ebooks-esamhita-ecaraka-siddhisthana-kalpana-siddhi

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

सिद्धिस्थानम् - १. कल्पनासिद्धिः


अथातः कल्पनासिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||


कल्पस्थानानन्तरं पारिशेष्यादेव सिद्धिस्थानमभिधीयते| सिद्धेरभिधायकं स्थानं सिद्धिस्थानम्| सिद्धिशब्देन चेह वमनादीनां वमनाद्यसम्यग्योगजन्यानां व्यापदां भेषजस्य साध्यतारूपा सिद्धिरुच्यते, एवम्भूतसिद्धिकारणाभिधायकतया चैतत् सिद्धिस्थानमुच्यते; किंवा कार्यकारणयोरभेदोपचारात् सिद्धिशब्देनेह सिद्धिकारणान्येव वमनादीन्युच्यन्ते, उक्तं हि “सम्यक्प्रयोगं चैव कर्मणां व्यापन्नानां च व्यापत्साधनानि सिद्धिषूपदेक्ष्यामः” (सू.अ.४) इति| न चैवं सिद्धिस्थानसञ्ज्ञाव्युत्पत्त्या चिकित्सास्थानादीनामपि सिद्धिस्थानसञ्ज्ञाप्रसक्तिरुद्भावनीया, यत इयं सञ्ज्ञाऽत्रैव योगरूढ्या वर्तते नान्यत्र||१-२||

का कल्पना पञ्चसु कर्मसूक्ता, क्रमश्च कः, किं च कृताकृतेषु|
लिड्गं तथैवातिकृतेषु, सङ्ख्या का, किङ्गुणः, केषु च कश्च बस्तिः||३||
किं वर्जनीयं प्रतिकर्मकाले, कृते कियान् वा परिहारकालः|
प्रणीयमानश्च न याति केन, केनैति शीघ्रं, सुचिराच्च बस्तिः||४||
साध्या [१] गदाः स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति|
प्रचोदितः [२] शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठः||५||
पुनर्वसुस्तन्त्रविदाह तस्मै सर्वप्रजानां हितकाम्ययेदम्|६|


सिद्धिस्थानाभिधानेऽपि सकलसिद्धिस्थानापेक्षणीयपञ्चकर्मकल्पनाद्यभिधायकतया प्राधान्यादादौ कल्पनासिद्धिरेवोच्यते| अत्र ‘का कल्पना’ इत्यादीन् शिष्यस्य द्वादशप्रश्नानभिनिवेश्य तान् यथाक्रमं व्याचष्टे प्रश्नानुगुणगुरुबुद्धिप्रकाशार्थम्| यदुक्तं भरद्वाजेन- “अप्रदुष्टेन भावेन प्रसन्नेनान्तरात्मना| शिष्येण सम्यक् पृष्टस्य गुरोर्बुद्धिः [३] प्रकाशते” इति| अत्र ‘का कल्पना पञ्चसु कर्मसूक्ता’ इति प्रथमः प्रश्नः, ‘क्रमश्च कः’ इति द्वितीयः, ‘किञ्च कृताकृतेषु लिङ्गं तथैवातिकृतेषु’ इति तृतीयः, ‘सङ्ख्या का’ इति चतुर्थः, ‘किङ्गुणो बस्तिः’ इति पञ्चमः, ‘केषु च कश्च बस्तिः’ इति षष्ठः, ‘किं वर्जनीयं प्रतिकर्मकाले’ इति सप्तमः, ‘कृते कियान् वा परिहारकालः’ इत्यष्टमः, ‘प्रणीयमानश्च न याति केन बस्तिः’ इति नवमः, ‘केनैति शीघ्रं’ इति दशमः, ‘सुचिराच्च केनैति’ इत्येकादशः, ‘साध्याः’ इत्यादिको द्वादशः| साध्या इत्यादिप्रश्नस्य यद्यप्यवकाशो नास्ति, यतो हि नासाध्या गदाः प्रोक्तेन यथास्वं क्रियमाणेन भेषजेन प्रशाम्यन्ति, तथाऽप्यसम्यग्भेषजे एव यथास्वं भेषजाभिधानादयं प्रश्नोबोद्धव्यः||३-५||-

त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य उक्तः [४] ||६||
नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु|७|


कल्पनाशब्देनेह पञ्चकर्माङ्गकल्पनोच्यते, तेन पञ्चकर्माङ्गस्नेहस्वेदप्रयोगमेव प्रागाह| त्र्यहावरमित्यादि प्रथमप्रश्नस्योत्तरम्| त्र्यहावरमिति त्र्यहेण त्र्यहं वा व्याप्य क्रियमाणस्नेहनेन अवरं यथा भवतीति त्र्यहावरं स्निग्धः| सप्तदिनमिति सप्तदिनं व्याप्य स्निग्धः| परमिति स्नेहप्रकर्षकालावधिना सप्तदिनं व्याप्य स्निग्धः| ततश्च कालोत्कर्षात् क्रियमाणशोधनाङ्गस्नेहनपक्षे सप्तदिनं यावत् स्निग्धः, कालाप्रकर्षपक्षे तु त्र्यहं स्निग्धः संस्वेदयितव्य इत्यर्थः| उक्तसप्तदिनस्नेहनकालानतिक्रमं सोपपत्तिकमाह- नातः परमित्यादि| अतः परमिति सप्तदिनात् परम्| कुतो नादिशन्तीत्याह- सात्म्यीभवेदित्यादि| सप्तदिनात् परेण क्रियमाणस्नेहः सप्तरात्रप्रयोगेण सात्म्यीभूतत्वान्न स्नेहनमधिकं शरीरे करोतीत्यर्थः; तेन यावन्मात्रस्नेहप्रयोगेण सप्तदिनोपयुक्तेन [५] स्नेहनं वृतं, सा मात्रा सात्म्यीभूतैव; अधिकमात्रा या सात्म्यतां न गता सा सप्तरात्रात् परेणापि कर्तव्यैव; वेद्यास्तु सप्तरात्रादस्निग्धे पुरुषे किञ्चिद्विश्रामं कृत्वा पुनरधिकमात्रया स्नेहं प्रयुञ्जते| एतच्च त्र्यहस्नेहनं सप्तरात्रस्नेहनं च मृदुक्रूरकोष्ठविषयभेदेन| यदुक्तं- “मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया| स्निह्यति क्रूरकोष्ठस्तु सप्तरात्रेण मानवः” (सू.अ.१३) इति| ननु यदि क्रूरकोष्ठस्तु सप्तरात्रेण स्निह्यतीति व्यवस्था, तत् कथमिह ‘नातः परं स्नेहनमादिशन्ति’ इत्यनेन सप्तरात्रेणाप्यस्नेहनमुच्यते; ब्रूमः- सत्यं, क्रूरकोष्ठः सप्तरात्रेणैव स्निह्यति, परं [६] क्रूरकोष्ठतामपेक्ष्य कृतया स्नेहमात्रया स्निह्यति, यदा तु हीनमात्रा प्रयुज्यते, तदा सप्तरात्रेणापि न स्निह्यति| यत्तु तन्त्रान्तरे- “त्रिषट्कनवरात्रेण स्नेहपानं विधीयते” इत्यनेन सप्तरात्रादूर्ध्वमपि स्नेहनं विहितं, तदाचार्यानभिमतमेव; किंवा, सप्तरात्रादूर्ध्वमसात्म्यीभूताधिकमात्राप्रयोगाभिप्रायेण तद्वर्णनीयम्| अत्र च सप्तरात्रादूर्ध्वं स्नेहप्रयोगस्य निषेधात्, त्र्यहादर्वाक् प्रयोगस्य वा निषेधात्, सद्यः स्नेहप्रयोगेणैकदिनेनापि स्नेहनमनुजानीत इति ब्रुवते| मध्यकोष्ठान्तरं प्रति स्नेहनप्रकर्षकालो यद्यपि नोक्तः, तथाऽपि मध्यविधया पञ्चदिनेन मध्यकोष्ठस्य स्नेहनं ज्ञेयम्| यत्तु कैश्चित् ‘मृदुकोष्ठं प्रति त्र्यहादूर्ध्वं न स्नेहनं कर्तव्यं सात्म्यीभावादिति चार्थो लभ्यते’ इति व्याख्यायते, तन्न नः प्रीणाति; यतः सात्म्यीभावः सप्तदिननिर्वर्त्यतयैवाचार्येणोक्तः [७] , तेनात्यल्पमात्राप्रयुक्तेन स्नेहेन त्र्यहाद्यदि न स्निह्यति मृदुकोष्ठस्तदाऽधिकदिनान्यपि तत्र स्नेहः कर्तव्यः||६||-

स्नेहोऽनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम्||७||


संशोधनाङ्गस्नेहफलमाह- स्नेहोऽनिलं हन्तीत्यादि||७||

स्निग्धस्य सूक्ष्मेष्वयनेषु लीनं स्वेदस्तु दोषं नयति द्रवत्वम्|८|


स्नेहपूर्वकस्वेदफलमाह- स्निग्धस्येत्यादि| सूक्ष्मेष्विति सूक्ष्मेष्वपि|८|

ग्राम्यौदकानूपरसैः समांसैरुत्क्लेशनीयः [८] पयसा च वम्यः||८||
रसैस्तथा जाङ्गलजैः सयूषैः स्निग्धैः [९] कफावृद्धिकरैर्विरेच्यः|९|


सम्प्रति स्निग्धस्य वामनीयस्य वमनानुगुणं विरेचनीयस्य च विरेचनानुगुणं भोजनं पृथगाह- ग्राम्यौदकेत्यादि| रसैस्तथेत्यादिना विरेचनीयस्याहारविधानम्| अत्र च उत्क्लेशनीय इति यदा सम्बन्धो भवेत्तदा उत्क्लेशनं पित्तस्यैव ज्ञेयं; किंवा ‘उत्क्लेशनीयः’ इति नानुवर्तत एव, तेन कफावृद्धिकरै रसैर्यूषैश्च ‘भोजनीय’ इति शेषः| एतद्विरेचनार्थं प्रतिभोजनं त्र्यहं ज्ञेयं, वमनार्थं तु प्रतिभोजनमेकाहमेव; उक्तं हि ‘स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्| स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्| एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्” (सू.अ.१३) इति||८||-

श्लेष्मोत्तरश्छर्दयति ह्यदुःखं [१०] विरिच्यते मन्दकफस्तु सम्यक्||९||
अधः कफेऽल्पे वमनं विरेचयेद्विरेचनं [११] वृद्धकफे तथोर्ध्वम्|१०|


वामनीयस्य श्लेष्मोत्तरत्वे कर्तव्ये विरेचनीयस्य चाल्पकफत्वे सम्पाद्ये उपपत्तिमाह- श्लेष्मोत्तर इत्यादि| उक्तविपर्यये हेतुमाह- अध इत्यादि| कफेऽल्पे सति वमनं पीतं वमनमकृत्वैवाधो याति; वृद्धे कफे तु विरेचनं प्रयुक्तमूर्ध्वं याति, वमनाय सम्पद्यत इत्यर्थः||९||-

स्निग्धाय [१२] देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च||१०||
स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं प्रयोज्यम् [१३] |११|


सम्प्रति क्रमश्च क इति प्रश्नस्योत्तरमाह- स्निग्धाय देयं वमनमिति; वमनपानदिनेऽभ्यङ्गेन स्निग्धाय वमनं देयमित्यर्थः, पानजनितस्नेहस्तु पूर्वमेवोक्तत्वान्न पुनरभिधानमर्हति, अन्ये तु ‘उपजातस्नेहगुणाय [१४] ’ इति वदन्ति| यथोक्तमिति मदनकल्पोक्तविधिना देयम्| वमनानन्तरं कर्तव्यमाह- वान्तस्येत्यादि| पेयादिः “पेयां विलेपी” इत्यादिना वक्ष्यमाणः| वमनक्रममभिधाय विरेचनक्रममाह- स्निग्धस्येत्यादि| सुस्विन्नतनोरिति सम्यक्स्विन्नदेहस्य| अयं च विरेचनाङ्गः स्नेहस्वेदक्रमो वमनानन्तरभाविविरेचनेऽपि पेयादिक्रमोत्तरकालं कर्तव्यः; यदुक्तं- ‘विलेप्याः क्रमागतं चैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्य विरेचयेत्’ इति| स्नेहानन्तरं च यत्त्र्यहं विरेचनार्थं प्रतिभोजनं, तदुपक्रमाभिधानानुषङ्गप्रतिपादितमेवेति न पुनरिह प्रतिपाद्यते| यथावदिति कल्पस्थनोक्तविधिना| योग्यतममिति शरीरदोषाद्यपेक्षया यद्विरेचनं यौगिकं भवति तद्देयम्||१०||-

पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिर्द्विरथैकशश्च||११||
क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः|१२|


वमनविरेचनोत्तरभाविपेयादिक्रममाह- पेयां विलेपीमित्यादि| यवागूः बहुसिक्था| विलेपी विरलद्रवा| उक्तं हि- ‘सिक्थकै रहितो मण्डः, पेया सिक्थसमन्विता| यवागूर्बहुसिक्था स्याद्विलेपी विरलद्रवा’ इति| अत्र अकृतयूषः स्नेहलवणाद्यसंस्कृतः, कृतयूषः स्नेहलवणादिसंस्कृतः; एवं रसेऽपि कृताकृतव्यवस्था| यदुक्तं सूदशास्त्रे ‘अस्नेहलवणं सर्वमकृतं कटुकैर्विना| विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम्” इति| त्रिरिति अन्नकालत्रयं व्याप्य, द्विरिति अन्नकालद्वयम्, एकश इति एकान्नकालम्; एतच्च त्रिरित्यादि प्रत्येकं पेयादिभिः सम्बध्यते| एतच्च त्रिरित्यादि पक्षत्रयं प्रधानशुद्धिशुद्धाद्यपेक्षया यथाक्रमं ज्ञेयम्| तेन, प्रधानशुद्धिशुद्धे प्रत्येकं त्रिः पेयादि कर्तव्यं, तेनान्नकालत्रये पेया, ततः परेणान्नकालत्रये विलेपी, ततः परेणान्नकालत्रये कृताकृतयूषसहितमन्नं [१५] , ततोऽपि च परेण कृताकृतरसेनान्नमन्नकालत्रये देयम्; एवं द्वादशभिरन्नकालैर्वमनदिनसायाह्नात् प्रभृति सप्तरात्रेण पेयादिक्रमः [१६] | अयमेव क्रम उपकल्पनीयेऽपि- “ततः सायाह्ने लोहितशालितण्डुलानां” इत्यादिना, यावत् “द्वादशे चान्नकाले” (सू.अ.१५) इत्यनेनोक्तः [१७] | अत्र यूषरसयोस्तु यद्यपि कालविभागो न प्रतिपादितस्तथाऽपि यूषकालत्रये रसकालत्रये च प्रथममकृतस्य उत्तरकाले च कृतस्य यूषस्य, एवं रसस्यापि कालविभागः कथनीयः| एवं द्विःपेयादिक्रमस्तथा एकशश्च पेयादिक्रमो वर्णनीय इति| एककाले तु पेयादिक्रमे यद्यपि कृताकृतयूषरसयोः कालविभागो न प्राप्यते, तथाऽप्येकस्मिन्नेव काले स्तोकसंस्कारेण यूषरसयोस्तत्र कृताकृतत्वं ज्ञेयम्| प्रधानशुद्धे भूरिदोषगमनक्षोभादग्निमान्द्यं सम्भवति, तेन तत्र पेयादिक्रमश्चिरं क्रियत इति ज्ञेयम्| प्रधानशुद्ध्यादिलक्षणं चाग्रे वक्ष्यमाणम्||११||-

यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण||१२||
महान् स्थिरः सर्वपचस्तथैव [१८] शुद्धस्य पेयादिभिरन्तरग्निः|१३|


पेयादिक्रमस्य विशोधनमन्दीकृताग्नेर्दीपकत्वं दृष्टान्तेन दर्शयन्नाह- यथेत्यादि||१२||-

जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ||१३||
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च|
पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः||१४||
द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्|१५|


