Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
निदानस्थानम् - १. ज्वरनिदानम्
अथातो ज्वरनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सङ्क्षेपेण हेतुलिङ्गाभिधायकं सूत्रस्थानमनु प्रपञ्चेन हेतुलिङ्गाभिधायकं निदानस्थानमुच्यते; हेतुलिङ्गज्ञानपूर्विका हि चिकित्सा साध्वी भवति| यच्च चिकित्सासूत्रमात्रमभिधातव्यं, तदुपशयान्तर्गतमेवेति कृत्वा; किंवा, हेतुलिङ्गाभिधानस्यापि चिकित्सार्थत्वाच्चिकित्सासूत्रमात्राभिधानमिह [१] | तत्रापि च शारीरविकारेषु प्रधानत्वाज्ज्वरस्यैव निदानमादावुच्यते| यथा च ज्वरः प्रधानं तथाऽत्रैव ‘ज्वरस्तु खलु’ इत्यादिना वक्ष्यति; तथा चिकित्सितेऽपि वक्ष्यति- “देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली” (चि.अ.३) इत्यादि| यत्तु वक्ष्यति- “पुरा गुल्मोत्पत्तिरभूत्” (नि.अ.८) इति; तत्र पुराशब्द आद्याविर्भावे गुल्मस्य वर्तते, नतु ज्वरस्य प्राग्भावे; दक्षाध्वरोद्ध्वंसे हि ज्वरपरिगृहीतानां प्राणिनां दिक्षु विद्रावणादिना गुल्मोत्पत्तेरुक्तत्वात्| निदानं कारणमिहोच्यते, तच्चेह व्याधिजनकं व्याधिबोधकं [२] च सामान्येनोच्यते| तत्र व्याधिजनकं निदानं हेतुः, व्याधिबोधकं च कारणं निदानपूर्वरूपरूपोपशयसम्प्राप्तिरूपम्| तत्र हेतुरूपं निदानं जनकं च भवति, व्याधेर्बोधकं च भवति| अत एव प्रथमम् ‘इह खलु’ इत्यादिना हेतुमभिधाय तस्योपलब्धिर्निदानेत्यादिना पुनर्हेतुरप्युक्तः| ज्वरस्य निदानं ज्वरनिदानम्| किंवा, निदानशब्दो जनककारणवचन एव; तं ज्वरस्य जनककारणं निदानमधिकृत्य कृतोऽध्यायो ज्वरनिदानम्| तेन पूर्वरूपादीनामपि ज्ञप्तिहेतूनां तथा चिकित्सासूत्रस्य च ग्रहणम्||१-२||
इह खलु हेतुर्निमित्तमायतनं कर्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनर्थान्तरम्|
तत्त्रिविधम्- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||३||
तदेवं ज्वरनिदाने वक्तव्ये सर्वव्याधिसाधारणमेव निदानं वक्तुमुद्यतः सामान्यपूर्वकत्वाद्विशेषस्य, तत्राप्युत्पन्नस्य व्याधेर्लक्षणं युक्तमिति कृत्वा उत्पत्तिहेतुमेव व्यवहारार्थं लक्षणार्थं च पर्यायैराह- इह खल्वित्यादि| इहेति इह प्रकरणे कारणाभिधायके हेत्वादयोऽनर्थान्तरे [३] ; प्रकरणान्तरे अर्थान्तरेऽपि हेत्वादिशब्दा भवन्तीति दर्शयति; यथा- वक्ष्यति- “हेतुरकृतकत्वात्” (वि.अ.८) इति, तथा “दशैवायतनानि स्युः” (सू.अ.२९), तथा “कर्ता, मन्ता, वेदिता, बोद्धा” (शा.अ.४) इत्यादौ, प्रत्ययस्य लडादौ, उत्थानस्य उद्गमनादौ| हेत्वादिभूरिपर्यायकथनं शास्त्रे व्यवहारार्थं, तथा हेत्वादिशब्दानामर्थान्तरेऽपि वर्तमानत्वे [४] पर्यायान्तरेण [५] समं सामानाधिकरण्यात् कारण एव वृत्तिर्नियम्यते; तेन, एकस्मिन्नर्थे यस्मिंस्ते शब्दाः प्रवर्तन्ते तत् कारणमितरहेत्वाद्यर्थेभ्यो व्यवच्छिद्यते; तेन, लक्षणार्थं [६] च पर्यायाभिधानं भवति| एवमन्यत्रापि व्याध्यादिपर्यायाभिधानेऽपि व्याख्येयम्| इह चाष्टसङ्ख्याया मङ्गलत्वेन, तथाऽष्टविधव्याधिज्वराद्यभिधानानुषङ्गाच्चाष्टावेव [७] हेतुपर्याया उक्ताः; तेनापरेऽपि योनिमूलमुखप्रकृत्यादयो हेतुपर्याया बोद्धव्याः, ते च तन्त्रविस्तरभयान्नोक्ताः| एवं रोगपर्यायान्तरानभिधानेऽपि ग्रन्थविस्तरभयाद्यनुसरणीयम्| हेतोर्भेदमाह- तत् त्रिविधमित्यादि| एतच्चासात्म्येन्द्रियार्थसंयोगादि दीर्घञ्जीवितीये तिस्रैषणीये च प्रपञ्चितमिति नेह प्रपञ्च्यते| अत्र पाठादेव त्रित्वे सिद्धे त्रिविधमितिवचनं बहुप्रपञ्चस्याप्यसात्म्येन्द्रियार्थसंयोगादेस्त्रैविध्यानतिक्रमोपदर्शनार्थं, तथा प्रत्येकमयोगातियोगमिथ्यायोगभेदात्त्रिविधत्वदर्शनार्थं च| एतच्च हेतुत्रितयमुक्तमपि पुनः प्रकरणवशादुच्यमानमिह [८] न पुनरुक्तं दोषमावहति| एतच्चासात्म्येन्द्रियार्थादेस्त्रैविध्यं मूलकारणं प्रति नियामकं, तेन “ज्वरसन्तापाद्रक्तपित्तमुदीर्यते” (नि.अ.८) इत्याद्युक्तरोगादिरूपप्रत्यासन्नकारणानवरोधो [९] नोद्भावनीयः| किंवा, रक्तपित्तादिकारणे ज्वरादावप्यसात्म्येन्द्रियार्थसंयोगाद्येव मूलकारणं, तेन ज्वरादिकार्ये रक्तपित्तादौ ज्वरादिकारणमेव [१०] मूलकारणं भवति| “कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च” (सू.अ.१) इति पूर्वोक्तक्रमभेदेनेहासात्म्येन्द्रियार्थसंयोगस्यादावभिधानेन सर्वेषामेवैषां रोगकर्तृत्वे प्राधान्यं दर्शयति, मा भूदेकान्ताभिधानेन प्रधानतानियमः| यद्यपि च मूलभूतत्वेन प्रज्ञापराधः प्रधानं भवति [११] , तथाऽपि प्रत्यासन्नकारणत्वेन तथाऽबुद्धिपूर्वकस्याप्युत्कटशब्दमिथ्यायोगादेरपि कारणत्वेनासात्म्येन्द्रियार्थसंयोगोऽपि प्रधानम्| यद्यपि कालो दुष्परिहरत्वेन प्रधानं, तथाऽपि सोऽपीन्द्रियार्थपराधीनत्वेनाप्रधानं, कालातियोगादयो हीन्द्रियार्थशीताद्यतियोगादिभ्य एव प्रायो भवन्ति||३||
अतस्त्रिविधा व्याधयः प्रादुर्भवन्ति- आग्नेयाः, सौम्याः, वायव्याश्च; द्विविधाश्चापरे- राजसाः, तामसाश्च||४||
हेतोर्हेतुत्वं कार्ये भवतीति हेतुकार्यं व्याधिमाह- अतस्त्रिविधा इत्यादि| न चात्र यथासङ्ख्यम्, एकरूपादपि हेतोस्त्रिविधव्याध्युत्पादात्| अत्रापि त्रिविधवचनमानन्त्येऽपि रोगाणामाग्नेयत्वाद्यनतिक्रमोपदर्शनार्थम्| आग्नेयाः पैत्तिकाः, सौम्याः कफजाः, वायव्याः वातजाः| यद्यपि प्रधानत्वेन वायव्या एव प्रथमं निर्देष्टुं युज्यन्ते, तथाऽपीह ज्वरे पित्तस्य प्रधानत्वादाग्नेयाभिधानम्| आग्नेयसौम्यवायव्या इति समासेनैकैकस्मादप्यसात्म्येन्द्रियार्थसंयोगादेस्त्रिविधरोगोत्पत्तित्वं दर्शयति, असमासे हि यथासङ्ख्यमपि शङ्क्येत| अन्यथाऽपि व्याधीनुक्तहेतुजानाह- द्विविधाश्चापरे इत्यादि| राजसतामसानां च विच्छिद्य पाठेनेह तन्त्रे शारीरव्याध्यधिकारप्रवृत्तेऽनधिकारत्वेनाप्रपञ्चनीयत्वं दर्शयति, अभिधानं च राजसतामसयोरिह व्याधिकथनस्य न्यूनतापरिहारार्थम्| आगन्तवश्चाभिघातादिजा रोगा आग्नेयादिष्वेवान्तर्भवन्ति; यतस्तत्रापि हि दोषप्रकोपोऽव्यपदेश्योऽस्त्येव; किंवा, अपरे इति अप्रधानाः, परो हि श्रेष्ठ उच्यते; अप्रधानत्वे चोक्तैवोपपत्तिः||४||
तत्र व्याधिरामयो गद आतङ्को यक्ष्मा ज्वरो विकारो रोग इत्यनर्थान्तरम्||५||
व्याधीनामाग्नेयादिविभागं दर्शयित्वा व्यवहारार्थं लक्षणार्थं च पर्यायानाह- तत्र व्याधिरित्यादि| अत्रापि पर्यायाणामनर्थान्तरेणातङ्कादिशब्दानां भयाद्यर्थताव्युदासाद्व्याधिलक्षणत्वं बोध्यम्| आतङ्कशब्देन हि भयमप्युच्यते, विकारशब्देन हि इन्द्रियादयोऽपि षोडश विकारा उच्यन्ते| तथा व्याध्यादिशब्दानां व्युत्पत्त्या रोगधर्मा लक्षणीयाः| तथा हि- विविधं दुःखमादधातीति व्याधिः; प्रायेणामसमुत्थत्वेनामय [१२] इत्युच्यते; आतङ्क इति दुःखयुक्तत्वेन कृच्छ्रजीवनं करोति, वचनं हि- “आतङ्कः कृच्छ्रजीवने” इति; यक्ष्मशब्देन च राजयक्ष्मवदनेकरोगयुक्तत्वं विकाराणां दर्शयति; ज्वरशब्देन च देहमनःसन्तापकरत्वं; विकारशब्देन च शरीरमनसोरन्यथाकरणत्वं व्याधेर्दर्शयति; रोगशब्देन च रुजाकर्तृत्वम्||५||
तस्योपलब्धिर्निदानपूर्वरूपलिङ्गोपशयसम्प्राप्तितः||६||
इदानीं व्याधेर्जनकहेतुमभिधाय तथा तद्धेतुजन्यं च व्याधिमुक्त्वा तस्य व्याधेर्ज्ञानोपायमाह- तस्येत्यादि| अविज्ञाते हि व्याधौ चिकित्सा न प्रवर्तते, अतः सामान्येन व्याधिज्ञानोपायनिदानपञ्चकाभिधानं युक्तम्||६||
तत्र निदानं कारणमित्युक्तमग्रे||७||
निदानं विवृणोति- तत्रेत्यादि| अग्रे उक्तमिति ‘इह खलु’ इत्यादिना ‘परिणामश्च’ इत्यन्तेन| कारणं च व्याधीनां सन्निकृष्टं वातादि, विप्रकृष्टं चार्थानामयोगादि; पुनर्विप्रकृष्टं कारणं रक्तपित्तस्य ज्वरसन्ताप इत्यादि; पुनश्च व्याधीनां सामान्येन विप्रकृष्टं कारणमुक्तं यथा- “प्रागपि चाधर्मादृते न रोगोत्पत्तिरभूत्” (वि.अ.३) इत्यादि; तदेतत् सर्वमपि कारणशब्देन ग्राह्यम्| तत्राधर्मकार्यत्वेन व्याधीनां दैवव्यपाश्रयप्रायश्चित्तबलिमङ्गलेत्यादिचिकित्सासाध्यत्वं प्रतीयते, रुद्रकोपभवत्वेन च ज्वरस्य महाप्रभावत्वं तथाऽऽग्नेयत्वं च प्रतीयते; क्रोधो ह्याग्नेयः, तेन तन्मयो ज्वरोऽप्याग्नेयः| तथाच वचनम्- “ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना| तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्” (वा.चि.अ.१) इति| वातादिजन्यत्वज्ञानेन च वातादिविपरीतभेषजसाध्यत्वं तथाऽनुद्भूतवातादिविकारान्तरसम्बन्धोऽपि भावी कल्प्यते| असात्म्यरूक्षादिहेतुसेवादर्शनेन च भावी व्याधिस्तज्जन्य उन्नीयते| व्याधिपरीक्षायां च सन्देहे जाते यस्य व्याधेर्हेतुसेवा दृश्यते, स परिकल्प्यते; एवमादि हेतुना व्याधिपरीक्षणम्||७||
पूर्वरूपं प्रागुत्पत्ति लक्षणं व्याधेः||८||
निदानानन्तरीयकत्वात् पूर्वरूपादीनां निदानानन्तरं पूर्वरूपादीन्युच्यन्ते [१३] , अतः पूर्वरूपलक्षणमाह- पूर्वेत्यादि| उत्पत्तेः प्राक् प्रागुत्पत्ति| एतेन उत्पत्तेः पूर्वं यद्भविष्यद्व्याधेर्लक्षणं तत् पूर्वरूपम्| निदानसेवा तु भाविव्याधिबोधिका भवत्यपि [१४] निदानशब्दगृहीतत्वादेव तथा लक्षणशब्दानभिधेयत्वाच्च न पूर्वरूपशब्देनोच्यते| उक्तं ह्यन्यत्र- “स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम्| लिङ्गं कुर्वन्ति यद्दोषाः पूर्वरूपं तदुच्यते” इति| न च वाच्यं यदनुत्पन्नस्याविद्यमानस्य व्याधेः कथं लक्षणं भवतीति; यतो मेघादपि भाविनी वृष्टिरनुमीयते, तथा रोहिण्युदयं दृष्ट्वा कृत्तिकोदयोऽनुमीयते| तच्च पूर्वरूपं द्विविधम्- एकं भाविव्याध्यव्यक्तरूपं, यदुक्तम्- “अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्” (चि.अ.११) इति, तथा “लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम्” (वा. नि. अ.१) इति [१५] ; द्वितीयं तु दोषदूष्यसम्मूर्च्छनावस्थाजन्यमव्यक्तलिङ्गादन्यदेव; यथा- ज्वरे बालप्रद्वेषरोमहर्षादि; न [१६] ह्येतत् पूर्वरूपं ज्वरावस्थायां नियमेन व्यक्तं भवति, किन्तु ज्वरपूर्वकाल एव; यत्र तु व्यक्तं भवति, स चासाध्यो मतः| अत एवैवम्भूतपूर्वरूपाभिप्रायेणैवारिष्टे वक्ष्यति- “पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया| यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरस्सरः” (इं.अ.५) इति; तथा- “अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्| विशन्त्यनेन कल्पेन तस्यापि [१७] मरणं ध्रुवम्” (इं.अ.५) इति| एतद्धि यद्यव्यक्तलक्षणपूर्वरूपाभिप्रायेण वचनं स्यात्तदा सर्वज्वराणामसाध्यत्वं स्यात्, यतः पूर्वरूपावस्थायामव्यक्तानि लक्षणानि ज्वरे जाते व्यक्तानि सर्वाणि सर्वत्रैव भवन्ति; तस्मात् पूर्वरूपावस्थाप्रतिनियतपूर्वरूपाभिप्रायेणैवैतद्वचनम्| अव्यक्तता च लक्षणानामियमेव- यदल्पत्वेनास्फुटत्वम्| यत्तु पूर्वरूपं दोषदूष्यसम्मूर्च्छनावस्थानियतं तद् व्याधिमात्रस्य गमकं, न तद्दोषविशेषं गमयति| एतत्पूर्वरूपाभिप्रायेण च वाग्भटेऽप्युक्तं यत्- “प्राग्रूपं येन लक्ष्यते| उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः [१८] ” (वा. नि.अ.१) इति| यत्तु अव्यक्तलिङ्गं रूपं पूर्वरूपं, तद्दोषविशेषमपि व्याधेर्गमयति, यदुक्तं हारीते- “इति पूर्वरूपमष्टानां ज्वराणां सामान्यतः, विशेषतस्तु जृम्भाङ्गमर्दभूयिष्ठं हृदयोद्वेगि वातजम्” इत्यादि, तथा सुश्रुतेऽप्युक्तं- “सामान्यतो, विशेषात्तु जृम्भाऽत्यर्थं समीरणात्| पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनम्” (सु.उ.अ.३९) इति, एतद्धि पूर्वरूपं भाविज्वरलिङ्गमेवाव्यक्तमल्पत्वेनेति ज्ञेयम्| व्यक्ते हि ज्वरे वातादिजे जृम्भादयः पूर्वरूपापेक्षयाऽत्यर्थं भवन्ति| एवं पूर्वरूपद्वैविध्ये यत्र विशिष्टं पूर्वरूपमस्ति तत्र साक्षादेवाभिधीयते, यत्र विशिष्टं नास्ति तत्र लिङ्गमात्रं वक्ष्यति; तेनाव्यक्तान्येव लिङ्गानि पूर्वरूपमिति तत्र ज्ञातव्यम् [१९] ||८||
प्रादुर्भूतलक्षणं पुनर्लिङ्गम्|
तत्र लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनं रूपमित्यनर्थान्तरम्||९||
लक्षणमाह- प्रादुर्भूतेत्यादि| उत्पन्नव्याधेः स्वरूपं, तथा वाताद्यामपक्वादिविशेषणविशिष्टं व्याधिं निदानोपशयसम्प्राप्तिव्यतिरिक्तं यद्बोधयति, तल्लिङ्गम्| अनेन च व्याधिप्रतिनियतं लिङ्गं यथा- ज्वरस्य सन्तापः, तथा अतिसरणमतीसारस्येत्यादि गृह्यते; तथा वातादिकृतं च वातादिज्वरस्य विषमारम्भविसर्गित्वादि गृह्यते; तथा आमपक्वजीर्णज्वरलक्षणादीनि विशिष्टव्याधिबोधकानि गृह्यन्ते; तथा उपद्रवाश्चासाध्यताद्यवस्थापन्नव्याधिबोधकत्वेन लक्षणान्येव| रिष्टं तु मरणस्य पूर्वरूपमेव| निदानादयस्तु यद्यप्युत्पन्नव्याधिगमका अपि भवन्ति, तथाऽपि पृथग्लक्षणानिर्देशान्न ते इह लिङ्गशब्देनोच्यन्ते| व्यवहारार्थं तथा लक्षणार्थं च लिङ्गपर्यायानाह- तत्र लिङ्गमित्यादि| अस्मिन्नर्थेऽनर्थान्तरमिति लिङ्गलक्षणेऽर्थेऽभिधेयेऽनर्थान्तरं, प्रकरणान्तरे त्वर्थान्तरेऽपि लिङ्गादयो भवन्ति; यथा- “बली लिङ्गं समर्पयेत्” (चि.अ.२) इत्यत्र शेफ उच्यते, तथा “संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च या” (इ.अ.७); तथा “लक्षणवच्चोदाहरणवच्च” (वि.अ.८), तथा “तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत्”, तथा “रूपस्य सत्त्वस्य च सन्ततिर्या” (शा.अ.२) इत्यादौ| ननु, यथेह ‘अस्मिन्नर्थे’ इत्युक्तं तथा हेतुव्याधिसम्प्राप्तिपर्यायाभिधानेऽपि ‘अस्मिन्नर्थे’ इति वक्तव्यम्| न, हेतुपर्यायाभिधाने तावत् ‘इह खलु’ इत्यनेनैव तदर्थ उक्त एव, सम्प्राप्तिपर्यायकथने च व्याधेरिति पदेनैव ‘अस्मिन्नर्थे’ इतिपदस्यार्थो लभ्यत एव, गदपर्यायेषु तु नार्थान्तरता प्रायो दृश्यते, तेन तत्र ‘अस्मिन्नर्थे’ इति न कृतम्| अयं चाचार्याभिप्रायो यत्- यत्रान्यार्थतां शब्दस्य पश्यति, तत्रैव ‘अस्मिन्नर्थे’ इति करोति, यथा- ‘समवेतानां पुनर्दोषाणामंशांशविकल्पो विकल्पोऽस्मिन्नर्थे’ इति| विकल्पशब्दो ह्ययमन्यत्रापि वर्तते, यथा- “अन्यैश्च विकल्पैर्विकल्पितानां” (वि.अ.१), तथा “विकल्पो न त्वसाध्यानां” (सू.अ.१०) इत्यादि| ननु पूर्वरूपोपशययोः किमिति पर्यायानभिधानम्? ब्रूमः- पूर्वरूपस्य तावत् पर्यायाभिधानं यदेव रूपस्य तदेव; यतः, रूपादय एव हि पूर्वशब्दयुक्ताः पूर्वरूपपर्याया भवन्ति; उपशयस्तु चिकित्सा, तस्यास्तु पर्यायाश्चिकित्सित एव स्वाधिकारत्वेन वक्तव्या इति नेह पुनरुक्ताः||९||
उपशयः पुनर्हेतुव्याधिविपरीतानां विपरीतार्थकारिणां चौषधाहारविहाराणामुपयोगः सुखानुबन्धः||१०||
उपशयमाह- उपशय इत्यादि| उपशयनमुपशयः सुखानुबन्ध इत्यर्थः| हेतुना, तथा व्याधिना, तथा हेतुव्याधिभ्यां च विपरीता हेतुव्याधिविपरीताः; तेषामौषधाहारविहाराणां, तथा हेतुव्याधिविपरीतार्थकारिणां चौषधान्नविहाराणां; सुखानुबन्ध इति सुखरूपोऽनुबन्धः, अनुबन्धश्च सुखकारणमित्यर्थः [२०] | अयं चोपशयो गूढलिङ्गे च व्याधौ ज्ञानोपायो भवति| यदुक्तं- “गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेत” (वि.अ.४) इति; उक्तं च त्रिशोथीये- “स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः” (सू.अ.१८)| अत्र च विपरीतार्थकारि तदेवोच्यते यदविपरीततयाऽऽपाततः प्रतीयमानं विपरीतस्यार्थं प्रशमलक्षणं करोति| अत्रोदाहरणानि लिख्यन्ते- हेतुविपरीतमौषधं यथा- शीतकफजे ज्वरे शुण्ठ्याद्युष्णं भेषजं, हेतुविपरीतमन्नं यथा- श्रमानिलजे ज्वरे रसौदनः, हेतुविपरीतो विहारो यथा- दिवास्वप्नोत्थकफे रात्रौ जागरणं, व्याधिविपरीतमौषधं यथा- अतीसारे स्तम्भनं पाठादि, व्याधिविपरीतमन्नं यथा- अतीसारे स्तम्भनं मसूरादि, व्याधिविपरीतो विहारो यथा- उदावर्ते प्रवाहणं, हेतुव्याधिविपरीतमौषधं यथा- वातशोथे वातहरं शोथहरं च दशमूलं, हेतुव्याधिविपरीतमन्नं यथा- शीतोत्थज्वरे उष्णा ज्वरघ्नी च यवागूः, हेतुव्याधिविपरीतो विहारो यथा- स्निग्धदिवास्वप्नजायां [२१] तन्द्रायां रूक्षं तन्द्राविपरीतं च रात्रिजागरणं [२२] , हेतुविपरीतार्थकार्यौषधं यथा- पित्तप्रधाने पच्यमाने शोथे पित्तकर उष्ण उपनाहः, हेतुविपरीतार्थकार्यन्नं यथा- पच्यमाने पित्तप्रधाने शोथे विदाह्यन्नं, हेतुविपरीतार्थकारी विहारो यथा- वातोन्मादे सन्त्रासनं, व्याधिविपरीतार्थकार्यौषधं यथा- छर्द्यां वमनकारकं मदनफलादि; व्याधिविपरीतार्थकार्यन्नं यथा- अतीसारे विरेककारकं क्षीरं, उक्तं हि- “बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति| पैत्तिको यद्यतीसारः पयसा तं विरेचयेत्” (चि. अ.१९) इति; व्याधिविपरीतार्थकारी विहारो यथा- छर्द्यां वमनसाध्यायां वमनार्थं प्रवाहणं; हेतुव्याधिविपरीतार्थकार्यौषधं यथा- अग्निना प्लुष्टेऽगुर्वादिना लेपः, उष्णं हि हेतावग्नौ व्याधौ च दाहेऽनुगुणं प्रतिभाति; हेतुव्याधिविपरीतार्थकार्यन्नं यथा- मद्यपानोत्थे मदात्यये मदकारकं मद्यं; हेतुव्याधिविपरीतार्थकारी विहारो यथा- व्यायामजनितसम्मूढवाते जलप्रतरणादिरूपो व्यायामः, अयं हेतौ व्यायामे व्याधौ च सम्मूढवातेऽनुगुणः प्रतिभाति| ननूपशयवदनुपशयोऽपि व्याधिपरीक्षकोऽस्ति, उच्यते च- “गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेत” (वि. अ.४), तथा वाग्भटेऽप्युक्तं- “विपरीतोऽनुपशयः स ह्यसात्म्यमिति स्मृतः” (वा. नि. अ.१) इति; सत्यमस्ति च, परं निदानग्रहणेनैव गृहीतत्वान्न पृथगुच्यते; अनुपशयोऽपि हेतुसेवयैव भवति||१०||
सम्प्राप्तिर्जातिरागतिरित्यनर्थान्तरं व्याधेः||११||
