Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
सूत्रस्थानम् - १७. कियन्तःशिरसीयोऽध्यायः
अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वचतुष्कचतुष्टयेन भेषजमभिहितं, सम्प्रति तद्विषयरोगाभिधानार्थं रोगचतुष्कोऽभिधातव्यः, चिकित्सा च विधेयत्वेनैव प्रधानमतः प्रथममुक्ता, किञ्च दर्शितश्चायं प्रथमाध्याय एव सम्बन्धः, एवं चाङ्गेषु मर्मसु च प्रधानभूतशिरोहृदयरोगाभिधायकत्वेन कियन्तः शिरसीयोऽभिधीयते||१-२||
कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम्|
कति चाप्यनिलादीनां रोगा मानविकल्पजाः||३||
क्षयाः कति समाख्याताः पिडकाः कति चानघ!|
गतिः कतिविधा चोक्ता दोषाणां दोषसूदन!||४||
हुताशवेशस्य वचस्तच्छ्रुत्वा [१] गुरुरब्रवीत्|
पृष्टवानसि यत् सौम्य! तन्मे शृणु सविस्तरम्||५||
दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः|
व्याधीनां ह्यधिका षष्टिर्दोषमानविकल्पजा||६||
दशाष्टौ च क्षयाः सप्त पिडका माधुमेहिकाः|
दोषाणां त्रिविधा चोक्ता गतिर्विस्तरतः [२] शृणु||७||
क्षयस्थानवृद्धयो दोषमानं, तस्य विकल्पो दोषान्तरसम्बन्धासम्बन्धकृतो भेदः| माधुमेहिका इत्यत्र मधुमेहशब्दः सामान्येन प्रमेहवचनः| यतोऽत्रैव सामान्येन ब्रूते- “विना प्रमेहमप्येता जायन्ते दुष्टमेदसः” इति; अन्यथा हि ‘विना मधुमेहं’ इति कृतं स्यात्; तथा चिकित्सिते वक्ष्यति सामान्येनैव यत्- “प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त” (चि. ६) इत्यादि| तथा मधुमेहपिडकानां चिकित्सितोपदेशाच्च सर्वमेहभवत्वं पिडकानां, मधुमेहभवत्वे हि मधुमेहस्यैवासाध्यत्वान्न तद्भवपिडकानामुपक्रमणीयत्वमस्ति; किञ्च प्रदेशान्तरेऽपि मधुमेहशब्देनायं सर्वप्रमेहानुक्तवान्, यथा- “गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः| अचिकित्स्या भवन्त्येते बलमांसपरिक्षये” (इं. ९) इति| अत्र हि यदि वातिको मधुमेहोऽभिप्रेतः स्यात्तदा तस्य स्वरूपत एवासाध्यत्वेन ‘बलमांसपरिक्षये सति’ इति विशेषणमनर्थकं स्यात्| सुश्रुतेनापि च सामान्येन प्रमेहे एवैताः पिडका दर्शिताः, यदुक्तं- “तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते” (सु. नि. ६) इत्यादि| सर्व एव प्रमेहा यस्माद्देहं मधुरीकृत्य जायन्ते तस्मान्मधुमेहा इत्युच्यन्ते, वचनं हि- “षट्पदपिप्पीलिकाभिश्च शरीरमूत्राभिसरणम्” (नि. ४) इति, तथा च वाग्भटः- “मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति| सर्वे हि मधुमेहाख्या माधुर्याच्च तनोरतः” (वा. नि. १०) इति| विस्तरत इति शृण्वित्यनेन सम्बध्यते||३-७||
सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्|
उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||८||
गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्|
गुर्वम्लहरितादानादति शीताम्बुसेवनात्||९||
शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात् [३] |
मेघागमान्मनस्तापाद्देशकालविपर्ययात्||१०||
वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति|
ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११||
सन्धारणादिति वेगसन्धारणात्| हरितम् आर्द्रकादि| अतीति पूर्वेण परेण च शीताम्बुसेवनादित्यनेन सम्बध्यते| दुष्टादामात् दुष्टामात्; किंवा ‘उष्णामात्’ इति पाठः, तत्रोष्णाच्चामाच्चेत्यर्थः| देशकालविपर्ययादित्यत्र देशविपर्यय उपसर्गगृहीतत्वं देशस्य| अस्रं च प्रदुष्यतीत्यभिदधानः सर्वशिरोरोगेषु रक्तदुष्टिं दर्शयति||८-११||
प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च|
यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२||
प्राणा इत्यादिनाऽङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतशिरोरोगाणामेवात्यहितत्वं [४] दर्शयति; तेन नोत्सूत्रं शिरःप्राधान्याभिधानम्| श्रिता इव श्रिताः, शिर-उपघाते उपघातात्| उपरिष्टादङ्गमुत्तमाङ्गम्||१२||
अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः|
प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः||१३||
अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः|
विविधाश्चापरे रोगा वातादिक्रिमिसम्भवाः||१४||
प्रकृताञ्छिरोरोगानाह- अर्धेत्यादिना क्रिमिसम्भवा इत्यन्तेन| एतच्च ‘जायन्ते रोगा विविधलक्षणाः’ इत्यस्य विवरणम्||१३-१४||
पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः|
शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः||१५||
उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात् [५] प्रजागरात्|
शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्||१६||
उपवासादभीघाताद्विरेकाद्वमनादति|
बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात्||१७||
शिरोगताः [६] सिरा वृद्धो वायुराविश्य कुप्यति|
ततः शूलं महत्तस्य वातात् समुपजायते||१८||
निस्तुद्येते भृशं शङ्कौ घाटा [७] सम्भिद्यते तथा|
सभ्रूमध्यं [८] ललाटं च तपतीवातिवेदनम्||१९||
वध्येते [९] स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी|
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते||२०||
स्फुरत्यति सिराजालं स्तभ्यते च शिरोधरा|
स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके||२१||
शिरोगतत्वेन नासादिरोगेष्वपि प्राप्तेषु तान् विहायैवाष्टोदरीये प्रोक्तांस्तानेव शिरःशूललक्षणान् रोगान् प्रपञ्चेन वक्तुमाह- पृथगित्यादि| सङ्ग्रहे अष्टोदरीये; तेन नारूंषिकादयोऽत्रप्रकरणे शिरोरोगशब्देनोच्यन्ते; शिरोरोगशब्दस्य शूल एव रुजाकरे वृत्तत्वात् [१०] | तीक्ष्णपानं तीक्ष्णमद्यपानं; किंवा, तीक्ष्णं मरिचादि| वध्येते इव वध्येते, अत्यर्थपीडायुक्तत्वेन||१५-२१||
कट्वम्ललवणक्षारमद्यक्रोधातपानलैः|
पित्तं शिरसि सन्दुष्टं शिरोरोगाय कल्पते||२२||
दह्यते रुज्यते तेन शिरः शीतं सुषूयते [११] |
दह्येते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते||२३||
शीतं सुषूयते शीतमिच्छति||२२-२३||
आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनैः|
श्लेष्मा शिरसि सन्दुष्टः शिरोरोगाय कल्पते||२४||
शिरो मन्दरुजं तेन सुप्तं स्तिमितभारिकम्|
भवत्युत्पद्यते तन्द्रा तथाऽऽलस्यमरोचकः||२५||
वाताच्छूलं भ्रमः कम्पः पिताद्दाहो मदस्तृषा|
कफाद्गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे||२६||
स्वप्नसुखमनुचितदिवास्वप्नेन ज्ञेयम्| सुप्तमिव सुप्तं, प्रबोधरहितत्वेन| भाराक्रान्तमिव भारिकम्||२४-२६||
तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्|
क्लेदोऽसृक्कफमांसानां दोषलस्योपजायते||२७||
ततः शिरसि सङ्क्लेदात् क्रिमयः पापकर्मणः|
जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम्||२८||
व्यधच्छेदरुजाकण्डूशोफदौर्गत्यदुःखितम् [१२] |
क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन [१३] च||२९||
सङ्कीर्णभोजनं विरुद्धाहरः| दोषलस्य बहुदोषस्य| पापकर्मण इत्यनेनाधर्मवत एवायमतिदुःखक्रिमिरोगो भवतीति दर्शयति| बीभत्सलक्षणमिति घ्राणादिभ्यः पूयादिप्रवृत्तेः||२७-२९||
शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः [१४] |
वायुराविश्य हृदयं जनयत्युत्तमां रुजम्||३०||
वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः [१५] |
हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना||३१||
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः|
मद्यक्रोधातपैश्चाशु हृदि पित्तं प्रकुप्यति||३२||
हृद्दाहस्तिक्तता वक्रे तिक्ताम्लोद्गिरणं क्लमः|
तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम्||३३||
अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम्|
निद्रासुखं चाभ्यधिकं कफहृद्रोगकारणम्||३४||
हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्|
तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा||३५||
हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः|
(हृद्रोगः कष्टदः कष्टसाध्य उक्तो महर्षिभिः)
त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते||३६||
तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते|
मर्मैकदेशे सङ्क्लेदं रसश्चास्योपगच्छति||३७||
सङ्क्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः|
मर्मैकदेशे ते जाताः सर्पन्तो भक्षयन्ति च||३८||
तुद्यमानं स हृदयं सूचीभिरिव मन्यते|
छिद्यमानं यथा शस्त्रैर्जातकण्डूं महारुजम्||३९||
हृद्रोगं क्रिमिजं त्वेतैर्लिङ्गैर्बुद्ध्वा सुदारुणम्|
त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम्||४०||
