ebooks-esamhita-ecaraka-sutrasthana-arthedashmahamooleeya-adhyaya

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

सूत्रस्थानम् - ३०. अर्थेदशमहामूलीयोऽध्यायः

 

अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||


पारिशेष्यात् किंवा सूत्रस्थानमभिधाय तन्त्रसङ्ग्रहं वक्तुमर्थेदशमहामूलीय उच्यते| अत्र ‘अधिकृत्य कृते ग्रन्थे’ (पा. अ. ४/३/८७) इत्यनुवर्तमाने “अध्यायानुवाकयोर्लुक् च” (पा. अ. ५/२/६०) इति च्छः||१-२||

अर्थे [१] दश महामूलाः समासक्ता [२] महाफलाः|
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||


अर्थे इति हृदये, महामूला इति महद्धृदयं मूलं यासां धमनीनां तास्तथा, समासक्ता इत्याश्रिताः| तस्य हृदयस्य पर्यायानाह- महच्चेत्यादि| महत्सञ्ज्ञा तथा अर्थसञ्ज्ञा च हृदयस्य वैद्यव्यवहारसिद्धा न सर्वत्र शास्त्रान्तरेषु| हृदयस्य यथा यन्महत्त्वं यथा वा अर्थ्यमानत्वेनार्थत्वं तद्धृदयस्याभ्यर्हितत्वात्| अभ्यर्हितत्वमाह- षडङ्गमित्यादि| षडङ्गानि बाहुद्वयजङ्घाद्वयशिरोन्तराधिरूपाणि यस्य तत् षडङ्गमङ्गम्| अङ्गं च षडङ्गादतिरिक्तं समुदायरूपमवयविरूपं वा| अङ्गमिति वक्तव्ये षडङ्गविशेषणं षण्णामङ्गानामपि हृदयाश्रितत्वप्रतिपादनार्थं; किंवा, अङ्गशब्दस्यावयववाचिनो निषेधार्थम्| विज्ञानं [३] च यद्यपि ‘आत्मा च सगुणः’ इति वचनादेव आत्मगुणत्वेन लब्धं, तथाऽप्यात्मगुणेषु प्राधान्यात् पुनः पृथगुच्यते; वचनं हि “सुखं समग्रं विज्ञानं विसर्गे च प्रतिष्ठितम्” इति| इन्द्रियाणि चक्षुरादीनि पञ्च| अर्थपञ्चकं शब्दादि| सगुण इत्यनेन सुखादिग्रहणम्| चेतः मनः| चिन्त्यं मनोविषयः| एते च षडङ्गविज्ञानादयः प्रति प्रति पठिताः [४] प्रत्येकमेवोपादेयत्वेन; तेनात्र कस्यचिदर्थलब्धत्वेनोपादानं कर्तव्यमिति नोद्भावनीयम्, अर्थलब्धो ह्यर्थः साक्षादनभिधीयमानत्वादप्रधानं भवति||३-४||

प्रतिष्ठार्थं [५] हि भावानामेषां हृदयमिष्यते|
गोपानसीनामागारकर्णिकेवार्थचिन्तकैः||५||
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति|६|


अथ कथममी षडङ्गादयो हृदयाश्रयाः, यावता “हृदयं द्व्यङ्गुलं” (वि. ८) इति वक्ष्यति, अङ्गं च षडङ्गाश्रयं महत्, इन्द्रियाण्यपि च स्वाश्रय चक्षुरादिस्थितानि, अर्थाश्च बाह्यद्रव्याश्रयिणः, आत्मा चानाश्रित एव व्यापकः, तद्गुणश्च विज्ञानमात्मन्येवाश्रितं, मनोऽप्यनाश्रितमात्मगतं, चिन्त्यं च ध्येयादि न हृदि, इत्याशङ्क्याह- प्रतिष्ठेत्यादि|- प्रतिष्ठा कार्यकरणाविरोधेनावस्थानम् [६] | भावानामेषामिति षडङ्गादीनाम्| हृदयमिष्यते ‘कारणम्’ इति शेषः| अत्रैव दृष्टान्तमाह गोपानसीनामित्यादि| गोपानस्यः गृहाच्छादनाधारकाष्ठानि [७] | आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनकाष्ठनिबन्धनी लोके ‘आडकम्’ इत्युच्यते| अर्थचिन्तकैरिति हृदयचिन्तकैः| तेन, षडङ्गादीनां हृदयाश्रितत्वं नाधाराधेयभावेन, किं तर्हि तदन्वयव्यतिरेकानुविधायित्वेनेति दर्शितं भवति| हृदयाश्रितत्वं हृदये प्रकृतिस्थे षडङ्गादिभावानां प्रकृतिस्थत्वं, हृदयोपघाते तदुपघात इत्यर्थः| यद्यपि च, आत्मविज्ञानमनसां हृदयाश्रितत्वमाधाराधेयभावादपि कष्टसृष्ट्या पार्यते वक्तुं, तथाऽपि सर्वव्यापकत्वान्नोपादेयमाधारधेयत्वम्| नैवम्, आत्मा ह्यत्र संसारी भोगायतनत्वेनाभिप्रेतः, स च हृदयप्रदेश एव सुखदुःखाद्युपलभत इत्यनुभवसिद्धं, तेन हृदयाश्रित इवात्मा| तथा मनोऽपि प्रायेण हृद्येव तिष्ठति, यत उपरतक्रियं मनो हृद्येव तिष्ठति, तथा ध्याने योगे च हृदिस्थमेव मनो भवति| यदप्युक्तम्- “आत्मस्थे मनसि स्थिरे” (शा. १) इति, तदप्यात्मस्थत्वं मनसो हृदयस्थत्वमेव| एवं ज्ञानसुखदुःखानि च हृदयस्थान्येव लक्ष्यन्ते, तथा ह्यतिचिन्तनात्तथा दुःखावेशाद्वा हृदयमेव पीड्यते, नान्यदङ्गम्| भवत्वनेनाव्यापकेनाश्रयाश्रयिभावेन व्युत्पादितेन [८] | तमेव हृदयोपघाते षडङ्गादिभावोपघातमाह- तस्योपघातादित्यादि| तस्येति हृदयस्य| उपघातः किञ्चिदुपहननम्| भेदादिति महोपघातात्| मरणं च षडङ्गादीनां सर्वेषामेव यथोक्तप्रतिष्ठानाश इति भावः||५||-

यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६||
तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः|
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः [९] ||७||


कथमेतद्भवतीत्याह- यद्धीत्यादि| स्पर्शो विज्ञायतेऽनेनेति स्पर्शं वा विजानातीति स्पर्शविज्ञानं; तस्यैव विशेषणं- धारीति, धारि तु शरीरेन्द्रियसत्त्वात्मसंयोगः; यदुक्तं- “शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्” (सू. १) इति; एतेन यः शरीरादिसंयोगः स्पर्शनेन विजानाति सर्वं ज्ञेयं, यश्चायं शरीरधारणाद्धारीत्युच्यते, स हृदि स्थितः| तेन, तदुपघातान्मूर्च्छा तथा तद्भेदान्मरणं चैतन्याननुवृत्तिलक्षणमुपपन्नम्| स्पर्शो हि द्विविध ऐन्द्रियको मानसश्च, एतत्स्पर्शद्वयं विना न किञ्चिज्ज्ञानं भवति; यदुक्तं- “यश्चैवैन्द्रियकः स्पर्शः स्पर्शो मानस एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः” (शा. १) इति| मानसं च स्पर्शनं शारीरे यथास्थानमेव दर्शयिष्यामः| स्पर्शो विज्ञायत इति निरुक्तिपक्षे तु स्पर्शशब्देन लक्षणया स्पृश्यमानोऽर्थोऽभिप्रेतः, तेन सर्वज्ञेयावरोधः; यं प्राप्यैवार्थमिन्द्रियाणि स्पर्शेनार्थं [१०] प्रकाशयन्ति, यदुक्तं- “स्पृश्यते नानुपादानो नाऽस्पृष्टो वेत्ति वेदनाः” (शा. १) इति| यद्यपि शरीरेन्द्रियसत्त्वात्मसंयोगः शरीरप्रदेशान्तरेऽप्यस्ति, तथाऽपि नासौ शरीरधारणे तथा ज्ञानोत्पत्तौ वा प्रधानं, तदुपघातेऽपि शरीरधारणज्ञानयोर्दृष्टत्वात्; हृद्गतस्तु संयोगः प्रधानं, तदन्वयव्यतिरेकानुविधायित्वात् स्पर्शज्ञानशरीरधारणयोः; तेन सूक्तं- तत्तत्र संश्रितमिति| हृदयाभ्यर्हितत्वे धर्मान्तरमाह- तत् परस्येत्यादि| परस्य श्रेष्ठस्य| एतेन द्विविधमोजो दर्शयति- परमपरं च; तत्राञ्जलिपरिमाणमपरं, यदुक्तं- “तावदेव परिमाणं श्लैष्मिकस्यौजसः” (शा. ७) इति; अल्पप्रमाणं तु परं, यदभिप्रेत्योक्तं- “हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्” (सू. १७) इति, तन्त्रान्तरेऽप्युक्तं- “प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रिताः” इति; किञ्च, सति हि परे चापरे चौजसि ‘परस्य’ इति विशेषणं सार्थकं भवति, नत्वेकरूपे| अर्धाञ्जलिपरिमितस्यौजसो धमन्य एव हृदयाश्रिताः स्थानम्| तथा प्रमेहेऽर्धाञ्जलिपरिमितमेवौजः क्षीयते नाष्टबिन्दुकम्, अस्य हि किञ्चित्क्षयेऽपि मरणं भवति; प्रमेहे तु ओजःक्षये जीवत्येव तावत्; ओजःक्षयलक्षणमप्यर्धाञ्जल्योजःक्षय एव बोद्धव्यम्| ओजःशब्दश्च यद्यपि रसेऽपि वर्तते, यदुक्तं- “रसश्चौजसङ्ख्यातः” (नि. ४) इति, तथा “मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे” (चि. ८) इति; तथाऽपीह सर्वधातुसारमोजोऽभिधीयते| एतच्चौज उपधातुरूपं केचिदाहुः; धातुर्हि धारणपोषणयोगाद्भवति, ओजस्तु देहधारकं सदपि न देहपोषकं, तेन नाष्टमो धातुरोजः| केचित्तु शुक्रविशेषमोजः प्राहुः, तच्च न मनः प्रीणाति| ये तु ब्रुवते- सर्वधातूनां सारसमुदयभूतमोजः, ते रसादिसाररूपतया रसादिभ्योऽभिन्नमोज इति पृथग्धातुत्वेनोपधातुत्वेन वा न निर्देश्यमिति पश्यन्ति; वचनं च- “भ्रमरैः फलपुष्पेभ्यो यथा सञ्चीयते मधु| तद्वदोजः शरीरेभ्यो गुणैः सम्भ्रियते नृणाम्” (सू. १७) इति; अत्र शरीरेभ्य इति धातुभ्यः, गुणैरिति सारभागैः| तत्र चैतन्यसङ्ग्रह इति तत्र हृदि आत्मा चैतन्यस्य स्वविषये प्रसृतस्य सङ्ग्रहणं [११] करोति, तेन प्रसृतं मनो हृदये निगृह्य योगज्ञो भवत्यात्मेत्युक्तं भवति; ततश्च योगस्य मोक्षसाधनत्वेनोपादेयस्यापि हृदयमेव स्थानमिति हृदयमभ्यर्हितं भवति| यस्मादेवङ्गुणं हृदयम्, अतो हृदयं ‘महद्’ इति च, तथा ‘अर्थ’ इति चोच्यते चिकित्सकैः||६-७||

तेन मूलेन महता महामूला मता दश|
ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः||८||


सम्प्रति धमनीनां महामूलत्वं प्रतिपादयति- तेनेत्यादि| तेनेति हृदयेन महता, ‘युक्ताः’ इति शेषः| विधम्यन्ते विसर्पन्ते [१२] ||८||

येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः [१३] |
यदृते सर्वभूतानां जीवितं नावतिष्ठते||९||
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः [१४] |
संवर्तमानं [१५] हृदयं समाविशति यत् पुरा [१६] ||१०||
यस्य [१७] नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम् [१८] |
यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः||११||
तत्फला बहुधा [१९] वा ताः फलन्तीव(ति) महाफलाः|१२|


सम्प्रति धमनीनामुक्तं महाफलत्वं व्युत्पादयन्नाह- येनौजसेत्यादि| येनौजसेति सामान्येन द्विविधमप्योजो ग्राह्यम्| वर्तयन्ति जीवन्ति, वर्तयन्तीति चौरादिको णिच्| प्रीणिता इति तर्पिताः| यत् सारमादौ गर्भस्येति शुक्रशोणितसंयोगे जीवाधिष्ठितमात्रे यत् सारभूतं, तत्रापि तिष्ठति| यत्तद्गर्भरसाद्रस इति गर्भरसाच्छुक्रशोणितसंयोगपरिणामेन कललरूपात्, रस इति सारभूतम्| संवर्तमानं हृदयं समाविशति यत् पुरेति यदा हृदयं निष्पद्यमानं, तदैव व्यक्तलक्षणं सद्धृदयमधितिष्ठति यदित्यर्थः| एतेन, गर्भावस्थात्रयेऽपि तदोजस्तिष्ठतीत्युच्यते; परं गर्भादौ शुक्रशोणितसाररूपतया, कललावस्थायां तु रससाररूपतया, अवयवनिष्पत्तौ तु स्वलक्षणयुक्तमेव भवत्योज इत्योजसः सर्वावस्थाव्यापकत्वेन महत्त्वमुच्यते| यस्य नाशात्तु नाशोऽस्तीति धात्वन्तराक्षयेऽपि सत्योजःक्षये मरणमित्यर्थः| धारीति जीवधारकसंयोगिभ्यः प्रधानत्वात्| शरीररसस्नेह इति शरीरसारसारं; रसशब्दः स्नेहशब्दश्च सारवचनः, तेन शरीररसानां धातूनामपि सार इत्यर्थः| एतच्च प्रकारान्तरेणाभ्यर्हितानेककर्मकथनमोजसोऽभ्यर्हितत्वख्यात्यर्थम्| तत्फला ओजःफला ओजोवहा इति यावत्| एतेन, यथोक्तगुणशालित्वेनौजो महत्; एतद्वहनेन [२०] फलन्तीवेति महाफला धमन्य उक्ताः| द्वितीयां निरुक्तिमाह- बहुधा वा ताः फलन्तीति, ‘ता हृदयाश्रिता दश धमन्यो बहुधा अनेकप्रकारं फलन्तीति’ निष्पद्यन्ते; एतेन, मूले हृदये दशरूपाः सत्यो महासङ्ख्याः शरीरे प्रतानभेदाद्भवन्तीत्युक्तम्||९-११||-

ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः||१२||


धमनीशब्दादिनिरुक्तिमाह- ध्मानादित्यादि| ध्मानात् पूरणाद् वाह्येन रसादिनेत्यर्थः| स्रवणादिति रसादेरेव [२१] पोष्यस्य स्रवणात्| सरणाद् [२२] देशान्तरगमनात्||१२||

तन्महत् ता महामूलास्तच्चोजः परिरक्षता|
परिहार्या विशेषेण मनसो दुःखहेतवः||१३||
हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम्|
तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च||१४||


सम्प्रति हृदिस्थस्य मनसः परिपालनहेतुमाह- तन्महदित्यादि| तन्महदिति षडङ्गादिस्थानं हृदयम्| ता महामूला इति ओजोवहा धमन्यः| तच्चौज इति येनौजसेत्यादिनोक्तगुणमोजः| प्रशमः शान्तिः| ज्ञानं तत्त्वज्ञानम्||१३-१४||

अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनानामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति [२३] |
तत्राहिंसा प्राणिनां प्राणवर्धनानामुत्कृष्टतमं, वीर्यं बलवर्धनानां, विद्या बृंहणानाम्, इन्द्रियजयो नन्दनानां, तत्त्वावबोधो हर्षणानां, ब्रह्मचर्यमयनानामिति [२४] ; एवमायुर्वेदविदो मन्यन्ते||१५||


सेव्यप्रस्तावेन प्राणवर्धनाद्युत्कृष्टान्यहिंसादीन्यप्याह- अथ खल्वित्यादि| एकमिति एकमेव, न द्वितीयमुत्कृष्टतममस्तीत्यर्थः| अयनानामिति मार्गाणाम्| यद्यप्यन्नं प्राणवर्धनं तथाऽप्यहिंसैवोत्कृष्टा, अहिंसया हि धर्मजननात्तत्कृतमविचाल्यं [२५] भवति| यद्यपि मांसं बृंहणप्रधानं, तथाऽपि तच्छरीरमात्रबृंहणं, विद्या तु शरीरमनोबृंहणीयाऽतिरिच्यते||१५||

तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः|
तत्राह- कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्चोक्तानि भवन्तीति||१६||
अत्रोच्यते- तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम्||१७||
बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरुच्यमानं [२६] [२७] वाक्यार्थशो भवत्युक्तम्||१८||
तन्त्रनियतानामर्थदुर्गाणां [२८] पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम्||१९||


आयुर्वेदश्रवणप्रसङ्गेनायुर्वेदनिरुक्त्याऽऽयुषस्तथाऽऽयुर्वेदस्य च निरूपकं प्रकरणं ब्रूते- तत्रेत्यादि| वाक्यश इत्यादि स्वयमेव व्याकरिष्यति| आर्षम् ऋषिकृतम्| तन्त्रं शास्त्रम्| यथाम्नायमुच्यमानमिति यथापाठक्रमेणोच्यमानम्| उदाहरणं दृष्टान्तः; उपनयः सिद्धान्तोपपादितस्य [२९] साधनधर्मस्य साध्ये पुनः कथनं, यथा- तथा चायं धूमवानिति; निगमनं हेतुसाधितसाध्यधर्मकथनं, यथा- तस्मादग्निमानिति| तन्त्रनियतानामिति [३०] तन्त्रगतानाम्| विभावनैरुक्तमिति व्याख्यानैः कथनम्; उक्तमिति भावे ‘क्तः’| अस्योदाहरणं यथा- “शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी” (सू. ७) इत्यत्र ‘इष्टा या चेष्टा’ इत्येतावन्मात्रमुच्यते, तेन द्वितीयचेष्टापदस्य दुर्गस्य व्याकरणं परं भवति||१६-१९||

तत्र चेत् प्रष्टारः स्युः- चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः?, किमायुः?, कस्मादायुर्वेदः?, किमर्थमायुर्वेदः?, शाश्वतोऽशाश्वतो वा?, कति कानि चास्याङ्गानि?, कैश्चायमध्येतव्यः?, किमर्थं च? इति||२०||


इदानीमायुर्वेदविदः प्रश्नेनैव निर्णेतव्या इत्यतः प्रश्नानाह- तत्र चेदित्यादि| कं वेदमुपदिशन्ति ‘आयुर्वेदम्’ इति शेषः||२०||

तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या, वेदो ह्याथर्वणो दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह; चिकित्सा चायुषो हितायोपदिश्यते||२१||


अथर्ववेदे भक्तिः सेवेत्यर्थः; एतेन भिषक्सेव्यत्वेनाथर्ववेदस्यायुर्वेदत्वमुक्तं भवति| आयुर्वेदस्याथर्ववेदाभेदहेतुमाहवेदो हीत्यादि| एतेनैकप्रयोजनत्वादथर्ववेदैकदेश एवायुर्वेद इत्युक्तं भवति||२१||

वेदं चोपदिश्यायुर्वाच्यं [३१] ; तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः||२२||