यद्यपि सम्प्राप्त्यनन्तरं लिङ्गप्रादुर्भावः, तथाऽपि सम्प्राप्तेर्व्याधिनिरूपणं प्रत्यल्पप्रयोजनत्वाच्छेषतः सम्प्राप्तिमाह- सम्प्राप्तिरित्यादि| जातिः जन्म; सम्प्रात्प्यागतिजातिशब्दैर्योऽर्थोऽभिधीयते सा व्याधेः सम्प्राप्तिरित्यर्थः| अ(त)त्रैके व्याधिजन्ममात्रमन्त्यकारणव्यापारजन्यं सम्प्राप्तिमाहुः| इयं च सम्प्राप्तिर्यद्यपि निदानादिवद् व्याधिबोधिका न भवति, तथाऽपि नानुत्पन्नस्य व्याधेर्लक्षणं भवतीति कृत्वा उपपत्तेर्व्याध्युपलम्भकत्वं वर्णयन्ति| एतच्चान्ये न मन्यन्ते, यतो नैवं सति सम्प्राप्तितः कश्चिद्विशेषो व्याधेरधिगम्यते| न चायं नियमः- यदुत्पन्न एव परं व्याधिरुपलभ्यते, यतो निदानपूर्वरूपाभ्यामनुत्पन्नोऽपि व्याधिर्भावित्वेन बुध्यते| तस्माद् व्याधिजनकदोषव्यापारविशेषयुक्तं व्याधिजन्मेह सम्प्राप्तिशब्देन वाच्यम्, अत एव पर्याये ‘आगतिः’ इत्युक्तम्| आगतिर्हि उत्पादकारणस्य व्याधिजननपर्यन्तं गमनम्| इयं च सम्प्राप्तिर्व्याधिविशेषं बोधयत्वेव| यथा ज्वरे- ‘स यदा प्रकुपितः प्रविश्यामाशयम्’ इत्यारभ्य ‘तदा ज्वरमभिनिर्वर्तयति’ इत्यन्तेन या सम्प्राप्तिरुच्यते, तया ज्वरस्यामाशयदूषकत्वाग्न्युपघातकत्वरसदूषकत्वादयो धर्माः प्रतीयन्ते| न च वाच्यं- दोषाणामयमामाशयदूषकत्वादिर्धर्मः [२३] , ततश्च कारणधर्माणां निदानग्रहणेनैव ग्रहणं भवतीति; यतः, कारणधर्मोऽप्ययं व्याधिजनकदोषव्यापाररूपः सम्प्राप्तिशब्देन विशेषबोधनार्थं पृथक् कृत्वोच्यते; यथा- लिङ्गत्वाविशेषेऽपि भाविव्याधिबोधकत्वविशेषात् पूर्वरूपं पृथगुच्यते, अत एव वाग्भटेऽप्येवमेव सम्प्राप्तिलक्षणमुक्तं- “यथादुष्टेन दोषेण यथा चानुविसर्पता| निर्वृत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः [२४] ” (वा. नि.अ.१) इति||११||
सा सङ्ख्याप्राधान्यविधिविकल्पबलकालविशेषैर्भिद्यते|१२|
सम्प्रति सम्प्राप्तेः प्रतिव्याधिव्यक्तिभिन्नायाः सर्वत्र व्याधौ तत्प्रयोजनाभावान्न भेदो वक्तव्यः, यस्तूपयुक्तो भवति सम्प्राप्तिविशेषस्तमभिधास्यत्येव, “स यदा प्रकुपितः प्रविश्यामाशयम्” इत्यादिना ग्रन्थेन; अतः सर्वसम्प्राप्त्यनभिधानान्न्यूनतादोषपरिहारार्थं सर्वव्याधिसाधारणान् सम्प्राप्तिभेदानाह- सा सङ्ख्येत्यादि|- सा सम्प्राप्तिः सङ्ख्यादिभिर्भिद्यते इति सङ्ख्यादिभिन्ने व्याधौ भिन्ना भवतीत्यर्थः; यतो न भिन्नानां भावानामभिन्नोत्पत्तिर्भवति, किन्तर्हि भिन्नैव भवति; यद्यपि च प्रतिव्याधि व्यक्ताऽपि सम्प्राप्तिर्भिन्नैव भवति, तथाऽपि स भेदः सम्प्राप्तेरिह प्रयोजनाभावान्नोच्यते; यतः, सङ्ख्याप्राधान्यविध्यादितुल्यासु ज्वरव्यक्तिषु एकरूपनिदानलिङ्गचिकित्सितासु भेदप्रतिपादने न किञ्चित् प्रयोजनमस्ति, सङ्ख्यादिभिन्ने तु ज्वरादौ निदानलिङ्गचिकित्साभेदोऽस्ति, अतः सङ्ख्यादिभेदजनकायाः सम्प्राप्तेर्भेदकथनमुचितमेव||१२(१)||
सङ्ख्या तावद्यथा- अष्टौ ज्वराः, पञ्च गुल्माः, सप्त कुष्ठान्येवमादिः|१२|
सङ्ख्याभेदमुदाहरति- सङ्ख्या तावदित्यादि| यद्यपि प्राधान्यादिभेदभिन्नेऽपि व्याधौ सङ्ख्याभेदोऽस्त्येव, तथाऽपीह यैव शास्त्रसिद्धा अष्टौदरीयादिप्रतिपादिता सङ्ख्या सैव सङ्ख्याशब्देन प्राप्ता| अत एवाष्टौ ज्वरा इत्यभिधाय द्विविधं शोणितपित्तमिति क्रमात् प्राप्तं रक्तपित्तं नोदाहृतं; यतः द्विविधत्वं हि रक्तपित्तस्य विधिभेदे प्रविशति न सङ्ख्यायां, ‘द्विविधं शोणितपित्तम्’ इति विधिशब्देनैवोक्तत्वात्||१२(२)||
प्राधान्यं पुनर्दोषाणां तरतमाभ्यामुपलभ्यते|
तत्र द्वयोस्तरः, त्रिषु तम इति|१२|
प्राधान्यं पुनरित्यादौ तरतमाभ्यामिति तरतमशब्दाभिधेयाभ्यां वृद्धिभ्याम्| तरतमशब्दयोर्विषयं विभजते- द्वयोरित्यादि|- द्वयोस्तर इति द्वयोर्दोषयोर्वृद्धयोस्तरप्रयोगो भवति- वृद्धतर इति| एवं त्रिषु तम इति त्रिषु दोषेषु वृद्धेषु सत्सु तमप्रयोगो भवति- वृद्धतम इति| तदेवं द्वन्द्वारब्धे विकारेऽन्यतरदोषस्य तरशब्दलक्षितेन प्राधान्येन सम्प्राप्तिर्भिद्यते, तथा त्रिदोषारब्धे विकारे तमशब्दलक्षितान्यतमदोषप्राधान्यात् सम्प्राप्तिर्भिद्यते, इत्युक्तं भवति||१२(३)||
विधिर्नाम- द्विविधा व्याधयो निजागन्तुभेदेन, त्रिविधास्त्रिदोषभेदेन, चतुर्विधाः साध्यासाध्यमृदुदारुणभेदेन|१२|
सम्प्राप्तिभेदं क्रमागतं विधिमाह- विधिर्नाम द्विविधा व्याधयो निजागन्तुभेदेनेत्यादिना| विधिरिति विधिकृत इत्यर्थः| तेन द्विविधत्वादयो भेदा यतो भवन्ति स विधिः; विधिश्च प्रकारो भेद इत्यर्थः| साध्यासाध्यमृदुदारुणभेदेनेति साध्यासाध्यगतेन मृदुदारुणभेदेन; तेन, मृदुसाध्यं सुखसाध्यं, दारुणसाध्यं कृच्छ्रसाध्यं रोहिणीवलयादि, तथा मृद्वसाध्यं याप्यं, दारुणासाध्यं प्रत्याख्येयमिति भेदचतुष्टम्| यद्यपि च सङ्ख्याप्राधान्यादिकृतोऽपि व्याधेर्विधिभेदो भवत्येव, तथाऽपि सङ्ख्यादिभेदानां स्वसञ्ज्ञयैव गृहीतत्वाद्गोबलीवर्दन्यायात् सङ्ख्याद्यगृहीते व्याधिप्रकारेऽयं विधिशब्दो वर्तनीयः||१२(४)||
समवेतानां [२५] पुनर्दोषाणामंशांशबलविकल्पो विकल्पोऽस्मिन्नर्थे|१२|
क्रमागतं विकल्पमाह- समवेतानामित्यादि|- समवेतानामिति सर्वेषां; तेन, एकशो द्विशो मिलितानां च दोषाणां ग्रहणम्| अंशमंशं प्रति बलमंशांशबलं, तस्य विकल्प उत्कर्षापकर्षरूपोंऽशांशबलविकल्पः; एवम्भूतो दोषाणामंशांशबलविकल्पोऽस्मिन्नर्थ इति अस्मिन् प्रकरणे विकल्प उच्यते| प्रकरणान्तरे तु विकल्पशब्देन भेदमात्रमुच्यते; यथा- “विकल्पो न त्वसाध्यानां” (सू.अ.१०) इत्यादाविति भावः| तत्र दोषाणामंशांशविकल्पो यथा- वाते प्रकुपितेऽपि कदाचिद्वातस्य शीतांशो बलवान् भवति, कदाचिल्लघ्वंशः, कदाचिद्रूक्षांशः, कदाचिल्लघुरूक्षांश इत्यादि; एवं पित्तकफयोरप्युदाहार्योंऽशांशविकल्पः; अयं चांशांशबलविकल्पो दोषाणां शीतादिगुणोद्भूतहेतुभेदाद्भवति||१२(५)||
बलकालविशेषः पुनर्व्याधीनामृत्वहोरात्राहारकालविधिविनियतो भवति||१२||
बलकालविशेषमाह- बलेत्यादि|- बलस्य कालो बलकालः, तस्य विशेषो वसन्तपूर्वाह्णादिर्बलकालविशेषः| ऋतवश्चाहोरात्राहारयोः कालाश्च ऋत्वहोरात्राहारकालाः, तेषां भेदो विधिः, तत्र विशेषेण नियतो बलकालविशेषः ऋत्वहोरात्राहारकालविधिविनियतः; तत्र ऋतुविनियतो बलकालविशेषो यथा- श्लेष्मज्वरस्य वसन्तः, अहोरात्रविनियतो यथा- श्लेष्मज्वरस्य पूर्वाह्णः प्रदोषश्च, आहारविनियतो यथा- श्लेष्मज्वरस्य भुक्तमात्रकालः, एवमाद्युन्नेयम्| केचित्तु विधिशब्देन पूर्वकृतं कर्म ब्रुवते, तत्रापि कर्मनियतो बलकालविशेषः पच्यमानकर्मकाल एव ज्ञेयः| एषु च बलकालेषु यद्यपि व्याधेरभूतप्रादुर्भावरूपा सम्प्राप्तिर्न भवति, तथाऽपि व्याधिसन्ताने तत्कालं व्याध्युत्पत्तौ सम्प्राप्तिर्भिन्नैव भवतीति मन्तव्यम्| इयं च कालविशेषप्राप्त्या बलवद्व्याधिजनिका सम्प्राप्तिर्व्याधेर्विशेषं स्फुटमेव बोधयति| यतः पूर्वाह्णे बलसम्प्राप्त्या ज्वरस्य कफजत्वमुन्नीयते, मध्याह्ने च बलप्राप्त्या पित्तजत्वमित्यादि| इह च सम्प्राप्तेरेव विशेषाः सङ्ख्यादिकृता उक्ताः, न तु निदानादीनां विशेषाः; यतो निदानादिविशेषाः प्रतिव्याधिवक्ष्यमाणभेदेनैवोपयुक्ताः| यतो यादृग् ज्वरे निदानं न तादृग् रक्तपित्ते; ये च पूर्वरूपादिविशेषा [२६] ज्वरे, न ते रक्तपित्तादौ, किन्तु भिन्नजातीया एव| स च भेदो निदानादीनां व्याधिभेदगमकत्वेनोपयुक्तो व्याधिभेदकथन एव वक्तव्यः| सम्प्राप्तेस्तु सङ्ख्यादिभेदः सर्वव्याधिष्वेकजातीयत्वेन न विशेषगमक इति इहैव सर्वव्याधिनिदाने कथ्यते; निदानादिविशेषास्तु प्रतिव्याधिविशिष्टत्वेन नेह प्रपञ्चेनोच्यन्ते| अत एव चात्रैवाध्याये सम्प्राप्तेः सामान्याभिधानेनैवोक्तत्वात् सम्प्राप्तिं परित्यज्य निदानादिविशेषं [२७] प्रतिजानीते- तस्य निदानपूर्वरूपलिङ्गोपशयविशेषाननुव्याख्यास्याम इति||१२||
तस्माद्व्याधीन् भिषगनुपहतसत्त्वबुद्धिर्हेत्वादिभिर्भावैर्यथावदनुबुद्ध्येत||१३||
यस्मादिमे निदानादय उक्तेन न्यायेन व्याधिपरीक्षायामुपयुक्ताः, तस्माद्व्याधीन् भिषग् हेत्वादिभिः परीक्षेतेति योजना| न च वाच्यं यत्- निदानादीनां मध्ये चेदन्यतमेनापि [२८] व्याधिपरिच्छेदं कर्तुं समर्थस्तत् किं पञ्चकाभिधानेनेति; यतो यावन्तो ज्ञानोपाया व्याधीनां ते सर्व एवोपदर्शनीयाः| तत्र यो निदानं विस्मृतवान्, तस्य पूर्वरूपादिभिर्व्याधिः परीक्ष्यते; तथा यत्र च पूर्वरूपादयो विस्मृताः सन्दिग्धा वा, तत्रोपशयेन परीक्षा भवति; एवं कफजत्वसन्देहे ज्वरस्य सम्प्राप्तिरपि पूर्वाह्णे भुक्तमात्रे वा भवन्ती [२९] कफजत्वं गमयतीत्यादि प्रयोजनमनुसरणीयम्| तथा पूर्वरूपेणापि लिङ्गसामान्यनिश्चय [३०] उक्तः; यदुक्तं- “हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः| यो मूत्रयेत्तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः” (चि.अ.६) इति| तथा लिङ्गनिश्चितेऽपि व्याधौ पूर्वरूपेणासाध्यत्वमुक्तं, यथा- “पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया| यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः” (इ.अ.५) इति| तस्मान्निदानादिपञ्चकमभिधातव्यमेव| ननु, लिङ्गेन व्याधिः परीक्षणीय इति वचनाल्लिङ्गव्यतिरिक्तो व्याधिरित्युक्तं भवति; तत्र च न लिङ्गसमुदायव्यतिरिक्तो व्याधिरुपलभ्यते, विषमारम्भिविसर्गित्वादयो हि सन्तापसहिता ज्वराः, तथा प्रतिश्यायकासाद्येकादशरूपमेलक एव यक्ष्मा| नैवं, लिङ्गत्वेन शास्त्रे प्रतिपादितानां तदतिरिक्तव्याध्यभावे लिङ्गत्वानुपपत्तेः, वचनं हि- “विषमारम्भमूलैश्च ज्वर एको निरुच्यते” (नि.अ.८) इति| विकारश्चैह दोषदूष्यमेलकविशेषो ज्वरादिशब्देनोच्यते| स च दोषदूष्यविशेषात्मा ज्वरोऽरुच्यादिभ्यो दोषदूष्यवैषम्यविशेषेभ्योऽर्थान्तरमेव| न च वाच्यं ज्वरलिङ्गारुच्यङ्गमर्दादिरूपधातुवैषम्यविशेषमेलको ज्वरोऽस्तु, अलं तदतिरिक्तज्वरकल्पनया, लिङ्गलिङ्गिभावश्च समुदायसमुदायिभेदाद्भविष्यतीति; यत एवमप्यरुच्यङ्गमर्दादिधातुवैषम्यानुगतो धातुवैषम्यविशेषो ज्वररूपोऽवयवीति भिन्न एव वक्तव्यः; जङ्घाबाहुशिरोन्तराध्यवयवानतिरिक्तमेव शरीरमवयविरूपम्| दुःखमेव व्याधिरिति पूर्वमेव पराकृतं, तेन दुःखरूपत्वाद्व्याधेरवयवित्वं न सम्भवतीति न वाच्यम्| लिङ्गानि तु स्वरूपेण व्याधयो भवन्ति, ते च बोद्धव्यव्याध्यपेक्षया लिङ्गानि भवन्ति| तदुक्तं- “व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः” (नि.अ.८) इति| लिङ्गलिङ्गिभावश्च जिज्ञासावशाद्भवति| यद्वक्ष्यति- “विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः| विषमारम्भमूलैश्च ज्वर एको निरुच्यते” (नि.अ.८) इति| अस्य चार्थमपस्मारनिदाने प्रकरणागतं व्याख्यास्यामः| तस्मात् सुस्थितं व्याधिगमकत्वं निदानादिपञ्चकस्येत्यर्थः||१३||
इत्यर्थसङ्ग्रहो निदानस्थानस्योद्दिष्टो भवति|
तं विस्तरेणोपदिशन्तो भूयस्तरमतोऽनुव्याख्यास्यामः||१४||
इतीत्यादौ इति परिसमाप्तौ| निदानस्थानस्येति सर्वव्याधिनिदानस्य| अर्थसङ्ग्रह इत्यनेनैव सङ्क्षेपार्थाभिधाने लब्धे उद्दिष्ट इति सङ्क्षेपाभिधायिपदकरणेन सङ्क्षेपस्यापि सङ्क्षेपाभिधानमेतदिति दर्शयति| तमिति सामान्यनिदानोद्देशम्, अतो निदानोद्देशमात्रतो भूयस्तरमुपदिशन्तो विस्तरेण व्याख्यास्याम इति योजना| तेनैतदतिसङ्क्षेपकथनापेक्षया प्रपञ्चकथनमेवेह विस्तरशब्दार्थ इति दर्शयति; तेन निदानादीनां यावद्विस्तरकथनमुत्तरत्रोपपन्नं भवति||१४||
तत्र प्रथमत एव तावदाद्याँल्लोभाभिद्रोहकोपप्रभवानष्टौ व्याधीन्निदानपूर्वेण क्रमेण व्याख्यास्यामः, तथा सूत्रसङ्ग्रहमात्रं चिकित्सायाः|
चिकित्सितेषु [३१] चोत्तरकालं यथोपचितविकाराननुव्याख्यास्यामः [३२] ||१५||
तत्रेत्यादिना ज्वराद्यष्टविधरोगस्य निदानस्थाने कथनं प्रतिजानीते| प्रथमत एव तावदित्यनेन पश्चाच्चिकित्साभिधेयानर्शः- प्रभृतीन् सूचयति| आद्य नित्यनेन आदौ दक्षाध्वरोद्ध्वंसे उत्पन्ना ये तेषामिह कथनं दर्शयति| यद्यपि च राजयक्ष्मा पृथगेवोत्पन्नः, वचनं हि- “अतिव्यवायात् पुनर्नक्षत्रराजस्य यक्ष्मा” (नि.अ.८) इति, तथाऽप्यस्य प्राधान्यादिहाभिधानम्| यद्यपि च दक्षाध्वरोद्ध्वंसोद्भूतानपस्मारान्तानभिधाय पृथगुत्पन्नस्य यक्ष्मणोऽभिधानमुचितं, तथाऽप्युन्मादापस्मारयोरागन्तुत्वेन शोषमप्यभिधायान्तेऽभिधानम्| लोभाभिद्रोहप्रभवानित्यनेन जनपदोद्ध्वंसनीये “प्रागपि चाधर्मादृते न रोगोत्पत्तिरभूत्” (वि.अ.३) इत्यनेन वक्ष्यमाणानां ज्वरादीनां लोभाभिद्रोहजन्यतां दर्शयति, अनेनाधर्मजत्वं ज्वरादीनामुक्तं भवति| निदानपूर्वेणेति निदानप्रथमेन| क्रमेणेति रोगसामान्योक्तनिदानपूर्वरूपरूपोपशयसम्प्राप्तिरूपेण| अयं च क्रमः क्वचित् प्रयोजनवशाद्बाध्यते; यथाऽत्रैव ज्वरेऽग्रे हि रूपमभिधाय पूर्वरूपमभिधातव्यम्| क्रमभेदप्रयोजनं चेह यत्- रूपाण्यत्र प्रतिज्वरमभिधातव्यानि, न तु प्राग्रूपाणि प्रतिज्वरमभिधातव्यानि; तेन सर्वसाधारणत्वात् सर्वमभिधाय [३३] प्राग्रूपं सामान्यमभिधातव्यम्| तथा, सूत्रसङ्ग्रहमात्रं चिकित्साया व्याख्यास्याम इति सम्बन्धः| निदाने च चिकित्साभिधानप्रयोजनं प्रागेवोक्तम्| सूत्रमिति कृत्वा यत् सङ्ग्रहमिति करोति तेन सूत्रस्यापि सङ्क्षेपेणाभिधानं दर्शयति; तथा चिकित्सासूत्रमपीह किञ्चिन्न वक्तव्यं, यथा- लङ्घनकालयवाग्वादयः| चिकित्सितेष्वित्यनेनैव चोत्तरकालत्वे लब्धे पुनरुत्तरकालमिति वचनं चिकित्सितस्थानेऽपि ज्वराद्यभिधानोत्तरकालमेव यथोपचितविकाराणां निदानादिकथनं दर्शयति| यथोपचितमिति ये ये उपचिता विकाराः शोथार्शःप्रभृतयस्तान्| किंवा, ‘यथाचितम्’ इति पाठः, तत्रापि यथाप्रधानमित्यर्थ उन्नेयः| चिकित्सिते च विकाराणां निदानाद्यभिधानं निदानादिनाऽव्यवधानेन प्रतीते विषये चिकित्सा सम्यक् प्रतीयत इत्यभिप्रायेण| अत एव च ज्वरादीनामपि पुनर्निदानाद्यभिधास्यति, इह तु ज्वरादीनां निदानाद्यभिधानं बहुवक्तव्यत्वेन स्थानभेदं कृत्वा कृतम्| स्थानभेदकरणेन च चिकित्सावदायुर्वेदे निदानस्यापि ज्ञेयत्वेन प्राधान्यं दर्शयति||१५||
इह खलु ज्वर एवादौ विकाराणामुपदिश्यते, तत्प्रथमत्वाच्छारीराणाम्||१६||
इह खल्विति अष्टविधव्याधिनिदाने वक्तव्ये| शारीराणामित्यनेन कामक्रोधादिमानसं [३४] रोगं प्रति न ज्वरस्य प्रथमत्वमिति दर्शयति||१६||
अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः सञ्जायते मनुष्याणां; तद्यथा- वातात्, पित्तात्, कफात्, वातपित्ताभ्यां, वातकफाभ्यां, पित्तकफाभ्यां, वातपित्तकफेभ्यः, आगन्तोरष्टमात् कारणात्||१७||
ज्वरस्य निरूपणीयस्य कारणकृतं भेदमाह- अथेत्यादि| एतच्च कारणं वातादि सन्निकृष्टम्| मनुष्याणामितिवचनेन गोगजशकुन्यादीनां नावश्यमिदं ज्वराष्टत्वमनुगामीति दर्शयति; तथाहि- हस्त्यादीनां पाकलादयो नाष्टविधाः प्रतिपाद्यन्ते| आगन्तोरिति वक्तव्ये अष्टमादिति वचनमागन्तोरभिघातादिचतुष्कारणभेदेऽप्येकत्वोपदर्शनार्थम्| आगन्तुर्हि कारणभेदोत्पन्नोऽप्येकरूप एव, यत आगन्तुः सर्वो व्यथापूर्वमेव भवति; यस्तु तत्र, “कामशोकभयाद्वायुः” (चि.अ.३) इत्यादिना भेदो वक्तव्यः, स वातादिकृत एवेति भावः||१७||
तस्य निदानपूर्वरूपलिङ्गोपशयविशेषाननुव्याख्यास्यामः [३५] ||१८||
तस्येत्यादौ तस्येति ज्वरस्य| विशेषानिति निदानादिभिः प्रत्येकं सम्बध्यते| निदानादिविशेषाश्चेह रोगान्तररक्तपित्ताद्यपेक्षया तथा परस्परं वातादिज्वरापेक्षया च यथासम्भवं बोद्धव्याः| तेन पूर्वरूपविशेष इह रक्तपित्तादिपूर्वरूपापेक्षया बोद्धव्यः, पूर्वरूपस्य विशेषेणेहानभिधानात्| उपशयविशेषानभिधानं च निदानविशेषाभिधानादेव लभ्यते, यतो निदानविपर्ययेणोपशयमभिधास्यति| पूर्वरूपं चेह विशिष्टमव्यक्तलिङ्गविशेषरूपमेव ज्ञेयम्| सम्प्राप्तेस्तु वक्ष्यमाणाया इहाप्रतिज्ञानं, तस्याः सर्वरोगे सम्प्राप्तिभेदाभिधाने [३६] च कथितत्वात्, तथा निदानादिवत् सम्प्राप्तेर्व्याधिबोधनं प्रत्यप्रधानत्वाच्च; यश्च सम्प्राप्तिभेदोऽभिधातव्यः स सर्वरोगसाधारण [३७] एव; भेदस्तु तस्या वातादिदोषमात्रकृत एव, वातादिभेदश्च निदानभेद एव| अन्ये तु ब्रुवते- सम्प्राप्तिं नाभिधास्यत्येवायं, यदेतत् ‘स यदा प्रकुपितः’ इत्याद्यभिधास्यति, तन्निदानरूपवातादिधर्मकथनमिति कृत्वा निदानान्तर्गतमेव||१८||
रूक्षलघुशीतवमनविरेचनास्थापनशिरोविरेचनातियोगव्यायामवेगसन्धारणानशनाभिघात- व्यवायोद्वेगशोकशोणितातिषेकजागरणविषमशरीरन्यासेभ्योऽतिसेवितेभ्यो वायुः प्रकोपमापद्यते||१९||
रूक्षेत्यादि| वातप्रकोपणं प्रति रूक्षस्य प्रधानत्वेनाग्रेऽभिधानं, रूक्षो हि गुणो वातगुणेषु प्रधानम्| आस्थापनं यद्यपि वातहरमुक्तम्- “आस्थापनानुवासनं तु खलु सर्वोपक्रमेभ्यो वातविकारेषु प्रधानम्” (सू.अ.२०) इति वचनात्, तथाऽपीहास्थापनस्यातियोगो वातहेतुरुक्त एवेति न दोषः| वचनं हि- “उत्क्लेशाग्निवधौ स्नेहान्निरूहात् पवनाद्भयम्” (सि.अ.४) इति| निरूहश्चानुवासनं [३८] कृत्वा युक्त एव, मात्राकृतश्च साधारणवातहर इति सिद्धान्तः||१९||
स यदा प्रकुपितः प्रविश्यामाशयमूष्मणा [३९] सह मिश्रीभूयाद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति||२०||
स यदेत्यादिना सम्प्राप्तिमाह| यदेति वचनादेवङ्कुपितोऽपि वायुर्यदाऽऽमाशयप्रवेशादिसम्प्राप्तियुक्तो भवति तदैव ज्वरं करोति, नान्यदेति दर्शयति| प्रविश्यामाशयमित्यनेन ज्वरकर्तुर्दोषस्यामाशयदूषकत्वं दर्शयति| अत एव सर्वज्वरेष्वामाशयविशुद्ध्यर्थं लङ्घनमुत्सर्गतो वदन्ति| यद्यपि चामाशयप्रवेशादेवोष्मणाऽपि मिश्रत्वं लभ्यत एव, यत आमाशय एव वह्निस्थानं, “नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः” (वि.अ.२) इति वचनात्, तथाऽपि वह्निस्थानस्यामाशयैकदेशत्वेनामाशयप्रवेशेऽपि नावश्यं ग्रहणीरूपवह्निस्थानदुष्टिर्विशेषेण लभ्यत इति; अत एवोक्तम्- ऊष्मणा सह मिश्रीभूयेति| रसनामानमित्युच्यमाने आहाररसेऽपि मधुररसादौ प्रसक्तिः स्यात्, अत उक्तम्- आहारपरिणामधातुमिति; आहारपरिणामभवो धातुराहारपरिणामधातुः, तमिति| आहारपरिणामधातुत्वं च परम्परया रक्तादिष्वप्यस्तीत्याह- आद्यमिति; प्रथममित्यर्थः| रसमिति वक्तव्ये रसनामानमिति यत् करोति तेन रसतीति रस इति व्युत्पत्तिमात्रेण रक्तादिषु रससञ्ज्ञां निषेधयति, यत्रैव रससञ्ज्ञा रूढा तं ग्राहयति; एवमन्यत्रापि च यत् पदमधिकार्थमिह प्रतीयते तत् स्पष्टार्थमेव, यतस्त्रिविधशिष्यबुद्धिहितमेव विस्पष्टार्थं तन्त्रं युज्यते| अन्विति यथोक्तक्रमेण| अवेत्येति गत्वा| पिधायेति अवरुध्य| पक्तिस्थानात् पाचकाग्निस्थानात्| ऊष्माणमिति पाचकवह्निम्| बहिरिति पक्तिस्थानव्यतिरिक्तशरीरे| यद्यपि चोष्माणं निरस्येतिवचनादेव पक्तिस्थानादिति [४०] लभ्यते, तथाऽपि पक्तिस्थानादितिवचनेन पक्तिस्थानात् कृत्स्नस्य वह्नेर्निरसनं दर्शयति, इह [४१] चोष्मशब्देन पाचकाग्निं व्यपदिशन् पाचकस्य वह्नेरूष्मरूपतां दर्शयति, बाह्यवह्निसदृशज्वालाकरं पित्तं निषेधयति| अत एव च वह्नेर्निरसनादग्निमान्द्यं ज्वरे दर्शितं भवति| वायुश्चात्रातिवृद्धत्वेन वह्नेर्निरासकः, तेनाग्निदीप्तिं न करोति; यत्र हि प्रेरकमात्रो भवति वायुस्तत्र वह्नेर्वृद्धिं करोति; यथा [४२] – मेदस्विनः कोष्ठे चरन् वायुरग्निवृद्धिकरो भवति||२०||