प्रधानशुद्ध्यादिलक्षणं प्राह- जघन्येत्यादि| चतुर्भिर्वेगैर्यच्छोधनं वमनं तज्जघन्यं, यत्तु षड्भिस्तन्मध्यमं, यत्त्वष्टभिस्तत् प्रवरम्| विरेके जघन्ये दश, मध्ये तु विरेचने द्विगुणा दशविंशतिरित्यर्थः, प्रवरे तु विरेचने त्रिगुणा दश त्रिंशदित्यर्थः| वेगसङ्ख्याविभेदेन जघन्यादिभेदमभिधाय दोषमानभेदेनापि विरेचनस्य जघन्यमध्यप्रवरतां यथाक्रममाह- प्रस्थस्तथेत्यादि| द्विगुणः प्रस्थो जघन्ये विरेचने, त्रिगुणश्च मध्यमे, चतुर्गुणस्तु प्रवरे| अत्र च प्रस्थशब्देन सार्धत्रयोदशपलान्युच्यन्ते; उक्तं हि तन्त्रान्तरे “वमने च विरेके च तथा शोणितमोक्षणे| सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः” इति| पित्तान्तमिष्टं वमनं विरेकादर्धमिति विरेके यन्मानं जघन्यमध्यप्रवरविभागे प्रोक्तं यथाक्रमं तथा वमनेऽपि जघन्यमध्यप्रवरविभागे तदर्धं ज्ञेयं, परं तु यत् पित्तान्तत्वं वमनस्य, कफान्तत्वं विरेकस्य, तत् त्रिविधशुद्धावर्थागतं ज्ञेयम्| यदा चतुर्भिर्वेगैः प्रस्थमाने दोषे गते पित्तान्तत्वं सम्यग्वमनशुद्धिजलक्षणमुपलभ्यते तदा जघन्या शुद्धिः, यदा च विरेके दशभिर्वेगेर्द्विप्रस्थमानदोषगमने कफान्तत्वं विरेचनसम्यग्योगलक्षणमुपलभ्यते तदा विरेचनस्य जघन्या शुद्धिर्भवति; एवं मध्यप्रवरशुद्धावपि वमने पित्तान्तत्वं, विरेचने कफान्तत्वं, सम्यग्योगलक्षणं ज्ञेयम्| वेगसङ्ख्यादोषमानाभिधानानन्तरं सम्यक्शुद्धिलैङ्गिकशुद्धेः पित्तान्तत्वादिलक्षणप्रतिपादनार्थमिहाभिधानं, तेन यदुच्यते आन्तिकी, वैगिकी, मानिकी, लैङ्गिकी चेति चतुर्विधा शुद्धिरिहोच्यते वमनविरेचनयोः, तदस्माकमसम्मतमेव; किन्तु लैङ्गिकी चैका शुद्धिः| तत्र च पित्तान्तत्वं तथा ‘क्रमात्कफः’ इत्यादिग्रन्थवक्ष्यमाणं च लिङ्गं वमने, विरेचने च कफान्तत्वं तथा ‘स्रोतोविशुद्धीन्द्रिय’ इत्यादिग्रन्थवक्ष्यमाणं च लिङ्गं ज्ञेयम्| तेन यदत्र आषाढवर्मणा “सम्यग्विशुद्धिलिङ्गं लक्षणतोऽथ मानाच्च वेगाच्च दोषागमनाच्चोक्तं, किमिदं व्यस्तं समस्तं वा” इत्यादिनाऽऽक्षिप्तं, तदनभ्युपगमनिरस्तमेव| अन्येषां त्वत्र परिहारा विस्तरभयान्न लिखिताः| जघन्यादिशुद्धित्रैविध्यं चात्र जघन्यमध्योत्कृष्टदोषविषयतया व्यवस्थापनीयम्| जघन्यादिशुद्धिलक्षणेऽपि यद्वेगेन जघन्यादिशुद्धिलक्षणाभिधानं, तत् प्रायोभावितया ज्ञेयम्| दोषमानभेदेन जघन्यादिमानभेदः पारमार्थिकः; तेन यत्र वमनेऽष्टाभिर्वेगैर्द्विप्रस्थदोषस्रुतिर्भवति तत्र प्रवरैव शुद्धिः, यत्र वमने षड्भिरेव वेगैः सार्धप्रस्थदोषस्रुतिर्भवति तत्र मध्यैव शुद्धि;, यत्र च चतुर्भिरपि वेगैरेकप्रस्थदोषस्रुतिस्तत्र जघन्यशुद्धिरेव; एवं विरेचनेष्वप्युदाहार्यम्| पित्तप्रवृत्तिरन्ते यस्मिन् तत् पित्तान्तम्, एवं कफान्तमपि व्याख्येयम्| तेन ‘क्रमात् कफः पित्तमथानिलश्च’ इत्यनेन यत् सम्यग्वमनलक्षणं वक्तव्यं, तथा ‘प्राप्तिश्च विट्पित्तकफानिलानां’ इत्यनेन च सम्यग्विरेचनलक्षणं यद्वक्तव्यं, तदनेन सहाविरुद्धं भवति| तत्र च यदनिलागमनमन्ते वक्तव्यं तत् पित्तान्तस्य कफान्तस्य च सूचकतया ज्ञेयं, निःशेषकृते ह्याशयगते पित्ते कफे च वायुः केवलः सरति; तेन च केवलवायुसरणेन पित्तान्तता कफान्तता च ज्ञायते| ननु यदि ‘क्रमात् कफः” इत्यादिनैव ग्रन्थेनायमर्थोऽभिहितस्तत् कथमिह पित्तान्तं च वमनं, कफान्तं च विरेकमाहुरिति कृतं? बूमः- वेगसङ्ख्यादोषमानभेदप्रतिपाद्यमानजघन्यादिशुद्धित्रये पित्तान्तत्वाद्यनुगतिप्रतिपादनार्थमिहाभिधानम्; एवं तद्वमनविरेचनसम्यग्योगलक्षणानभिधाने हि शिष्यस्य प्रबलदोषेऽपि पुरुषेऽयोगशुद्धावेव जघन्यशुद्धिगतवेगमानोदये सति अथ पित्तान्तत्वाद्यनुदये जघन्यशुद्धिभ्रमः स्यात् एवम्न्यदप्युदाहार्यम्| वमने च विरेके च यथा दोषमापनं कर्तव्यं तदाह- द्वित्रानित्यादि| द्वित्रानित्यव्यवस्थितभाषणेन मलभागस्यामेयतां दर्शयति; वमने तु पीतमिति वमने पीतमौषधं वर्जयित्वा शेषो मेयः||१३-१४||-

क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः||१५||
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ तथा लघुत्वेऽपि च लक्ष्यमाणे|१६|


सम्प्रति ‘किं च कृताकृतेषु’ इत्यादिप्रश्नस्योत्तरं यथाक्रममाह- क्रमादित्यादि| क्रमादित्यनेन वचनेन यथोक्तक्रमलङ्घनेन कफाद्यागमनं न सम्यग्योगलक्षणमिति दर्शयति; यतः कफादूर्ध्वं गतं यदा पित्तं भवति तदा तु पित्तागमनेऽपि सति न शुद्धिः, किन्तु यदैवामाशयाधोभागगतं पित्तं वमनमानयति तदैव शुद्धिः, तत् पित्तानयनं च कफानयनानन्तरमेव [१९] भवति; एवं सम्यक्कृतविरेचनलक्षणेऽपि क्रमादितिपदस्यार्थोऽत्र व्याख्येयः||१५||-

दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रतां च||१६||


दुश्छर्दिते इत्याद्ययोगकृतवमनलक्षणम्||१६||

तृण्मोहमूर्च्छानिलकोपनिद्राबलादिहानिर्वमनेऽति च [२०] स्यात्|१७|


तृण्मोहेत्याद्यतिकृतवमनलिङ्गम्| अत्रादिशब्देन वर्णस्वरादिग्रहणम्| निद्राहानिश्चात्रानिलकोपकृतैव|१७|

स्रोतोविशुद्धीन्द्रियसम्प्रसादौ लघुत्वमूर्जोऽग्निरनामयत्वम्||१७||
प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण|१८|


स्रोतोविशुद्धीत्यादि सम्यग्विरेचनलक्षणम्| ऊर्जोऽग्निरिति पटुरग्निः [२१] | अनामयत्वमिति विरेचनजेतव्यदोषजनितविकारव्यपगमः| प्राप्तिश्चेत्यादिग्रन्थार्थः स्थानान्तरे व्याख्यात एव||१७||-

स्याच्छ्लेष्मपित्तानिलसम्प्रकोपः सादस्तथाऽग्नेर्गुरुता [२२] प्रतिश्या||१८||
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते|१९|


स्यादित्याद्ययोगकृतविरेकलक्षणम्| न च वातानुलोम्यमित्यर्थः [२३] ||१८||-

कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः||१९||
निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति|२०|


कफास्रेत्यादि विरेकातियोगलक्षणम्| क्षयशब्दः कफादिभिः प्रत्येकं सम्बध्यते||१९||-

संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा||२०||
तैलाक्तगात्राय ततो निरूहं दद्यात्र्यहान्नातिबुभुक्षिताय|
प्रस्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं यथार्हम्||२१||
नरस्ततो निश्यनुवासनार्हो नात्याशितः स्यादनुवासनीयः [२४] |२२|


वमनविरेचनकल्पनाप्रस्तावागतसम्यग्योगादिलक्षणमभिधाय बस्तिकल्पनामाह- संसृष्टभक्तमित्यादि| सप्तभिर्दिनैः कृतसंसर्जनक्रमस्याष्टमे भुक्तमुपयुक्तस्य नवमेऽह्नि सर्पिःपानमनुवासनं वा देयम्; अत्र विकल्पद्वये यदि वमनानन्तरं विरेचनं कर्तव्यं तदा नवमेऽह्नि सर्पिःपानम्, अथ विरेचनानन्तरं यदा बस्तिर्देयस्तदाऽनुवासनं नवमेऽह्नि देयमिति व्यवस्था| वममानन्तरं नवमदिवसे सर्पिः पानं पूर्वं नोक्तं तेनेदानीं विरेचनानन्तरकर्तव्यनिरूहाङ्गानुवासनसमानकालतया सर्पिः पानमपि दर्शितं, तेन [२५] न निरूहाङ्गता सर्पिःपानस्य कल्पनीया| नवमश्च दिवसोऽत्र शोधनदिनमारभ्यैव ज्ञेयः; उक्तं च जतूकण- ‘शोधनानन्तरं नवमेऽह्नि स्नेहपानमनुवासनं वा” इति, तथा सुश्रुतेऽप्युक्तं- “विरेचनात् सप्तरात्रे गते जातबलाय च| कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः” (सु.चि.अ.३७) इति| उत्तरबस्तिचिकित्सिते च यः पेयादिक्रमानन्तरं रससंसर्जनक्रम उक्तः, स सर्वकर्मावसाने प्रकृतिभोजनगमनार्थं कर्तव्यः, न वमनविरेचनकर्मपरिसमाप्तावेव, तेनेहाकृतरससंसर्गस्यैव नवमे दिने सर्पिःपानमनुवासनं चोपपन्नम्| यत्तु भद्रशौनके- “संसृष्टभक्तः सुमनाः स्नेहपीतो दृढानलः| संशुद्धः परतो मासादनुवास्यस्ततो नरः” इत्युक्तं, तत् प्रागनुवासनविषयं रोगविशेषविषयं वेति नैतद्विरुद्धं भवति; बहूनि चात्र व्याख्यानानि टीकाकृतामङ्गिरि-सैन्धव-जेज्जटेश्वरसेनादीनां सन्ति; अन्यैस्तु तद्व्याख्यानानि दोषोद्धारादेव निरस्तानि| तैलाक्तगात्रायेति वचनमभ्यङ्गेनापि स्नेहप्रयोगदर्शनार्थम्| स्वेदस्त्वत्र पञ्चकर्मपूर्वतया विहितोऽनुक्तोऽप्यायात्येव; यदुक्तं ‘तान्युपस्थितदोषणां स्नेहस्वेदोपपादनैः| पञ्चकर्माणि कुर्वीत” (सू.अ.२) इति| दद्यात्र्यहादिति अनुवासनदिनादूर्ध्वं त्र्यहात्, तेन यथावक्ष्यमाणक्रमेण एकाहाद् द्व्यहादधिकाद्वा स्नेहात्तदहर्वा निरूहो देयः| नातिबुभुक्षितायेत्यनेन अतिबुभुक्षितस्य निरूहोऽतियोगायोर्ध्वगमनाय च भवतीति सूचयति| तत्र धन्वरसेन प्रतिभोजनं [२६] विरेचनवदग्निमान्द्याभावाद्बलावहत्वाच्च युक्तमेव; यदुक्तं भोजे- “आमस्तकाद्विशुद्धस्य निरूहेण रसादिकम्| किमर्थं विहितं भोज्यं संसर्गश्च विरिक्तवत्|| विरेकः पावकं हन्ति तदधिष्ठानसम्प्लवात्| न तु बस्तिस्तथा तस्माद्ययोन्नयति पावकम्’ इति| निरूह एव दोषाग्निबलापेक्षया रसादिना पेयादिना वा भोजनं दर्शयन्नाह- समीक्ष्य वा दोषबलं यथार्हमिति; बलमिति अग्निबलम्| नरस्तत इत्यादिना निरूढस्यानुवासनमाह| निशीत्यनेन निरूहानन्तरं तद्दिने क्रियमाणमनुवासनं निश्येव कर्तव्यमिति दर्शयति, न शीते वसन्ते च सद्योनिरूढस्य रात्रावेवानुवासनं न देयमिति अन्ये तु निशीत्यनेन तदहरेव निरूढाय सायमनुवासनं देयमिति दर्शयति, तेन यथावक्ष्यमाणविभागेन रात्रौ दिवा वा देयमित्याहुः| अनुवासनार्ह इति वचनेन यदि सामता मन्दो वा पावको भवति तदा तदहरनुवासनं न देयमिति सूचयति| अत एव जतूकर्णे द्वितीयदिवस एवानुवासनमुक्तं- “ततस्त्र्यहान्निरूहे व्युषिते भुक्तवतोऽनुवासनम्” इति; हारीतेऽपि- “व्युष्टं रजन्यां प्रसमीक्ष्य तस्माद्बलाबलं वाऽप्यनुवासनीयः” इत्युक्तम्| “सद्यो निरूढोऽनुवास्यः स्यात्” इति वचनं निरूहजनितवातक्षोभयुक्तपुरुषविषयम्||२०-२१||-

शीते वसन्ते च दिवाऽनुवास्यो रात्रौ शरद्ग्रीष्मघनागमेषु||२२||
तानेव दोषान् परिरक्षता ये स्नेहस्य पाने परिकीर्तिताः प्राक्|२३|


निशीत्यनेन यन्निशासमीपेऽनुवासनं विहितं तदेव कालभेदेन भिन्नकालं दर्शयन्नाह- शीते इत्यादि| शीतशब्देन शिशिरहेमन्तयोरपि ग्रहणम्| दिवेति निशासमीपे दिवाभागे, रात्रावपि च दिनसमीपायां रात्रौ| दोषान् परिरक्षता दोषान् दृष्ट्वा, अन्तरं च दोषवर्जनेन परिरक्षता; ये स्नेहस्य पाने परिकीर्तिताः स्नेहाध्याये- “श्लेष्माधिको दिवा शीते” (सू.अ.१३) इत्यादिना ग्रन्थेन, य एवाकालपीतस्नेहदोषा भवन्ति त एव यथोक्तकालविपर्ययकृतानुवासनेऽपि दोषा भवन्तीत्युक्तं भवति| स्नेहाध्याये यद्वातपित्ताधिकत्वादिविशेषेणापि रात्रौ दिवा च स्नेहपानं विहितं तदिहापि समानन्यायत्वादेकदेशाभिधानेनापरैकदेशानुमानाच्च ज्ञेयम्||२२||-

प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम्||२३||
सायं च भोज्यं परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा [२७] |
त्र्यहे त्र्यहे वाऽप्यथ [२८] पञ्चमे वा दद्यान्निरूहादनुवासनं च||२४||


प्रत्यागते चेत्यादौ अनुवासनीये इति अनुवासनस्नेहे| व्युषितायेति निर्विकारं रात्रिव्युषिताय दिवा भोज्यं देयं, तथा
सायं च भोज्यं देयम्| अनुवासनानन्तरं पुनरनुवासनकालमाह- त्र्यहे वेत्यादि| अत्रापि त्र्यहपञ्चाहव्यवस्था पूर्ववत्; अयञ्चानुवासनकालो निरूहदिन एव दातव्यानुवासने परिज्ञेयः| अन्ये तु पठन्ति यत्- ‘परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा’ इति; व्याख्यानयन्ति च- परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वेति; अत्र तु द्व्यहेऽनुवासनमतिप्रबलवातस्य, अनतिवृद्धवातस्य त्र्यहे, पञ्चमे तु प्रवृद्धकफपित्तस्येति व्यवस्था| द्वितीयदिनानुवासनं हारीतेऽप्युक्तं; वचनं हि- “दृष्ट्वाऽतिवृद्धं पवनस्य रूपं दिने दिने बस्तिमुदाहरन्ति” इति; सुश्रुतेऽप्युक्तं- “रूक्षस्य बहुवातस्य स्नेहबस्तिं दिने दिने| दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्र्यहात्” (सु.चि.अ.३७) इति| इहापि ‘रूक्षनित्यस्तु” इत्यादिना, ‘वातार्ताश्च दिने दिने” (सि.अ.४) इत्यन्तेन द्व्यहे दानं विधास्यति, तेन ‘द्व्यहे वा त्र्यहे वा’ इति पाठः साधुः; ‘द्व्यहशब्देन चात्र दिनद्वयसम्बन्धमात्रमुच्यते, न द्व्यहपूरणं; तेन प्रथमदिवसदत्तानुवासनात् प्रभृति पूर्णे तृतीये दिवसेऽनुवासनं प्राप्नोति’ इति यदुच्यते, तन्निरस्तम्; एवं त्र्यहेऽपि तृतीयाहसम्बन्ध एव विवक्षितो ज्ञेय इति||२३-२४||

एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि|
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात्||२५||


सम्प्रति दोषभेदेनानुवासननियममाह- एकं तथा त्रीनित्यादि| एतच्च ‘सङ्ख्याः कति’ इति प्रश्नस्योत्तरम्; अपरं सङ्ख्याप्रश्नस्योतरं ‘त्रिंशन्मताः कर्मसु [२९] ’ इत्यादिना भविष्यति| कफपित्तयोश्च यद्यप्यनुवासनं न विहितं, तथाऽपि वातानुगतकफपित्तविषयतयैतद्बोद्धव्यम्| पुनर्वेत्यनेन वाते नव एकादश वा कुर्यात्| अयुग्मानित्यनेन द्विचतुःषडादिसङ्ख्यया युग्मदानं निषेधयति, अयुग्मदानं प्रभावादेवात्रोपकारीति महर्षिवचनाद्बोध्यं, यथा- “युग्मेष्वहःसु पुत्रकामौ संवसेताम्” (शा.अ.८) इति; उपपत्तिश्चात्रातिप्रसङ्गभीत्या न कथिताऽऽचार्येण| यत्तु- “त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड् वा” इत्यादिना युग्मबस्तिदानं वक्ष्यति, तन्निरूहाङ्गतया स्नेहनार्थक्रियमाणानुवासनविषययुग्मबस्तिदानं ज्ञेयम्, इह तु प्रधानतया क्रियमाणानुवासनविषयमयुग्मदानमिति न विरोधः| एतेन, यदुक्तमाषाढवर्मणा- “निरूहकार्यकारणमयुग्मदानमस्मिन्नोक्तं निषिद्धपूर्व च, योगस्यान्ते क्रमादेकं तथा त्रीनित्यादीन् स्नेहान् प्राह” (?) इति, तन्निरस्तं ज्ञेयम्| किञ्च, अयुग्मानित्यनेन पुनर्वेत्यनेन च यत्रानुवृत्त्याऽनुवासनं देयं तत्रायुग्मकं निरूहान्तरितं च कर्तव्यमित्यर्थः, तेन यथोक्तसङ्ख्याकान्निरूहान् [३०] दत्त्वा यथोक्तसङ्ख्यया स्नेहो देयः| विषमसङ्ख्योपादानं तु मध्यविधयाऽपि द्व्यहचतुरहादिग्राहकं भवति [३१] , तेनोत्तरत्र वक्ष्यमाणसङ्ख्यानुवासनं न विरोधीति ब्रूते| जतूकर्णेऽप्युक्तं- “निरूहे व्युषिते भुक्तवतोऽनुवासनं परं द्वितीयेऽहनि पञ्चमे वा तथैकादशाहेऽपकर्षतो द्वित्रिचतुरादि(?) वातादिषूच्यते” इति||२५||

नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्|
शुद्धो निरूहेण विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम्||२६||