प्रश्नक्रमेण वेदं प्रतिपाद्यायुरेव प्रतिपादनीयं भवतीत्याह- वेदं चोपदिश्येत्यादि| चेतनानुवृत्तिरिति चैतन्यसन्तानः; एतच्च गर्भावधिमरणपर्यन्तं बोद्धव्यं, तदूर्ध्वं चेतनाननुवृत्तेः; साक्षादनुपलब्धत्वेनैवाननुवृत्तिरिति भावः| न च वाच्यं प्रसुप्तस्य चैतन्यविच्छेदो भवतीति, यतस्तत्रापि ‘सुखमहमस्वाप्सम्’ इत्युत्तरकालीनप्रतिसन्धानदर्शनात् सूक्ष्मज्ञानमस्त्येव| यद्यपि दीर्घञ्जीवितीये शरीरादिसंयोग आयुरित्युक्तं, तथाऽपि तत्कार्यत्वादिह चैतन्यानुवृत्तिः कार्यकारणयोरभेदविवक्षया आयुरुच्यते| अनुबन्धधारिशब्दौ प्रथमाध्याये व्याकृतौ||२२||

तदायुर्वेदयतीत्यायुर्वेदः [३२] ; कथमिति चेत्? उच्यते- स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च; यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः|
तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण||२३||


कस्मादायुर्वेदः? इत्यस्योत्तरं- तदायुरित्यादि| वेदयति बोधयति| ये त्वत्र तन्त्रान्तरे विदेर्लाभादयोऽर्था व्याख्याताः, ते न साक्षात्तदर्थजन्या इतीह नोक्ताः| स्वलक्षणत इत्यादि स्वमयेवोदाहरिष्यति| आयुष्यानायुष्ये आयुःकारणत्वेन आयुःशब्देन वक्तव्ये, तेनायुष्यानायुष्यवेदपक्षे गौणी निरुक्तिः ‘आयुर्वेदः’ इति; अत एवात्र अपिशब्दः कृतः- अतोऽप्यायुर्वेद इति| अनायुष्यमपि च ज्ञातमसेव्यत्वेनाव्यवह्रियमाणमायुः [३३] कारणं भवत्येव, तेनानायुष्यमप्यायुःकारणतया [३४] आयुःशब्दवाच्यं, नात्रापराधः||२३||

तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च|
तत्र [३५] शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य [३६] परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः सुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण||२४||


इहैवेति ‘तत्रायुश्चेतनानुवृत्तिः’ इत्यादिना| तत्र शारीरेत्यादिना सुखमायुरभिधत्ते| पौरुषम् उत्कृष्टं कर्म| ज्ञानविज्ञानेन्द्रियैर्बलशब्दः, इन्द्रियार्थेन च समुदयशब्दः सम्बध्यते; किंवा ज्ञानादिभिः सर्वैरेव समुदयशब्दः सम्बध्यते; किंवा ज्ञानादिभिः सर्वैरेव ‘बलसमुदये’ इति योज्यं; बलस्य समुदयो बलसमुदयः| परमा अत्यर्था ऋद्धिर्यस्य स परमर्द्धिः| समृद्धा निष्पादितसाध्याः सर्वारम्भा यस्य स तथा| हितैषिणो भूतानामिति सम्बन्धः| तत्परस्येति अध्यात्मपरस्य, अध्यात्मम् आत्मादिस्वरूपम्| अमुं चेति परलोकम्||२४||

प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, अयमस्मात् क्षणान्मुहूर्ताद्दिवसात् त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभावः प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः; इत्यायुषः प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणमायुर्वेदे [३७] ||२५||
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च||२६||


विकृतिरूपैर्लक्षणैः विकृतिलक्षणैः; तेषामेव विशेषणम्- अनिमित्तैः; आकस्मिकैः अरिष्टैरित्यर्थः; अनिमित्ता हि विकृतिरर्थेन्द्रियाणामरिष्टम्| तत्रार्थविकृतिर्यथा- “नानापुष्पोपमगन्धो यस्य वाति दिवानिशम्” (इं. २) इत्यादि, इन्द्रियविकृतिर्यथा- “यश्च पश्यत्यदृश्यान्” (इं. ४) इत्यादि, मनोविकृतिर्यथा- “यैः पुरा विन्दते भावैः समेतैः परमां रतिम्| तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत्” (इं.अ.८) इति, बुद्धिविकृतिर्यथा- “बुद्धिर्बलमहेतुकम्” इत्यादि, चेष्टाविकृतिर्यथा- “विकर्षन्निव यः पादौ च्युतांसः परिधावति” (इं. १२) इत्यादि| आदिग्रहणात् परिजनविकृत्यादयो ज्ञेयाः| अत्र च रिष्टप्रस्तावे क्षणादिवर्षान्तकालकथनं वर्षादूर्ध्वं रिष्टजन्यमरणाभावात्| अतो विपरीतमप्रमाणमिति रिष्टहीनं न निश्चितप्रमाणमायुररिष्टाधिकार इत्यर्थः| अन्यदपि चायुःप्रमाणज्ञानमाहदेहप्रकृतीत्यादि [३८] | देहश्च प्रकृतिश्च लक्षणं च देहप्रकृतिलक्षणम्| तत्र देहमधिकृत्यायुःप्रमाणं यथा- “सर्वैः सारैरुपेताः” इत्यारभ्य यावत् “चिरजीविनश्च भवन्ति” (वि. ८) इति; प्रकृतितो यथा- “श्लैष्मिका बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति” (वि. ८) इति; लक्षणतो यथा- “तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति” (शा. ८) इत्यादि| किंवा, देहस्य सहजलक्षणं देहप्रकृतिलक्षणं, तच्च सर्वं सारप्रकृत्यादिलक्षणं बोद्धव्यम्||२५-२६||

सोऽयमायुर्वेदः [३९] शाश्वतो निर्दिश्यते, अनादित्वात्, स्वभावसंसिद्धलक्षणत्वात्, भावस्वभावनित्यत्वाच्च|
न हि नाभूत् [४०] कदाचिदायुषः सन्तानो बुद्धिसन्तानो वा, शाश्वतश्चायुषो वेदिता, अनादि च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरयोगात्|
एष चार्थसङ्ग्रहो विभाव्यते आयुर्वेदलक्षणमिति|
गुरुलघुशीतोष्णस्निग्धरूक्षादीनां [४१] द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां, एवमेवेतरेषामिति, एष भावस्वभावो नित्यः, स्वलक्षणं च द्रव्याणां पृथिव्यादीनां; सन्ति तु द्रव्याणि गुणाश्च नित्यानित्याः|
न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते, अन्यत्रावबोधोपदेशाभ्याम्; एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके|
स्वाभाविकं चास्य लक्षणमकृतकं, यदुक्तमिहाद्येऽध्याये च; यथा- अग्नेरौष्ण्यम्, अपां द्रवत्वम्|
भावस्वभावनित्यत्वमपि चास्य, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति||२७||


अनादित्वादिति हेतुत्रयमत्र| प्रथमस्य विवरणं- न हीत्यादि| इह व्यवहारनित्यत्वमायुर्वेदे साध्यं, तच्चार्थरूपस्यायुर्वेदस्य न शब्दरूपस्य; किंवा, व्यवहारनित्यायुर्वेदार्थाभिधायकस्यायुर्वेदस्य पारम्पर्ययोगान्नित्यत्वं साध्यते| तत्रायुषस्तावदायुर्वेदप्रतिपाद्यस्य नित्यत्वम्| न हि नाभूत् कदाचिदायुःसन्तान इति सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, आयुर्युक्तानां प्राणिनामनुच्छेदादित्यर्थः| एवं बुद्धिसन्तानोऽपि नहि कदाचिन्नाभूदिति योजना| एतेन तस्यापि सन्तानेन नित्यस्यायुषो वेदनमपि नित्यम्| शाश्वतश्चायुषो वेदितेति अनेनायुर्वेदवेदितृनित्यत्वमुक्तम्| एतेन वेद्यवेदनवेदितॄणामनादित्वादायुर्वेदस्य नित्यत्वम्| न चायुःस्वरूपेणैवायुर्वेदविषयः, किं तर्हि रोगादिगृहीतमित्याह- अनादि चेत्यादि| सुखदुःखमिति आरोग्यं सुखं, व्याधिर्दुःखम्| सद्रव्यहेतुलक्षणमिति सहेतुचिकित्सितलिङ्गम| हेतुशब्दो हि द्रव्यशब्देनैव व्याधिकारणस्योक्तत्वात् प्रशमहेतुमाह; केचित्तु ‘सहेतुलक्षणम्’ इति पठन्ति, तत्रापि हेतुशब्देन जनकः शमकश्च रोगहेतुर्वाच्यः; यदि वा सुखहेतुर्भेषजं दुःखहेतुश्च निदानमिति ज्ञेयं, लक्षणं च व्याध्यारोग्ययोरुभयोरपि; एतेन दुःखं तावत् कदाचिदप्यजिहासितं न भवति, जिहासितमनुपायं न भवति, उपायश्चायुर्वेद एव, स च सर्वदुःखपरिहारार्थमुपादेयः; तस्माद्दुःखप्रशमनोपायोपदेशरूपायुर्वेदस्यानादितेति भावः| एवं सुखस्य नित्योपादेयस्यानादित्वं ज्ञेयं, तदुपायस्यायुर्वेदस्य च| कथमनादि सुखदुःखमित्याह- अपरापरयोगादिति; सन्तानादित्यर्थः| स्वभावसंसिद्धलक्षणत्वं द्वितीयं हेतुमाह- एव चेत्यादि| एष इति आयुर्बुद्धिवेदितृसुखदुःखानि| अर्थसङ्ग्रहः अभिधेयसङ्ग्रहः; एतेन आयुरादिरायुर्वेदप्रतिपाद्य इति दर्शयति| अयं चायुरादिरत्रायुर्वेदलक्षणमिति विभाव्यते ज्ञायत इत्यर्थः| आयुरादिनाऽभिधेयेनायुर्वेदो लक्ष्यते, वचनं हि- “हिताहितं सुखं दुःखं” (सु. १) इत्याद्यायुर्वेदलक्षणम्| एतेन, आयुरादेरर्थस्यायुर्वेदलक्षणस्यानादितया यथोक्तया स्वभावसंसिद्धलक्षणत्वं व्याकृतं भवति| स्वभावसंसिद्धमिति [४२] सर्वदा सन्तानन्यायेन सिद्धत्वमभिप्रेतम्| भावस्वभावनित्यत्वादिति तृतीयं हेतुं व्याकरोति- गुर्वित्यादि| गुरुलघुस्निग्धरूक्षशीतोष्णादीनां द्रव्याणां सामान्यविशेषाभ्यां यथाक्रमं वृद्धिह्रासौ भवतः| तदेव पूर्वोक्तं घटयति- गुरुभिरित्यादिना एवमेवेतरेषामित्यन्तेन| एवमेवेतरेषामिति [४३] लघुभिरभ्यस्यमानैर्लघूनामुपचयो भवति, अपचयो गुरूणामित्यादि द्रष्टव्यम्| एष इत्येवम्प्रकारः; भावस्वभावो नित्य इति नैष सामान्यविशेषाभ्यां वृद्धिह्रासरूपो भावस्वभावः कदाचिदन्यथा भवतीत्यर्थः| न केवलमयं भावस्वभावो नित्यः, किन्तर्ह्यन्योऽपीत्याह- स्वलक्षणं चेत्यादि| स्वलक्षणं पृथिव्यादीनां खरद्रवत्वादि| कथं पृथिव्यादिस्वलक्षणं नित्यमित्याह- सन्ति त्वित्यादि| द्रव्याणि यस्मात् सर्वदा सन्ति, गुणाश्च नित्याः सन्ति सर्वदा, चकाराद्द्रव्याणि चानित्यानि सन्ति| तत्राकाशादि द्रव्यं नित्यं, पृथिव्यादि कार्यं चानित्यम्| एवङ्गुणा आकाशपरिमाणादयो नित्याः, अनित्याश्र कार्यगुणा रसादयः, अनित्या अपि च सजातीयापरापरसन्तानन्यायेन सर्वदा तिष्ठन्तीति युक्तमनित्यानामपि सन्ताननित्यत्वमिति भावः| अत्र भावस्वभावनित्यत्वेन हेतुना भावस्वभावस्य व्याधिजनकस्य तथा व्याधिप्रशमकस्य नित्यत्वेन तत्प्रतिपादकस्यायुर्वेदस्यापि नित्यत्वमुक्तं भवतीति मन्तव्यम्| अथायुर्वेदस्य यत्र तत्रोत्पत्तिश्रवणात् कथं नित्यत्वमित्याह- न ह्यायुर्वेदस्येत्यादि| अभूत्वोत्पत्तिः पूर्वमसत उत्पत्तिः| अन्यत्रावबोधोपदेशाभ्यामिति यत्र यत्रायुर्वेदस्योत्पत्तिरुक्ता, तत्र तत्रावबोधादुपदेशाद्वा; अवबोधादुत्पत्तिर्यथा- ब्रह्मण आयुर्वेदोत्पत्तिः, उपदेशाच्चोत्पत्तिर्यथा- इन्द्रोपदेशाद्भरद्वाजेन मर्त्यलोके आयुर्वेद उत्पादित इत्यादि| एतद्द्वयमिति अवबोधोपदेशौ [४४] | ननु, स्वभावसंसिद्धलक्षणत्वादिति यो हेतुरुक्तः, तत्र स्वाभाविकं च लक्षणं भविष्यत्यनित्यं च, यथा- घटे कम्बुग्रीवाकारतादि, न हि तत् स्वाभाविकमपि घटस्य नित्यतां साधयतीत्याह- स्वाभाविकं चेत्यादि| अकृतकमिति नास्मदादिना [४५] कृतम्| यदुक्तमिह- ‘स्वलक्षणतः सुखासुखतः’ इत्यादिना, आद्ये चाध्याये दीर्घञ्जीवितीये “हिताहितं सुखं दुःखं” (सू. १) इत्यादिना| अत्रैवाकृतकत्वे दृष्टान्तमाह- यथाऽग्नेरौष्ण्यमित्यादि| एतेन स्वलक्षणस्याकृतकत्वेन व्यवहारनित्यत्वात्तत्प्रतिपादकस्यायुर्वेदस्यापि व्यवहारनित्यत्वमिति भावः| न केवलं स्वाभाविकं लक्षणमकृतकं, किं तर्हि भावस्वभावनित्यत्वमपि न केनचिदीश्वरादिना कृतमित्याह- भावस्वभावनित्यत्वमपि चेति; अकृतकमिति चकारेणानुकर्षति| तदेव भावस्वभावनित्यत्वं दर्शयति- यथोक्तमित्यादि| सामान्यविशेषकृतवृद्धिह्रासकारको(णो)ऽपि भावस्वभावो न केनचित् कृत इत्यर्थः, ततश्चायुर्वेदोऽपि नित्यः||२७||

तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा- कायचिकित्सा [४६] , शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, वाजीकरणमिति||२८||


सम्प्रति कानि चेत्यादिप्रश्नस्योत्तरं- तस्येत्यादि| कायस्यान्तरग्नेश्चिकित्सा कायचिकित्सा| पटलवेधशलाकाप्रधानमङ्गं शालाक्यम्| गरः कालान्तरप्रकोपि विषं, वैरोधिकं संयोगविरुद्धम् [४७] | भूतानां राक्षसादीनां ज्ञानार्था प्रशमार्था च विद्या भूतविद्या| कुमारस्य भरणमधिकृत्य कृतं कौमारभृत्यम्||२८||

स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः|
तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैः, आरक्षार्थं [४८] राजन्यैः, वृत्त्यर्थं वैश्यैः; सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः|
तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति, यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थः; यत् पुनरस्य विद्वद्ग्रहणयशः [४९] शरण्यत्वं च, या च सम्मानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः|
इति यथाप्रश्नमुक्तमशेषेण||२९||


आरक्षार्थं राजन्यैरिति क्षत्रियस्य परिपालनधर्मत्वात्| अनुध्यायति मनसा चिन्तयति| वेदयतीति अन्यस्य प्रतिपादयति| अनुविधीयत इति तदनुगुणं [५०] देहेनानुतिष्ठति| आरक्षणम् आत्मादिरक्षणम्| स्वपरिगृहीतानामिति भृत्यादीनाम्| विद्वद्ग्रहणमेव यशः विद्वदुपादेयताजन्यं यश इत्यर्थः| इष्टानामिति वनितादीनाम्||२९||

अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं, प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति [५१] ||३०||


भिषक्परीक्षार्थं पृच्छाविधिमाह- अथेत्यादि||३०||

तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् [५२] ||३१||
तन्त्रार्थः [५३] पुनः स्वलक्षणैरुपदिष्टः|
स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः, तानि च प्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण||३२||


तत्रेत्यादि| स्वलक्षणैरिति तदायुर्वेदयतीत्यायुर्वेदः, इत्यादिना हिताहितायूरूपैरित्यर्थः| प्रकरणैरिति आयुर्वेदप्रदेशैः| दशप्रकरणानि दशभेदाः, ते च शरीरादयो दश| तत्र शरीरं पञ्चमहाभूतविकारसमुदयात्मकमवयवादिभेदाद्बहुप्रकारं; वृत्तिश्चाहारोऽशितपीतादिभेदभिन्ना(न्नः); हेतुस्तु व्याधिहेतुरसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणः; व्याधिश्च धातुवैषम्यरूपः; कर्म चिकित्सा; कार्यम् आरोग्यं; कालः ऋत्वादिः, क्रियाकालश्च; कर्ता भिषक्; करणं भेषजं; विधिः विधानम् उपकल्पना, सा च कालव्याधिद्रव्यापेक्षा बोद्धव्या, यथा- “हेमन्तेऽभ्यसतस्तोयमुष्णमायुर्न हीयते” (सू. ६) इत्यादि; देशस्त्वत्राहितो हेतुग्रहणेन, हितस्तु देशः करणग्रहणेन गृहीतो मन्तव्यः [५४] | शरीरवृत्त्यादिभेदाश्च बहवः कृत्स्ने तन्त्रे बुद्धिमता बोद्धव्याः| केवलेनेति समग्रेण||३१-३२||

तन्त्रस्यास्याष्टौ स्थानानि [५५] ; तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि|
तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, त्रिंशकं चिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः||३३||


तन्त्रस्यास्येत्यादि| इन्द्रियाणां चिकित्सितानां चेत्युभयत्रापि स्थानमिति शेषः||३३||

भवति चात्र-
द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता|
श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसञ्ज्ञकेषु||३४||


त्रिंशके इति सूत्रस्थानं चिकित्सितं च| आश्रयसञ्ज्ञकं शारीरस्थानम्, आश्रयो हि शरीरमुच्यते||३४||

स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते|
सविंशमध्यायशतं शृणु नामक्रमागतम्||३५||


सविंशमिति विंशतिशब्दात् स्वार्थे ‘डः’, स्वार्थिकश्च ‘डः’ प्रत्ययो भवति; तेन ललितेश्वरे च- “चतुर्विंशाधिकं” इति प्रयोगः सिद्धो भवति; वचनं हि “चतुर्विंशाधिकं ज्ञेयं भुवनानां शतत्रयम्” इति| एवं सुश्रुतेऽपि ‘सविंशं’ (सु.सू.अ.१) इति व्याख्येयम्||३५||

दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ|
षड्विरेकाश्रयश्चेति [५६] चतुष्को भेषजाश्रयः||३६||
मात्रातस्याशितीयौ च नवेगान्धारणं तथा|
इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः [५७] ||३७||
खुड्डाकश्च चतुष्पादो महांस्तिस्रैषणस्तथा|
सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः||३८||
स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः|
चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पनाः||३९||
कियन्तःशिरसीयश्च त्रिशोफाष्टोदरादिकौ|
रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम्||४०||
अष्टौनिन्दितसङ्ख्यातस्तथा लङ्घनतर्पणे|
विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः||४१||
यज्जःपुरुषसङ्ख्यातो भद्रकाप्यान्नपानिकौ|
विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः||४२||
दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः|
द्वावेतौ प्राणदेहार्थौ प्रोक्तौ वैद्यगुणाश्रयौ||४३||
औषधस्वस्थनिर्देशकल्पनारोगयोजनाः|
चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः||४४||
द्वौ चान्त्यौ सङ्ग्रहाध्यायाविति त्रिंशकमर्थवत्|
श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् [५८] ||४५||
चतुष्काणां महार्थानां स्थानेऽस्मिन् सङ्ग्रहः कृतः|
श्लोकार्थः सङ्ग्रहार्थश्च श्लोकस्थानमतः स्मृतम्||४६||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः|
शोषोन्मादनिदाने च स्यादपस्मारिणां च यत्||४७||
इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते|
रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च||४८||
त्रिविधे रोगविज्ञाने स्रोतःस्वपि च वर्तने|
रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते||४९||
अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा|
कतिधापुरुषीयं च गोत्रेणातुल्यमेव च||५०||
खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते|
पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ||५१||
शरीरसङ्ख्या सूत्रं च जातेरष्टममुच्यते [५९] |
इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना||५२||
वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः|
चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः||५३||
कतमानिशरीरीयः पन्नरूपोऽप्यवाक्शिराः|
यस्यश्यावनिमित्तश्च सद्योमरण एव च||५४||
अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्|
द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम् [६०] ||५५||
अभयामलकीयं च प्राणकामीयमेव च|
करप्रचितकं वेदसमुत्थानं रसायनम्||५६||
संयोगशरमूलीयमासिक्तक्षीरकं तथा|
माषपर्णभृतीयं च पुमाञ्जातबलादिकम्||५७||
चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते|
रसायनमिति ज्ञेयं वाजीकरणमेव च||५८||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः|
शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम्||५९||
ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम्|
छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः||६०||
द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च|
वातरोगे वातरक्ते योनिव्यापत्सु चैव यत्||६१||
त्रिंशच्चिकित्सितान्युक्तान्यतः कल्पान् [६१] प्रचक्ष्महे|
फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च||६२||
पञ्चमो वत्सकस्योक्तः षष्ठश्च कृतवेधने|
श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गुले||६३||
तिल्वकस्य सुधायाश्च सप्तलाशङ्खिनीषु च|
दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते||६४||
कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च|
स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा||६५||
सिद्धिः शोधनयोश्चैव बस्तिसिद्धिस्तथैव च|
प्रासृती मर्मसङ्ख्याता सिद्धिर्बस्त्याश्रया च या||६६||
फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसञ्ज्ञिता|
सिद्धयो द्वादशैवैतास्तन्त्रं चासु [६२] समाप्यते||६७||
स्वे स्वे स्थाने [६३] तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते|
तं ब्रूयात् सर्वतः सर्वं यथास्वं [६४] ह्यर्थसङ्ग्रहात्||६८||


दीर्घञ्जीवेत्यादिसञ्ज्ञाः श्लोकानुरोधादेकदेशलक्षणा बोद्धव्याः| प्राणदेहार्थावित्यादौ देहशब्देनौजोऽभिधीयते [६५] | शिरः शुभमित्यत्र शिर इव शिरः| श्लोकार्थ इत्यादौ सङ्ग्रहार्थश्चेति चकारात् सुश्रुतोक्तसूत्रणादिकं, तेन “सूत्रणात् सूचनाच्चैव धारणादर्थसन्ततैः| सूत्रस्थानं समुद्दिष्टम्” (सु. सू. ३) इत्येतदपि गृहीतं भवति| मानार्थानीति ज्ञानार्थानि| इन्द्रियाणामिति रिष्टानाम्| चतुष्कद्वयमिति रसायनपादचतुष्क एकः, वाजीकरणपादचतुष्कश्चैकः; चतुष्पादश्चाध्यायो भवतीति युक्तमेवाध्यायत्वम्| तन्त्रं चासु समाप्यत इति आसु समाप्तासु तन्त्रं समाप्यत इत्यर्थः| चाध्यायार्थ इति चकारो भिन्नक्रमे; तेन अध्यायार्थश्चाध्यायान्ते तथा स्थानार्थश्च स्थानान्ते कृतसङ्ग्रहः| यद्यपि शारीरे स्थानार्थो न व्यक्तः, तथाऽपि शारीरशब्दव्युपत्त्या बोद्धव्यस्तन्त्रान्तराद्वा; यथा- “शरीरं चिन्त्यते सर्वं दैवमानुषसम्पदा| सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते” (शा. ८) इति||३६-६८||

पृच्छा तन्त्राद्यथाम्नायं विधिना प्रश्न उच्यते|
प्रश्नार्थो युक्तिमांस्तस्य तन्त्रेणैवार्थनिश्चयः [६६] ||६९||
निरुक्तं [६७] तन्त्रणात्तन्त्रं, स्थानमर्थप्रतिष्ठया|
अधिकृत्यार्थमध्यायनामसञ्ज्ञा प्रतिष्ठिता [६८] ||७०||
इति सर्वं यथाप्रश्नमष्टकं सम्प्रकाशितम्|
कार्त्स्न्येन चोक्तस्तन्त्रस्य सङ्ग्रहः सुविनिश्चितः||७१||


विधिना प्रश्न इत्यत्र विधिनेति पूर्वापरविरोधादिदोषशून्येन वाक्येन| तन्त्रणादिति शरीरधारणात्; किंवा आयुर्वेदानुपालनात्| अर्थप्रतिष्ठयेति प्रधानभूतार्थावस्थानात्| एताश्च योगरूढाः सञ्ज्ञाः; तेन, अतिप्रसङ्गो न वाच्यः| अधिकृत्येति अधिकारिणं कृत्वा| अर्थं दीर्घञ्जीवितादिकम्| अध्यायनामसञ्ज्ञा अध्यायरूपा नामसञ्ज्ञा, नामसञ्ज्ञा च योगरूढा सञ्ज्ञोच्यते; किंवा, ‘अध्यायो नाम’ इति पाठः, तदा नामशब्दः प्रकाशने, तेन अधिकार इत्यर्थः| अर्थशब्दोऽत्रार्थान्तरे, तेन युक्ताऽध्यायसञ्ज्ञा, सा च अधिकरणसाधना करणसाधना वा कर्मसाधना वा बोद्धव्या| अधीयतेऽस्मिन्, अध्येत्यनेन वा, अधीयते वेत्यध्यायः||६९-७१||

सन्ति पाल्लविकोत्पाताः [६९] सङ्क्षोभं जनयन्ति ये|
वर्तकानामिवोत्पाताः सहसैवाविभाविताः||७२||
तस्मात्तान् [७०] पूर्वसञ्जल्पे सर्वत्राष्टकमादिशेत्|
परावरपरीक्षार्थं तत्र शास्त्रविदां बलम्||७३||
शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः|
भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वर्तकाः||७४||


प्रश्नाष्टकस्योक्तस्य निराकरणीयसञ्ज्ञामाह [७१] – सन्तीत्यादि| पाल्लविकाः प्रादेशिकाः| वर्तका अकस्मादुत्पतन्तः क्षोभं मनसो जनयन्तीति लोकप्रसिद्धम्| अष्टकमिति यथोक्तं प्रश्नाष्टकम्| परावरौ श्रेष्ठाश्रेष्ठौ| तत्र शास्त्रविदां बलमिति शास्त्रविद एव प्रश्नाष्टकं जानन्ति न पाल्लविकाः||७२-७४||

पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते|
स सत्यं वृकमासाद्य प्रकृतिं भजते पशुः||७५||
तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः|
स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते||७६||
बभ्रुर्गूढ इवोर्णाभिरबुद्धिरबहुश्रुतः|
किं वै वक्ष्यति सञ्जल्पे कुण्डभेदी जडो यथा||७७||
सद्वृत्तैर्न विगृह्णीयाद्भिषगल्पश्रुतैरपि|
हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः [७२] ||७८||
दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्धभाषिणः|
प्रायः, प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः||७९||
तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः|
स्वल्पाधाराज्ञमुखरान्मर्षयेन्न विवादिनः||८०||
परो भूतेष्वनुक्रोशस्तत्त्वज्ञान(ने)परा दया|
येषां तेषामसद्वादनिग्रहे निरता मतिः||८१||


प्रकृतिः स्वभावः| बभ्रुरूर्णावान् कश्चित् पशुः, स यथा मेषं युद्धायात्मीयामिवोर्णां दृष्ट्वा उपसर्पन्नङ्गभङ्गमाप्नोति, तद्वदज्ञोऽप्याप्तं प्राप्य भिद्यत इत्यर्थः; किंवा, बभ्रुर्वृद्धनकुल ऊर्णाराशिमध्यगो यथा किञ्चिन्न प्रतिपद्यते, तथाऽबुद्धिरपि सञ्जल्पे वादिप्रतिवादिकथायाम्| कुण्डभेदी भ्रष्टयोनिः; तेन पृच्छादितात्मीयनिर्णितजातिर्यथाऽवदातजातिः सन् कश्चिद्ब्रूते, तथाऽबुद्धिरपि सञ्जल्पे| विगृह्णीयाद् विगृह्य सम्भाषां कुर्यात्| इतरान् असद्वृत्तान्| स्वल्पाधाराःस्वल्पश्रुताः| न मर्षयेदिति नोपेक्षेत| अज्ञवैद्यसंवादप्रतिषेधफलमाह- परो भूतेष्वित्यादि| निरता इति तत्परा||७५-८१||

असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः|
भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः||८२||
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्|
प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः||८३||


अज्ञवैद्यफलमाह- असत्पक्षेत्यादि| असत्पक्षादि साधनं येषां ते तथा; असत्पक्षः अनागमपक्षसिद्धः पक्षः| अक्षणित्वं पृच्छार्थमनुयुक्तस्य ‘सम्प्रति वक्तुं क्षणो नासि’ इति भाषणम्, अर्तिः पृच्छार्थमनुयुक्तस्य [७३] शिरोव्यथादिकमुद्भाव्य [७४] भाषणं, दम्भः पुस्तकवैद्यभाण्डादिभिः स्वार्थोत्कर्षप्रतिपादनं, पारुष्यं कृच्छ्रतोऽपि नवाच्यत्वादिपरुषभाषणम् [७५] | अनाप्ताः स्वे तन्त्र इति स्वतन्त्रानभिज्ञानात्| परविकत्थकाः परदूषकाः||८२-८३||

समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्|
सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्||८४||
इदमेवमुदारार्थमज्ञानां न प्रकाशकम्|
शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्||८५||


द्वयाश्रयमिति मनःशरीराश्रयम्| समग्रमिति शारीरं मानसं च सुखमारोग्यादिरूपम्| विज्ञाने विमल इति विशुद्धज्ञाने, किंवा विज्ञाने विमल इति मोक्षे, मोक्षे हि सुखं स्वच्छं समग्रं च दुःखासम्भिन्नत्वात्; किंवा, भट्टदर्शनात् सुसम्भवम्| इदमिति शास्त्रम्| एवमुदारार्थमिति लोकद्वयहितार्थाभिधायकम्| दृष्टिप्रणष्टानामिति प्रणष्टदृशाम्||८४-८५||

तत्र श्लोकाः-
अर्थे दशमहामूलाः सञ्ज्ञा चासां यथा कृता|
अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्||८६||
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः|
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः||८७||
अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्|
सङ्ग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः||८८||
यथा सुमनसां सूत्रं सङ्ग्रहार्थं विधीयते|
सङ्ग्रहार्थं तथाऽर्थानामृषिणा सङ्ग्रहः कृतः||८९||


सङ्ग्रहे सञ्ज्ञा चासां यथा कृतेति ‘तेन मूलेन महता महामूला’ इत्यादिना| अयनान्ताः षडग्र्याश्चेति ‘एकं प्राणवर्धनानाम्’ इत्यादिनोक्ताः| एते चाहिंसादयोऽग्र्याधिकारे यज्जःपुरुषीये उक्ता उल्लङ्घ्येहोक्ता अध्यात्मविषयत्वेन, पूर्वोक्तास्त्वग्र्यरोगाधिकारिकाः; उक्तं हि तत्र- “अलमेतद्विकाराणाम्” (सू.अ.२५) इत्यादि| सप्तकः प्रश्नः ‘किमायुः? कस्मादायुर्वेदः?’ इत्यादि; अष्टकः प्रश्नः ‘तन्त्रं तन्त्रार्थं’ इत्यादि||८६-८९||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः||३०||
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते|
इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते|


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थानेऽर्थेदशमहामूलीयस्त्रिंशत्तमोऽध्यायः||३०||
इति चरकचतुराननश्रीमच्चक्रपाणिदत्तकृतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां प्रथमं सूत्रस्थानम्||१||