तस्येमानि लिङ्गानि भवन्ति; तद्यथा- विषमारम्भविसर्गित्वम्, ऊष्मणो वैषम्यं, तीव्रतनुभावानवस्थानानि ज्वरस्य, जरणान्ते दिवसान्ते निशान्ते घर्मान्ते वा ज्वरस्याभ्यागमनमभिवृद्धिर्वा, विशेषेण परुषारुणवर्णत्वं नखनयनवदनमूत्रपुरीषत्वचामत्यर्थं क्लृप्तीभावश्च; अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामङ्गावयवानां; तद्यथा- पादयोः सुप्तता, पिण्डिकयोरुद्वेष्टनं, जानुनोः केवलानां च सन्धीनां विश्लेषणम्, ऊर्वोः सादः, कटीपार्श्वपृष्ठस्कन्धबाह्वंसोरसां च भग्नरुग्णमृदितमथितचटितावपाटितावनुन्नत्वमिव [४३] , हन्वोश्चाप्रसिद्धिः, स्वनश्च कर्णयोः, शङ्खयोर्निस्तोदः, कषायास्यता आस्यवैरस्यं वा, मुखतालुकण्ठशोषः, पिपासा, हृदयग्रहः, शुष्कच्छर्दिः, शुष्ककासः, क्षवथूद्गारविनिग्रहः, अन्नरसखेदः, प्रसेकारोचकाविपाकाः, विषादजृम्भाविनामवेपथुश्रमभ्रमप्रलापप्रजागररोमहर्षदन्तहर्षाः, उष्णाभिप्रायता, निदानोक्तानामनुपशयो विपरीतोपशयश्चेति वातज्वरस्य [४४] लिङ्गानि भवन्ति||२१||
लिङ्गान्याह- तद्यथा विषमेत्यादि| तदिति सामान्येन स्त्रीलिङ्गपुंलिङ्गनपुंसकलिङ्गवक्ष्यमाणरूपप्रत्यवमर्शकं [४५] , सर्वलिङ्गप्रत्यवमर्शे हि तदिति सर्वनाम युक्तम्| यथेति उदाहरणे| आरम्भ उत्पादः, विसर्गो मोक्षः, तौ विषमौ यस्य स विषमारम्भविसर्गी; विषमत्वं च कदाचिच्छिरो गृहीत्वा भवति, कदाचित् पृष्ठं, कदाचिज्जङ्घे इत्यादि; एवं मोक्षोऽपि कदाचिच्छिरोऽग्रे मुच्यते इत्यादि; किंवा, ज्वरारम्भमोक्षकालानवस्थितत्वमेव वैषम्यम्| ऊष्मणो वैषम्यमिति क्वचिच्छरीरप्रदेशे महानूष्मा, क्वचिन्मन्द इत्यादि| तीव्रतनुभावानवस्थानानीति तीव्रभावस्तनुभावश्च ज्वरस्य कालाप्रतिनियत इत्यर्थः| एतत्सर्वं वायोरनवस्थितत्वेनोपपन्नम्| यच्च वायोर्जरणान्तदिवसान्तादिषु बलवत्कार्यकर्तृत्वमुक्तं, तदपि प्रायिकत्वेन ज्ञेयम्| अन्यथा, एतदेवारम्भादिवैषम्यं न स्यात्| यदि कालविशेषे जरणान्तादौ शरीरप्रदेशविशेषे च जङ्घादौ प्रतिनियमेन वातकोपः स्यात्, तदा शरीरप्रदेशविशेषे वातस्थाने जङ्घादौ कालविशेषे जरणान्तादौ च वातप्रकोपः प्रायिको ज्ञेयः| एतमेव प्रायिकवातकालमाश्रित्याह- जरणान्त इत्यादि| घर्मान्त इति प्रावृषि मुक्तिभाववतो ज्वरस्य सततकादेरभ्यागमनं, नित्यानुषक्तस्य त्वतिवृद्धिरिति व्यवस्था| परुषारुणत्वं च नखादिष्वेव प्रव्यक्तमुपलभ्यत इति कृत्वा नखादय इहोच्यन्ते| त्वग्ग्रहणेनैव वदनग्रहणे लब्धेऽपि वदनग्रहणं वदनत्वचि विशेषेण परुषत्वादिदर्शनार्थम्| क्लृप्तीभावः अप्रवृत्तिः, सा च योग्यतया मूत्रपुरीषयोरेव नखादिषूक्तयोर्मन्तव्या; किंवा, क्लृप्तीभावो भेदः स्फुटनमिति यावत्; स च नखादीनाम्| चलाश्च काश्चिद्वेदना अचलाश्च काश्चिन्नित्यानुषक्तत्वेनेति चलाचलाः; किंवा अत्यर्थं चलाश्चलाः| पिण्डिका जान्वधो जङ्घामध्यमांसपिण्डिका [४६] | भग्नं किञ्चिदवशेषेण च्छिन्नं, रुग्णं किञ्चिच्छिन्नं, मृदितं पार्श्वावमोटितम्, अवपाटितम् एकदेशोत्पाटितम्, अवनुन्नं प्रेरितम्; एषां च भग्नादीनां लोकत एवार्थावगतिः, यतो लौकिकैरेवैते शब्दाः प्रसिद्धत्वेन तत्र तत्र शास्त्रेऽभिधीयन्ते [४७] | हन्वोरप्रसिद्धिरिति हन्वोः स्वव्यापाराकरणम्| आस्यवैरस्यमिति अरसज्ञता| अन्नरसखेदः अन्नरसे खेदोऽवसादोऽन्नरसखेदः, सर्वरसेष्वनिच्छेत्यर्थः| अरुचिस्तु वक्ष्यमाणा वक्त्रे प्रविष्टान्नानभ्यवहरणाद्बोद्धव्या| उष्णाभिप्रायता उष्णप्रियता| निदानोक्तानामनुपशय इति वचनेनैव विपरीत उपशयोऽर्थलब्धोऽपि स्पष्टार्थमुच्यते; किंवा, अर्थापत्तेरनैकान्तिकत्वेन उच्यते; यथा- नवज्वरे दिवास्वप्ने प्रतिषिद्धेऽर्थापत्त्या पुराणज्वरे दिवास्वप्नः प्राप्नोति, अथ च तत्र दिवास्वप्नो न विहित इत्यर्थापत्तेरनैकान्तिकत्वं वदन्ति| निदानोक्तानामित्यत्रोक्तग्रहणाद्यदेव निदानत्वेनोक्तं तस्यैवानुपशयित्वं निदर्शयति न पुनर्यस्यापाततो निदानत्वं प्रतिभाति; तेन, मदात्ययादौ मद्यादेर्निदानत्वेन प्रतीयमानस्यापि उपशयित्वमेव||२१||
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनेभ्योऽतिसेवितेभ्यस्तथा तीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमाहारेभ्यश्च पित्तं प्रकोपमापद्यते||२२||
तद्यदा प्रकुपितमामाशयादूष्माणमुपसृज्याद्यमाहारपरिणामधातुं [४८] रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधाय द्रवत्वादग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य [४९] प्रपीडयत् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति||२३||
तस्येमानि लिङ्गानि भवन्ति; तद्यथा- युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा भुक्तस्य विदाहकाले मध्यन्दिनेऽर्धरात्रे शरदि वा विशेषेण, कटुकास्यता, घ्राणमुखकण्ठौष्ठतालुपाकः, तृष्णा, मदो, भ्रमो, मूर्च्छा, पित्तच्छर्दनम्, अतीसारः, अन्नद्वेषः, सदनं, खेदः, प्रलापः, रक्तकोठाभिनिर्वृत्तिः शरीरे, हरितहारिद्रत्वं नखनयनवदनमूत्रपुरीषत्वचाम्, अत्यर्थमूष्मणस्तीव्रभावः, अतिमात्रं दाहः, शीताभिप्रायता, निदानोक्तानुपशयो विपरीतोपशयश्चेति पित्तज्वरलिङ्गानि [५०] भवन्ति||२४||
उष्णेत्यादिना पित्तज्वरमाह- तद्यथेत्यादि|- पूर्ववद्व्याख्येयम्| द्रवत्वादग्निमुपहत्येतिवचनादुष्णस्यापि पित्तस्य द्रवत्वेनाग्निविपरीतेन गुणेनाग्निहन्तृतां दर्शयति| वक्ष्यति हि ग्रहण्यध्याये- “आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम्” (चि.अ.१५) इति| बहिर्निरस्य प्रपीडयदितिवचनेन पित्तज्वरे वातज्वर इव न सहसा वह्निक्षेपणं भवति, किन्तु शनैः स्तोकक्रमेणेति दर्शयति| युगपदेवेति न वैषम्येण| अभ्यागमनमभिवृद्धिर्वेति च पूर्वेण युगपदेवेत्यादिना परेण च विशेषेणेत्यन्तेन च ग्रन्थेन सम्बध्यते| कोठाभिनिर्वृत्तिः शरीर इति च्छेदः||२२-२४||
स्निग्धगुरुमधुरपिच्छिलशीताम्ललवणदिवास्वप्नहर्षाव्यायामेभ्योऽतिसेवितेभ्यः श्लेष्मा प्रकोपमापद्यते||२५||
स यदा प्रकुपितः प्रविश्यामाशयमूष्मणा सहमिश्रीभूयाद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य प्रपीडयन् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति||२६||
स्निग्धेत्यादिना श्लेष्मज्वरमाह| स यदेत्यादि पूर्ववत् कफज्वरेऽपि व्याख्येयम्| ननु, श्लेष्मण आमाशयः स्थानं, तत् किं प्रविश्यामाशयमिति वचनेन? नैवं, श्लेष्मण उरोऽपि प्रधानं स्थानं, तेनेहोरःस्थस्यापि श्लेष्मण आमाशयप्रवेशं दर्शयति| यत्र केवलामाशयवृत्ति [५१] पित्तं, तत्र ‘आमाशयं प्रविश्य’ इति न कृतं, किन्तु ‘आमाशयादूष्माणमुपसृज्य’ इति कृतं; पित्तं ह्यामाशयप्रविष्टमेव भवति, तच्चामाशयैकदेशस्थं ग्रहणीरूपामाशयैकदेशं वह्निस्थानं स्वस्थानाद्गच्छतीति युक्तम्||२५-२६||
तस्येमानि लिङ्गानि भवन्ति; तद्यथा- युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा भुक्तमात्रे पूर्वाह्णे पूर्वरात्रे वसन्तकाले वा विशेषेण, गुरुगात्रत्वम्, अनन्नाभिलाषः, श्लेष्मप्रसेकः, मुखमाधुर्यं, हृल्लासः, हृदयोपलेपः, स्तिमितत्वं, छर्दिः, मृद्वग्निता, निद्राधिक्यं, स्तम्भः, तन्द्रा, कासः, श्वासः, प्रतिश्यायः, शैत्यं, श्वैत्यं च नखनयनवदनमूत्रपुरीषत्वचाम्, अत्यर्थं च शीतपिडका भृशमङ्गेभ्य [५२] उत्तिष्ठन्ति, उष्णाभिप्रायता, निदानोक्तानुपशयो विपरीतोपशयश्च; इति (श्लेष्मज्वरलिङ्गानि [५३] भवन्ति)||२७||
युगपदिति एककालम्; एकदैव कफज्वरे सर्वशरीरव्याप्त्या आगमनमभिवृद्धिर्वा भवतीति दर्शयति| शीतपिडकास्तन्त्रान्तरे श्वेतपिडका उच्यन्ते| ‘तस्येमानि लिङ्गानि भवन्ति’ इत्येतावतैव कफज्वरलिङ्गत्वे लब्धे पुनः ‘श्लेष्मज्वरलिङ्गानि भवन्ति’ इति वचनं किमर्थं? ब्रूमः- तस्येतिपदेन स्वदोषमात्रप्रत्यवमर्शोऽपि स्यात्, तेन दोषलिङ्गतैव [५४] परं लिङ्गानां मा स्यादित्येतदर्थं पुनरभिधानम्; किंवा, पूर्वप्रतिज्ञया लिङ्गानां प्रागवच्छेद उक्तः, उत्तरेण श्लेष्मज्वरलिङ्गानि भवन्तीत्यनेनान्त्यावच्छेद उच्यते; एवमन्यत्रापि वातज्वरादौ पूर्वरूपे च पुनरुक्तिः परिहर्तव्या||२७||
विषमाशनादनशनादन्नपरिवर्तादृतुव्यापत्तेरसात्म्यगन्धोपघ्राणाद्विषोपहतस्य चोदकस्योपयोगाद्गरेभ्यो गिरीणां चोपश्लेषात् स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगात् मिथ्यासंसर्जनाद्वा स्त्रीणां च विषमप्रजननात् प्रजातानां च मिथ्योपचाराद् यथोक्तानां च हेतूनां मिश्रीभावाद्यथानिदानं द्वन्द्वानामन्यतमः सर्वे वा त्रयो दोषा युगपत् प्रकोपमापद्यन्ते, ते प्रकुपितास्तयैवानुपूर्व्या ज्वरमभिनिर्वर्तयन्ति||२८||
विषमाशनादित्यादिना द्वान्द्विकसान्निपातिकज्वरानाह| अनशनं यद्यपि न पित्तश्लेष्मकरं, तथाऽप्यग्निमान्द्यकरत्वात्त्रिदोषकरमपि भवति; किंवा एषु विषमाशनादिषु यथायोग्यतया द्वन्द्वकारणत्वं त्रिदोषकारणत्वं चोन्नेयं, तेनानशनं वातपित्तकरं बोद्धव्यं; यत्तु पित्तहरत्वमुक्तमनशनस्य, तत्तु पित्तद्रवांशक्षयात्| वचनं हि- “कफपित्ते द्रवे धातू सहेते लङ्घनं महत्” इति| अन्नपरिवर्तादिति सहसैवाक्रमेण कृताभ्यस्तान्नपरिवर्तात्| असात्म्यगन्धो गन्धद्रव्यस्य नासिकयाऽन्तःप्रवेशाद्यथा दोषकरो भवति न तथाऽसात्म्यरूपादयः, ते हि नावश्यं शरीरं विशन्ति, तेन नेहासात्म्यरूपादय उक्ताः| यथानिदानमिति यदा द्वयोर्निदानं सेव्यते तदा द्वन्द्वः, यदा त्रयाणां निदानं सेव्यते तदा त्रयो दोषाः; द्वन्द्वेऽपि यदा वातपित्तयोर्निदानं सेव्यते तदा वातपित्तरूपं द्वन्द्वम्; एवमन्यदपि कुप्यतीत्यर्थः| सर्वे त्रयो दोषा इत्यनेनैव लब्धेऽपि युगपदितिवचनं क्रमप्रकोपप्रतिषेधार्थं, युगपदेव प्रकोपमापद्यन्ते न क्रमेणेत्यर्थः||२८||
तत्र तथोक्तानां ज्वरलिङ्गानां मिश्रीभावविशेषदर्शनाद्द्वान्द्विकमन्यतमं ज्वरं सान्निपातिकं वा विद्यात्||२९||
ज्वरलिङ्गानामित्यादौ मिश्रीभावविशेषो वातपित्तलिङ्गं वा, वातश्लेष्मलिङ्गं वा, पित्तश्लेष्मलिङ्गं वा| अन्यतममिति वातपित्तज्वरादिकम्||२९||
अभिघाताभिषङ्गाभिचाराभिशापेभ्य आगन्तुर्हि व्यथापूर्वोऽष्टमो ज्वरो भवति|
स किञ्चित्कालमागन्तुः केवलो भूत्वा पश्चाद्दोषैरनुबध्यते|
तत्राभिघातजो वायुना दुष्टशोणिताधिष्ठानेन, अभिषङ्गजः पुनर्वातपित्ताभ्याम्, अभिचाराभिशापजौ तु सन्निपातेनानुबध्येते||३०||
आगन्तुज्वरमाह- अभिघातेत्यादि| अभिघातो लगुडाद्यभिघातः, अभिषङ्गः कामाद्यभिषङ्गः, अभिचारोऽथर्वमन्त्रादिर्ज्वरकरः, अभिशापस्तु गुरुसिद्धाद्यभिशपनम्; एतत् प्रधानत्वेन चतुर्विधं कारणमिहोक्तं; तेन, ओषधिगन्धभूताभिषङ्गदुष्टग्रहनिरीक्षणादयोऽप्यागन्तुज्वरहेतवो बोद्धव्याः; किंवा, अभिघातग्रहणेन शरीराभिहननवाचिनाऽसात्म्यगन्धादयो ग्राह्याः, अभिषङ्गेण तु भूताभिषङ्गादयः| व्यथापूर्वमिति आगन्तौ प्रथमं व्यथा भवति, पश्चाद्दोषानुबन्धकृतानि लक्षणानीति दर्शयति; किंवा, व्यथापूर्वमितिवचनादागन्तौ ज्वरे व्यथैव पूर्वरूपमिति वदन्ति| रूपं तु यदेव ज्वरस्य प्रात्यात्मिकं सन्तापरूपं तदेव वातज्वरादिलक्षणरहितं बोद्धव्यं प्रथमतः, उत्तरकालीनदोषानुबन्धे तु यथावक्ष्यमाणदोषलिङ्गान्येव भवन्ति| अष्टम इतिवचनेनाभिघातादिहेतुचतुष्टययोगप्राप्तं चातुर्विध्यं निषेध्य व्यथापूर्वकत्वेनैकरूपयोगादेकविधत्वं चतुर्णां दर्शयति; चातुर्विध्ये ह्यागन्तोर्नाष्टमत्वं, नवमत्वादयोऽपि स्युः| किञ्चित्कालमिति स्तोककालं; केचित् त्र्यहं वदन्ति, अन्ये सप्ताहमाहुः| आगन्तौ हि सप्ताहादूर्ध्वं दोषलिङ्गानि भवन्तीति दृष्टम्| तत्र यस्यागन्तोर्यादृशो दोषानुबन्धो भवति तमाह- तत्राभिघातेत्यादि| वातपित्ताभ्यामिति कश्चिद्वातेन, कश्चित् पित्तेन, कश्चिद्वातपित्ताभ्याम्| वचनं हि- “कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः| भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः” (चि.अ.३) इति| भूताभिषङ्गे तु यद्यपि त्रिदोषप्रकोप उक्तः, तथाऽपि तत्र वातपित्तयोरेवैतद्वचनबलात् प्राधान्यम्||३०||
स सप्तविधाज्ज्वराद्विशिष्टलिङ्गोपक्रमसमुत्थानत्वाद्विशिष्टो वेदितव्यः, कर्मणा साधारणेन चोपचर्यते [५५] |
इत्यष्टविधा ज्वरप्रकृतिरुक्ता||३१||
आगन्तोर्निजाद्भेदमाह- स इत्यादि| विशेषलिङ्गता आगतोर्व्यथापूर्वकव्याख्याने व्याकृता, समुत्थानविशेषोऽप्यभिघातादिरुक्तः, उपक्रमविशेषोऽपि ‘साधारणेन कर्मणा चोपचर्यते’ इति वचनेनैवात्र कथ्यते| साधारणेनेति दैवयुक्तिव्यपाश्रयेण; दैवव्यपाश्रयं हि बलिमङ्गलहोमादि, युक्तिव्यपाश्रयं हि लघ्वशनापतर्पणयवागूकषायपानादि| प्रकृतिरुक्तेति स्वभावोऽपि वातादिज्वराणां निदानाद्युपहित उक्त इत्यर्थः||३१||
ज्वरस्त्वेक एव सन्तापलक्षणः|
तमेवाभिप्रायविशेषाद्द्विविधमाचक्षते, निजागन्तुविशेषाच्च|
तत्र निजं द्विविधं त्रिविधं चतुर्विधं सप्तविधं चाहुर्भिषजो वातादिविकल्पात्||३२||
निजागन्तुविशेषाच्च द्विविधमिति सम्बन्धः| निजं द्विविधमित्यादौ द्वैविध्यं (संसृष्टासंसृष्टजन्यत्वेन [५६] ) शीतोष्णाभिप्रायभेदात्, त्रिविधं त्रिदोषभेदात्, चतुर्विधं प्रत्येकं वातादिदोषजन्यभेदात्| तत्र चातुर्विध्ये द्वन्द्वज्वराः प्रतिक्षिप्यन्ते, तेषां प्रत्येकं वातादिज्वरसदृशत्वात्; त्रिदोषज्वरस्तु असाध्यतायोगात् कृच्छ्रसाध्यतायोगाद्वा पृथगुच्यते||३२||
तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- मुखवैरस्यं, गुरुगात्रत्वम्, अनन्नाभिलाषः, चक्षुषोराकुलत्वम्, अश्र्वागमनं, निद्राधिक्यम्, अरतिः, जृम्भा, विनामः, वेपथुः, श्रमभ्रमप्रलापजागरणरोमहर्षदन्तहर्षाः, शब्दशीतवातातपसहत्वासहत्वम्, अरोचकाविपाकौ, दौर्बल्यम्, अङ्गमर्दः, सदनम्, अल्पप्राणता, दीर्घसूत्रता, आलस्यम्, उचितस्य कर्मणो हानिः, प्रतीपता स्वकार्येषु, गुरूणां वाक्येष्वभ्यसूया, बालेभ्यः प्रद्वेषः, स्वधर्मेष्वचिन्ता, माल्यानुलेपनभोजनपरिक्लेशनं, मधुरेभ्यश्च भक्षेभ्यः प्रद्वेषः, अम्ललवणकटुकप्रियता च, इति ज्वरस्य पूर्वरूपाणि भवन्ति प्राक्सन्तापात्; अपि चैनं सन्तापार्तमनुबध्नन्ति||३३||
तस्येमानीत्यादिना सर्वज्वरसाधारणं पूर्वरूपमाह| एतानि च पूर्वरूपाण्यागन्तोरपीत्येके वदन्ति; अन्ये तु निजानामेवैतानीति वदन्ति, आगन्तोस्तु व्यथैव पूर्वरूपम्| अत्राप्यनन्नाभिलाषारोचकयोः पूर्ववद्भेदः| दौर्बल्यं शरीरबलहानिः, अल्पप्राणता च मानसबलहानिर्बोद्धव्या; किंवा दौर्बल्यं मांसापचयः| दीर्घसूत्रता चिरेण कार्यकर्तृत्वम्| ज्वरपूर्वरूपाणि भवन्ति प्राक्सन्तापादिति च्छेदः, ज्वररूपसन्तापात् प्रागेतानि पूर्वरूपाणि भवन्तीत्यर्थः| अपिच सन्तापार्तमनुबध्नन्तीत्यनेन प्रव्यक्तेऽपि ज्वरे कानिचित्पूर्वरूपाणि मुखवैरस्यारुच्यादीनि भवन्तीति दर्शयति| न चैवं पूर्वरूपानुवृत्तौ रिष्टत्वं वाच्यं; यतः सर्वपूर्वरूपाणामतिमात्रानुवर्तनं रिष्टमुक्तम्| वचनं हि- “पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया| यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः” (इ.अ.५) इति; किंवा, अस्य श्लोकस्यान्य एवार्थः, तमिन्द्रिये वक्ष्यामः| न चारुच्यादीनां व्यक्तज्वरभावित्वेन पूर्वरूपत्वं हन्यते, यतो लिङ्गान्तरयुक्तान्यरुच्यादीनि लिङ्गानि भवन्ति, लिङ्गान्तरविरहितानि तु पूर्वरूपाणि||३३||
इत्येतान्येकैकशो ज्वरलिङ्गानि व्याख्यातानि भवन्ति विस्तरसमासाभ्याम्||३४||
एकैकशो ज्वरलिङ्गानीत्यत्र लिङ्गशब्देन निदानपूर्वरूपादीन्युच्यन्ते| विस्तरसमासाभ्यामिति विस्तरेण वातादिज्वरोक्ताः, समासेन संसर्गसन्निपातजाः; यस्त्वत्र समासेनोक्तः स चिकित्सिते प्रपञ्चनीय इति भावः||३४||
ज्वरस्तु खलु महेश्वरकोपप्रभवः, सर्वप्राणभृतां प्राणहरो, देहेन्द्रियमनस्तापकरः, प्रज्ञाबलवर्णहर्षोत्साहह्रासकरः [५७] , श्रमक्लममोहाहारोपरोधसञ्जननः; ज्वरयति शरीराणीति ज्वरः, नान्ये व्याधयस्तथा दारुणा बहूपद्रवा दुश्चिकित्स्याश्च यथाऽयम्|
स सर्वरोगाधिपतिः, नानातिर्यग्योनिषु च बहुविधैः शब्दैरभिधीयते|
सर्वे प्राणभृतः सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते च; स महामोहः, तेनाभिभूताः प्राग्दैहिकं देहिनः कर्म किञ्चिदपि न स्मरन्ति, सर्वप्राणभृतां च ज्वर एवान्ते प्राणानादत्ते||३५||
