Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
चिकित्सास्थानम् - २८. वातव्याधिचिकित्सितम्
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
ऊरुस्तम्भभेषजेन विरूक्षणाद्वातप्रकोपो भवतीति सम्बन्धादूरुस्तम्भानन्तरं वातव्याधिचिकित्सितमुच्यते| तत्र वात एव व्याधिर्वातव्याधिरिति पक्षे वात एव तत्तद्दूष्यसम्प्राप्तः सर्वाङ्गैकाङ्गरूपतामापन्नो विविधपीडाकर्तृत्वाद्वातव्याधिरुच्यते; यदा तु वाताद्व्याधिर्वातव्याधिरिति पक्षस्तदा वातदोषाद् दोषदूष्यसम्मूर्च्छनविशेषरूपः सर्वाङ्गैकाङ्गरूपो व्याधिर्वातव्याधिरुच्यते| ज्वरादयस्तु यद्यपि वातादुत्पद्यन्ते, तथाऽपि ते दोषान्तरेणापि वातं विना भवन्तीति कृत्वा नात्र शास्त्रे वातव्याधिशब्देनोच्यन्ते [१] | येऽपि चात्र कफपित्तावृतवातविकारा वातव्याधित्वेन वक्तव्याः, तेऽपि प्रधानं वातं विना न भवन्तीति कृत्वा वातव्याधिरूपा एव| न च वाच्यं यथा वातिका नानात्मजा व्याधयः पृथक् चिकित्सयोच्यन्ते, तथा पित्तजाः कफजाश्च चिकित्स्यन्तामिति; यतः पित्तकफकृतानां नानात्मजानां व्याधीनां न तथा प्राधान्यं यथा वातजानां; तेन वातजानामेवाविष्कृततमानां पृथक् चिकित्सोच्यते, कफपित्तजानां त्वाविष्कृतानां वमनविरेचनादिका कफपित्तचिकित्सेति ज्ञेयम्||१-२||
वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम्|
वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः||३||
वायोर्विकारान् ज्ञापयितुं स्वभावज्ञानानन्तरीयकत्वाद्विकृतिज्ञानस्य स्वभावमेव तावदाह- वायुरित्यादि| यद्यपि शरीरेन्द्रियसत्त्वात्मसंयोग आयुः, तथाऽपि तादृशसंयोगे प्रधानत्वात् प्रकृतिस्थो वायुरप्यायुरुच्यते| एवं बलस्यापि हेतुर्वायुरिति कृत्वा शरीराधारतया बलाधारहेतुर्वायुरेव बलमित्युक्तः| विश्वता प्रभुता च वायोर्वातकलाकलीये प्रतिपादितैव||३||
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः|
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम्||४||
वायोरायुर्हेतुत्वं दर्शयन्नाह- अव्याहतेत्यादि| अव्याहतगतिः अपरित्यक्तस्वमार्गः [२] | स्थानस्थ इति न विमार्गः| प्रकृतौ स्थित इति अक्षीणवृद्धः| वीतरोग इति नीरोगः||४||
प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा|
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन्||५||
स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः [३] |
ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च||६||
उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च|
वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च||७||
स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः|
अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः||८||
देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम्|
गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा||९||
वृषणौ बस्तिमेढ्रं च नाभ्यूरू वङ्क्षणौ गुदम्|
अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति [४] च||१०||
सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते|
स्वकर्म कुर्वते देहो धार्यते तैरनामयः||११||
प्राणोदानेत्यादिना व्यवहारार्थं सञ्ज्ञोपदर्शनपूर्वकं प्राणादीनां स्थानं कर्म चाह| देहं तन्त्रयते इति धारयते| स्थानेष्विति वक्ष्यमाणात्मीयस्थानेषु| आहारादीत्यत्र आदिग्रहणादन्नविधारणादीनि गृह्यन्ते| कर्म चेति प्राणस्य वायोरित्यर्थः| प्राणोदानयोर्यद्यपि समानमुरःस्थानं, तथाऽपि कर्मभेदाद्भेद एव; यथैकगृहस्थितमालाकारकुम्भकारयोः| प्रयतनं प्रयत्नः, ऊर्ज उत्साहः; प्रयत्नादिकर्मत्वेन प्रयत्नौर्जोबलवर्णनिष्पादनमुच्यते| स्वेददोषाम्बुवाहीनीत्यादौ स्वेदवाहीनि तथा अम्बुवाहीनि च स्रोतांसि स्रोतोविमाने (वि.अ.५) पृथगेवोक्तानि ज्ञेयानि, दोषवहानि च स्रोतांसि सर्वशरीरचराण्येव, उक्तं हि “वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वस्रोतांस्ययनभूतानि” (वि.अ.५) इति| गतीत्यादौ आदिशब्देनाकुञ्चनप्रसारणादीनां च ग्रहणम्| अन्त्रस्थ इति अन्त्राणि चापानस्थानमित्यर्थः| सृजतीति निःसारयतीति यावत्| आर्तवगर्भौ च सृजतीति सम्बन्धः| एतानि कर्माणि यादृशाः कुर्वन्ति तदाह- युक्ता इत्यादि; युक्ता इति अव्यापन्नाः| स्थानस्थिता इति यथोक्तस्थानस्थिताः| यस्मादेवम्भूता अतो देहो धार्यते तैरनामयः||५-११||
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः|
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च||१२||
सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः|
अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः||१३||
तानुच्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु|
केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम्||१४||
वातानां वैगुण्यकार्यमाह- विमार्गस्था इत्यादि| स्वस्थानकर्मजैरिति यस्य वायोर्यत् स्थानमुक्तं तत्स्थानगतैः, तथा ष्ठीवनादि यद्वायोः कर्मोक्तं तज्जैश्च रोगैः शरीरं पीडयन्ति प्राणान् वा महता रोगेण हरन्ति च| अत्र च वायोरेव भूरिप्रधानरोगकर्तृतया भिन्नचिकित्साप्रयोजकाः पञ्चभेदा उक्ता न पित्तकफयोः, अनतिप्रयोजनत्वात्| तथा हि तन्त्रान्तरे पित्तमपि पाचक-रञ्जक-साधकालोचक-भ्राजकभेदात् पञ्चविधमुक्तं; तेषां च यथाक्रमं जठरहृदयदृष्टित्वक्स्थानत्वमुक्तं; तथा श्लेष्माऽपि बोधक-श्लेष्मक-तर्पकावलम्बक क्लेदकभेदात् पञ्चविधः, तेषां च स्थानानि यथाक्रमं हृदयामाशयजिह्वाशिरः सन्धयः, कर्माणि च यथाक्रममवलम्बन-क्लेदन-रसबोधनाक्षतर्पण-सन्धिसंश्लेषाणि पृथगुक्तानि| प्रकृतवातव्याधिकथनायात्र सङ्ख्यादिनिर्देशः| तज्जानामिति पञ्चवातजानाम्| सूत्रे इति महारोगाध्याये (सू.अ.२०)| उच्यमानानिति नखभेदादीन् यथास्थूलमुच्यमानान्| पर्यायैरिति सञ्ज्ञान्तरैः| कथं पुनस्तेऽशीतिनखभेदाद्या उपदिष्टाः? उच्यते- केवलं वायुमुद्दिश्य केचिद्गदा वेपथ्वादय उक्ताः, तथा चावृतं वातमुद्दिश्य केचिदुक्ताः “लिङ्गं पित्तावृते दाहस्तृष्णा” इत्यादिना||१२-१४||
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः|
विषमादुपचाराच्च दोषासृक्स्रवणादति||१५||
लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः|
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात्||१६||
दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि|
वेगसन्धारणादामादभिघातादभोजनात्||१७||
मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात्|
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली||१८||
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान्|१९|
सम्प्रति निदानमाह- रूक्षेत्यादि| विषमादुपचारादिति उपचारवैरूप्यात्| दोषासृगित्यादौ दोषशब्देन पुरीषमपि गृह्यते| अपतंसनं गजादिभ्यः पतनं, किंवा अवतंसनं धातूनां कर्षणम्; उक्तं हि खरनादे- “विलिखत्यतितैक्ष्ण्याद्यत् स्मृतमुल्लेखनं हि तत्| विकर्षत्यतिधातून् यत्तच्चोक्तमव(प)तंसनम्” इति| रिक्तानीति तुच्छानि, स्नेहादिगुणशून्यानीत्यर्थः||१५-१८||-
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम्||१९||
आत्मरूपं तु तद्व्यक्तमपायो लघुता पुनः|२०|
अव्यक्तं लक्षणमित्यादिना पूर्वरूपमाह [५] | आत्मरूपमिति वर्तमानरोगरूपम्| अपायो [६] लघुता पुनरिति वातव्याधीनामपायोऽपगमनं शरीरस्य लघुता वातव्याधिलिङ्गविगमेन, शरीरकल्यतेति यावत्; किंवा अपायो लघुता न सर्वथा वातलिङ्गाभावः, येन प्रकृतलिङ्गानि सन्त्येव||१९||-
सङ्कोचः पर्वणां स्तम्भो भेदोऽस्थ्नां पर्वणामपि||२०||
लोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः|
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता||२१||
गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता|
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्||२२||
भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च|
एवंविधानि रूपाणि करोति कुपितोऽनिलः||२३||
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत्|२४|
कुपितानां कार्यमाह- सङ्कोच इत्यादि| एते च सङ्कोचादयो व्याधयोऽपि भवन्ति; उक्तं हि- “व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः” (नि.अ.८) इति| हुण्डनं शिरःप्रभृतीनामन्तःप्रवेशः; अन्ये तु केशभूमिस्फुटनं शङ्खललाटभेदश्च शिरोहुण्डनं, नासाहुण्डनं घ्राणनाशः, अक्षिहुण्डनम् अक्षिव्युदासः, जत्रुहुण्डनं वक्षोपरोधः, ग्रीवाहुण्डनं ग्रीवास्तम्भः| वातव्याधिविशेषोत्पादे हेतुमाह- हेतुस्थानविशेषादित्यादि| हेतुविशेषः पित्तावरणादिः, स्थानविशेषः कोष्ठादिः, किंवा हेतुकृतः स्थानविशेषः; उक्तं हि- “प्रकुपितास्तु प्रकोपणविशेषाद् दूष्यविशेषान् दूषयन्तः” (वि.अ.६) इत्यादि| केचित्तु ‘देहे स्थानविशेषाच्च’ इति पठन्ति||२०-२३||-
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः||२४||
ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते|
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने||२५||
वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः|
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः||२६||
जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ [७] गुदस्थिते|
हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिकाः||२७||
कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते|
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च||२८||
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्|
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः||२९||
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते|
आतन्यते सरागा च पर्वरुक् त्वक्स्थितेऽनिले||३०||
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः|
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले||३१||
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं तथा|
सरुक् श्रमितमत्यर्थं [८] मांसमेदोगतेऽनिले||३२||
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः|
अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले||३३||
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा|
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः||३४||
बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च|
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः||३५||
शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा|
सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते||३६||
वातपूर्णदृतिस्पर्शः शोथः सन्धिगतेऽनिले|
प्रसारणाकुञ्चनयोः प्रवृत्तिश्च [९] सवेदना||३७||
(इत्युक्तं [१०] स्थानभेदेन वायोर्लक्षणमेव च)|३८|
स्थानविशेषकृतमेव व्याधिभेदमाह- तत्र कोष्ठाश्रिते इत्यादि| सर्वाङ्गकुपिते इति कृत्स्नदेहकुपिते| गुदस्थिते इति उत्तरगुदस्थिते| आतन्यते विस्तार्यते| भुक्तस्य स्तम्भ इति भुक्तवतो गात्रस्तम्भो भवतीति| गुर्वङ्गमित्यादि मांसगे मेदेगे च लक्षणं समानं, तथा भेदोऽस्थिपर्वणामित्यादि अस्थिमज्जगयोः समानं लक्षणम्| समानेऽपि लक्षणे विविधाशितपीतीयोक्तविशिष्टधातुलक्षणैर्विशेष उन्नेयः| सन्ततेति सानुबन्धा [११] | क्षिप्रं मुञ्चति बध्नातीति व्यवायकाले क्षिप्रं मुञ्चति वा चिरं धारयते, तथा गर्भमपि क्षिप्रं मुञ्चति वा चिरं धारयति| विकृतमिति व्यङ्गत्वादिनानाविकारयुक्तं गर्भं जनयति| बाह्येत्यादिना स्नायुगतवातलक्षणत्वेनोक्तानि बहिरायामादीन्यग्रे वक्तव्यानि [१२] | मन्दरुक्शोफमिति मन्दरुजं मन्दशोफं च| सुप्ता इति निःस्पन्दाः||२४-३७||-
अतिवृद्धः शरीरार्धमेकं वायुः प्रपद्यते|
यदा तदोपशोष्यासृग्बाहुं पादं च जानु च||३८||
तस्मिन् सङ्कोचयत्यर्धे मुखं जिह्मं करोति च|
वक्रीकरोति नासाभ्रूललाटाक्षिहनूस्तथा||३९||
ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकम् [१३] |
स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते||४०||
दीना जिह्मा समुत्क्षिप्ता कला [१४] सज्जति चास्य वाक्|
दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः||४१||
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् [१५] |
अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम्||४२||
इदानीमतिबलान् वातविकारानभिधातुमुद्यतोऽर्दितमाह- अतिवृद्ध इत्यादि| अतिवृद्धग्रहणेन वायोर्बलवत्प्रकोपमाह| एकमिति वामं दक्षिणं वा सङ्कोचयति बाहुं, पादं, जानु च; वक्रं च जिह्मं करोति| वक्रं व्रजति भोजनमिति न समं मुखेन खादति, किन्तु वक्रैकदेशेन| दीनेति अगम्भीरा| जिह्मेति कुटिला| समुत्क्षिप्तेति अतित्वरिता| कलेति अव्यक्ता| बाध्येते श्रवणाविति यद्यपि एकपार्श्वाश्रयो विकारोऽयं, तथाऽपि प्रभावात् कर्णयोर्बाधाऽत्र भवति| केवल इति अर्धे एव न कृत्स्ने| ननु यदा देहार्धव्यापित्वमर्दितस्य तदाऽर्दितेन अर्धाङ्गस्य को भेदः? ब्रूमः-अर्दितो वेगितया न सर्वकालं भवति, अर्धाङ्गस्तु सर्वकालं व्याप्य भवति; उक्तं हि- “स्वस्थः स्यादर्दितादीनां मुहुर्वेगागमे गते” इति| किंवा यथोक्तविशिष्टलक्षणोऽर्दितः, अर्धाङ्गे तु नैतानि सर्वाणि भवन्ति||३८-४२||
मन्ये संश्रित्य वातोऽन्तर्यदा नाडीः प्रपद्यते|
मन्यास्तम्भं तदा कुर्यादन्तरायामसञ्ज्ञितम्||४३||
अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम्|
दन्तानां दंशनं लाला पृष्ठायामः [१६] शिरोग्रहः||४४||
जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम्|
(इत्युक्तस्त्वन्तरायामो [१७] …|४५|
मन्ये इत्यादिना अन्तरायाममाह| अन्तर्यदा नाडीः प्रपद्यते इति मन्यासम्बद्धा एव अन्तर्गताः सिराः प्रपद्यत इत्यर्थः| अन्तरायामसञ्ज्ञितमिति एवंविधो मन्यास्तम्भ अन्तरायाम उच्यते; अपरस्तु मन्यास्तम्भो वक्ष्यमाणबहिरायाम इति वक्तव्यः| तन्त्रान्तरे तु मन्यास्तम्भ आयामयोः पूर्वरूपत्वेनोक्तः| अन्तरायम्यत इति अन्तः [१८] आकृष्यते| पृष्ठायाम इति पृष्ठबहिर्निर्गतिः||४३-४४||-
…बहिरायाम उच्यते)||४५||
पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली|
वायुः कुर्याद्धनुस्तम्भं बहिरायामसञ्ज्ञकम्||४६||
चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः|
उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते||४७||
दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रहः|
जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति||४८||
पृष्ठेत्यादि बहिरायामलक्षणम्| पृष्ठमन्याश्रिता इति पृष्ठानुगतमन्यासम्बद्धाः| बाह्या इति सिराविशेषणम्| बाह्याश्च सिराः पृष्ठगता एव| केचित्तु पृष्ठमन्याश्रित इति वातविशेषणं पठन्ति| पृष्ठतो नीयते इति पृष्ठं प्रति आकृष्यते| जातवेग इति उद्वेगः [१९] | एतौ चायामौ “बाह्याभ्यन्तरमायामं खल्लीं कुब्जत्वमेव च| सर्वैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः” इत्यनेन स्नायुगतानिलजन्यावुक्तौ, इह च सिरागतवातजन्यत्वेनोक्तौ, तेनोभयवचनात् सिरास्नायुगतवातजन्यावेव भवतः| उक्तं ह्यन्यत्र- “महाहेतुर्बली वायुः सिराः सस्नायुकण्डराः| मन्यापृष्ठाश्रिता बाह्याः संशोष्यायामयेद्बहिः” इत्यादि||४५-४८||
हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू|
विवृतास्यत्वमथवा कुर्यात् [२०] स्तब्धमवेदनम्||४९||
हनुग्रहं च संस्तभ्य हनुं(नू)संवृतवक्रताम्|५०|
हनुस्तम्भसङ्कोचयोर्लक्षणमाह- हनुमूले स्थित इत्यादि| संस्रयतीति च्यावयति| विवृतास्यत्वमथवेति अत्राथवाशब्देन संवृतवक्त्रता पाक्षिकी चापेक्षते| संस्तभ्येति निश्चलीकृत्य संवृतमुखतां करोति| एतद्द्वयमपि हनुस्तम्भ एव||४९||-
मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपकोऽनिलः||५०||
पाणिपादं च संशोष्य सिराः सस्नायुकण्डराः|५१|
मुहुरित्यादि आक्षेपलक्षणम्||५०||-
पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः||५१||
दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः|५२|
पाणिपादं च संशोष्येत्यादि दण्डाक्षेपकसम्प्राप्तिकथनम्| पाणिपादशिर इत्यादि दण्डकलक्षणम्||५१||-
स्वस्थः स्यादर्दितादीनां मुहुर्वेगे [२१] गतेऽगते||५२||
पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत्|५३|
अर्दितादीनां दण्डकान्तानां समानं रूपमाह- स्वस्थः स्यादित्यादि| अर्दितहनुस्तम्भादिषु यत्र मुहुर्मुहुर्वेगित्वं दृश्यते तदर्दितान्तर्गतमेव ज्ञेयम्||५२||-
हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा||५३||
कुर्याच्चेष्टानिवृत्तिं हि रुजं वाक्स्तम्भमेव [२२] च|
गृहीत्वाऽर्धं शरीरस्य सिराः स्नायूर्विशोष्य च||५४||
पादं सङ्कोचयत्येकं हस्तं वा तोदशूलकृत्|
एकाङ्गरोगं तं विद्यात् सर्वाङ्गं [२३] सर्वदेहजम्||५५||
हत्वैकमित्यादि पक्षवधलक्षणम्| गृहीत्वाऽर्धमित्यादि एकाङ्गलक्षणम्| सर्वाङ्गं सर्वदेहजमिति सर्वाङ्गलक्षणम्||५३-५५||
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्|
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः||५६||
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता|
खल्ली तु पादजङ्घोरुकरमूलावमोटनी||५७||
स्फिक्पूर्वेत्यादि| प्रथमं स्फिचं स्तम्भरुक्तोदैर्गृह्णाति, पश्चात्तु [२४] कटिपृष्ठोरुजानुजङ्घापदं गृह्णाति सा गृध्रसी वातात्; वातकफात्तु सा पूर्वोक्तलक्षणा [२५] सती तन्द्राद्यन्विता भवति; एवं गृध्रसीद्वयं “द्वे गृध्रस्यौ वाताद् वातकफाच्च” (सू.अ.१९) इत्यनेनोक्तं विवृतं भवति||५६-५७||
स्थानानामनुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत्|५८|
अनुक्तनखभेदादिपरिग्रहार्थमाह- स्थानानामित्यादि| शेषान् नखभेदादीन् नखगुल्फादीनामनुरूपैर्लिङ्गैर्भेदशूलादिभिर्निर्दिशेदिति ज्ञेयम्| किचित् ‘स्थाननामानुरूपैः’ इति पठन्ति| तत्र नखस्थानानुरूपं भेदसञ्ज्ञानुरूपं च लिङ्गं नखस्फुटनरूपं भवति| एवं चापरवातविकारेष्वपि महारोगोक्तेषु स्थानानुरूपलिङ्गयोगोऽनुसर्तव्यः|५८|-
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत्||५८||
वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च (वा)|
वातपित्तकफा देहे सर्वस्रोतोऽनुसारिणः||५९||
वायुरेव हि सूक्ष्मत्वाद्द्वयोस्तत्राप्युदीरणः [२६] |
कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान्||६०||
करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत्|६१|
वातस्य पित्तादिसंसर्गं ज्ञापयन्नाह- सर्वेष्वित्यादि| पित्ताद्यैरिति पित्तकफरक्तपुरीषादिभिः| अथावृतस्य वायोः कथं कुपितत्वं भवति यावता आवृतो दुर्बल एव भवतीत्याह- वायोरित्यादि| धातुक्षयादिति सारक्षयात्| मार्गावरणेन वेगप्रतिबन्धादेव कुपितो भवति| अथ भवतु मार्गरोधाद्वातकोपः, आवरकेण तु पित्तेन कफेन चास्य कथं न सम्बन्धो भवतीत्याह- वातपित्तेत्यादि| त्रितयमेलकेऽपि वायोः प्राधान्यमाह- वायुरेव हि सूक्ष्मत्वादिति; सूक्ष्ममार्गानुसारितया प्रेरकत्वात्| तस्मात् त्रिष्वपि दोषेषु वायुरेवोक्तन्यायेन प्रधानम्, अतः कुपितः पित्तकफौ समुद्धूय ताभ्यामावृतमार्गोऽपि तत्र तत्र प्रदेशे गदान् करोति; तथा रसादींश्च तत्र तत्र क्षिपन् संशोषयेत्||५८-६०||-
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [२७] ||६१||
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता|
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्||६२||
लङ्घनायासरूक्षोष्णकामिता च कफावृते|
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम्||६३||
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च|
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा||६४||
हर्षः पिपीलिकानां च सञ्चार इव मांसगे|
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा||६५||
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः|
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति||६६||
सम्भज्यते सीदति च सूचीभिरिव तुद्यते|
मज्जावृते विनामः [२८] स्याज्जृम्भणं परिवेष्टनम्||६७||
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम्|
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे||६८||
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले|
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले||६९||
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति|
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः||७०||
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत्|
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः||७१||
अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले|७२|
आवरणकृतं वातकोपं दर्शयित्वा आवरणविशेषकृतं लिङ्गमाह- लिङ्गं पित्तावृते इत्यादि| कट्वाद्युपशय इति कटूष्णादिकफविपरीतैरुपशयः| अधिकमिति वातहरैरप्युपशयो नाधिको भवतीति दर्शयति| मांसगे इति मांसावृते| मांसगतस्य रक्तादिगतस्य च वातस्य पूर्वमेव लक्षणमुक्तम्, इह तु रक्ताद्यावृतस्य लक्षणमुच्यत इति विशेषः| आढ्यवातेति आयुर्वेदसञ्ज्ञेयं मेदसाऽऽवृतवातस्य| स्वस्थाने इति पक्वाशये| परिकृन्तति परिकर्तिकां जनयति||६१-७१||-
सन्धिच्युतिर्हनुस्तम्भः [२९] कुञ्चनं कुब्जताऽर्दितः||७२||
पक्षाघातोऽङ्गसंशोषः [३०] पङ्गुत्वं खुडवातता|
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये||७३||
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा|
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान्||७४||
साध्यासाध्यविभागमाह- सन्धिच्युतिरित्यादि| अत्र कुब्जत्वपङ्गुत्वादयो यद्यपि साक्षान्न प्रपञ्चितास्तथाऽपि शेषातिदेशेनैव तल्लक्षणं ज्ञेयम्| खुडवातता गुल्फवातता, किंवा सन्धिगतवातता| मज्जास्थिगा इति मज्जास्थ्यावृतमज्जास्थिगतवातजन्या इत्यर्थः| स्थानस्य गाम्भीर्यादिति गम्भीरस्थानाश्रितत्वात्; अन्ये तु गाम्भीर्यं कृतास्पदत्वमाहुः| यत्नात् सिध्यन्ति वा नवेति पाक्षिकसिद्धिवचनमितरवैद्याभिप्रायेण ज्ञेयम्; आचार्यस्तु आचार्यप्रख्यो वा वैद्यः साधयत्येव बलात्, इतरवैद्यस्तु नावश्यं सर्वत्राव्याहतज्ञानो भवति, तेन संशयाभिधानं; ततश्च न पारमार्थिकी सन्दिग्धता एतादृशानां साध्यतां प्रतीति ज्ञेयम्| नवानामप्येषां निरुपद्रवतया साध्यतामाह- नवानित्यादि| उपद्रवाश्चात्र शृङ्गग्राहिकयाऽनुक्ता अपि सामान्योपद्रवलक्षणयुक्ता एव केचिद्गदा विज्ञेयाः; किंवा अध्यायशेषे ‘हृद्रोगो विद्रधिः’ इत्यादिना वक्ष्यमाणा उपद्रवा ज्ञेयाः||७२-७४||
क्रियामतः परं सिद्धां वातरोगापहां शृणु|
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत्||७५||
वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः|
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः||७६||
यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः|
पायसैः कृशरैः साम्ललवणैरनुवासनैः||७७||
नावनैस्तर्पणैश्चान्नैः [३१] सुस्निग्धं स्वेदयेत्ततः|
स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः||७८||
तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत्|
स्नेहाक्तं [३२] स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा||७९||
शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत्|
हर्षतोदरुगायामशोथस्तम्भग्रहादयः||८०||
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते|
स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः||८१||
बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत्|
असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत्||८२||
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः|८३|
अवसरप्राप्तां क्रियामाह- क्रियामत इत्यादि| केवलमित्यादौ केवलमिति असंसृष्टम्| निरुपस्तम्भमिति अनावृतम्| कैः? स्नेहैः| कथं चोपाचरेदित्याह- सर्पिर्वसातैलमज्जपानैरिति| स्नेहपानप्रयोगानन्तरं कर्तव्यमाह- नरं ततः स्नेहक्लान्तमित्यादि| स्नेहक्लान्तमिति स्नेहपानोद्विग्नं स्नेहग्लानं च| समाश्वास्येति विश्रमयित्वा [३३] | स्नेहयेदितिपदं तर्पणैः पानैरित्यन्तं यावदनुवर्तते| अन्यैरिति कुटीभूस्वेदादिभिः| यथायोगमिति सर्वथा स्नेहपूर्वकस्वेदम्| स्नेहपूर्वकस्वेदगुणमाह- स्नेहाक्तं स्विन्नमित्यादि| स्वेदाध्याये “स्नेहपूर्वं प्रयुक्तेन” (सू.अ.१४) इत्यादिनोक्तोऽप्ययं स्नेहपूर्वकस्वेदगुणः पुनः प्रकरणागतत्वादुच्यते| आशु प्रयोजित इति पदं पुष्णातीत्यनेन सम्बध्यते| अनिलामया न तिष्ठन्ति न स्थायिनो भवन्तीत्यर्थः||७५-८२||-
यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति||८३||
मृदुभिः स्नेहसंयुक्तैरौषधैस्तं विशोधयेत्|
घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा||८४||
पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्|
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः||८५||
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत् [३४] |
दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत्||८६||
पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम्|
संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ||८७||
स्वाद्वम्ललवणस्निग्धैराहारैः सततं पुनः|
नावनैर्धूमपानैश्च सर्वानेवोपपादयेत्||८८||
इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम्|८९|
यद्यनेन सदोषत्वादित्यादि| अत्र केवलो निरुपस्तम्भश्च वायुश्चिकित्स्यत्वेनाधिकृतः, तस्य सदोषत्वमनुपपन्नं; ततः सदोषत्वं कर्मणि योजनीयं; तेन कर्मणोऽविशुद्धत्वाद् वायुर्न प्रशाम्यति, कर्मणश्चोक्तस्याप्यत्राशुद्धिर्मलजनकत्वात्; वक्ष्यति हि “स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः” इत्यादि| किंवा सदोषत्वादित्यनेनोत्तरकालीनं वायोः संशमनमुच्यते, असंसृष्टत्वमनुपस्तम्भत्वं च यदुक्तं तदुपक्रमारम्भकाले ज्ञेयम्| सदोषत्वं च स्नेहप्रयोगेणानुपशमे संशोधनकरणे च हेतुः| समलत्वमेवोत्तरकालीनं कुतो भवतीत्याह- स्निग्धेत्यादि| दुर्बलो योऽविरेच्य इति दुर्बलत्वप्रकर्षेणाविरेच्य इत्यर्थः| तथा हि “अनास्थाप्यास्त्वजीर्णी” (सि.अ.२) इत्यादौ अतिदुर्बलः पठितः| अत्यर्थं दुर्बलतया बस्त्यनर्हेऽपि विधिमाह- पाचनैर्दीपनीयैश्चेति| पाचनं किञ्चिन्न दीपनं, यथा पटोलं दीपनं; दीपनं किञ्चिन्न पाचनं यथा त्रिफला; उक्तं हि सुश्रुते- “त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशिनी| चक्षुष्या दीपनी च” (सु.सू.अ.३८) इति; अतः पाचनैरित्यस्य दीपनैरिति विशेषणं कृतम्| भोज्यैर्वा तद्युतैरिति पाचनदीपनसंयुक्तैर्भोज्यैः| उत्थिते चाग्नौ इति दीप्ते वह्नौ||८३-८८||-
विशेषतस्तु कोष्ठस्थे वाते क्षारं [३५] पिबेन्नरः||८९||
पाचनैर्दीपनैर्युक्तैरम्लैर्वा [३६] पाचयेन्मलान्|
गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम्||९०||
आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः|
सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः||९१||
स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते|
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम्||९२||
विरेको मांसमेदःस्थे निरूहाः शमनानि च|
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत्||९३||
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम्|
विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम्||९४||
विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम्|
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम्||९५||
सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः|
हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम्||९६||
मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः|
वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम्||९७||
तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम्|
बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम्||९८||
बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः|९९|
स्थानविशेषेण क्रियाविशेषमाह- विशेषतस्त्वित्यादिना अधो नाभेः शस्यते चावपीडक इत्यन्तेन| क्षारं यवक्षारम्, उक्तं हि “यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां” (सू.अ.२५); किंवा क्षारमिति ग्रहण्यादिनिर्दिष्टं दीपनक्षारम्| उदावर्तनुत्कर्म त्रिमर्मीये “तं तैलशीतज्वरनाशनाक्तं” (चि.अ.२६) इत्यादिनोक्तं ज्ञेयम्| स्वेदा इत्यादि त्वग्गतानिलचिकित्सितम्| प्रहर्षः मनोहर्षणम्| विरेचनानन्तरं प्रतिभोजितो विरिक्तप्रतिभुक्तः| पूर्वोक्तामिति शुक्रजननहर्षिणीं क्रियाम्| उत्थापने इति पुष्टिजनने सितादिभिः सिद्धं पयो हितम्| अंशुमती शालपर्णी|| मत्स्यानिति नाभिप्रदेशे कुपिते वाते मत्स्या बिल्वशलाटुभिः समं सिद्धा देयाः| नाभिप्रदेशकोपश्च वातस्यानुक्तोऽपीह तत्र भवशूलतोदादिभिर्ज्ञेयः| वेष्ट्यमान इति अवमोट्यमाने| उपनाहनं च वातहरद्रव्यैरेव कर्तव्यम्| नस्ये पाने च औत्तरभक्तिकं माषसैन्धवसाधितमेव तैलं ज्ञेयम्| तत्र च माषस्य क्वाथः, सैन्धवस्य कल्कः| सर्पिषोऽवपीडकः यत्र सर्पिः पीत्वा तत्पीडकमन्नं भुज्यते||८९-९८||-
अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च||९९||
नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिताः|
स्वेदनं स्नेहसंयुक्तं पक्षाघाते विरेचनम्||१००||
अन्तराकण्डरागुल्फं [३७] सिरा बस्त्यग्निकर्म च|
गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम्||१०१||
पायसैः कृशरैर्मांसैः शस्तं तैलघृतान्वितैः|
व्यात्तानने [३८] हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च||१०२||
प्रदेशिनीभ्यां चोन्नाभ्य चिबुकोन्नामनं हितम्|
स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत्||१०३||
अर्दितादिचिकित्सामाह- अर्दिते इत्यादि| तर्पणमिति नावनविशेषणं; किंवा तर्पणं सन्तर्पणमेव| अन्तराकण्डरागुल्फं सिरेति कण्डरागुल्फयोर्मध्ये सिराव्यधनं कर्तव्यम्| गृध्रसीष्विति बहुवचनं व्यक्तिभेदतया| व्यात्ताननमिति विवृतास्यम्| प्रदेशिनी अङ्गुष्ठानन्तराऽङ्गुली||९९-१०३||
प्रत्येकं स्थानदूष्यादिक्रियावैशेष्यमाचरेत् [३९] |१०४|
अनुक्तविशेषचिकित्सोपग्रहणार्थमाह- प्रत्येकमित्यादि| स्थानं पक्वाशयादि, दूष्यं रसरक्तादि, आदिग्रहणादावरणग्रहणम्| स्थानदूष्यापेक्षः क्रियाविशेषस्तु ‘कोष्ठस्थे’ इत्यादिनैवोक्तः|१०४|-
सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तयः [४०] ||१०४||
स्निग्धाः स्वेदा निवातं च स्थानं प्रावरणानि च|
रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च||१०५||
बृंहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम्|१०६|
सर्ववातविकारसमानं चिकित्सितमाह- सर्पिस्तैलमित्यादि||१०४-१०५||-
बलायाः पञ्चमूलस्य दशमूलस्य वा रसे||१०६||
अजशीर्षाम्बुजानूपमांसादपिशितैः पृथक्|
साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान्||१०७||
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम्|
एतैरेवोपनाहांश्च पिशितैः सम्प्रकल्पयेत्||१०८||
घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः|
पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने||१०९||
स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम्|
आनूपौदकमांसानि दशमूलं शतावरीम्||११०||
कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम्|
वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत्||१११||
नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम्|
तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च||११२||
मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम्|
दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम्||११३||
उत्कारिकावेसवारक्षीरमाषतिलौदनैः|
एरण्डबीजगोधूमयवकोलस्थिरादिभिः||११४||
सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक्|
एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत्||११५||
क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम्|
मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः||११६||
फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान्|
प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि||११७||
पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः|११८|
बलाया इत्यादौ पृथक्शब्दाद् बलादयस्त्रयः साधनद्रव्यप्रयोगाः, तेष्वजशीर्षादयश्चत्वारः पृथक् साध्याः, एवं द्वादश रसा भवन्ति| कल्यमिति प्रभाते| फलानां तैलयोनीनामिति तिलातस्यादीनाम्| प्रदेहानुपनाहांश्चेत्यत्र प्रदेह उपनाहापेक्षया तनुर्लेपः| गन्धैरिति अगुर्वाद्यैः||१०६-११७||-
रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे||११८||
विविधान् विविधव्याधिप्रशमायामृतोपमान्|
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्||११९||
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह|
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः||१२०||
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः|
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्||१२१||
निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु|
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्||१२२||
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्|
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्||१२३||
तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले|
ग्राम्यानूपौदकानां तु भित्वाऽस्थीनि पचेज्जले||१२४||
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्|
जीवकर्षभकास्फोताविदारीकपिकच्छुभिः||१२५||
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्|
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्||१२६||
सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्|
ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये||१२७||
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्|
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा||१२८||
प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते|
प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्||१२९||
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्|
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्||१३०||
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्|
सुरारनालदध्यम्लसौवीरकतुषोदकम्||१३१||
कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्|
मज्जानं च पयश्चैव जीवनीयपलानि षट्||१३२||
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्|
सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु||१३३||
वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्|
निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः||१३४||
तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु|
हितं पामापचीनां च पानाभ्यञ्जनपूरणम्||१३५||
कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्|१३६|
रूक्षशुद्धेत्यादौ शुद्धानिलार्ताः केवलवातपीडिताः| घृतमण्डः घृतस्योपरितनो भागः| शुक्तिः अर्धपलं, प्रकुञ्चः पलम्| तद्वत्सिद्धेति बलाबिल्वप्रभृतिशृतक्षीरसिद्धा| चुलुकी शिशुमारः| प्रत्यग्रेति अभिनवा| नस्यपानेष्विति नस्येषु पानेषु च [४१] | कृष्णगन्धात्वक् शोभाञ्जनत्वक्| महास्नेहमिति चतुःस्नेहम्| तेन सिद्धं तैलमित्यत्र सममिति निर्गुण्डीरससमं, नतु समशब्दः सहार्थः; सहार्थस्य तृतीययैवोक्तत्वात्| नाडी नाडीव्रणः; नाडीव्रणस्य सुश्रुतादिषु पञ्चविधत्वमुक्तं ज्ञेयम्| अपची च हन्वस्थिकक्षादिदेशभवा||११८-१३५||-
मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि||१३६||
तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत्|
यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः||१३७||
सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत्|१३८|
मूलकस्वरस इत्यादौ मूलकस्वरसे समक्षीरे दधि स्थाप्यं; तस्याम्लस्येति मूलरसादेरम्लताङ्गतस्य| अत्र च त्रिभिः प्रस्थैरिति वचनात् मूलकरसादीनां प्रत्येकं प्रस्थमानत्वम्| उक्तं हि जतूकर्णे- “विपचेद् दधिमूलकरसपयसा” इत्यादि||१३६-१३७||-
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्||१३८||
पक्त्वा तस्य रसं पूत्वा [४२] तैलप्रस्थं विपाचयेत्|
पयसाऽष्टगुणेनैतत् सर्ववातविकारनुत्||१३९||
संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषतः|
यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात्||१४०||
बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत्|
तेन तैलं कषायेण फलाम्लैः कटुभिस्तथा||१४१||
पिष्टैः सिद्धं महावातैरार्तः शीते प्रयोजयेत्|१४२|
पञ्चमूलकषायेणेत्यादौ पञ्चमूलीकषायं तथा पिण्याकक्वथितं जलं च पृथग्देयमिति केचिद्वदन्ति, वयं तु पञ्चमूलीकषायेणैव जलस्थानीयेन साधितपिण्याकस्य रसमत्रेच्छामः| पाठश्च ‘पञ्चमूलीकषायेण पिण्याकं बहुवार्षिकम्| पक्त्वा तस्य रसं पूत्वा’ इत्यादि पठ्यते; जातूकर्णेऽपि “पिण्याकं बहुवार्षिकं स्थिरादिसलिले पचेत्, रसेऽस्मिनष्टगुणेन पयसा तैलं साध्यम्” इति| द्रवैरम्लैरिति काञ्जिकतक्रादिभिः| फलाम्लैरिति अम्लफलैर्दाडिमादिभिः||१३८-१४१||-
सर्ववातविकाराणां तैलान्यन्यान्यतः शृणु||१४२||
चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च|
रजःशुक्रप्रदोषघ्नान्यपत्यजननानि च||१४३||
निरत्ययानि सिद्धानि सर्वदोषहराणि च|
सहाचरतुलायाश्च रसे तैलाढकं पचेत्||१४४||
मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम्|
सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक्||१४५||
विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत्|
श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह||१४६||
षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा|
तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु||१४७||
जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते|
बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम्||१४८||
जलाढकशते पक्त्वा दशभागस्थिते रसे|
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः||१४९||
पचेत् साजपयोऽर्धांशैः कल्कैरेभिः पलोन्मितैः|
शटीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः||१५०||
पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभिः|
यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः||१५१||
पलाशरसकस्तूरीनलिकाजातिकोषकैः|
स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः||१५२||
त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः [४३] |
लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभिः||१५३||
स्थौणेयतगरध्यामवचामदनपल्लवैः|
सनागकेशरैः सिद्धे क्षिपेच्चात्रावतारिते||१५४||
पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत्|
श्वासं कासं ज्वरं हिक्कां [४४] छर्दिं गुल्मान् क्षतं क्षयम्||१५५||
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्|
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्||१५६||
(अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्)|
इति बलातैलम्|
चतुष्प्रयोगाणीति पानाभ्यञ्जननस्यानुवासनयोगीनि| सहाचरेत्यादौ मूलकल्काद्दशपलमित्यनेन सहचरमूलादेव दशपलः कल्को देयः; जतूकर्णे त्वत्र मूलकस्यैव कल्क उक्तः| जीर्णे तैले इत्यादि पीते तैले जीर्णे सति| क्षीरेण पेयाविधानमत्र प्रयोगसात्म्यत्वात्| गुडूच्याः पादमिति पञ्चविंशतिपलानि| रास्नाष्टभागिकमिति गतापेक्षया रास्नाया अष्टभागेनार्धत्रयोदशपलानि भवन्ति| साजपयोऽर्धांशमिति छागक्षीरार्धयुक्तम्| सूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ| रसः गन्धरसः| नलिका स्वनामख्याता| कटुफला लताकस्तूरी, अन्ये सुगन्धि दक्षिणापथप्रसिद्धं पद्यल(?)माहुः| तुरुष्कः सिल्हकः| नखीस्वल्पनखी| पत्रकल्कमिति सुगन्धित्वादस्य तैलस्य गन्धशास्रपरिभाषया पत्रकल्को देय इत्युच्यते; गन्धशास्त्रे च “चूर्णस्वरसपुष्पाणां सिद्धशीतेऽवतारिते| दीयते गन्धवृद्ध्यर्थं पत्रकल्को मनीषिभिः” इति; तेनात्र कर्पूरादिपत्रकल्कोऽवतारिते एव देयः||१४२-१५६||-
अमृतायास्तुलाः पञ्च द्रोणेष्वष्टस्वपां पचेत्||१५७||
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्|
एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः||१५८||
बलातामलकीमेदाशतपुष्पर्धिजीवकैः [४५] |
काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः||१५९||
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः|
शतावरीमहामेदाकर्कटाख्याहरेणुभिः||१६०||
वचागोक्षुरकैरण्डरास्नाकालासहाचरैः|
वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकैः||१६१||
सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकैः|
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च||१६२||
कल्कैस्तत् क्षीणवीर्याग्निबलसम्मूढचेतसः|
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्||१६३||
वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्|
(कृष्णात्रेयेण [४६] गुरुणा भाषितं वैद्यपूजितम्)||१६४||
इत्यमृताद्यं तैलम्|
अमृताया इत्यादौ महाश्रावणी बृहन्मुण्डितिका| काला कालानुसारिवा| त्रिदशाह्वः देवदारुः||१५७-१६४||
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्|
गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्||१६५||
कल्पोऽयमश्वगन्धायां प्रसारण्यां बलाद्वये|
क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक्||१६६||
इति रास्नातैलम्|
रास्नासहस्रनिर्यूहे इत्यादौ हैमवतैरिति हिमालयभूतैः अगरुकुष्ठक्षेमकादिभिः| एलाद्यैरिति अमृताद्ये एलामांसीनतेत्यादिनोक्तैः| एष कल्प इत्यनन्तरोक्तरास्नाकल्पो बलादिष्वपि वक्तव्यः| बलादीनामिति अनन्तरोक्तानां बलाप्रसारण्यश्वगन्धानाम्||१६५-१६६||
मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम्|
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः||१६७||
पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः|
भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः||१६८||
पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः|
तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान्||१६९||
इति मूलकाद्यं तैलम्|
वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च|
चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत्||१७०||
सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा|
प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम्||१७१||
इति वृषमूलादितैलम्|
वृषमूलेत्यादौ अश्वगन्धाचित्रकाभ्यां मिलिताभ्यां तुला| प्राक्तैलावापसिद्धमिति मूलकस्वरसमित्याद्युक्ततैलकल्केन समं वृषमूलादिक्वाथेन च सिद्धम्| भवेत्तद्द्विगुणोत्तरमिति पाठे वृषमूलादिक्वाथसिद्धात्तैलाद् द्विगुणं श्रेष्ठम्||१६७-१७१||
रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः||१७२||
स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः|
एषां दशपलान् भागान् कषायमुपकल्पयेत्||१७३||
ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः|
दध्यारनालमाषाम्बुमूलकेक्षुरसैः [४७] शुभैः||१७४||
पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत्|
प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् [४८] ||१७५||
एतन्मूलकतैलाख्यं [४९] वर्णायुर्बलवर्धनम्|
इति मूलकतैलम्|
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः|
रसेन मूलकानां च तैलं दधिपयोन्वितम्||१७६||
साधयित्वा भिषग्दद्यात् सर्ववातामयापहम्|
लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत्||१७७||
तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च|
पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम्||१७८||
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्|
अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत्||१७९||
वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च|
तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत्||१८०||
नास्ति तैलात् परं किञ्चिदौषधं मारुतापहम्|
व्यवाय्युष्णगुरुस्नेहात् संस्काराद्वलवत्तरम्||१८१||
गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रशः|
सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान्||१८२||
सर्वगन्धैश्चेति बलातैलोक्तैः सर्वगन्धैः| सार्धमिति सहितम्| मूलकतैलाख्यमितिसञ्ज्ञया तत्र रास्नादीनां मूलेनैव क्वाथसाधनं दर्शयति| लशुनस्वरसे इत्यादौ एभिश्चेति यवादिक्वाथैरनन्तरोक्तैः| अनेकशतशस्तच्च सिद्धमिति अनेकशतशस्तेनैव विद्यानेन साधितं सदित्यर्थः||१७२-१८२||
क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते|
वाते पित्तादिभिः स्रोतःस्वावृतेषु विशेषतः||१८३||
पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम्|
व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते||१८४||
धन्वमांसं यवाः शालिर्यापनाः क्षीरबस्तयः|
विरेकः क्षीरपानं च पञ्चमूलीबलाशृतम्||१८५||
मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम्|
पञ्चमूलकषायेण कुर्याद्वा शीतवारिणा||१८६||
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः|
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्||१८७||
जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम्|
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्||१८८||
सम्प्रति दोषान्तरादिसंसृष्टवातचिकित्सामाह- क्रिया साधारणीत्यादि| साधारणीति या वाते सा संसर्गिणि च पित्तादौ समाना संसर्गहितेति यावत्; न केवलं संसृष्टे वायौ साधारणी, किन्तु वातपित्तादिभिः स्रोतःस्वावृतेष्वपि साधारणी कर्तव्या| वातेन वातावरणमग्रे वक्ष्यति| केचित्तु ‘वाते पित्तादिभिः’ इति पठन्ति; अयं पाठः सुगमः| विशिष्टसूत्रितां क्रियामाह- पित्तावृते इत्यादि| व्यत्यासादिति परिवर्तनेन शीतां कृत्वोष्णाम्, उष्णां च कृत्वा शीतां कुर्यादित्यर्थः| यापना बस्तयः सिद्धौ वक्ष्यमाणाः| पित्तमादौ विनिर्जयेदिति वचनेन कफापेक्षया पित्तस्याशुकारितया पित्तजयमेवोपदिशति||१८३-१८८||
आमाशयगतं मत्वा [५०] कफं वमनमाचरेत्||१८९||
पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा|
स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः||१९०||
पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत्|
श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतैः||१९१||
निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः|
मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत्||१९२||
शिरोगते तु सकफे धूमनस्यादि कारयेत्|
हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः||१९३||
सशेषः [५१] स्यात् क्रिया तत्र कार्या केवलवातिकी|
शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम्||१९४||
प्रमेहवातमेदोघ्नीमामवाते [५२] प्रयोजयेत्|
स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः||१९५||
महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते|
अन्नावृते तदुल्लेखः [५३] पाचनं दीपनं लघु||१९६||
मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः|
शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया [५४] ||१९७||
स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत्|
वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा||१९८||
(इत्युक्तमावृते वाते पित्तादिभिर्यथायथम् [५५] )|१९९|
आमाशयगतं मत्वा कफमिति वातानुबन्धिकफस्यैवेयं चिकित्सा| पक्वाशये विरेकं त्वित्यत्र ‘कफे’ इत्यनुवर्तते| सर्वत्रगे इति अन्यस्थानगतेऽपि पित्ते| यद्यपि दोषान्तरस्थानगते तद्दोषप्रधानमेव कर्म वमनं बस्तिर्वा युक्तः, तथाऽप्यनेन विरेचनमपि तत्र यौगिकमिति दर्शयति| सकफे इति सकफे वाते| ‘उरःस्रोतोगते’ इति केचित् पठन्ति, तत्र सूक्ष्मस्रोतोऽनुगते इत्यर्थः| प्रमेहवातमेदोघ्नीमिति प्रमेहघ्नीं वातघ्नीं मेदोघ्नीं च| महास्नेह इति चतुःस्नेहोऽत्रैवोक्तः| पूर्ववद्रेतसाऽऽवृते इति शुक्रस्थे वाते या क्रिया पूर्वमुक्ता सा रेतसाऽऽवृतेऽपि वाते कार्या| उल्लेख इति उल्लेखनं वमनम्| मूत्रलानीति मूत्रवैरेचनिकानि| शकृता इति मलेन| स्वस्थानस्थ इत्यादि स्वस्थानस्थो यस्मात् स्थानोपबृंहणाद्बली दोषो भवति तस्मात् प्राक् स्वैरौषधैर्जयेत्| कतमैः स्वैरौषधैरित्याह- वमनैरित्यादि| शमनेनेति कफादिशमनेनैव; शमनं च शोधनानन्तरं शोधनानर्हे वा ज्ञेयम्||१८९-१९८||-
मारुतानां हि पञ्चानामन्योन्यावरणे शृणु||१९९||
लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ!|
प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च||२००||
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम्|
विंशतिर्वरणान्येतान्युल्बणानां [५६] परस्परम्||२०१||
मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत्|
सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम्||२०२||
व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम्|
स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता||२०३||
प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम्|
प्राणावृते समाने स्युर्जडगद्गदमूकताः||२०४||
चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः|
समानेनावृतेऽपाने [५७] ग्रहणीपार्श्वहृद्गदाः||२०५||
शूलं चामाशये तत्र दीपनं सर्पिरिष्यते|२०६|
मारुतानामन्योन्यावरणमाह- मारुतानामित्यादि| यद्यपि चेह वायोरमूर्तत्वं वातकलाकलीये प्रोक्तं, तथाऽपीदममूर्तत्वमकठिनवाचकं न त्ववयवप्रतिषेधकं; तेन वायोः वाय्वन्तरेण गतिहननरूपमावरणमुपपन्नमेव; दृष्टा च वायुना वाय्वन्तरेणोपहतेन वातकुण्डलिता बहिरपि, तेनोपपन्नमावरणं वातानां परस्परम्| प्राणो वृणोत्युदानादीनित्यादिना विंशत्यावरणान्युक्तानि| प्राणो वृणोत्युदानादीनित्यनेन चत्वार्यावरणानि, प्राणं वृण्वन्ति तेऽपि चेत्यनेन च चत्वारि, उदानाद्यास्तथाऽन्योन्यमित्यनेन द्वादशावरणान्युच्यन्ते| तत्रोदानेन व्यानादीनां त्रयाणामावरणे त्रीणि, तथा व्यानाद्यैश्चोदानावरणे त्रीणि, तथा व्यानेन समानापानावरणे द्वे, ताभ्यां च व्यानावरणे द्वे, परिशिष्टयोश्चान्योन्यावरणे द्वे, एवं द्वादशावरणानि पूर्वाष्टकयुक्तानि विंशतिर्भवन्ति| उल्बणानामिति वृद्धानां; किंवा उल्बणानामिति आविष्कृततमानां मिलितानां पञ्चानां; तेनैतेषामेकद्वित्र्यादिसंसर्गेणावार्यावरकतया भेदाद्बहुविधमावरणं भवतीति दर्शयति||१९९-२०५||-
शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससङ्ग्रहः||२०६||
हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते|
तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा||२०७||
कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा|
उदानेनावृते प्राणे तं शनैः शीतवारिणा||२०८||
सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत्|
उर्ध्वगेनावृतेऽपाने छर्दिश्वासादयो गदाः||२०९||
स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम्|
मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते||२१०||
वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम्|
वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः||२११||
लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत्|
अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम्||२१२||
अतिप्रवृत्तिस्तत्रापि सर्वं सङ्ग्रहणं मतम्|
मूर्च्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोबलक्षयः||२१३||
समानेनावृते व्याने व्यायामो लघुभोजनम्|
स्तब्धताऽल्पाग्निताऽस्वेदश्चेष्टाहानिर्निमीलनम्||२१४||
उदानेनावृते व्याने तत्र पथ्यं मितं लघु|
पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणैः||२१५||
एषां स्वकर्मणां हानिर्वृद्धिर्वाऽऽवरणे मता|
यथास्थूलं समुद्दिष्टमेतदावरणेऽष्टकम्||२१६||
सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये|२१७|
शिरोग्रह इत्यादिना अष्टावावरणानि प्रायोभावीनि अनुक्तशेषोपग्रहणार्थमाह| ऊर्ध्वभागिकं कर्मेति उपर्युक्तस्नेहपाननस्यादिकम्| श्वासादय इति श्वासहिक्कादयः| ऊर्ध्वगेनेति उदानेन| अनुक्तज्ञानार्थमावरणस्वरूपमाह- एषां स्वकर्मणामित्यादि| अत्र आवार्याणां बलीयसाऽऽवरणात् स्वकर्महानिर्भवति, आवरकस्य तूत्सर्गतः स्वकर्मवृद्धिर्भवति, तथा आवरणेन च आवार्यः प्रकुपितो भवति तदा स्वकर्मणां वृद्धिर्भवतीति व्यवस्था; अन्ये तु आवरणीयस्य स्वकर्महानिः, आवरकस्य तूत्सर्गतो वृद्धिर्भवतीति व्यवस्थामाहुः||२०६-२१३||-
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्||२१७||
द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम्|
कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि [५८] सर्वशः||२१८||
क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत्|२१९|
अनुक्तावरणलक्षणज्ञानोपायमाह- स्थानान्यवेक्ष्येत्यादि| कर्मवृद्धिहानिव्याख्यानमत्रापि पूर्ववत्| स्थानान्यवेक्ष्येत्यनेन वातानामुक्तस्थानगतविकारेण च
वातविकृतिर्ज्ञातव्येति दर्शयति| उष्णं क्रममनुष्णं चेत्यत्र यद्यप्युष्ण एव क्रमो वाते युज्यते, तथाऽपि स्थानापेक्षया रक्तादिदूष्यं क्रमविपर्ययस्य कारणं ज्ञेयम्||२१७-२१८||-
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्||२१९||
समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत्|
प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा||२२०||
स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान्|२२१|
विकृतवातानां प्रकृतिस्थापनमाह- उदानं योजयेदूर्ध्वमित्यादि| एतच्च स्वमार्गयोजनं वातानां यथोक्तवमनादिक्रियायोगविधानेन कर्तव्यम्| समानं शमयेदिति देहमध्यस्थितं कुर्यादित्यर्थः| त्रिधा व्यानं तु योजयेदिति ऊर्ध्वमधो मध्ये त्रिधा योजयेत्| प्राणो रक्ष्य इति स्थाने एव यापनीयः [५९] | चतुर्भ्योऽपीत्यनेन इतरवातेभ्योऽस्यात्यर्थरक्षणीयतामाह| कुतोऽयं विशेषरक्षणीय इत्याह- स्थाने त्वस्य स्थितिर्ध्रुवेति; अस्य प्राणस्य, स्थाने सम्यगवस्थाने सति, स्थितिः जीवनरूपा, ध्रुवा निश्चिता||२१९-२२०||-
मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता||२२१||
छर्दनं च विदग्धस्य प्राणे पित्तसमावृते|
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः||२२२||
प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च|
मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः||२२३||
ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते|
आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः||२२४||
दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते|
अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव [६०] च||२२५||
पित्तावृते समाने स्यादुपघातस्तथोष्मणः|
अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च||२२६||
कफावृते समाने स्याद्गात्राणां चातिशीतता|
व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः||२२७||
गात्रविक्षेपसङ्गश्च ससन्तापः सवेदनः|
गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः||२२८||
व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः [६१] |
हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः||२२९||
लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम्|
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्||२३०||
श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः|२३१|
प्राणादीनां पित्तेन कफेन तथा पित्तकफाभ्यां चावरणलक्षणान्याह- मूर्च्छा दाहो भ्रम इत्यादि| मूर्च्छाद्यानि मूर्च्छा दाह इत्यादिना प्रागुक्तानि| उपघातस्तथोष्मण इति अत्र पित्तेनाप्यावृते समाने अग्न्युत्तेजनाभावादूष्मण उपघातो ज्ञेयः| गात्रविक्षेपसङ्गः गात्रविक्षेपणोपरमः| रजस इति आर्तवस्य||२२१-२३०||-
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च||२३१||
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत्|
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ||२३२||
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान्|
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च||२३३||
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः|
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम्||२३४||
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च|
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा||२३५||
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः [६२] |२३६|
मिश्रमावरणमिति मिश्रितकफपित्तावरणम्| यथानिजानिति यथात्मीयान्| गरीयस्त्वेनेति अधिकत्वेन| एतद्गरीयस्त्वे हेतुमाह- विशेषादित्यादि| संश्रितमिति अधीनम्| अपरिज्ञाता इति याथातथ्येनाज्ञाताः| सम्यग्ज्ञाता अप्युपेक्षणाद्, याथातथ्येन ज्ञाता अपि परिसंवत्सरास्तथेति योजनीयम्||२३१-२३५||-
हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च||२३६||
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्|
तस्मादावरणं वैद्यः पवनस्योपलक्षयेत्||२३७||
पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा|
भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत्||२३८||
अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः|
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्||२३९||
सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम्|
यापना बस्तयः प्रायो मधुराः सानुवासनाः||२४०||
प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम्|
रसायनानां सर्वेषामुपयोगः प्रशस्यते||२४१||
शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा|
लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः||२४२||
अभयामलकीयोक्तमेकादशसिताशतम् [६३] |
अपानेनावृते सर्वं दीपनं ग्राहि भेषजम्||२४३||
वातानुलोमनं यच्च पक्वाशयविशोधनम्|
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम्||२४४||
प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्|
पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः|
कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः||२४५||
हृद्रोगेत्यादिना उपद्रवानाह| पञ्चात्मकस्येति प्राणादिभेदेन पञ्चस्वरूपस्य| प्रसमीक्ष्येत्यादौ बलाधिक्ये सति स्रंसनं मृदु कर्तव्यमित्यभिप्रायः| अत्यर्थं प्रशस्यत इति सम्बन्धः| लेहं वा भार्गवप्रोक्तमिति च्यवनप्राशं, च्यवनो हि भार्गव उच्यते| उक्तं हि आयुर्वेदसमुत्थाने “भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः” (चि.अ.१पा.४) इति| वातस्यानुलोमनं चिकित्सितं कुर्यादिति नियोजनीयम्||२३६-२४५||
लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः|
तथा शरीरे वातस्य पित्तस्य च कफस्य च||२४६||
वातादीनां दुर्विज्ञेयतां दृष्टान्तेन दर्शयति- लोक इत्यादि|||२४६||
क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक्|
विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु||२४७||
क्षयमित्यादौ आवरणमपि क्षयवृद्धिसम्बन्धान्तर्निर्दिष्टमेव, तथाऽप्यावरणस्य विशेषलक्षणचिकित्सार्थं पृथगभिधानम्| कर्मस्विति चिकित्सासु||२४७||
तत्र श्लोकौ-
पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः|
प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च||२४८||
प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता|
तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी||२४९||
पञ्चात्मन इत्यादिसङ्ग्रहे पञ्चात्मनः स्थानवशादिति च्छेदः| देहधातोरिति देहधारकरूपस्य वायोरविकृतस्येत्यर्थः| उक्तचिकित्साकरणापेक्षणीयं सङ्ग्रहेणाह- तामित्यादि| देशाद्यपेक्षा सूत्रस्थानेऽस्माभिर्विवृता देशादिभेदेन प्रतर्कणीया, विस्तरभीत्या तु न प्रपञ्च्यते||२४८-२४९||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः||२८||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः||२८||
१. ‘वातव्याधित्वेनोच्यन्ते’ इति पा.|
२. ‘अनावृतमार्गः’ इति पा.|
३. ‘मूर्धोरःकर्णजिह्वास्यनासिकाः’ इति पा.|
४. ‘शुक्रमूत्रशकृत्क्रियः’ इति पा.|
५. ‘अत्र वैशेषिकं पूर्वरूपं निषेधयति’ इति पा.|
६. ‘अपायो वायोश्चलत्वेन वातव्याधिलिङ्गानामपगतत्वमिव, लघुता च शरीरस्य’ इति पा.|
७. ‘…रोगशोथौ’ इति पा.|
८. ‘स्तिमितमत्यर्थ’ इति पा.|
९. ‘अप्रवृत्तिः’ इति पा.|
१०. अयमर्धश्लोकः क्वचित्पुस्तके न पठ्यते|
११. ‘अनुबद्धा’ इति पा.|
१२. ‘व्याकर्तव्यानि’ इति पा.|
१३. ‘वक्रदर्शिनः’ इति पा.|
१४. ‘ऽबला’ इति, ‘ऽफला’ इति च पा.|
१५. ‘पार्श्व…’ इति पा.|
१६. ‘पृष्ठाक्षेपः’ इति पा.|
१७. अयमर्धश्लोको हस्तलिखितपुस्तके न पठ्यते|
१८. ‘अभ्यन्तरेण’ इति पा.|
१९. ‘अतिवेगः’ इति पा.|
२०. ‘कुर्यात् संवृतमाननम्’ इति पा.|
२१. ‘मुहुर्वेगागमे गते’ इति पा.|
२२. ‘वाक्सङ्गमेव च’ इति पा.|
२३. ‘पवनात् कुशलो भिषक्| सर्वाङ्गरोगं तद्वच्च सर्वदेहानुगेऽनिले’ इति पा.|
२४. ‘क्रमात्तु’ इति पा.|
२५. ‘यथोक्तलक्षणा’ इति पा.|
२६. ‘…द्वायोस्तत्राप्युदीरणः’ इति पा.|
२७. ‘क्लमः’ इति पा.|
२८. ‘विनमति जृम्भते परिचेष्टते’ इति पा.|
२९. ‘गात्रश्लेषः’ इति पा.|
३०. ‘सन्धिच्युतिः पक्षवधः’ इति पा.|
३१. ‘…श्चान्यैः’ इति पा.|
३२. ‘स्नेहार्द्रं’ इति पा.|
३३. ‘विश्वासयित्वा’ इति पा.|
३४. ‘बध्नाति तं रुद्ध्वा’ इति पा.|
३५. ‘क्षीरं’ इति पा.|
३६. ‘पाचनीयै रसैर्युक्तैरन्यैर्वा’ इति पा.|
३७. ‘कण्डराङ्गुल्योः’ इति पा.|
३८. ‘व्यादितास्ये’ इति पा.|
३९. ‘…क्रियां सर्वत्र कारयेत्’ इति पा.|
४०. ‘पानाभ्यञ्जन…’ इति पा.|
४१. एतदनन्तरं ‘ग्राम्येत्याद्युक्तप्रयोगानन्तरं तद्वत्सिद्धा वसा नक्रेत्यादिग्रन्थं पूर्वव्याख्यातमिति पठन्ति’ इत्यधिकः पाठ उपलभ्यते हस्तलिखितपुस्तके|