१. ‘तत्र हृदयाश्रितव्याधीनां शीघ्रं प्रतिकर्तव्यतां बोधयितुं सर्वावयवापेक्षया हृदयस्य प्राधान्यमाह- अर्थे इत्यादि| हृदये समासक्ताः प्रसङ्गता महामूला धमन्यो दशेत्यन्वयः| महद्धृदयं मूलं यासामिति विग्रहः| महदर्थयोरर्थं स्पष्टयति- महच्चार्थश्चेत्यादि| अर्थ्यते उपादीयतया याच्यत इत्यर्थः’ इति शिवदाससेनः|
२. ‘सिराः सक्ता’ इति पा.|
३. ‘आत्मा च सगुण इत्यत्र गुणशब्देन विज्ञानातिरिक्त आत्मगुणो गोबलीवर्दन्यायेनाभिधीयते, एवमिन्द्रियाणीत्यनेनापि मनोभिन्नमिन्द्रियमुच्यते| एतच्च विज्ञानमनसोः सजातीयेषु प्राधान्यख्यापनार्थं पृथग्बोध्यम्’ इति शिवदाससेनः|
४. ‘श्रुतिप्रतिपठिताः’ इति पा.|
५. ‘ननु यद्यप्यात्मनो विभुत्वेन नाधेयत्वमुक्तं, तथाऽपि लिङ्गशरीरवच्छिन्नस्य साङ्ख्यस्वीकृतस्य जीवात्मनो हृदयाश्रितत्वमुपचारेण शक्यते वक्तुम्, एवमात्मगुणस्यापि हृदयाश्रितत्वं परम्परयाऽपि शक्यतेऽभिधातुं, मनसोऽपि प्रायशो हृदय एवावस्थितिरिति तस्यापि हृदयाश्रितत्वमस्तु, एवमतिचिन्तया हृदयमेव पीड्यते नान्यदङ्गमिति दर्शनात्तस्यापि हृदयाश्रितत्वं यथाकथञ्चिदुपपद्यतां नामः| षडङ्गादीनां तु हृदयाश्रितत्वं कथमपि नोपपद्यते, यावता ‘हृदयं द्व्यङ्गुलम्’ इति वक्ष्यति, षडङ्गाश्रयमङ्गं च महदिति, इन्द्रियाण्यपि चक्षुरादीनि हृदयाऽपेक्षया नितरां विप्रकृष्टानि, अर्थाश्च शब्दादयो बाह्यद्रव्याश्रयिण इत्याशङ्कां निराचिकीर्षुराह- ‘प्रतिष्ठार्थमित्यादि’ इति शिवदाससेनः|
६. ‘कार्यकारणाविरोधेन’ इति पा.|
७. ‘गृहाच्छादनधारककाष्ठानि’ इति पा.|
८. ‘अलमात्मनो व्यापकस्याश्रयाश्रयिभावेन व्युत्पादितेन| यश्चात्मा संसारी हृदयाश्रितो भवति तस्यैव हृदयनाशान्नाश इति भावः’ इति पा.|
९. ‘चिकित्सिते’ इति पा.|
१०. ‘इन्द्रियाण्यस्मद्दर्शनार्थं’ इति पा.|
११. ‘सङ्ग्रहं संवरणं’ इति पा.|
१२. ‘विधम्यन्ते विसर्प्यन्ते, किंवा विधम्यन्ते पूर्यन्ते ‘वाह्येन धातुना’ इति शेषः’ इति शिवदाससेनः|
१३. ‘सर्वजन्तवः’ इति पा.|
१४. ‘योऽसौ’ इति पा.|
१५. ‘संवर्धमानं’ इति पा.|
१६. ‘समाविशति यत् पुनः’ इति कविराजश्रीगणनाथसेनसम्मतः पाठः, युक्तश्चायं| भेल(डे)ऽपि पठ्यते- “हृदो रसो निःसरति तत एव च सर्वतः| सिराभिर्हृदयं चैति तस्माद्धृत्प्रभवाः सिराः” (भे. सू. २०) इति|
१७. ‘यस्यानाशान्न नाशोऽस्ति’ इति पा.|
१८. ‘धारीति जीवाधिष्ठितं लिङ्गशरीरं, तदेव शरीरधारकत्वाद्धारिशब्देनोच्यते| किंवा, जीवितधारकत्वादोज एव धारिशब्दार्थ उच्यते| यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितामिति एतेन यस्मान्निखिलपदार्थज्ञानहेतुभूतं मनो हृदि संश्रितं तिष्ठति, तस्मात्तदुपघातभेदाभ्यां मनोजीवितयोरप्युपघातभेदाविति मूर्च्छा मरणं चोपपन्नमित्यर्थः| यद्यपि मनोजीविताश्रयत्वेन हृदयमुक्तमेव, तथाऽपि तदुपघातस्य मूर्च्छामरणहेतुत्वप्रदर्शनार्थं पुनरुक्तमिति मन्तव्यम्’ इति शिवदाससेनः|
१९. ‘विविधाः’ इति पा.|
२०. ‘तद्बलेन’ इति पा.|
२१. ‘रसस्यैव पोषकस्य स्रवणात्’ इति पाठो युक्तः|
२२. ‘सरणात् अवयवान्तरगमनात्’ इति पा.|
२३. ‘नियमानाम्’ इति पा.|
२४. ‘वीर्यम् उत्साहः| विद्या योगविद्या| नन्दनानामिति श्रेयःसमृद्धिजननानाम्| अयनानामिति मोक्षसाधनमार्गाणाम्’ इति शिवदाससेनः|
२५. ‘धर्मजननात्तयाऽऽयुर्वर्धनं’ इति पा.|
२६. ‘साध्यधर्मवत्त्वेन पक्षकथनं प्रतिज्ञा, यथा- आयुर्वेदो नित्य इति| हेतुः तत्साधकवचनं, यथा- अनादित्वादिति| उदाहरणं दृष्टान्तः, यथा- आत्मवदिति| उपनयो नाम साधनधर्मवत्त्वेन पुनः पक्षकथनं, यथा आत्मा अनादिस्तथा चायमिति| निगमनं तु पुनर्हेतुसाधितस्य साध्यस्य पक्षनिष्ठतया कथनं, यथा- तस्मान्नित्यः’ इति शिवदाससेनः|
२७. ‘…पुरुषबुद्धिगम्याभिः’ इति पा.| ‘त्रिविधशिष्यबुद्धिगम्याभिरिति उत्तममध्यमाधमशिष्यबुद्धिगम्याभिः’ इति शिवदाससेनः|
२८. ‘तन्त्रनियतार्थानां’ इति पा.|
२९. ‘सिद्धान्तव्युत्पादितस्य’ इति पा.|
३०. ‘अवयवश इत्यस्यार्थमाह- तन्त्रनियतानामित्यादि| अत्रापि तन्त्रमार्षमिति सम्बध्यते, तन्त्रनियतानां तन्त्रगतानाम्| दुःखेन गम्यन्ते बुध्यन्ते इति दुर्गाः, दुर्गार्थानामिति दुर्गाश्च ते अर्थाश्चेति तेषां, विभावनैः प्रकाशनैः, तन्त्रस्थितानां दुर्बोधार्थानां यत् पुनः प्रकाशनानि तैरुक्तं व्याख्यातं तन्त्रमवयवश उक्तं भवतीत्यर्थः| अस्योदाहरणं यथा- ‘शरीरचेष्टा या चेष्टा’, ‘इष्टा या चेष्टा’ इति विभज्योक्ते सति द्वितीयचेष्टापदस्यार्थः प्रकाशितो भवतीति, एवमन्यदप्युन्नेयम्’ इति शिवदाससेनः|
३१. ‘चादिश्य’ इति पा.|
३२. ‘तत्रायुर्वेदयति’ इति पा.|
३३. ‘असेव्यत्वेन व्यवह्रियमाणं’ इति पा.|
३४. ‘आयुःकारणतानाम्नाऽऽयुःशब्दवाच्यमित्यनपराधम्’ इति पा.|
३५. ‘यच्च सुखादितस्तत्र’ इति पा.| योगीन्द्रनाथस्तु ‘तत्र’ इति न पठति|
३६. ‘सामपरस्य’ इति पा.|
३७. ‘प्रमाणाप्रमाणमायुर्वेदे’ इति पा.|
३८. ‘न केवलमरिष्टाधिकारेऽरिष्टमात्रमधिकृत्यायुषः प्रमाणमुपदिष्टं, देहादिकमधिकृत्यापि विमाने उपदिष्टमित्याह- देहप्रकृतिलक्षणमित्यादि’ इति शिवदाससेनः|
३९. ‘इदानीं किमायुर्वेदः शाश्वतोऽशाश्वतो वेति प्रश्नस्योत्तरमाह- सोऽयमित्यादि| शाश्वत इति अपौरुषेयः| अनादित्वादिति सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृत्वात्, आत्मवदित्यर्थः| न च कल्पादौ हिरण्यगर्भ एवेमं प्रणीतवानित्यसिद्धो हेतुरिति वाच्यं, यतः “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मैः” इत्यादिश्रुतेर्न हिरण्यगर्भकृतत्वं वेदस्येति| न च शब्दत्वेन वेदस्यापि पौरुषेयत्वं साध्यं, शब्दस्यानित्यत्वात्| किमत्र प्रमाणमिति चेत्, मीमांसका एव पर्यनुयोज्याः, अस्माकं पुनरार्द्रकवणिजां वह्निजलचिन्तया प्रयोजनं नास्तीति| ये तु द्विविधो ह्यायुर्वेदः शब्दरूपोऽर्थरूपश्च| तत्राद्यः कृतकत्वादनित्य एव, अर्थरूपस्तु नित्य एवेत्याहुः| तेषामायुर्वेदस्य नित्यत्वमर्धशौचन्यायमवगाहते’ इति शिवदाससेनः|
४०. ‘नैवाभूत्’ इति पा.| ‘इदानीं सम्प्रदायाविच्छेदं दर्शयितुमायुर्वेदस्य सन्ताननित्यतामाह- नहीत्यादि| अयं भावः- अनादौ संसारे आयुर्युक्तानां प्राणिनामनुच्छेदात् सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, ततश्चायुर्वेदोपकार्यस्यायुः सन्तानस्यानादित्वात्तदुपकरणायुर्वेदेनापि तथा भवितव्यं, नह्युपकरणाभावे उपकार्यत्वं सम्भवतीति| न हि नाभूत् कदाचिदायुःसन्तान इति न्यायेनायुर्वेदाभिधेयस्यायुःसन्तानस्य नित्यत्वेन तदभिधायकस्यापि नित्यत्वमिति वर्णयन्ति’ इति शिवदाससेनः|
४१. ‘यत् पुनर्गुरुलघु’ इति पा.|
४२. ‘स्वभावसंसिद्धं हि सर्वदा सन्तानन्यायेन सिद्धमभिप्रेतम्’ इति पा.|
४३. ‘एतदेव पूर्वोक्तं द्रढयति- एवमेवेतरेषामिति’ इति पा.|
४४. ‘अवबोधमुपदेशं च’ इति पा.|
४५. ‘नान्येनेश्वरादिना’ इति पा.|
४६. ‘कायचिकित्सेति यद्यपि सुश्रुते शल्यमेव प्रथमतो निर्दिष्टं, तथाऽप्यस्य तन्त्रस्य कायचिकित्साप्रधानत्वादग्रे तन्निर्देश इति ज्ञेयम्| कायः सकलं शरीरं, तस्य चिकित्सा, प्रायेण रसादेः सर्वाङ्गव्यापकस्य दोषादेव ज्वरातीसाररक्तपित्तादयः सम्भवन्ति| किंवा, कायति शब्दं करोतीति कायो जाठराग्निः, अङ्गुलीपिहिते कर्णयुगले ‘धूक्’ इति शब्दश्रवणात्तात्स्थ्याद्वा कायशब्देनाग्निरुच्यते, उक्तं च भोज- “जाठरः प्राणिनामग्निः काय इत्यभिधीयते| यस्तं चिकित्सेत् सीदन्तं स वै कायचिकित्सकः” इति| युक्तं चैतत्, यतो ज्वरातीसारादयः कायचिकित्साविषया रोगा अग्निदोषादेव भवन्ति| शलाका पटलवेधनी, तस्याः कर्म शालाक्यं| ब्राह्मणादित्वात् ष्यङ्, शालाक्यप्रधानमङ्गं शालाक्यम्| एतेन शिरोरोगप्रतीकारस्यापि ग्रहणं, प्राधान्यं च शालाक्यस्य प्रधानचक्षुर्विषयतया| एवमन्यत्रापि प्राधान्येन व्यपदेशः| शल्यमिति ‘शल’ हिंसायामिति धातुः, तस्माच्चौरादिण्यन्तादच्, शलः शलनं हिंसेत्यर्थः, शलस्य निमित्तं संयोग इति विवक्षायां “तस्य निमित्तं संयोगोत्पातौ” (पा. अ. ५/१/३८) इत्यनुवर्तमानात् “गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्” (पा. अ. ५/१/३९) इति द्व्यच्त्वाद्यत्, तेन शल्यं हिंसोचितसम्बन्धः, तदाहरणार्थं तन्त्रमपि शल्यम्| कौमारभृत्यमिति कुमाराणां भृतिर्धारणं पोषणं च, तस्येदमिति कौमारभृत्यं| “तस्येदम्” (पा. अ. ४/३/१२०) इति यत्| रसायनानीति अत्र रसशब्देन रसकार्यत्वात् सर्वेषामेव धातूनां ग्रहणं, तेन रसादीनां शुक्रान्तानां किंवा रसवीर्यविपाकानामयनं लाभोपायो रसायनं| वक्ष्यति च- “लाभोपायो हि शस्तानां रसादीनां रसायनम्” (चि. १) इति| वाजीकरणमिति अवाजिनं वाजिनं कुर्वन्त्यनेनेति वाजीकरणं, येन वाऽत्यत्यर्थं व्यज्यते स्त्रीषु शुक्रं तद्वाजीकरणं, वक्ष्यति च- “येन नारीषु सामर्थ्यं वाजिवल्लभते नरः| व्यजते चाधिकं येन वाजीकरणमेव तत्” (चि. १) इति| ‘व्रजेच्चात्यधिकम्’ इति पाठे पुनः पुनर्गच्छेदित्यर्थः| शब्दसिद्धिस्तु पृषोदरादित्वात्| अन्ये तु, वाजो वेगः प्रस्तावाच्छुक्रस्य, स विद्यते येषां ते वाजिनः, ते क्रियन्तेऽनेनेति वाजीकरणमित्याहुः| किंवा, वाजः शुक्रं, सोऽस्यास्तीति वाजी, अवाजी वाजी क्रियते येन तद्वाजीकरणम्, किंवा, वाजो मैथुनम्, उक्तं हि हारीत- “वाजो नाम प्रकाशत्वात्तच्च मैथुनसञ्ज्ञितम्| वाजीकरणसञ्ज्ञाभिः पुंस्त्वमेव प्रचक्षते”- इति शिवदाससेनः|
४७. ‘संयोगिविषम्’ इति पा.|
४८. ‘आत्मरक्षार्थं’ इति पा.|
४९. ‘विद्वद्ग्रहणं यशः’ इति पा.|
५०. ‘तदनुगुणदेहमनुतिष्ठति’ इति पा.|
५१. ‘वक्तव्यमिति वक्ष्यमाणं तन्त्रादिस्वरूपम्| वाक्यश इत्यादिपूर्ववद्व्याख्येयम्’ इति शिवदाससेनः|
५२. ‘उक्तानामेव तन्त्रादीनां स्वरूपं क्रमेणाह- तत्रेत्यादि| तत्र तेषु तन्त्रादिषु मध्ये ‘तन्त्रस्वरूपं निरुच्यते’ इति शेषः| अनर्थान्तरमिति अर्थान्तरमर्थभेदः, न विद्यतेऽर्थभेदो यत्र तत्तथा, अभिन्नार्थमित्यर्थः| एतेन, एते शब्दा यस्यार्थस्याभेदेन वाचकाः, तत्तन्त्रमिति तन्त्रस्वरूपं दर्शितं भवति|” इति शिवदाससेनः|
५३. ‘तन्त्रार्थ इति तन्त्रस्यार्थोऽभिधेयं, स च हिताहितादिरूपमायुरायुष्याश्च पदार्थाः| स्वलक्षणैरिति आयुश्चेतनानुवृत्तिर्जीवितमित्यादिना ग्रन्थेनोक्तैरायुःस्वरूपैः’ इति शिवदाससेनः|
५४. ‘हिताहितदेशै तु करणहेतुशब्दाभ्यां गृहीतौ मन्तव्यौ’ इति शिवदाससेनः|
५५. ‘तन्त्रमष्टौ स्थानानीत्यादिना स्थानमाह’ इति शिवदाससेनः| ‘तन्त्रमष्टौ स्थानानि’ इति पा.|
५६. ‘षड्विरेकशतश्चेति’ इति पा.|
५७. ‘स्वस्थवृत्तिकाः’ इति पा.|
५८. ‘इति त्रिंशकं श्लोकस्थानं समुद्दिष्टमित्यन्वयः, अर्थवदिति स्थानार्थसहितं, शिर इव शिरः प्रधानत्वात्’ इति शिवदाससेनः|
५९. ‘सूत्रं च जातेरिति जातिसूत्रीयमित्यर्थः’ इति शिवदाससेनः|
६०. ‘प्रकीर्तितम्’ इति पा.|
६१. ‘अतः कल्पान् परं शृणु’ इति पा.| ‘अतः कल्पानिति अतः परं कल्पान् शृणु, इत्यन्वयः’ इति शिवदाससेनः|
६२. ‘चात्र’ इति पा.|
६३. ‘अध्यायमुक्त्वाऽध्यायार्थमाह- स्वे स्वे स्थान इत्यादि| स्वे स्वे स्थाने योऽध्यायो वक्तव्यस्तत्र तत्र चाध्याये तस्य तस्याध्यायस्यार्थसङ्ग्रहो वाच्य इत्यर्थः| चकारोऽत्र अध्यायार्थ इत्यनन्तरं योज्यः, तेन “स्थानार्थः” इति समुच्चीयते| ततश्च स्थानान्ते स्थानार्थसङ्ग्रहमध्यायान्ते चाध्यायार्थसङ्ग्रहं यथाक्रमेण वक्ष्यतीत्यर्थः| यद्यपि शारीरस्थाने तत्स्थानार्थो विशिष्य न वक्तव्यः, तथाऽपि शारीरस्थानस्य शरीरनिरूपणरूपो योऽर्थः सः “शरीरं चिन्त्यते सर्वं दैवमानुषसम्पदा” (शा.अ.८) इत्यादि शारीरशब्दनिरुक्तिद्वारेणैवोक्त इति ज्ञेयम्| तं ब्रूयादिति तं सर्वं तन्त्रार्थं स्थानार्थमध्यायार्थं च| अर्थसङ्ग्रहादिति ल्यब्लोपे पञ्चमी, तन्त्रादीनामर्थ सङ्गृह्य सङ्क्षिप्येत्यर्थः| सर्वतः अनवशेषतः| यथास्वमित्यनेन यो यस्यार्थस्तस्य सङ्ग्रहं कृत्वा तन्त्रार्थं स्थानार्थमध्यायार्थं चाशेषतो ब्रूयादित्यर्थः’ इति शिवदाससेनः|
६४. ‘यथार्थाद्ध्यनुसङ्ग्रहात्’ इति पा.|
६५. ‘प्राणदेहार्थावित्यत्र देहशब्देन हृदयं तथा तदाश्रितमोजोऽप्यभिधीयते’ इति शिवदाससेनः|
६६. ‘तन्त्रादिति तन्त्रमारभ्य| यथाम्नायं यथाक्रमम्| विधिना सामान्यविशेषप्रकारेण, पूर्वापरविरोधादिदोषशून्येन वा पृच्छा प्रश्न उच्यत इत्यर्थः| प्रश्नार्थं विवृणोति- प्रश्नार्थ इत्यादि| तस्य प्रश्नस्य तन्त्रेण शास्त्रेणार्थनिश्चयो यः स प्रश्नार्थः प्रश्नप्रयोजनमुच्यते| युक्तिमानिति युक्तिमान् उपपत्तिमान्’ इति शिवदाससेनः|
६७. ‘तन्त्रादिशब्दानां निरुक्तिद्धारेणार्थं स्पष्टयति- निरुक्तमित्यादि| तन्त्रणादिति व्युत्पादनात्| अर्थप्रतिष्ठयेति प्रधानभूतार्थावस्थानात्| एतेन तन्त्र्यते व्युत्पाद्यतेऽनेनेति तन्त्रं शास्त्रं, तथा चार्थाः प्रतिष्ठन्त्यस्मिन्निति स्थानमिति निरुक्तिर्दर्शिता भवति’ इति शिवदाससेनः|
६८. ‘अधिकृत्येति निरुक्त्यैकदेशप्रकाशनमधिकृतोऽध्यायार्थः, तत्प्रयुक्ता नामसञ्ज्ञा अध्यायनामसञ्ज्ञा योगरूढसञ्ज्ञेत्यर्थः| किंवा अधिकृत्येति तृतीयान्तपदम्| तेन, अधिकृतिरधिकृतार्थसम्बन्धः, तेनोपलक्षिताऽध्यायसञ्ज्ञेत्यर्थः’ इति शिवदाससेनः|
६९. ‘पल्लविकोपेताः’ इति पा.|
७०. ‘तस्मात्तु पूर्वकं जल्पे’ इति पा.|
७१. ‘निराकरणीयतामाह’ इति पा.|
७२. ‘ये प्रमादिनः’ इति पा.|
७३. ‘पृच्छार्थमाकृष्टस्य’ इति पा.|
७४. ‘उच्चार्य’ इति पा.|
७५. ‘पृच्छताऽपि वाच्यत्वादिपरुषभाषणम्’ इति पा.|

 

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

Carakasaṁhitā

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

sūtrasthānam - 30. arthēdaśamahāmūlīyō'dhyāyaḥ

 

athātō’rthēdaśamahāmūlīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


pāriśēṣyāt kiṁvā sūtrasthānamabhidhāya tantrasaṅgrahaṁ vaktumarthēdaśamahāmūlīya ucyatē| atra ‘adhikr̥tya kr̥tē granthē’ (pā. a. 4/3/87) ityanuvartamānē “adhyāyānuvākayōrluk ca” (pā. a. 5/2/60) iti cchaḥ||1-2||

arthē [1] daśa mahāmūlāḥ samāsaktā [2] mahāphalāḥ|
mahaccārthaśca hr̥dayaṁ paryāyairucyatē budhaiḥ||3||
ṣaḍaṅgamaṅgaṁ vijñānamindriyāṇyarthapañcakam|
ātmā ca saguṇaścētaścintyaṁ ca hr̥di saṁśritam||4||


arthē iti hr̥dayē, mahāmūlā iti mahaddhr̥dayaṁ mūlaṁ yāsāṁ dhamanīnāṁ tāstathā, samāsaktā ityāśritāḥ| tasya hr̥dayasya paryāyānāha- mahaccētyādi| mahatsañjñā tathā arthasañjñā ca hr̥dayasya vaidyavyavahārasiddhā na sarvatra śāstrāntarēṣu| hr̥dayasya yathā yanmahattvaṁ yathā vā arthyamānatvēnārthatvaṁ taddhr̥dayasyābhyarhitatvāt| abhyarhitatvamāha- ṣaḍaṅgamityādi| ṣaḍaṅgāni bāhudvayajaṅghādvayaśirōntarādhirūpāṇi yasya tat ṣaḍaṅgamaṅgam| aṅgaṁ ca ṣaḍaṅgādatiriktaṁ samudāyarūpamavayavirūpaṁ vā| aṅgamiti vaktavyē ṣaḍaṅgaviśēṣaṇaṁ ṣaṇṇāmaṅgānāmapi hr̥dayāśritatvapratipādanārthaṁ; kiṁvā, aṅgaśabdasyāvayavavācinō niṣēdhārtham| vijñānaṁ [3] ca yadyapi ‘ātmā ca saguṇaḥ’ iti vacanādēva ātmaguṇatvēna labdhaṁ, tathā’pyātmaguṇēṣu prādhānyāt punaḥ pr̥thagucyatē; vacanaṁ hi “sukhaṁ samagraṁ vijñānaṁ visargē ca pratiṣṭhitam” iti| indriyāṇi cakṣurādīni pañca| arthapañcakaṁ śabdādi| saguṇa ityanēna sukhādigrahaṇam| cētaḥ manaḥ| cintyaṁ manōviṣayaḥ| ētē ca ṣaḍaṅgavijñānādayaḥ prati prati paṭhitāḥ [4] pratyēkamēvōpādēyatvēna; tēnātra kasyacidarthalabdhatvēnōpādānaṁ kartavyamiti nōdbhāvanīyam, arthalabdhō hyarthaḥ sākṣādanabhidhīyamānatvādapradhānaṁ bhavati||3-4||

pratiṣṭhārthaṁ [5] hi bhāvānāmēṣāṁ hr̥dayamiṣyatē|
gōpānasīnāmāgārakarṇikēvārthacintakaiḥ||5||
tasyōpaghātānmūrcchāyaṁ bhēdānmaraṇamr̥cchati|6|


atha kathamamī ṣaḍaṅgādayō hr̥dayāśrayāḥ, yāvatā “hr̥dayaṁ dvyaṅgulaṁ” (vi. 8) iti vakṣyati, aṅgaṁ ca ṣaḍaṅgāśrayaṁ mahat, indriyāṇyapi ca svāśraya cakṣurādisthitāni, arthāśca bāhyadravyāśrayiṇaḥ, ātmā cānāśrita ēva vyāpakaḥ, tadguṇaśca vijñānamātmanyēvāśritaṁ, manō’pyanāśritamātmagataṁ, cintyaṁ ca dhyēyādi na hr̥di, ityāśaṅkyāha- pratiṣṭhētyādi|- pratiṣṭhā kāryakaraṇāvirōdhēnāvasthānam [6] | bhāvānāmēṣāmiti ṣaḍaṅgādīnām| hr̥dayamiṣyatē ‘kāraṇam’ iti śēṣaḥ| atraiva dr̥ṣṭāntamāha gōpānasīnāmityādi| gōpānasyaḥ gr̥hācchādanādhārakāṣṭhāni [7] | āgārakarṇikā gr̥hācchādanamadhyē gr̥hācchādanakāṣṭhanibandhanī lōkē ‘āḍakam’ ityucyatē| arthacintakairiti hr̥dayacintakaiḥ| tēna, ṣaḍaṅgādīnāṁ hr̥dayāśritatvaṁ nādhārādhēyabhāvēna, kiṁ tarhi tadanvayavyatirēkānuvidhāyitvēnēti darśitaṁ bhavati| hr̥dayāśritatvaṁ hr̥dayē prakr̥tisthē ṣaḍaṅgādibhāvānāṁ prakr̥tisthatvaṁ, hr̥dayōpaghātē tadupaghāta ityarthaḥ| yadyapi ca, ātmavijñānamanasāṁ hr̥dayāśritatvamādhārādhēyabhāvādapi kaṣṭasr̥ṣṭyā pāryatē vaktuṁ, tathā’pi sarvavyāpakatvānnōpādēyamādhāradhēyatvam| naivam, ātmā hyatra saṁsārī bhōgāyatanatvēnābhiprētaḥ, sa ca hr̥dayapradēśa ēva sukhaduḥkhādyupalabhata ityanubhavasiddhaṁ, tēna hr̥dayāśrita ivātmā| tathā manō’pi prāyēṇa hr̥dyēva tiṣṭhati, yata uparatakriyaṁ manō hr̥dyēva tiṣṭhati, tathā dhyānē yōgē ca hr̥disthamēva manō bhavati| yadapyuktam- “ātmasthē manasi sthirē” (śā. 1) iti, tadapyātmasthatvaṁ manasō hr̥dayasthatvamēva| ēvaṁ jñānasukhaduḥkhāni ca hr̥dayasthānyēva lakṣyantē, tathā hyaticintanāttathā duḥkhāvēśādvā hr̥dayamēva pīḍyatē, nānyadaṅgam| bhavatvanēnāvyāpakēnāśrayāśrayibhāvēna vyutpāditēna [8] | tamēva hr̥dayōpaghātē ṣaḍaṅgādibhāvōpaghātamāha- tasyōpaghātādityādi| tasyēti hr̥dayasya| upaghātaḥ kiñcidupahananam| bhēdāditi mahōpaghātāt| maraṇaṁ ca ṣaḍaṅgādīnāṁ sarvēṣāmēva yathōktapratiṣṭhānāśa iti bhāvaḥ||5||-