सम्प्रति ज्वरस्य महाप्रभावतां दर्शयितुं पूर्वोत्पत्तिप्रकारमाह- ज्वरस्त्वित्यादि| महेश्वरकोपप्रभव इत्यनेन ज्वरचिकित्सिते “द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्” (चि.अ.३) इत्यादिग्रन्थे वक्ष्यमाणां ज्वरोत्पत्तिमाह| क्रोधभवत्वेन च श्लेष्मजन्यस्याप्याग्नेयत्वं दर्शयति; क्रोधो ह्यग्निरूपः, तेन तन्मयोऽपि ज्वरस्तथैव; अत एवोक्तम्- “ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना| तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्” (वा.चि.अ.१) इति| न च रुद्रकोपभवत्वेन लोभाभिद्रोहप्रभवत्वं ज्वरस्य विरुध्यते; यतो रुद्रकोपोद्भूत एव ज्वरो लोभाभिद्रोहस्वरूपपापाचारप्राप्त्या पुरा मनुष्येषु भूतः| सर्वप्राणिनां ज्वर एव प्राणहर इति मरणकाले सर्वप्राणिनां ज्वर एव प्राणहर इति दर्शयति| देहेन्द्रियमनस्तापकर इत्यत्र प्रत्येकं तापलक्षणं ज्वरचिकित्सिते बोद्धव्यं “वैचित्त्यमरतिर्ग्लानिर्मनःसन्तापलक्षणम्” (चि.अ.३) इत्यादिना| ज्वरयति सन्तापयति| इतिशब्दो हेतौ; तेन, यस्मादुक्तमहेश्वरक्रोधप्रभवत्वादियुक्तः, तस्मात्| सर्वरोगाणामधिपतिरिवेति सर्वरोगाधिपतिः| नानाविधैः शब्दैरिति हस्तिषु पाकलो, गोषु खेरिको [५८] , मत्स्यानामिन्द्रजालो, विहङ्गानां भ्रामरक इत्यादिशब्दैः| सर्वप्राणभृतः सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते च तत् किमिति तेषां जन्मनि मरणे वा सन्तापात्मा ज्वरो न लक्ष्यत इत्याह- स महामोह इति; जन्ममरणयोर्महामोहरूपो ज्वरो भवति, न सन्तापात्मेत्यर्थः| अत एवोक्तं- “ज्वरप्रभावो जन्मादौ निधने च महत्तमः” (चि.अ.३) इति| जन्मनि महामोहरूपतामाह- तेनेत्यादि| प्राग्दैहिकं जन्मान्तरकृतम्| ननु, शुद्धसत्त्वानुगमात् प्राग्दैहिकं स्मरणं युक्तं; वचनं हि- “यदा तेनैव शुद्धेन मनसा युज्यते, तदा जातिमतिक्रान्तामपि स्मरति” (शा.अ.३) इति| न, तस्य शुद्धमनःसत्त्वानुवृत्तेरपवादत्वादेतत्परित्यज्यान्यत्र ज्वरस्य प्राग्दैहिकविस्मारकत्वं ज्ञेयम्| मरणे महामोहतामाह- सर्वप्राणभृतामित्यादि| ज्वर एव महामोहरूप एवेति भावः; तेन म्रियमाणाः सर्वे महामोहं प्रविशन्तीत्यर्थः||३५||
तत्र पूर्वरूपदर्शने ज्वरादौ वा हितं लघ्वशनमपतर्पणं वा, ज्वरस्यामाशयसमुत्थत्वात्; ततः कषायपानाभ्यङ्गस्नेहस्वेदप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनोपशमन- नस्तःकर्मधूपधूमपानाञ्जनक्षीरभोजनविधानं च यथास्वं युक्त्या प्रयोज्यम्||३६||
सम्प्रति सूत्रितं चिकित्सासूत्रमाह- तत्रेत्यादि| यद्यपि चिकित्सिते ज्वरादौ लङ्घनं वक्ष्यति, तथाऽपीह पाक्षिकलघ्वशनविधानं न विरोधि, लघ्वशनस्यापि लाघवकर्तृत्वेनैव लङ्घनत्वात्; किंवा, यत्र वातादिज्वरे लङ्घनं न कर्तव्यं तत्र लघ्वशनं बोद्धव्यम्, अपतर्पणं च लङ्घनमेव| अथ किमिति वातिकेऽपि ज्वरे वातकारकं लघ्वशनमपतर्पणं वा कार्यमित्याह- आमाशयसमुत्थत्वादित्यादि| आमाशयसम्बन्धेन [५९] वातोऽपि मनाग्लङ्घनीयः स्थानापेक्षया भवतीति भावः| वचनं हि- “स्थानं जयेद्धि पूर्वं स्थानस्याविरोधेन” इति||३६||
जीर्णज्वरेषु तु सर्वेष्वेव सर्पिषः पानं प्रशस्यते यथास्वौषधसिद्धस्य; सर्पिर्हि स्नेहाद्वातं शमयति, संस्कारात् कफं, शैत्यात् पित्तमूष्माणं च; तस्माज्जीर्णज्वरेषु सर्वेष्वेव सर्पिर्हितमुदकमिवाग्निप्लुष्टेषु द्रव्येष्विति||३७||
भवन्ति चात्र- यथा प्रज्वलितं वेश्म परिषिञ्चन्ति वारिणा|
नराः शान्तिमभिप्रेत्य तथा जीर्णज्वरे घृतम्||३८||
स्नेहाद्वातं शमयति, शैत्यात् पित्तं नियच्छति|
घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम्||३९||
नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते|
यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्||४०||
यथास्वौषधसिद्धस्येति वातादिज्वरे वातज्वरादिहरद्रव्यसिद्धस्य| कथं सर्पिः सर्वत्र कार्यमित्याह- सर्पिर्हि स्नेहादित्यादि| संस्कारात् कफमिति कटुतिक्तादिकफहरसंस्कारात्| यद्यपि च ‘यथास्वौषधसिद्धस्य’ इति वचनाद्वातेऽपि वातहरसंस्कृतमेव सर्पिर्विहितं [६०] , तथाऽपि वाते रूक्षविपरीतेन स्नेहेनापि सर्पिर्वातहरमेव, पित्तेऽप्युष्णविपरीतशैत्यान्वितं, कफे तु सर्पिषः स्नेहशैत्यादिना समानेन कश्चिन्न स्वाभाविको विरोधिगुणोऽस्ति किन्तु संस्काराद्धितमेवेति दर्शयति| ऊष्माणं चेति ज्वरप्रभावभूतमूष्माणं; न पित्तोष्माणं, तस्य पित्तग्रहणेनैव ग्रहणात्| अनेन ज्वरस्योष्महरणेन सर्पिषो ज्वरव्याधिप्रत्यनीकत्वं दर्शितं भवति| अत्र वातशमनं सर्पिषोऽभिधाय पित्तशमनेऽभिधातव्ये कफशमनमुच्यते, शेषतो वक्तव्योष्मरूपव्याधिप्रत्यनीकतयाऽपि [६१] पित्तशमनहेतोः शैत्यस्य समानगुणत्वात्; यदि त्विह मध्ये पित्तप्रशमनमुच्यते, तदा पुनः संस्कारात् कफमित्युक्त्वा शैत्यादूष्माणमिति वक्तव्यं स्यात्| यत्र तु श्लोकपाठे व्याधिप्रत्यनीकत्वं घृतस्य पृथङ्नोक्तं; तत्र, ‘स्नेहाद्वातं शमयति’ इत्यादौ वातमनु पित्तमेव कृतमिति साधु कृतम्| तस्मादिति दोषव्याधिप्रत्यनीकत्वात्| जीर्णज्वरेष्विति वचनेनामज्वरे निषेधयति, सामे हि समानगुणत्वात् सर्पिरहितम्| शान्तिमिति सन्तापशान्तिम्| अभिप्रेत्येति बुद्ध्या स्वीकृत्य, तथा जीर्णज्वरे घृतं ‘ददाति’ इति शेषः| नन्वत्र, श्लोके सर्पिर्गुणकथने किमिति व्याधिरूपोष्मशमनं नोच्यते? ब्रूमः- पित्तोष्माव्यतिरिक्तत्वेन ज्वरोष्मणः पित्तशमनेनैव लब्धत्वात्| ननु यद्येवं [६२] गद्यपाठे पृथङ्न तर्हि पठनीय ऊष्मा? ब्रूमः- यावानूष्मा शारीरः स पैत्त एव, यतो ब्रूते- “ऊष्मा पित्तादृते नास्ति” (वा.चि.अ.१) इत्यादि, तथा “पित्तादूष्मोष्मणः पक्तिर्नराणामुपजायते” (सू.अ.१७) इति; किन्तु, नासावूष्मा कदाचित् पित्तेन साम्येऽप्येको भवति, यथा- कफज्वरे; कदाचित्त्वधिके पित्ते वह्निरूप ऊष्मा मन्दो भवति, यथा- पित्ताग्निमान्द्ये; तदेवमूष्मा पित्ताद्भिन्नोऽभिन्नश्च भवति; तत्र भेदं गृहीत्वा गद्यपाठे [६३] पृथग् ज्वरोष्मा पठितः, श्लोकपाठे त्वभेदविवक्षया न [६४] पृथक् पठितः| ज्वरे तु पित्तोष्मा ज्वरप्रभावेण वर्धते, स च प्रभावो ज्वरस्य दोषदूष्यविशेषात्मकस्य, तथा “ज्वरस्त्रिपादस्त्रिशिरः” इत्याद्युक्तप्राणिविशेषस्य ज्ञेयः| ननु सर्पिः कथं पित्तं हन्ति? यतः, यथा पित्तविपरीतशैत्यं सर्पिषि, तथा पित्तसमानः स्नेहोऽप्यस्ति| नैवं, पित्ते “सस्नेहं” (सू.अ.१) इतीषदर्थेन सशब्देनाल्पस्य स्नेहस्याभिधानात्, उष्णत्वं तु पित्ते प्रधानम्| यद्यपि पित्तं जलेनाप्यारब्धं, तथाऽपि तत्र शैत्यमभिभूयाग्निकृतमौष्ण्यमेवाधिकं भवति, तथा तेजसो रौक्ष्येण जलकृतस्नेहोऽपि पित्तेऽभिभूयते, द्रवत्वं तु जलकृतं तेजसा नाभिभूयते, दृश्यते ह्यग्निसम्पृक्ते जले द्रवत्वमल्पस्नेहता उष्णता चेति| किंवा, किमनेन तप्तजलदृष्टान्तेन, अदृष्टकृत एवायं भूतानामुत्पादः; तेन, कश्चितेव गुणः पाञ्चभौतिकत्वेऽपि द्रव्याणामाविर्भूतो भवति, नतु सर्वे; यथा- शालिषु तोयकृतं मधुरत्वं, न तु गौरवमित्युक्तं सूत्रस्थाने| उत्सर्गतः सस्नेहस्यापि पित्तस्य कदाचित्तेजोभूयस्त्वेन रूक्षत्वमपि भवति जीर्णज्वरे, तेन स्निग्धशीतं सर्पिर्हितं तत्र भवतीति न दोषः| अत एवोक्तं चिकित्सिते- “रूक्षं तेजो ज्वरकरं” (चि.अ.३) इत्यादि| न च वाच्यं- यत्- सांसिद्धिकमपि चेत् पित्तस्य स्निग्धत्वमपैति तदा वातस्यापि रौक्ष्यं किमिति नापैतीति; यतो विचित्रा एव हि गुणा अप्रतिक्षेपणीयाः प्रतिक्षेपणीयाश्च; तत्र ये न सर्वदा दृश्यन्ते वातशैत्य-पित्तस्नेहादयः, त एव प्रतिक्षेपणीयाः; नान्ये, तथैव दृष्टत्वात्| तुल्यगुणमिति सर्वथा तुल्यगुणम्| ननु संस्कारात् कफहन्तृत्वे संस्कारेणैव कफो हन्यते [६५] , कस्तत्र सर्पिषो व्यापार इत्याह- नान्य इत्यादि| नान्य इति तैलादिः| संस्कारमनुवर्तत इति संस्कारकद्रव्यकार्यं करोति| एतेनैतद्दर्शयति- यत्- तेनैव द्रव्येण यादृङ्मानेन घृतं संस्क्रियते, अन्यत्र तैलादिस्नेहस्तथैव यदि संस्क्रियते तदा घृतमेवान्यस्नेहेभ्यो विशेषेण संस्कारकद्रव्यकार्यं करोति; अयं घृतप्रभावोऽधिकः, तेन संस्कारात् कफविजये घृतमेव कर्तव्यमित्यर्थः| प्रपञ्चितश्चायमर्थः स्नेहाध्याये||३७-४०||
गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते|
तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते||४१||
ननु स्नेहाद्वातं शमयतीत्यादिग्रन्थो गद्येनैवोक्तः, तत् किमर्थं श्लोकेनोच्यत इत्याह- गद्योक्तो य इत्यादि| तद्व्यक्तिव्यवसायार्थमित्यत्र तद्व्यक्तिर्गद्योक्तार्थस्य व्यक्तिः प्रसन्नतेति यावत्, व्यवसायः अध्यवसायो ग्रहणमित्यर्थः; यस्मात् पूर्वोक्तार्थस्पष्टीकरणार्थं पुनः श्लोकेनाभिधानं, तस्मात् प्रयोजनान्तरयुक्तत्वान्न पुनरुक्तिदोष इति भावः| गद्योक्तापेक्षया श्लोकाभिधानं सुखग्रहणं भवतीति लोकसिद्धमेव| अत्र च गद्योक्त इत्युपलक्षणं, तेन श्लोकोक्तोऽपि श्लोकेनोच्यत इति बोद्धव्यं; यथा- आरग्वधीये| एवं गद्योक्तोऽपि गद्येनेति बोद्धव्यं; यथा- प्रपञ्चेन कारणाद्यभिधायोक्तम्- “एवमसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च” (सू.अ.११) इत्यादि| तथा श्लोकेनोक्तोऽपि गद्येनोच्यते, यथा- “ब्रह्मणा हि यथा प्रोक्तं” (सू.अ.१) इत्यादि श्लोकेनाभिधाय आद्येऽध्याये पुनरन्यत्रोक्तं- “यमायुर्वेदमश्विनौ मह्यं प्रायच्छेताम्” (चि.अ.१.पा.४) इत्यादि| अत्र श्लोकाभिधानमेव सुखग्रहणार्थमिति ज्ञेयम्| किंवा, तद्व्यक्तिव्यवसायार्थमिति यथायोग्यतया बोद्धव्यम्| तेन, प्रपञ्चाभिधानमर्थव्यक्त्यर्थं बोद्धव्यं, सङ्क्षेपाभिधानं तु व्यवसायार्थं; तेन गद्यश्लोकाभिधानाभ्यां व्यक्तिव्यवसायौ क्रियेते| तत्र प्रपञ्चाभिधानेऽर्थस्य व्यक्तिः स्फुटैवेति, सङ्क्षेपाभिधानं तु प्रपञ्चापेक्षया सुखग्रहणं भवति||४१||
तत्र श्लोकाः- त्रिविधं नामपर्यायैर्हेतुं पञ्चविधं गदम्|
गदलक्षणपर्यायान् व्याधेः पञ्चविधं ग्रहम्||४२||
ज्वरमष्टविधं तस्य प्रकृष्टासन्नकारणम्|
पूर्वरूपं च रूपं च भेषजं सङ्ग्रहेण च||४३||
व्याजहार ज्वरस्याग्रे निदाने विगतज्वरः|
भगवानग्निवेशाय प्रणताय पुनर्वसुः||४४||
सङ्ग्रहे यद्यपि हेतुपर्यायाः पूर्वमुक्तास्तदनु हेतुत्रैविध्यं, तथाऽपि छन्दोऽनुरोधेन तद्विपर्ययकथनम्| नामरूपा योगरूढाः पर्याया नामपर्यायाः| पञ्चविधं गदमिति आग्नेयादिभेदेन| ‘गदपर्यायनामानि’ इति पाठे यल्लिङ्गपर्यायाभिधानं तस्य व्याधिपञ्चविधग्रहशब्देनैव ‘तस्योपलब्धिः’ इत्यादिग्रन्थान्तर्निविष्टसकलार्थस्य गृहीतत्वाद्ग्रहणम्; ‘गदलक्षणपर्यायान्’ इति पाठे तु पूर्वपक्षो नास्त्येव, पाठस्तु नायमतिप्रसिद्धः| प्रकृष्टासन्नकारणं ज्वरस्य रूक्षादि प्रकृष्टम्, आसन्नं वातादि; तथा प्रकृष्टं रुद्रकोपः, आसन्नं तु रूक्षादि| यद्यपि रूपात् पश्चात् पूर्वरूपमुक्तं, तथाऽपि छन्दोनुरोधात् पूर्वरूपमग्रे कृतं; किंवा, वातादिजविशिष्टज्वरलक्षणानामव्यक्तानां विशिष्टज्वरपूर्वरूपतां सूचयता पूर्वरूपं पूर्वङ्कृतं; वातादिज्वरलक्षणानि ह्यव्यक्तानि पूर्वरूपाणि भवन्ति||४२-४४||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने ज्वरनिदानं नाम प्रथमोऽध्यायः||१||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थाने ज्वरनिदानं नाम प्रथमोऽध्यायः||१||
१. चिकित्सार्थत्वादिति चिकित्सामात्रप्रयोजनत्वादित्यर्थः|
२. ‘व्याधिज्ञानजनकं’ इति पा.|
३. ‘नार्थान्तरे’ इति पा.|
४. ‘वर्तमानानां’ इति पा.|
५. पर्यायान्तरेणेति एकार्थवाचकशब्दान्तरेणेत्यर्थः|
६. लक्षणार्थमिति लक्षणप्रयोजनकमित्यर्थः|
७. ‘अष्टविधव्याधिज्वराद्यभिधानार्थसञ्ज्ञाश्चाष्टेत्यष्टावेव’ इति पा.|
८. ‘वक्ष्यमाणमिह’ इति पा.|
९. ‘इत्याद्युक्तरोगादेरपि प्रत्यासन्नकारणावबोधो’ इति पा.|
१०. ज्वरादिकारणमेवेति ज्वरादिमूलकारणमसात्म्येन्द्रियार्थसंयोगाद्येवेत्यर्थः|
११. ‘प्रतिभाति’ इति पा.|
१२. ‘प्रायेणामाशयसमुत्थत्वेनामय इत्युच्यते’ इति पा.|
१३. ‘पूर्वरूपाण्युत्पद्यन्ते’ इति पा.|
१४. अस्याग्रे ‘तथाऽपि’ इत्यधिकं पठ्यते हस्तलिखितपुस्तके|
१५. ‘लिङ्गं लक्षणम्| अव्यक्तं नात्यभिव्यक्तम्| अत्र हेतुः-अल्पत्वात् अणुत्वात्, नत्वावरणादियोगादव्यक्तमित्यर्थः’ इति मधुकोश|
१६. ‘नह्येतत्पूर्वरूपं ज्वरावस्थायां व्यक्तं भवति, अत एवैवम्भूतपूर्वरूपाभिप्रायेणैवारिष्टे वक्ष्यति’ इति पा.|
१७. ‘स चासाध्यः प्रकीर्तितः’ इति पा.|
१८. ‘उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छुः, आमयो रोगः, दोषविशेषेण वातादिजन्यासाधारणवेपथ्वादिना, अनधिष्ठितोऽसम्बद्धः’ इति मधुकोशे|
१९. प्राग्रूपं द्विविधं सामान्यं, विशिष्टं च| सामान्यं तु दोषदूष्यसम्मूर्च्छनावस्थाजनितं, येन भाविज्वरादिव्याधिमात्रं प्रतीयते, नतु वातादिजनितत्वादिविशेषः| विशिष्टं पुनर्भाविव्याधिलिङ्गानामव्यक्तत्वम्|अरुणदत्तेन तु (वाग्भटव्याख्यायां) पूर्वरूपत्रैविध्यं दर्शितं-शारीरं, मानसं, शारीरमानसं च|
२०. ‘सुखकराणामित्यर्थः’ इति पा.|
२१. ‘स्निग्धस्वप्नजातायां’ इति पा.|
२२. ‘जागरणं’ इति पा.|
२३. ‘दोषाणामयं ज्वरे आमाशयदूषकत्वादिर्धर्मः’ इति पा.|
२४. ‘येन प्रकारेण दुष्टः कुपितो वाताद्यन्यतमो दोषो यथादुष्टस्तेन यथादुष्टेन दोषेण, यथाचानुविसर्पिता देहमनुधावता सन्निवेशविशेषेण गच्छता, प्रत्यामयं या निर्वृत्तिर्निष्पत्तिरुद्भव इति यावन्निर्दिष्टा, सा सम्प्राप्तिः’ इति वाग्भटटीकायामरुणदत्तः|
२५. ‘पृथक् समवेतानां च’ इति पा.|
२६. ‘पूर्वरूपोपशयविशेषा’ इति पा.|
२७. ‘निदानादिविशेषाभिधानं, तत्प्रतिजानीते’ इति पा.|
२८. ‘अन्यतमेनापि व्यार्धि परिच्छेत्तुं समर्थः’ इति पा.|
२९. ‘भवतीति’ इति पा.|
३०. ‘सामान्यो लिङ्गनिश्चयः’ इति पा.|
३१. ‘चिकित्सितं चोत्तरकालं यथोद्दिष्टं विकाराणाम्’ इति पा.|
३२. ‘यथाचितं’, ‘यथाचित्रं’, ‘यथोद्दिष्टं’ इति च पाठान्तराणि|
३३. ‘रूपमभिधाय सामान्यं प्राग्रूपमभिधातव्यं’ इति पा.|
३४. ‘कामक्रोधादिमनःसंयोगं प्रति’ इति पा.|
३५. ‘निदानपूर्वरूपलिङ्गोपशयसम्प्राप्तिविशेषाननुव्याख्यास्यामः’ इति पा.|
३६. ‘सम्प्राप्तिभेदाभिधानेनैव’ इति पा.|
३७. ‘सर्वज्वरसाधारणः’ इति पा.|
३८. ‘अनुवासनयुक्त एव’ इति पा.|
३९. ‘प्रविश्यामाशयमूष्मणः स्थानमूष्मणा सह’ इति पा.|
४०. ‘पक्तिस्थानमिति लभ्यते’ इति पा.|
४१. ‘अत्र च’ इति पा.|
४२. ‘यथा मेदस्विनः, क्षिप्तस्तु वह्निं निर्वापयत्वेव’ इति, ‘मेदस्विनस्तमाक्षिपन् वह्निं निर्वापयत्वेव’ इति च पा.|
४३. ‘अवपीडितावतुन्नत्वमिव’ इति पा.|
४४. योगीन्द्रनाथस्तु ‘वातज्वरस्य लिङ्गानि भवन्ति’ इति न पठति|
४५. ‘स्त्रीपुन्नपुंसकलिङ्गवक्ष्यमाणप्रत्यवमर्शकम्’ इति पा.|
४६. ‘जङ्घामध्यण्डिका’ इति पा.|
४७. ‘शास्त्रैरभिधीयन्ते’ इति पा.|
४८. ‘प्रकुपितमामाशयं प्रविशदेवोष्मणाऽपसृजदाद्यमाहारपरिणामधातुं’ इति पा.|
४९. ‘बहिर्द्वारं निरस्य’ इति पा.|
५०. ‘योगीन्द्रनाथसेनस्तु पित्तज्वरलिङ्गानि भवन्ति’ इति न पठति|
५१. ‘आमाशयस्थितं’ इति पा.|
५२. ‘अङ्गे भृशमुत्तिष्ठन्ति’ इति पा.|
५३. योगीन्द्रनाथसेनस्तु श्लेष्मज्वरलिङ्गानि भवन्ति’ इति न पठन्ति|
५४. दोषलिङ्गतैव श्लेष्मलिङ्गतैव परं, नतु श्लेष्मज्वरलिङ्गतेति भावः|
५५. ‘चोपक्रम्यः’ इति, ‘चोपक्रम्यते’ इति च पा.|
५६. अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|
५७. ‘प्रज्ञाबलवर्णहर्षोत्साहसादनः’ इति पा.|
५८. ‘कोरको’ इति पा.|
५९. ‘आमाशयसमुत्थत्वेन’ इति पा.|
६०. ‘सर्पिर्हितम्’ इति पा.|
६१. ‘व्याधिप्रत्यनीकताया अपि’ इति, ‘व्याधिप्रत्यनीकतायामपि’ इति च पा.|
६२. ननु यद्येवं ज्वरोष्मणः पित्तोष्मव्यतिरिक्तत्वं स्यात्तर्हि गद्यपाठे पृथङ् न पठनीय ऊष्मेति योजना|
६३. ‘गद्यपाठे ज्वरोष्मा पठितः’ इति पा.|
६४. ‘न पठितः’ इति पा.|
६५. ‘हन्येत’ इति पा.|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
nidānasthānam - 1. jvaranidānam
athātō jvaranidānaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
saṅkṣēpēṇa hētuliṅgābhidhāyakaṁ sūtrasthānamanu prapañcēna hētuliṅgābhidhāyakaṁ nidānasthānamucyatē; hētuliṅgajñānapūrvikā hi cikitsā sādhvī bhavati| yacca cikitsāsūtramātramabhidhātavyaṁ, tadupaśayāntargatamēvēti kr̥tvā; kiṁvā, hētuliṅgābhidhānasyāpi cikitsārthatvāccikitsāsūtramātrābhidhānamiha [1] | tatrāpi ca śārīravikārēṣu pradhānatvājjvarasyaiva nidānamādāvucyatē| yathā ca jvaraḥ pradhānaṁ tathā’traiva ‘jvarastu khalu’ ityādinā vakṣyati; tathā cikitsitē’pi vakṣyati- “dēhēndriyamanastāpī sarvarōgāgrajō balī” (ci.a.3) ityādi| yattu vakṣyati- “purā gulmōtpattirabhūt” (ni.a.8) iti; tatra purāśabda ādyāvirbhāvē gulmasya vartatē, natu jvarasya prāgbhāvē; dakṣādhvarōddhvaṁsē hi jvaraparigr̥hītānāṁ prāṇināṁ dikṣu vidrāvaṇādinā gulmōtpattēruktatvāt| nidānaṁ kāraṇamihōcyatē, taccēha vyādhijanakaṁ vyādhibōdhakaṁ [2] ca sāmānyēnōcyatē| tatra vyādhijanakaṁ nidānaṁ hētuḥ, vyādhibōdhakaṁ ca kāraṇaṁ nidānapūrvarūparūpōpaśayasamprāptirūpam| tatra hēturūpaṁ nidānaṁ janakaṁ ca bhavati, vyādhērbōdhakaṁ ca bhavati| ata ēva prathamam ‘iha khalu’ ityādinā hētumabhidhāya tasyōpalabdhirnidānētyādinā punarhēturapyuktaḥ| jvarasya nidānaṁ jvaranidānam| kiṁvā, nidānaśabdō janakakāraṇavacana ēva; taṁ jvarasya janakakāraṇaṁ nidānamadhikr̥tya kr̥tō’dhyāyō jvaranidānam| tēna pūrvarūpādīnāmapi jñaptihētūnāṁ tathā cikitsāsūtrasya ca grahaṇam||1-2||
iha khalu hēturnimittamāyatanaṁ kartā kāraṇaṁ pratyayaḥ samutthānaṁ nidānamityanarthāntaram|
tattrividham- asātmyēndriyārthasaṁyōgaḥ, prajñāparādhaḥ, pariṇāmaścēti||3||