सम्प्रति निरूहविरेचनयोरन्तरेऽवश्यपरिहर्तव्यकालमाह- नरो विरिक्तस्त्वित्यादि| अवश्यमिति वचनादेकाहसाध्येऽपि व्याधाववश्यं सप्तदिनच्छेदः कर्तव्य इति दर्शयति| यद्यपिविरेचनानन्तरं निषिद्ध एव निरूहः पञ्चकर्मीयायां सिद्धौ, तथा निरूढस्य विरेचनं निषिद्धं, तथाऽपि तत्कालमेव स निषेधः; तेन त्रिचतुरादिदिनेऽपि प्रसक्तिनिरासार्थमिदं वचनम्| यत्तु विरेचनानन्तरं नवमेऽह्न्यनुवासनकालादुत्तरकालमेव निरूहविधानं, तेनार्वाग्बस्तेः प्रसक्तिरपि न स्यादित्युच्यते; तन्न, यतोऽनुवासनशुद्ध्यपेक्षसंसर्जनक्रमस्येयं विधा, यदाऽवरशुद्ध्या त्र्यहेणैव पेयादिक्रमः समाप्यते, तदा चतुर्थदिनेऽनुवासनदानात् पञ्चमे षष्ठे वा दिने निरूहः प्रसज्ज्येत, अतस्तन्निरासार्थमेतद्वचनम्| निरूहानन्तरं तु संसर्जनक्रमो नास्त्येव, तेन त्र्यहं स्नेहं दत्त्वा विरेचनप्रसक्तिरस्त्येव| सप्ताहादर्वाक् सप्ताहं यावच्च निरूहविरेचनवर्जने हेतुमाह- तद्ध्यस्येत्यादि| विकसेदिति हिंस्यात्| शून्यमिति पूर्वशोधनशून्यशरीरं पुनः शोधनाद्धिंस्यादिति भावः| यत्तु “आसप्ताहाद्विरेको [३२] वा ततश्चापि निरूहणम्” इति तन्त्रान्तरे प्रोक्तं, तच्च संसर्गविधया क्रियमाणसंशोधनक्रमे ज्ञेयम्| तत्रापि च सप्ताहपूरणं [३३] संसर्जनस्नेहादीनामनुमतविकल्पपरिहाराद् [३४] व्याख्येयम्||२६||

बस्तिर्वयःस्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च|
सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च||२७||
विट्श्लेष्मपित्तानिलमूत्रकर्षी [३५] दार्ढ्यावहः शुक्रबलप्रदश्च|
विश्वक्स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः||२८||


‘किङ्गुणो बस्तिः’ इतिप्रश्नस्योत्तरं बस्तिर्वयःस्थापयितेत्यादि| अयं चास्थापनगुणः, अनुवासनस्य तु देहे निरूहेण’ इत्यादिना ग्रन्थेन गुणान् वक्ष्यति| वयः स्थापयतीति वयःस्थापयिता; वयःस्थापनत्वं चास्य स्रोतःशुद्धिकरत्वात्| सर्वार्थकारीति स्थिरत्वापकर्षादिविरुद्धार्थस्यापि भेषजविशेषयोगात्| शिशुवृद्धयूनां निरत्यय इत्यनेन वमनविरेचनाभ्यामुत्कर्ष उच्यते, ते हि शिशुवृद्धयोर्निषिद्धे| सर्वगदापहत्वं [३६] संशमनेन ज्ञेयं, सर्वान् विकारान् शमयेदित्यनेन दोषसंशोधनद्वारा सर्वगदापहत्वमुच्यत इति न पौनरुक्त्यं; किंवा सर्वान् विकारानिति सर्वावस्थान् विकारानिति विशेषः||२७-२८||

देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च|
न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते [३७] ||२९||
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा|
तैलं ददात्याशु मनःप्रसादं वीर्यं [३८] बलं वर्णमथाग्निपुष्टिम् [३९] ||३०||
मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः|
काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन||३१||


देहे इत्यादिनाऽनुवासनगुणमाह| निरूहेण विशुद्धमार्गे इति वचनान्निरूहशोधित एव मार्गे संसर्जदनुवासनं यथोक्तगुणकर्तृ भवतीति दर्शयति| न तैलदानादित्यत्र तैलशब्देन स्नेहोपलक्षणेन केचिद्घृतमपि ग्राहयन्ति, किन्तु तैलमेवात्र वातहरप्रधानतया ब्रूते इति युक्तं पश्यामः; तथा ह्यत्र औष्ण्याच्छैत्यमित्युक्तम्, औष्ण्यं च न सर्पिषीति; स्नेहा मज्जवर्जिता अनुवासनाधिकृता अप्यप्रधानत्वान्नात्र घृतमनुमन्यते| परमस्तीत्यादौ द्रव्यमिति कारणं, तच्च कारणमनिलप्रशमनेन ज्ञेयम्, ‘नान्वासनात् किञ्चिदिहास्ति कर्म’ इति केचित् पठन्ति| तैलकृत्यमेव सकारणं व्याकरोति- स्नेहेनेत्यादि| तैलं चानुवासने पक्वमेव ज्ञेयम्; अपक्वस्य तु ‘न चामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम्’ (सि.अ.४) इत्यनेन निषिद्धत्वात्| अत्र तैलानिलयोर्विपरीतगुणयोर्मेलके द्रव्यप्रभावात्तैलमेव वातं हन्ति, न वातस्तैलम्; अणुत्वं गुणो यद्यपि तैले वाते चास्ति, तथाऽपीह प्रभावाद्वातसूक्ष्मावयवसम्बद्धं [४०] तैलं स्नेहादिना वातं जयति, तेन समानमप्यणुत्वमिह विरुद्धार्थकार्येवेति| तैलस्य यथोक्तकार्यकर्तृत्वे दृष्टान्तमाह- मूले इत्यादि| मूलदृष्टान्तेन चानुवासनेन साक्षात्तर्पणीयस्य गुदस्य देहमूलत्वं दर्शयति, उक्तं हि पराशरे- “मूलं गुदं शरीरस्य सिरास्तत्र प्रतिष्ठिताः| सर्वं शरीरं पुष्णन्ति मूर्धानं यावदाश्रिताः” इति; तथाऽनुवासनादपि नरो बलवीर्याद्युपेतोऽपत्यवांश्च स्यादित्यर्थः||२९-३१||

स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||
आध्मापने [४१] विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च|
एवम्प्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च बस्तिरिष्टः||३३||
याश्च स्त्रियो वातकृतोपसर्गा [४२] गर्भं न गृह्णन्ति नृभिः समेताः|
क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः [४३] प्रशस्तः परमं च तेषु||३४||


सामान्येन निरूहानुवासनयोर्गुणमाह- स्तब्धाश्च ये इत्यादि| भग्ना इति भग्नकायाः [४४] ; रुग्णा इति सन्धिमुक्ताः| भक्तानभिनन्दने अरोचके| वातकृतोपसर्गा इति वातकृतोपद्रवाः| क्षीणेन्द्रिया इति अतिक्षीणशुक्राः| अत्र शुद्धवातादिष्वनुवासनं, भक्तानभिनन्दनप्रकारेषु च निरूह इत्याद्यर्थोऽनुसरणीयः||३२-३४||

उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्|
तत्प्रत्यनीकौषधसम्प्रयुक्तान् सर्वत्र बस्तीन् प्रविभज्य युञ्ज्यात् [४५] ||३५||


सम्प्रति केषु च कश्च बस्तिरिति प्रश्नस्योतरम्- उष्णाभिभूतेष्वित्यादि| उष्णाभिभूते तथा शीताभिभूते इति वक्तव्ये, येन ‘सर्वत्र’ इति करोति, तेन स्निग्धरूक्षगुरुलध्वभिभूतेऽपि तद्विपरीतौषधसम्पादितो वस्तिर्देय इति दर्शयति||३५||

न बृंहणीयान् विदधीत बस्तीन् विशोधनीयेषु गदेषु वैद्यः|
कुष्ठप्रमेहादिषु मेदुरेषु नरेषु ये चापि विशोधनीयाः||३६||


नित्यविशोधनीयगदानाह- कुष्ठप्रमेहादिष्वित्यादि| अत्र, आदिशब्देनारोचकतन्द्राश्लीपदादीनां ग्रहणम्| मेदुरेष्विति मेदस्विषु||३६||

क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम्|
न मूर्च्छितानां न विशोधितानां येषां च दोषेषु निबद्धमायुः||३७||


क्षीणक्षतानां नेति क्षीणा राजयक्ष्मिप्रभृतयो ज्ञेयाः| विशोधनीयानिति अपकर्षणकारकान्| येषां च दोषेषु निबद्धमायुरिति ये संशोधनहरणमात्रेणैव [४६] प्राणाञ्जहति||३७||

शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च|
ये सन्ति तेषां न हि कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति||३८||
विण्मूत्रपित्तादिमलाशयानां [४७] विक्षेपसङ्घातकरः स यस्मात्|
तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित्||३९||
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके|४०|


बस्तेर्बहुविषयां स्तुतिमाचक्षाणः ‘किङ्गुणो बस्तिः’ इति प्रश्नस्यैवोत्तरं पुनराह- शाखागता इत्यादि| शाखाकोष्ठमर्मगता इत्यनेन त्रिविधशाखादिरोगमर्गो गृहीतः; मर्मजशब्देन हि मध्यमरोगमार्गाश्रयिणां सन्धिजानामपि साहचर्याद्ग्रहणम्; इह मर्मास्थिस्न्धयो हि मध्यमो रोगमार्ग उक्तः| ऊर्ध्वसर्वशब्देन च ऊर्ध्वाधस्तिर्यग्भेदादप्युक्तरोगमार्गत्रयग्रहणम्| सर्वावयवाङ्गजशब्देन च प्रादेशिकसर्वाङ्गभेदादप्युक्तग्रहणम्; वायोः परमिति वायोः परो [४८] न कश्चित् श्रेष्ठ इति यावत्| एतेन यद्यपि कफपित्ते अपि रोगकारणे भवतः, तथाऽपि वायुरेव श्रेष्ठ इत्युच्यते| वायोः श्रेष्ठत्व एव हेतुमाह- विण्मूत्रेत्यादि| पित्तादीत्यत्रादिशब्देन कफस्य ग्रहणं, (न च मलशब्देन कफस्य ग्रहणं [४९] ,) मलशब्देन चेतरधातुमलानां खमलादीनां च ग्रहणम्| आशयशब्देन मलव्यतिरिक्तप्रसादाख्यानामाशयानां धातूनां च ग्रहणम्| विक्षेपसङ्घातकर इति वियोगमेलककरः; एतेन, यस्माद्वायुरेव दोषमलधातूनां संयोगविभागौ करोति, तेन दोषदूष्यविण्मलमेलकरूपनिखिलव्याधिकरणे वायुरेव प्रधानं भवतीति भावः| किंवा आशयशब्दः प्रत्येकं विडादिभिः सम्बध्यते, स्थानेन च स्थानिनो लभ्यन्ते, विडादिसंयोगविभागेनैव च सर्वव्याधिकरणपरिग्रहो भवति| भवत्वेवं वातस्य प्राधान्यमतः किमित्याह- तस्येत्यादि| भेषजमिति प्रधानं भेषजं, यदुक्तं- ‘बस्तिर्वातहराणाम्’ (सू.अ.२५) इति| अतो बस्तावर्धचिकित्सारूपता तथा सर्वचिकित्सारूपता च युक्तैव||३८-३९||-

नाभिप्रदेशं कटिपार्श्वकुक्षिं गत्वा शकृद्दोषचयं विलोड्य [५०] ||४०||
संस्नेह्य कायं सपुरीषदोषः सम्यक् सुखेनैति च यः स बस्तिः [५१] |४१|


तत्र बस्तेः कृताकृतलक्षणानि क्रमेणाह- नाभीत्यादि| विलोड्येति सङ्क्षोभ्य| संस्नेह्य कायमिति वीर्यरूपेण सारेण कायं व्याप्य, उक्तं हि- “वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्” (सु.चि.अ.३५) इति| स्नेहशब्देन च सारोऽभिधीयते; यथा- “देहः स्नेहपरिक्षयात्” (चि.अ.८) इति| सम्यगिति निरवशेषेण| सुखेनेति विकारमकृत्वा||४०||-

प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि||४१||
रोगोपशान्तिः प्रकृतिस्थता च बलं च तत् स्यात् सुनिरूढलिङ्गम्|४२|


तादात्विकबस्तिसम्यग्योगलक्षणमभिधायोत्तरकालभवमाह- प्रसृष्टेत्यादि| ‘आशयलाघवानि’ इत्यत्र ‘आमयलाघवानि’ इति पाठे रोगोपशान्तिरित्यनन्तरं वाशब्दो ज्ञेयः, तेन रोगोपशान्तिरिह निरूहसाध्यविकाराणामुपशान्तिः||४१||-

स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे [५२] शोफः प्रतिश्यायविकर्तिके च||४२||
हृल्लासिका मारुतमूत्रसङ्गः श्वासो न सम्यक् च निरूहिते [५३] स्युः|४३|


स्यादित्यादि बस्त्ययोगलक्षणम्| न सम्यङ्निरूहिते इति अयोगेन निरूहिते||४२||-

लिङ्गं यदेवातिविरेचितस्य भवेत्तदेवातिनिरूहितस्य||४३||


बस्त्यतियोगलक्षणमतिदेशेनाह- लिङ्गमित्यादि||४३||

प्रत्येत्यसक्तं सशकृच्च तैलं रक्तादिबुद्धीन्द्रियसम्प्रसादः [५४] |
स्वप्नानुवृत्तिर्लघुता बलं च सृष्टाश्च वेगाः स्वनुवासिते स्युः||४४||


अनुवासनसम्यग्योगलक्षणमाह- प्रत्येतीत्यादि| असक्तमिति सङ्गं विना| रक्तादयः धातवः| स्वप्नानुवृतिः निद्रानुवृत्तिः| सृष्टा इति अबद्धाः||४४||

अधःशरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च गात्रम् [५५] |
ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासितस्य [५६] ||४५||
हृल्लासमोहक्लमसादमूर्च्छाविकर्तिका चात्यनुवासितस्य|४६|


अध इत्याद्यनुवासनायोगलक्षणम्| रूक्षखरता चात्र शरीरस्यास्नेहनादेव| हृल्लासादि अतियोगलक्षणम्||४५||-

यस्येह यामाननुवर्तते त्रीन् स्नेहो नरः स्यात् स विशुद्धदेहः||४६||
आश्वागतेऽन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन्|४७|


उचितस्नेहप्रत्यागमनकालमाह- यस्येत्यादि| यामानिति प्रहरान्| स विशुद्धदेह इति स अनुवासनप्रयोगसम्यग्योगादनुवासनव्यापत्तिरहित इत्यर्थः| आश्वागते इति शीघ्रं प्रत्यागते, अन्यस्तु विधेय इति तदैवान्यः स्नेहो देयः| पुनः स्नेहदानोपपत्तिमाह- स्नेहो न संस्नेहयति ह्यतिष्ठन्निति||४६||-

त्रिंशन्मताः कर्म [५७] नु बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः||४७||
सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च|
काले [५८] त्रयोऽन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः||४८||
योगे [५९] निरूहास्त्रय एव देयाः स्नेहाश्च पञ्चैव परादिमध्याः|४९|


सम्प्रति सङ्ख्याप्रश्नस्योत्तरविशेषमाह- त्रिंशदित्यादि| कर्मकालयोगसञ्ज्ञा यथाक्रमं त्रिंशत्षोडशाष्टबस्तिसमुदयेषु ज्ञेया| कालस्ततोऽर्धेनेत्यत्र अर्धशब्दो न समप्रतिवचनः [६०] ; तेन त्रिंशदध षोडश भवन्ति| सान्वसना इत्यादिना कर्मादीनां निरूहानुवासनविभागमाह| एकमनुवासनं दत्त्वा दीयन्त इति सान्वसनाः, एवमनुवासनेन प्रत्येकं योगाद् द्वादश निरूहाश्चतुर्विंशतिर्बस्तयो भवन्ति| प्रागिति आरम्मे| परत इति द्वादशनिरूहोत्तरकाले| निरूहान्तरिताश्च षट् स्युरिति निरूहेणान्तरी कृताः, एवं च द्वादश बस्तयः पूरणीयाः| पञ्चैव परादिमध्या इति पञ्च स्नेहा अन्ते मध्ये आदौ च येषां विभक्तास्ते तथा; अत्र चादौ स्नेहद्वयम्, अन्ते च स्नेहद्वयं, निरूहत्रयमध्ये चैकमनुवासनम्, एवं पञ्च स्नेहा भवन्ति| ये तु निरूहदिन एवानुवासनं वदन्ति तन्मते आदावेक एव, अन्तेऽपि दिनान्तरे एकः, एवं पञ्च भवन्ति; एवं कर्मकालयोरपि निरूहदिन एव दिनान्तरे वाऽनुवासनं व्याख्येयम्| अत्र चैकस्नेहान्तरितानां निरूहाणां दाने वातक्षोभो नाशङ्कनीयः, कर्मादिषु निरूहा यापनाबस्तिरूपा दीयन्ते, ते स्निग्धा एवेति कृत्वा न वातक्षोभका भवन्ति| एते च कर्मादयो यद्यपि शास्त्रप्रदेशेषु न व्यवह्रियन्ते, तथाऽपि तद्विद्यव्यवहारार्थमेवेयं कर्मादिसञ्ज्ञा, यथा यमकमहाच्छपानादिसञ्ज्ञा; तेन कर्मादिसञ्ज्ञायाः शास्त्रे व्यवहारादर्शनात् कर्मादिप्रतिपादको ग्रन्थोऽनार्ष इति यदुच्यते, तन्निरस्तम्| कर्मादिसञ्ज्ञा च तन्त्रान्तरेऽप्यस्ति| तथाहि जतूकर्णः- “बस्तयस्त्रिंशत् षोडशाष्टौ च कर्मकलयोगाः; निरूहाः स्नेहान्तरिता द्वादश षट् त्रयः; एकस्नेहारम्भाः पञ्चत्र्येकान्ताः” इति; हारीतेऽपि- “त्रिंशकं कर्म बुधा वदन्ति” इत्याद्युक्तम्| कर्मादीनां प्रयोगं केचिद्वातादिषु वदन्ति||४७-४८||-

त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड्वा वातादिकानामनुवासनीयान् [६१] ||४९||
स्नेहान् प्रदायाशु भिषग्विदध्यात् स्रोतोविशुद्यर्थमतो निरूहान्|५०|