४२. ‘पक्त्वाऽम्भसि रसे तस्मिन्’ इति पा.|
४३. ‘त्वक्चन्दनैलाकर्पूर…’ इति पा.|
४४. ‘मूर्च्छां’ इति पा.|
४५. ‘शतपुष्पाबलामेदामहामेदर्धिजीवकैः’ इति पा.|
४६. अयमर्धश्लोको हस्तलिखितपुस्तके न पठ्यते|
४७. ‘… माषाम्ल…’ इति
४८. ‘प्लीहपार्श्वग्रहश्वास…’ इति पा.|
४९. ‘रास्नातैलमिति ख्यातं’ इति पा.|
५०. ‘दृष्ट्वा’ इति पा.|
५१. ‘सर्वेषां’ इति पा.|
५२. ‘… माढ्यवाते’ इति पा.|
५३. ‘तु वमनं’ इति पा.|
५४. ‘बस्तिः स्नेहाश्च भेदिनः’ इति पा.|
५५. अयमर्धश्लोको हस्तलिखितपुस्तकेषु न पठ्यते|
५६. ‘विंशत्यावरणान्ये…’ इति पा.|
५७. ‘समानेनावृते प्राणे ग्रहणीपार्श्ववेदना’ इति पा.|
५८. ‘…स्नेहनस्यपानादि’ इति पा.|
५९. ‘पालनीयः’ इति पा.|
६०. ‘चारतिरेव च’ इति पा.|
६१. ‘रुजः’ इति पा.|
६२. ‘दुरुपक्रमात्’ इति पा.|
६३. ‘अभयामलकीयोक्तानेकादश मिताशनः’ इति गङ्गाधरः पठति|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
cikitsāsthānam - 28. vātavyādhicikitsitam
athātō vātavyādhicikitsitaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
ūrustambhabhēṣajēna virūkṣaṇādvātaprakōpō bhavatīti sambandhādūrustambhānantaraṁ vātavyādhicikitsitamucyatē| tatra vāta ēva vyādhirvātavyādhiriti pakṣē vāta ēva tattaddūṣyasamprāptaḥ sarvāṅgaikāṅgarūpatāmāpannō vividhapīḍākartr̥tvādvātavyādhirucyatē; yadā tu vātādvyādhirvātavyādhiriti pakṣastadā vātadōṣād dōṣadūṣyasammūrcchanaviśēṣarūpaḥ sarvāṅgaikāṅgarūpō vyādhirvātavyādhirucyatē| jvarādayastu yadyapi vātādutpadyantē, tathā’pi tē dōṣāntarēṇāpi vātaṁ vinā bhavantīti kr̥tvā nātra śāstrē vātavyādhiśabdēnōcyantē [1] | yē’pi cātra kaphapittāvr̥tavātavikārā vātavyādhitvēna vaktavyāḥ, tē’pi pradhānaṁ vātaṁ vinā na bhavantīti kr̥tvā vātavyādhirūpā ēva| na ca vācyaṁ yathā vātikā nānātmajā vyādhayaḥ pr̥thak cikitsayōcyantē, tathā pittajāḥ kaphajāśca cikitsyantāmiti; yataḥ pittakaphakr̥tānāṁ nānātmajānāṁ vyādhīnāṁ na tathā prādhānyaṁ yathā vātajānāṁ; tēna vātajānāmēvāviṣkr̥tatamānāṁ pr̥thak cikitsōcyatē, kaphapittajānāṁ tvāviṣkr̥tānāṁ vamanavirēcanādikā kaphapittacikitsēti jñēyam||1-2||
vāyurāyurbalaṁ vāyurvāyurdhātā śarīriṇām|
vāyurviśvamidaṁ sarvaṁ prabhurvāyuśca kīrtitaḥ||3||
vāyōrvikārān jñāpayituṁ svabhāvajñānānantarīyakatvādvikr̥tijñānasya svabhāvamēva tāvadāha- vāyurityādi| yadyapi śarīrēndriyasattvātmasaṁyōga āyuḥ, tathā’pi tādr̥śasaṁyōgē pradhānatvāt prakr̥tisthō vāyurapyāyurucyatē| ēvaṁ balasyāpi hēturvāyuriti kr̥tvā śarīrādhāratayā balādhārahēturvāyurēva balamityuktaḥ| viśvatā prabhutā ca vāyōrvātakalākalīyē pratipāditaiva||3||
avyāhatagatiryasya sthānasthaḥ prakr̥tau sthitaḥ|
vāyuḥ syātsō’dhikaṁ jīvēdvītarōgaḥ samāḥ śatam||4||
vāyōrāyurhētutvaṁ darśayannāha- avyāhatētyādi| avyāhatagatiḥ aparityaktasvamārgaḥ [2] | sthānastha iti na vimārgaḥ| prakr̥tau sthita iti akṣīṇavr̥ddhaḥ| vītarōga iti nīrōgaḥ||4||
prāṇōdānasamānākhyavyānāpānaiḥ sa pañcadhā|
dēhaṁ tantrayatē samyak sthānēṣvavyāhataścaran||5||
sthānaṁ prāṇasya mūrdhōraḥkaṇṭhajihvāsyanāsikāḥ [3] |
ṣṭhīvanakṣavathūdgāraśvāsāhārādi karma ca||6||
udānasya punaḥ sthānaṁ nābhyuraḥ kaṇṭha ēva ca|
vākpravr̥ttiḥ prayatnaurjōbalavarṇādi karma ca||7||
svēdadōṣāmbuvāhīni srōtāṁsi samadhiṣṭhitaḥ|
antaragnēśca pārśvasthaḥ samānō’gnibalapradaḥ||8||
dēhaṁ vyāpnōti sarvaṁ tu vyānaḥ śīghragatirnr̥ṇām|
gatiprasāraṇākṣēpanimēṣādikriyaḥ sadā||9||
vr̥ṣaṇau bastimēḍhraṁ ca nābhyūrū vaṅkṣaṇau gudam|
apānasthānamantrasthaḥ śukramūtraśakr̥nti [4] ca||10||
sr̥jatyārtavagarbhau ca yuktāḥ sthānasthitāśca tē|
svakarma kurvatē dēhō dhāryatē tairanāmayaḥ||11||
prāṇōdānētyādinā vyavahārārthaṁ sañjñōpadarśanapūrvakaṁ prāṇādīnāṁ sthānaṁ karma cāha| dēhaṁ tantrayatē iti dhārayatē| sthānēṣviti vakṣyamāṇātmīyasthānēṣu| āhārādītyatra ādigrahaṇādannavidhāraṇādīni gr̥hyantē| karma cēti prāṇasya vāyōrityarthaḥ| prāṇōdānayōryadyapi samānamuraḥsthānaṁ, tathā’pi karmabhēdādbhēda ēva; yathaikagr̥hasthitamālākārakumbhakārayōḥ| prayatanaṁ prayatnaḥ, ūrja utsāhaḥ; prayatnādikarmatvēna prayatnaurjōbalavarṇaniṣpādanamucyatē| svēdadōṣāmbuvāhīnītyādau svēdavāhīni tathā ambuvāhīni ca srōtāṁsi srōtōvimānē (vi.a.5) pr̥thagēvōktāni jñēyāni, dōṣavahāni ca srōtāṁsi sarvaśarīracarāṇyēva, uktaṁ hi “vātapittaślēṣmaṇāṁ punaḥ sarvaśarīracarāṇāṁ sarvasrōtāṁsyayanabhūtāni” (vi.a.5) iti| gatītyādau ādiśabdēnākuñcanaprasāraṇādīnāṁ ca grahaṇam| antrastha iti antrāṇi cāpānasthānamityarthaḥ| sr̥jatīti niḥsārayatīti yāvat| ārtavagarbhau ca sr̥jatīti sambandhaḥ| ētāni karmāṇi yādr̥śāḥ kurvanti tadāha- yuktā ityādi; yuktā iti avyāpannāḥ| sthānasthitā iti yathōktasthānasthitāḥ| yasmādēvambhūtā atō dēhō dhāryatē tairanāmayaḥ||5-11||
vimārgasthā hyayuktā vā rōgaiḥ svasthānakarmajaiḥ|
śarīraṁ pīḍayantyētē prāṇānāśu haranti ca||12||
saṅkhyāmapyativr̥ttānāṁ tajjānāṁ hi pradhānataḥ|
aśītirnakhabhēdādyā rōgāḥ sūtrē nidarśitāḥ||13||
tānucyamānān paryāyaiḥ sahētūpakramāñchr̥ṇu|
kēvalaṁ vāyumuddiśya sthānabhēdāttathā”vr̥tam||14||
vātānāṁ vaiguṇyakāryamāha- vimārgasthā ityādi| svasthānakarmajairiti yasya vāyōryat sthānamuktaṁ tatsthānagataiḥ, tathā ṣṭhīvanādi yadvāyōḥ karmōktaṁ tajjaiśca rōgaiḥ śarīraṁ pīḍayanti prāṇān vā mahatā rōgēṇa haranti ca| atra ca vāyōrēva bhūripradhānarōgakartr̥tayā bhinnacikitsāprayōjakāḥ pañcabhēdā uktā na pittakaphayōḥ, anatiprayōjanatvāt| tathā hi tantrāntarē pittamapi pācaka-rañjaka-sādhakālōcaka-bhrājakabhēdāt pañcavidhamuktaṁ; tēṣāṁ ca yathākramaṁ jaṭharahr̥dayadr̥ṣṭitvaksthānatvamuktaṁ; tathā ślēṣmā’pi bōdhaka-ślēṣmaka-tarpakāvalambaka klēdakabhēdāt pañcavidhaḥ, tēṣāṁ ca sthānāni yathākramaṁ hr̥dayāmāśayajihvāśiraḥ sandhayaḥ, karmāṇi ca yathākramamavalambana-klēdana-rasabōdhanākṣatarpaṇa-sandhisaṁślēṣāṇi pr̥thaguktāni| prakr̥tavātavyādhikathanāyātra saṅkhyādinirdēśaḥ| tajjānāmiti pañcavātajānām| sūtrē iti mahārōgādhyāyē (sū.a.20)| ucyamānāniti nakhabhēdādīn yathāsthūlamucyamānān| paryāyairiti sañjñāntaraiḥ| kathaṁ punastē’śītinakhabhēdādyā upadiṣṭāḥ? ucyatē- kēvalaṁ vāyumuddiśya kēcidgadā vēpathvādaya uktāḥ, tathā cāvr̥taṁ vātamuddiśya kēciduktāḥ “liṅgaṁ pittāvr̥tē dāhastr̥ṣṇā” ityādinā||12-14||
rūkṣaśītālpalaghvannavyavāyātiprajāgaraiḥ|
viṣamādupacārācca dōṣāsr̥ksravaṇādati||15||
laṅghanaplavanātyadhvavyāyāmātivicēṣṭitaiḥ|
dhātūnāṁ saṅkṣayāccintāśōkarōgātikarṣaṇāt||16||
duḥkhaśayyāsanāt krōdhāddivāsvapnādbhayādapi|
vēgasandhāraṇādāmādabhighātādabhōjanāt||17||
marmāghātādgajōṣṭrāśvaśīghrayānāpataṁsanāt|
dēhē srōtāṁsi riktāni pūrayitvā’nilō balī||18||
karōti vividhān vyādhīn sarvāṅgaikāṅgasaṁśritān|19|
samprati nidānamāha- rūkṣētyādi| viṣamādupacārāditi upacāravairūpyāt| dōṣāsr̥gityādau dōṣaśabdēna purīṣamapi gr̥hyatē| apataṁsanaṁ gajādibhyaḥ patanaṁ, kiṁvā avataṁsanaṁ dhātūnāṁ karṣaṇam; uktaṁ hi kharanādē- “vilikhatyatitaikṣṇyādyat smr̥tamullēkhanaṁ hi tat| vikarṣatyatidhātūn yattaccōktamava(pa)taṁsanam” iti| riktānīti tucchāni, snēhādiguṇaśūnyānītyarthaḥ||15-18||-
avyaktaṁ lakṣaṇaṁ tēṣāṁ pūrvarūpamiti smr̥tam||19||
ātmarūpaṁ tu tadvyaktamapāyō laghutā punaḥ|20|
avyaktaṁ lakṣaṇamityādinā pūrvarūpamāha [5] | ātmarūpamiti vartamānarōgarūpam| apāyō [6] laghutā punariti vātavyādhīnāmapāyō’pagamanaṁ śarīrasya laghutā vātavyādhiliṅgavigamēna, śarīrakalyatēti yāvat; kiṁvā apāyō laghutā na sarvathā vātaliṅgābhāvaḥ, yēna prakr̥taliṅgāni santyēva||19||-
saṅkōcaḥ parvaṇāṁ stambhō bhēdō’sthnāṁ parvaṇāmapi||20||
lōmaharṣaḥ pralāpaśca pāṇipr̥ṣṭhaśirōgrahaḥ|
khāñjyapāṅgulyakubjatvaṁ śōṣō’ṅgānāmanidratā||21||
garbhaśukrarajōnāśaḥ spandanaṁ gātrasuptatā|
śirōnāsākṣijatrūṇāṁ grīvāyāścāpi huṇḍanam||22||
bhēdastōdārtirākṣēpō mōhaścāyāsa ēva ca|
ēvaṁvidhāni rūpāṇi karōti kupitō’nilaḥ||23||
hētusthānaviśēṣācca bhavēdrōgaviśēṣakr̥t|24|
kupitānāṁ kāryamāha- saṅkōca ityādi| ētē ca saṅkōcādayō vyādhayō’pi bhavanti; uktaṁ hi- “vyādhayastē tadātvē tu liṅgānīṣṭāni nāmayāḥ” (ni.a.8) iti| huṇḍanaṁ śiraḥprabhr̥tīnāmantaḥpravēśaḥ; anyē tu kēśabhūmisphuṭanaṁ śaṅkhalalāṭabhēdaśca śirōhuṇḍanaṁ, nāsāhuṇḍanaṁ ghrāṇanāśaḥ, akṣihuṇḍanam akṣivyudāsaḥ, jatruhuṇḍanaṁ vakṣōparōdhaḥ, grīvāhuṇḍanaṁ grīvāstambhaḥ| vātavyādhiviśēṣōtpādē hētumāha- hētusthānaviśēṣādityādi| hētuviśēṣaḥ pittāvaraṇādiḥ, sthānaviśēṣaḥ kōṣṭhādiḥ, kiṁvā hētukr̥taḥ sthānaviśēṣaḥ; uktaṁ hi- “prakupitāstu prakōpaṇaviśēṣād dūṣyaviśēṣān dūṣayantaḥ” (vi.a.6) ityādi| kēcittu ‘dēhē sthānaviśēṣācca’ iti paṭhanti||20-23||-
tatra kōṣṭhāśritē duṣṭē nigrahō mūtravarcasōḥ||24||
bradhnahr̥drōgagulmārśaḥpārśvaśūlaṁ ca mārutē|
sarvāṅgakupitē vātē gātrasphuraṇabhañjanē||25||
vēdanābhiḥ parītaśca sphuṭantīvāsya sandhayaḥ|
grahō viṇmūtravātānāṁ śūlādhmānāśmaśarkarāḥ||26||
jaṅghōrutrikapātpr̥ṣṭharōgaśōṣau [7] gudasthitē|
hr̥nnābhipārśvōdararuktr̥ṣṇōdgāravisūcikāḥ||27||
kāsaḥ kaṇṭhāsyaśōṣaśca śvāsaścāmāśayasthitē|
pakvāśayasthō’ntrakūjaṁ śūlāṭōpau karōti ca||28||
kr̥cchramūtrapurīṣatvamānāhaṁ trikavēdanām|
śrōtrādiṣvindriyavadhaṁ kuryādduṣṭasamīraṇaḥ||29||
tvagrūkṣā sphuṭitā suptā kr̥śā kr̥ṣṇā ca tudyatē|
ātanyatē sarāgā ca parvaruk tvaksthitē’nilē||30||
rujastīvrāḥ sasantāpā vaivarṇyaṁ kr̥śatā’ruciḥ|
gātrē cārūṁṣi bhuktasya stambhaścāsr̥ggatē’nilē||31||
gurvaṅgaṁ tudyatē’tyarthaṁ daṇḍamuṣṭihataṁ tathā|
saruk śramitamatyarthaṁ [8] māṁsamēdōgatē’nilē||32||
bhēdō’sthiparvaṇāṁ sandhiśūlaṁ māṁsabalakṣayaḥ|
asvapnaḥ santatā ruk ca majjāsthikupitē’nilē||33||
kṣipraṁ muñcati badhnāti śukraṁ garbhamathāpi vā|
vikr̥tiṁ janayēccāpi śukrasthaḥ kupitō’nilaḥ||34||
bāhyābhyantaramāyāmaṁ khalliṁ kubjatvamēva ca|
sarvāṅgaikāṅgarōgāṁśca kuryāt snāyugatō’nilaḥ||35||
śarīraṁ mandarukśōphaṁ śuṣyati spandatē tathā|
suptāstanvyō mahatyō vā sirā vātē sirāgatē||36||
vātapūrṇadr̥tisparśaḥ śōthaḥ sandhigatē’nilē|
prasāraṇākuñcanayōḥ pravr̥ttiśca [9] savēdanā||37||
(ityuktaṁ [10] sthānabhēdēna vāyōrlakṣaṇamēva ca)|38|
sthānaviśēṣakr̥tamēva vyādhibhēdamāha- tatra kōṣṭhāśritē ityādi| sarvāṅgakupitē iti kr̥tsnadēhakupitē| gudasthitē iti uttaragudasthitē| ātanyatē vistāryatē| bhuktasya stambha iti bhuktavatō gātrastambhō bhavatīti| gurvaṅgamityādi māṁsagē mēdēgē ca lakṣaṇaṁ samānaṁ, tathā bhēdō’sthiparvaṇāmityādi asthimajjagayōḥ samānaṁ lakṣaṇam| samānē’pi lakṣaṇē vividhāśitapītīyōktaviśiṣṭadhātulakṣaṇairviśēṣa unnēyaḥ| santatēti sānubandhā [11] | kṣipraṁ muñcati badhnātīti vyavāyakālē kṣipraṁ muñcati vā ciraṁ dhārayatē, tathā garbhamapi kṣipraṁ muñcati vā ciraṁ dhārayati| vikr̥tamiti vyaṅgatvādinānāvikārayuktaṁ garbhaṁ janayati| bāhyētyādinā snāyugatavātalakṣaṇatvēnōktāni bahirāyāmādīnyagrē vaktavyāni [12] | mandarukśōphamiti mandarujaṁ mandaśōphaṁ ca| suptā iti niḥspandāḥ||24-37||-
ativr̥ddhaḥ śarīrārdhamēkaṁ vāyuḥ prapadyatē|
yadā tadōpaśōṣyāsr̥gbāhuṁ pādaṁ ca jānu ca||38||
tasmin saṅkōcayatyardhē mukhaṁ jihmaṁ karōti ca|
vakrīkarōti nāsābhrūlalāṭākṣihanūstathā||39||
tatō vakraṁ vrajatyāsyē bhōjanaṁ vakranāsikam [13] |
stabdhaṁ nētraṁ kathayataḥ kṣavathuśca nigr̥hyatē||40||
dīnā jihmā samutkṣiptā kalā [14] sajjati cāsya vāk|
dantāścalanti bādhyētē śravaṇau bhidyatē svaraḥ||41||
pādahastākṣijaṅghōruśaṅkhaśravaṇagaṇḍaruk [15] |
ardhē tasminmukhārdhē vā kēvalē syāttadarditam||42||
idānīmatibalān vātavikārānabhidhātumudyatō’rditamāha- ativr̥ddha ityādi| ativr̥ddhagrahaṇēna vāyōrbalavatprakōpamāha| ēkamiti vāmaṁ dakṣiṇaṁ vā saṅkōcayati bāhuṁ, pādaṁ, jānu ca; vakraṁ ca jihmaṁ karōti| vakraṁ vrajati bhōjanamiti na samaṁ mukhēna khādati, kintu vakraikadēśēna| dīnēti agambhīrā| jihmēti kuṭilā| samutkṣiptēti atitvaritā| kalēti avyaktā| bādhyētē śravaṇāviti yadyapi ēkapārśvāśrayō vikārō’yaṁ, tathā’pi prabhāvāt karṇayōrbādhā’tra bhavati| kēvala iti ardhē ēva na kr̥tsnē| nanu yadā dēhārdhavyāpitvamarditasya tadā’rditēna ardhāṅgasya kō bhēdaḥ? brūmaḥ-arditō vēgitayā na sarvakālaṁ bhavati, ardhāṅgastu sarvakālaṁ vyāpya bhavati; uktaṁ hi- “svasthaḥ syādarditādīnāṁ muhurvēgāgamē gatē” iti| kiṁvā yathōktaviśiṣṭalakṣaṇō’rditaḥ, ardhāṅgē tu naitāni sarvāṇi bhavanti||38-42||
manyē saṁśritya vātō’ntaryadā nāḍīḥ prapadyatē|
manyāstambhaṁ tadā kuryādantarāyāmasañjñitam||43||
antarāyamyatē grīvā manyā ca stabhyatē bhr̥śam|
dantānāṁ daṁśanaṁ lālā pr̥ṣṭhāyāmaḥ [16] śirōgrahaḥ||44||
jr̥mbhā vadanasaṅgaścāpyantarāyāmalakṣaṇam|
(ityuktastvantarāyāmō [17] …|45|
manyē ityādinā antarāyāmamāha| antaryadā nāḍīḥ prapadyatē iti manyāsambaddhā ēva antargatāḥ sirāḥ prapadyata ityarthaḥ| antarāyāmasañjñitamiti ēvaṁvidhō manyāstambha antarāyāma ucyatē; aparastu manyāstambhō vakṣyamāṇabahirāyāma iti vaktavyaḥ| tantrāntarē tu manyāstambha āyāmayōḥ pūrvarūpatvēnōktaḥ| antarāyamyata iti antaḥ [18] ākr̥ṣyatē| pr̥ṣṭhāyāma iti pr̥ṣṭhabahirnirgatiḥ||43-44||-
…bahirāyāma ucyatē)||45||
pr̥ṣṭhamanyāśritā bāhyāḥ śōṣayitvā sirā balī|
vāyuḥ kuryāddhanustambhaṁ bahirāyāmasañjñakam||46||
cāpavannāmyamānasya pr̥ṣṭhatō nīyatē śiraḥ|
ura utkṣipyatē manyā stabdhā grīvā’vamr̥dyatē||47||
dantānāṁ daśanaṁ jr̥mbhā lālāsrāvaśca vāggrahaḥ|
jātavēgō nihantyēṣa vaikalyaṁ vā prayacchati||48||