tadēvaṁ jvaranidānē vaktavyē sarvavyādhisādhāraṇamēva nidānaṁ vaktumudyataḥ sāmānyapūrvakatvādviśēṣasya, tatrāpyutpannasya vyādhērlakṣaṇaṁ yuktamiti kr̥tvā utpattihētumēva vyavahārārthaṁ lakṣaṇārthaṁ ca paryāyairāha- iha khalvityādi| ihēti iha prakaraṇē kāraṇābhidhāyakē hētvādayō’narthāntarē [3] ; prakaraṇāntarē arthāntarē’pi hētvādiśabdā bhavantīti darśayati; yathā- vakṣyati- “hēturakr̥takatvāt” (vi.a.8) iti, tathā “daśaivāyatanāni syuḥ” (sū.a.29), tathā “kartā, mantā, vēditā, bōddhā” (śā.a.4) ityādau, pratyayasya laḍādau, utthānasya udgamanādau| hētvādibhūriparyāyakathanaṁ śāstrē vyavahārārthaṁ, tathā hētvādiśabdānāmarthāntarē’pi vartamānatvē [4] paryāyāntarēṇa [5] samaṁ sāmānādhikaraṇyāt kāraṇa ēva vr̥ttirniyamyatē; tēna, ēkasminnarthē yasmiṁstē śabdāḥ pravartantē tat kāraṇamitarahētvādyarthēbhyō vyavacchidyatē; tēna, lakṣaṇārthaṁ [6] ca paryāyābhidhānaṁ bhavati| ēvamanyatrāpi vyādhyādiparyāyābhidhānē’pi vyākhyēyam| iha cāṣṭasaṅkhyāyā maṅgalatvēna, tathā’ṣṭavidhavyādhijvarādyabhidhānānuṣaṅgāccāṣṭāvēva [7] hētuparyāyā uktāḥ; tēnāparē’pi yōnimūlamukhaprakr̥tyādayō hētuparyāyā bōddhavyāḥ, tē ca tantravistarabhayānnōktāḥ| ēvaṁ rōgaparyāyāntarānabhidhānē’pi granthavistarabhayādyanusaraṇīyam| hētōrbhēdamāha- tat trividhamityādi| ētaccāsātmyēndriyārthasaṁyōgādi dīrghañjīvitīyē tisraiṣaṇīyē ca prapañcitamiti nēha prapañcyatē| atra pāṭhādēva tritvē siddhē trividhamitivacanaṁ bahuprapañcasyāpyasātmyēndriyārthasaṁyōgādēstraividhyānatikramōpadarśanārthaṁ, tathā pratyēkamayōgātiyōgamithyāyōgabhēdāttrividhatvadarśanārthaṁ ca| ētacca hētutritayamuktamapi punaḥ prakaraṇavaśāducyamānamiha [8] na punaruktaṁ dōṣamāvahati| ētaccāsātmyēndriyārthādēstraividhyaṁ mūlakāraṇaṁ prati niyāmakaṁ, tēna “jvarasantāpādraktapittamudīryatē” (ni.a.8) ityādyuktarōgādirūpapratyāsannakāraṇānavarōdhō [9] nōdbhāvanīyaḥ| kiṁvā, raktapittādikāraṇē jvarādāvapyasātmyēndriyārthasaṁyōgādyēva mūlakāraṇaṁ, tēna jvarādikāryē raktapittādau jvarādikāraṇamēva [10] mūlakāraṇaṁ bhavati| “kālabuddhīndriyārthānāṁ yōgō mithyā na cāti ca” (sū.a.1) iti pūrvōktakramabhēdēnēhāsātmyēndriyārthasaṁyōgasyādāvabhidhānēna sarvēṣāmēvaiṣāṁ rōgakartr̥tvē prādhānyaṁ darśayati, mā bhūdēkāntābhidhānēna pradhānatāniyamaḥ| yadyapi ca mūlabhūtatvēna prajñāparādhaḥ pradhānaṁ bhavati [11] , tathā’pi pratyāsannakāraṇatvēna tathā’buddhipūrvakasyāpyutkaṭaśabdamithyāyōgādērapi kāraṇatvēnāsātmyēndriyārthasaṁyōgō’pi pradhānam| yadyapi kālō duṣpariharatvēna pradhānaṁ, tathā’pi sō’pīndriyārthaparādhīnatvēnāpradhānaṁ, kālātiyōgādayō hīndriyārthaśītādyatiyōgādibhya ēva prāyō bhavanti||3||
atastrividhā vyādhayaḥ prādurbhavanti- āgnēyāḥ, saumyāḥ, vāyavyāśca; dvividhāścāparē- rājasāḥ, tāmasāśca||4||
hētōrhētutvaṁ kāryē bhavatīti hētukāryaṁ vyādhimāha- atastrividhā ityādi| na cātra yathāsaṅkhyam, ēkarūpādapi hētōstrividhavyādhyutpādāt| atrāpi trividhavacanamānantyē’pi rōgāṇāmāgnēyatvādyanatikramōpadarśanārtham| āgnēyāḥ paittikāḥ, saumyāḥ kaphajāḥ, vāyavyāḥ vātajāḥ| yadyapi pradhānatvēna vāyavyā ēva prathamaṁ nirdēṣṭuṁ yujyantē, tathā’pīha jvarē pittasya pradhānatvādāgnēyābhidhānam| āgnēyasaumyavāyavyā iti samāsēnaikaikasmādapyasātmyēndriyārthasaṁyōgādēstrividharōgōtpattitvaṁ darśayati, asamāsē hi yathāsaṅkhyamapi śaṅkyēta| anyathā’pi vyādhīnuktahētujānāha- dvividhāścāparē ityādi| rājasatāmasānāṁ ca vicchidya pāṭhēnēha tantrē śārīravyādhyadhikārapravr̥ttē’nadhikāratvēnāprapañcanīyatvaṁ darśayati, abhidhānaṁ ca rājasatāmasayōriha vyādhikathanasya nyūnatāparihārārtham| āgantavaścābhighātādijā rōgā āgnēyādiṣvēvāntarbhavanti; yatastatrāpi hi dōṣaprakōpō’vyapadēśyō’styēva; kiṁvā, aparē iti apradhānāḥ, parō hi śrēṣṭha ucyatē; apradhānatvē cōktaivōpapattiḥ||4||
tatra vyādhirāmayō gada ātaṅkō yakṣmā jvarō vikārō rōga ityanarthāntaram||5||
vyādhīnāmāgnēyādivibhāgaṁ darśayitvā vyavahārārthaṁ lakṣaṇārthaṁ ca paryāyānāha- tatra vyādhirityādi| atrāpi paryāyāṇāmanarthāntarēṇātaṅkādiśabdānāṁ bhayādyarthatāvyudāsādvyādhilakṣaṇatvaṁ bōdhyam| ātaṅkaśabdēna hi bhayamapyucyatē, vikāraśabdēna hi indriyādayō’pi ṣōḍaśa vikārā ucyantē| tathā vyādhyādiśabdānāṁ vyutpattyā rōgadharmā lakṣaṇīyāḥ| tathā hi- vividhaṁ duḥkhamādadhātīti vyādhiḥ; prāyēṇāmasamutthatvēnāmaya [12] ityucyatē; ātaṅka iti duḥkhayuktatvēna kr̥cchrajīvanaṁ karōti, vacanaṁ hi- “ātaṅkaḥ kr̥cchrajīvanē” iti; yakṣmaśabdēna ca rājayakṣmavadanēkarōgayuktatvaṁ vikārāṇāṁ darśayati; jvaraśabdēna ca dēhamanaḥsantāpakaratvaṁ; vikāraśabdēna ca śarīramanasōranyathākaraṇatvaṁ vyādhērdarśayati; rōgaśabdēna ca rujākartr̥tvam||5||
tasyōpalabdhirnidānapūrvarūpaliṅgōpaśayasamprāptitaḥ||6||
idānīṁ vyādhērjanakahētumabhidhāya tathā taddhētujanyaṁ ca vyādhimuktvā tasya vyādhērjñānōpāyamāha- tasyētyādi| avijñātē hi vyādhau cikitsā na pravartatē, ataḥ sāmānyēna vyādhijñānōpāyanidānapañcakābhidhānaṁ yuktam||6||
tatra nidānaṁ kāraṇamityuktamagrē||7||
nidānaṁ vivr̥ṇōti- tatrētyādi| agrē uktamiti ‘iha khalu’ ityādinā ‘pariṇāmaśca’ ityantēna| kāraṇaṁ ca vyādhīnāṁ sannikr̥ṣṭaṁ vātādi, viprakr̥ṣṭaṁ cārthānāmayōgādi; punarviprakr̥ṣṭaṁ kāraṇaṁ raktapittasya jvarasantāpa ityādi; punaśca vyādhīnāṁ sāmānyēna viprakr̥ṣṭaṁ kāraṇamuktaṁ yathā- “prāgapi cādharmādr̥tē na rōgōtpattirabhūt” (vi.a.3) ityādi; tadētat sarvamapi kāraṇaśabdēna grāhyam| tatrādharmakāryatvēna vyādhīnāṁ daivavyapāśrayaprāyaścittabalimaṅgalētyādicikitsāsādhyatvaṁ pratīyatē, rudrakōpabhavatvēna ca jvarasya mahāprabhāvatvaṁ tathā”gnēyatvaṁ ca pratīyatē; krōdhō hyāgnēyaḥ, tēna tanmayō jvarō’pyāgnēyaḥ| tathāca vacanam- “ūṣmā pittādr̥tē nāsti jvarō nāstyūṣmaṇā vinā| tasmāt pittaviruddhāni tyajēt pittādhikē’dhikam” (vā.ci.a.1) iti| vātādijanyatvajñānēna ca vātādiviparītabhēṣajasādhyatvaṁ tathā’nudbhūtavātādivikārāntarasambandhō’pi bhāvī kalpyatē| asātmyarūkṣādihētusēvādarśanēna ca bhāvī vyādhistajjanya unnīyatē| vyādhiparīkṣāyāṁ ca sandēhē jātē yasya vyādhērhētusēvā dr̥śyatē, sa parikalpyatē; ēvamādi hētunā vyādhiparīkṣaṇam||7||
pūrvarūpaṁ prāgutpatti lakṣaṇaṁ vyādhēḥ||8||
nidānānantarīyakatvāt pūrvarūpādīnāṁ nidānānantaraṁ pūrvarūpādīnyucyantē [13] , ataḥ pūrvarūpalakṣaṇamāha- pūrvētyādi| utpattēḥ prāk prāgutpatti| ētēna utpattēḥ pūrvaṁ yadbhaviṣyadvyādhērlakṣaṇaṁ tat pūrvarūpam| nidānasēvā tu bhāvivyādhibōdhikā bhavatyapi [14] nidānaśabdagr̥hītatvādēva tathā lakṣaṇaśabdānabhidhēyatvācca na pūrvarūpaśabdēnōcyatē| uktaṁ hyanyatra- “sthānasaṁśrayiṇaḥ kruddhā bhāvivyādhiprabōdhakam| liṅgaṁ kurvanti yaddōṣāḥ pūrvarūpaṁ taducyatē” iti| na ca vācyaṁ yadanutpannasyāvidyamānasya vyādhēḥ kathaṁ lakṣaṇaṁ bhavatīti; yatō mēghādapi bhāvinī vr̥ṣṭiranumīyatē, tathā rōhiṇyudayaṁ dr̥ṣṭvā kr̥ttikōdayō’numīyatē| tacca pūrvarūpaṁ dvividham- ēkaṁ bhāvivyādhyavyaktarūpaṁ, yaduktam- “avyaktaṁ lakṣaṇaṁ tasya pūrvarūpamiti smr̥tam” (ci.a.11) iti, tathā “liṅgamavyaktamalpatvādvyādhīnāṁ tadyathāyatham” (vā. ni. a.1) iti [15] ; dvitīyaṁ tu dōṣadūṣyasammūrcchanāvasthājanyamavyaktaliṅgādanyadēva; yathā- jvarē bālapradvēṣarōmaharṣādi; na [16] hyētat pūrvarūpaṁ jvarāvasthāyāṁ niyamēna vyaktaṁ bhavati, kintu jvarapūrvakāla ēva; yatra tu vyaktaṁ bhavati, sa cāsādhyō mataḥ| ata ēvaivambhūtapūrvarūpābhiprāyēṇaivāriṣṭē vakṣyati- “pūrvarūpāṇi sarvāṇi jvarōktānyatimātrayā| yaṁ viśanti viśatyēnaṁ mr̥tyurjvarapurassaraḥ” (iṁ.a.5) iti; tathā- “anyasyāpi ca rōgasya pūrvarūpāṇi yaṁ naram| viśantyanēna kalpēna tasyāpi [17] maraṇaṁ dhruvam” (iṁ.a.5) iti| ētaddhi yadyavyaktalakṣaṇapūrvarūpābhiprāyēṇa vacanaṁ syāttadā sarvajvarāṇāmasādhyatvaṁ syāt, yataḥ pūrvarūpāvasthāyāmavyaktāni lakṣaṇāni jvarē jātē vyaktāni sarvāṇi sarvatraiva bhavanti; tasmāt pūrvarūpāvasthāpratiniyatapūrvarūpābhiprāyēṇaivaitadvacanam| avyaktatā ca lakṣaṇānāmiyamēva- yadalpatvēnāsphuṭatvam| yattu pūrvarūpaṁ dōṣadūṣyasammūrcchanāvasthāniyataṁ tad vyādhimātrasya gamakaṁ, na taddōṣaviśēṣaṁ gamayati| ētatpūrvarūpābhiprāyēṇa ca vāgbhaṭē’pyuktaṁ yat- “prāgrūpaṁ yēna lakṣyatē| utpitsurāmayō dōṣaviśēṣēṇānadhiṣṭhitaḥ [18] ” (vā. ni.a.1) iti| yattu avyaktaliṅgaṁ rūpaṁ pūrvarūpaṁ, taddōṣaviśēṣamapi vyādhērgamayati, yaduktaṁ hārītē- “iti pūrvarūpamaṣṭānāṁ jvarāṇāṁ sāmānyataḥ, viśēṣatastu jr̥mbhāṅgamardabhūyiṣṭhaṁ hr̥dayōdvēgi vātajam” ityādi, tathā suśrutē’pyuktaṁ- “sāmānyatō, viśēṣāttu jr̥mbhā’tyarthaṁ samīraṇāt| pittānnayanayōrdāhaḥ kaphānnānnābhinandanam” (su.u.a.39) iti, ētaddhi pūrvarūpaṁ bhāvijvaraliṅgamēvāvyaktamalpatvēnēti jñēyam| vyaktē hi jvarē vātādijē jr̥mbhādayaḥ pūrvarūpāpēkṣayā’tyarthaṁ bhavanti| ēvaṁ pūrvarūpadvaividhyē yatra viśiṣṭaṁ pūrvarūpamasti tatra sākṣādēvābhidhīyatē, yatra viśiṣṭaṁ nāsti tatra liṅgamātraṁ vakṣyati; tēnāvyaktānyēva liṅgāni pūrvarūpamiti tatra jñātavyam [19] ||8||
prādurbhūtalakṣaṇaṁ punarliṅgam|
tatra liṅgamākr̥tirlakṣaṇaṁ cihnaṁ saṁsthānaṁ vyañjanaṁ rūpamityanarthāntaram||9||
lakṣaṇamāha- prādurbhūtētyādi| utpannavyādhēḥ svarūpaṁ, tathā vātādyāmapakvādiviśēṣaṇaviśiṣṭaṁ vyādhiṁ nidānōpaśayasamprāptivyatiriktaṁ yadbōdhayati, talliṅgam| anēna ca vyādhipratiniyataṁ liṅgaṁ yathā- jvarasya santāpaḥ, tathā atisaraṇamatīsārasyētyādi gr̥hyatē; tathā vātādikr̥taṁ ca vātādijvarasya viṣamārambhavisargitvādi gr̥hyatē; tathā āmapakvajīrṇajvaralakṣaṇādīni viśiṣṭavyādhibōdhakāni gr̥hyantē; tathā upadravāścāsādhyatādyavasthāpannavyādhibōdhakatvēna lakṣaṇānyēva| riṣṭaṁ tu maraṇasya pūrvarūpamēva| nidānādayastu yadyapyutpannavyādhigamakā api bhavanti, tathā’pi pr̥thaglakṣaṇānirdēśānna tē iha liṅgaśabdēnōcyantē| vyavahārārthaṁ tathā lakṣaṇārthaṁ ca liṅgaparyāyānāha- tatra liṅgamityādi| asminnarthē’narthāntaramiti liṅgalakṣaṇē’rthē’bhidhēyē’narthāntaraṁ, prakaraṇāntarē tvarthāntarē’pi liṅgādayō bhavanti; yathā- “balī liṅgaṁ samarpayēt” (ci.a.2) ityatra śēpha ucyatē, tathā “saṁsthānamākr̥tirjñēyā suṣamā viṣamā ca yā” (i.a.7); tathā “lakṣaṇavaccōdāharaṇavacca” (vi.a.8), tathā “tailasarpirbhyāṁ vyañjanānyupakalpayēt”, tathā “rūpasya sattvasya ca santatiryā” (śā.a.2) ityādau| nanu, yathēha ‘asminnarthē’ ityuktaṁ tathā hētuvyādhisamprāptiparyāyābhidhānē’pi ‘asminnarthē’ iti vaktavyam| na, hētuparyāyābhidhānē tāvat ‘iha khalu’ ityanēnaiva tadartha ukta ēva, samprāptiparyāyakathanē ca vyādhēriti padēnaiva ‘asminnarthē’ itipadasyārthō labhyata ēva, gadaparyāyēṣu tu nārthāntaratā prāyō dr̥śyatē, tēna tatra ‘asminnarthē’ iti na kr̥tam| ayaṁ cācāryābhiprāyō yat- yatrānyārthatāṁ śabdasya paśyati, tatraiva ‘asminnarthē’ iti karōti, yathā- ‘samavētānāṁ punardōṣāṇāmaṁśāṁśavikalpō vikalpō’sminnarthē’ iti| vikalpaśabdō hyayamanyatrāpi vartatē, yathā- “anyaiśca vikalpairvikalpitānāṁ” (vi.a.1), tathā “vikalpō na tvasādhyānāṁ” (sū.a.10) ityādi| nanu pūrvarūpōpaśayayōḥ kimiti paryāyānabhidhānam? brūmaḥ- pūrvarūpasya tāvat paryāyābhidhānaṁ yadēva rūpasya tadēva; yataḥ, rūpādaya ēva hi pūrvaśabdayuktāḥ pūrvarūpaparyāyā bhavanti; upaśayastu cikitsā, tasyāstu paryāyāścikitsita ēva svādhikāratvēna vaktavyā iti nēha punaruktāḥ||9||
upaśayaḥ punarhētuvyādhiviparītānāṁ viparītārthakāriṇāṁ cauṣadhāhāravihārāṇāmupayōgaḥ sukhānubandhaḥ||10||
upaśayamāha- upaśaya ityādi| upaśayanamupaśayaḥ sukhānubandha ityarthaḥ| hētunā, tathā vyādhinā, tathā hētuvyādhibhyāṁ ca viparītā hētuvyādhiviparītāḥ; tēṣāmauṣadhāhāravihārāṇāṁ, tathā hētuvyādhiviparītārthakāriṇāṁ cauṣadhānnavihārāṇāṁ; sukhānubandha iti sukharūpō’nubandhaḥ, anubandhaśca sukhakāraṇamityarthaḥ [20] | ayaṁ cōpaśayō gūḍhaliṅgē ca vyādhau jñānōpāyō bhavati| yaduktaṁ- “gūḍhaliṅgaṁ vyādhimupaśayānupaśayābhyāṁ parīkṣēta” (vi.a.4) iti; uktaṁ ca triśōthīyē- “snēhōṣṇamardanābhyāṁ ca praṇaśyēt sa ca vātikaḥ” (sū.a.18)| atra ca viparītārthakāri tadēvōcyatē yadaviparītatayā”pātataḥ pratīyamānaṁ viparītasyārthaṁ praśamalakṣaṇaṁ karōti| atrōdāharaṇāni likhyantē- hētuviparītamauṣadhaṁ yathā- śītakaphajē jvarē śuṇṭhyādyuṣṇaṁ bhēṣajaṁ, hētuviparītamannaṁ yathā- śramānilajē jvarē rasaudanaḥ, hētuviparītō vihārō yathā- divāsvapnōtthakaphē rātrau jāgaraṇaṁ, vyādhiviparītamauṣadhaṁ yathā- atīsārē stambhanaṁ pāṭhādi, vyādhiviparītamannaṁ yathā- atīsārē stambhanaṁ masūrādi, vyādhiviparītō vihārō yathā- udāvartē pravāhaṇaṁ, hētuvyādhiviparītamauṣadhaṁ yathā- vātaśōthē vātaharaṁ śōthaharaṁ ca daśamūlaṁ, hētuvyādhiviparītamannaṁ yathā- śītōtthajvarē uṣṇā jvaraghnī ca yavāgūḥ, hētuvyādhiviparītō vihārō yathā- snigdhadivāsvapnajāyāṁ [21] tandrāyāṁ rūkṣaṁ tandrāviparītaṁ ca rātrijāgaraṇaṁ [22] , hētuviparītārthakāryauṣadhaṁ yathā- pittapradhānē pacyamānē śōthē pittakara uṣṇa upanāhaḥ, hētuviparītārthakāryannaṁ yathā- pacyamānē pittapradhānē śōthē vidāhyannaṁ, hētuviparītārthakārī vihārō yathā- vātōnmādē santrāsanaṁ, vyādhiviparītārthakāryauṣadhaṁ yathā- chardyāṁ vamanakārakaṁ madanaphalādi; vyādhiviparītārthakāryannaṁ yathā- atīsārē virēkakārakaṁ kṣīraṁ, uktaṁ hi- “bahudōṣasya dīptāgnēḥ saprāṇasya na tiṣṭhati| paittikō yadyatīsāraḥ payasā taṁ virēcayēt” (ci. a.19) iti; vyādhiviparītārthakārī vihārō yathā- chardyāṁ vamanasādhyāyāṁ vamanārthaṁ pravāhaṇaṁ; hētuvyādhiviparītārthakāryauṣadhaṁ yathā- agninā pluṣṭē’gurvādinā lēpaḥ, uṣṇaṁ hi hētāvagnau vyādhau ca dāhē’nuguṇaṁ pratibhāti; hētuvyādhiviparītārthakāryannaṁ yathā- madyapānōtthē madātyayē madakārakaṁ madyaṁ; hētuvyādhiviparītārthakārī vihārō yathā- vyāyāmajanitasammūḍhavātē jalaprataraṇādirūpō vyāyāmaḥ, ayaṁ hētau vyāyāmē vyādhau ca sammūḍhavātē’nuguṇaḥ pratibhāti| nanūpaśayavadanupaśayō’pi vyādhiparīkṣakō’sti, ucyatē ca- “gūḍhaliṅgaṁ vyādhimupaśayānupaśayābhyāṁ parīkṣēta” (vi. a.4), tathā vāgbhaṭē’pyuktaṁ- “viparītō’nupaśayaḥ sa hyasātmyamiti smr̥taḥ” (vā. ni. a.1) iti; satyamasti ca, paraṁ nidānagrahaṇēnaiva gr̥hītatvānna pr̥thagucyatē; anupaśayō’pi hētusēvayaiva bhavati||10||
samprāptirjātirāgatirityanarthāntaraṁ vyādhēḥ||11||
yadyapi samprāptyanantaraṁ liṅgaprādurbhāvaḥ, tathā’pi samprāptērvyādhinirūpaṇaṁ pratyalpaprayōjanatvācchēṣataḥ samprāptimāha- samprāptirityādi| jātiḥ janma; samprātpyāgatijātiśabdairyō’rthō’bhidhīyatē sā vyādhēḥ samprāptirityarthaḥ| a(ta)traikē vyādhijanmamātramantyakāraṇavyāpārajanyaṁ samprāptimāhuḥ| iyaṁ ca samprāptiryadyapi nidānādivad vyādhibōdhikā na bhavati, tathā’pi nānutpannasya vyādhērlakṣaṇaṁ bhavatīti kr̥tvā upapattērvyādhyupalambhakatvaṁ varṇayanti| ētaccānyē na manyantē, yatō naivaṁ sati samprāptitaḥ kaścidviśēṣō vyādhēradhigamyatē| na cāyaṁ niyamaḥ- yadutpanna ēva paraṁ vyādhirupalabhyatē, yatō nidānapūrvarūpābhyāmanutpannō’pi vyādhirbhāvitvēna budhyatē| tasmād vyādhijanakadōṣavyāpāraviśēṣayuktaṁ vyādhijanmēha samprāptiśabdēna vācyam, ata ēva paryāyē ‘āgatiḥ’ ityuktam| āgatirhi utpādakāraṇasya vyādhijananaparyantaṁ gamanam| iyaṁ ca samprāptirvyādhiviśēṣaṁ bōdhayatvēva| yathā jvarē- ‘sa yadā prakupitaḥ praviśyāmāśayam’ ityārabhya ‘tadā jvaramabhinirvartayati’ ityantēna yā samprāptirucyatē, tayā jvarasyāmāśayadūṣakatvāgnyupaghātakatvarasadūṣakatvādayō dharmāḥ pratīyantē| na ca vācyaṁ- dōṣāṇāmayamāmāśayadūṣakatvādirdharmaḥ [23] , tataśca kāraṇadharmāṇāṁ nidānagrahaṇēnaiva grahaṇaṁ bhavatīti; yataḥ, kāraṇadharmō’pyayaṁ vyādhijanakadōṣavyāpārarūpaḥ samprāptiśabdēna viśēṣabōdhanārthaṁ pr̥thak kr̥tvōcyatē; yathā- liṅgatvāviśēṣē’pi bhāvivyādhibōdhakatvaviśēṣāt pūrvarūpaṁ pr̥thagucyatē, ata ēva vāgbhaṭē’pyēvamēva samprāptilakṣaṇamuktaṁ- “yathāduṣṭēna dōṣēṇa yathā cānuvisarpatā| nirvr̥ttirāmayasyāsau samprāptirjātirāgatiḥ [24] ” (vā. ni.a.1) iti||11||
sā saṅkhyāprādhānyavidhivikalpabalakālaviśēṣairbhidyatē|12|