yaddhi tat sparśavijñānaṁ dhāri tattatra saṁśritam||6||
tat parasyaujasaḥ sthānaṁ tatra caitanyasaṅgrahaḥ|
hr̥dayaṁ mahadarthaśca tasmāduktaṁ cikitsakaiḥ [9] ||7||


kathamētadbhavatītyāha- yaddhītyādi| sparśō vijñāyatē’nēnēti sparśaṁ vā vijānātīti sparśavijñānaṁ; tasyaiva viśēṣaṇaṁ- dhārīti, dhāri tu śarīrēndriyasattvātmasaṁyōgaḥ; yaduktaṁ- “śarīrēndriyasattvātmasaṁyōgō dhāri jīvitam” (sū. 1) iti; ētēna yaḥ śarīrādisaṁyōgaḥ sparśanēna vijānāti sarvaṁ jñēyaṁ, yaścāyaṁ śarīradhāraṇāddhārītyucyatē, sa hr̥di sthitaḥ| tēna, tadupaghātānmūrcchā tathā tadbhēdānmaraṇaṁ caitanyānanuvr̥ttilakṣaṇamupapannam| sparśō hi dvividha aindriyakō mānasaśca, ētatsparśadvayaṁ vinā na kiñcijjñānaṁ bhavati; yaduktaṁ- “yaścaivaindriyakaḥ sparśaḥ sparśō mānasa ēva ca| dvividhaḥ sukhaduḥkhānāṁ vēdanānāṁ pravartakaḥ” (śā. 1) iti| mānasaṁ ca sparśanaṁ śārīrē yathāsthānamēva darśayiṣyāmaḥ| sparśō vijñāyata iti niruktipakṣē tu sparśaśabdēna lakṣaṇayā spr̥śyamānō’rthō’bhiprētaḥ, tēna sarvajñēyāvarōdhaḥ; yaṁ prāpyaivārthamindriyāṇi sparśēnārthaṁ [10] prakāśayanti, yaduktaṁ- “spr̥śyatē nānupādānō nā’spr̥ṣṭō vētti vēdanāḥ” (śā. 1) iti| yadyapi śarīrēndriyasattvātmasaṁyōgaḥ śarīrapradēśāntarē’pyasti, tathā’pi nāsau śarīradhāraṇē tathā jñānōtpattau vā pradhānaṁ, tadupaghātē’pi śarīradhāraṇajñānayōrdr̥ṣṭatvāt; hr̥dgatastu saṁyōgaḥ pradhānaṁ, tadanvayavyatirēkānuvidhāyitvāt sparśajñānaśarīradhāraṇayōḥ; tēna sūktaṁ- tattatra saṁśritamiti| hr̥dayābhyarhitatvē dharmāntaramāha- tat parasyētyādi| parasya śrēṣṭhasya| ētēna dvividhamōjō darśayati- paramaparaṁ ca; tatrāñjaliparimāṇamaparaṁ, yaduktaṁ- “tāvadēva parimāṇaṁ ślaiṣmikasyaujasaḥ” (śā. 7) iti; alpapramāṇaṁ tu paraṁ, yadabhiprētyōktaṁ- “hr̥di tiṣṭhati yacchuddhaṁ raktamīṣatsapītakam” (sū. 17) iti, tantrāntarē’pyuktaṁ- “prāṇāśrayasyaujasō’ṣṭau bindavō hr̥dayāśritāḥ” iti; kiñca, sati hi parē cāparē caujasi ‘parasya’ iti viśēṣaṇaṁ sārthakaṁ bhavati, natvēkarūpē| ardhāñjaliparimitasyaujasō dhamanya ēva hr̥dayāśritāḥ sthānam| tathā pramēhē’rdhāñjaliparimitamēvaujaḥ kṣīyatē nāṣṭabindukam, asya hi kiñcitkṣayē’pi maraṇaṁ bhavati; pramēhē tu ōjaḥkṣayē jīvatyēva tāvat; ōjaḥkṣayalakṣaṇamapyardhāñjalyōjaḥkṣaya ēva bōddhavyam| ōjaḥśabdaśca yadyapi rasē’pi vartatē, yaduktaṁ- “rasaścaujasaṅkhyātaḥ” (ni. 4) iti, tathā “malībhavati tat prāyaḥ kalpatē kiñcidōjasē” (ci. 8) iti; tathā’pīha sarvadhātusāramōjō’bhidhīyatē| ētaccauja upadhāturūpaṁ kēcidāhuḥ; dhāturhi dhāraṇapōṣaṇayōgādbhavati, ōjastu dēhadhārakaṁ sadapi na dēhapōṣakaṁ, tēna nāṣṭamō dhāturōjaḥ| kēcittu śukraviśēṣamōjaḥ prāhuḥ, tacca na manaḥ prīṇāti| yē tu bruvatē- sarvadhātūnāṁ sārasamudayabhūtamōjaḥ, tē rasādisārarūpatayā rasādibhyō’bhinnamōja iti pr̥thagdhātutvēnōpadhātutvēna vā na nirdēśyamiti paśyanti; vacanaṁ ca- “bhramaraiḥ phalapuṣpēbhyō yathā sañcīyatē madhu| tadvadōjaḥ śarīrēbhyō guṇaiḥ sambhriyatē nr̥ṇām” (sū. 17) iti; atra śarīrēbhya iti dhātubhyaḥ, guṇairiti sārabhāgaiḥ| tatra caitanyasaṅgraha iti tatra hr̥di ātmā caitanyasya svaviṣayē prasr̥tasya saṅgrahaṇaṁ [11] karōti, tēna prasr̥taṁ manō hr̥dayē nigr̥hya yōgajñō bhavatyātmētyuktaṁ bhavati; tataśca yōgasya mōkṣasādhanatvēnōpādēyasyāpi hr̥dayamēva sthānamiti hr̥dayamabhyarhitaṁ bhavati| yasmādēvaṅguṇaṁ hr̥dayam, atō hr̥dayaṁ ‘mahad’ iti ca, tathā ‘artha’ iti cōcyatē cikitsakaiḥ||6-7||

tēna mūlēna mahatā mahāmūlā matā daśa|
ōjōvahāḥ śarīrē’smin vidhamyantē samantataḥ||8||


samprati dhamanīnāṁ mahāmūlatvaṁ pratipādayati- tēnētyādi| tēnēti hr̥dayēna mahatā, ‘yuktāḥ’ iti śēṣaḥ| vidhamyantē visarpantē [12] ||8||

yēnaujasā vartayanti prīṇitāḥ sarvadēhinaḥ [13] |
yadr̥tē sarvabhūtānāṁ jīvitaṁ nāvatiṣṭhatē||9||
yat sāramādau garbhasya yattadgarbharasādrasaḥ [14] |
saṁvartamānaṁ [15] hr̥dayaṁ samāviśati yat purā [16] ||10||
yasya [17] nāśāttu nāśō’sti dhāri yaddhr̥dayāśritam [18] |
yaccharīrarasasnēhaḥ prāṇā yatra pratiṣṭhitāḥ||11||
tatphalā bahudhā [19] vā tāḥ phalantīva(ti) mahāphalāḥ|12|


samprati dhamanīnāmuktaṁ mahāphalatvaṁ vyutpādayannāha- yēnaujasētyādi| yēnaujasēti sāmānyēna dvividhamapyōjō grāhyam| vartayanti jīvanti, vartayantīti caurādikō ṇic| prīṇitā iti tarpitāḥ| yat sāramādau garbhasyēti śukraśōṇitasaṁyōgē jīvādhiṣṭhitamātrē yat sārabhūtaṁ, tatrāpi tiṣṭhati| yattadgarbharasādrasa iti garbharasācchukraśōṇitasaṁyōgapariṇāmēna kalalarūpāt, rasa iti sārabhūtam| saṁvartamānaṁ hr̥dayaṁ samāviśati yat purēti yadā hr̥dayaṁ niṣpadyamānaṁ, tadaiva vyaktalakṣaṇaṁ saddhr̥dayamadhitiṣṭhati yadityarthaḥ| ētēna, garbhāvasthātrayē’pi tadōjastiṣṭhatītyucyatē; paraṁ garbhādau śukraśōṇitasārarūpatayā, kalalāvasthāyāṁ tu rasasārarūpatayā, avayavaniṣpattau tu svalakṣaṇayuktamēva bhavatyōja ityōjasaḥ sarvāvasthāvyāpakatvēna mahattvamucyatē| yasya nāśāttu nāśō’stīti dhātvantarākṣayē’pi satyōjaḥkṣayē maraṇamityarthaḥ| dhārīti jīvadhārakasaṁyōgibhyaḥ pradhānatvāt| śarīrarasasnēha iti śarīrasārasāraṁ; rasaśabdaḥ snēhaśabdaśca sāravacanaḥ, tēna śarīrarasānāṁ dhātūnāmapi sāra ityarthaḥ| ētacca prakārāntarēṇābhyarhitānēkakarmakathanamōjasō’bhyarhitatvakhyātyartham| tatphalā ōjaḥphalā ōjōvahā iti yāvat| ētēna, yathōktaguṇaśālitvēnaujō mahat; ētadvahanēna [20] phalantīvēti mahāphalā dhamanya uktāḥ| dvitīyāṁ niruktimāha- bahudhā vā tāḥ phalantīti, ‘tā hr̥dayāśritā daśa dhamanyō bahudhā anēkaprakāraṁ phalantīti’ niṣpadyantē; ētēna, mūlē hr̥dayē daśarūpāḥ satyō mahāsaṅkhyāḥ śarīrē pratānabhēdādbhavantītyuktam||9-11||-

dhmānāddhamanyaḥ sravaṇāt srōtāṁsi saraṇātsirāḥ||12||


dhamanīśabdādiniruktimāha- dhmānādityādi| dhmānāt pūraṇād vāhyēna rasādinētyarthaḥ| sravaṇāditi rasādērēva [21] pōṣyasya sravaṇāt| saraṇād [22] dēśāntaragamanāt||12||

tanmahat tā mahāmūlāstaccōjaḥ parirakṣatā|
parihāryā viśēṣēṇa manasō duḥkhahētavaḥ||13||
hr̥dyaṁ yat syādyadaujasyaṁ srōtasāṁ yat prasādanam|
tattat sēvyaṁ prayatnēna praśamō jñānamēva ca||14||


samprati hr̥disthasya manasaḥ paripālanahētumāha- tanmahadityādi| tanmahaditi ṣaḍaṅgādisthānaṁ hr̥dayam| tā mahāmūlā iti ōjōvahā dhamanyaḥ| taccauja iti yēnaujasētyādinōktaguṇamōjaḥ| praśamaḥ śāntiḥ| jñānaṁ tattvajñānam||13-14||

atha khalvēkaṁ prāṇavardhanānāmutkr̥ṣṭatamamēkaṁ balavardhanānāmēkaṁ br̥ṁhaṇānāmēkaṁ nandanānāmēkaṁ harṣaṇānāmēkamayanānāmiti [23] |
tatrāhiṁsā prāṇināṁ prāṇavardhanānāmutkr̥ṣṭatamaṁ, vīryaṁ balavardhanānāṁ, vidyā br̥ṁhaṇānām, indriyajayō nandanānāṁ, tattvāvabōdhō harṣaṇānāṁ, brahmacaryamayanānāmiti [24] ; ēvamāyurvēdavidō manyantē||15||


sēvyaprastāvēna prāṇavardhanādyutkr̥ṣṭānyahiṁsādīnyapyāha- atha khalvityādi| ēkamiti ēkamēva, na dvitīyamutkr̥ṣṭatamamastītyarthaḥ| ayanānāmiti mārgāṇām| yadyapyannaṁ prāṇavardhanaṁ tathā’pyahiṁsaivōtkr̥ṣṭā, ahiṁsayā hi dharmajananāttatkr̥tamavicālyaṁ [25] bhavati| yadyapi māṁsaṁ br̥ṁhaṇapradhānaṁ, tathā’pi taccharīramātrabr̥ṁhaṇaṁ, vidyā tu śarīramanōbr̥ṁhaṇīyā’tiricyatē||15||

tatrāyurvēdavidastantrasthānādhyāyapraśnānāṁ pr̥thaktvēna vākyaśō vākyārthaśō’rthāvayavaśaśca pravaktārō mantavyāḥ|
tatrāha- kathaṁ tantrādīni vākyaśō vākyārthaśō’rthāvayavaśaścōktāni bhavantīti||16||
atrōcyatē- tantramārṣaṁ kārtsnyēna yathāmnāyamucyamānaṁ vākyaśō bhavatyuktam||17||
buddhyā samyaganupraviśyārthatattvaṁ vāgbhirvyāsasamāsapratijñāhētūdāharaṇōpanayanigamanayuktābhistrividhaśiṣyabuddhigamyābhirucyamānaṁ [26] [27] vākyārthaśō bhavatyuktam||18||
tantraniyatānāmarthadurgāṇāṁ [28] punarvibhāvanairuktamarthāvayavaśō bhavatyuktam||19||


āyurvēdaśravaṇaprasaṅgēnāyurvēdaniruktyā”yuṣastathā”yurvēdasya ca nirūpakaṁ prakaraṇaṁ brūtē- tatrētyādi| vākyaśa ityādi svayamēva vyākariṣyati| ārṣam r̥ṣikr̥tam| tantraṁ śāstram| yathāmnāyamucyamānamiti yathāpāṭhakramēṇōcyamānam| udāharaṇaṁ dr̥ṣṭāntaḥ; upanayaḥ siddhāntōpapāditasya [29] sādhanadharmasya sādhyē punaḥ kathanaṁ, yathā- tathā cāyaṁ dhūmavāniti; nigamanaṁ hētusādhitasādhyadharmakathanaṁ, yathā- tasmādagnimāniti| tantraniyatānāmiti [30] tantragatānām| vibhāvanairuktamiti vyākhyānaiḥ kathanam; uktamiti bhāvē ‘ktaḥ’| asyōdāharaṇaṁ yathā- “śarīracēṣṭā yā cēṣṭā sthairyārthā balavardhinī” (sū. 7) ityatra ‘iṣṭā yā cēṣṭā’ ityētāvanmātramucyatē, tēna dvitīyacēṣṭāpadasya durgasya vyākaraṇaṁ paraṁ bhavati||16-19||

tatra cēt praṣṭāraḥ syuḥ- caturṇāmr̥ksāmayajuratharvavēdānāṁ kaṁ vēdamupadiśantyāyurvēdavidaḥ?, kimāyuḥ?, kasmādāyurvēdaḥ?, kimarthamāyurvēdaḥ?, śāśvatō’śāśvatō vā?, kati kāni cāsyāṅgāni?, kaiścāyamadhyētavyaḥ?, kimarthaṁ ca? iti||20||


idānīmāyurvēdavidaḥ praśnēnaiva nirṇētavyā ityataḥ praśnānāha- tatra cēdityādi| kaṁ vēdamupadiśanti ‘āyurvēdam’ iti śēṣaḥ||20||

tatra bhiṣajā pr̥ṣṭēnaivaṁ caturṇāmr̥ksāmayajuratharvavēdānāmātmanō’tharvavēdē bhaktirādēśyā, vēdō hyātharvaṇō dānasvastyayanabalimaṅgalahōmaniyamaprāyaścittōpavāsamantrādiparigrahāccikitsāṁ prāha; cikitsā cāyuṣō hitāyōpadiśyatē||21||


atharvavēdē bhaktiḥ sēvētyarthaḥ; ētēna bhiṣaksēvyatvēnātharvavēdasyāyurvēdatvamuktaṁ bhavati| āyurvēdasyātharvavēdābhēdahētumāhavēdō hītyādi| ētēnaikaprayōjanatvādatharvavēdaikadēśa ēvāyurvēda ityuktaṁ bhavati||21||

vēdaṁ cōpadiśyāyurvācyaṁ [31] ; tatrāyuścētanānuvr̥ttirjīvitamanubandhō dhāri cētyēkō’rthaḥ||22||


praśnakramēṇa vēdaṁ pratipādyāyurēva pratipādanīyaṁ bhavatītyāha- vēdaṁ cōpadiśyētyādi| cētanānuvr̥ttiriti caitanyasantānaḥ; ētacca garbhāvadhimaraṇaparyantaṁ bōddhavyaṁ, tadūrdhvaṁ cētanānanuvr̥ttēḥ; sākṣādanupalabdhatvēnaivānanuvr̥ttiriti bhāvaḥ| na ca vācyaṁ prasuptasya caitanyavicchēdō bhavatīti, yatastatrāpi ‘sukhamahamasvāpsam’ ityuttarakālīnapratisandhānadarśanāt sūkṣmajñānamastyēva| yadyapi dīrghañjīvitīyē śarīrādisaṁyōga āyurityuktaṁ, tathā’pi tatkāryatvādiha caitanyānuvr̥ttiḥ kāryakāraṇayōrabhēdavivakṣayā āyurucyatē| anubandhadhāriśabdau prathamādhyāyē vyākr̥tau||22||

tadāyurvēdayatītyāyurvēdaḥ [32] ; kathamiti cēt? ucyatē- svalakṣaṇataḥ sukhāsukhatō hitāhitataḥ pramāṇāpramāṇataśca; yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vēdayatyatō’pyāyurvēdaḥ|
tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kēvalēnōpadēkṣyantē tantrēṇa||23||


kasmādāyurvēdaḥ? ityasyōttaraṁ- tadāyurityādi| vēdayati bōdhayati| yē tvatra tantrāntarē vidērlābhādayō’rthā vyākhyātāḥ, tē na sākṣāttadarthajanyā itīha nōktāḥ| svalakṣaṇata ityādi svamayēvōdāhariṣyati| āyuṣyānāyuṣyē āyuḥkāraṇatvēna āyuḥśabdēna vaktavyē, tēnāyuṣyānāyuṣyavēdapakṣē gauṇī niruktiḥ ‘āyurvēdaḥ’ iti; ata ēvātra apiśabdaḥ kr̥taḥ- atō’pyāyurvēda iti| anāyuṣyamapi ca jñātamasēvyatvēnāvyavahriyamāṇamāyuḥ [33] kāraṇaṁ bhavatyēva, tēnānāyuṣyamapyāyuḥkāraṇatayā [34] āyuḥśabdavācyaṁ, nātrāparādhaḥ||23||