त्रीन् पञ्चेत्यादिना स्नेहनार्थमनुवासनमाह| अत्र ये ‘वातादिकानां’ इति पठन्ति, तेषामादिशब्देन पित्तकफयोरपि ग्रहणं; बहुवचनं तु तद्गुणसंविज्ञानबहुव्रीहिणा वातस्य ग्रहणाद्बहुत्वसङ्ख्यायोगादुपपन्नम्| यथोक्तं कुष्ठनिदाने- ‘वातादिषु प्रदुष्टेषु” (नि.अ.५) इति, तथा कियन्तःशिरसीयेऽपि “वातादीनां रसादीनां” (सू.अ.१७) इति बहुत्वं निर्दिष्टम्| अन्ये तु- ‘वाताधिकानां’ इति पठन्ति| अत्र चतुर्णां षण्णां च स्नेहानां युग्मरूपाणामपि दानमविरुद्धमेव, एतदनुवासनस्य निरूहाङ्गतया स्नेहनार्थं क्रियमाणत्वात्; अयुग्मदानं तु ‘बस्तीनयुग्मान्’ इत्यनेन स्वप्रधानतयाऽनुवासनस्य विहितमिति भिन्नविषयतया न विरोधः; यतः स्नेहनप्रयोजनमनुवासनं स्नेहे भूत एवायुग्मदानेन निवर्तनीयं; किंवा, अयुग्मा तन्त्रतो [६२] व्याख्यानेन सङ्ख्यैवोच्यते, तथाहि- त्रीन्, पञ्च, त्रीन् चतुर इति सप्त, पञ्च चतुर इति नव, पञ्च षडित्येकादश, इति पञ्च विकल्पा इह विधीयन्ते| तन्त्रान्तरे स्नेहस्य युग्मदानमुक्तं, यथा- “रूक्षस्य बहुवातस्य द्वौ त्रीन् वाऽप्यनुवासनान्| दद्यात् स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत्” (सु.चि.अ.३७) इति| स्रोतःशब्देन विबद्धसिराऽभिहिता||४९||-

विशुद्धदेहस्य [६३] ततः क्रमेण स्निग्धं तलस्वेदितमुत्तमाङ्गम्||५०||
विरेचयेत्त्रिर्द्विरथैकशो वा बलं समीक्ष्य त्रिविधं मलानाम्|
उरःशिरोलाघवमिन्द्रियाच्छ्यं [६४] स्रोतोविशुद्धिश्च भवेद्विशुद्धे||५१||
गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते|
शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत्||५२||
स्यात्तर्पणं तत्र मृदु द्रवं च स्निग्धस्य तीक्ष्णं तु पुनर्न योगे|५३|


सम्प्रति क्रमागतशिरोविरेचनस्य कल्पनामसम्यग्योगायेगातियोगलक्षणं चाह- विशुद्धेत्यादि| विशुद्धदेहस्येति एतच्च पञ्चकर्मसम्पादनीयनृविषयत्वं शुद्धिपूर्वकत्वं शिरोविरेचनस्येहोच्यते; तेन वमनादिनाऽशुद्धेऽपि शिरोविरेचनैकसम्पद्यि पुरुषेऽयं क्रमोज्ञेयः| स्निग्धमिति अभ्यङ्गशिरोबस्तिपानादिना| तलस्वेदितमिति हस्ततलस्वेदितम्| त्रिर्द्विरथैकश इति तद्दिन एव दोषाणामुत्कृष्टत्वादिबलत्रैविध्यमपेक्ष्य यथायोग्यतया योज्यम्| इन्द्रियाच्छ्यमिति चक्षुरादीनां स्वविषये पाटवम्| तिमिरं च पश्येदिति तमोव्याप्तं सर्वं पश्येदित्यर्थः| तस्यातियोगायोगयोश्चिकित्सितमनु [६५] वक्तव्यतयाऽनुषङ्गतामाह- स्यात्तर्पणमित्यादि| मृदु द्रवं चेत्यनेनातियोगचिकित्सितम्| तीक्ष्णं तु पुनर्न योगे इति अयोगे शिरोविरेचनस्य पुनस्तीक्ष्णं शिरोविरेचनं देयम्||५०-५२||-

इत्यातुरस्वस्थसुखः प्रयोगो [६६] बलायुषोर्वृद्धिकृदामयघ्नः||५३||


उक्तं पञ्चकर्मप्रयोगमुपसंहरति- इत्यातुरेत्यादि| आतुरस्वस्थसुख इति वचनेन आतुरे आमयस्यापहन्तृतया, स्वस्थे च बलायुर्वृद्धिकर्तृतया यथोक्तपञ्चकर्मप्रयोगः सुखहेतुर्भवतीति ज्ञेयम्| स्वस्थे च पञ्चकर्मप्रवृत्तिः “माधवप्रथमे मासि” (सू.अ.७) इत्यादिना सूत्रस्थाने प्रोक्तैव ज्ञेया||५३||

कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्विः परिहारकालः|५४|


‘कृते कियान् वा परिहारकालः’ इत्यस्योत्तरमाह- कालस्त्वित्यादि| तावान् भवेद्द्विः परिहारकाल इति बस्त्यादिप्रयोगे यावान् कालो व्याप्यते, ततः कालाद्द्विगुणं कालं यावत् परिहार्यत्वेनोक्तं परिहर्तव्यम्| अत्र आदिशब्देन वमनविरेचनशिरोविरेचनानां ग्रहणं, बस्तेस्त्वादौ व्युत्पादनेन प्राधान्यं दर्शयति|५४|

अत्यासनस्थानवचांसि यानं स्वप्नं दिवा मैथुनवेगरोधान्||५४||
शीतोपचारातपशोकरोषांस्त्यजेदकालाहितभोजनं च|५५|


‘किं वर्जनीयं’ इति प्रश्नस्योत्तरम्- अत्यासनेत्यादि| आसनम् उपविष्टावस्थानम्| स्थानम् ऊर्ध्वतया स्थानम्| यानं रथाश्वादिना यानम्| एत आविष्कृततमा इहोक्ताः; तेन क्रोधातिचिन्तनादयो येऽप्युपकल्पनीयादौ वमनादिप्रयोगे निषिद्धास्तेऽपि न सेव्या एव||५४||-

बद्धे प्रणीते विषमं [६७] च नेत्रे मार्गे तथाऽर्शःकफविड्विबद्धे [६८] ||५५||
न याति बस्तिर्न सुखं निरेति दोषावृतोऽल्पो यदि वाऽल्पवीर्यः|५६|


‘प्रणीयमानः’ इत्यादि प्रश्नस्योत्तरं बद्धे इत्यादि| नेत्रे बद्धे विषमं प्रणीते च गुदावयवरुद्धत्वान्न याति| तथा ‘न सुखं निरेति’ इत्यादिना ‘सुचिराच्च केन’ इति प्रश्नस्योत्तरम्| न सुखं निरेतीति चिरेण दुःखं कृत्वा चागच्छतीत्यर्थः| दोषावृत इति दोषेण बलीयसाऽवरुद्धः| अल्प इति अल्पमानः| अल्पवीर्य इति उष्णलवणाद्यभावान्मृदुवीर्यः||५५||-

प्राप्ते तु वर्चोनिलमूत्रवेगे वातेऽतिवृद्धेऽल्पबले [६९] गुदे वा||५६||
अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति बस्तिः|५७|


प्राप्ते चेत्यनेन शीघ्रागमनहेतुमाह| वातेऽतिवृद्धे स्नेहो गुदे वातेन प्रतिहतत्वान्न यात्याशयं, ततः शीघ्रमागच्छति; अल्पबले गुदे स्नेहं धारयितुं न शक्नोति पुरुषः, अल्पबलत्वं गुदस्य संवरणीवलीदार्बल्यात्||५६||-

मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून् [७०] करोति||५७||
स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्|
रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः||५८||
सन्दूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति|५९|


‘साध्याः’ इत्यादि प्रश्नस्योत्तरं- मेदःकफाभ्यामित्यादि| मेदसा कफेन वेति मेदः कफाभ्याम्| अत्र शूलादीन्निरीक्ष्य शुद्धवातभ्रान्त्या स्नेहं प्रयुङ्क्ते, नावरणं जानाति, अत एव ‘अबुधः’ इति कृतम्| अन्यत्राप्युक्तं- “कुपिते मार्गसंरोधान्मेदसा वा कफेन वा| अतिवृद्धेऽनिले नादौ शस्तं स्नेहेन बृंहणम्” इति| अवितर्क्यमाणा इति असम्यग्ज्ञायमानाः| असम्यग्ज्ञायमानत्व एव हेतुमाह- परस्परेणेत्यादि| रोगशब्देनात्र दोषोऽभिप्रेतः| परस्परेण प्रतिबद्धमार्गा अतो दुर्ग्रहा भवन्ति, तथा धातुभिश्च रक्तादिभिः सन्दूषिताः सम्मूर्च्छिताः सन्तो दुर्ज्ञेया भवन्ति, अविज्ञाताश्च स्वैर्भेषजैर्न प्रशमं व्रजन्ति; स्वैर्भेषजैरिति मार्गावरोधादिकारणदोषधात्वन्तरनिरपेक्षकैरेकदोषभेषजैः; तद्धि तथाभूतानां भेषजं यौगिकं न भवत्येव, अतोऽनुपशमो युक्त एवः एवं च दोषाणां परस्परावरोधान् तथा धातुसम्मूर्च्छनविशेषांश्चावगम्यैव व्याधौ प्रपञ्चोऽनुसरणीयः||५७-५८||-

सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्||५९||
मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्|६०|


अथ विज्ञातेऽपि व्याधौ भिषजाऽसम्यक्प्रयोगादिभिर्वर्धमानेऽसिद्धिमाह- सर्वं चेत्यादि| विपरीतकालमिति अनुचितकालकृतम्| मिथ्योपचाराच्चेति भेषजानां तथाऽकरणात्, यथा- भेषजस्य सम्यक्परिणामे सति भोक्तव्यम्| यद्यौगिकं भेषजं तत् सम्यक् प्रयुक्तं सिध्यतीति सिद्धान्तः||५९||-

तत्र श्लोकः-
प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्||६०||
प्रजाहितार्थं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः||६१||


प्रश्नानित्यादिनाऽध्यायार्थं सङ्गृह्णाति| सङ्ग्रहश्च व्यक्तः||६०||-

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्यायः||१||


इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां
सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्यायः||१||

१. ‘साध्या यथास्वं शमनैश्च केचित् कस्माद्गदा न प्रशमं व्रजन्ति’ इति पा.|
२. ‘इत्यग्निवेशो भिषजां वरिष्ठं पप्रच्छ तस्मै स च सर्वमाह’ इति पा.|
३. ‘गुरोर्बुद्धिप्रकाशकः’ इति पा.|
४. ‘इष्टः’ इति पा.|
५. ‘सप्तदिनप्रयुक्तेन स्नेहनं न वृत्तं’ इति पा.|
६. ‘परन्तु’ इति पा.|
७. ‘सप्तदिनानि व्याप्य निवर्त्यतया’ इति पा.|
८. ‘समाषैः’ इति पा.|
९. ‘स्निग्धः’ इति पा.|
१०. ‘प्रसुष्टं’ इति पा.|
११. ‘विगच्छेत्’ इति पा.|
१२. ‘स्निग्धस्य च स्विन्नवतश्च कार्यं विरेचनं योग्यतमं ततश्च| पेयां’ इति पा.|
१३. ‘विदध्यात्’ इति पा.|
१४. ‘उपशान्तस्नेहगुणाय’ इति पा.|
१५. ‘कृताकृतयूषयोरन्यतरेण सहितमन्नम्’ इति पा.|
१६. शिवदाससेनस्तु “पेयाक्रमः समाप्यते, अन्नकालस्तूत्सर्गसिद्धः सायं प्रातश्च” इत्यधिकमाह|
१७. ‘इत्यन्तेन’ इति पा.|
१८. ‘सर्वसहस्तथैव’ इति पा.|
१९. ‘तत् पित्तागमनं च कफागमनानन्तरमेव भवति’ इति पा.|
२०. ‘बलातिहानिः’ इति पा.|
२१. ‘ऊर्जोऽग्निरिति बलवदग्निः’ इति पा.|
२२. ‘स्वेदोऽल्पवह्निर्गुरुगात्रता स्यात्’ इति पा.|
२३. ‘न च वातानुलोम्यमिति वातविबन्ध इत्यर्थः’ इति शिवदाससेनः|
२४. ‘प्रत्यागते मांसरसेन भोज्यः सायं च भुक्तोऽल्पमलोऽनुवास्यः’ इति पा.|
२५. ‘तेन निरूहाङ्गता’ इति पा.|
२६. ‘मांसरसभोजनं’ इति पा.|
२७. ‘प्रत्यागते चाप्युषितस्य काले भोज्यं दिवा सायमतः परं तु| त्र्यहे त्र्यहे वाऽप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं तु’ इति पा.|
२८. ‘द्व्यहे त्र्यहे वाऽप्यथ’ इति पा.|
२९. ‘कर्म नु’ इति पा.|
३०. ‘यथोक्तसङ्ख्यातनिरूहं’ इति, ‘यथोक्तसङ्ख्यान्ते निरूहं’ इति च पा.|
३१. ‘विषमसङ्ख्योपादानं द्विचतुरादिबस्तेरपि मध्यविधया परिग्रहार्थम्’ इति वृन्दमाधवटीकायां श्रीकण्ठदत्तः|
३२. ‘आपक्षात्’ इति पा.|
३३. ‘पक्षपूरणं’ इति पा.|
३४. ‘संसर्जनस्नेहनादीनामनुत्तमविकल्पपरिहारात्’ इति पा.|
३५. ‘विट्श्लेष्मपित्तानिलमूत्रकर्षी स्थिरत्वकृत् शुक्रसुतप्रदश्च’ इति, ‘विट्पित्तखेटानिलमूत्रकर्षी’ इति च पा.|
३६. ‘सर्वगदापह इति मिलितसर्वदोषापहः| किंवा, त्रैदोषिकव्याधिहर इत्यत्र व्याख्या, अन्यथा व्याख्याने तु ‘श्लेष्मपित्तानिलकर्षी’ इत्यनेन पौनरुक्त्यम्’ इति शिवदाससेनः|
३७. ‘नान्वासनात् किञ्चिदिहास्ति कर्म परं विशेषेण समीरणार्ते’ इति पा.|
३८. ‘स्नेहं’ इति पा.|
३९. ‘… मथापि पुष्टिम्’ इति पा.|
४०. ‘वातसूक्ष्मावयवसम्बन्धकारकं’ इति पा.|
४१. ‘आध्मापिते’ इति पा.|
४२. ‘वातकृतोपसर्गाद्गर्भं’ इति पा.|
४३. ‘तेषां च बस्तिः परमः प्रदिष्टः’ इति पा.|
४४. ‘मृष्टकायाः’ इति पा.|
४५. ‘दद्यात्’ इति पा.|
४६. ‘संशोधनहरणग्लान्यैव’ इति पा.|
४७. ‘…मलाचयानां विक्षेपसंहारकरः’ इति पा.|
४८. ‘परेण’ इति पा.|
४९. अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|
५०. ‘निरस्य’ इति, ‘विपोथ्य’ इति च पा.|
५१. नाभिप्रदेशं च कटिं च गत्वा कुक्षिं समालोड्य पुनश्च पृष्ठम्| संस्नेह्य कायं शिथिलांश्च कृत्वा दोषान् पुरीषं ग्रथितं विमथ्य|| स्वसक्तवेगः सपुरीषदोषः प्रत्यागतो बस्तिरिति प्रशस्तः’ इति पा.|
५२. ‘…हृद्गुदकुक्षिलिङ्गे’ इति पा.|
५३. ‘निरूहितस्य’ इति पा.|
५४. ‘वक्रादिशुद्धीन्द्रियसम्प्रसादः’ इति पा.|
५५. ‘वर्चः’ इति पा.|
५६. ‘…न्यनुवासिते स्युः’ इति पा.|
५७. ‘कर्मसु’ इति पा.|
५८. ‘कालस्त्रयोऽन्ते इत’ पा.|
५९. ‘योगो निरूहास्त्रय एव’ इति पा.|
६०. ‘समविभागप्रतिवचनः’ इति पा.|
६१. ‘वाताधिकेभ्यस्त्वनुवासनीयान्’ इति पा.|
६२. अनेकोद्देशे सकृत्प्रवृत्तिस्तन्त्रता|
६३. ‘विशुद्धकायस्य’ इति पा.|
६४. ‘उरःशिरोलाघवमिन्द्रियाणां’ इति पा.|
६५. ‘…श्चिकित्सामन्यवक्तव्यतया’ इति पा.|
६६. ‘प्रयोगे’ इति पा.|
६७. ‘विषमे’ इति पा.|
६८. ‘तथाऽर्शःकफविड्विबन्धे’ इति पा.|
६९. ‘वाते विरु(ब)द्धे’ इति पा.|
७०. ‘सुप्त्यङ्गमर्दश्वयथून्’ इति पा.|