samprati samprāptēḥ prativyādhivyaktibhinnāyāḥ sarvatra vyādhau tatprayōjanābhāvānna bhēdō vaktavyaḥ, yastūpayuktō bhavati samprāptiviśēṣastamabhidhāsyatyēva, “sa yadā prakupitaḥ praviśyāmāśayam” ityādinā granthēna; ataḥ sarvasamprāptyanabhidhānānnyūnatādōṣaparihārārthaṁ sarvavyādhisādhāraṇān samprāptibhēdānāha- sā saṅkhyētyādi|- sā samprāptiḥ saṅkhyādibhirbhidyatē iti saṅkhyādibhinnē vyādhau bhinnā bhavatītyarthaḥ; yatō na bhinnānāṁ bhāvānāmabhinnōtpattirbhavati, kintarhi bhinnaiva bhavati; yadyapi ca prativyādhi vyaktā’pi samprāptirbhinnaiva bhavati, tathā’pi sa bhēdaḥ samprāptēriha prayōjanābhāvānnōcyatē; yataḥ, saṅkhyāprādhānyavidhyāditulyāsu jvaravyaktiṣu ēkarūpanidānaliṅgacikitsitāsu bhēdapratipādanē na kiñcit prayōjanamasti, saṅkhyādibhinnē tu jvarādau nidānaliṅgacikitsābhēdō’sti, ataḥ saṅkhyādibhēdajanakāyāḥ samprāptērbhēdakathanamucitamēva||12(1)||
saṅkhyā tāvadyathā- aṣṭau jvarāḥ, pañca gulmāḥ, sapta kuṣṭhānyēvamādiḥ|12|
saṅkhyābhēdamudāharati- saṅkhyā tāvadityādi| yadyapi prādhānyādibhēdabhinnē’pi vyādhau saṅkhyābhēdō’styēva, tathā’pīha yaiva śāstrasiddhā aṣṭaudarīyādipratipāditā saṅkhyā saiva saṅkhyāśabdēna prāptā| ata ēvāṣṭau jvarā ityabhidhāya dvividhaṁ śōṇitapittamiti kramāt prāptaṁ raktapittaṁ nōdāhr̥taṁ; yataḥ dvividhatvaṁ hi raktapittasya vidhibhēdē praviśati na saṅkhyāyāṁ, ‘dvividhaṁ śōṇitapittam’ iti vidhiśabdēnaivōktatvāt||12(2)||
prādhānyaṁ punardōṣāṇāṁ taratamābhyāmupalabhyatē|
tatra dvayōstaraḥ, triṣu tama iti|12|
prādhānyaṁ punarityādau taratamābhyāmiti taratamaśabdābhidhēyābhyāṁ vr̥ddhibhyām| taratamaśabdayōrviṣayaṁ vibhajatē- dvayōrityādi|- dvayōstara iti dvayōrdōṣayōrvr̥ddhayōstaraprayōgō bhavati- vr̥ddhatara iti| ēvaṁ triṣu tama iti triṣu dōṣēṣu vr̥ddhēṣu satsu tamaprayōgō bhavati- vr̥ddhatama iti| tadēvaṁ dvandvārabdhē vikārē’nyataradōṣasya taraśabdalakṣitēna prādhānyēna samprāptirbhidyatē, tathā tridōṣārabdhē vikārē tamaśabdalakṣitānyatamadōṣaprādhānyāt samprāptirbhidyatē, ityuktaṁ bhavati||12(3)||
vidhirnāma- dvividhā vyādhayō nijāgantubhēdēna, trividhāstridōṣabhēdēna, caturvidhāḥ sādhyāsādhyamr̥dudāruṇabhēdēna|12|
samprāptibhēdaṁ kramāgataṁ vidhimāha- vidhirnāma dvividhā vyādhayō nijāgantubhēdēnētyādinā| vidhiriti vidhikr̥ta ityarthaḥ| tēna dvividhatvādayō bhēdā yatō bhavanti sa vidhiḥ; vidhiśca prakārō bhēda ityarthaḥ| sādhyāsādhyamr̥dudāruṇabhēdēnēti sādhyāsādhyagatēna mr̥dudāruṇabhēdēna; tēna, mr̥dusādhyaṁ sukhasādhyaṁ, dāruṇasādhyaṁ kr̥cchrasādhyaṁ rōhiṇīvalayādi, tathā mr̥dvasādhyaṁ yāpyaṁ, dāruṇāsādhyaṁ pratyākhyēyamiti bhēdacatuṣṭam| yadyapi ca saṅkhyāprādhānyādikr̥tō’pi vyādhērvidhibhēdō bhavatyēva, tathā’pi saṅkhyādibhēdānāṁ svasañjñayaiva gr̥hītatvādgōbalīvardanyāyāt saṅkhyādyagr̥hītē vyādhiprakārē’yaṁ vidhiśabdō vartanīyaḥ||12(4)||
samavētānāṁ [25] punardōṣāṇāmaṁśāṁśabalavikalpō vikalpō’sminnarthē|12|
kramāgataṁ vikalpamāha- samavētānāmityādi|- samavētānāmiti sarvēṣāṁ; tēna, ēkaśō dviśō militānāṁ ca dōṣāṇāṁ grahaṇam| aṁśamaṁśaṁ prati balamaṁśāṁśabalaṁ, tasya vikalpa utkarṣāpakarṣarūpōṁ’śāṁśabalavikalpaḥ; ēvambhūtō dōṣāṇāmaṁśāṁśabalavikalpō’sminnartha iti asmin prakaraṇē vikalpa ucyatē| prakaraṇāntarē tu vikalpaśabdēna bhēdamātramucyatē; yathā- “vikalpō na tvasādhyānāṁ” (sū.a.10) ityādāviti bhāvaḥ| tatra dōṣāṇāmaṁśāṁśavikalpō yathā- vātē prakupitē’pi kadācidvātasya śītāṁśō balavān bhavati, kadācillaghvaṁśaḥ, kadācidrūkṣāṁśaḥ, kadācillaghurūkṣāṁśa ityādi; ēvaṁ pittakaphayōrapyudāhāryōṁ’śāṁśavikalpaḥ; ayaṁ cāṁśāṁśabalavikalpō dōṣāṇāṁ śītādiguṇōdbhūtahētubhēdādbhavati||12(5)||
balakālaviśēṣaḥ punarvyādhīnāmr̥tvahōrātrāhārakālavidhiviniyatō bhavati||12||
balakālaviśēṣamāha- balētyādi|- balasya kālō balakālaḥ, tasya viśēṣō vasantapūrvāhṇādirbalakālaviśēṣaḥ| r̥tavaścāhōrātrāhārayōḥ kālāśca r̥tvahōrātrāhārakālāḥ, tēṣāṁ bhēdō vidhiḥ, tatra viśēṣēṇa niyatō balakālaviśēṣaḥ r̥tvahōrātrāhārakālavidhiviniyataḥ; tatra r̥tuviniyatō balakālaviśēṣō yathā- ślēṣmajvarasya vasantaḥ, ahōrātraviniyatō yathā- ślēṣmajvarasya pūrvāhṇaḥ pradōṣaśca, āhāraviniyatō yathā- ślēṣmajvarasya bhuktamātrakālaḥ, ēvamādyunnēyam| kēcittu vidhiśabdēna pūrvakr̥taṁ karma bruvatē, tatrāpi karmaniyatō balakālaviśēṣaḥ pacyamānakarmakāla ēva jñēyaḥ| ēṣu ca balakālēṣu yadyapi vyādhērabhūtaprādurbhāvarūpā samprāptirna bhavati, tathā’pi vyādhisantānē tatkālaṁ vyādhyutpattau samprāptirbhinnaiva bhavatīti mantavyam| iyaṁ ca kālaviśēṣaprāptyā balavadvyādhijanikā samprāptirvyādhērviśēṣaṁ sphuṭamēva bōdhayati| yataḥ pūrvāhṇē balasamprāptyā jvarasya kaphajatvamunnīyatē, madhyāhnē ca balaprāptyā pittajatvamityādi| iha ca samprāptērēva viśēṣāḥ saṅkhyādikr̥tā uktāḥ, na tu nidānādīnāṁ viśēṣāḥ; yatō nidānādiviśēṣāḥ prativyādhivakṣyamāṇabhēdēnaivōpayuktāḥ| yatō yādr̥g jvarē nidānaṁ na tādr̥g raktapittē; yē ca pūrvarūpādiviśēṣā [26] jvarē, na tē raktapittādau, kintu bhinnajātīyā ēva| sa ca bhēdō nidānādīnāṁ vyādhibhēdagamakatvēnōpayuktō vyādhibhēdakathana ēva vaktavyaḥ| samprāptēstu saṅkhyādibhēdaḥ sarvavyādhiṣvēkajātīyatvēna na viśēṣagamaka iti ihaiva sarvavyādhinidānē kathyatē; nidānādiviśēṣāstu prativyādhiviśiṣṭatvēna nēha prapañcēnōcyantē| ata ēva cātraivādhyāyē samprāptēḥ sāmānyābhidhānēnaivōktatvāt samprāptiṁ parityajya nidānādiviśēṣaṁ [27] pratijānītē- tasya nidānapūrvarūpaliṅgōpaśayaviśēṣānanuvyākhyāsyāma iti||12||
tasmādvyādhīn bhiṣaganupahatasattvabuddhirhētvādibhirbhāvairyathāvadanubuddhyēta||13||
yasmādimē nidānādaya uktēna nyāyēna vyādhiparīkṣāyāmupayuktāḥ, tasmādvyādhīn bhiṣag hētvādibhiḥ parīkṣētēti yōjanā| na ca vācyaṁ yat- nidānādīnāṁ madhyē cēdanyatamēnāpi [28] vyādhiparicchēdaṁ kartuṁ samarthastat kiṁ pañcakābhidhānēnēti; yatō yāvantō jñānōpāyā vyādhīnāṁ tē sarva ēvōpadarśanīyāḥ| tatra yō nidānaṁ vismr̥tavān, tasya pūrvarūpādibhirvyādhiḥ parīkṣyatē; tathā yatra ca pūrvarūpādayō vismr̥tāḥ sandigdhā vā, tatrōpaśayēna parīkṣā bhavati; ēvaṁ kaphajatvasandēhē jvarasya samprāptirapi pūrvāhṇē bhuktamātrē vā bhavantī [29] kaphajatvaṁ gamayatītyādi prayōjanamanusaraṇīyam| tathā pūrvarūpēṇāpi liṅgasāmānyaniścaya [30] uktaḥ; yaduktaṁ- “hāridravarṇaṁ rudhiraṁ ca mūtraṁ vinā pramēhasya hi pūrvarūpaiḥ| yō mūtrayēttaṁ na vadēt pramēhaṁ raktasya pittasya hi sa prakōpaḥ” (ci.a.6) iti| tathā liṅganiścitē’pi vyādhau pūrvarūpēṇāsādhyatvamuktaṁ, yathā- “pūrvarūpāṇi sarvāṇi jvarōktānyatimātrayā| yaṁ viśanti viśatyēnaṁ mr̥tyurjvarapuraḥsaraḥ” (i.a.5) iti| tasmānnidānādipañcakamabhidhātavyamēva| nanu, liṅgēna vyādhiḥ parīkṣaṇīya iti vacanālliṅgavyatiriktō vyādhirityuktaṁ bhavati; tatra ca na liṅgasamudāyavyatiriktō vyādhirupalabhyatē, viṣamārambhivisargitvādayō hi santāpasahitā jvarāḥ, tathā pratiśyāyakāsādyēkādaśarūpamēlaka ēva yakṣmā| naivaṁ, liṅgatvēna śāstrē pratipāditānāṁ tadatiriktavyādhyabhāvē liṅgatvānupapattēḥ, vacanaṁ hi- “viṣamārambhamūlaiśca jvara ēkō nirucyatē” (ni.a.8) iti| vikāraścaiha dōṣadūṣyamēlakaviśēṣō jvarādiśabdēnōcyatē| sa ca dōṣadūṣyaviśēṣātmā jvarō’rucyādibhyō dōṣadūṣyavaiṣamyaviśēṣēbhyō’rthāntaramēva| na ca vācyaṁ jvaraliṅgārucyaṅgamardādirūpadhātuvaiṣamyaviśēṣamēlakō jvarō’stu, alaṁ tadatiriktajvarakalpanayā, liṅgaliṅgibhāvaśca samudāyasamudāyibhēdādbhaviṣyatīti; yata ēvamapyarucyaṅgamardādidhātuvaiṣamyānugatō dhātuvaiṣamyaviśēṣō jvararūpō’vayavīti bhinna ēva vaktavyaḥ; jaṅghābāhuśirōntarādhyavayavānatiriktamēva śarīramavayavirūpam| duḥkhamēva vyādhiriti pūrvamēva parākr̥taṁ, tēna duḥkharūpatvādvyādhēravayavitvaṁ na sambhavatīti na vācyam| liṅgāni tu svarūpēṇa vyādhayō bhavanti, tē ca bōddhavyavyādhyapēkṣayā liṅgāni bhavanti| taduktaṁ- “vyādhayastē tadātvē tu liṅgānīṣṭāni nāmayāḥ” (ni.a.8) iti| liṅgaliṅgibhāvaśca jijñāsāvaśādbhavati| yadvakṣyati- “viṣamārambhamūlānāṁ liṅgamēkaṁ jvarō mataḥ| viṣamārambhamūlaiśca jvara ēkō nirucyatē” (ni.a.8) iti| asya cārthamapasmāranidānē prakaraṇāgataṁ vyākhyāsyāmaḥ| tasmāt susthitaṁ vyādhigamakatvaṁ nidānādipañcakasyētyarthaḥ||13||
ityarthasaṅgrahō nidānasthānasyōddiṣṭō bhavati|
taṁ vistarēṇōpadiśantō bhūyastaramatō’nuvyākhyāsyāmaḥ||14||
itītyādau iti parisamāptau| nidānasthānasyēti sarvavyādhinidānasya| arthasaṅgraha ityanēnaiva saṅkṣēpārthābhidhānē labdhē uddiṣṭa iti saṅkṣēpābhidhāyipadakaraṇēna saṅkṣēpasyāpi saṅkṣēpābhidhānamētaditi darśayati| tamiti sāmānyanidānōddēśam, atō nidānōddēśamātratō bhūyastaramupadiśantō vistarēṇa vyākhyāsyāma iti yōjanā| tēnaitadatisaṅkṣēpakathanāpēkṣayā prapañcakathanamēvēha vistaraśabdārtha iti darśayati; tēna nidānādīnāṁ yāvadvistarakathanamuttaratrōpapannaṁ bhavati||14||
tatra prathamata ēva tāvadādyāmँllōbhābhidrōhakōpaprabhavānaṣṭau vyādhīnnidānapūrvēṇa kramēṇa vyākhyāsyāmaḥ, tathā sūtrasaṅgrahamātraṁ cikitsāyāḥ|
cikitsitēṣu [31] cōttarakālaṁ yathōpacitavikārānanuvyākhyāsyāmaḥ [32] ||15||
tatrētyādinā jvarādyaṣṭavidharōgasya nidānasthānē kathanaṁ pratijānītē| prathamata ēva tāvadityanēna paścāccikitsābhidhēyānarśaḥ- prabhr̥tīn sūcayati| ādya nityanēna ādau dakṣādhvarōddhvaṁsē utpannā yē tēṣāmiha kathanaṁ darśayati| yadyapi ca rājayakṣmā pr̥thagēvōtpannaḥ, vacanaṁ hi- “ativyavāyāt punarnakṣatrarājasya yakṣmā” (ni.a.8) iti, tathā’pyasya prādhānyādihābhidhānam| yadyapi ca dakṣādhvarōddhvaṁsōdbhūtānapasmārāntānabhidhāya pr̥thagutpannasya yakṣmaṇō’bhidhānamucitaṁ, tathā’pyunmādāpasmārayōrāgantutvēna śōṣamapyabhidhāyāntē’bhidhānam| lōbhābhidrōhaprabhavānityanēna janapadōddhvaṁsanīyē “prāgapi cādharmādr̥tē na rōgōtpattirabhūt” (vi.a.3) ityanēna vakṣyamāṇānāṁ jvarādīnāṁ lōbhābhidrōhajanyatāṁ darśayati, anēnādharmajatvaṁ jvarādīnāmuktaṁ bhavati| nidānapūrvēṇēti nidānaprathamēna| kramēṇēti rōgasāmānyōktanidānapūrvarūparūpōpaśayasamprāptirūpēṇa| ayaṁ ca kramaḥ kvacit prayōjanavaśādbādhyatē; yathā’traiva jvarē’grē hi rūpamabhidhāya pūrvarūpamabhidhātavyam| kramabhēdaprayōjanaṁ cēha yat- rūpāṇyatra pratijvaramabhidhātavyāni, na tu prāgrūpāṇi pratijvaramabhidhātavyāni; tēna sarvasādhāraṇatvāt sarvamabhidhāya [33] prāgrūpaṁ sāmānyamabhidhātavyam| tathā, sūtrasaṅgrahamātraṁ cikitsāyā vyākhyāsyāma iti sambandhaḥ| nidānē ca cikitsābhidhānaprayōjanaṁ prāgēvōktam| sūtramiti kr̥tvā yat saṅgrahamiti karōti tēna sūtrasyāpi saṅkṣēpēṇābhidhānaṁ darśayati; tathā cikitsāsūtramapīha kiñcinna vaktavyaṁ, yathā- laṅghanakālayavāgvādayaḥ| cikitsitēṣvityanēnaiva cōttarakālatvē labdhē punaruttarakālamiti vacanaṁ cikitsitasthānē’pi jvarādyabhidhānōttarakālamēva yathōpacitavikārāṇāṁ nidānādikathanaṁ darśayati| yathōpacitamiti yē yē upacitā vikārāḥ śōthārśaḥprabhr̥tayastān| kiṁvā, ‘yathācitam’ iti pāṭhaḥ, tatrāpi yathāpradhānamityartha unnēyaḥ| cikitsitē ca vikārāṇāṁ nidānādyabhidhānaṁ nidānādinā’vyavadhānēna pratītē viṣayē cikitsā samyak pratīyata ityabhiprāyēṇa| ata ēva ca jvarādīnāmapi punarnidānādyabhidhāsyati, iha tu jvarādīnāṁ nidānādyabhidhānaṁ bahuvaktavyatvēna sthānabhēdaṁ kr̥tvā kr̥tam| sthānabhēdakaraṇēna ca cikitsāvadāyurvēdē nidānasyāpi jñēyatvēna prādhānyaṁ darśayati||15||
iha khalu jvara ēvādau vikārāṇāmupadiśyatē, tatprathamatvācchārīrāṇām||16||
iha khalviti aṣṭavidhavyādhinidānē vaktavyē| śārīrāṇāmityanēna kāmakrōdhādimānasaṁ [34] rōgaṁ prati na jvarasya prathamatvamiti darśayati||16||
atha khalvaṣṭābhyaḥ kāraṇēbhyō jvaraḥ sañjāyatē manuṣyāṇāṁ; tadyathā- vātāt, pittāt, kaphāt, vātapittābhyāṁ, vātakaphābhyāṁ, pittakaphābhyāṁ, vātapittakaphēbhyaḥ, āgantōraṣṭamāt kāraṇāt||17||
jvarasya nirūpaṇīyasya kāraṇakr̥taṁ bhēdamāha- athētyādi| ētacca kāraṇaṁ vātādi sannikr̥ṣṭam| manuṣyāṇāmitivacanēna gōgajaśakunyādīnāṁ nāvaśyamidaṁ jvarāṣṭatvamanugāmīti darśayati; tathāhi- hastyādīnāṁ pākalādayō nāṣṭavidhāḥ pratipādyantē| āgantōriti vaktavyē aṣṭamāditi vacanamāgantōrabhighātādicatuṣkāraṇabhēdē’pyēkatvōpadarśanārtham| āganturhi kāraṇabhēdōtpannō’pyēkarūpa ēva, yata āgantuḥ sarvō vyathāpūrvamēva bhavati; yastu tatra, “kāmaśōkabhayādvāyuḥ” (ci.a.3) ityādinā bhēdō vaktavyaḥ, sa vātādikr̥ta ēvēti bhāvaḥ||17||
tasya nidānapūrvarūpaliṅgōpaśayaviśēṣānanuvyākhyāsyāmaḥ [35] ||18||
tasyētyādau tasyēti jvarasya| viśēṣāniti nidānādibhiḥ pratyēkaṁ sambadhyatē| nidānādiviśēṣāścēha rōgāntararaktapittādyapēkṣayā tathā parasparaṁ vātādijvarāpēkṣayā ca yathāsambhavaṁ bōddhavyāḥ| tēna pūrvarūpaviśēṣa iha raktapittādipūrvarūpāpēkṣayā bōddhavyaḥ, pūrvarūpasya viśēṣēṇēhānabhidhānāt| upaśayaviśēṣānabhidhānaṁ ca nidānaviśēṣābhidhānādēva labhyatē, yatō nidānaviparyayēṇōpaśayamabhidhāsyati| pūrvarūpaṁ cēha viśiṣṭamavyaktaliṅgaviśēṣarūpamēva jñēyam| samprāptēstu vakṣyamāṇāyā ihāpratijñānaṁ, tasyāḥ sarvarōgē samprāptibhēdābhidhānē [36] ca kathitatvāt, tathā nidānādivat samprāptērvyādhibōdhanaṁ pratyapradhānatvācca; yaśca samprāptibhēdō’bhidhātavyaḥ sa sarvarōgasādhāraṇa [37] ēva; bhēdastu tasyā vātādidōṣamātrakr̥ta ēva, vātādibhēdaśca nidānabhēda ēva| anyē tu bruvatē- samprāptiṁ nābhidhāsyatyēvāyaṁ, yadētat ‘sa yadā prakupitaḥ’ ityādyabhidhāsyati, tannidānarūpavātādidharmakathanamiti kr̥tvā nidānāntargatamēva||18||
rūkṣalaghuśītavamanavirēcanāsthāpanaśirōvirēcanātiyōgavyāyāmavēgasandhāraṇānaśanābhighāta- vyavāyōdvēgaśōkaśōṇitātiṣēkajāgaraṇaviṣamaśarīranyāsēbhyō’tisēvitēbhyō vāyuḥ prakōpamāpadyatē||19||
rūkṣētyādi| vātaprakōpaṇaṁ prati rūkṣasya pradhānatvēnāgrē’bhidhānaṁ, rūkṣō hi guṇō vātaguṇēṣu pradhānam| āsthāpanaṁ yadyapi vātaharamuktam- “āsthāpanānuvāsanaṁ tu khalu sarvōpakramēbhyō vātavikārēṣu pradhānam” (sū.a.20) iti vacanāt, tathā’pīhāsthāpanasyātiyōgō vātahēturukta ēvēti na dōṣaḥ| vacanaṁ hi- “utklēśāgnivadhau snēhānnirūhāt pavanādbhayam” (si.a.4) iti| nirūhaścānuvāsanaṁ [38] kr̥tvā yukta ēva, mātrākr̥taśca sādhāraṇavātahara iti siddhāntaḥ||19||
sa yadā prakupitaḥ praviśyāmāśayamūṣmaṇā [39] saha miśrībhūyādyamāhārapariṇāmadhātuṁ rasanāmānamanvavētya rasasvēdavahāni srōtāṁsi pidhāyāgnimupahatya paktisthānādūṣmāṇaṁ bahirnirasya kēvalaṁ śarīramanuprapadyatē, tadā jvaramabhinirvartayati||20||
sa yadētyādinā samprāptimāha| yadēti vacanādēvaṅkupitō’pi vāyuryadā”māśayapravēśādisamprāptiyuktō bhavati tadaiva jvaraṁ karōti, nānyadēti darśayati| praviśyāmāśayamityanēna jvarakarturdōṣasyāmāśayadūṣakatvaṁ darśayati| ata ēva sarvajvarēṣvāmāśayaviśuddhyarthaṁ laṅghanamutsargatō vadanti| yadyapi cāmāśayapravēśādēvōṣmaṇā’pi miśratvaṁ labhyata ēva, yata āmāśaya ēva vahnisthānaṁ, “nābhistanāntaraṁ jantōrāmāśaya iti smr̥taḥ” (vi.a.2) iti vacanāt, tathā’pi vahnisthānasyāmāśayaikadēśatvēnāmāśayapravēśē’pi nāvaśyaṁ grahaṇīrūpavahnisthānaduṣṭirviśēṣēṇa labhyata iti; ata ēvōktam- ūṣmaṇā saha miśrībhūyēti| rasanāmānamityucyamānē āhārarasē’pi madhurarasādau prasaktiḥ syāt, ata uktam- āhārapariṇāmadhātumiti; āhārapariṇāmabhavō dhāturāhārapariṇāmadhātuḥ, tamiti| āhārapariṇāmadhātutvaṁ ca paramparayā raktādiṣvapyastītyāha- ādyamiti; prathamamityarthaḥ| rasamiti vaktavyē rasanāmānamiti yat karōti tēna rasatīti rasa iti vyutpattimātrēṇa raktādiṣu rasasañjñāṁ niṣēdhayati, yatraiva rasasañjñā rūḍhā taṁ grāhayati; ēvamanyatrāpi ca yat padamadhikārthamiha pratīyatē tat spaṣṭārthamēva, yatastrividhaśiṣyabuddhihitamēva vispaṣṭārthaṁ tantraṁ yujyatē| anviti yathōktakramēṇa| avētyēti gatvā| pidhāyēti avarudhya| paktisthānāt pācakāgnisthānāt| ūṣmāṇamiti pācakavahnim| bahiriti paktisthānavyatiriktaśarīrē| yadyapi cōṣmāṇaṁ nirasyētivacanādēva paktisthānāditi [40] labhyatē, tathā’pi paktisthānāditivacanēna paktisthānāt kr̥tsnasya vahnērnirasanaṁ darśayati, iha [41] cōṣmaśabdēna pācakāgniṁ vyapadiśan pācakasya vahnērūṣmarūpatāṁ darśayati, bāhyavahnisadr̥śajvālākaraṁ pittaṁ niṣēdhayati| ata ēva ca vahnērnirasanādagnimāndyaṁ jvarē darśitaṁ bhavati| vāyuścātrātivr̥ddhatvēna vahnērnirāsakaḥ, tēnāgnidīptiṁ na karōti; yatra hi prērakamātrō bhavati vāyustatra vahnērvr̥ddhiṁ karōti; yathā [42] – mēdasvinaḥ kōṣṭhē caran vāyuragnivr̥ddhikarō bhavati||20||