tatrāyuruktaṁ svalakṣaṇatō yathāvadihaiva pūrvādhyāyē ca|
tatra [35] śārīramānasābhyāṁ rōgābhyāmanabhidrutasya viśēṣēṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānēndriyēndriyārthabalasamudayē vartamānasya paramarddhiruciravividhōpabhōgasya samr̥ddhasarvārambhasya yathēṣṭavicāriṇaḥ sukhamāyurucyatē; asukhamatō viparyayēṇa; hitaiṣiṇaḥ punarbhūtānāṁ parasvāduparatasya satyavādinaḥ śamaparasya [36] parīkṣyakāriṇō’pramattasya trivargaṁ parasparēṇānupahatamupasēvamānasya pūjārhasampūjakasya jñānavijñānōpaśamaśīlasya vr̥ddhōpasēvinaḥ suniyatarāgarōṣērṣyāmadamānavēgasya satataṁ vividhapradānaparasya tapōjñānapraśamanityasyādhyātmavidastatparasya lōkamimaṁ cāmuṁ cāvēkṣamāṇasya smr̥timatimatō hitamāyurucyatē; ahitamatō viparyayēṇa||24||


ihaivēti ‘tatrāyuścētanānuvr̥ttiḥ’ ityādinā| tatra śārīrētyādinā sukhamāyurabhidhattē| pauruṣam utkr̥ṣṭaṁ karma| jñānavijñānēndriyairbalaśabdaḥ, indriyārthēna ca samudayaśabdaḥ sambadhyatē; kiṁvā jñānādibhiḥ sarvairēva samudayaśabdaḥ sambadhyatē; kiṁvā jñānādibhiḥ sarvairēva ‘balasamudayē’ iti yōjyaṁ; balasya samudayō balasamudayaḥ| paramā atyarthā r̥ddhiryasya sa paramarddhiḥ| samr̥ddhā niṣpāditasādhyāḥ sarvārambhā yasya sa tathā| hitaiṣiṇō bhūtānāmiti sambandhaḥ| tatparasyēti adhyātmaparasya, adhyātmam ātmādisvarūpam| amuṁ cēti paralōkam||24||

pramāṇamāyuṣastvarthēndriyamanōbuddhicēṣṭādīnāṁ vikr̥tilakṣaṇairupalabhyatē’nimittaiḥ, ayamasmāt kṣaṇānmuhūrtāddivasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṁvatsarādvā svabhāvamāpatsyata iti; tatra svabhāvaḥ pravr̥ttēruparamō maraṇamanityatā nirōdha ityēkō’rthaḥ; ityāyuṣaḥ pramāṇam; atō viparītamapramāṇamariṣṭādhikārē; dēhaprakr̥tilakṣaṇamadhikr̥tya cōpadiṣṭamāyuṣaḥ pramāṇamāyurvēdē [37] ||25||
prayōjanaṁ cāsya svasthasya svāsthyarakṣaṇamāturasya vikārapraśamanaṁ ca||26||


vikr̥tirūpairlakṣaṇaiḥ vikr̥tilakṣaṇaiḥ; tēṣāmēva viśēṣaṇam- animittaiḥ; ākasmikaiḥ ariṣṭairityarthaḥ; animittā hi vikr̥tirarthēndriyāṇāmariṣṭam| tatrārthavikr̥tiryathā- “nānāpuṣpōpamagandhō yasya vāti divāniśam” (iṁ. 2) ityādi, indriyavikr̥tiryathā- “yaśca paśyatyadr̥śyān” (iṁ. 4) ityādi, manōvikr̥tiryathā- “yaiḥ purā vindatē bhāvaiḥ samētaiḥ paramāṁ ratim| tairēvāramamāṇasya glāsnōrmaraṇamādiśēt” (iṁ.a.8) iti, buddhivikr̥tiryathā- “buddhirbalamahētukam” ityādi, cēṣṭāvikr̥tiryathā- “vikarṣanniva yaḥ pādau cyutāṁsaḥ paridhāvati” (iṁ. 12) ityādi| ādigrahaṇāt parijanavikr̥tyādayō jñēyāḥ| atra ca riṣṭaprastāvē kṣaṇādivarṣāntakālakathanaṁ varṣādūrdhvaṁ riṣṭajanyamaraṇābhāvāt| atō viparītamapramāṇamiti riṣṭahīnaṁ na niścitapramāṇamāyurariṣṭādhikāra ityarthaḥ| anyadapi cāyuḥpramāṇajñānamāhadēhaprakr̥tītyādi [38] | dēhaśca prakr̥tiśca lakṣaṇaṁ ca dēhaprakr̥tilakṣaṇam| tatra dēhamadhikr̥tyāyuḥpramāṇaṁ yathā- “sarvaiḥ sārairupētāḥ” ityārabhya yāvat “cirajīvinaśca bhavanti” (vi. 8) iti; prakr̥titō yathā- “ślaiṣmikā balavantō vasumantō vidyāvanta ōjasvinaḥ śāntā āyuṣmantaśca bhavanti” (vi. 8) iti; lakṣaṇatō yathā- “tatrēmānyāyuṣmatāṁ kumārāṇāṁ lakṣaṇāni bhavanti” (śā. 8) ityādi| kiṁvā, dēhasya sahajalakṣaṇaṁ dēhaprakr̥tilakṣaṇaṁ, tacca sarvaṁ sāraprakr̥tyādilakṣaṇaṁ bōddhavyam||25-26||

sō’yamāyurvēdaḥ [39] śāśvatō nirdiśyatē, anāditvāt, svabhāvasaṁsiddhalakṣaṇatvāt, bhāvasvabhāvanityatvācca|
na hi nābhūt [40] kadācidāyuṣaḥ santānō buddhisantānō vā, śāśvataścāyuṣō vēditā, anādi ca sukhaduḥkhaṁ sadravyahētulakṣaṇamaparāparayōgāt|
ēṣa cārthasaṅgrahō vibhāvyatē āyurvēdalakṣaṇamiti|
gurulaghuśītōṣṇasnigdharūkṣādīnāṁ [41] dravyāṇāṁ sāmānyaviśēṣābhyāṁ vr̥ddhihrāsau, yathōktaṁ- gurubhirabhyasyamānairgurūṇāmupacayō bhavatyapacayō laghūnāṁ, ēvamēvētarēṣāmiti, ēṣa bhāvasvabhāvō nityaḥ, svalakṣaṇaṁ ca dravyāṇāṁ pr̥thivyādīnāṁ; santi tu dravyāṇi guṇāśca nityānityāḥ|
na hyāyurvēdasyābhūtvōtpattirupalabhyatē, anyatrāvabōdhōpadēśābhyām; ētadvai dvayamadhikr̥tyōtpattimupadiśantyēkē|
svābhāvikaṁ cāsya lakṣaṇamakr̥takaṁ, yaduktamihādyē’dhyāyē ca; yathā- agnērauṣṇyam, apāṁ dravatvam|
bhāvasvabhāvanityatvamapi cāsya, yathōktaṁ- gurubhirabhyasyamānairgurūṇāmupacayō bhavatyapacayō laghūnāmiti||27||


anāditvāditi hētutrayamatra| prathamasya vivaraṇaṁ- na hītyādi| iha vyavahāranityatvamāyurvēdē sādhyaṁ, taccārtharūpasyāyurvēdasya na śabdarūpasya; kiṁvā, vyavahāranityāyurvēdārthābhidhāyakasyāyurvēdasya pāramparyayōgānnityatvaṁ sādhyatē| tatrāyuṣastāvadāyurvēdapratipādyasya nityatvam| na hi nābhūt kadācidāyuḥsantāna iti sarvadaivāyuraparāparasantānanyāyēna vidyatē, āyuryuktānāṁ prāṇināmanucchēdādityarthaḥ| ēvaṁ buddhisantānō’pi nahi kadācinnābhūditi yōjanā| ētēna tasyāpi santānēna nityasyāyuṣō vēdanamapi nityam| śāśvataścāyuṣō vēditēti anēnāyurvēdavēditr̥nityatvamuktam| ētēna vēdyavēdanavēditr̥̄ṇāmanāditvādāyurvēdasya nityatvam| na cāyuḥsvarūpēṇaivāyurvēdaviṣayaḥ, kiṁ tarhi rōgādigr̥hītamityāha- anādi cētyādi| sukhaduḥkhamiti ārōgyaṁ sukhaṁ, vyādhirduḥkham| sadravyahētulakṣaṇamiti sahētucikitsitaliṅgama| hētuśabdō hi dravyaśabdēnaiva vyādhikāraṇasyōktatvāt praśamahētumāha; kēcittu ‘sahētulakṣaṇam’ iti paṭhanti, tatrāpi hētuśabdēna janakaḥ śamakaśca rōgahēturvācyaḥ; yadi vā sukhahēturbhēṣajaṁ duḥkhahētuśca nidānamiti jñēyaṁ, lakṣaṇaṁ ca vyādhyārōgyayōrubhayōrapi; ētēna duḥkhaṁ tāvat kadācidapyajihāsitaṁ na bhavati, jihāsitamanupāyaṁ na bhavati, upāyaścāyurvēda ēva, sa ca sarvaduḥkhaparihārārthamupādēyaḥ; tasmādduḥkhapraśamanōpāyōpadēśarūpāyurvēdasyānāditēti bhāvaḥ| ēvaṁ sukhasya nityōpādēyasyānāditvaṁ jñēyaṁ, tadupāyasyāyurvēdasya ca| kathamanādi sukhaduḥkhamityāha- aparāparayōgāditi; santānādityarthaḥ| svabhāvasaṁsiddhalakṣaṇatvaṁ dvitīyaṁ hētumāha- ēva cētyādi| ēṣa iti āyurbuddhivēditr̥sukhaduḥkhāni| arthasaṅgrahaḥ abhidhēyasaṅgrahaḥ; ētēna āyurādirāyurvēdapratipādya iti darśayati| ayaṁ cāyurādiratrāyurvēdalakṣaṇamiti vibhāvyatē jñāyata ityarthaḥ| āyurādinā’bhidhēyēnāyurvēdō lakṣyatē, vacanaṁ hi- “hitāhitaṁ sukhaṁ duḥkhaṁ” (su. 1) ityādyāyurvēdalakṣaṇam| ētēna, āyurādērarthasyāyurvēdalakṣaṇasyānāditayā yathōktayā svabhāvasaṁsiddhalakṣaṇatvaṁ vyākr̥taṁ bhavati| svabhāvasaṁsiddhamiti [42] sarvadā santānanyāyēna siddhatvamabhiprētam| bhāvasvabhāvanityatvāditi tr̥tīyaṁ hētuṁ vyākarōti- gurvityādi| gurulaghusnigdharūkṣaśītōṣṇādīnāṁ dravyāṇāṁ sāmānyaviśēṣābhyāṁ yathākramaṁ vr̥ddhihrāsau bhavataḥ| tadēva pūrvōktaṁ ghaṭayati- gurubhirityādinā ēvamēvētarēṣāmityantēna| ēvamēvētarēṣāmiti [43] laghubhirabhyasyamānairlaghūnāmupacayō bhavati, apacayō gurūṇāmityādi draṣṭavyam| ēṣa ityēvamprakāraḥ; bhāvasvabhāvō nitya iti naiṣa sāmānyaviśēṣābhyāṁ vr̥ddhihrāsarūpō bhāvasvabhāvaḥ kadācidanyathā bhavatītyarthaḥ| na kēvalamayaṁ bhāvasvabhāvō nityaḥ, kintarhyanyō’pītyāha- svalakṣaṇaṁ cētyādi| svalakṣaṇaṁ pr̥thivyādīnāṁ kharadravatvādi| kathaṁ pr̥thivyādisvalakṣaṇaṁ nityamityāha- santi tvityādi| dravyāṇi yasmāt sarvadā santi, guṇāśca nityāḥ santi sarvadā, cakārāddravyāṇi cānityāni santi| tatrākāśādi dravyaṁ nityaṁ, pr̥thivyādi kāryaṁ cānityam| ēvaṅguṇā ākāśaparimāṇādayō nityāḥ, anityāśra kāryaguṇā rasādayaḥ, anityā api ca sajātīyāparāparasantānanyāyēna sarvadā tiṣṭhantīti yuktamanityānāmapi santānanityatvamiti bhāvaḥ| atra bhāvasvabhāvanityatvēna hētunā bhāvasvabhāvasya vyādhijanakasya tathā vyādhipraśamakasya nityatvēna tatpratipādakasyāyurvēdasyāpi nityatvamuktaṁ bhavatīti mantavyam| athāyurvēdasya yatra tatrōtpattiśravaṇāt kathaṁ nityatvamityāha- na hyāyurvēdasyētyādi| abhūtvōtpattiḥ pūrvamasata utpattiḥ| anyatrāvabōdhōpadēśābhyāmiti yatra yatrāyurvēdasyōtpattiruktā, tatra tatrāvabōdhādupadēśādvā; avabōdhādutpattiryathā- brahmaṇa āyurvēdōtpattiḥ, upadēśāccōtpattiryathā- indrōpadēśādbharadvājēna martyalōkē āyurvēda utpādita ityādi| ētaddvayamiti avabōdhōpadēśau [44] | nanu, svabhāvasaṁsiddhalakṣaṇatvāditi yō hēturuktaḥ, tatra svābhāvikaṁ ca lakṣaṇaṁ bhaviṣyatyanityaṁ ca, yathā- ghaṭē kambugrīvākāratādi, na hi tat svābhāvikamapi ghaṭasya nityatāṁ sādhayatītyāha- svābhāvikaṁ cētyādi| akr̥takamiti nāsmadādinā [45] kr̥tam| yaduktamiha- ‘svalakṣaṇataḥ sukhāsukhataḥ’ ityādinā, ādyē cādhyāyē dīrghañjīvitīyē “hitāhitaṁ sukhaṁ duḥkhaṁ” (sū. 1) ityādinā| atraivākr̥takatvē dr̥ṣṭāntamāha- yathā’gnērauṣṇyamityādi| ētēna svalakṣaṇasyākr̥takatvēna vyavahāranityatvāttatpratipādakasyāyurvēdasyāpi vyavahāranityatvamiti bhāvaḥ| na kēvalaṁ svābhāvikaṁ lakṣaṇamakr̥takaṁ, kiṁ tarhi bhāvasvabhāvanityatvamapi na kēnacidīśvarādinā kr̥tamityāha- bhāvasvabhāvanityatvamapi cēti; akr̥takamiti cakārēṇānukarṣati| tadēva bhāvasvabhāvanityatvaṁ darśayati- yathōktamityādi| sāmānyaviśēṣakr̥tavr̥ddhihrāsakārakō(ṇō)’pi bhāvasvabhāvō na kēnacit kr̥ta ityarthaḥ, tataścāyurvēdō’pi nityaḥ||27||

tasyāyurvēdasyāṅgānyaṣṭau; tadyathā- kāyacikitsā [46] , śālākyaṁ, śalyāpahartr̥kaṁ, viṣagaravairōdhikapraśamanaṁ, bhūtavidyā, kaumārabhr̥tyakaṁ, rasāyanaṁ, vājīkaraṇamiti||28||


samprati kāni cētyādipraśnasyōttaraṁ- tasyētyādi| kāyasyāntaragnēścikitsā kāyacikitsā| paṭalavēdhaśalākāpradhānamaṅgaṁ śālākyam| garaḥ kālāntaraprakōpi viṣaṁ, vairōdhikaṁ saṁyōgaviruddham [47] | bhūtānāṁ rākṣasādīnāṁ jñānārthā praśamārthā ca vidyā bhūtavidyā| kumārasya bharaṇamadhikr̥tya kr̥taṁ kaumārabhr̥tyam||28||

sa cādhyētavyō brāhmaṇarājanyavaiśyaiḥ|
tatrānugrahārthaṁ prāṇināṁ brāhmaṇaiḥ, ārakṣārthaṁ [48] rājanyaiḥ, vr̥ttyarthaṁ vaiśyaiḥ; sāmānyatō vā dharmārthakāmaparigrahārthaṁ sarvaiḥ|
tatra yadadhyātmavidāṁ dharmapathasthānāṁ dharmaprakāśakānāṁ vā mātr̥pitr̥bhrātr̥bandhugurujanasya vā vikārapraśamanē prayatnavān bhavati, yaccāyurvēdōktamadhyātmamanudhyāyati vēdayatyanuvidhīyatē vā, sō’sya parō dharmaḥ; yā punarīśvarāṇāṁ vasumatāṁ vā sakāśāt sukhōpahāranimittā bhavatyarthāvāptirārakṣaṇaṁ ca, yā ca svaparigr̥hītānāṁ prāṇināmāturyādārakṣā, sō’syārthaḥ; yat punarasya vidvadgrahaṇayaśaḥ [49] śaraṇyatvaṁ ca, yā ca sammānaśuśrūṣā, yaccēṣṭānāṁ viṣayāṇāmārōgyamādhattē sō’sya kāmaḥ|
iti yathāpraśnamuktamaśēṣēṇa||29||


ārakṣārthaṁ rājanyairiti kṣatriyasya paripālanadharmatvāt| anudhyāyati manasā cintayati| vēdayatīti anyasya pratipādayati| anuvidhīyata iti tadanuguṇaṁ [50] dēhēnānutiṣṭhati| ārakṣaṇam ātmādirakṣaṇam| svaparigr̥hītānāmiti bhr̥tyādīnām| vidvadgrahaṇamēva yaśaḥ vidvadupādēyatājanyaṁ yaśa ityarthaḥ| iṣṭānāmiti vanitādīnām||29||

atha bhiṣagādita ēva bhiṣajā praṣṭavyō’ṣṭavidhaṁ bhavati- tantraṁ, tantrārthān, sthānaṁ, sthānārthān, adhyāyam, adhyāyārthān, praśnaṁ, praśnārthāṁścēti; pr̥ṣṭēna caitadvaktavyamaśēṣēṇa vākyaśō vākyārthaśō’rthāvayavaśaścēti [51] ||30||


bhiṣakparīkṣārthaṁ pr̥cchāvidhimāha- athētyādi||30||

tatrāyurvēdaḥ śākhā vidyā sūtraṁ jñānaṁ śāstraṁ lakṣaṇaṁ tantramityanarthāntaram [52] ||31||
tantrārthaḥ [53] punaḥ svalakṣaṇairupadiṣṭaḥ|
sa cārthaḥ prakaraṇairvibhāvyamānō bhūya ēva śarīravr̥ttihētuvyādhikarmakāryakālakartr̥karaṇavidhiviniścayāddaśaprakaraṇaḥ, tāni ca prakaraṇāni kēvalēnōpadēkṣyantē tantrēṇa||32||


tatrētyādi| svalakṣaṇairiti tadāyurvēdayatītyāyurvēdaḥ, ityādinā hitāhitāyūrūpairityarthaḥ| prakaraṇairiti āyurvēdapradēśaiḥ| daśaprakaraṇāni daśabhēdāḥ, tē ca śarīrādayō daśa| tatra śarīraṁ pañcamahābhūtavikārasamudayātmakamavayavādibhēdādbahuprakāraṁ; vr̥ttiścāhārō’śitapītādibhēdabhinnā(nnaḥ); hētustu vyādhihēturasātmyēndriyārthasaṁyōgaprajñāparādhapariṇāmalakṣaṇaḥ; vyādhiśca dhātuvaiṣamyarūpaḥ; karma cikitsā; kāryam ārōgyaṁ; kālaḥ r̥tvādiḥ, kriyākālaśca; kartā bhiṣak; karaṇaṁ bhēṣajaṁ; vidhiḥ vidhānam upakalpanā, sā ca kālavyādhidravyāpēkṣā bōddhavyā, yathā- “hēmantē’bhyasatastōyamuṣṇamāyurna hīyatē” (sū. 6) ityādi; dēśastvatrāhitō hētugrahaṇēna, hitastu dēśaḥ karaṇagrahaṇēna gr̥hītō mantavyaḥ [54] | śarīravr̥ttyādibhēdāśca bahavaḥ kr̥tsnē tantrē buddhimatā bōddhavyāḥ| kēvalēnēti samagrēṇa||31-32||