pr̥ṣṭhētyādi bahirāyāmalakṣaṇam| pr̥ṣṭhamanyāśritā iti pr̥ṣṭhānugatamanyāsambaddhāḥ| bāhyā iti sirāviśēṣaṇam| bāhyāśca sirāḥ pr̥ṣṭhagatā ēva| kēcittu pr̥ṣṭhamanyāśrita iti vātaviśēṣaṇaṁ paṭhanti| pr̥ṣṭhatō nīyatē iti pr̥ṣṭhaṁ prati ākr̥ṣyatē| jātavēga iti udvēgaḥ [19] | ētau cāyāmau “bāhyābhyantaramāyāmaṁ khallīṁ kubjatvamēva ca| sarvaikāṅgarōgāṁśca kuryāt snāyugatō’nilaḥ” ityanēna snāyugatānilajanyāvuktau, iha ca sirāgatavātajanyatvēnōktau, tēnōbhayavacanāt sirāsnāyugatavātajanyāvēva bhavataḥ| uktaṁ hyanyatra- “mahāhēturbalī vāyuḥ sirāḥ sasnāyukaṇḍarāḥ| manyāpr̥ṣṭhāśritā bāhyāḥ saṁśōṣyāyāmayēdbahiḥ” ityādi||45-48||
hanumūlē sthitō bandhāt saṁsrayatyanilō hanū|
vivr̥tāsyatvamathavā kuryāt [20] stabdhamavēdanam||49||
hanugrahaṁ ca saṁstabhya hanuṁ(nū)saṁvr̥tavakratām|50|
hanustambhasaṅkōcayōrlakṣaṇamāha- hanumūlē sthita ityādi| saṁsrayatīti cyāvayati| vivr̥tāsyatvamathavēti atrāthavāśabdēna saṁvr̥tavaktratā pākṣikī cāpēkṣatē| saṁstabhyēti niścalīkr̥tya saṁvr̥tamukhatāṁ karōti| ētaddvayamapi hanustambha ēva||49||-
muhurākṣipati kruddhō gātrāṇyākṣēpakō’nilaḥ||50||
pāṇipādaṁ ca saṁśōṣya sirāḥ sasnāyukaṇḍarāḥ|51|
muhurityādi ākṣēpalakṣaṇam||50||-
pāṇipādaśiraḥpr̥ṣṭhaśrōṇīḥ stabhnāti mārutaḥ||51||
daṇḍavatstabdhagātrasya daṇḍakaḥ sō’nupakramaḥ|52|
pāṇipādaṁ ca saṁśōṣyētyādi daṇḍākṣēpakasamprāptikathanam| pāṇipādaśira ityādi daṇḍakalakṣaṇam||51||-
svasthaḥ syādarditādīnāṁ muhurvēgē [21] gatē’gatē||52||
pīḍyatē pīḍanaistaistairbhiṣagētān vivarjayēt|53|
arditādīnāṁ daṇḍakāntānāṁ samānaṁ rūpamāha- svasthaḥ syādityādi| arditahanustambhādiṣu yatra muhurmuhurvēgitvaṁ dr̥śyatē tadarditāntargatamēva jñēyam||52||-
hatvaikaṁ mārutaḥ pakṣaṁ dakṣiṇaṁ vāmamēva vā||53||
kuryāccēṣṭānivr̥ttiṁ hi rujaṁ vākstambhamēva [22] ca|
gr̥hītvā’rdhaṁ śarīrasya sirāḥ snāyūrviśōṣya ca||54||
pādaṁ saṅkōcayatyēkaṁ hastaṁ vā tōdaśūlakr̥t|
ēkāṅgarōgaṁ taṁ vidyāt sarvāṅgaṁ [23] sarvadēhajam||55||
hatvaikamityādi pakṣavadhalakṣaṇam| gr̥hītvā’rdhamityādi ēkāṅgalakṣaṇam| sarvāṅgaṁ sarvadēhajamiti sarvāṅgalakṣaṇam||53-55||
sphikpūrvā kaṭipr̥ṣṭhōrujānujaṅghāpadaṁ kramāt|
gr̥dhrasī stambharuktōdairgr̥hṇāti spandatē muhuḥ||56||
vātādvātakaphāttandrāgauravārōcakānvitā|
khallī tu pādajaṅghōrukaramūlāvamōṭanī||57||
sphikpūrvētyādi| prathamaṁ sphicaṁ stambharuktōdairgr̥hṇāti, paścāttu [24] kaṭipr̥ṣṭhōrujānujaṅghāpadaṁ gr̥hṇāti sā gr̥dhrasī vātāt; vātakaphāttu sā pūrvōktalakṣaṇā [25] satī tandrādyanvitā bhavati; ēvaṁ gr̥dhrasīdvayaṁ “dvē gr̥dhrasyau vātād vātakaphācca” (sū.a.19) ityanēnōktaṁ vivr̥taṁ bhavati||56-57||
sthānānāmanurūpaiśca liṅgaiḥ śēṣān vinirdiśēt|58|
anuktanakhabhēdādiparigrahārthamāha- sthānānāmityādi| śēṣān nakhabhēdādīn nakhagulphādīnāmanurūpairliṅgairbhēdaśūlādibhirnirdiśēditi jñēyam| kicit ‘sthānanāmānurūpaiḥ’ iti paṭhanti| tatra nakhasthānānurūpaṁ bhēdasañjñānurūpaṁ ca liṅgaṁ nakhasphuṭanarūpaṁ bhavati| ēvaṁ cāparavātavikārēṣvapi mahārōgōktēṣu sthānānurūpaliṅgayōgō’nusartavyaḥ|58|-
sarvēṣvētēṣu saṁsargaṁ pittādyairupalakṣayēt||58||
vāyōrdhātukṣayāt kōpō mārgasyāvaraṇēna ca (vā)|
vātapittakaphā dēhē sarvasrōtō’nusāriṇaḥ||59||
vāyurēva hi sūkṣmatvāddvayōstatrāpyudīraṇaḥ [26] |
kupitastau samuddhūya tatra tatra kṣipan gadān||60||
karōtyāvr̥tamārgatvādrasādīṁścōpaśōṣayēt|61|
vātasya pittādisaṁsargaṁ jñāpayannāha- sarvēṣvityādi| pittādyairiti pittakapharaktapurīṣādibhiḥ| athāvr̥tasya vāyōḥ kathaṁ kupitatvaṁ bhavati yāvatā āvr̥tō durbala ēva bhavatītyāha- vāyōrityādi| dhātukṣayāditi sārakṣayāt| mārgāvaraṇēna vēgapratibandhādēva kupitō bhavati| atha bhavatu mārgarōdhādvātakōpaḥ, āvarakēṇa tu pittēna kaphēna cāsya kathaṁ na sambandhō bhavatītyāha- vātapittētyādi| tritayamēlakē’pi vāyōḥ prādhānyamāha- vāyurēva hi sūkṣmatvāditi; sūkṣmamārgānusāritayā prērakatvāt| tasmāt triṣvapi dōṣēṣu vāyurēvōktanyāyēna pradhānam, ataḥ kupitaḥ pittakaphau samuddhūya tābhyāmāvr̥tamārgō’pi tatra tatra pradēśē gadān karōti; tathā rasādīṁśca tatra tatra kṣipan saṁśōṣayēt||58-60||-
liṅgaṁ pittāvr̥tē dāhastr̥ṣṇā śūlaṁ bhramastamaḥ [27] ||61||
kaṭvamlalavaṇōṣṇaiśca vidāhaḥ śītakāmitā|
śaityagauravaśūlāni kaṭvādyupaśayō’dhikam||62||
laṅghanāyāsarūkṣōṣṇakāmitā ca kaphāvr̥tē|
raktāvr̥tē sadāhārtistvaṅmāṁsāntarajō bhr̥śam||63||
bhavēt sarāgaḥ śvayathurjāyantē maṇḍalāni ca|
kaṭhināśca vivarṇāśca piḍakāḥ śvayathustathā||64||
harṣaḥ pipīlikānāṁ ca sañcāra iva māṁsagē|
calaḥ snigdhō mr̥duḥ śītaḥ śōphō’ṅgēṣvarucistathā||65||
āḍhyavāta iti jñēyaḥ sa kr̥cchrō mēdasā”vr̥taḥ|
sparśamasthnā”vr̥tē tūṣṇaṁ pīḍanaṁ cābhinandati||66||
sambhajyatē sīdati ca sūcībhiriva tudyatē|
majjāvr̥tē vināmaḥ [28] syājjr̥mbhaṇaṁ parivēṣṭanam||67||
śūlaṁ tu pīḍyamānē ca pāṇibhyāṁ labhatē sukham|
śukrāvēgō’tivēgō vā niṣphalatvaṁ ca śukragē||68||
bhuktē kukṣau ca rugjīrṇē śāmyatyannāvr̥tē’nilē|
mūtrāpravr̥ttirādhmānaṁ bastau mūtrāvr̥tē’nilē||69||
varcasō’tivibandhō’dhaḥ svē sthānē parikr̥ntati|
vrajatyāśu jarāṁ snēhō bhuktē cānahyatē naraḥ||70||
cirāt pīḍitamannēna duḥkhaṁ śuṣkaṁ śakr̥t sr̥jēt|
śrōṇīvaṅkṣaṇapr̥ṣṭhēṣu rugvilōmaśca mārutaḥ||71||
asvasthaṁ hr̥dayaṁ caiva varcasā tvāvr̥tē’nilē|72|
āvaraṇakr̥taṁ vātakōpaṁ darśayitvā āvaraṇaviśēṣakr̥taṁ liṅgamāha- liṅgaṁ pittāvr̥tē ityādi| kaṭvādyupaśaya iti kaṭūṣṇādikaphaviparītairupaśayaḥ| adhikamiti vātaharairapyupaśayō nādhikō bhavatīti darśayati| māṁsagē iti māṁsāvr̥tē| māṁsagatasya raktādigatasya ca vātasya pūrvamēva lakṣaṇamuktam, iha tu raktādyāvr̥tasya lakṣaṇamucyata iti viśēṣaḥ| āḍhyavātēti āyurvēdasañjñēyaṁ mēdasā”vr̥tavātasya| svasthānē iti pakvāśayē| parikr̥ntati parikartikāṁ janayati||61-71||-
sandhicyutirhanustambhaḥ [29] kuñcanaṁ kubjatā’rditaḥ||72||
pakṣāghātō’ṅgasaṁśōṣaḥ [30] paṅgutvaṁ khuḍavātatā|
stambhanaṁ cāḍhyavātaśca rōgā majjāsthigāśca yē||73||
ētē sthānasya gāmbhīryādyatnāt sidhyanti vā na vā|
navān balavatastvētān sādhayēnnirupadravān||74||
sādhyāsādhyavibhāgamāha- sandhicyutirityādi| atra kubjatvapaṅgutvādayō yadyapi sākṣānna prapañcitāstathā’pi śēṣātidēśēnaiva tallakṣaṇaṁ jñēyam| khuḍavātatā gulphavātatā, kiṁvā sandhigatavātatā| majjāsthigā iti majjāsthyāvr̥tamajjāsthigatavātajanyā ityarthaḥ| sthānasya gāmbhīryāditi gambhīrasthānāśritatvāt; anyē tu gāmbhīryaṁ kr̥tāspadatvamāhuḥ| yatnāt sidhyanti vā navēti pākṣikasiddhivacanamitaravaidyābhiprāyēṇa jñēyam; ācāryastu ācāryaprakhyō vā vaidyaḥ sādhayatyēva balāt, itaravaidyastu nāvaśyaṁ sarvatrāvyāhatajñānō bhavati, tēna saṁśayābhidhānaṁ; tataśca na pāramārthikī sandigdhatā ētādr̥śānāṁ sādhyatāṁ pratīti jñēyam| navānāmapyēṣāṁ nirupadravatayā sādhyatāmāha- navānityādi| upadravāścātra śr̥ṅgagrāhikayā’nuktā api sāmānyōpadravalakṣaṇayuktā ēva kēcidgadā vijñēyāḥ; kiṁvā adhyāyaśēṣē ‘hr̥drōgō vidradhiḥ’ ityādinā vakṣyamāṇā upadravā jñēyāḥ||72-74||
kriyāmataḥ paraṁ siddhāṁ vātarōgāpahāṁ śr̥ṇu|
kēvalaṁ nirupastambhamādau snēhairupācarēt||75||
vāyuṁ sarpirvasātailamajjapānairnaraṁ tataḥ|
snēhaklāntaṁ samāśvāsya payōbhiḥ snēhayēt punaḥ||76||
yūṣairgrāmyāmbujānūparasairvā snēhasaṁyutaiḥ|
pāyasaiḥ kr̥śaraiḥ sāmlalavaṇairanuvāsanaiḥ||77||
nāvanaistarpaṇaiścānnaiḥ [31] susnigdhaṁ svēdayēttataḥ|
svabhyaktaṁ snēhasaṁyuktairnāḍīprastarasaṅkaraiḥ||78||
tathā’nyairvividhaiḥ svēdairyathāyōgamupācarēt|
snēhāktaṁ [32] svinnamaṅgaṁ tu vakraṁ stabdhamathāpi vā||79||
śanairnāmayituṁ śakyaṁ yathēṣṭaṁ śuṣkadāruvat|
harṣatōdarugāyāmaśōthastambhagrahādayaḥ||80||
svinnasyāśu praśāmyanti mārdavaṁ cōpajāyatē|
snēhaśca dhātūnsaṁśuṣkān puṣṇātyāśu prayōjitaḥ||81||
balamagnibalaṁ puṣṭiṁ prāṇāṁścāpyabhivardhayēt|
asakr̥ttaṁ punaḥ snēhaiḥ svēdaiścāpyupapādayēt||82||
tathā snēhamr̥dau kōṣṭhē na tiṣṭhantyanilāmayāḥ|83|
avasaraprāptāṁ kriyāmāha- kriyāmata ityādi| kēvalamityādau kēvalamiti asaṁsr̥ṣṭam| nirupastambhamiti anāvr̥tam| kaiḥ? snēhaiḥ| kathaṁ cōpācarēdityāha- sarpirvasātailamajjapānairiti| snēhapānaprayōgānantaraṁ kartavyamāha- naraṁ tataḥ snēhaklāntamityādi| snēhaklāntamiti snēhapānōdvignaṁ snēhaglānaṁ ca| samāśvāsyēti viśramayitvā [33] | snēhayēditipadaṁ tarpaṇaiḥ pānairityantaṁ yāvadanuvartatē| anyairiti kuṭībhūsvēdādibhiḥ| yathāyōgamiti sarvathā snēhapūrvakasvēdam| snēhapūrvakasvēdaguṇamāha- snēhāktaṁ svinnamityādi| svēdādhyāyē “snēhapūrvaṁ prayuktēna” (sū.a.14) ityādinōktō’pyayaṁ snēhapūrvakasvēdaguṇaḥ punaḥ prakaraṇāgatatvāducyatē| āśu prayōjita iti padaṁ puṣṇātītyanēna sambadhyatē| anilāmayā na tiṣṭhanti na sthāyinō bhavantītyarthaḥ||75-82||-
yadyanēna sadōṣatvāt karmaṇā na praśāmyati||83||
mr̥dubhiḥ snēhasaṁyuktairauṣadhaistaṁ viśōdhayēt|
ghr̥taṁ tilvakasiddhaṁ vā sātalāsiddhamēva vā||84||
payasairaṇḍatailaṁ vā pibēddōṣaharaṁ śivam|
snigdhāmlalavaṇōṣṇādyairāhārairhi malaścitaḥ||85||
srōtō baddhvā’nilaṁ rundhyāttasmāttamanulōmayēt [34] |
durbalō yō’virēcyaḥ syāttaṁ nirūhairupācarēt||86||
pācanairdīpanīyairvā bhōjanaistadyutairnaram|
saṁśuddhasyōtthitē cāgnau snēhasvēdau punarhitau||87||
svādvamlalavaṇasnigdhairāhāraiḥ satataṁ punaḥ|
nāvanairdhūmapānaiśca sarvānēvōpapādayēt||88||
iti sāmānyataḥ prōktaṁ vātarōgacikitsitam|89|
yadyanēna sadōṣatvādityādi| atra kēvalō nirupastambhaśca vāyuścikitsyatvēnādhikr̥taḥ, tasya sadōṣatvamanupapannaṁ; tataḥ sadōṣatvaṁ karmaṇi yōjanīyaṁ; tēna karmaṇō’viśuddhatvād vāyurna praśāmyati, karmaṇaścōktasyāpyatrāśuddhirmalajanakatvāt; vakṣyati hi “snigdhāmlalavaṇōṣṇādyairāhārairhi malaścitaḥ” ityādi| kiṁvā sadōṣatvādityanēnōttarakālīnaṁ vāyōḥ saṁśamanamucyatē, asaṁsr̥ṣṭatvamanupastambhatvaṁ ca yaduktaṁ tadupakramārambhakālē jñēyam| sadōṣatvaṁ ca snēhaprayōgēṇānupaśamē saṁśōdhanakaraṇē ca hētuḥ| samalatvamēvōttarakālīnaṁ kutō bhavatītyāha- snigdhētyādi| durbalō yō’virēcya iti durbalatvaprakarṣēṇāvirēcya ityarthaḥ| tathā hi “anāsthāpyāstvajīrṇī” (si.a.2) ityādau atidurbalaḥ paṭhitaḥ| atyarthaṁ durbalatayā bastyanarhē’pi vidhimāha- pācanairdīpanīyaiścēti| pācanaṁ kiñcinna dīpanaṁ, yathā paṭōlaṁ dīpanaṁ; dīpanaṁ kiñcinna pācanaṁ yathā triphalā; uktaṁ hi suśrutē- “triphalā kaphapittaghnī mēhakuṣṭhavināśinī| cakṣuṣyā dīpanī ca” (su.sū.a.38) iti; ataḥ pācanairityasya dīpanairiti viśēṣaṇaṁ kr̥tam| bhōjyairvā tadyutairiti pācanadīpanasaṁyuktairbhōjyaiḥ| utthitē cāgnau iti dīptē vahnau||83-88||-
viśēṣatastu kōṣṭhasthē vātē kṣāraṁ [35] pibēnnaraḥ||89||
pācanairdīpanairyuktairamlairvā [36] pācayēnmalān|
gudapakvāśayasthē tu karmōdāvartanuddhitam||90||
āmāśayasthē śuddhasya yathādōṣaharīḥ kriyāḥ|
sarvāṅgakupitē’bhyaṅgō bastayaḥ sānuvāsanāḥ||91||
svēdābhyaṅgāvagāhāśca hr̥dyaṁ cānnaṁ tvagāśritē|
śītāḥ pradēhā raktasthē virēkō raktamōkṣaṇam||92||
virēkō māṁsamēdaḥsthē nirūhāḥ śamanāni ca|
bāhyābhyantarataḥ snēhairasthimajjagataṁ jayēt||93||
harṣō’nnapānaṁ śukrasthē balaśukrakaraṁ hitam|
vibaddhamārgaṁ dr̥ṣṭvā vā śukraṁ dadyādvirēcanam||94||
viriktapratibhuktasya pūrvōktāṁ kārayēt kriyām|
garbhē śuṣkē tu vātēna bālānāṁ cāpi śuṣyatām||95||
sitākāśmaryamadhukairhitamutthāpanē payaḥ|
hr̥di prakupitē siddhamaṁśumatyā payō hitam||96||
matsyānnābhipradēśasthē siddhān bilvaśalāṭubhiḥ|
vāyunā vēṣṭyamānē tu gātrē syādupanāhanam||97||
tailaṁ saṅkucitē’bhyaṅgō māṣasaindhavasādhitam|
bāhuśīrṣagatē nasyaṁ pānaṁ cauttarabhaktikam||98||
bastikarma tvadhō nābhēḥ śasyatē cāvapīḍakaḥ|99|
sthānaviśēṣēṇa kriyāviśēṣamāha- viśēṣatastvityādinā adhō nābhēḥ śasyatē cāvapīḍaka ityantēna| kṣāraṁ yavakṣāram, uktaṁ hi “yāvaśūkaḥ sraṁsanīyapācanīyārśōghnānāṁ” (sū.a.25); kiṁvā kṣāramiti grahaṇyādinirdiṣṭaṁ dīpanakṣāram| udāvartanutkarma trimarmīyē “taṁ tailaśītajvaranāśanāktaṁ” (ci.a.26) ityādinōktaṁ jñēyam| svēdā ityādi tvaggatānilacikitsitam| praharṣaḥ manōharṣaṇam| virēcanānantaraṁ pratibhōjitō viriktapratibhuktaḥ| pūrvōktāmiti śukrajananaharṣiṇīṁ kriyām| utthāpanē iti puṣṭijananē sitādibhiḥ siddhaṁ payō hitam| aṁśumatī śālaparṇī|| matsyāniti nābhipradēśē kupitē vātē matsyā bilvaśalāṭubhiḥ samaṁ siddhā dēyāḥ| nābhipradēśakōpaśca vātasyānuktō’pīha tatra bhavaśūlatōdādibhirjñēyaḥ| vēṣṭyamāna iti avamōṭyamānē| upanāhanaṁ ca vātaharadravyairēva kartavyam| nasyē pānē ca auttarabhaktikaṁ māṣasaindhavasādhitamēva tailaṁ jñēyam| tatra ca māṣasya kvāthaḥ, saindhavasya kalkaḥ| sarpiṣō’vapīḍakaḥ yatra sarpiḥ pītvā tatpīḍakamannaṁ bhujyatē||89-98||-
arditē nāvanaṁ mūrdhni tailaṁ tarpaṇamēva ca||99||
nāḍīsvēdōpanāhāścāpyānūpapiśitairhitāḥ|
svēdanaṁ snēhasaṁyuktaṁ pakṣāghātē virēcanam||100||
antarākaṇḍarāgulphaṁ [37] sirā bastyagnikarma ca|
gr̥dhrasīṣu prayuñjīta khallyāṁ tūṣṇōpanāhanam||101||
pāyasaiḥ kr̥śarairmāṁsaiḥ śastaṁ tailaghr̥tānvitaiḥ|
vyāttānanē [38] hanuṁ svinnāmaṅguṣṭhābhyāṁ prapīḍya ca||102||
pradēśinībhyāṁ cōnnābhya cibukōnnāmanaṁ hitam|
srastaṁ svaṁ gamayētsthānaṁ stabdhaṁ svinnaṁ vināmayēt||103||
arditādicikitsāmāha- arditē ityādi| tarpaṇamiti nāvanaviśēṣaṇaṁ; kiṁvā tarpaṇaṁ santarpaṇamēva| antarākaṇḍarāgulphaṁ sirēti kaṇḍarāgulphayōrmadhyē sirāvyadhanaṁ kartavyam| gr̥dhrasīṣviti bahuvacanaṁ vyaktibhēdatayā| vyāttānanamiti vivr̥tāsyam| pradēśinī aṅguṣṭhānantarā’ṅgulī||99-103||
pratyēkaṁ sthānadūṣyādikriyāvaiśēṣyamācarēt [39] |104|
anuktaviśēṣacikitsōpagrahaṇārthamāha- pratyēkamityādi| sthānaṁ pakvāśayādi, dūṣyaṁ rasaraktādi, ādigrahaṇādāvaraṇagrahaṇam| sthānadūṣyāpēkṣaḥ kriyāviśēṣastu ‘kōṣṭhasthē’ ityādinaivōktaḥ|104|-
sarpistailavasāmajjasēkābhyañjanabastayaḥ [40] ||104||
snigdhāḥ svēdā nivātaṁ ca sthānaṁ prāvaraṇāni ca|
rasāḥ payāṁsi bhōjyāni svādvamlalavaṇāni ca||105||