tasyēmāni liṅgāni bhavanti; tadyathā- viṣamārambhavisargitvam, ūṣmaṇō vaiṣamyaṁ, tīvratanubhāvānavasthānāni jvarasya, jaraṇāntē divasāntē niśāntē gharmāntē vā jvarasyābhyāgamanamabhivr̥ddhirvā, viśēṣēṇa paruṣāruṇavarṇatvaṁ nakhanayanavadanamūtrapurīṣatvacāmatyarthaṁ klr̥ptībhāvaśca; anēkavidhōpamāścalācalāśca vēdanāstēṣāṁ tēṣāmaṅgāvayavānāṁ; tadyathā- pādayōḥ suptatā, piṇḍikayōrudvēṣṭanaṁ, jānunōḥ kēvalānāṁ ca sandhīnāṁ viślēṣaṇam, ūrvōḥ sādaḥ, kaṭīpārśvapr̥ṣṭhaskandhabāhvaṁsōrasāṁ ca bhagnarugṇamr̥ditamathitacaṭitāvapāṭitāvanunnatvamiva [43] , hanvōścāprasiddhiḥ, svanaśca karṇayōḥ, śaṅkhayōrnistōdaḥ, kaṣāyāsyatā āsyavairasyaṁ vā, mukhatālukaṇṭhaśōṣaḥ, pipāsā, hr̥dayagrahaḥ, śuṣkacchardiḥ, śuṣkakāsaḥ, kṣavathūdgāravinigrahaḥ, annarasakhēdaḥ, prasēkārōcakāvipākāḥ, viṣādajr̥mbhāvināmavēpathuśramabhramapralāpaprajāgararōmaharṣadantaharṣāḥ, uṣṇābhiprāyatā, nidānōktānāmanupaśayō viparītōpaśayaścēti vātajvarasya [44] liṅgāni bhavanti||21||
liṅgānyāha- tadyathā viṣamētyādi| taditi sāmānyēna strīliṅgapuṁliṅganapuṁsakaliṅgavakṣyamāṇarūpapratyavamarśakaṁ [45] , sarvaliṅgapratyavamarśē hi taditi sarvanāma yuktam| yathēti udāharaṇē| ārambha utpādaḥ, visargō mōkṣaḥ, tau viṣamau yasya sa viṣamārambhavisargī; viṣamatvaṁ ca kadācicchirō gr̥hītvā bhavati, kadācit pr̥ṣṭhaṁ, kadācijjaṅghē ityādi; ēvaṁ mōkṣō’pi kadācicchirō’grē mucyatē ityādi; kiṁvā, jvarārambhamōkṣakālānavasthitatvamēva vaiṣamyam| ūṣmaṇō vaiṣamyamiti kvaciccharīrapradēśē mahānūṣmā, kvacinmanda ityādi| tīvratanubhāvānavasthānānīti tīvrabhāvastanubhāvaśca jvarasya kālāpratiniyata ityarthaḥ| ētatsarvaṁ vāyōranavasthitatvēnōpapannam| yacca vāyōrjaraṇāntadivasāntādiṣu balavatkāryakartr̥tvamuktaṁ, tadapi prāyikatvēna jñēyam| anyathā, ētadēvārambhādivaiṣamyaṁ na syāt| yadi kālaviśēṣē jaraṇāntādau śarīrapradēśaviśēṣē ca jaṅghādau pratiniyamēna vātakōpaḥ syāt, tadā śarīrapradēśaviśēṣē vātasthānē jaṅghādau kālaviśēṣē jaraṇāntādau ca vātaprakōpaḥ prāyikō jñēyaḥ| ētamēva prāyikavātakālamāśrityāha- jaraṇānta ityādi| gharmānta iti prāvr̥ṣi muktibhāvavatō jvarasya satatakādērabhyāgamanaṁ, nityānuṣaktasya tvativr̥ddhiriti vyavasthā| paruṣāruṇatvaṁ ca nakhādiṣvēva pravyaktamupalabhyata iti kr̥tvā nakhādaya ihōcyantē| tvaggrahaṇēnaiva vadanagrahaṇē labdhē’pi vadanagrahaṇaṁ vadanatvaci viśēṣēṇa paruṣatvādidarśanārtham| klr̥ptībhāvaḥ apravr̥ttiḥ, sā ca yōgyatayā mūtrapurīṣayōrēva nakhādiṣūktayōrmantavyā; kiṁvā, klr̥ptībhāvō bhēdaḥ sphuṭanamiti yāvat; sa ca nakhādīnām| calāśca kāścidvēdanā acalāśca kāścinnityānuṣaktatvēnēti calācalāḥ; kiṁvā atyarthaṁ calāścalāḥ| piṇḍikā jānvadhō jaṅghāmadhyamāṁsapiṇḍikā [46] | bhagnaṁ kiñcidavaśēṣēṇa cchinnaṁ, rugṇaṁ kiñcicchinnaṁ, mr̥ditaṁ pārśvāvamōṭitam, avapāṭitam ēkadēśōtpāṭitam, avanunnaṁ prēritam; ēṣāṁ ca bhagnādīnāṁ lōkata ēvārthāvagatiḥ, yatō laukikairēvaitē śabdāḥ prasiddhatvēna tatra tatra śāstrē’bhidhīyantē [47] | hanvōraprasiddhiriti hanvōḥ svavyāpārākaraṇam| āsyavairasyamiti arasajñatā| annarasakhēdaḥ annarasē khēdō’vasādō’nnarasakhēdaḥ, sarvarasēṣvanicchētyarthaḥ| arucistu vakṣyamāṇā vaktrē praviṣṭānnānabhyavaharaṇādbōddhavyā| uṣṇābhiprāyatā uṣṇapriyatā| nidānōktānāmanupaśaya iti vacanēnaiva viparīta upaśayō’rthalabdhō’pi spaṣṭārthamucyatē; kiṁvā, arthāpattēranaikāntikatvēna ucyatē; yathā- navajvarē divāsvapnē pratiṣiddhē’rthāpattyā purāṇajvarē divāsvapnaḥ prāpnōti, atha ca tatra divāsvapnō na vihita ityarthāpattēranaikāntikatvaṁ vadanti| nidānōktānāmityatrōktagrahaṇādyadēva nidānatvēnōktaṁ tasyaivānupaśayitvaṁ nidarśayati na punaryasyāpātatō nidānatvaṁ pratibhāti; tēna, madātyayādau madyādērnidānatvēna pratīyamānasyāpi upaśayitvamēva||21||
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhōjanēbhyō’tisēvitēbhyastathā tīkṣṇātapāgnisantāpaśramakrōdhaviṣamāhārēbhyaśca pittaṁ prakōpamāpadyatē||22||
tadyadā prakupitamāmāśayādūṣmāṇamupasr̥jyādyamāhārapariṇāmadhātuṁ [48] rasanāmānamanvavētya rasasvēdavahāni srōtāṁsi pidhāya dravatvādagnimupahatya paktisthānādūṣmāṇaṁ bahirnirasya [49] prapīḍayat kēvalaṁ śarīramanuprapadyatē, tadā jvaramabhinirvartayati||23||
tasyēmāni liṅgāni bhavanti; tadyathā- yugapadēva kēvalē śarīrē jvarasyābhyāgamanamabhivr̥ddhirvā bhuktasya vidāhakālē madhyandinē’rdharātrē śaradi vā viśēṣēṇa, kaṭukāsyatā, ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ, tr̥ṣṇā, madō, bhramō, mūrcchā, pittacchardanam, atīsāraḥ, annadvēṣaḥ, sadanaṁ, khēdaḥ, pralāpaḥ, raktakōṭhābhinirvr̥ttiḥ śarīrē, haritahāridratvaṁ nakhanayanavadanamūtrapurīṣatvacām, atyarthamūṣmaṇastīvrabhāvaḥ, atimātraṁ dāhaḥ, śītābhiprāyatā, nidānōktānupaśayō viparītōpaśayaścēti pittajvaraliṅgāni [50] bhavanti||24||
uṣṇētyādinā pittajvaramāha- tadyathētyādi|- pūrvavadvyākhyēyam| dravatvādagnimupahatyētivacanāduṣṇasyāpi pittasya dravatvēnāgniviparītēna guṇēnāgnihantr̥tāṁ darśayati| vakṣyati hi grahaṇyadhyāyē- “āplāvayaddhantyanalaṁ jalaṁ taptamivānalam” (ci.a.15) iti| bahirnirasya prapīḍayaditivacanēna pittajvarē vātajvara iva na sahasā vahnikṣēpaṇaṁ bhavati, kintu śanaiḥ stōkakramēṇēti darśayati| yugapadēvēti na vaiṣamyēṇa| abhyāgamanamabhivr̥ddhirvēti ca pūrvēṇa yugapadēvētyādinā parēṇa ca viśēṣēṇētyantēna ca granthēna sambadhyatē| kōṭhābhinirvr̥ttiḥ śarīra iti cchēdaḥ||22-24||
snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmēbhyō’tisēvitēbhyaḥ ślēṣmā prakōpamāpadyatē||25||
sa yadā prakupitaḥ praviśyāmāśayamūṣmaṇā sahamiśrībhūyādyamāhārapariṇāmadhātuṁ rasanāmānamanvavētya rasasvēdavahāni srōtāṁsi pidhāyāgnimupahatya paktisthānādūṣmāṇaṁ bahirnirasya prapīḍayan kēvalaṁ śarīramanuprapadyatē, tadā jvaramabhinirvartayati||26||
snigdhētyādinā ślēṣmajvaramāha| sa yadētyādi pūrvavat kaphajvarē’pi vyākhyēyam| nanu, ślēṣmaṇa āmāśayaḥ sthānaṁ, tat kiṁ praviśyāmāśayamiti vacanēna? naivaṁ, ślēṣmaṇa urō’pi pradhānaṁ sthānaṁ, tēnēhōraḥsthasyāpi ślēṣmaṇa āmāśayapravēśaṁ darśayati| yatra kēvalāmāśayavr̥tti [51] pittaṁ, tatra ‘āmāśayaṁ praviśya’ iti na kr̥taṁ, kintu ‘āmāśayādūṣmāṇamupasr̥jya’ iti kr̥taṁ; pittaṁ hyāmāśayapraviṣṭamēva bhavati, taccāmāśayaikadēśasthaṁ grahaṇīrūpāmāśayaikadēśaṁ vahnisthānaṁ svasthānādgacchatīti yuktam||25-26||
tasyēmāni liṅgāni bhavanti; tadyathā- yugapadēva kēvalē śarīrē jvarasyābhyāgamanamabhivr̥ddhirvā bhuktamātrē pūrvāhṇē pūrvarātrē vasantakālē vā viśēṣēṇa, gurugātratvam, anannābhilāṣaḥ, ślēṣmaprasēkaḥ, mukhamādhuryaṁ, hr̥llāsaḥ, hr̥dayōpalēpaḥ, stimitatvaṁ, chardiḥ, mr̥dvagnitā, nidrādhikyaṁ, stambhaḥ, tandrā, kāsaḥ, śvāsaḥ, pratiśyāyaḥ, śaityaṁ, śvaityaṁ ca nakhanayanavadanamūtrapurīṣatvacām, atyarthaṁ ca śītapiḍakā bhr̥śamaṅgēbhya [52] uttiṣṭhanti, uṣṇābhiprāyatā, nidānōktānupaśayō viparītōpaśayaśca; iti (ślēṣmajvaraliṅgāni [53] bhavanti)||27||
yugapaditi ēkakālam; ēkadaiva kaphajvarē sarvaśarīravyāptyā āgamanamabhivr̥ddhirvā bhavatīti darśayati| śītapiḍakāstantrāntarē śvētapiḍakā ucyantē| ‘tasyēmāni liṅgāni bhavanti’ ityētāvataiva kaphajvaraliṅgatvē labdhē punaḥ ‘ślēṣmajvaraliṅgāni bhavanti’ iti vacanaṁ kimarthaṁ? brūmaḥ- tasyētipadēna svadōṣamātrapratyavamarśō’pi syāt, tēna dōṣaliṅgataiva [54] paraṁ liṅgānāṁ mā syādityētadarthaṁ punarabhidhānam; kiṁvā, pūrvapratijñayā liṅgānāṁ prāgavacchēda uktaḥ, uttarēṇa ślēṣmajvaraliṅgāni bhavantītyanēnāntyāvacchēda ucyatē; ēvamanyatrāpi vātajvarādau pūrvarūpē ca punaruktiḥ parihartavyā||27||
viṣamāśanādanaśanādannaparivartādr̥tuvyāpattērasātmyagandhōpaghrāṇādviṣōpahatasya cōdakasyōpayōgādgarēbhyō girīṇāṁ cōpaślēṣāt snēhasvēdavamanavirēcanāsthāpanānuvāsanaśirōvirēcanānāmayathāvatprayōgāt mithyāsaṁsarjanādvā strīṇāṁ ca viṣamaprajananāt prajātānāṁ ca mithyōpacārād yathōktānāṁ ca hētūnāṁ miśrībhāvādyathānidānaṁ dvandvānāmanyatamaḥ sarvē vā trayō dōṣā yugapat prakōpamāpadyantē, tē prakupitāstayaivānupūrvyā jvaramabhinirvartayanti||28||
viṣamāśanādityādinā dvāndvikasānnipātikajvarānāha| anaśanaṁ yadyapi na pittaślēṣmakaraṁ, tathā’pyagnimāndyakaratvāttridōṣakaramapi bhavati; kiṁvā ēṣu viṣamāśanādiṣu yathāyōgyatayā dvandvakāraṇatvaṁ tridōṣakāraṇatvaṁ cōnnēyaṁ, tēnānaśanaṁ vātapittakaraṁ bōddhavyaṁ; yattu pittaharatvamuktamanaśanasya, tattu pittadravāṁśakṣayāt| vacanaṁ hi- “kaphapittē dravē dhātū sahētē laṅghanaṁ mahat” iti| annaparivartāditi sahasaivākramēṇa kr̥tābhyastānnaparivartāt| asātmyagandhō gandhadravyasya nāsikayā’ntaḥpravēśādyathā dōṣakarō bhavati na tathā’sātmyarūpādayaḥ, tē hi nāvaśyaṁ śarīraṁ viśanti, tēna nēhāsātmyarūpādaya uktāḥ| yathānidānamiti yadā dvayōrnidānaṁ sēvyatē tadā dvandvaḥ, yadā trayāṇāṁ nidānaṁ sēvyatē tadā trayō dōṣāḥ; dvandvē’pi yadā vātapittayōrnidānaṁ sēvyatē tadā vātapittarūpaṁ dvandvam; ēvamanyadapi kupyatītyarthaḥ| sarvē trayō dōṣā ityanēnaiva labdhē’pi yugapaditivacanaṁ kramaprakōpapratiṣēdhārthaṁ, yugapadēva prakōpamāpadyantē na kramēṇētyarthaḥ||28||
tatra tathōktānāṁ jvaraliṅgānāṁ miśrībhāvaviśēṣadarśanāddvāndvikamanyatamaṁ jvaraṁ sānnipātikaṁ vā vidyāt||29||
jvaraliṅgānāmityādau miśrībhāvaviśēṣō vātapittaliṅgaṁ vā, vātaślēṣmaliṅgaṁ vā, pittaślēṣmaliṅgaṁ vā| anyatamamiti vātapittajvarādikam||29||
abhighātābhiṣaṅgābhicārābhiśāpēbhya āganturhi vyathāpūrvō’ṣṭamō jvarō bhavati|
sa kiñcitkālamāgantuḥ kēvalō bhūtvā paścāddōṣairanubadhyatē|
tatrābhighātajō vāyunā duṣṭaśōṇitādhiṣṭhānēna, abhiṣaṅgajaḥ punarvātapittābhyām, abhicārābhiśāpajau tu sannipātēnānubadhyētē||30||
āgantujvaramāha- abhighātētyādi| abhighātō laguḍādyabhighātaḥ, abhiṣaṅgaḥ kāmādyabhiṣaṅgaḥ, abhicārō’tharvamantrādirjvarakaraḥ, abhiśāpastu gurusiddhādyabhiśapanam; ētat pradhānatvēna caturvidhaṁ kāraṇamihōktaṁ; tēna, ōṣadhigandhabhūtābhiṣaṅgaduṣṭagrahanirīkṣaṇādayō’pyāgantujvarahētavō bōddhavyāḥ; kiṁvā, abhighātagrahaṇēna śarīrābhihananavācinā’sātmyagandhādayō grāhyāḥ, abhiṣaṅgēṇa tu bhūtābhiṣaṅgādayaḥ| vyathāpūrvamiti āgantau prathamaṁ vyathā bhavati, paścāddōṣānubandhakr̥tāni lakṣaṇānīti darśayati; kiṁvā, vyathāpūrvamitivacanādāgantau jvarē vyathaiva pūrvarūpamiti vadanti| rūpaṁ tu yadēva jvarasya prātyātmikaṁ santāparūpaṁ tadēva vātajvarādilakṣaṇarahitaṁ bōddhavyaṁ prathamataḥ, uttarakālīnadōṣānubandhē tu yathāvakṣyamāṇadōṣaliṅgānyēva bhavanti| aṣṭama itivacanēnābhighātādihētucatuṣṭayayōgaprāptaṁ cāturvidhyaṁ niṣēdhya vyathāpūrvakatvēnaikarūpayōgādēkavidhatvaṁ caturṇāṁ darśayati; cāturvidhyē hyāgantōrnāṣṭamatvaṁ, navamatvādayō’pi syuḥ| kiñcitkālamiti stōkakālaṁ; kēcit tryahaṁ vadanti, anyē saptāhamāhuḥ| āgantau hi saptāhādūrdhvaṁ dōṣaliṅgāni bhavantīti dr̥ṣṭam| tatra yasyāgantōryādr̥śō dōṣānubandhō bhavati tamāha- tatrābhighātētyādi| vātapittābhyāmiti kaścidvātēna, kaścit pittēna, kaścidvātapittābhyām| vacanaṁ hi- “kāmaśōkabhayādvāyuḥ, krōdhāt pittaṁ, trayō malāḥ| bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ” (ci.a.3) iti| bhūtābhiṣaṅgē tu yadyapi tridōṣaprakōpa uktaḥ, tathā’pi tatra vātapittayōrēvaitadvacanabalāt prādhānyam||30||
sa saptavidhājjvarādviśiṣṭaliṅgōpakramasamutthānatvādviśiṣṭō vēditavyaḥ, karmaṇā sādhāraṇēna cōpacaryatē [55] |
ityaṣṭavidhā jvaraprakr̥tiruktā||31||
āgantōrnijādbhēdamāha- sa ityādi| viśēṣaliṅgatā āgatōrvyathāpūrvakavyākhyānē vyākr̥tā, samutthānaviśēṣō’pyabhighātādiruktaḥ, upakramaviśēṣō’pi ‘sādhāraṇēna karmaṇā cōpacaryatē’ iti vacanēnaivātra kathyatē| sādhāraṇēnēti daivayuktivyapāśrayēṇa; daivavyapāśrayaṁ hi balimaṅgalahōmādi, yuktivyapāśrayaṁ hi laghvaśanāpatarpaṇayavāgūkaṣāyapānādi| prakr̥tiruktēti svabhāvō’pi vātādijvarāṇāṁ nidānādyupahita ukta ityarthaḥ||31||
jvarastvēka ēva santāpalakṣaṇaḥ|
tamēvābhiprāyaviśēṣāddvividhamācakṣatē, nijāgantuviśēṣācca|
tatra nijaṁ dvividhaṁ trividhaṁ caturvidhaṁ saptavidhaṁ cāhurbhiṣajō vātādivikalpāt||32||
nijāgantuviśēṣācca dvividhamiti sambandhaḥ| nijaṁ dvividhamityādau dvaividhyaṁ (saṁsr̥ṣṭāsaṁsr̥ṣṭajanyatvēna [56] ) śītōṣṇābhiprāyabhēdāt, trividhaṁ tridōṣabhēdāt, caturvidhaṁ pratyēkaṁ vātādidōṣajanyabhēdāt| tatra cāturvidhyē dvandvajvarāḥ pratikṣipyantē, tēṣāṁ pratyēkaṁ vātādijvarasadr̥śatvāt; tridōṣajvarastu asādhyatāyōgāt kr̥cchrasādhyatāyōgādvā pr̥thagucyatē||32||
tasyēmāni pūrvarūpāṇi bhavanti; tadyathā- mukhavairasyaṁ, gurugātratvam, anannābhilāṣaḥ, cakṣuṣōrākulatvam, aśrvāgamanaṁ, nidrādhikyam, aratiḥ, jr̥mbhā, vināmaḥ, vēpathuḥ, śramabhramapralāpajāgaraṇarōmaharṣadantaharṣāḥ, śabdaśītavātātapasahatvāsahatvam, arōcakāvipākau, daurbalyam, aṅgamardaḥ, sadanam, alpaprāṇatā, dīrghasūtratā, ālasyam, ucitasya karmaṇō hāniḥ, pratīpatā svakāryēṣu, gurūṇāṁ vākyēṣvabhyasūyā, bālēbhyaḥ pradvēṣaḥ, svadharmēṣvacintā, mālyānulēpanabhōjanapariklēśanaṁ, madhurēbhyaśca bhakṣēbhyaḥ pradvēṣaḥ, amlalavaṇakaṭukapriyatā ca, iti jvarasya pūrvarūpāṇi bhavanti prāksantāpāt; api cainaṁ santāpārtamanubadhnanti||33||
tasyēmānītyādinā sarvajvarasādhāraṇaṁ pūrvarūpamāha| ētāni ca pūrvarūpāṇyāgantōrapītyēkē vadanti; anyē tu nijānāmēvaitānīti vadanti, āgantōstu vyathaiva pūrvarūpam| atrāpyanannābhilāṣārōcakayōḥ pūrvavadbhēdaḥ| daurbalyaṁ śarīrabalahāniḥ, alpaprāṇatā ca mānasabalahānirbōddhavyā; kiṁvā daurbalyaṁ māṁsāpacayaḥ| dīrghasūtratā cirēṇa kāryakartr̥tvam| jvarapūrvarūpāṇi bhavanti prāksantāpāditi cchēdaḥ, jvararūpasantāpāt prāgētāni pūrvarūpāṇi bhavantītyarthaḥ| apica santāpārtamanubadhnantītyanēna pravyaktē’pi jvarē kānicitpūrvarūpāṇi mukhavairasyārucyādīni bhavantīti darśayati| na caivaṁ pūrvarūpānuvr̥ttau riṣṭatvaṁ vācyaṁ; yataḥ sarvapūrvarūpāṇāmatimātrānuvartanaṁ riṣṭamuktam| vacanaṁ hi- “pūrvarūpāṇi sarvāṇi jvarōktānyatimātrayā| yaṁ viśanti viśatyēnaṁ mr̥tyurjvarapuraḥsaraḥ” (i.a.5) iti; kiṁvā, asya ślōkasyānya ēvārthaḥ, tamindriyē vakṣyāmaḥ| na cārucyādīnāṁ vyaktajvarabhāvitvēna pūrvarūpatvaṁ hanyatē, yatō liṅgāntarayuktānyarucyādīni liṅgāni bhavanti, liṅgāntaravirahitāni tu pūrvarūpāṇi||33||
ityētānyēkaikaśō jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām||34||
ēkaikaśō jvaraliṅgānītyatra liṅgaśabdēna nidānapūrvarūpādīnyucyantē| vistarasamāsābhyāmiti vistarēṇa vātādijvarōktāḥ, samāsēna saṁsargasannipātajāḥ; yastvatra samāsēnōktaḥ sa cikitsitē prapañcanīya iti bhāvaḥ||34||