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

Carakasaṁhitā

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

siddhisthānam - 1. kalpanāsiddhiḥ


athātaḥ kalpanāsiddhiṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


kalpasthānānantaraṁ pāriśēṣyādēva siddhisthānamabhidhīyatē| siddhērabhidhāyakaṁ sthānaṁ siddhisthānam| siddhiśabdēna cēha vamanādīnāṁ vamanādyasamyagyōgajanyānāṁ vyāpadāṁ bhēṣajasya sādhyatārūpā siddhirucyatē, ēvambhūtasiddhikāraṇābhidhāyakatayā caitat siddhisthānamucyatē; kiṁvā kāryakāraṇayōrabhēdōpacārāt siddhiśabdēnēha siddhikāraṇānyēva vamanādīnyucyantē, uktaṁ hi “samyakprayōgaṁ caiva karmaṇāṁ vyāpannānāṁ ca vyāpatsādhanāni siddhiṣūpadēkṣyāmaḥ” (sū.a.4) iti| na caivaṁ siddhisthānasañjñāvyutpattyā cikitsāsthānādīnāmapi siddhisthānasañjñāprasaktirudbhāvanīyā, yata iyaṁ sañjñā’traiva yōgarūḍhyā vartatē nānyatra||1-2||

kā kalpanā pañcasu karmasūktā, kramaśca kaḥ, kiṁ ca kr̥tākr̥tēṣu|
liḍgaṁ tathaivātikr̥tēṣu, saṅkhyā kā, kiṅguṇaḥ, kēṣu ca kaśca bastiḥ||3||
kiṁ varjanīyaṁ pratikarmakālē, kr̥tē kiyān vā parihārakālaḥ|
praṇīyamānaśca na yāti kēna, kēnaiti śīghraṁ, sucirācca bastiḥ||4||
sādhyā [1] gadāḥ svaiḥ śamanaiśca kēcit kasmāt prayuktairna śamaṁ vrajanti|
pracōditaḥ [2] śiṣyavarēṇa samyagityagnivēśēna bhiṣagvariṣṭhaḥ||5||
punarvasustantravidāha tasmai sarvaprajānāṁ hitakāmyayēdam|6|


siddhisthānābhidhānē’pi sakalasiddhisthānāpēkṣaṇīyapañcakarmakalpanādyabhidhāyakatayā prādhānyādādau kalpanāsiddhirēvōcyatē| atra ‘kā kalpanā’ ityādīn śiṣyasya dvādaśapraśnānabhinivēśya tān yathākramaṁ vyācaṣṭē praśnānuguṇagurubuddhiprakāśārtham| yaduktaṁ bharadvājēna- “apraduṣṭēna bhāvēna prasannēnāntarātmanā| śiṣyēṇa samyak pr̥ṣṭasya gurōrbuddhiḥ [3] prakāśatē” iti| atra ‘kā kalpanā pañcasu karmasūktā’ iti prathamaḥ praśnaḥ, ‘kramaśca kaḥ’ iti dvitīyaḥ, ‘kiñca kr̥tākr̥tēṣu liṅgaṁ tathaivātikr̥tēṣu’ iti tr̥tīyaḥ, ‘saṅkhyā kā’ iti caturthaḥ, ‘kiṅguṇō bastiḥ’ iti pañcamaḥ, ‘kēṣu ca kaśca bastiḥ’ iti ṣaṣṭhaḥ, ‘kiṁ varjanīyaṁ pratikarmakālē’ iti saptamaḥ, ‘kr̥tē kiyān vā parihārakālaḥ’ ityaṣṭamaḥ, ‘praṇīyamānaśca na yāti kēna bastiḥ’ iti navamaḥ, ‘kēnaiti śīghraṁ’ iti daśamaḥ, ‘sucirācca kēnaiti’ ityēkādaśaḥ, ‘sādhyāḥ’ ityādikō dvādaśaḥ| sādhyā ityādipraśnasya yadyapyavakāśō nāsti, yatō hi nāsādhyā gadāḥ prōktēna yathāsvaṁ kriyamāṇēna bhēṣajēna praśāmyanti, tathā’pyasamyagbhēṣajē ēva yathāsvaṁ bhēṣajābhidhānādayaṁ praśnōbōddhavyaḥ||3-5||-

tryahāvaraṁ saptadinaṁ paraṁ tu snigdhō naraḥ svēdayitavya uktaḥ [4] ||6||
nātaḥ paraṁ snēhanamādiśanti sātmyībhavēt saptadināt paraṁ tu|7|


kalpanāśabdēnēha pañcakarmāṅgakalpanōcyatē, tēna pañcakarmāṅgasnēhasvēdaprayōgamēva prāgāha| tryahāvaramityādi prathamapraśnasyōttaram| tryahāvaramiti tryahēṇa tryahaṁ vā vyāpya kriyamāṇasnēhanēna avaraṁ yathā bhavatīti tryahāvaraṁ snigdhaḥ| saptadinamiti saptadinaṁ vyāpya snigdhḥ| paramiti snēhaprakarṣakālāvadhinā saptadinaṁ vyāpya snigdhaḥ| tataśca kālōtkarṣāt kriyamāṇaśōdhanāṅgasnēhanapakṣē saptadinaṁ yāvat snigdhaḥ, kālāprakarṣapakṣē tu tryahaṁ snigdhaḥ saṁsvēdayitavya ityarthaḥ| uktasaptadinasnēhanakālānatikramaṁ sōpapattikamāha- nātaḥ paramityādi| ataḥ paramiti saptadināt param| kutō nādiśantītyāha- sātmyībhavēdityādi| saptadināt parēṇa kriyamāṇasnēhaḥ saptarātraprayōgēṇa sātmyībhūtatvānna snēhanamadhikaṁ śarīrē karōtītyarthaḥ; tēna yāvanmātrasnēhaprayōgēṇa saptadinōpayuktēna [5] snēhanaṁ vr̥taṁ, sā mātrā sātmyībhūtaiva; adhikamātrā yā sātmyatāṁ na gatā sā saptarātrāt parēṇāpi kartavyaiva; vēdyāstu saptarātrādasnigdhē puruṣē kiñcidviśrāmaṁ kr̥tvā punaradhikamātrayā snēhaṁ prayuñjatē| ētacca tryahasnēhanaṁ saptarātrasnēhanaṁ ca mr̥dukrūrakōṣṭhaviṣayabhēdēna| yaduktaṁ- “mr̥dukōṣṭhastrirātrēṇa snihyatyacchōpasēvayā| snihyati krūrakōṣṭhastu saptarātrēṇa mānavaḥ” (sū.a.13) iti| nanu yadi krūrakōṣṭhastu saptarātrēṇa snihyatīti vyavasthā, tat kathamiha ‘nātaḥ paraṁ snēhanamādiśanti’ ityanēna saptarātrēṇāpyasnēhanamucyatē; brūmaḥ- satyaṁ, krūrakōṣṭhaḥ saptarātrēṇaiva snihyati, paraṁ [6] krūrakōṣṭhatāmapēkṣya kr̥tayā snēhamātrayā snihyati, yadā tu hīnamātrā prayujyatē, tadā saptarātrēṇāpi na snihyati| yattu tantrāntarē- “triṣaṭkanavarātrēṇa snēhapānaṁ vidhīyatē” ityanēna saptarātrādūrdhvamapi snēhanaṁ vihitaṁ, tadācāryānabhimatamēva; kiṁvā, saptarātrādūrdhvamasātmyībhūtādhikamātrāprayōgābhiprāyēṇa tadvarṇanīyam| atra ca saptarātrādūrdhvaṁ snēhaprayōgasya niṣēdhāt, tryahādarvāk prayōgasya vā niṣēdhāt, sadyaḥ snēhaprayōgēṇaikadinēnāpi snēhanamanujānīta iti bruvatē| madhyakōṣṭhāntaraṁ prati snēhanaprakarṣakālō yadyapi nōktaḥ, tathā’pi madhyavidhayā pañcadinēna madhyakōṣṭhasya snēhanaṁ jñēyam| yattu kaiścit ‘mr̥dukōṣṭhaṁ prati tryahādūrdhvaṁ na snēhanaṁ kartavyaṁ sātmyībhāvāditi cārthō labhyatē’ iti vyākhyāyatē, tanna naḥ prīṇāti; yataḥ sātmyībhāvaḥ saptadinanirvartyatayaivācāryēṇōktaḥ [7] , tēnātyalpamātrāprayuktēna snēhēna tryahādyadi na snihyati mr̥dukōṣṭhastadā’dhikadinānyapi tatra snēhaḥ kartavyaḥ||6||-

snēhō’nilaṁ hanti mr̥dūkarōti dēhaṁ malānāṁ vinihanti saṅgam||7||


saṁśōdhanāṅgasnēhaphalamāha- snēhō’nilaṁ hantītyādi||7||

snigdhasya sūkṣmēṣvayanēṣu līnaṁ svēdastu dōṣaṁ nayati dravatvam|8|


snēhapūrvakasvēdaphalamāha- snigdhasyētyādi| sūkṣmēṣviti sūkṣmēṣvapi|8|

grāmyaudakānūparasaiḥ samāṁsairutklēśanīyaḥ [8] payasā ca vamyaḥ||8||
rasaistathā jāṅgalajaiḥ sayūṣaiḥ snigdhaiḥ [9] kaphāvr̥ddhikarairvirēcyaḥ|9|


samprati snigdhasya vāmanīyasya vamanānuguṇaṁ virēcanīyasya ca virēcanānuguṇaṁ bhōjanaṁ pr̥thagāha- grāmyaudakētyādi| rasaistathētyādinā virēcanīyasyāhāravidhānam| atra ca utklēśanīya iti yadā sambandhō bhavēttadā utklēśanaṁ pittasyaiva jñēyaṁ; kiṁvā ‘utklēśanīyaḥ’ iti nānuvartata ēva, tēna kaphāvr̥ddhikarai rasairyūṣaiśca ‘bhōjanīya’ iti śēṣaḥ| ētadvirēcanārthaṁ pratibhōjanaṁ tryahaṁ jñēyaṁ, vamanārthaṁ tu pratibhōjanamēkāhamēva; uktaṁ hi ‘snēhāt praskandanaṁ jantustrirātrōparataḥ pibēt| snēhavaddravamuṣṇaṁ ca tryahaṁ bhuktvā rasaudanam| ēkāhōparatastadvadbhuktvā pracchardanaṁ pibēt” (sū.a.13) iti||8||-

ślēṣmōttaraśchardayati hyaduḥkhaṁ [10] viricyatē mandakaphastu samyak||9||
adhaḥ kaphē’lpē vamanaṁ virēcayēdvirēcanaṁ [11] vr̥ddhakaphē tathōrdhvam|10|


vāmanīyasya ślēṣmōttaratvē kartavyē virēcanīyasya cālpakaphatvē sampādyē upapattimāha- ślēṣmōttara ityādi| uktaviparyayē hētumāha- adha ityādi| kaphē’lpē sati vamanaṁ pītaṁ vamanamakr̥tvaivādhō yāti; vr̥ddhē kaphē tu virēcanaṁ prayuktamūrdhvaṁ yāti, vamanāya sampadyata ityarthaḥ||9||-

snigdhāya [12] dēyaṁ vamanaṁ yathōktaṁ vāntasya pēyādiranukramaśca||10||
snigdhasya susvinnatanōryathāvadvirēcanaṁ yōgyatamaṁ prayōjyam [13] |11|


samprati kramaśca ka iti praśnasyōttaramāha- snigdhāya dēyaṁ vamanamiti; vamanapānadinē’bhyaṅgēna snigdhāya vamanaṁ dēyamityarthaḥ, pānajanitasnēhastu pūrvamēvōktatvānna punarabhidhānamarhati, anyē tu ‘upajātasnēhaguṇāya [14] ’ iti vadanti| yathōktamiti madanakalpōktavidhinā dēyam| vamanānantaraṁ kartavyamāha- vāntasyētyādi| pēyādiḥ “pēyāṁ vilēpī” ityādinā vakṣyamāṇaḥ| vamanakramamabhidhāya virēcanakramamāha- snigdhasyētyādi| susvinnatanōriti samyaksvinnadēhasya| ayaṁ ca virēcanāṅgaḥ snēhasvēdakramō vamanānantarabhāvivirēcanē’pi pēyādikramōttarakālaṁ kartavyaḥ; yaduktaṁ- ‘vilēpyāḥ kramāgataṁ cainaṁ punarēva snēhasvēdābhyāmupapādya virēcayēt’ iti| snēhānantaraṁ ca yattryahaṁ virēcanārthaṁ pratibhōjanaṁ, tadupakramābhidhānānuṣaṅgapratipāditamēvēti na punariha pratipādyatē| yathāvaditi kalpasthanōktavidhinā| yōgyatamamiti śarīradōṣādyapēkṣayā yadvirēcanaṁ yaugikaṁ bhavati taddēyam||10||-

pēyāṁ vilēpīmakr̥taṁ kr̥taṁ ca yūṣaṁ rasaṁ trirdvirathaikaśaśca||11||
kramēṇa sēvēta viśuddhakāyaḥ pradhānamadhyāvaraśuddhiśuddhaḥ|12|


vamanavirēcanōttarabhāvipēyādikramamāha- pēyāṁ vilēpīmityādi| yavāgūḥ bahusikthā| vilēpī viraladravā| uktaṁ hi- ‘sikthakai rahitō maṇḍaḥ, pēyā sikthasamanvitā| yavāgūrbahusikthā syādvilēpī viraladravā’ iti| atra akr̥tayūṣaḥ snēhalavaṇādyasaṁskr̥taḥ, kr̥tayūṣaḥ snēhalavaṇādisaṁskr̥taḥ; ēvaṁ rasē’pi kr̥tākr̥tavyavasthā| yaduktaṁ sūdaśāstrē ‘asnēhalavaṇaṁ sarvamakr̥taṁ kaṭukairvinā| vijñēyaṁ lavaṇasnēhakaṭukaiḥ saṁskr̥taṁ kr̥tam” iti| tririti annakālatrayaṁ vyāpya, dviriti annakāladvayam, ēkaśa iti ēkānnakālam; ētacca trirityādi pratyēkaṁ pēyādibhiḥ sambadhyatē| ētacca trirityādi pakṣatrayaṁ pradhānaśuddhiśuddhādyapēkṣayā yathākramaṁ jñēyam| tēna, pradhānaśuddhiśuddhē pratyēkaṁ triḥ pēyādi kartavyaṁ, tēnānnakālatrayē pēyā, tataḥ parēṇānnakālatrayē vilēpī, tataḥ parēṇānnakālatrayē kr̥tākr̥tayūṣasahitamannaṁ [15] , tatō’pi ca parēṇa kr̥tākr̥tarasēnānnamannakālatrayē dēyam; ēvaṁ dvādaśabhirannakālairvamanadinasāyāhnāt prabhr̥ti saptarātrēṇa pēyādikramaḥ [16] | ayamēva krama upakalpanīyē’pi- “tataḥ sāyāhnē lōhitaśālitaṇḍulānāṁ” ityādinā, yāvat “dvādaśē cānnakālē” (sū.a.15) ityanēnōktaḥ [17] | atra yūṣarasayōstu yadyapi kālavibhāgō na pratipāditastathā’pi yūṣakālatrayē rasakālatrayē ca prathamamakr̥tasya uttarakālē ca kr̥tasya yūṣasya, ēvaṁ rasasyāpi kālavibhāgaḥ kathanīyaḥ| ēvaṁ dviḥpēyādikramastathā ēkaśaśca pēyādikramō varṇanīya iti| ēkakālē tu pēyādikramē yadyapi kr̥tākr̥tayūṣarasayōḥ kālavibhāgō na prāpyatē, tathā’pyēkasminnēva kālē stōkasaṁskārēṇa yūṣarasayōstatra kr̥tākr̥tatvaṁ jñēyam| pradhānaśuddhē bhūridōṣagamanakṣōbhādagnimāndyaṁ sambhavati, tēna tatra pēyādikramaściraṁ kriyata iti jñēyam| pradhānaśuddhyādilakṣaṇaṁ cāgrē vakṣyamāṇam||11||-

yathā’ṇuragnistr̥ṇagōmayādyaiḥ sandhukṣyamāṇō bhavati kramēṇa||12||
mahān sthiraḥ sarvapacastathaiva [18] śuddhasya pēyādibhirantaragniḥ|13|


pēyādikramasya viśōdhanamandīkr̥tāgnērdīpakatvaṁ dr̥ṣṭāntēna darśayannāha- yathētyādi||12||-

jaghanyamadhyapravarē tu vēgāścatvāra iṣṭā vamanē ṣaḍaṣṭau||13||
daśaiva tē dvitriguṇā virēkē prasthastathā dvitricaturguṇaśca|
pittāntamiṣṭaṁ vamanaṁ virēkādardhaṁ kaphāntaṁ ca virēkamāhuḥ||14||
dvitrān saviṭkānapanīya vēgānmēyaṁ virēkē vamanē tu pītam|15|


pradhānaśuddhyādilakṣaṇaṁ prāha- jaghanyētyādi| caturbhirvēgairyacchōdhanaṁ vamanaṁ tajjaghanyaṁ, yattu ṣaḍbhistanmadhyamaṁ, yattvaṣṭabhistat pravaram| virēkē jaghanyē daśa, madhyē tu virēcanē dviguṇā daśaviṁśatirityarthaḥ, pravarē tu virēcanē triguṇā daśa triṁśadityarthaḥ| vēgasaṅkhyāvibhēdēna jaghanyādibhēdamabhidhāya dōṣamānabhēdēnāpi virēcanasya jaghanyamadhyapravaratāṁ yathākramamāha- prasthastathētyādi| dviguṇaḥ prasthō jaghanyē virēcanē, triguṇaśca madhyamē, caturguṇastu pravarē| atra ca prasthaśabdēna sārdhatrayōdaśapalānyucyantē; uktaṁ hi tantrāntarē “vamanē ca virēkē ca tathā śōṇitamōkṣaṇē| sārdhatrayōdaśapalaṁ prasthamāhurmanīṣiṇaḥ” iti| pittāntamiṣṭaṁ vamanaṁ virēkādardhamiti virēkē yanmānaṁ jaghanyamadhyapravaravibhāgē prōktaṁ yathākramaṁ tathā vamanē’pi jaghanyamadhyapravaravibhāgē tadardhaṁ jñēyaṁ, paraṁ tu yat pittāntatvaṁ vamanasya, kaphāntatvaṁ virēkasya, tat trividhaśuddhāvarthāgataṁ jñēyam| yadā caturbhirvēgaiḥ prasthamānē dōṣē gatē pittāntatvaṁ samyagvamanaśuddhijalakṣaṇamupalabhyatē tadā jaghanyā śuddhiḥ, yadā ca virēkē daśabhirvēgērdviprasthamānadōṣagamanē kaphāntatvaṁ virēcanasamyagyōgalakṣaṇamupalabhyatē tadā virēcanasya jaghanyā śuddhirbhavati; ēvaṁ madhyapravaraśuddhāvapi vamanē pittāntatvaṁ, virēcanē kaphāntatvaṁ, samyagyōgalakṣaṇaṁ jñēyam| vēgasaṅkhyādōṣamānābhidhānānantaraṁ samyakśuddhilaiṅgikaśuddhēḥ pittāntatvādilakṣaṇapratipādanārthamihābhidhānaṁ, tēna yaducyatē āntikī, vaigikī, mānikī, laiṅgikī cēti caturvidhā śuddhirihōcyatē vamanavirēcanayōḥ, tadasmākamasammatamēva; kintu laiṅgikī caikā śuddhiḥ| tatra ca pittāntatvaṁ tathā ‘kramātkaphaḥ’ ityādigranthavakṣyamāṇaṁ ca liṅgaṁ vamanē, virēcanē ca kaphāntatvaṁ tathā ‘srōtōviśuddhīndriya’ ityādigranthavakṣyamāṇaṁ ca liṅgaṁ jñēyam| tēna yadatra āṣāḍhavarmaṇā “samyagviśuddhiliṅgaṁ lakṣaṇatō’tha mānācca vēgācca dōṣāgamanāccōktaṁ, kimidaṁ vyastaṁ samastaṁ vā” ityādinā”kṣiptaṁ, tadanabhyupagamanirastamēva| anyēṣāṁ tvatra parihārā vistarabhayānna likhitāḥ| jaghanyādiśuddhitraividhyaṁ cātra jaghanyamadhyōtkr̥ṣṭadōṣaviṣayatayā vyavasthāpanīyam| jaghanyādiśuddhilakṣaṇē’pi yadvēgēna jaghanyādiśuddhilakṣaṇābhidhānaṁ, tat prāyōbhāvitayā jñēyam| dōṣamānabhēdēna jaghanyādimānabhēdaḥ pāramārthikaḥ; tēna yatra vamanē’ṣṭābhirvēgairdviprasthadōṣasrutirbhavati tatra pravaraiva śuddhiḥ, yatra vamanē ṣaḍbhirēva vēgaiḥ sārdhaprasthadōṣasrutirbhavati tatra madhyaiva śuddhi;, yatra ca caturbhirapi vēgairēkaprasthadōṣasrutistatra jaghanyaśuddhirēva; ēvaṁ virēcanēṣvapyudāhāryam| pittapravr̥ttirantē yasmin tat pittāntam, ēvaṁ kaphāntamapi vyākhyēyam| tēna ‘kramāt kaphaḥ pittamathānilaśca’ ityanēna yat samyagvamanalakṣaṇaṁ vaktavyaṁ, tathā ‘prāptiśca viṭpittakaphānilānāṁ’ ityanēna ca samyagvirēcanalakṣaṇaṁ yadvaktavyaṁ, tadanēna sahāviruddhaṁ bhavati| tatra ca yadanilāgamanamantē vaktavyaṁ tat pittāntasya kaphāntasya ca sūcakatayā jñēyaṁ, niḥśēṣakr̥tē hyāśayagatē pittē kaphē ca vāyuḥ kēvalaḥ sarati; tēna ca kēvalavāyusaraṇēna pittāntatā kaphāntatā ca jñāyatē| nanu yadi ‘kramāt kaphaḥ” ityādinaiva granthēnāyamarthō’bhihitastat kathamiha pittāntaṁ ca vamanaṁ, kaphāntaṁ ca virēkamāhuriti kr̥taṁ? būmaḥ- vēgasaṅkhyādōṣamānabhēdapratipādyamānajaghanyādiśuddhitrayē pittāntatvādyanugatipratipādanārthamihābhidhānam; ēvaṁ tadvamanavirēcanasamyagyōgalakṣaṇānabhidhānē hi śiṣyasya prabaladōṣē’pi puruṣē’yōgaśuddhāvēva jaghanyaśuddhigatavēgamānōdayē sati atha pittāntatvādyanudayē jaghanyaśuddhibhramaḥ syāt ēvamnyadapyudāhāryam| vamanē ca virēkē ca yathā dōṣamāpanaṁ kartavyaṁ tadāha- dvitrānityādi| dvitrānityavyavasthitabhāṣaṇēna malabhāgasyāmēyatāṁ darśayati; vamanē tu pītamiti vamanē pītamauṣadhaṁ varjayitvā śēṣō mēyaḥ||13-14||-