br̥ṁhaṇaṁ yacca tat sarvaṁ praśastaṁ vātarōgiṇām|106|
sarvavātavikārasamānaṁ cikitsitamāha- sarpistailamityādi||104-105||-
balāyāḥ pañcamūlasya daśamūlasya vā rasē||106||
ajaśīrṣāmbujānūpamāṁsādapiśitaiḥ pr̥thak|
sādhayitvā rasān snigdhāndadhyamlavyōṣasaṁskr̥tān||107||
bhōjayēdvātarōgārtaṁ tairvyaktalavaṇairnaram|
ētairēvōpanāhāṁśca piśitaiḥ samprakalpayēt||108||
ghr̥tatailayutaiḥ sāmlaiḥ kṣuṇṇasvinnairanasthibhiḥ|
patrōtkvāthapayastailadrōṇyaḥ syuravagāhanē||109||
svabhyaktānāṁ praśasyantē sēkāścānilarōgiṇām|
ānūpaudakamāṁsāni daśamūlaṁ śatāvarīm||110||
kulatthān badarānmāṣāṁstilānrāsnāṁ yavān balām|
vasādadhyāranālāmlaiḥ saha kumbhyāṁ vipācayēt||111||
nāḍīsvēdaṁ prayuñjīta piṣṭaiścāpyupanāhanam|
taiśca siddhaṁ ghr̥taṁ tailamabhyaṅgaṁ pānamēva ca||112||
mustaṁ kiṇvaṁ tilāḥ kuṣṭhaṁ surāhvaṁ lavaṇaṁ natam|
dadhikṣīracatuḥsnēhaiḥ siddhaṁ syādupanāhanam||113||
utkārikāvēsavārakṣīramāṣatilaudanaiḥ|
ēraṇḍabījagōdhūmayavakōlasthirādibhiḥ||114||
sasnēhaiḥ sarujaṁ gātramālipya bahalaṁ bhiṣak|
ēraṇḍapatrairbadhnīyādrātrau kalyaṁ vimōkṣayēt||115||
kṣīrāmbunā tataḥ siktaṁ punaścaivōpanāhitam|
muñcēdrātrau divābaddhaṁ carmabhiśca salōmabhiḥ||116||
phalānāṁ tailayōnīnāmamlapiṣṭān suśītalān|
pradēhānupanāhāṁśca gandhairvātaharairapi||117||
pāyasaiḥ kr̥śaraiścaiva kārayēt snēhasaṁyutaiḥ|118|
balāyā ityādau pr̥thakśabdād balādayastrayaḥ sādhanadravyaprayōgāḥ, tēṣvajaśīrṣādayaścatvāraḥ pr̥thak sādhyāḥ, ēvaṁ dvādaśa rasā bhavanti| kalyamiti prabhātē| phalānāṁ tailayōnīnāmiti tilātasyādīnām| pradēhānupanāhāṁścētyatra pradēha upanāhāpēkṣayā tanurlēpaḥ| gandhairiti agurvādyaiḥ||106-117||-
rūkṣaśuddhānilārtānāmataḥ snēhān pracakṣmahē||118||
vividhān vividhavyādhipraśamāyāmr̥tōpamān|
drōṇē’mbhasaḥ pacēdbhāgān daśamūlāccatuṣpalān||119||
yavakōlakulatthānāṁ bhāgaiḥ prasthōnmitaiḥ saha|
pādaśēṣē rasē piṣṭairjīvanīyaiḥ saśarkaraiḥ||120||
tathā kharjūrakāśmaryadrākṣābadaraphalgubhiḥ|
sakṣīraiḥ sarpiṣaḥ prasthaḥ siddhaḥ kēvalavātanut||121||
niratyayaḥ prayōktavyaḥ pānābhyañjanabastiṣu|
citrakaṁ nāgaraṁ rāsnāṁ pauṣkaraṁ pippalīṁ śaṭīm||122||
piṣṭvā vipācayēt sarpirvātarōgaharaṁ param|
balābilvaśr̥tē kṣīrē ghr̥tamaṇḍaṁ vipācayēt||123||
tasya śuktiḥ prakuñcō vā nasyaṁ mūrdhagatē’nilē|
grāmyānūpaudakānāṁ tu bhitvā’sthīni pacējjalē||124||
taṁ snēhaṁ daśamūlasya kaṣāyēṇa punaḥ pacēt|
jīvakarṣabhakāsphōtāvidārīkapikacchubhiḥ||125||
vātaghnairjīvanīyaiśca kalkairdvikṣīrabhāgikam|
tatsiddhaṁ nāvanābhyaṅgāttathā pānānuvāsanāt||126||
sirāparvāsthikōṣṭhasthaṁ praṇudatyāśu mārutam|
yē syuḥ prakṣīṇamajjānaḥ kṣīṇaśukraujasaśca yē||127||
balapuṣṭikaraṁ tēṣāmētat syādamr̥tōpamam|
tadvatsiddhā vasā nakramatsyakūrmaculūkajā||128||
pratyagrā vidhinā’nēna nasyapānēṣu śasyatē|
prasthaḥ syāttriphalāyāstu kulatthakuḍavadvayam||129||
kr̥ṣṇagandhātvagāḍhakyōḥ pr̥thak pañcapalaṁ bhavēt|
rāsnācitrakayōrdvē dvē daśamūlaṁ palōnmitam||130||
jaladrōṇē pacēt pādaśēṣē prasthōnmitaṁ pr̥thak|
surāranāladadhyamlasauvīrakatuṣōdakam||131||
kōladāḍimavr̥kṣāmlarasaṁ tailaṁ vasāṁ ghr̥tam|
majjānaṁ ca payaścaiva jīvanīyapalāni ṣaṭ||132||
kalkaṁ dattvā mahāsnēhaṁ samyagēnaṁ vipācayēt|
sirāmajjāsthigē vātē sarvāṅgaikāṅgarōgiṣu||133||
vēpanākṣēpaśūlēṣu tadabhyaṅgē prayōjayēt|
nirguṇḍyā mūlapatrābhyāṁ gr̥hītvā svarasaṁ tataḥ||134||
tēna siddhaṁ samaṁ tailaṁ nāḍīkuṣṭhānilārtiṣu|
hitaṁ pāmāpacīnāṁ ca pānābhyañjanapūraṇam||135||
kārpāsāsthikulatthānāṁ rasē siddhaṁ ca vātanut|136|
rūkṣaśuddhētyādau śuddhānilārtāḥ kēvalavātapīḍitāḥ| ghr̥tamaṇḍaḥ ghr̥tasyōparitanō bhāgaḥ| śuktiḥ ardhapalaṁ, prakuñcaḥ palam| tadvatsiddhēti balābilvaprabhr̥tiśr̥takṣīrasiddhā| culukī śiśumāraḥ| pratyagrēti abhinavā| nasyapānēṣviti nasyēṣu pānēṣu ca [41] | kr̥ṣṇagandhātvak śōbhāñjanatvak| mahāsnēhamiti catuḥsnēham| tēna siddhaṁ tailamityatra samamiti nirguṇḍīrasasamaṁ, natu samaśabdaḥ sahārthaḥ; sahārthasya tr̥tīyayaivōktatvāt| nāḍī nāḍīvraṇaḥ; nāḍīvraṇasya suśrutādiṣu pañcavidhatvamuktaṁ jñēyam| apacī ca hanvasthikakṣādidēśabhavā||118-135||-
mūlakasvarasē kṣīrasamē sthāpyaṁ tryahaṁ dadhi||136||
tasyāmlasya tribhiḥ prasthaistailaprasthaṁ vipācayēt|
yaṣṭyāhvaśarkarārāsnālavaṇārdrakanāgaraiḥ||137||
supiṣṭaiḥ palikaiḥ pānāttadabhyaṅgācca vātanut|138|
mūlakasvarasa ityādau mūlakasvarasē samakṣīrē dadhi sthāpyaṁ; tasyāmlasyēti mūlarasādēramlatāṅgatasya| atra ca tribhiḥ prasthairiti vacanāt mūlakarasādīnāṁ pratyēkaṁ prasthamānatvam| uktaṁ hi jatūkarṇē- “vipacēd dadhimūlakarasapayasā” ityādi||136-137||-
pañcamūlakaṣāyēṇa piṇyākaṁ bahuvārṣikam||138||
paktvā tasya rasaṁ pūtvā [42] tailaprasthaṁ vipācayēt|
payasā’ṣṭaguṇēnaitat sarvavātavikāranut||139||
saṁsr̥ṣṭē ślēṣmaṇā caitadvātē śastaṁ viśēṣataḥ|
yavakōlakulatthānāṁ śrēyasyāḥ śuṣkamūlakāt||140||
bilvāccāñjalimēkaikaṁ dravairamlairvipācayēt|
tēna tailaṁ kaṣāyēṇa phalāmlaiḥ kaṭubhistathā||141||
piṣṭaiḥ siddhaṁ mahāvātairārtaḥ śītē prayōjayēt|142|
pañcamūlakaṣāyēṇētyādau pañcamūlīkaṣāyaṁ tathā piṇyākakvathitaṁ jalaṁ ca pr̥thagdēyamiti kēcidvadanti, vayaṁ tu pañcamūlīkaṣāyēṇaiva jalasthānīyēna sādhitapiṇyākasya rasamatrēcchāmaḥ| pāṭhaśca ‘pañcamūlīkaṣāyēṇa piṇyākaṁ bahuvārṣikam| paktvā tasya rasaṁ pūtvā’ ityādi paṭhyatē; jātūkarṇē’pi “piṇyākaṁ bahuvārṣikaṁ sthirādisalilē pacēt, rasē’sminaṣṭaguṇēna payasā tailaṁ sādhyam” iti| dravairamlairiti kāñjikatakrādibhiḥ| phalāmlairiti amlaphalairdāḍimādibhiḥ||138-141||-
sarvavātavikārāṇāṁ tailānyanyānyataḥ śr̥ṇu||142||
catuṣprayōgāṇyāyuṣyabalavarṇakarāṇi ca|
rajaḥśukrapradōṣaghnānyapatyajananāni ca||143||
niratyayāni siddhāni sarvadōṣaharāṇi ca|
sahācaratulāyāśca rasē tailāḍhakaṁ pacēt||144||
mūlakalkāddaśapalaṁ payō dattvā caturguṇam|
siddhē’smiñcharkarācūrṇādaṣṭādaśapalaṁ bhiṣak||145||
vinīya dāruṇēṣvētadvātavyādhiṣu yōjayēt|
śvadaṁṣṭrāsvarasaprasthau dvau samau payasā saha||146||
ṣaṭpalaṁ śr̥ṅgavērasya guḍasyāṣṭapalaṁ tathā|
tailaprasthaṁ vipakvaṁ tairdadyāt sarvānilārtiṣu||147||
jīrṇē tailē ca dugdhēna pēyākalpaḥ praśasyatē|
balāśataṁ guḍūcyāśca pādaṁ rāsnāṣṭabhāgikam||148||
jalāḍhakaśatē paktvā daśabhāgasthitē rasē|
dadhimastvikṣuniryāsaśuktaistailāḍhakaṁ samaiḥ||149||
pacēt sājapayō’rdhāṁśaiḥ kalkairēbhiḥ palōnmitaiḥ|
śaṭīsaraladārvēlāmañjiṣṭhāgurucandanaiḥ||150||
padmakātiviṣāmustasūrpaparṇīharēṇubhiḥ|
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ||151||
palāśarasakastūrīnalikājātikōṣakaiḥ|
spr̥kkākuṅkumaśailēyajātīkaṭuphalāmbubhiḥ||152||
tvacākundurukarpūraturuṣkaśrīnivāsakaiḥ [43] |
lavaṅganakhakakkōlakuṣṭhamāṁsīpriyaṅgubhiḥ||153||
sthauṇēyatagaradhyāmavacāmadanapallavaiḥ|
sanāgakēśaraiḥ siddhē kṣipēccātrāvatāritē||154||
patrakalkaṁ tataḥ pūtaṁ vidhinā tat prayōjayēt|
śvāsaṁ kāsaṁ jvaraṁ hikkāṁ [44] chardiṁ gulmān kṣataṁ kṣayam||155||
plīhaśōṣāvapasmāramalakṣmīṁ ca praṇāśayēt|
balātailamidaṁ śrēṣṭhaṁ vātavyādhivināśanam||156||
(agnivēśāya guruṇā kr̥ṣṇātrēyēṇa bhāṣitam)|
iti balātailam|
catuṣprayōgāṇīti pānābhyañjananasyānuvāsanayōgīni| sahācarētyādau mūlakalkāddaśapalamityanēna sahacaramūlādēva daśapalaḥ kalkō dēyaḥ; jatūkarṇē tvatra mūlakasyaiva kalka uktaḥ| jīrṇē tailē ityādi pītē tailē jīrṇē sati| kṣīrēṇa pēyāvidhānamatra prayōgasātmyatvāt| guḍūcyāḥ pādamiti pañcaviṁśatipalāni| rāsnāṣṭabhāgikamiti gatāpēkṣayā rāsnāyā aṣṭabhāgēnārdhatrayōdaśapalāni bhavanti| sājapayō’rdhāṁśamiti chāgakṣīrārdhayuktam| sūrpaparṇyau mudgamāṣaparṇyau| rasaḥ gandharasaḥ| nalikā svanāmakhyātā| kaṭuphalā latākastūrī, anyē sugandhi dakṣiṇāpathaprasiddhaṁ padyala(?)māhuḥ| turuṣkaḥ silhakaḥ| nakhīsvalpanakhī| patrakalkamiti sugandhitvādasya tailasya gandhaśāsraparibhāṣayā patrakalkō dēya ityucyatē; gandhaśāstrē ca “cūrṇasvarasapuṣpāṇāṁ siddhaśītē’vatāritē| dīyatē gandhavr̥ddhyarthaṁ patrakalkō manīṣibhiḥ” iti; tēnātra karpūrādipatrakalkō’vatāritē ēva dēyaḥ||142-156||-
amr̥tāyāstulāḥ pañca drōṇēṣvaṣṭasvapāṁ pacēt||157||
pādaśēṣē samakṣīraṁ tailasya dvyāḍhakaṁ pacēt|
ēlāmāṁsīnatōśīrasārivākuṣṭhacandanaiḥ||158||
balātāmalakīmēdāśatapuṣpardhijīvakaiḥ [45] |
kākōlīkṣīrakākōlīśrāvaṇyatibalānakhaiḥ||159||
mahāśrāvaṇijīvantīvidārīkapikacchubhiḥ|
śatāvarīmahāmēdākarkaṭākhyāharēṇubhiḥ||160||
vacāgōkṣurakairaṇḍarāsnākālāsahācaraiḥ|
vīrāśallakimustatvakpatrarṣabhakabālakaiḥ||161||
sahailākuṅkumaspr̥kkātridaśāhvaiśca kārṣikaiḥ|
mañjiṣṭhāyāstrikarṣēṇa madhukāṣṭapalēna ca||162||
kalkaistat kṣīṇavīryāgnibalasammūḍhacētasaḥ|
unmādāratyapasmārairārtāṁśca prakr̥tiṁ nayēt||163||
vātavyādhiharaṁ śrēṣṭhaṁ tailāgryamamr̥tāhvayam|
(kr̥ṣṇātrēyēṇa [46] guruṇā bhāṣitaṁ vaidyapūjitam)||164||
ityamr̥tādyaṁ tailam|
amr̥tāyā ityādau mahāśrāvaṇī br̥hanmuṇḍitikā| kālā kālānusārivā| tridaśāhvaḥ dēvadāruḥ||157-164||
rāsnāsahasraniryūhē tailadrōṇaṁ vipācayēt|
gandhairhaimavataiḥ piṣṭairēlādyaiścānilārtinut||165||
kalpō’yamaśvagandhāyāṁ prasāraṇyāṁ balādvayē|
kvāthakalkapayōbhirvā balādīnāṁ pacēt pr̥thak||166||
iti rāsnātailam|
rāsnāsahasraniryūhē ityādau haimavatairiti himālayabhūtaiḥ agarukuṣṭhakṣēmakādibhiḥ| ēlādyairiti amr̥tādyē ēlāmāṁsīnatētyādinōktaiḥ| ēṣa kalpa ityanantarōktarāsnākalpō balādiṣvapi vaktavyaḥ| balādīnāmiti anantarōktānāṁ balāprasāraṇyaśvagandhānām||165-166||
mūlakasvarasaṁ kṣīraṁ tailaṁ dadhyamlakāñjikam|
tulyaṁ vipācayēt kalkairbalācitrakasaindhavaiḥ||167||
pippalyativiṣārāsnācavikāguruśigrukaiḥ|
bhallātakavacākuṣṭhaśvadaṁṣṭrāviśvabhēṣajaiḥ||168||
puṣkarāhvaśaṭībilvaśatāhvānatadārubhiḥ|
tatsiddhaṁ pītamatyugrān hanti vātātmakān gadān||169||
iti mūlakādyaṁ tailam|
vr̥ṣamūlaguḍūcyōśca dviśatasya śatasya ca|
citrakāt sāśvagandhācca kvāthē tailāḍhakaṁ pacēt||170||
sakṣīraṁ vāyunā bhagnē dadyājjarjaritē tathā|
prāktailāvāpasiddhaṁ ca bhavēdētadguṇōttaram||171||
iti vr̥ṣamūlāditailam|
vr̥ṣamūlētyādau aśvagandhācitrakābhyāṁ militābhyāṁ tulā| prāktailāvāpasiddhamiti mūlakasvarasamityādyuktatailakalkēna samaṁ vr̥ṣamūlādikvāthēna ca siddham| bhavēttaddviguṇōttaramiti pāṭhē vr̥ṣamūlādikvāthasiddhāttailād dviguṇaṁ śrēṣṭham||167-171||
rāsnāśirīṣayaṣṭyāhvaśuṇṭhīsahacarāmr̥tāḥ||172||
syōnākadāruśampākahayagandhātrikaṇṭakāḥ|
ēṣāṁ daśapalān bhāgān kaṣāyamupakalpayēt||173||
tatastēna kaṣāyēṇa sarvagandhaiśca kārṣikaiḥ|
dadhyāranālamāṣāmbumūlakēkṣurasaiḥ [47] śubhaiḥ||174||
pr̥thak prasthōnmitaiḥ sārdhaṁ tailaprasthaṁ vipācayēt|
plīhamūtragrahaśvāsakāsamārutarōganut [48] ||175||
ētanmūlakatailākhyaṁ [49] varṇāyurbalavardhanam|
iti mūlakatailam|
yavakōlakulatthānāṁ matsyānāṁ śigrubilvayōḥ|
rasēna mūlakānāṁ ca tailaṁ dadhipayōnvitam||176||
sādhayitvā bhiṣagdadyāt sarvavātāmayāpaham|
laśunasvarasē siddhaṁ tailamēbhiśca vātanut||177||
tailānyētānyr̥tusnātāmaṅganāṁ pāyayēta ca|
pītvā’nyatamamēṣāṁ hi vandhyā’pi janayēt sutam||178||
yacca śītajvarē tailamagurvādyamudāhr̥tam|
anēkaśataśastacca siddhaṁ syādvātarōganut||179||
vakṣyantē yāni tailāni vātaśōṇitakē’pi ca|
tāni cānilaśāntyarthaṁ siddhikāmaḥ prayōjayēt||180||
nāsti tailāt paraṁ kiñcidauṣadhaṁ mārutāpaham|
vyavāyyuṣṇagurusnēhāt saṁskārādvalavattaram||181||
gaṇairvātaharaistasmācchataśō’tha sahasraśaḥ|
siddhaṁ kṣiprataraṁ hanti sūkṣmamārgasthitān gadān||182||
sarvagandhaiścēti balātailōktaiḥ sarvagandhaiḥ| sārdhamiti sahitam| mūlakatailākhyamitisañjñayā tatra rāsnādīnāṁ mūlēnaiva kvāthasādhanaṁ darśayati| laśunasvarasē ityādau ēbhiścēti yavādikvāthairanantarōktaiḥ| anēkaśataśastacca siddhamiti anēkaśataśastēnaiva vidyānēna sādhitaṁ sadityarthaḥ||172-182||
kriyā sādhāraṇī sarvā saṁsr̥ṣṭē cāpi śasyatē|
vātē pittādibhiḥ srōtaḥsvāvr̥tēṣu viśēṣataḥ||183||
pittāvr̥tē viśēṣēṇa śītāmuṣṇāṁ tathā kriyām|
vyatyāsāt kārayēt sarpirjīvanīyaṁ ca śasyatē||184||
dhanvamāṁsaṁ yavāḥ śāliryāpanāḥ kṣīrabastayaḥ|
virēkaḥ kṣīrapānaṁ ca pañcamūlībalāśr̥tam||185||
madhuyaṣṭibalātailaghr̥takṣīraiśca sēcanam|
pañcamūlakaṣāyēṇa kuryādvā śītavāriṇā||186||
kaphāvr̥tē yavānnāni jāṅgalā mr̥gapakṣiṇaḥ|
svēdāstīkṣṇā nirūhāśca vamanaṁ savirēcanam||187||
jīrṇaṁ sarpistathā tailaṁ tilasarṣapajaṁ hitam|
saṁsr̥ṣṭē kaphapittābhyāṁ pittamādau vinirjayēt||188||
samprati dōṣāntarādisaṁsr̥ṣṭavātacikitsāmāha- kriyā sādhāraṇītyādi| sādhāraṇīti yā vātē sā saṁsargiṇi ca pittādau samānā saṁsargahitēti yāvat; na kēvalaṁ saṁsr̥ṣṭē vāyau sādhāraṇī, kintu vātapittādibhiḥ srōtaḥsvāvr̥tēṣvapi sādhāraṇī kartavyā| vātēna vātāvaraṇamagrē vakṣyati| kēcittu ‘vātē pittādibhiḥ’ iti paṭhanti; ayaṁ pāṭhaḥ sugamaḥ| viśiṣṭasūtritāṁ kriyāmāha- pittāvr̥tē ityādi| vyatyāsāditi parivartanēna śītāṁ kr̥tvōṣṇām, uṣṇāṁ ca kr̥tvā śītāṁ kuryādityarthaḥ| yāpanā bastayaḥ siddhau vakṣyamāṇāḥ| pittamādau vinirjayēditi vacanēna kaphāpēkṣayā pittasyāśukāritayā pittajayamēvōpadiśati||183-188||
āmāśayagataṁ matvā [50] kaphaṁ vamanamācarēt||189||
pakvāśayē virēkaṁ tu pittē sarvatragē tathā|
svēdairviṣyanditaḥ ślēṣmā yadā pakvāśayē sthitaḥ||190||
pittaṁ vā darśayēlliṅgaṁ bastibhistau vinirharēt|
ślēṣmaṇā’nugataṁ vātamuṣṇairgōmūtrasaṁyutaiḥ||191||
nirūhaiḥ pittasaṁsr̥ṣṭaṁ nirharēt kṣīrasaṁyutaiḥ|
madhurauṣadhasiddhaiśca tailaistamanuvāsayēt||192||
śirōgatē tu sakaphē dhūmanasyādi kārayēt|
hr̥tē pittē kaphē yaḥ syāduraḥsrōtō’nugō’nilaḥ||193||
saśēṣaḥ [51] syāt kriyā tatra kāryā kēvalavātikī|