jvarastu khalu mahēśvarakōpaprabhavaḥ, sarvaprāṇabhr̥tāṁ prāṇaharō, dēhēndriyamanastāpakaraḥ, prajñābalavarṇaharṣōtsāhahrāsakaraḥ [57] , śramaklamamōhāhārōparōdhasañjananaḥ; jvarayati śarīrāṇīti jvaraḥ, nānyē vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathā’yam|
sa sarvarōgādhipatiḥ, nānātiryagyōniṣu ca bahuvidhaiḥ śabdairabhidhīyatē|
sarvē prāṇabhr̥taḥ sajvarā ēva jāyantē sajvarā ēva mriyantē ca; sa mahāmōhaḥ, tēnābhibhūtāḥ prāgdaihikaṁ dēhinaḥ karma kiñcidapi na smaranti, sarvaprāṇabhr̥tāṁ ca jvara ēvāntē prāṇānādattē||35||
samprati jvarasya mahāprabhāvatāṁ darśayituṁ pūrvōtpattiprakāramāha- jvarastvityādi| mahēśvarakōpaprabhava ityanēna jvaracikitsitē “dvitīyē hi yugē śarvamakrōdhavratamāsthitam” (ci.a.3) ityādigranthē vakṣyamāṇāṁ jvarōtpattimāha| krōdhabhavatvēna ca ślēṣmajanyasyāpyāgnēyatvaṁ darśayati; krōdhō hyagnirūpaḥ, tēna tanmayō’pi jvarastathaiva; ata ēvōktam- “ūṣmā pittādr̥tē nāsti jvarō nāstyūṣmaṇā vinā| tasmāt pittaviruddhāni tyajēt pittādhikē’dhikam” (vā.ci.a.1) iti| na ca rudrakōpabhavatvēna lōbhābhidrōhaprabhavatvaṁ jvarasya virudhyatē; yatō rudrakōpōdbhūta ēva jvarō lōbhābhidrōhasvarūpapāpācāraprāptyā purā manuṣyēṣu bhūtaḥ| sarvaprāṇināṁ jvara ēva prāṇahara iti maraṇakālē sarvaprāṇināṁ jvara ēva prāṇahara iti darśayati| dēhēndriyamanastāpakara ityatra pratyēkaṁ tāpalakṣaṇaṁ jvaracikitsitē bōddhavyaṁ “vaicittyamaratirglānirmanaḥsantāpalakṣaṇam” (ci.a.3) ityādinā| jvarayati santāpayati| itiśabdō hētau; tēna, yasmāduktamahēśvarakrōdhaprabhavatvādiyuktaḥ, tasmāt| sarvarōgāṇāmadhipatirivēti sarvarōgādhipatiḥ| nānāvidhaiḥ śabdairiti hastiṣu pākalō, gōṣu khērikō [58] , matsyānāmindrajālō, vihaṅgānāṁ bhrāmaraka ityādiśabdaiḥ| sarvaprāṇabhr̥taḥ sajvarā ēva jāyantē sajvarā ēva mriyantē ca tat kimiti tēṣāṁ janmani maraṇē vā santāpātmā jvarō na lakṣyata ityāha- sa mahāmōha iti; janmamaraṇayōrmahāmōharūpō jvarō bhavati, na santāpātmētyarthaḥ| ata ēvōktaṁ- “jvaraprabhāvō janmādau nidhanē ca mahattamaḥ” (ci.a.3) iti| janmani mahāmōharūpatāmāha- tēnētyādi| prāgdaihikaṁ janmāntarakr̥tam| nanu, śuddhasattvānugamāt prāgdaihikaṁ smaraṇaṁ yuktaṁ; vacanaṁ hi- “yadā tēnaiva śuddhēna manasā yujyatē, tadā jātimatikrāntāmapi smarati” (śā.a.3) iti| na, tasya śuddhamanaḥsattvānuvr̥ttērapavādatvādētatparityajyānyatra jvarasya prāgdaihikavismārakatvaṁ jñēyam| maraṇē mahāmōhatāmāha- sarvaprāṇabhr̥tāmityādi| jvara ēva mahāmōharūpa ēvēti bhāvaḥ; tēna mriyamāṇāḥ sarvē mahāmōhaṁ praviśantītyarthaḥ||35||
tatra pūrvarūpadarśanē jvarādau vā hitaṁ laghvaśanamapatarpaṇaṁ vā, jvarasyāmāśayasamutthatvāt; tataḥ kaṣāyapānābhyaṅgasnēhasvēdapradēhapariṣēkānulēpanavamanavirēcanāsthāpanānuvāsanōpaśamana- nastaḥkarmadhūpadhūmapānāñjanakṣīrabhōjanavidhānaṁ ca yathāsvaṁ yuktyā prayōjyam||36||
samprati sūtritaṁ cikitsāsūtramāha- tatrētyādi| yadyapi cikitsitē jvarādau laṅghanaṁ vakṣyati, tathā’pīha pākṣikalaghvaśanavidhānaṁ na virōdhi, laghvaśanasyāpi lāghavakartr̥tvēnaiva laṅghanatvāt; kiṁvā, yatra vātādijvarē laṅghanaṁ na kartavyaṁ tatra laghvaśanaṁ bōddhavyam, apatarpaṇaṁ ca laṅghanamēva| atha kimiti vātikē’pi jvarē vātakārakaṁ laghvaśanamapatarpaṇaṁ vā kāryamityāha- āmāśayasamutthatvādityādi| āmāśayasambandhēna [59] vātō’pi manāglaṅghanīyaḥ sthānāpēkṣayā bhavatīti bhāvaḥ| vacanaṁ hi- “sthānaṁ jayēddhi pūrvaṁ sthānasyāvirōdhēna” iti||36||
jīrṇajvarēṣu tu sarvēṣvēva sarpiṣaḥ pānaṁ praśasyatē yathāsvauṣadhasiddhasya; sarpirhi snēhādvātaṁ śamayati, saṁskārāt kaphaṁ, śaityāt pittamūṣmāṇaṁ ca; tasmājjīrṇajvarēṣu sarvēṣvēva sarpirhitamudakamivāgnipluṣṭēṣu dravyēṣviti||37||
bhavanti cātra- yathā prajvalitaṁ vēśma pariṣiñcanti vāriṇā|
narāḥ śāntimabhiprētya tathā jīrṇajvarē ghr̥tam||38||
snēhādvātaṁ śamayati, śaityāt pittaṁ niyacchati|
ghr̥taṁ tulyaguṇaṁ dōṣaṁ saṁskārāttu jayēt kapham||39||
nānyaḥ snēhastathā kaścit saṁskāramanuvartatē|
yathā sarpirataḥ sarpiḥ sarvasnēhōttamaṁ matam||40||
yathāsvauṣadhasiddhasyēti vātādijvarē vātajvarādiharadravyasiddhasya| kathaṁ sarpiḥ sarvatra kāryamityāha- sarpirhi snēhādityādi| saṁskārāt kaphamiti kaṭutiktādikaphaharasaṁskārāt| yadyapi ca ‘yathāsvauṣadhasiddhasya’ iti vacanādvātē’pi vātaharasaṁskr̥tamēva sarpirvihitaṁ [60] , tathā’pi vātē rūkṣaviparītēna snēhēnāpi sarpirvātaharamēva, pittē’pyuṣṇaviparītaśaityānvitaṁ, kaphē tu sarpiṣaḥ snēhaśaityādinā samānēna kaścinna svābhāvikō virōdhiguṇō’sti kintu saṁskārāddhitamēvēti darśayati| ūṣmāṇaṁ cēti jvaraprabhāvabhūtamūṣmāṇaṁ; na pittōṣmāṇaṁ, tasya pittagrahaṇēnaiva grahaṇāt| anēna jvarasyōṣmaharaṇēna sarpiṣō jvaravyādhipratyanīkatvaṁ darśitaṁ bhavati| atra vātaśamanaṁ sarpiṣō’bhidhāya pittaśamanē’bhidhātavyē kaphaśamanamucyatē, śēṣatō vaktavyōṣmarūpavyādhipratyanīkatayā’pi [61] pittaśamanahētōḥ śaityasya samānaguṇatvāt; yadi tviha madhyē pittapraśamanamucyatē, tadā punaḥ saṁskārāt kaphamityuktvā śaityādūṣmāṇamiti vaktavyaṁ syāt| yatra tu ślōkapāṭhē vyādhipratyanīkatvaṁ ghr̥tasya pr̥thaṅnōktaṁ; tatra, ‘snēhādvātaṁ śamayati’ ityādau vātamanu pittamēva kr̥tamiti sādhu kr̥tam| tasmāditi dōṣavyādhipratyanīkatvāt| jīrṇajvarēṣviti vacanēnāmajvarē niṣēdhayati, sāmē hi samānaguṇatvāt sarpirahitam| śāntimiti santāpaśāntim| abhiprētyēti buddhyā svīkr̥tya, tathā jīrṇajvarē ghr̥taṁ ‘dadāti’ iti śēṣaḥ| nanvatra, ślōkē sarpirguṇakathanē kimiti vyādhirūpōṣmaśamanaṁ nōcyatē? brūmaḥ- pittōṣmāvyatiriktatvēna jvarōṣmaṇaḥ pittaśamanēnaiva labdhatvāt| nanu yadyēvaṁ [62] gadyapāṭhē pr̥thaṅna tarhi paṭhanīya ūṣmā? brūmaḥ- yāvānūṣmā śārīraḥ sa paitta ēva, yatō brūtē- “ūṣmā pittādr̥tē nāsti” (vā.ci.a.1) ityādi, tathā “pittādūṣmōṣmaṇaḥ paktirnarāṇāmupajāyatē” (sū.a.17) iti; kintu, nāsāvūṣmā kadācit pittēna sāmyē’pyēkō bhavati, yathā- kaphajvarē; kadācittvadhikē pittē vahnirūpa ūṣmā mandō bhavati, yathā- pittāgnimāndyē; tadēvamūṣmā pittādbhinnō’bhinnaśca bhavati; tatra bhēdaṁ gr̥hītvā gadyapāṭhē [63] pr̥thag jvarōṣmā paṭhitaḥ, ślōkapāṭhē tvabhēdavivakṣayā na [64] pr̥thak paṭhitaḥ| jvarē tu pittōṣmā jvaraprabhāvēṇa vardhatē, sa ca prabhāvō jvarasya dōṣadūṣyaviśēṣātmakasya, tathā “jvarastripādastriśiraḥ” ityādyuktaprāṇiviśēṣasya jñēyaḥ| nanu sarpiḥ kathaṁ pittaṁ hanti? yataḥ, yathā pittaviparītaśaityaṁ sarpiṣi, tathā pittasamānaḥ snēhō’pyasti| naivaṁ, pittē “sasnēhaṁ” (sū.a.1) itīṣadarthēna saśabdēnālpasya snēhasyābhidhānāt, uṣṇatvaṁ tu pittē pradhānam| yadyapi pittaṁ jalēnāpyārabdhaṁ, tathā’pi tatra śaityamabhibhūyāgnikr̥tamauṣṇyamēvādhikaṁ bhavati, tathā tējasō raukṣyēṇa jalakr̥tasnēhō’pi pittē’bhibhūyatē, dravatvaṁ tu jalakr̥taṁ tējasā nābhibhūyatē, dr̥śyatē hyagnisampr̥ktē jalē dravatvamalpasnēhatā uṣṇatā cēti| kiṁvā, kimanēna taptajaladr̥ṣṭāntēna, adr̥ṣṭakr̥ta ēvāyaṁ bhūtānāmutpādaḥ; tēna, kaścitēva guṇaḥ pāñcabhautikatvē’pi dravyāṇāmāvirbhūtō bhavati, natu sarvē; yathā- śāliṣu tōyakr̥taṁ madhuratvaṁ, na tu gauravamityuktaṁ sūtrasthānē| utsargataḥ sasnēhasyāpi pittasya kadācittējōbhūyastvēna rūkṣatvamapi bhavati jīrṇajvarē, tēna snigdhaśītaṁ sarpirhitaṁ tatra bhavatīti na dōṣaḥ| ata ēvōktaṁ cikitsitē- “rūkṣaṁ tējō jvarakaraṁ” (ci.a.3) ityādi| na ca vācyaṁ- yat- sāṁsiddhikamapi cēt pittasya snigdhatvamapaiti tadā vātasyāpi raukṣyaṁ kimiti nāpaitīti; yatō vicitrā ēva hi guṇā apratikṣēpaṇīyāḥ pratikṣēpaṇīyāśca; tatra yē na sarvadā dr̥śyantē vātaśaitya-pittasnēhādayaḥ, ta ēva pratikṣēpaṇīyāḥ; nānyē, tathaiva dr̥ṣṭatvāt| tulyaguṇamiti sarvathā tulyaguṇam| nanu saṁskārāt kaphahantr̥tvē saṁskārēṇaiva kaphō hanyatē [65] , kastatra sarpiṣō vyāpāra ityāha- nānya ityādi| nānya iti tailādiḥ| saṁskāramanuvartata iti saṁskārakadravyakāryaṁ karōti| ētēnaitaddarśayati- yat- tēnaiva dravyēṇa yādr̥ṅmānēna ghr̥taṁ saṁskriyatē, anyatra tailādisnēhastathaiva yadi saṁskriyatē tadā ghr̥tamēvānyasnēhēbhyō viśēṣēṇa saṁskārakadravyakāryaṁ karōti; ayaṁ ghr̥taprabhāvō’dhikaḥ, tēna saṁskārāt kaphavijayē ghr̥tamēva kartavyamityarthaḥ| prapañcitaścāyamarthaḥ snēhādhyāyē||37-40||
gadyōktō yaḥ punaḥ ślōkairarthaḥ samanugīyatē|
tadvyaktivyavasāyārthaṁ dviruktaṁ tanna garhyatē||41||
nanu snēhādvātaṁ śamayatītyādigranthō gadyēnaivōktaḥ, tat kimarthaṁ ślōkēnōcyata ityāha- gadyōktō ya ityādi| tadvyaktivyavasāyārthamityatra tadvyaktirgadyōktārthasya vyaktiḥ prasannatēti yāvat, vyavasāyaḥ adhyavasāyō grahaṇamityarthaḥ; yasmāt pūrvōktārthaspaṣṭīkaraṇārthaṁ punaḥ ślōkēnābhidhānaṁ, tasmāt prayōjanāntarayuktatvānna punaruktidōṣa iti bhāvaḥ| gadyōktāpēkṣayā ślōkābhidhānaṁ sukhagrahaṇaṁ bhavatīti lōkasiddhamēva| atra ca gadyōkta ityupalakṣaṇaṁ, tēna ślōkōktō’pi ślōkēnōcyata iti bōddhavyaṁ; yathā- āragvadhīyē| ēvaṁ gadyōktō’pi gadyēnēti bōddhavyaṁ; yathā- prapañcēna kāraṇādyabhidhāyōktam- “ēvamasātmyēndriyārthasaṁyōgaḥ prajñāparādhaḥ pariṇāmaśca” (sū.a.11) ityādi| tathā ślōkēnōktō’pi gadyēnōcyatē, yathā- “brahmaṇā hi yathā prōktaṁ” (sū.a.1) ityādi ślōkēnābhidhāya ādyē’dhyāyē punaranyatrōktaṁ- “yamāyurvēdamaśvinau mahyaṁ prāyacchētām” (ci.a.1.pā.4) ityādi| atra ślōkābhidhānamēva sukhagrahaṇārthamiti jñēyam| kiṁvā, tadvyaktivyavasāyārthamiti yathāyōgyatayā bōddhavyam| tēna, prapañcābhidhānamarthavyaktyarthaṁ bōddhavyaṁ, saṅkṣēpābhidhānaṁ tu vyavasāyārthaṁ; tēna gadyaślōkābhidhānābhyāṁ vyaktivyavasāyau kriyētē| tatra prapañcābhidhānē’rthasya vyaktiḥ sphuṭaivēti, saṅkṣēpābhidhānaṁ tu prapañcāpēkṣayā sukhagrahaṇaṁ bhavati||41||
tatra ślōkāḥ- trividhaṁ nāmaparyāyairhētuṁ pañcavidhaṁ gadam|
gadalakṣaṇaparyāyān vyādhēḥ pañcavidhaṁ graham||42||
jvaramaṣṭavidhaṁ tasya prakr̥ṣṭāsannakāraṇam|
pūrvarūpaṁ ca rūpaṁ ca bhēṣajaṁ saṅgrahēṇa ca||43||
vyājahāra jvarasyāgrē nidānē vigatajvaraḥ|
bhagavānagnivēśāya praṇatāya punarvasuḥ||44||
saṅgrahē yadyapi hētuparyāyāḥ pūrvamuktāstadanu hētutraividhyaṁ, tathā’pi chandō’nurōdhēna tadviparyayakathanam| nāmarūpā yōgarūḍhāḥ paryāyā nāmaparyāyāḥ| pañcavidhaṁ gadamiti āgnēyādibhēdēna| ‘gadaparyāyanāmāni’ iti pāṭhē yalliṅgaparyāyābhidhānaṁ tasya vyādhipañcavidhagrahaśabdēnaiva ‘tasyōpalabdhiḥ’ ityādigranthāntarniviṣṭasakalārthasya gr̥hītatvādgrahaṇam; ‘gadalakṣaṇaparyāyān’ iti pāṭhē tu pūrvapakṣō nāstyēva, pāṭhastu nāyamatiprasiddhaḥ| prakr̥ṣṭāsannakāraṇaṁ jvarasya rūkṣādi prakr̥ṣṭam, āsannaṁ vātādi; tathā prakr̥ṣṭaṁ rudrakōpaḥ, āsannaṁ tu rūkṣādi| yadyapi rūpāt paścāt pūrvarūpamuktaṁ, tathā’pi chandōnurōdhāt pūrvarūpamagrē kr̥taṁ; kiṁvā, vātādijaviśiṣṭajvaralakṣaṇānāmavyaktānāṁ viśiṣṭajvarapūrvarūpatāṁ sūcayatā pūrvarūpaṁ pūrvaṅkr̥taṁ; vātādijvaralakṣaṇāni hyavyaktāni pūrvarūpāṇi bhavanti||42-44||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē nidānasthānē jvaranidānaṁ nāma prathamō’dhyāyaḥ||1||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ nidānasthānē jvaranidānaṁ nāma prathamō’dhyāyaḥ||1||
1. cikitsārthatvāditi cikitsāmātraprayōjanatvādityarthaḥ|
2. ‘vyādhijñānajanakaṁ’ iti pā.|
3. ‘nārthāntarē’ iti pā.|
4. ‘vartamānānāṁ’ iti pā.|
5. paryāyāntarēṇēti ēkārthavācakaśabdāntarēṇētyarthaḥ|
6. lakṣaṇārthamiti lakṣaṇaprayōjanakamityarthaḥ|
7. ‘aṣṭavidhavyādhijvarādyabhidhānārthasañjñāścāṣṭētyaṣṭāvēva’ iti pā.|
8. ‘vakṣyamāṇamiha’ iti pā.|
9. ‘ityādyuktarōgādērapi pratyāsannakāraṇāvabōdhō’ iti pā.|
10. jvarādikāraṇamēvēti jvarādimūlakāraṇamasātmyēndriyārthasaṁyōgādyēvētyarthaḥ|
11. ‘pratibhāti’ iti pā.|
12. ‘prāyēṇāmāśayasamutthatvēnāmaya ityucyatē’ iti pā.|
13. ‘pūrvarūpāṇyutpadyantē’ iti pā.|
14. asyāgrē ‘tathā’pi’ ityadhikaṁ paṭhyatē hastalikhitapustakē|
15. ‘liṅgaṁ lakṣaṇam| avyaktaṁ nātyabhivyaktam| atra hētuḥ-alpatvāt aṇutvāt, natvāvaraṇādiyōgādavyaktamityarthaḥ’ iti madhukōśa|
16. ‘nahyētatpūrvarūpaṁ jvarāvasthāyāṁ vyaktaṁ bhavati, ata ēvaivambhūtapūrvarūpābhiprāyēṇaivāriṣṭē vakṣyati’ iti pā.|
17. ‘sa cāsādhyaḥ prakīrtitaḥ’ iti pā.|
18. ‘utpitsuḥ sāmagrīsākalyādutpādēcchuḥ, āmayō rōgaḥ, dōṣaviśēṣēṇa vātādijanyāsādhāraṇavēpathvādinā, anadhiṣṭhitō’sambaddhaḥ’ iti madhukōśē|
19. prāgrūpaṁ dvividhaṁ sāmānyaṁ, viśiṣṭaṁ ca| sāmānyaṁ tu dōṣadūṣyasammūrcchanāvasthājanitaṁ, yēna bhāvijvarādivyādhimātraṁ pratīyatē, natu vātādijanitatvādiviśēṣaḥ| viśiṣṭaṁ punarbhāvivyādhiliṅgānāmavyaktatvam|aruṇadattēna tu (vāgbhaṭavyākhyāyāṁ) pūrvarūpatraividhyaṁ darśitaṁ-śārīraṁ, mānasaṁ, śārīramānasaṁ ca|
20. ‘sukhakarāṇāmityarthaḥ’ iti pā.|
21. ‘snigdhasvapnajātāyāṁ’ iti pā.|
22. ‘jāgaraṇaṁ’ iti pā.|
23. ‘dōṣāṇāmayaṁ jvarē āmāśayadūṣakatvādirdharmaḥ’ iti pā.|
24. ‘yēna prakārēṇa duṣṭaḥ kupitō vātādyanyatamō dōṣō yathāduṣṭastēna yathāduṣṭēna dōṣēṇa, yathācānuvisarpitā dēhamanudhāvatā sannivēśaviśēṣēṇa gacchatā, pratyāmayaṁ yā nirvr̥ttirniṣpattirudbhava iti yāvannirdiṣṭā, sā samprāptiḥ’ iti vāgbhaṭaṭīkāyāmaruṇadattaḥ|
25. ‘pr̥thak samavētānāṁ ca’ iti pā.|
26. ‘pūrvarūpōpaśayaviśēṣā’ iti pā.|
27. ‘nidānādiviśēṣābhidhānaṁ, tatpratijānītē’ iti pā.|
28. ‘anyatamēnāpi vyārdhi paricchēttuṁ samarthaḥ’ iti pā.|
29. ‘bhavatīti’ iti pā.|
30. ‘sāmānyō liṅganiścayaḥ’ iti pā.|
31. ‘cikitsitaṁ cōttarakālaṁ yathōddiṣṭaṁ vikārāṇām’ iti pā.|
32. ‘yathācitaṁ’, ‘yathācitraṁ’, ‘yathōddiṣṭaṁ’ iti ca pāṭhāntarāṇi|
33. ‘rūpamabhidhāya sāmānyaṁ prāgrūpamabhidhātavyaṁ’ iti pā.|
34. ‘kāmakrōdhādimanaḥsaṁyōgaṁ prati’ iti pā.|
35. ‘nidānapūrvarūpaliṅgōpaśayasamprāptiviśēṣānanuvyākhyāsyāmaḥ’ iti pā.|
36. ‘samprāptibhēdābhidhānēnaiva’ iti pā.|
37. ‘sarvajvarasādhāraṇaḥ’ iti pā.|
38. ‘anuvāsanayukta ēva’ iti pā.|
39. ‘praviśyāmāśayamūṣmaṇaḥ sthānamūṣmaṇā saha’ iti pā.|
40. ‘paktisthānamiti labhyatē’ iti pā.|
41. ‘atra ca’ iti pā.|
42. ‘yathā mēdasvinaḥ, kṣiptastu vahniṁ nirvāpayatvēva’ iti, ‘mēdasvinastamākṣipan vahniṁ nirvāpayatvēva’ iti ca pā.|
43. ‘avapīḍitāvatunnatvamiva’ iti pā.|
44. yōgīndranāthastu ‘vātajvarasya liṅgāni bhavanti’ iti na paṭhati|
45. ‘strīpunnapuṁsakaliṅgavakṣyamāṇapratyavamarśakam’ iti pā.|
46. ‘jaṅghāmadhyaṇḍikā’ iti pā.|
47. ‘śāstrairabhidhīyantē’ iti pā.|
48. ‘prakupitamāmāśayaṁ praviśadēvōṣmaṇā’pasr̥jadādyamāhārapariṇāmadhātuṁ’ iti pā.|
49. ‘bahirdvāraṁ nirasya’ iti pā.|
50. ‘yōgīndranāthasēnastu pittajvaraliṅgāni bhavanti’ iti na paṭhati|
51. ‘āmāśayasthitaṁ’ iti pā.|
52. ‘aṅgē bhr̥śamuttiṣṭhanti’ iti pā.|
53. yōgīndranāthasēnastu ślēṣmajvaraliṅgāni bhavanti’ iti na paṭhanti|
54. dōṣaliṅgataiva ślēṣmaliṅgataiva paraṁ, natu ślēṣmajvaraliṅgatēti bhāvaḥ|
55. ‘cōpakramyaḥ’ iti, ‘cōpakramyatē’ iti ca pā.|
56. ayaṁ pāṭhō hastalikhitapustakē nōpalabhyatē|
57. ‘prajñābalavarṇaharṣōtsāhasādanaḥ’ iti pā.|
58. ‘kōrakō’ iti pā.|
59. ‘āmāśayasamutthatvēna’ iti pā.|
60. ‘sarpirhitam’ iti pā.|
61. ‘vyādhipratyanīkatāyā api’ iti, ‘vyādhipratyanīkatāyāmapi’ iti ca pā.|
62. nanu yadyēvaṁ jvarōṣmaṇaḥ pittōṣmavyatiriktatvaṁ syāttarhi gadyapāṭhē pr̥thaṅ na paṭhanīya ūṣmēti yōjanā|
63. ‘gadyapāṭhē jvarōṣmā paṭhitaḥ’ iti pā.|
64. ‘na paṭhitaḥ’ iti pā.|
65. ‘hanyēta’ iti pā.|