kramāt kaphaḥ pittamathānilaśca yasyaiti samyagvamitaḥ sa iṣṭaḥ||15||
hr̥tpārśvamūrdhēndriyamārgaśuddhau tathā laghutvē’pi ca lakṣyamāṇē|16|


samprati ‘kiṁ ca kr̥tākr̥tēṣu’ ityādipraśnasyōttaraṁ yathākramamāha- kramādityādi| kramādityanēna vacanēna yathōktakramalaṅghanēna kaphādyāgamanaṁ na samyagyōgalakṣaṇamiti darśayati; yataḥ kaphādūrdhvaṁ gataṁ yadā pittaṁ bhavati tadā tu pittāgamanē’pi sati na śuddhiḥ, kintu yadaivāmāśayādhōbhāgagataṁ pittaṁ vamanamānayati tadaiva śuddhiḥ, tat pittānayanaṁ ca kaphānayanānantaramēva [19] bhavati; ēvaṁ samyakkr̥tavirēcanalakṣaṇē’pi kramāditipadasyārthō’tra vyākhyēyaḥ||15||-

duścharditē sphōṭakakōṭhakaṇḍūhr̥tkhāviśuddhirgurugātratāṁ ca||16||


duścharditē ityādyayōgakr̥tavamanalakṣaṇam||16||

tr̥ṇmōhamūrcchānilakōpanidrābalādihānirvamanē’ti ca [20] syāt|17|


tr̥ṇmōhētyādyatikr̥tavamanaliṅgam| atrādiśabdēna varṇasvarādigrahaṇam| nidrāhāniścātrānilakōpakr̥taiva|17|

srōtōviśuddhīndriyasamprasādau laghutvamūrjō’gniranāmayatvam||17||
prāptiśca viṭpittakaphānilānāṁ samyagviriktasya bhavēt kramēṇa|18|


srōtōviśuddhītyādi samyagvirēcanalakṣaṇam| ūrjō’gniriti paṭuragniḥ [21] | anāmayatvamiti virēcanajētavyadōṣajanitavikāravyapagamaḥ| prāptiścētyādigranthārthaḥ sthānāntarē vyākhyāta ēva||17||-

syācchlēṣmapittānilasamprakōpaḥ sādastathā’gnērgurutā [22] pratiśyā||18||
tandrā tathā cchardirarōcakaśca vātānulōmyaṁ na ca durviriktē|19|


syādityādyayōgakr̥tavirēkalakṣaṇam| na ca vātānulōmyamityarthaḥ [23] ||18||-

kaphāsrapittakṣayajānilōtthāḥ suptyaṅgamardaklamavēpanādyāḥ||19||
nidrābalābhāvatamaḥpravēśāḥ sōnmādahikkāśca virēcitē’ti|20|


kaphāsrētyādi virēkātiyōgalakṣaṇam| kṣayaśabdaḥ kaphādibhiḥ pratyēkaṁ sambadhyatē||19||-

saṁsr̥ṣṭabhaktaṁ navamē’hni sarpistaṁ pāyayētāpyanuvāsayēdvā||20||
tailāktagātrāya tatō nirūhaṁ dadyātryahānnātibubhukṣitāya|
prasyāgatē dhanvarasēna bhōjyaḥ samīkṣya vā dōṣabalaṁ yathārham||21||
narastatō niśyanuvāsanārhō nātyāśitaḥ syādanuvāsanīyaḥ [24] |22|


vamanavirēcanakalpanāprastāvāgatasamyagyōgādilakṣaṇamabhidhāya bastikalpanāmāha- saṁsr̥ṣṭabhaktamityādi| saptabhirdinaiḥ kr̥tasaṁsarjanakramasyāṣṭamē bhuktamupayuktasya navamē’hni sarpiḥpānamanuvāsanaṁ vā dēyam; atra vikalpadvayē yadi vamanānantaraṁ virēcanaṁ kartavyaṁ tadā navamē’hni sarpiḥpānam, atha virēcanānantaraṁ yadā bastirdēyastadā’nuvāsanaṁ navamē’hni dēyamiti vyavasthā| vamamānantaraṁ navamadivasē sarpiḥ pānaṁ pūrvaṁ nōktaṁ tēnēdānīṁ virēcanānantarakartavyanirūhāṅgānuvāsanasamānakālatayā sarpiḥ pānamapi darśitaṁ, tēna [25] na nirūhāṅgatā sarpiḥpānasya kalpanīyā| navamaśca divasō’tra śōdhanadinamārabhyaiva jñēyaḥ; uktaṁ ca jatūkaṇa- ‘śōdhanānantaraṁ navamē’hni snēhapānamanuvāsanaṁ vā” iti, tathā suśrutē’pyuktaṁ- “virēcanāt saptarātrē gatē jātabalāya ca| kr̥tānnāyānuvāsyāya samyagdēyō’nuvāsanaḥ” (su.ci.a.37) iti| uttarabasticikitsitē ca yaḥ pēyādikramānantaraṁ rasasaṁsarjanakrama uktaḥ, sa sarvakarmāvasānē prakr̥tibhōjanagamanārthaṁ kartavyaḥ, na vamanavirēcanakarmaparisamāptāvēva, tēnēhākr̥tarasasaṁsargasyaiva navamē dinē sarpiḥpānamanuvāsanaṁ cōpapannam| yattu bhadraśaunakē- “saṁsr̥ṣṭabhaktaḥ sumanāḥ snēhapītō dr̥ḍhānalaḥ| saṁśuddhaḥ paratō māsādanuvāsyastatō naraḥ” ityuktaṁ, tat prāganuvāsanaviṣayaṁ rōgaviśēṣaviṣayaṁ vēti naitadviruddhaṁ bhavati; bahūni cātra vyākhyānāni ṭīkākr̥tāmaṅgiri-saindhava-jējjaṭēśvarasēnādīnāṁ santi; anyaistu tadvyākhyānāni dōṣōddhārādēva nirastāni| tailāktagātrāyēti vacanamabhyaṅgēnāpi snēhaprayōgadarśanārtham| svēdastvatra pañcakarmapūrvatayā vihitō’nuktō’pyāyātyēva; yaduktaṁ ‘tānyupasthitadōṣaṇāṁ snēhasvēdōpapādanaiḥ| pañcakarmāṇi kurvīta” (sū.a.2) iti| dadyātryahāditi anuvāsanadinādūrdhvaṁ tryahāt, tēna yathāvakṣyamāṇakramēṇa ēkāhād dvyahādadhikādvā snēhāttadaharvā nirūhō dēyaḥ| nātibubhukṣitāyētyanēna atibubhukṣitasya nirūhō’tiyōgāyōrdhvagamanāya ca bhavatīti sūcayati| tatra dhanvarasēna pratibhōjanaṁ [26] virēcanavadagnimāndyābhāvādbalāvahatvācca yuktamēva; yaduktaṁ bhōjē- “āmastakādviśuddhasya nirūhēṇa rasādikam| kimarthaṁ vihitaṁ bhōjyaṁ saṁsargaśca viriktavat|| virēkaḥ pāvakaṁ hanti tadadhiṣṭhānasamplavāt| na tu bastistathā tasmādyayōnnayati pāvakam’ iti| nirūha ēva dōṣāgnibalāpēkṣayā rasādinā pēyādinā vā bhōjanaṁ darśayannāha- samīkṣya vā dōṣabalaṁ yathārhamiti; balamiti agnibalam| narastata ityādinā nirūḍhasyānuvāsanamāha| niśītyanēna nirūhānantaraṁ taddinē kriyamāṇamanuvāsanaṁ niśyēva kartavyamiti darśayati, na śītē vasantē ca sadyōnirūḍhasya rātrāvēvānuvāsanaṁ na dēyamiti anyē tu niśītyanēna tadaharēva nirūḍhāya sāyamanuvāsanaṁ dēyamiti darśayati, tēna yathāvakṣyamāṇavibhāgēna rātrau divā vā dēyamityāhuḥ| anuvāsanārha iti vacanēna yadi sāmatā mandō vā pāvakō bhavati tadā tadaharanuvāsanaṁ na dēyamiti sūcayati| ata ēva jatūkarṇē dvitīyadivasa ēvānuvāsanamuktaṁ- “tatastryahānnirūhē vyuṣitē bhuktavatō’nuvāsanam” iti; hārītē’pi- “vyuṣṭaṁ rajanyāṁ prasamīkṣya tasmādbalābalaṁ vā’pyanuvāsanīyaḥ” ityuktam| “sadyō nirūḍhō’nuvāsyaḥ syāt” iti vacanaṁ nirūhajanitavātakṣōbhayuktapuruṣaviṣayam||20-21||-

śītē vasantē ca divā’nuvāsyō rātrau śaradgrīṣmaghanāgamēṣu||22||
tānēva dōṣān parirakṣatā yē snēhasya pānē parikīrtitāḥ prāk|23|


niśītyanēna yanniśāsamīpē’nuvāsanaṁ vihitaṁ tadēva kālabhēdēna bhinnakālaṁ darśayannāha- śītē ityādi| śītaśabdēna śiśirahēmantayōrapi grahaṇam| divēti niśāsamīpē divābhāgē, rātrāvapi ca dinasamīpāyāṁ rātrau| dōṣān parirakṣatā dōṣān dr̥ṣṭvā, antaraṁ ca dōṣavarjanēna parirakṣatā; yē snēhasya pānē parikīrtitāḥ snēhādhyāyē- “ślēṣmādhikō divā śītē” (sū.a.13) ityādinā granthēna, ya ēvākālapītasnēhadōṣā bhavanti ta ēva yathōktakālaviparyayakr̥tānuvāsanē’pi dōṣā bhavantītyuktaṁ bhavati| snēhādhyāyē yadvātapittādhikatvādiviśēṣēṇāpi rātrau divā ca snēhapānaṁ vihitaṁ tadihāpi samānanyāyatvādēkadēśābhidhānēnāparaikadēśānumānācca jñēyam||22||-

pratyāgatē cāpyanuvāsanīyē divā pradēyaṁ vyuṣitāya bhōjyam||23||
sāyaṁ ca bhōjyaṁ paratō dvyahē vā tryahē’nuvāsyō’hani pañcamē vā [27] |
tryahē tryahē vā’pyatha [28] pañcamē vā dadyānnirūhādanuvāsanaṁ ca||24||


pratyāgatē cētyādau anuvāsanīyē iti anuvāsanasnēhē| vyuṣitāyēti nirvikāraṁ rātrivyuṣitāya divā bhōjyaṁ dēyaṁ, tathā
sāyaṁ ca bhōjyaṁ dēyam| anuvāsanānantaraṁ punaranuvāsanakālamāha- tryahē vētyādi| atrāpi tryahapañcāhavyavasthā pūrvavat; ayañcānuvāsanakālō nirūhadina ēva dātavyānuvāsanē parijñēyaḥ| anyē tu paṭhanti yat- ‘paratō dvyahē vā tryahē’nuvāsyō’hani pañcamē vā’ iti; vyākhyānayanti ca- paratō dvyahē vā tryahē’nuvāsyō’hani pañcamē vēti; atra tu dvyahē’nuvāsanamatiprabalavātasya, anativr̥ddhavātasya tryahē, pañcamē tu pravr̥ddhakaphapittasyēti vyavasthā| dvitīyadinānuvāsanaṁ hārītē’pyuktaṁ; vacanaṁ hi- “dr̥ṣṭvā’tivr̥ddhaṁ pavanasya rūpaṁ dinē dinē bastimudāharanti” iti; suśrutē’pyuktaṁ- “rūkṣasya bahuvātasya snēhabastiṁ dinē dinē| dadyādvaidyastatō’nyēṣāmagnyābādhabhayātryahāt” (su.ci.a.37) iti| ihāpi ‘rūkṣanityastu” ityādinā, ‘vātārtāśca dinē dinē” (si.a.4) ityantēna dvyahē dānaṁ vidhāsyati, tēna ‘dvyahē vā tryahē vā’ iti pāṭhaḥ sādhuḥ; ‘dvyahaśabdēna cātra dinadvayasambandhamātramucyatē, na dvyahapūraṇaṁ; tēna prathamadivasadattānuvāsanāt prabhr̥ti pūrṇē tr̥tīyē divasē’nuvāsanaṁ prāpnōti’ iti yaducyatē, tannirastam; ēvaṁ tryahē’pi tr̥tīyāhasambandha ēva vivakṣitō jñēya iti||23-24||

ēkaṁ tathā trīn kaphajē vikārē pittātmakē pañca tu sapta vā’pi|
vātē navaikādaśa vā punarvā bastīnayugmān kuśalō vidadhyāt||25||


samprati dōṣabhēdēnānuvāsananiyamamāha- ēkaṁ tathā trīnityādi| ētacca ‘saṅkhyāḥ kati’ iti praśnasyōttaram; aparaṁ saṅkhyāpraśnasyōtaraṁ ‘triṁśanmatāḥ karmasu [29] ’ ityādinā bhaviṣyati| kaphapittayōśca yadyapyanuvāsanaṁ na vihitaṁ, tathā’pi vātānugatakaphapittaviṣayatayaitadbōddhavyam| punarvētyanēna vātē nava ēkādaśa vā kuryāt| ayugmānityanēna dvicatuḥṣaḍādisaṅkhyayā yugmadānaṁ niṣēdhayati, ayugmadānaṁ prabhāvādēvātrōpakārīti maharṣivacanādbōdhyaṁ, yathā- “yugmēṣvahaḥsu putrakāmau saṁvasētām” (śā.a.8) iti; upapattiścātrātiprasaṅgabhītyā na kathitā”cāryēṇa| yattu- “trīn pañca vā”huścaturō’tha ṣaḍ vā” ityādinā yugmabastidānaṁ vakṣyati, tannirūhāṅgatayā snēhanārthakriyamāṇānuvāsanaviṣayayugmabastidānaṁ jñēyam, iha tu pradhānatayā kriyamāṇānuvāsanaviṣayamayugmadānamiti na virōdhaḥ| ētēna, yaduktamāṣāḍhavarmaṇā- “nirūhakāryakāraṇamayugmadānamasminnōktaṁ niṣiddhapūrva ca, yōgasyāntē kramādēkaṁ tathā trīnityādīn snēhān prāha” (?) iti, tannirastaṁ jñēyam| kiñca, ayugmānityanēna punarvētyanēna ca yatrānuvr̥ttyā’nuvāsanaṁ dēyaṁ tatrāyugmakaṁ nirūhāntaritaṁ ca kartavyamityarthaḥ, tēna yathōktasaṅkhyākānnirūhān [30] dattvā yathōktasaṅkhyayā snēhō dēyaḥ| viṣamasaṅkhyōpādānaṁ tu madhyavidhayā’pi dvyahacaturahādigrāhakaṁ bhavati [31] , tēnōttaratra vakṣyamāṇasaṅkhyānuvāsanaṁ na virōdhīti brūtē| jatūkarṇē’pyuktaṁ- “nirūhē vyuṣitē bhuktavatō’nuvāsanaṁ paraṁ dvitīyē’hani pañcamē vā tathaikādaśāhē’pakarṣatō dvitricaturādi(?) vātādiṣūcyatē” iti||25||

narō viriktastu nirūhadānaṁ vivarjayēt saptadinānyavaśyam|
śuddhō nirūhēṇa virēcanaṁ ca taddhyasya śūnyaṁ vikasēccharīram||26||


samprati nirūhavirēcanayōrantarē’vaśyaparihartavyakālamāha- narō viriktastvityādi| avaśyamiti vacanādēkāhasādhyē’pi vyādhāvavaśyaṁ saptadinacchēdaḥ kartavya iti darśayati| yadyapivirēcanānantaraṁ niṣiddha ēva nirūhaḥ pañcakarmīyāyāṁ siddhau, tathā nirūḍhasya virēcanaṁ niṣiddhaṁ, tathā’pi tatkālamēva sa niṣēdhaḥ; tēna tricaturādidinē’pi prasaktinirāsārthamidaṁ vacanam| yattu virēcanānantaraṁ navamē’hnyanuvāsanakālāduttarakālamēva nirūhavidhānaṁ, tēnārvāgbastēḥ prasaktirapi na syādityucyatē; tanna, yatō’nuvāsanaśuddhyapēkṣasaṁsarjanakramasyēyaṁ vidhā, yadā’varaśuddhyā tryahēṇaiva pēyādikramaḥ samāpyatē, tadā caturthadinē’nuvāsanadānāt pañcamē ṣaṣṭhē vā dinē nirūhaḥ prasajjyēta, atastannirāsārthamētadvacanam| nirūhānantaraṁ tu saṁsarjanakramō nāstyēva, tēna tryahaṁ snēhaṁ dattvā virēcanaprasaktirastyēva| saptāhādarvāk saptāhaṁ yāvacca nirūhavirēcanavarjanē hētumāha- taddhyasyētyādi| vikasēditi hiṁsyāt| śūnyamiti pūrvaśōdhanaśūnyaśarīraṁ punaḥ śōdhanāddhiṁsyāditi bhāvaḥ| yattu “āsaptāhādvirēkō [32] vā tataścāpi nirūhaṇam” iti tantrāntarē prōktaṁ, tacca saṁsargavidhayā kriyamāṇasaṁśōdhanakramē jñēyam| tatrāpi ca saptāhapūraṇaṁ [33] saṁsarjanasnēhādīnāmanumatavikalpaparihārād [34] vyākhyēyam||26||

bastirvayaḥsthāpayitā sukhāyurbalāgnimēdhāsvaravarṇakr̥cca|
sarvārthakārī śiśuvr̥ddhayūnāṁ niratyayaḥ sarvagadāpahaśca||27||
viṭślēṣmapittānilamūtrakarṣī [35] dārḍhyāvahaḥ śukrabalapradaśca|
viśvaksthitaṁ dōṣacayaṁ nirasya sarvān vikārān śamayēnnirūhaḥ||28||