śōṇitēnāvr̥tē kuryādvātaśōṇitakīṁ kriyām||194||
pramēhavātamēdōghnīmāmavātē [52] prayōjayēt|
svēdābhyaṅgarasakṣīrasnēhā māṁsāvr̥tē hitāḥ||195||
mahāsnēhō’sthimajjasthē pūrvavadrētasā”vr̥tē|
annāvr̥tē tadullēkhaḥ [53] pācanaṁ dīpanaṁ laghu||196||
mūtralāni tu mūtrēṇa svēdāḥ sōttarabastayaḥ|
śakr̥tā tailamairaṇḍaṁ snigdhōdāvartavatkriyā [54] ||197||
svasthānasthō balī dōṣaḥ prāk taṁ svairauṣadhairjayēt|
vamanairvā virēkairvā bastibhiḥ śamanēna vā||198||
(ityuktamāvr̥tē vātē pittādibhiryathāyatham [55] )|199|
āmāśayagataṁ matvā kaphamiti vātānubandhikaphasyaivēyaṁ cikitsā| pakvāśayē virēkaṁ tvityatra ‘kaphē’ ityanuvartatē| sarvatragē iti anyasthānagatē’pi pittē| yadyapi dōṣāntarasthānagatē taddōṣapradhānamēva karma vamanaṁ bastirvā yuktaḥ, tathā’pyanēna virēcanamapi tatra yaugikamiti darśayati| sakaphē iti sakaphē vātē| ‘uraḥsrōtōgatē’ iti kēcit paṭhanti, tatra sūkṣmasrōtō’nugatē ityarthaḥ| pramēhavātamēdōghnīmiti pramēhaghnīṁ vātaghnīṁ mēdōghnīṁ ca| mahāsnēha iti catuḥsnēhō’traivōktaḥ| pūrvavadrētasā”vr̥tē iti śukrasthē vātē yā kriyā pūrvamuktā sā rētasā”vr̥tē’pi vātē kāryā| ullēkha iti ullēkhanaṁ vamanam| mūtralānīti mūtravairēcanikāni| śakr̥tā iti malēna| svasthānastha ityādi svasthānasthō yasmāt sthānōpabr̥ṁhaṇādbalī dōṣō bhavati tasmāt prāk svairauṣadhairjayēt| katamaiḥ svairauṣadhairityāha- vamanairityādi| śamanēnēti kaphādiśamanēnaiva; śamanaṁ ca śōdhanānantaraṁ śōdhanānarhē vā jñēyam||189-198||-
mārutānāṁ hi pañcānāmanyōnyāvaraṇē śr̥ṇu||199||
liṅgaṁ vyāsasamāsābhyāmucyamānaṁ mayā’nagha!|
prāṇō vr̥ṇōtyudānādīn prāṇaṁ vr̥ṇvanti tē’pi ca||200||
udānādyāstathā’nyōnyaṁ sarva ēva yathākramam|
viṁśatirvaraṇānyētānyulbaṇānāṁ [56] parasparam||201||
mārutānāṁ hi pañcānāṁ tāni samyak pratarkayēt|
sarvēndriyāṇāṁ śūnyatvaṁ jñātvā smr̥tibalakṣayam||202||
vyānē prāṇāvr̥tē liṅgaṁ karma tatrōrdhvajatrukam|
svēdō’tyarthaṁ lōmaharṣastvagdōṣaḥ suptagātratā||203||
prāṇē vyānāvr̥tē tatra snēhayuktaṁ virēcanam|
prāṇāvr̥tē samānē syurjaḍagadgadamūkatāḥ||204||
catuṣprayōgāḥ śasyantē snēhāstatra sayāpanāḥ|
samānēnāvr̥tē’pānē [57] grahaṇīpārśvahr̥dgadāḥ||205||
śūlaṁ cāmāśayē tatra dīpanaṁ sarpiriṣyatē|206|
mārutānāmanyōnyāvaraṇamāha- mārutānāmityādi| yadyapi cēha vāyōramūrtatvaṁ vātakalākalīyē prōktaṁ, tathā’pīdamamūrtatvamakaṭhinavācakaṁ na tvavayavapratiṣēdhakaṁ; tēna vāyōḥ vāyvantarēṇa gatihananarūpamāvaraṇamupapannamēva; dr̥ṣṭā ca vāyunā vāyvantarēṇōpahatēna vātakuṇḍalitā bahirapi, tēnōpapannamāvaraṇaṁ vātānāṁ parasparam| prāṇō vr̥ṇōtyudānādīnityādinā viṁśatyāvaraṇānyuktāni| prāṇō vr̥ṇōtyudānādīnityanēna catvāryāvaraṇāni, prāṇaṁ vr̥ṇvanti tē’pi cētyanēna ca catvāri, udānādyāstathā’nyōnyamityanēna dvādaśāvaraṇānyucyantē| tatrōdānēna vyānādīnāṁ trayāṇāmāvaraṇē trīṇi, tathā vyānādyaiścōdānāvaraṇē trīṇi, tathā vyānēna samānāpānāvaraṇē dvē, tābhyāṁ ca vyānāvaraṇē dvē, pariśiṣṭayōścānyōnyāvaraṇē dvē, ēvaṁ dvādaśāvaraṇāni pūrvāṣṭakayuktāni viṁśatirbhavanti| ulbaṇānāmiti vr̥ddhānāṁ; kiṁvā ulbaṇānāmiti āviṣkr̥tatamānāṁ militānāṁ pañcānāṁ; tēnaitēṣāmēkadvitryādisaṁsargēṇāvāryāvarakatayā bhēdādbahuvidhamāvaraṇaṁ bhavatīti darśayati||199-205||-
śirōgrahaḥ pratiśyāyō niḥśvāsōcchvāsasaṅgrahaḥ||206||
hr̥drōgō mukhaśōṣaścāpyudānē prāṇasaṁvr̥tē|
tatrōrdhvabhāgikaṁ karma kāryamāśvāsanaṁ tathā||207||
karmaujōbalavarṇānāṁ nāśō mr̥tyurathāpi vā|
udānēnāvr̥tē prāṇē taṁ śanaiḥ śītavāriṇā||208||
siñcēdāśvāsayēccainaṁ sukhaṁ caivōpapādayēt|
urdhvagēnāvr̥tē’pānē chardiśvāsādayō gadāḥ||209||
syurvātē tatra bastyādi bhōjyaṁ caivānulōmanam|
mōhō’lpō’gniratīsāra ūrdhvagē’pānasaṁvr̥tē||210||
vātē syādvamanaṁ tatra dīpanaṁ grāhi cāśanam|
vamyādhmānamudāvartagulmārtiparikartikāḥ||211||
liṅgaṁ vyānāvr̥tē’pānē taṁ snigdhairanulōmayēt|
apānēnāvr̥tē vyānē bhavēdviṇmūtrarētasām||212||
atipravr̥ttistatrāpi sarvaṁ saṅgrahaṇaṁ matam|
mūrcchā tandrā pralāpō’ṅgasādō’gnyōjōbalakṣayaḥ||213||
samānēnāvr̥tē vyānē vyāyāmō laghubhōjanam|
stabdhatā’lpāgnitā’svēdaścēṣṭāhānirnimīlanam||214||
udānēnāvr̥tē vyānē tatra pathyaṁ mitaṁ laghu|
pañcānyōnyāvr̥tānēvaṁ vātān budhyēta lakṣaṇaiḥ||215||
ēṣāṁ svakarmaṇāṁ hānirvr̥ddhirvā”varaṇē matā|
yathāsthūlaṁ samuddiṣṭamētadāvaraṇē’ṣṭakam||216||
saliṅgabhēṣajaṁ samyagbudhānāṁ buddhivr̥ddhayē|217|
śirōgraha ityādinā aṣṭāvāvaraṇāni prāyōbhāvīni anuktaśēṣōpagrahaṇārthamāha| ūrdhvabhāgikaṁ karmēti uparyuktasnēhapānanasyādikam| śvāsādaya iti śvāsahikkādayaḥ| ūrdhvagēnēti udānēna| anuktajñānārthamāvaraṇasvarūpamāha- ēṣāṁ svakarmaṇāmityādi| atra āvāryāṇāṁ balīyasā”varaṇāt svakarmahānirbhavati, āvarakasya tūtsargataḥ svakarmavr̥ddhirbhavati, tathā āvaraṇēna ca āvāryaḥ prakupitō bhavati tadā svakarmaṇāṁ vr̥ddhirbhavatīti vyavasthā; anyē tu āvaraṇīyasya svakarmahāniḥ, āvarakasya tūtsargatō vr̥ddhirbhavatīti vyavasthāmāhuḥ||206-213||-
sthānānyavēkṣya vātānāṁ vr̥ddhiṁ hāniṁ ca karmaṇām||217||
dvādaśāvaraṇānyanyānyabhilakṣya bhiṣagjitam|
kuryādabhyañjanasnēhapānabastyādi [58] sarvaśaḥ||218||
kramamuṣṇamanuṣṇaṁ vā vyatyāsādavacārayēt|219|
anuktāvaraṇalakṣaṇajñānōpāyamāha- sthānānyavēkṣyētyādi| karmavr̥ddhihānivyākhyānamatrāpi pūrvavat| sthānānyavēkṣyētyanēna vātānāmuktasthānagatavikārēṇa ca
vātavikr̥tirjñātavyēti darśayati| uṣṇaṁ kramamanuṣṇaṁ cētyatra yadyapyuṣṇa ēva kramō vātē yujyatē, tathā’pi sthānāpēkṣayā raktādidūṣyaṁ kramaviparyayasya kāraṇaṁ jñēyam||217-218||-
udānaṁ yōjayēdūrdhvamapānaṁ cānulōmayēt||219||
samānaṁ śamayēccaiva tridhā vyānaṁ tu yōjayēt|
prāṇō rakṣyaścaturbhyō’pi sthānē hyasya sthitirdhruvā||220||
svaṁ sthānaṁ gamayēdēvaṁ vr̥tānētān vimārgagān|221|
vikr̥tavātānāṁ prakr̥tisthāpanamāha- udānaṁ yōjayēdūrdhvamityādi| ētacca svamārgayōjanaṁ vātānāṁ yathōktavamanādikriyāyōgavidhānēna kartavyam| samānaṁ śamayēditi dēhamadhyasthitaṁ kuryādityarthaḥ| tridhā vyānaṁ tu yōjayēditi ūrdhvamadhō madhyē tridhā yōjayēt| prāṇō rakṣya iti sthānē ēva yāpanīyaḥ [59] | caturbhyō’pītyanēna itaravātēbhyō’syātyartharakṣaṇīyatāmāha| kutō’yaṁ viśēṣarakṣaṇīya ityāha- sthānē tvasya sthitirdhruvēti; asya prāṇasya, sthānē samyagavasthānē sati, sthitiḥ jīvanarūpā, dhruvā niścitā||219-220||-
mūrcchā dāhō bhramaḥ śūlaṁ vidāhaḥ śītakāmitā||221||
chardanaṁ ca vidagdhasya prāṇē pittasamāvr̥tē|
ṣṭhīvanaṁ kṣavathūdgāraniḥśvāsōcchvāsasaṅgrahaḥ||222||
prāṇē kaphāvr̥tē rūpāṇyaruciśchardirēva ca|
mūrcchādyāni ca rūpāṇi dāhō nābhyurasaḥ klamaḥ||223||
ōjōbhraṁśaśca sādaścāpyudānē pittasaṁvr̥tē|
āvr̥tē ślēṣmaṇōdānē vaivarṇyaṁ vāksvaragrahaḥ||224||
daurbalyaṁ gurugātratvamaruciścōpajāyatē|
atisvēdastr̥ṣā dāhō mūrcchā cārucirēva [60] ca||225||
pittāvr̥tē samānē syādupaghātastathōṣmaṇaḥ|
asvēdō vahnimāndyaṁ ca lōmaharṣastathaiva ca||226||
kaphāvr̥tē samānē syādgātrāṇāṁ cātiśītatā|
vyānē pittāvr̥tē tu syāddāhaḥ sarvāṅgagaḥ klamaḥ||227||
gātravikṣēpasaṅgaśca sasantāpaḥ savēdanaḥ|
gurutā sarvagātrāṇāṁ sarvasandhyasthijā rujaḥ||228||
vyānē kaphāvr̥tē liṅgaṁ gatisaṅgastathā’dhikaḥ [61] |
hāridramūtravarcastvaṁ tāpaśca gudamēḍhrayōḥ||229||
liṅgaṁ pittāvr̥tē’pānē rajasaścātivartanam|
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam||230||
ślēṣmaṇā saṁvr̥tē’pānē kaphamēhasya cāgamaḥ|231|
prāṇādīnāṁ pittēna kaphēna tathā pittakaphābhyāṁ cāvaraṇalakṣaṇānyāha- mūrcchā dāhō bhrama ityādi| mūrcchādyāni mūrcchā dāha ityādinā prāguktāni| upaghātastathōṣmaṇa iti atra pittēnāpyāvr̥tē samānē agnyuttējanābhāvādūṣmaṇa upaghātō jñēyaḥ| gātravikṣēpasaṅgaḥ gātravikṣēpaṇōparamaḥ| rajasa iti ārtavasya||221-230||-
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|
sarvē’pyētē’parijñātāḥ parisaṁvatsarāstathā||235||
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [62] |236|
miśramāvaraṇamiti miśritakaphapittāvaraṇam| yathānijāniti yathātmīyān| garīyastvēnēti adhikatvēna| ētadgarīyastvē hētumāha- viśēṣādityādi| saṁśritamiti adhīnam| aparijñātā iti yāthātathyēnājñātāḥ| samyagjñātā apyupēkṣaṇād, yāthātathyēna jñātā api parisaṁvatsarāstathēti yōjanīyam||231-235||-
hr̥drōgō vidradhiḥ plīhā gulmō’tīsāra ēva ca||236||
bhavantyupadravāstēṣāmāvr̥tānāmupēkṣaṇāt|
tasmādāvaraṇaṁ vaidyaḥ pavanasyōpalakṣayēt||237||
pañcātmakasya vātēna pittēna ślēṣmaṇā’pi vā|
bhiṣagjitamataḥ samyagupalakṣya samācarēt||238||
anabhiṣyandibhiḥ snigdhaiḥ srōtasāṁ śuddhikārakaiḥ|
kaphapittāviruddhaṁ yadyacca vātānulōmanam||239||
sarvasthānāvr̥tē’pyāśu tat kāryaṁ mārutē hitam|
yāpanā bastayaḥ prāyō madhurāḥ sānuvāsanāḥ||240||
prasamīkṣya balādhikyaṁ mr̥du vā sraṁsanaṁ hitam|
rasāyanānāṁ sarvēṣāmupayōgaḥ praśasyatē||241||
śailasya jatunō’tyarthaṁ payasā guggulōstathā|
lēhaṁ vā bhārgavaprōktamabhyasēt kṣīrabhuṅnaraḥ||242||
abhayāmalakīyōktamēkādaśasitāśatam [63] |
apānēnāvr̥tē sarvaṁ dīpanaṁ grāhi bhēṣajam||243||
vātānulōmanaṁ yacca pakvāśayaviśōdhanam|
iti saṅkṣēpataḥ prōktamāvr̥tānāṁ cikitsitam||244||
prāṇādīnāṁ bhiṣak kuryādvitarkya svayamēva tat|
pittāvr̥tē tu pittaghnairmārutasyāvirōdhibhiḥ|
kaphāvr̥tē kaphaghnaistu mārutasyānulōmanaiḥ||245||
hr̥drōgētyādinā upadravānāha| pañcātmakasyēti prāṇādibhēdēna pañcasvarūpasya| prasamīkṣyētyādau balādhikyē sati sraṁsanaṁ mr̥du kartavyamityabhiprāyaḥ| atyarthaṁ praśasyata iti sambandhaḥ| lēhaṁ vā bhārgavaprōktamiti cyavanaprāśaṁ, cyavanō hi bhārgava ucyatē| uktaṁ hi āyurvēdasamutthānē “bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ” (ci.a.1pā.4) iti| vātasyānulōmanaṁ cikitsitaṁ kuryāditi niyōjanīyam||236-245||
lōkē vāyvarkasōmānāṁ durvijñēyā yathā gatiḥ|
tathā śarīrē vātasya pittasya ca kaphasya ca||246||
vātādīnāṁ durvijñēyatāṁ dr̥ṣṭāntēna darśayati- lōka ityādi|||246||
kṣayaṁ vr̥ddhiṁ samatvaṁ ca tathaivāvaraṇaṁ bhiṣak|
vijñāya pavanādīnāṁ na pramuhyati karmasu||247||
kṣayamityādau āvaraṇamapi kṣayavr̥ddhisambandhāntarnirdiṣṭamēva, tathā’pyāvaraṇasya viśēṣalakṣaṇacikitsārthaṁ pr̥thagabhidhānam| karmasviti cikitsāsu||247||
tatra ślōkau-
pañcātmanaḥ sthānavaśāccharīrē sthānāni karmāṇi ca dēhadhātōḥ|
prakōpahētuḥ kupitaśca rōgān sthānēṣu cānyēṣu vr̥tō’vr̥taśca||248||
prāṇēśvaraḥ prāṇabhr̥tāṁ karōti kriyā ca tēṣāmakhilā niruktā|
tāṁ dēśasātmyartubalānyavēkṣya prayōjayēcchāstramatānusārī||249||
pañcātmana ityādisaṅgrahē pañcātmanaḥ sthānavaśāditi cchēdaḥ| dēhadhātōriti dēhadhārakarūpasya vāyōravikr̥tasyētyarthaḥ| uktacikitsākaraṇāpēkṣaṇīyaṁ saṅgrahēṇāha- tāmityādi| dēśādyapēkṣā sūtrasthānē’smābhirvivr̥tā dēśādibhēdēna pratarkaṇīyā, vistarabhītyā tu na prapañcyatē||248-249||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē’prāptē dr̥ḍhabalasampūritē cikitsāsthānē vātavyādhicikitsitaṁ nāmāṣṭāviṁśō’dhyāyaḥ||28||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ cikitsāsthānē vātavyādhicikitsitaṁ nāmāṣṭāviṁśō’dhyāyaḥ||28||
1. ‘vātavyādhitvēnōcyantē’ iti pā.|
2. ‘anāvr̥tamārgaḥ’ iti pā.|
3. ‘mūrdhōraḥkarṇajihvāsyanāsikāḥ’ iti pā.|
4. ‘śukramūtraśakr̥tkriyaḥ’ iti pā.|
5. ‘atra vaiśēṣikaṁ pūrvarūpaṁ niṣēdhayati’ iti pā.|
6. ‘apāyō vāyōścalatvēna vātavyādhiliṅgānāmapagatatvamiva, laghutā ca śarīrasya’ iti pā.|
7. ‘…rōgaśōthau’ iti pā.|
8. ‘stimitamatyartha’ iti pā.|
9. ‘apravr̥ttiḥ’ iti pā.|
10. ayamardhaślōkaḥ kvacitpustakē na paṭhyatē|
11. ‘anubaddhā’ iti pā.|
12. ‘vyākartavyāni’ iti pā.|
13. ‘vakradarśinaḥ’ iti pā.|
14. ‘’balā’ iti, ‘’phalā’ iti ca pā.|
15. ‘pārśva…’ iti pā.|
16. ‘pr̥ṣṭhākṣēpaḥ’ iti pā.|
17. ayamardhaślōkō hastalikhitapustakē na paṭhyatē|
18. ‘abhyantarēṇa’ iti pā.|
19. ‘ativēgaḥ’ iti pā.|
20. ‘kuryāt saṁvr̥tamānanam’ iti pā.|
21. ‘muhurvēgāgamē gatē’ iti pā.|
22. ‘vāksaṅgamēva ca’ iti pā.|
23. ‘pavanāt kuśalō bhiṣak| sarvāṅgarōgaṁ tadvacca sarvadēhānugē’nilē’ iti pā.|
24. ‘kramāttu’ iti pā.|
25. ‘yathōktalakṣaṇā’ iti pā.|
26. ‘…dvāyōstatrāpyudīraṇaḥ’ iti pā.|
27. ‘klamaḥ’ iti pā.|
28. ‘vinamati jr̥mbhatē paricēṣṭatē’ iti pā.|
29. ‘gātraślēṣaḥ’ iti pā.|
30. ‘sandhicyutiḥ pakṣavadhaḥ’ iti pā.|
31. ‘…ścānyaiḥ’ iti pā.|
32. ‘snēhārdraṁ’ iti pā.|
33. ‘viśvāsayitvā’ iti pā.|
34. ‘badhnāti taṁ ruddhvā’ iti pā.|
35. ‘kṣīraṁ’ iti pā.|
36. ‘pācanīyai rasairyuktairanyairvā’ iti pā.|
37. ‘kaṇḍarāṅgulyōḥ’ iti pā.|
38. ‘vyāditāsyē’ iti pā.|
39. ‘…kriyāṁ sarvatra kārayēt’ iti pā.|
40. ‘pānābhyañjana…’ iti pā.|
41. ētadanantaraṁ ‘grāmyētyādyuktaprayōgānantaraṁ tadvatsiddhā vasā nakrētyādigranthaṁ pūrvavyākhyātamiti paṭhanti’ ityadhikaḥ pāṭha upalabhyatē hastalikhitapustakē|
42. ‘paktvā’mbhasi rasē tasmin’ iti pā.|
43. ‘tvakcandanailākarpūra…’ iti pā.|
44. ‘mūrcchāṁ’ iti pā.|
45. ‘śatapuṣpābalāmēdāmahāmēdardhijīvakaiḥ’ iti pā.|
46. ayamardhaślōkō hastalikhitapustakē na paṭhyatē|
47. ‘… māṣāmla…’ iti
48. ‘plīhapārśvagrahaśvāsa…’ iti pā.|
49. ‘rāsnātailamiti khyātaṁ’ iti pā.|
50. ‘dr̥ṣṭvā’ iti pā.|
51. ‘sarvēṣāṁ’ iti pā.|
52. ‘… māḍhyavātē’ iti pā.|
53. ‘tu vamanaṁ’ iti pā.|
54. ‘bastiḥ snēhāśca bhēdinaḥ’ iti pā.|
55. ayamardhaślōkō hastalikhitapustakēṣu na paṭhyatē|
56. ‘viṁśatyāvaraṇānyē…’ iti pā.|
57. ‘samānēnāvr̥tē prāṇē grahaṇīpārśvavēdanā’ iti pā.|
58. ‘…snēhanasyapānādi’ iti pā.|
59. ‘pālanīyaḥ’ iti pā.|
60. ‘cāratirēva ca’ iti pā.|
61. ‘rujaḥ’ iti pā.|
62. ‘durupakramāt’ iti pā.|
63. ‘abhayāmalakīyōktānēkādaśa mitāśanaḥ’ iti gaṅgādharaḥ paṭhati|