tantrasyāsyāṣṭau sthānāni [55] ; tadyathā- ślōkanidānavimānaśārīrēndriyacikitsitakalpasiddhisthānāni|
tatra triṁśadadhyāyakaṁ ślōkasthānam, aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni, dvādaśakamindriyāṇāṁ, triṁśakaṁ cikitsitānāṁ, dvādaśakē kalpasiddhisthānē bhavataḥ||33||


tantrasyāsyētyādi| indriyāṇāṁ cikitsitānāṁ cētyubhayatrāpi sthānamiti śēṣaḥ||33||

bhavati cātra-
dvē triṁśakē dvādaśakaṁ trayaṁ ca trīṇyaṣṭakānyēṣu samāptiruktā|
ślōkauṣadhāriṣṭavikalpasiddhinidānamānāśrayasañjñakēṣu||34||


triṁśakē iti sūtrasthānaṁ cikitsitaṁ ca| āśrayasañjñakaṁ śārīrasthānam, āśrayō hi śarīramucyatē||34||

svē svē sthānē yathāsvaṁ ca sthānārtha upadēkṣyatē|
saviṁśamadhyāyaśataṁ śr̥ṇu nāmakramāgatam||35||


saviṁśamiti viṁśatiśabdāt svārthē ‘ḍaḥ’, svārthikaśca ‘ḍaḥ’ pratyayō bhavati; tēna lalitēśvarē ca- “caturviṁśādhikaṁ” iti prayōgaḥ siddhō bhavati; vacanaṁ hi “caturviṁśādhikaṁ jñēyaṁ bhuvanānāṁ śatatrayam” iti| ēvaṁ suśrutē’pi ‘saviṁśaṁ’ (su.sū.a.1) iti vyākhyēyam||35||

dīrghañjīvō’pyapāmārgataṇḍulāragvadhādikau|
ṣaḍvirēkāśrayaścēti [56] catuṣkō bhēṣajāśrayaḥ||36||
mātrātasyāśitīyau ca navēgāndhāraṇaṁ tathā|
indriyōpakramaścēti catvāraḥ svāsthyavr̥ttikāḥ [57] ||37||
khuḍḍākaśca catuṣpādō mahāṁstisraiṣaṇastathā|
saha vātakalākhyēna vidyānnairdēśikān budhaḥ||38||
snēhanasvēdanādhyāyāvubhau yaścōpakalpanaḥ|
cikitsāprābhr̥taścaiva sarva ēva prakalpanāḥ||39||
kiyantaḥśirasīyaśca triśōphāṣṭōdarādikau|
rōgādhyāyō mahāṁścaiva rōgādhyāyacatuṣṭayam||40||
aṣṭauninditasaṅkhyātastathā laṅghanatarpaṇē|
vidhiśōṇitikaścaiva vyākhyātāstatra yōjanāḥ||41||
yajjaḥpuruṣasaṅkhyātō bhadrakāpyānnapānikau|
vividhāśitapītīyaścatvārō’nnaviniścayāḥ||42||
daśaprāṇāyatanikastathā’rthēdaśamūlikaḥ|
dvāvētau prāṇadēhārthau prōktau vaidyaguṇāśrayau||43||
auṣadhasvasthanirdēśakalpanārōgayōjanāḥ|
catuṣkāḥ ṣaṭ kramēṇōktāḥ saptamaścānnapānikaḥ||44||
dvau cāntyau saṅgrahādhyāyāviti triṁśakamarthavat|
ślōkasthānaṁ samuddiṣṭaṁ tantrasyāsya śiraḥ śubham [58] ||45||
catuṣkāṇāṁ mahārthānāṁ sthānē’smin saṅgrahaḥ kr̥taḥ|
ślōkārthaḥ saṅgrahārthaśca ślōkasthānamataḥ smr̥tam||46||
jvarāṇāṁ raktapittasya gulmānāṁ mēhakuṣṭhayōḥ|
śōṣōnmādanidānē ca syādapasmāriṇāṁ ca yat||47||
ityadhyāyāṣṭakamidaṁ nidānasthānamucyatē|
rasēṣu trividhē kukṣau dhvaṁsē janapadasya ca||48||
trividhē rōgavijñānē srōtaḥsvapi ca vartanē|
rōgānīkē vyādhirūpē rōgāṇāṁ ca bhiṣagjitē||49||
aṣṭau vimānānyuktāni mānārthāni maharṣiṇā|
katidhāpuruṣīyaṁ ca gōtrēṇātulyamēva ca||50||
khuḍḍikā mahatī caiva garbhāvakrāntirucyatē|
puruṣasya śarīrasya vicayau dvau viniścitau||51||
śarīrasaṅkhyā sūtraṁ ca jātēraṣṭamamucyatē [59] |
ityuddiṣṭāni muninā śārīrāṇyatrisūnunā||52||
varṇasvarīyaḥ puṣpākhyastr̥tīyaḥ parimarśanaḥ|
caturtha indriyānīkaḥ pañcamaḥ pūrvarūpikaḥ||53||
katamāniśarīrīyaḥ pannarūpō’pyavākśirāḥ|
yasyaśyāvanimittaśca sadyōmaraṇa ēva ca||54||
aṇujyōtiriti khyātastathā gōmayacūrṇavān|
dvādaśādhyāyakaṁ sthānamindriyāṇāmiti smr̥tam [60] ||55||
abhayāmalakīyaṁ ca prāṇakāmīyamēva ca|
karapracitakaṁ vēdasamutthānaṁ rasāyanam||56||
saṁyōgaśaramūlīyamāsiktakṣīrakaṁ tathā|
māṣaparṇabhr̥tīyaṁ ca pumāñjātabalādikam||57||
catuṣkadvayamapyētadadhyāyadvayamucyatē|
rasāyanamiti jñēyaṁ vājīkaraṇamēva ca||58||
jvarāṇāṁ raktapittasya gulmānāṁ mēhakuṣṭhayōḥ|
śōṣōnmādē’pyapasmārē kṣataśōthōdarārśasām||59||
grahaṇīpāṇḍurōgāṇāṁ śvāsakāsātisāriṇām|
chardivīsarpatr̥ṣṇānāṁ viṣamadyavikārayōḥ||60||
dvivraṇīyaṁ trimarmīyamūrustambhikamēva ca|
vātarōgē vātaraktē yōnivyāpatsu caiva yat||61||
triṁśaccikitsitānyuktānyataḥ kalpān [61] pracakṣmahē|
phalajīmūtakēkṣvākukalpō dhāmārgavasya ca||62||
pañcamō vatsakasyōktaḥ ṣaṣṭhaśca kr̥tavēdhanē|
śyāmātrivr̥tayōḥ kalpastathaiva caturaṅgulē||63||
tilvakasya sudhāyāśca saptalāśaṅkhinīṣu ca|
dantīdravantyōḥ kalpaśca dvādaśō’yaṁ samāpyatē||64||
kalpanā pañcakarmākhyā bastisūtrī tathaiva ca|
snēhavyāpadikī siddhirnētravyāpadikī tathā||65||
siddhiḥ śōdhanayōścaiva bastisiddhistathaiva ca|
prāsr̥tī marmasaṅkhyātā siddhirbastyāśrayā ca yā||66||
phalamātrā tathā siddhiḥ siddhiścōttarasañjñitā|
siddhayō dvādaśaivaitāstantraṁ cāsu [62] samāpyatē||67||
svē svē sthānē [63] tathā’dhyāyē cādhyāyārthaḥ pravakṣyatē|
taṁ brūyāt sarvataḥ sarvaṁ yathāsvaṁ [64] hyarthasaṅgrahāt||68||


dīrghañjīvētyādisañjñāḥ ślōkānurōdhādēkadēśalakṣaṇā bōddhavyāḥ| prāṇadēhārthāvityādau dēhaśabdēnaujō’bhidhīyatē [65] | śiraḥ śubhamityatra śira iva śiraḥ| ślōkārtha ityādau saṅgrahārthaścēti cakārāt suśrutōktasūtraṇādikaṁ, tēna “sūtraṇāt sūcanāccaiva dhāraṇādarthasantataiḥ| sūtrasthānaṁ samuddiṣṭam” (su. sū. 3) ityētadapi gr̥hītaṁ bhavati| mānārthānīti jñānārthāni| indriyāṇāmiti riṣṭānām| catuṣkadvayamiti rasāyanapādacatuṣka ēkaḥ, vājīkaraṇapādacatuṣkaścaikaḥ; catuṣpādaścādhyāyō bhavatīti yuktamēvādhyāyatvam| tantraṁ cāsu samāpyata iti āsu samāptāsu tantraṁ samāpyata ityarthaḥ| cādhyāyārtha iti cakārō bhinnakramē; tēna adhyāyārthaścādhyāyāntē tathā sthānārthaśca sthānāntē kr̥tasaṅgrahaḥ| yadyapi śārīrē sthānārthō na vyaktaḥ, tathā’pi śārīraśabdavyupattyā bōddhavyastantrāntarādvā; yathā- “śarīraṁ cintyatē sarvaṁ daivamānuṣasampadā| sarvabhāvairyatastasmācchārīraṁ sthānamucyatē” (śā. 8) iti||36-68||

pr̥cchā tantrādyathāmnāyaṁ vidhinā praśna ucyatē|
praśnārthō yuktimāṁstasya tantrēṇaivārthaniścayaḥ [66] ||69||
niruktaṁ [67] tantraṇāttantraṁ, sthānamarthapratiṣṭhayā|
adhikr̥tyārthamadhyāyanāmasañjñā pratiṣṭhitā [68] ||70||
iti sarvaṁ yathāpraśnamaṣṭakaṁ samprakāśitam|
kārtsnyēna cōktastantrasya saṅgrahaḥ suviniścitaḥ||71||


vidhinā praśna ityatra vidhinēti pūrvāparavirōdhādidōṣaśūnyēna vākyēna| tantraṇāditi śarīradhāraṇāt; kiṁvā āyurvēdānupālanāt| arthapratiṣṭhayēti pradhānabhūtārthāvasthānāt| ētāśca yōgarūḍhāḥ sañjñāḥ; tēna, atiprasaṅgō na vācyaḥ| adhikr̥tyēti adhikāriṇaṁ kr̥tvā| arthaṁ dīrghañjīvitādikam| adhyāyanāmasañjñā adhyāyarūpā nāmasañjñā, nāmasañjñā ca yōgarūḍhā sañjñōcyatē; kiṁvā, ‘adhyāyō nāma’ iti pāṭhaḥ, tadā nāmaśabdaḥ prakāśanē, tēna adhikāra ityarthaḥ| arthaśabdō’trārthāntarē, tēna yuktā’dhyāyasañjñā, sā ca adhikaraṇasādhanā karaṇasādhanā vā karmasādhanā vā bōddhavyā| adhīyatē’smin, adhyētyanēna vā, adhīyatē vētyadhyāyaḥ||69-71||

santi pāllavikōtpātāḥ [69] saṅkṣōbhaṁ janayanti yē|
vartakānāmivōtpātāḥ sahasaivāvibhāvitāḥ||72||
tasmāttān [70] pūrvasañjalpē sarvatrāṣṭakamādiśēt|
parāvaraparīkṣārthaṁ tatra śāstravidāṁ balam||73||
śabdamātrēṇa tantrasya kēvalasyaikadēśikāḥ|
bhramantyalpabalāstantrē jyāśabdēnēva vartakāḥ||74||


praśnāṣṭakasyōktasya nirākaraṇīyasañjñāmāha [71] – santītyādi| pāllavikāḥ prādēśikāḥ| vartakā akasmādutpatantaḥ kṣōbhaṁ manasō janayantīti lōkaprasiddham| aṣṭakamiti yathōktaṁ praśnāṣṭakam| parāvarau śrēṣṭhāśrēṣṭhau| tatra śāstravidāṁ balamiti śāstravida ēva praśnāṣṭakaṁ jānanti na pāllavikāḥ||72-74||

paśuḥ paśūnāṁ daurbalyāt kaścinmadhyē vr̥kāyatē|
sa satyaṁ vr̥kamāsādya prakr̥tiṁ bhajatē paśuḥ||75||
tadvadajñō’jñamadhyasthaḥ kaścinmaukharyasādhanaḥ|
sthāpayatyāptamātmānamāptaṁ tvāsādya bhidyatē||76||
babhrurgūḍha ivōrṇābhirabuddhirabahuśrutaḥ|
kiṁ vai vakṣyati sañjalpē kuṇḍabhēdī jaḍō yathā||77||
sadvr̥ttairna vigr̥hṇīyādbhiṣagalpaśrutairapi|
hanyāt praśnāṣṭakēnādāvitarāṁstvāptamāninaḥ [72] ||78||
dambhinō mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ|
prāyaḥ, prāyēṇa sumukhāḥ santō yuktālpabhāṣiṇaḥ||79||
tattvajñānaprakāśārthamahaṅkāramanāśritaḥ|
svalpādhārājñamukharānmarṣayēnna vivādinaḥ||80||
parō bhūtēṣvanukrōśastattvajñāna(nē)parā dayā|
yēṣāṁ tēṣāmasadvādanigrahē niratā matiḥ||81||


prakr̥tiḥ svabhāvaḥ| babhrurūrṇāvān kaścit paśuḥ, sa yathā mēṣaṁ yuddhāyātmīyāmivōrṇāṁ dr̥ṣṭvā upasarpannaṅgabhaṅgamāpnōti, tadvadajñō’pyāptaṁ prāpya bhidyata ityarthaḥ; kiṁvā, babhrurvr̥ddhanakula ūrṇārāśimadhyagō yathā kiñcinna pratipadyatē, tathā’buddhirapi sañjalpē vādiprativādikathāyām| kuṇḍabhēdī bhraṣṭayōniḥ; tēna pr̥cchāditātmīyanirṇitajātiryathā’vadātajātiḥ san kaścidbrūtē, tathā’buddhirapi sañjalpē| vigr̥hṇīyād vigr̥hya sambhāṣāṁ kuryāt| itarān asadvr̥ttān| svalpādhārāḥsvalpaśrutāḥ| na marṣayēditi nōpēkṣēta| ajñavaidyasaṁvādapratiṣēdhaphalamāha- parō bhūtēṣvityādi| niratā iti tatparā||75-81||

asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ|
bhavantyanāptāḥ svē tantrē prāyaḥ paravikatthakāḥ||82||
tān kālapāśasadr̥śān varjayēcchāstradūṣakān|
praśamajñānavijñānapūrṇāḥ sēvyā bhiṣaktamāḥ||83||


ajñavaidyaphalamāha- asatpakṣētyādi| asatpakṣādi sādhanaṁ yēṣāṁ tē tathā; asatpakṣaḥ anāgamapakṣasiddhaḥ pakṣaḥ| akṣaṇitvaṁ pr̥cchārthamanuyuktasya ‘samprati vaktuṁ kṣaṇō nāsi’ iti bhāṣaṇam, artiḥ pr̥cchārthamanuyuktasya [73] śirōvyathādikamudbhāvya [74] bhāṣaṇaṁ, dambhaḥ pustakavaidyabhāṇḍādibhiḥ svārthōtkarṣapratipādanaṁ, pāruṣyaṁ kr̥cchratō’pi navācyatvādiparuṣabhāṣaṇam [75] | anāptāḥ svē tantra iti svatantrānabhijñānāt| paravikatthakāḥ paradūṣakāḥ||82-83||

samagraṁ duḥkhamāyattamavijñānē dvayāśrayam|
sukhaṁ samagraṁ vijñānē vimalē ca pratiṣṭhitam||84||
idamēvamudārārthamajñānāṁ na prakāśakam|
śāstraṁ dr̥ṣṭipraṇaṣṭānāṁ yathaivādityamaṇḍalam||85||


dvayāśrayamiti manaḥśarīrāśrayam| samagramiti śārīraṁ mānasaṁ ca sukhamārōgyādirūpam| vijñānē vimala iti viśuddhajñānē, kiṁvā vijñānē vimala iti mōkṣē, mōkṣē hi sukhaṁ svacchaṁ samagraṁ ca duḥkhāsambhinnatvāt; kiṁvā, bhaṭṭadarśanāt susambhavam| idamiti śāstram| ēvamudārārthamiti lōkadvayahitārthābhidhāyakam| dr̥ṣṭipraṇaṣṭānāmiti praṇaṣṭadr̥śām||84-85||

tatra ślōkāḥ-
arthē daśamahāmūlāḥ sañjñā cāsāṁ yathā kr̥tā|
ayanāntāḥ ṣaḍagryāśca rūpaṁ vēdavidāṁ ca yat||86||
saptakaścāṣṭakaścaiva paripraśnāḥ sanirṇayāḥ|
yathā vācyaṁ yadarthaṁ ca ṣaḍvidhāścaikadēśikāḥ||87||
arthēdaśamahāmūlē sarvamētat prakāśitam|
saṅgrahaścāyamadhyāyastantrasyāsyaiva kēvalaḥ||88||
yathā sumanasāṁ sūtraṁ saṅgrahārthaṁ vidhīyatē|
saṅgrahārthaṁ tathā’rthānāmr̥ṣiṇā saṅgrahaḥ kr̥taḥ||89||


saṅgrahē sañjñā cāsāṁ yathā kr̥tēti ‘tēna mūlēna mahatā mahāmūlā’ ityādinā| ayanāntāḥ ṣaḍagryāścēti ‘ēkaṁ prāṇavardhanānām’ ityādinōktāḥ| ētē cāhiṁsādayō’gryādhikārē yajjaḥpuruṣīyē uktā ullaṅghyēhōktā adhyātmaviṣayatvēna, pūrvōktāstvagryarōgādhikārikāḥ; uktaṁ hi tatra- “alamētadvikārāṇām” (sū.a.25) ityādi| saptakaḥ praśnaḥ ‘kimāyuḥ? kasmādāyurvēdaḥ?’ ityādi; aṣṭakaḥ praśnaḥ ‘tantraṁ tantrārthaṁ’ ityādi||86-89||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē’rthēdaśamahāmūlīyō nāma triṁśō’dhyāyaḥ||30||
agnivēśakr̥tē tantrē carakapratisaṁskr̥tē|
iyatā’vadhinā sarvaṁ sūtrasthānaṁ samāpyatē|


iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ sūtrasthānē’rthēdaśamahāmūlīyastriṁśattamō’dhyāyaḥ||30||
iti carakacaturānanaśrīmaccakrapāṇidattakr̥tāyāmāyurvēdadīpikāyāṁ carakatātparyaṭīkāyāṁ prathamaṁ sūtrasthānam||1||