‘kiṅguṇō bastiḥ’ itipraśnasyōttaraṁ bastirvayaḥsthāpayitētyādi| ayaṁ cāsthāpanaguṇaḥ, anuvāsanasya tu dēhē nirūhēṇa’ ityādinā granthēna guṇān vakṣyati| vayaḥ sthāpayatīti vayaḥsthāpayitā; vayaḥsthāpanatvaṁ cāsya srōtaḥśuddhikaratvāt| sarvārthakārīti sthiratvāpakarṣādiviruddhārthasyāpi bhēṣajaviśēṣayōgāt| śiśuvr̥ddhayūnāṁ niratyaya ityanēna vamanavirēcanābhyāmutkarṣa ucyatē, tē hi śiśuvr̥ddhayōrniṣiddhē| sarvagadāpahatvaṁ [36] saṁśamanēna jñēyaṁ, sarvān vikārān śamayēdityanēna dōṣasaṁśōdhanadvārā sarvagadāpahatvamucyata iti na paunaruktyaṁ; kiṁvā sarvān vikārāniti sarvāvasthān vikārāniti viśēṣaḥ||27-28||

dēhē nirūhēṇa viśuddhamārgē saṁsnēhanaṁ varṇabalapradaṁ ca|
na tailadānāt paramasti kiñciddravyaṁ viśēṣēṇa samīraṇārtē [37] ||29||
snēhēna raukṣyaṁ laghutāṁ gurutvādauṣṇyācca śaityaṁ pavanasya hatvā|
tailaṁ dadātyāśu manaḥprasādaṁ vīryaṁ [38] balaṁ varṇamathāgnipuṣṭim [39] ||30||
mūlē niṣiktō hi yathā drumaḥ syānnīlacchadaḥ kōmalapallavāgryaḥ|
kālē mahān puṣpaphalapradaśca tathā naraḥ syādanuvāsanēna||31||


dēhē ityādinā’nuvāsanaguṇamāha| nirūhēṇa viśuddhamārgē iti vacanānnirūhaśōdhita ēva mārgē saṁsarjadanuvāsanaṁ yathōktaguṇakartr̥ bhavatīti darśayati| na tailadānādityatra tailaśabdēna snēhōpalakṣaṇēna kēcidghr̥tamapi grāhayanti, kintu tailamēvātra vātaharapradhānatayā brūtē iti yuktaṁ paśyāmaḥ; tathā hyatra auṣṇyācchaityamityuktam, auṣṇyaṁ ca na sarpiṣīti; snēhā majjavarjitā anuvāsanādhikr̥tā apyapradhānatvānnātra ghr̥tamanumanyatē| paramastītyādau dravyamiti kāraṇaṁ, tacca kāraṇamanilapraśamanēna jñēyam, ‘nānvāsanāt kiñcidihāsti karma’ iti kēcit paṭhanti| tailakr̥tyamēva sakāraṇaṁ vyākarōti- snēhēnētyādi| tailaṁ cānuvāsanē pakvamēva jñēyam; apakvasya tu ‘na cāmaṁ praṇayēt snēhaṁ sa hyabhiṣyandayēdgudam’ (si.a.4) ityanēna niṣiddhatvāt| atra tailānilayōrviparītaguṇayōrmēlakē dravyaprabhāvāttailamēva vātaṁ hanti, na vātastailam; aṇutvaṁ guṇō yadyapi tailē vātē cāsti, tathā’pīha prabhāvādvātasūkṣmāvayavasambaddhaṁ [40] tailaṁ snēhādinā vātaṁ jayati, tēna samānamapyaṇutvamiha viruddhārthakāryēvēti| tailasya yathōktakāryakartr̥tvē dr̥ṣṭāntamāha- mūlē ityādi| mūladr̥ṣṭāntēna cānuvāsanēna sākṣāttarpaṇīyasya gudasya dēhamūlatvaṁ darśayati, uktaṁ hi parāśarē- “mūlaṁ gudaṁ śarīrasya sirāstatra pratiṣṭhitāḥ| sarvaṁ śarīraṁ puṣṇanti mūrdhānaṁ yāvadāśritāḥ” iti; tathā’nuvāsanādapi narō balavīryādyupētō’patyavāṁśca syādityarthaḥ||29-31||

stabdhāśca yē saṅkucitāśca yē’pi yē paṅgavō yē’pi ca bhagnarugṇāḥ|
yēṣāṁ ca śākhāsu caranti vātāḥ śastō viśēṣēṇa hi tēṣu bastiḥ||32||
ādhmāpanē [41] vigrathitē purīṣē śūlē ca bhaktānabhinandanē ca|
ēvamprakārāśca bhavanti kukṣau yē cāmayāstēṣu ca bastiriṣṭaḥ||33||
yāśca striyō vātakr̥tōpasargā [42] garbhaṁ na gr̥hṇanti nr̥bhiḥ samētāḥ|
kṣīṇēndriyā yē ca narāḥ kr̥śāśca bastiḥ [43] praśastaḥ paramaṁ ca tēṣu||34||


sāmānyēna nirūhānuvāsanayōrguṇamāha- stabdhāśca yē ityādi| bhagnā iti bhagnakāyāḥ [44] ; rugṇā iti sandhimuktāḥ| bhaktānabhinandanē arōcakē| vātakr̥tōpasargā iti vātakr̥tōpadravāḥ| kṣīṇēndriyā iti atikṣīṇaśukrāḥ| atra śuddhavātādiṣvanuvāsanaṁ, bhaktānabhinandanaprakārēṣu ca nirūha ityādyarthō’nusaraṇīyaḥ||32-34||

uṣṇābhibhūtēṣu vadanti śītāñchītābhibhūtēṣu tathā sukhōṣṇān|
tatpratyanīkauṣadhasamprayuktān sarvatra bastīn pravibhajya yuñjyāt [45] ||35||


samprati kēṣu ca kaśca bastiriti praśnasyōtaram- uṣṇābhibhūtēṣvityādi| uṣṇābhibhūtē tathā śītābhibhūtē iti vaktavyē, yēna ‘sarvatra’ iti karōti, tēna snigdharūkṣaguruladhvabhibhūtē’pi tadviparītauṣadhasampāditō vastirdēya iti darśayati||35||

na br̥ṁhaṇīyān vidadhīta bastīn viśōdhanīyēṣu gadēṣu vaidyaḥ|
kuṣṭhapramēhādiṣu mēdurēṣu narēṣu yē cāpi viśōdhanīyāḥ||36||


nityaviśōdhanīyagadānāha- kuṣṭhapramēhādiṣvityādi| atra, ādiśabdēnārōcakatandrāślīpadādīnāṁ grahaṇam| mēdurēṣviti mēdasviṣu||36||

kṣīṇakṣatānāṁ na viśōdhanīyānna śōṣiṇāṁ nō bhr̥śadurbalānām|
na mūrcchitānāṁ na viśōdhitānāṁ yēṣāṁ ca dōṣēṣu nibaddhamāyuḥ||37||


kṣīṇakṣatānāṁ nēti kṣīṇā rājayakṣmiprabhr̥tayō jñēyāḥ| viśōdhanīyāniti apakarṣaṇakārakān| yēṣāṁ ca dōṣēṣu nibaddhamāyuriti yē saṁśōdhanaharaṇamātrēṇaiva [46] prāṇāñjahati||37||

śākhāgatāḥ kōṣṭhagatāśca rōgā marmōrdhvasarvāvayavāṅgajāśca|
yē santi tēṣāṁ na hi kaścidanyō vāyōḥ paraṁ janmani hēturasti||38||
viṇmūtrapittādimalāśayānāṁ [47] vikṣēpasaṅghātakaraḥ sa yasmāt|
tasyātivr̥ddhasya śamāya nānyadbastiṁ vinā bhēṣajamasti kiñcit||39||
tasmāccikitsārdhamiti bruvanti sarvāṁ cikitsāmapi bastimēkē|40|


bastērbahuviṣayāṁ stutimācakṣāṇaḥ ‘kiṅguṇō bastiḥ’ iti praśnasyaivōttaraṁ punarāha- śākhāgatā ityādi| śākhākōṣṭhamarmagatā ityanēna trividhaśākhādirōgamargō gr̥hītaḥ; marmajaśabdēna hi madhyamarōgamārgāśrayiṇāṁ sandhijānāmapi sāhacaryādgrahaṇam; iha marmāsthisndhayō hi madhyamō rōgamārga uktaḥ| ūrdhvasarvaśabdēna ca ūrdhvādhastiryagbhēdādapyuktarōgamārgatrayagrahaṇam| sarvāvayavāṅgajaśabdēna ca prādēśikasarvāṅgabhēdādapyuktagrahaṇam; vāyōḥ paramiti vāyōḥ parō [48] na kaścit śrēṣṭha iti yāvat| ētēna yadyapi kaphapittē api rōgakāraṇē bhavataḥ, tathā’pi vāyurēva śrēṣṭha ityucyatē| vāyōḥ śrēṣṭhatva ēva hētumāha- viṇmūtrētyādi| pittādītyatrādiśabdēna kaphasya grahaṇaṁ, (na ca malaśabdēna kaphasya grahaṇaṁ [49] ,) malaśabdēna cētaradhātumalānāṁ khamalādīnāṁ ca grahaṇam| āśayaśabdēna malavyatiriktaprasādākhyānāmāśayānāṁ dhātūnāṁ ca grahaṇam| vikṣēpasaṅghātakara iti viyōgamēlakakaraḥ; ētēna, yasmādvāyurēva dōṣamaladhātūnāṁ saṁyōgavibhāgau karōti, tēna dōṣadūṣyaviṇmalamēlakarūpanikhilavyādhikaraṇē vāyurēva pradhānaṁ bhavatīti bhāvaḥ| kiṁvā āśayaśabdaḥ pratyēkaṁ viḍādibhiḥ sambadhyatē, sthānēna ca sthāninō labhyantē, viḍādisaṁyōgavibhāgēnaiva ca sarvavyādhikaraṇaparigrahō bhavati| bhavatvēvaṁ vātasya prādhānyamataḥ kimityāha- tasyētyādi| bhēṣajamiti pradhānaṁ bhēṣajaṁ, yaduktaṁ- ‘bastirvātaharāṇām’ (sū.a.25) iti| atō bastāvardhacikitsārūpatā tathā sarvacikitsārūpatā ca yuktaiva||38-39||-

nābhipradēśaṁ kaṭipārśvakukṣiṁ gatvā śakr̥ddōṣacayaṁ vilōḍya [50] ||40||
saṁsnēhya kāyaṁ sapurīṣadōṣaḥ samyak sukhēnaiti ca yaḥ sa bastiḥ [51] |41|


tatra bastēḥ kr̥tākr̥talakṣaṇāni kramēṇāha- nābhītyādi| vilōḍyēti saṅkṣōbhya| saṁsnēhya kāyamiti vīryarūpēṇa sārēṇa kāyaṁ vyāpya, uktaṁ hi- “vīryēṇa bastirādattē dōṣānāpādamastakāt” (su.ci.a.35) iti| snēhaśabdēna ca sārō’bhidhīyatē; yathā- “dēhaḥ snēhaparikṣayāt” (ci.a.8) iti| samyagiti niravaśēṣēṇa| sukhēnēti vikāramakr̥tvā||40||-

prasr̥ṣṭaviṇmūtrasamīraṇatvaṁ rucyagnivr̥ddhyāśayalāghavāni||41||
rōgōpaśāntiḥ prakr̥tisthatā ca balaṁ ca tat syāt sunirūḍhaliṅgam|42|


tādātvikabastisamyagyōgalakṣaṇamabhidhāyōttarakālabhavamāha- prasr̥ṣṭētyādi| ‘āśayalāghavāni’ ityatra ‘āmayalāghavāni’ iti pāṭhē rōgōpaśāntirityanantaraṁ vāśabdō jñēyaḥ, tēna rōgōpaśāntiriha nirūhasādhyavikārāṇāmupaśāntiḥ||41||-

syādrukchirōhr̥dgudabastiliṅgē [52] śōphaḥ pratiśyāyavikartikē ca||42||
hr̥llāsikā mārutamūtrasaṅgaḥ śvāsō na samyak ca nirūhitē [53] syuḥ|43|


syādityādi bastyayōgalakṣaṇam| na samyaṅnirūhitē iti ayōgēna nirūhitē||42||-

liṅgaṁ yadēvātivirēcitasya bhavēttadēvātinirūhitasya||43||


bastyatiyōgalakṣaṇamatidēśēnāha- liṅgamityādi||43||

pratyētyasaktaṁ saśakr̥cca tailaṁ raktādibuddhīndriyasamprasādaḥ [54] |
svapnānuvr̥ttirlaghutā balaṁ ca sr̥ṣṭāśca vēgāḥ svanuvāsitē syuḥ||44||


anuvāsanasamyagyōgalakṣaṇamāha- pratyētītyādi| asaktamiti saṅgaṁ vinā| raktādayaḥ dhātavaḥ| svapnānuvr̥tiḥ nidrānuvr̥ttiḥ| sr̥ṣṭā iti abaddhāḥ||44||

adhaḥśarīrōdarabāhupr̥ṣṭhapārśvēṣu rugrūkṣakharaṁ ca gātram [55] |
grahaśca viṇmūtrasamīraṇānāmasamyagētānyanuvāsitasya [56] ||45||
hr̥llāsamōhaklamasādamūrcchāvikartikā cātyanuvāsitasya|46|


adha ityādyanuvāsanāyōgalakṣaṇam| rūkṣakharatā cātra śarīrasyāsnēhanādēva| hr̥llāsādi atiyōgalakṣaṇam||45||-

yasyēha yāmānanuvartatē trīn snēhō naraḥ syāt sa viśuddhadēhaḥ||46||
āśvāgatē’nyastu punarvidhēyaḥ snēhō na saṁsnēhayati hyatiṣṭhan|47|


ucitasnēhapratyāgamanakālamāha- yasyētyādi| yāmāniti praharān| sa viśuddhadēha iti sa anuvāsanaprayōgasamyagyōgādanuvāsanavyāpattirahita ityarthaḥ| āśvāgatē iti śīghraṁ pratyāgatē, anyastu vidhēya iti tadaivānyaḥ snēhō dēyaḥ| punaḥ snēhadānōpapattimāha- snēhō na saṁsnēhayati hyatiṣṭhanniti||46||-

triṁśanmatāḥ karma [57] nu bastayō hi kālastatō’rdhēna tataśca yōgaḥ||47||
sānvāsanā dvādaśa vai nirūhāḥ prāk snēha ēkaḥ parataśca pañca|
kālē [58] trayō’ntē puratastathaikaḥ snēhā nirūhāntaritāśca ṣaṭ syuḥ||48||
yōgē [59] nirūhāstraya ēva dēyāḥ snēhāśca pañcaiva parādimadhyāḥ|49|


samprati saṅkhyāpraśnasyōttaraviśēṣamāha- triṁśadityādi| karmakālayōgasañjñā yathākramaṁ triṁśatṣōḍaśāṣṭabastisamudayēṣu jñēyā| kālastatō’rdhēnētyatra ardhaśabdō na samaprativacanaḥ [60] ; tēna triṁśadadha ṣōḍaśa bhavanti| sānvasanā ityādinā karmādīnāṁ nirūhānuvāsanavibhāgamāha| ēkamanuvāsanaṁ dattvā dīyanta iti sānvasanāḥ, ēvamanuvāsanēna pratyēkaṁ yōgād dvādaśa nirūhāścaturviṁśatirbastayō bhavanti| prāgiti ārammē| parata iti dvādaśanirūhōttarakālē| nirūhāntaritāśca ṣaṭ syuriti nirūhēṇāntarī kr̥tāḥ, ēvaṁ ca dvādaśa bastayaḥ pūraṇīyāḥ| pañcaiva parādimadhyā iti pañca snēhā antē madhyē ādau ca yēṣāṁ vibhaktāstē tathā; atra cādau snēhadvayam, antē ca snēhadvayaṁ, nirūhatrayamadhyē caikamanuvāsanam, ēvaṁ pañca snēhā bhavanti| yē tu nirūhadina ēvānuvāsanaṁ vadanti tanmatē ādāvēka ēva, antē’pi dināntarē ēkaḥ, ēvaṁ pañca bhavanti; ēvaṁ karmakālayōrapi nirūhadina ēva dināntarē vā’nuvāsanaṁ vyākhyēyam| atra caikasnēhāntaritānāṁ nirūhāṇāṁ dānē vātakṣōbhō nāśaṅkanīyaḥ, karmādiṣu nirūhā yāpanābastirūpā dīyantē, tē snigdhā ēvēti kr̥tvā na vātakṣōbhakā bhavanti| ētē ca karmādayō yadyapi śāstrapradēśēṣu na vyavahriyantē, tathā’pi tadvidyavyavahārārthamēvēyaṁ karmādisañjñā, yathā yamakamahācchapānādisañjñā; tēna karmādisañjñāyāḥ śāstrē vyavahārādarśanāt karmādipratipādakō granthō’nārṣa iti yaducyatē, tannirastam| karmādisañjñā ca tantrāntarē’pyasti| tathāhi jatūkarṇaḥ- “bastayastriṁśat ṣōḍaśāṣṭau ca karmakalayōgāḥ; nirūhāḥ snēhāntaritā dvādaśa ṣaṭ trayaḥ; ēkasnēhārambhāḥ pañcatryēkāntāḥ” iti; hārītē’pi- “triṁśakaṁ karma budhā vadanti” ityādyuktam| karmādīnāṁ prayōgaṁ kēcidvātādiṣu vadanti||47-48||-

