḥ’ iti pā.|
7. ‘tāstu’ iti pā.|
8. ‘kṣamiṇāṁ iti pā.|
9. ‘kāruṇyavēdinam’ iti pā.|
10. ‘asaṅkīrṇaḥ kulajaḥ’ iti pā.|
11. ‘nityaṁ yōgēna’ iti pā.|
12. ‘arajōbhyaḥ’ iti, ‘ajarēbhyaḥ’ iti ca pā.|
13. ‘tathā’nyāni havīṁṣi ca’ iti pā.|
14. ‘dhūmāśca’ iti pā.|
15. ‘trijātiḥ’ iti pā.|
16. ‘bhiṣajastr̥tīyā’ iti pā.|
17. ‘vaidyastrijaḥ’ iti pā.| ‘prathamā jātiḥ mātr̥garbhatō janma, dvitīyā jātirupanayanāt, tr̥tīyā tu vaidyavidyāsamāptau| ataḥ śāstrapāragō vaidyaḥ vidyāsamāptilakṣaṇatr̥tīyajanmanā trija ucyatē’ iti yōgīndranāthasēnaḥ|
18. ‘vaidyābhiprāyaviśēṣādbhavati’ iti pā.|
19. ‘yō mānavō vaidyēna cikitsitō rōgamuktaḥ san vaidyaṁ saṁśrutya pratiśrutya pratijñāya asaṁśrutya vā nōpākarōti dhanādikaṁ na dadāti iha lōkē paratrāpi ca tasya niṣkr̥tiḥ nistārō nāsti’ iti yōgīndranāthasēnaḥ|
20. ‘nārthakāmārthaṁ’ iti pā.|