1. ‘tatra hr̥dayāśritavyādhīnāṁ śīghraṁ pratikartavyatāṁ bōdhayituṁ sarvāvayavāpēkṣayā hr̥dayasya prādhānyamāha- arthē ityādi| hr̥dayē samāsaktāḥ prasaṅgatā mahāmūlā dhamanyō daśētyanvayaḥ| mahaddhr̥dayaṁ mūlaṁ yāsāmiti vigrahaḥ| mahadarthayōrarthaṁ spaṣṭayati- mahaccārthaścētyādi| arthyatē upādīyatayā yācyata ityarthaḥ’ iti śivadāsasēnaḥ|
2. ‘sirāḥ saktā’ iti pā.|
3. ‘ātmā ca saguṇa ityatra guṇaśabdēna vijñānātirikta ātmaguṇō gōbalīvardanyāyēnābhidhīyatē, ēvamindriyāṇītyanēnāpi manōbhinnamindriyamucyatē| ētacca vijñānamanasōḥ sajātīyēṣu prādhānyakhyāpanārthaṁ pr̥thagbōdhyam’ iti śivadāsasēnaḥ|
4. ‘śrutipratipaṭhitāḥ’ iti pā.|
5. ‘nanu yadyapyātmanō vibhutvēna nādhēyatvamuktaṁ, tathā’pi liṅgaśarīravacchinnasya sāṅkhyasvīkr̥tasya jīvātmanō hr̥dayāśritatvamupacārēṇa śakyatē vaktum, ēvamātmaguṇasyāpi hr̥dayāśritatvaṁ paramparayā’pi śakyatē’bhidhātuṁ, manasō’pi prāyaśō hr̥daya ēvāvasthitiriti tasyāpi hr̥dayāśritatvamastu, ēvamaticintayā hr̥dayamēva pīḍyatē nānyadaṅgamiti darśanāttasyāpi hr̥dayāśritatvaṁ yathākathañcidupapadyatāṁ nāmaḥ| ṣaḍaṅgādīnāṁ tu hr̥dayāśritatvaṁ kathamapi nōpapadyatē, yāvatā ‘hr̥dayaṁ dvyaṅgulam’ iti vakṣyati, ṣaḍaṅgāśrayamaṅgaṁ ca mahaditi, indriyāṇyapi cakṣurādīni hr̥dayā’pēkṣayā nitarāṁ viprakr̥ṣṭāni, arthāśca śabdādayō bāhyadravyāśrayiṇa ityāśaṅkāṁ nirācikīrṣurāha- ‘pratiṣṭhārthamityādi’ iti śivadāsasēnaḥ|
6. ‘kāryakāraṇāvirōdhēna’ iti pā.|
7. ‘gr̥hācchādanadhārakakāṣṭhāni’ iti pā.|
8. ‘alamātmanō vyāpakasyāśrayāśrayibhāvēna vyutpāditēna| yaścātmā saṁsārī hr̥dayāśritō bhavati tasyaiva hr̥dayanāśānnāśa iti bhāvaḥ’ iti pā.|
9. ‘cikitsitē’ iti pā.|
10. ‘indriyāṇyasmaddarśanārthaṁ’ iti pā.|
11. ‘saṅgrahaṁ saṁvaraṇaṁ’ iti pā.|
12. ‘vidhamyantē visarpyantē, kiṁvā vidhamyantē pūryantē ‘vāhyēna dhātunā’ iti śēṣaḥ’ iti śivadāsasēnaḥ|
13. ‘sarvajantavaḥ’ iti pā.|
14. ‘yō’sau’ iti pā.|
15. ‘saṁvardhamānaṁ’ iti pā.|
16. ‘samāviśati yat punaḥ’ iti kavirājaśrīgaṇanāthasēnasammataḥ pāṭhaḥ, yuktaścāyaṁ| bhēla(ḍē)’pi paṭhyatē- “hr̥dō rasō niḥsarati tata ēva ca sarvataḥ| sirābhirhr̥dayaṁ caiti tasmāddhr̥tprabhavāḥ sirāḥ” (bhē. sū. 20) iti|
17. ‘yasyānāśānna nāśō’sti’ iti pā.|
18. ‘dhārīti jīvādhiṣṭhitaṁ liṅgaśarīraṁ, tadēva śarīradhārakatvāddhāriśabdēnōcyatē| kiṁvā, jīvitadhārakatvādōja ēva dhāriśabdārtha ucyatē| yasya nāśāttu nāśō’sti dhāri yaddhr̥dayāśritāmiti ētēna yasmānnikhilapadārthajñānahētubhūtaṁ manō hr̥di saṁśritaṁ tiṣṭhati, tasmāttadupaghātabhēdābhyāṁ manōjīvitayōrapyupaghātabhēdāviti mūrcchā maraṇaṁ cōpapannamityarthaḥ| yadyapi manōjīvitāśrayatvēna hr̥dayamuktamēva, tathā’pi tadupaghātasya mūrcchāmaraṇahētutvapradarśanārthaṁ punaruktamiti mantavyam’ iti śivadāsasēnaḥ|
19. ‘vividhāḥ’ iti pā.|
20. ‘tadbalēna’ iti pā.|
21. ‘rasasyaiva pōṣakasya sravaṇāt’ iti pāṭhō yuktaḥ|
22. ‘saraṇāt avayavāntaragamanāt’ iti pā.|
23. ‘niyamānām’ iti pā.|
24. ‘vīryam utsāhaḥ| vidyā yōgavidyā| nandanānāmiti śrēyaḥsamr̥ddhijananānām| ayanānāmiti mōkṣasādhanamārgāṇām’ iti śivadāsasēnaḥ|
25. ‘dharmajananāttayā”yurvardhanaṁ’ iti pā.|
26. ‘sādhyadharmavattvēna pakṣakathanaṁ pratijñā, yathā- āyurvēdō nitya iti| hētuḥ tatsādhakavacanaṁ, yathā- anāditvāditi| udāharaṇaṁ dr̥ṣṭāntaḥ, yathā- ātmavaditi| upanayō nāma sādhanadharmavattvēna punaḥ pakṣakathanaṁ, yathā ātmā anādistathā cāyamiti| nigamanaṁ tu punarhētusādhitasya sādhyasya pakṣaniṣṭhatayā kathanaṁ, yathā- tasmānnityaḥ’ iti śivadāsasēnaḥ|
27. ‘…puruṣabuddhigamyābhiḥ’ iti pā.| ‘trividhaśiṣyabuddhigamyābhiriti uttamamadhyamādhamaśiṣyabuddhigamyābhiḥ’ iti śivadāsasēnaḥ|
28. ‘tantraniyatārthānāṁ’ iti pā.|
29. ‘siddhāntavyutpāditasya’ iti pā.|
30. ‘avayavaśa ityasyārthamāha- tantraniyatānāmityādi| atrāpi tantramārṣamiti sambadhyatē, tantraniyatānāṁ tantragatānām| duḥkhēna gamyantē budhyantē iti durgāḥ, durgārthānāmiti durgāśca tē arthāścēti tēṣāṁ, vibhāvanaiḥ prakāśanaiḥ, tantrasthitānāṁ durbōdhārthānāṁ yat punaḥ prakāśanāni tairuktaṁ vyākhyātaṁ tantramavayavaśa uktaṁ bhavatītyarthaḥ| asyōdāharaṇaṁ yathā- ‘śarīracēṣṭā yā cēṣṭā’, ‘iṣṭā yā cēṣṭā’ iti vibhajyōktē sati dvitīyacēṣṭāpadasyārthaḥ prakāśitō bhavatīti, ēvamanyadapyunnēyam’ iti śivadāsasēnaḥ|
31. ‘cādiśya’ iti pā.|
32. ‘tatrāyurvēdayati’ iti pā.|
33. ‘asēvyatvēna vyavahriyamāṇaṁ’ iti pā.|
34. ‘āyuḥkāraṇatānāmnā”yuḥśabdavācyamityanaparādham’ iti pā.|
35. ‘yacca sukhāditastatra’ iti pā.| yōgīndranāthastu ‘tatra’ iti na paṭhati|
36. ‘sāmaparasya’ iti pā.|
37. ‘pramāṇāpramāṇamāyurvēdē’ iti pā.|
38. ‘na kēvalamariṣṭādhikārē’riṣṭamātramadhikr̥tyāyuṣaḥ pramāṇamupadiṣṭaṁ, dēhādikamadhikr̥tyāpi vimānē upadiṣṭamityāha- dēhaprakr̥tilakṣaṇamityādi’ iti śivadāsasēnaḥ|
39. ‘idānīṁ kimāyurvēdaḥ śāśvatō’śāśvatō vēti praśnasyōttaramāha- sō’yamityādi| śāśvata iti apauruṣēyaḥ| anāditvāditi sampradāyāvicchēdē satyasmaryamāṇakartr̥tvāt, ātmavadityarthaḥ| na ca kalpādau hiraṇyagarbha ēvēmaṁ praṇītavānityasiddhō hēturiti vācyaṁ, yataḥ “yō brahmāṇaṁ vidadhāti pūrvaṁ yō vai vēdāṁśca prahiṇōti tasmaiḥ” ityādiśrutērna hiraṇyagarbhakr̥tatvaṁ vēdasyēti| na ca śabdatvēna vēdasyāpi pauruṣēyatvaṁ sādhyaṁ, śabdasyānityatvāt| kimatra pramāṇamiti cēt, mīmāṁsakā ēva paryanuyōjyāḥ, asmākaṁ punarārdrakavaṇijāṁ vahnijalacintayā prayōjanaṁ nāstīti| yē tu dvividhō hyāyurvēdaḥ śabdarūpō’rtharūpaśca| tatrādyaḥ kr̥takatvādanitya ēva, artharūpastu nitya ēvētyāhuḥ| tēṣāmāyurvēdasya nityatvamardhaśaucanyāyamavagāhatē’ iti śivadāsasēnaḥ|
40. ‘naivābhūt’ iti pā.| ‘idānīṁ sampradāyāvicchēdaṁ darśayitumāyurvēdasya santānanityatāmāha- nahītyādi| ayaṁ bhāvaḥ- anādau saṁsārē āyuryuktānāṁ prāṇināmanucchēdāt sarvadaivāyuraparāparasantānanyāyēna vidyatē, tataścāyurvēdōpakāryasyāyuḥ santānasyānāditvāttadupakaraṇāyurvēdēnāpi tathā bhavitavyaṁ, nahyupakaraṇābhāvē upakāryatvaṁ sambhavatīti| na hi nābhūt kadācidāyuḥsantāna iti nyāyēnāyurvēdābhidhēyasyāyuḥsantānasya nityatvēna tadabhidhāyakasyāpi nityatvamiti varṇayanti’ iti śivadāsasēnaḥ|
41. ‘yat punargurulaghu’ iti pā.|
42. ‘svabhāvasaṁsiddhaṁ hi sarvadā santānanyāyēna siddhamabhiprētam’ iti pā.|
43. ‘ētadēva pūrvōktaṁ draḍhayati- ēvamēvētarēṣāmiti’ iti pā.|
44. ‘avabōdhamupadēśaṁ ca’ iti pā.|
45. ‘nānyēnēśvarādinā’ iti pā.|
46. ‘kāyacikitsēti yadyapi suśrutē śalyamēva prathamatō nirdiṣṭaṁ, tathā’pyasya tantrasya kāyacikitsāpradhānatvādagrē tannirdēśa iti jñēyam| kāyaḥ sakalaṁ śarīraṁ, tasya cikitsā, prāyēṇa rasādēḥ sarvāṅgavyāpakasya dōṣādēva jvarātīsāraraktapittādayaḥ sambhavanti| kiṁvā, kāyati śabdaṁ karōtīti kāyō jāṭharāgniḥ, aṅgulīpihitē karṇayugalē ‘dhūk’ iti śabdaśravaṇāttātsthyādvā kāyaśabdēnāgnirucyatē, uktaṁ ca bhōja- “jāṭharaḥ prāṇināmagniḥ kāya ityabhidhīyatē| yastaṁ cikitsēt sīdantaṁ sa vai kāyacikitsakaḥ” iti| yuktaṁ caitat, yatō jvarātīsārādayaḥ kāyacikitsāviṣayā rōgā agnidōṣādēva bhavanti| śalākā paṭalavēdhanī, tasyāḥ karma śālākyaṁ| brāhmaṇāditvāt ṣyaṅ, śālākyapradhānamaṅgaṁ śālākyam| ētēna śirōrōgapratīkārasyāpi grahaṇaṁ, prādhānyaṁ ca śālākyasya pradhānacakṣurviṣayatayā| ēvamanyatrāpi prādhānyēna vyapadēśaḥ| śalyamiti ‘śala’ hiṁsāyāmiti dhātuḥ, tasmāccaurādiṇyantādac, śalaḥ śalanaṁ hiṁsētyarthaḥ, śalasya nimittaṁ saṁyōga iti vivakṣāyāṁ “tasya nimittaṁ saṁyōgōtpātau” (pā. a. 5/1/38) ityanuvartamānāt “gōdvyacō’saṅkhyāparimāṇāśvādēryat” (pā. a. 5/1/39) iti dvyactvādyat, tēna śalyaṁ hiṁsōcitasambandhaḥ, tadāharaṇārthaṁ tantramapi śalyam| kaumārabhr̥tyamiti kumārāṇāṁ bhr̥tirdhāraṇaṁ pōṣaṇaṁ ca, tasyēdamiti kaumārabhr̥tyaṁ| “tasyēdam” (pā. a. 4/3/120) iti yat| rasāyanānīti atra rasaśabdēna rasakāryatvāt sarvēṣāmēva dhātūnāṁ grahaṇaṁ, tēna rasādīnāṁ śukrāntānāṁ kiṁvā rasavīryavipākānāmayanaṁ lābhōpāyō rasāyanaṁ| vakṣyati ca- “lābhōpāyō hi śastānāṁ rasādīnāṁ rasāyanam” (ci. 1) iti| vājīkaraṇamiti avājinaṁ vājinaṁ kurvantyanēnēti vājīkaraṇaṁ, yēna vā’tyatyarthaṁ vyajyatē strīṣu śukraṁ tadvājīkaraṇaṁ, vakṣyati ca- “yēna nārīṣu sāmarthyaṁ vājivallabhatē naraḥ| vyajatē cādhikaṁ yēna vājīkaraṇamēva tat” (ci. 1) iti| ‘vrajēccātyadhikam’ iti pāṭhē punaḥ punargacchēdityarthaḥ| śabdasiddhistu pr̥ṣōdarāditvāt| anyē tu, vājō vēgaḥ prastāvācchukrasya, sa vidyatē yēṣāṁ tē vājinaḥ, tē kriyantē’nēnēti vājīkaraṇamityāhuḥ| kiṁvā, vājaḥ śukraṁ, sō’syāstīti vājī, avājī vājī kriyatē yēna tadvājīkaraṇam, kiṁvā, vājō maithunam, uktaṁ hi hārīta- “vājō nāma prakāśatvāttacca maithunasañjñitam| vājīkaraṇasañjñābhiḥ puṁstvamēva pracakṣatē”- iti śivadāsasēnaḥ|
47. ‘saṁyōgiviṣam’ iti pā.|
48. ‘ātmarakṣārthaṁ’ iti pā.|
49. ‘vidvadgrahaṇaṁ yaśaḥ’ iti pā.|
50. ‘tadanuguṇadēhamanutiṣṭhati’ iti pā.|
51. ‘vaktavyamiti vakṣyamāṇaṁ tantrādisvarūpam| vākyaśa ityādipūrvavadvyākhyēyam’ iti śivadāsasēnaḥ|
52. ‘uktānāmēva tantrādīnāṁ svarūpaṁ kramēṇāha- tatrētyādi| tatra tēṣu tantrādiṣu madhyē ‘tantrasvarūpaṁ nirucyatē’ iti śēṣaḥ| anarthāntaramiti arthāntaramarthabhēdaḥ, na vidyatē’rthabhēdō yatra tattathā, abhinnārthamityarthaḥ| ētēna, ētē śabdā yasyārthasyābhēdēna vācakāḥ, tattantramiti tantrasvarūpaṁ darśitaṁ bhavati|” iti śivadāsasēnaḥ|
53. ‘tantrārtha iti tantrasyārthō’bhidhēyaṁ, sa ca hitāhitādirūpamāyurāyuṣyāśca padārthāḥ| svalakṣaṇairiti āyuścētanānuvr̥ttirjīvitamityādinā granthēnōktairāyuḥsvarūpaiḥ’ iti śivadāsasēnaḥ|
54. ‘hitāhitadēśai tu karaṇahētuśabdābhyāṁ gr̥hītau mantavyau’ iti śivadāsasēnaḥ|
55. ‘tantramaṣṭau sthānānītyādinā sthānamāha’ iti śivadāsasēnaḥ| ‘tantramaṣṭau sthānāni’ iti pā.|
56. ‘ṣaḍvirēkaśataścēti’ iti pā.|
57. ‘svasthavr̥ttikāḥ’ iti pā.|
58. ‘iti triṁśakaṁ ślōkasthānaṁ samuddiṣṭamityanvayaḥ, arthavaditi sthānārthasahitaṁ, śira iva śiraḥ pradhānatvāt’ iti śivadāsasēnaḥ|
59. ‘sūtraṁ ca jātēriti jātisūtrīyamityarthaḥ’ iti śivadāsasēnaḥ|
60. ‘prakīrtitam’ iti pā.|
61. ‘ataḥ kalpān paraṁ śr̥ṇu’ iti pā.| ‘ataḥ kalpāniti ataḥ paraṁ kalpān śr̥ṇu, ityanvayaḥ’ iti śivadāsasēnaḥ|
62. ‘cātra’ iti pā.|
63. ‘adhyāyamuktvā’dhyāyārthamāha- svē svē sthāna ityādi| svē svē sthānē yō’dhyāyō vaktavyastatra tatra cādhyāyē tasya tasyādhyāyasyārthasaṅgrahō vācya ityarthaḥ| cakārō’tra adhyāyārtha ityanantaraṁ yōjyaḥ, tēna “sthānārthaḥ” iti samuccīyatē| tataśca sthānāntē sthānārthasaṅgrahamadhyāyāntē cādhyāyārthasaṅgrahaṁ yathākramēṇa vakṣyatītyarthaḥ| yadyapi śārīrasthānē tatsthānārthō viśiṣya na vaktavyaḥ, tathā’pi śārīrasthānasya śarīranirūpaṇarūpō yō’rthaḥ saḥ “śarīraṁ cintyatē sarvaṁ daivamānuṣasampadā” (śā.a.8) ityādi śārīraśabdaniruktidvārēṇaivōkta iti jñēyam| taṁ brūyāditi taṁ sarvaṁ tantrārthaṁ sthānārthamadhyāyārthaṁ ca| arthasaṅgrahāditi lyablōpē pañcamī, tantrādīnāmartha saṅgr̥hya saṅkṣipyētyarthaḥ| sarvataḥ anavaśēṣataḥ| yathāsvamityanēna yō yasyārthastasya saṅgrahaṁ kr̥tvā tantrārthaṁ sthānārthamadhyāyārthaṁ cāśēṣatō brūyādityarthaḥ’ iti śivadāsasēnaḥ|
64. ‘yathārthāddhyanusaṅgrahāt’ iti pā.|
65. ‘prāṇadēhārthāvityatra dēhaśabdēna hr̥dayaṁ tathā tadāśritamōjō’pyabhidhīyatē’ iti śivadāsasēnaḥ|
66. ‘tantrāditi tantramārabhya| yathāmnāyaṁ yathākramam| vidhinā sāmānyaviśēṣaprakārēṇa, pūrvāparavirōdhādidōṣaśūnyēna vā pr̥cchā praśna ucyata ityarthaḥ| praśnārthaṁ vivr̥ṇōti- praśnārtha ityādi| tasya praśnasya tantrēṇa śāstrēṇārthaniścayō yaḥ sa praśnārthaḥ praśnaprayōjanamucyatē| yuktimāniti yuktimān upapattimān’ iti śivadāsasēnaḥ|
67. ‘tantrādiśabdānāṁ niruktiddhārēṇārthaṁ spaṣṭayati- niruktamityādi| tantraṇāditi vyutpādanāt| arthapratiṣṭhayēti pradhānabhūtārthāvasthānāt| ētēna tantryatē vyutpādyatē’nēnēti tantraṁ śāstraṁ, tathā cārthāḥ pratiṣṭhantyasminniti sthānamiti niruktirdarśitā bhavati’ iti śivadāsasēnaḥ|
68. ‘adhikr̥tyēti niruktyaikadēśaprakāśanamadhikr̥tō’dhyāyārthaḥ, tatprayuktā nāmasañjñā adhyāyanāmasañjñā yōgarūḍhasañjñētyarthaḥ| kiṁvā adhikr̥tyēti tr̥tīyāntapadam| tēna, adhikr̥tiradhikr̥tārthasambandhaḥ, tēnōpalakṣitā’dhyāyasañjñētyarthaḥ’ iti śivadāsasēnaḥ|
69. ‘pallavikōpētāḥ’ iti pā.|
70. ‘tasmāttu pūrvakaṁ jalpē’ iti pā.|
71. ‘nirākaraṇīyatāmāha’ iti pā.|
72. ‘yē pramādinaḥ’ iti pā.|
73. ‘pr̥cchārthamākr̥ṣṭasya’ iti pā.|
74. ‘uccārya’ iti pā.|
75. ‘pr̥cchatā’pi vācyatvādiparuṣabhāṣaṇam’ iti pā.|