trīn pañca vā”huścaturō’tha ṣaḍvā vātādikānāmanuvāsanīyān [61] ||49||
snēhān pradāyāśu bhiṣagvidadhyāt srōtōviśudyarthamatō nirūhān|50|


trīn pañcētyādinā snēhanārthamanuvāsanamāha| atra yē ‘vātādikānāṁ’ iti paṭhanti, tēṣāmādiśabdēna pittakaphayōrapi grahaṇaṁ; bahuvacanaṁ tu tadguṇasaṁvijñānabahuvrīhiṇā vātasya grahaṇādbahutvasaṅkhyāyōgādupapannam| yathōktaṁ kuṣṭhanidānē- ‘vātādiṣu praduṣṭēṣu” (ni.a.5) iti, tathā kiyantaḥśirasīyē’pi “vātādīnāṁ rasādīnāṁ” (sū.a.17) iti bahutvaṁ nirdiṣṭam| anyē tu- ‘vātādhikānāṁ’ iti paṭhanti| atra caturṇāṁ ṣaṇṇāṁ ca snēhānāṁ yugmarūpāṇāmapi dānamaviruddhamēva, ētadanuvāsanasya nirūhāṅgatayā snēhanārthaṁ kriyamāṇatvāt; ayugmadānaṁ tu ‘bastīnayugmān’ ityanēna svapradhānatayā’nuvāsanasya vihitamiti bhinnaviṣayatayā na virōdhaḥ; yataḥ snēhanaprayōjanamanuvāsanaṁ snēhē bhūta ēvāyugmadānēna nivartanīyaṁ; kiṁvā, ayugmā tantratō [62] vyākhyānēna saṅkhyaivōcyatē, tathāhi- trīn, pañca, trīn catura iti sapta, pañca catura iti nava, pañca ṣaḍityēkādaśa, iti pañca vikalpā iha vidhīyantē| tantrāntarē snēhasya yugmadānamuktaṁ, yathā- “rūkṣasya bahuvātasya dvau trīn vā’pyanuvāsanān| dadyāt snigdhatanuṁ jñātvā tataḥ paścānnirūhayēt” (su.ci.a.37) iti| srōtaḥśabdēna vibaddhasirā’bhihitā||49||-

viśuddhadēhasya [63] tataḥ kramēṇa snigdhaṁ talasvēditamuttamāṅgam||50||
virēcayēttrirdvirathaikaśō vā balaṁ samīkṣya trividhaṁ malānām|
uraḥśirōlāghavamindriyācchyaṁ [64] srōtōviśuddhiśca bhavēdviśuddhē||51||
galōpalēpaḥ śirasō gurutvaṁ niṣṭhīvanaṁ cāpyatha durviriktē|
śirōkṣiśaṅkhaśravaṇārtitōdāvatyarthaśuddhē timiraṁ ca paśyēt||52||
syāttarpaṇaṁ tatra mr̥du dravaṁ ca snigdhasya tīkṣṇaṁ tu punarna yōgē|53|


samprati kramāgataśirōvirēcanasya kalpanāmasamyagyōgāyēgātiyōgalakṣaṇaṁ cāha- viśuddhētyādi| viśuddhadēhasyēti ētacca pañcakarmasampādanīyanr̥viṣayatvaṁ śuddhipūrvakatvaṁ śirōvirēcanasyēhōcyatē; tēna vamanādinā’śuddhē’pi śirōvirēcanaikasampadyi puruṣē’yaṁ kramōjñēyaḥ| snigdhamiti abhyaṅgaśirōbastipānādinā| talasvēditamiti hastatalasvēditam| trirdvirathaikaśa iti taddina ēva dōṣāṇāmutkr̥ṣṭatvādibalatraividhyamapēkṣya yathāyōgyatayā yōjyam| indriyācchyamiti cakṣurādīnāṁ svaviṣayē pāṭavam| timiraṁ ca paśyēditi tamōvyāptaṁ sarvaṁ paśyēdityarthaḥ| tasyātiyōgāyōgayōścikitsitamanu [65] vaktavyatayā’nuṣaṅgatāmāha- syāttarpaṇamityādi| mr̥du dravaṁ cētyanēnātiyōgacikitsitam| tīkṣṇaṁ tu punarna yōgē iti ayōgē śirōvirēcanasya punastīkṣṇaṁ śirōvirēcanaṁ dēyam||50-52||-

ityāturasvasthasukhaḥ prayōgō [66] balāyuṣōrvr̥ddhikr̥dāmayaghnaḥ||53||


uktaṁ pañcakarmaprayōgamupasaṁharati- ityāturētyādi| āturasvasthasukha iti vacanēna āturē āmayasyāpahantr̥tayā, svasthē ca balāyurvr̥ddhikartr̥tayā yathōktapañcakarmaprayōgaḥ sukhahēturbhavatīti jñēyam| svasthē ca pañcakarmapravr̥ttiḥ “mādhavaprathamē māsi” (sū.a.7) ityādinā sūtrasthānē prōktaiva jñēyā||53||

kālastu bastyādiṣu yāti yāvāṁstāvān bhavēddviḥ parihārakālaḥ|54|


‘kr̥tē kiyān vā parihārakālaḥ’ ityasyōttaramāha- kālastvityādi| tāvān bhavēddviḥ parihārakāla iti bastyādiprayōgē yāvān kālō vyāpyatē, tataḥ kālāddviguṇaṁ kālaṁ yāvat parihāryatvēnōktaṁ parihartavyam| atra ādiśabdēna vamanavirēcanaśirōvirēcanānāṁ grahaṇaṁ, bastēstvādau vyutpādanēna prādhānyaṁ darśayati|54|

atyāsanasthānavacāṁsi yānaṁ svapnaṁ divā maithunavēgarōdhān||54||
śītōpacārātapaśōkarōṣāṁstyajēdakālāhitabhōjanaṁ ca|55|


‘kiṁ varjanīyaṁ’ iti praśnasyōttaram- atyāsanētyādi| āsanam upaviṣṭāvasthānam| sthānam ūrdhvatayā sthānam| yānaṁ rathāśvādinā yānam| ēta āviṣkr̥tatamā ihōktāḥ; tēna krōdhāticintanādayō yē’pyupakalpanīyādau vamanādiprayōgē niṣiddhāstē’pi na sēvyā ēva||54||-

baddhē praṇītē viṣamaṁ [67] ca nētrē mārgē tathā’rśaḥkaphaviḍvibaddhē [68] ||55||
na yāti bastirna sukhaṁ nirēti dōṣāvr̥tō’lpō yadi vā’lpavīryaḥ|56|


‘praṇīyamānaḥ’ ityādi praśnasyōttaraṁ baddhē ityādi| nētrē baddhē viṣamaṁ praṇītē ca gudāvayavaruddhatvānna yāti| tathā ‘na sukhaṁ nirēti’ ityādinā ‘sucirācca kēna’ iti praśnasyōttaram| na sukhaṁ nirētīti cirēṇa duḥkhaṁ kr̥tvā cāgacchatītyarthaḥ| dōṣāvr̥ta iti dōṣēṇa balīyasā’varuddhaḥ| alpa iti alpamānaḥ| alpavīrya iti uṣṇalavaṇādyabhāvānmr̥duvīryaḥ||55||-

prāptē tu varcōnilamūtravēgē vātē’tivr̥ddhē’lpabalē [69] gudē vā||56||
atyuṣṇatīkṣṇaśca mr̥dau ca kōṣṭhē praṇītamātraḥ punarēti bastiḥ|57|


prāptē cētyanēna śīghrāgamanahētumāha| vātē’tivr̥ddhē snēhō gudē vātēna pratihatatvānna yātyāśayaṁ, tataḥ śīghramāgacchati; alpabalē gudē snēhaṁ dhārayituṁ na śaknōti puruṣaḥ, alpabalatvaṁ gudasya saṁvaraṇīvalīdārbalyāt||56||-

mēdaḥkaphābhyāmanilō niruddhaḥ śūlāṅgasuptiśvayathūn [70] karōti||57||
snēhaṁ tu yuñjannabudhastu tasmai saṁvardhayatyēva hi tān vikārān|
rōgāstathā’nyē’pyavitarkyamāṇāḥ parasparēṇāvagr̥hītamārgāḥ||58||
sandūṣitā dhātubhirēva cānyaiḥ svairbhēṣajairnōpaśamaṁ vrajanti|59|


‘sādhyāḥ’ ityādi praśnasyōttaraṁ- mēdaḥkaphābhyāmityādi| mēdasā kaphēna vēti mēdaḥ kaphābhyām| atra śūlādīnnirīkṣya śuddhavātabhrāntyā snēhaṁ prayuṅktē, nāvaraṇaṁ jānāti, ata ēva ‘abudhaḥ’ iti kr̥tam| anyatrāpyuktaṁ- “kupitē mārgasaṁrōdhānmēdasā vā kaphēna vā| ativr̥ddhē’nilē nādau śastaṁ snēhēna br̥ṁhaṇam” iti| avitarkyamāṇā iti asamyagjñāyamānāḥ| asamyagjñāyamānatva ēva hētumāha- parasparēṇētyādi| rōgaśabdēnātra dōṣō’bhiprētaḥ| parasparēṇa pratibaddhamārgā atō durgrahā bhavanti, tathā dhātubhiśca raktādibhiḥ sandūṣitāḥ sammūrcchitāḥ santō durjñēyā bhavanti, avijñātāśca svairbhēṣajairna praśamaṁ vrajanti; svairbhēṣajairiti mārgāvarōdhādikāraṇadōṣadhātvantaranirapēkṣakairēkadōṣabhēṣajaiḥ; taddhi tathābhūtānāṁ bhēṣajaṁ yaugikaṁ na bhavatyēva, atō’nupaśamō yukta ēvaḥ ēvaṁ ca dōṣāṇāṁ parasparāvarōdhān tathā dhātusammūrcchanaviśēṣāṁścāvagamyaiva vyādhau prapañcō’nusaraṇīyaḥ||57-58||-

sarvaṁ ca rōgapraśamāya karma hīnātimātraṁ viparītakālam||59||
mithyōpacārācca na taṁ vikāraṁ śāntiṁ nayēt pathyamapi prayuktam|60|


atha vijñātē’pi vyādhau bhiṣajā’samyakprayōgādibhirvardhamānē’siddhimāha- sarvaṁ cētyādi| viparītakālamiti anucitakālakr̥tam| mithyōpacārāccēti bhēṣajānāṁ tathā’karaṇāt, yathā- bhēṣajasya samyakpariṇāmē sati bhōktavyam| yadyaugikaṁ bhēṣajaṁ tat samyak prayuktaṁ sidhyatīti siddhāntaḥ||59||-

tatra ślōkaḥ-
praśnānimān dvādaśa pañcakarmāṇyuddiśya siddhāviha kalpanāyām||60||
prajāhitārthaṁ bhagavān mahārthān samyagjagādarṣivarō’triputraḥ||61||


praśnānityādinā’dhyāyārthaṁ saṅgr̥hṇāti| saṅgrahaśca vyaktaḥ||60||-

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē’prāptē dr̥ḍhabalasampūritē
siddhisthānē kalpanāsiddhirnāma prathamō’dhyāyaḥ||1||


iti śrīcakrapāṇidattaviracitāyāmāyurvēdadīpikāyāṁ carakatātparyaṭīkāyāṁ
siddhisthānē kalpanāsiddhirnāma prathamō’dhyāyaḥ||1||

1. ‘sādhyā yathāsvaṁ śamanaiśca kēcit kasmādgadā na praśamaṁ vrajanti’ iti pā.|
2. ‘ityagnivēśō bhiṣajāṁ variṣṭhaṁ papraccha tasmai sa ca sarvamāha’ iti pā.|
3. ‘gurōrbuddhiprakāśakaḥ’ iti pā.|
4. ‘iṣṭaḥ’ iti pā.|
5. ‘saptadinaprayuktēna snēhanaṁ na vr̥ttaṁ’ iti pā.|
6. ‘parantu’ iti pā.|
7. ‘saptadināni vyāpya nivartyatayā’ iti pā.|
8. ‘samāṣaiḥ’ iti pā.|
9. ‘snigdhaḥ’ iti pā.|
10. ‘prasuṣṭaṁ’ iti pā.|
11. ‘vigacchēt’ iti pā.|
12. ‘snigdhasya ca svinnavataśca kāryaṁ virēcanaṁ yōgyatamaṁ tataśca| pēyāṁ’ iti pā.|
13. ‘vidadhyāt’ iti pā.|
14. ‘upaśāntasnēhaguṇāya’ iti pā.|
15. ‘kr̥tākr̥tayūṣayōranyatarēṇa sahitamannam’ iti pā.|
16. śivadāsasēnastu “pēyākramaḥ samāpyatē, annakālastūtsargasiddhaḥ sāyaṁ prātaśca” ityadhikamāha|
17. ‘ityantēna’ iti pā.|
18. ‘sarvasahastathaiva’ iti pā.|
19. ‘tat pittāgamanaṁ ca kaphāgamanānantaramēva bhavati’ iti pā.|
20. ‘balātihāniḥ’ iti pā.|
21. ‘ūrjō’gniriti balavadagniḥ’ iti pā.|
22. ‘svēdō’lpavahnirgurugātratā syāt’ iti pā.|
23. ‘na ca vātānulōmyamiti vātavibandha ityarthaḥ’ iti śivadāsasēnaḥ|
24. ‘pratyāgatē māṁsarasēna bhōjyaḥ sāyaṁ ca bhuktō’lpamalō’nuvāsyaḥ’ iti pā.|
25. ‘tēna nirūhāṅgatā’ iti pā.|
26. ‘māṁsarasabhōjanaṁ’ iti pā.|
27. ‘pratyāgatē cāpyuṣitasya kālē bhōjyaṁ divā sāyamataḥ paraṁ tu| tryahē tryahē vā’pyatha pañcamē vā dadyānnirūhādanuvāsanaṁ tu’ iti pā.|
28. ‘dvyahē tryahē vā’pyatha’ iti pā.|
29. ‘karma nu’ iti pā.|
30. ‘yathōktasaṅkhyātanirūhaṁ’ iti, ‘yathōktasaṅkhyāntē nirūhaṁ’ iti ca pā.|
31. ‘viṣamasaṅkhyōpādānaṁ dvicaturādibastērapi madhyavidhayā parigrahārtham’ iti vr̥ndamādhavaṭīkāyāṁ śrīkaṇṭhadattaḥ|
32. ‘āpakṣāt’ iti pā.|
33. ‘pakṣapūraṇaṁ’ iti pā.|
34. ‘saṁsarjanasnēhanādīnāmanuttamavikalpaparihārāt’ iti pā.|
35. ‘viṭślēṣmapittānilamūtrakarṣī sthiratvakr̥t śukrasutapradaśca’ iti, ‘viṭpittakhēṭānilamūtrakarṣī’ iti ca pā.|
36. ‘sarvagadāpaha iti militasarvadōṣāpahaḥ| kiṁvā, traidōṣikavyādhihara ityatra vyākhyā, anyathā vyākhyānē tu ‘ślēṣmapittānilakarṣī’ ityanēna paunaruktyam’ iti śivadāsasēnaḥ|
37. ‘nānvāsanāt kiñcidihāsti karma paraṁ viśēṣēṇa samīraṇārtē’ iti pā.|
38. ‘snēhaṁ’ iti pā.|
39. ‘… mathāpi puṣṭim’ iti pā.|
40. ‘vātasūkṣmāvayavasambandhakārakaṁ’ iti pā.|
41. ‘ādhmāpitē’ iti pā.|
42. ‘vātakr̥tōpasargādgarbhaṁ’ iti pā.|
43. ‘tēṣāṁ ca bastiḥ paramaḥ pradiṣṭaḥ’ iti pā.|
44. ‘mr̥ṣṭakāyāḥ’ iti pā.|
45. ‘dadyāt’ iti pā.|
46. ‘saṁśōdhanaharaṇaglānyaiva’ iti pā.|
47. ‘…malācayānāṁ vikṣēpasaṁhārakaraḥ’ iti pā.|
48. ‘parēṇa’ iti pā.|
49. ayaṁ pāṭhō hastalikhitapustakē nōpalabhyatē|
50. ‘nirasya’ iti, ‘vipōthya’ iti ca pā.|
51. nābhipradēśaṁ ca kaṭiṁ ca gatvā kukṣiṁ samālōḍya punaśca pr̥ṣṭham| saṁsnēhya kāyaṁ śithilāṁśca kr̥tvā dōṣān purīṣaṁ grathitaṁ vimathya|| svasaktavēgaḥ sapurīṣadōṣaḥ pratyāgatō bastiriti praśastaḥ’ iti pā.|
52. ‘…hr̥dgudakukṣiliṅgē’ iti pā.|
53. ‘nirūhitasya’ iti pā.|
54. ‘vakrādiśuddhīndriyasamprasādaḥ’ iti pā.|
55. ‘varcaḥ’ iti pā.|
56. ‘…nyanuvāsitē syuḥ’ iti pā.|
57. ‘karmasu’ iti pā.|
58. ‘kālastrayō’ntē ita’ pā.|
59. ‘yōgō nirūhāstraya ēva’ iti pā.|
60. ‘samavibhāgaprativacanaḥ’ iti pā.|
61. ‘vātādhikēbhyastvanuvāsanīyān’ iti pā.|
62. anēkōddēśē sakr̥tpravr̥ttistantratā|
63. ‘viśuddhakāyasya’ iti pā.|
64. ‘uraḥśirōlāghavamindriyāṇāṁ’ iti pā.|
65. ‘…ścikitsāmanyavaktavyatayā’ iti pā.|
66. ‘prayōgē’ iti pā.|
67. ‘viṣamē’ iti pā.|
68. ‘tathā’rśaḥkaphaviḍvibandhē’ iti pā.|
69. ‘vātē viru(ba)ddhē’ iti pā.|
70. ‘suptyaṅgamardaśvayathūn’ iti pā.|