शोकोपवासेत्यादि हृद्रोगलक्षणम्| वेष्टनम् उद्वेष्टनमिव| दरः दरदरिका| अचिन्तनम् अल्पचिन्तनम्| अश्मावृतम् अश्माक्रान्तम्| ग्रन्थिरिव ग्रन्थिः, स च रसदोषकृतः| मर्मैकदेशे हृदयैकदेशे| द्वितीयं मर्मेतिपदं कर्मतापन्नम्||३०-४०||
द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्|
समैश्चैको विकारास्ते सन्निपातास्त्रयोदश||४१||
संसर्गे नव षट् तेभ्य [१६] एकवृद्ध्या समैस्त्रयः|
पृथक् त्रयश्च तैर्वृद्धैर्व्याधयः पञ्चविंशतिः||४२||
यथा वृद्धैस्तथा क्षीणैर्दोषेः स्युः पञ्चविंशतिः|
वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते||४३||
वृद्धिरेकस्य समता चैकस्यैकस्य सङ्क्षयः|
द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिर्द्वयोः क्षयः [१७] ||४४||
‘कति चाप्यनिलादीनाम्’ इत्याद्युक्तस्योत्तरं- द्व्युल्बणैरित्यादि| हीनमध्याधिकैरिति वृद्धवृद्धतरवृद्धतमैः| संसर्गे नवेति च्छेदः| अस्यैव विवरणं- षट् तेभ्य इत्यादि| समैस्रय इति वृद्धैः समैः| वृद्धिक्षयकृत इत्यस्य विवरणं- वृद्धिरेकस्येत्यादि| अत्र च यद्यपि समताऽपि वृद्धिक्षयविकल्पे पठ्यते, तथाऽपि समतायाः स्वातन्त्र्येण विकाराकर्तृत्वात् ‘वृद्धिक्षयकृत’ इत्युक्तम्| वृद्धिरेकस्य समता चैकस्यैकस्य सङ्क्षय इत्यनेन षड्विकाराः| द्वन्द्ववृद्धिः क्षयश्चैकस्येत्यनेन त्रयः| एकवृद्धिर्द्वयोः क्षयः [१८] , तेन त्रयः| एवं द्विषष्टिप्रकारा भवन्ति||४१-४४||
प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये|
स्थानादादाय गात्रेषु यत्र यत्र विसर्पति||४५||
तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः|
गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव च||४६||
प्रकृतिस्थं [१९] कफं वायुः क्षीणे पित्ते यदा बली|
कर्षेत् कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्||४७||
यदाऽनिलं [२०] प्रकृतिगं पित्तं कफपरिक्षये|
संरुणद्धि तदा दाहः शूलं चास्योपजायते||४८||
श्लेष्माणं [२१] हि समं पित्तं यदा वातपरिक्षये|
सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरवं ज्वरम्||४९||
प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्|
रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् [२२] ||५०||
समीरणे परिक्षीणे कफः पित्तं समत्वगम्|
कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् [२३] ||५१||
निद्रां तन्द्रां प्रलापं च हृद्रोगं गात्रगौरवम्|
नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः||५२||
हीनवातस्य तु श्लेष्मा पित्तेन सहितश्चरन्|
करोत्यरोचकापाकौ सदनं गौरवं तथा||५३||
हृल्लासमास्यस्रवणं पाण्डुतां दूयनं मदम्|
विरेकस्य च वैषम्यं वैषम्यमनलस्य च||५४||
हीनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः|
स्तम्भं शैत्यं च तोदं च जनयत्यनवस्थितम्||५५||
गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम्|
नखादीनां च शुक्लत्वं गात्रपारुष्यमेव च||५६||
मारुतस्तु कफे हीने पित्तं च कुपितं द्वयम्|
करोति यानि लिङ्गानि शृणु तानि समासतः||५७||
भ्रममुद्वेष्टनं तोदं दाहं स्फुटनवेपने|
अङ्गमर्दं परीशोषं दूयनं धूपनं तथा||५८||
वातपित्तक्षये श्लेष्मा स्रोतांस्यपिदधद्भृशम्|
चेष्टाप्रणाशं मूर्च्छां च वाक्सङ्गं च करोति हि||५९||
वातश्लेष्मक्षये पित्तं देहौजः स्रंसयच्चरेत्|
ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्च्छां क्रियाक्षयम्||६०||
पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन्|
प्रणाशयति सञ्ज्ञां च वेपयत्यथवा [२४] नरम्||६१||
वृद्धिरेकस्येत्यादेरुदाहरणम्- प्रकृतिस्थं यदा पित्तमित्यादि| अत्र केचिदेतदेव परमुदाहरणं दृष्टान्तार्थं पठन्ति, शेषोदाहरणं तु कृत्स्ने तन्त्रे बोद्धव्यं; केचित्तु वृद्धिक्षयविकल्पस्य दुर्बोधत्वेन सर्वेषामेव द्वादशानामपि विकल्पानामाचार्येण लक्षणं कृतमिति कृत्वा सर्वमेव पठन्ति| ननु प्रकृतिस्थे पित्ते कथं तदा दाहश्चेति सङ्गतं भवति, न हि प्रकृतिस्थो दोषो विकारकारी, न च वायोर्दाहः सम्भवति| उच्यते- यत्र यत्रेति [२५] वचनाद् यत्र कुपितेन वायुना पित्तं नीतं, तत्र शरीरावयवे प्रकृतिमानस्थितमपि पित्तं वृद्धमेव, यतस्तस्मिन् प्रदेशे तावान् पित्तसम्बन्ध उचितो न भवत्येवेत्यधिकेन तत्र पित्तेन दाह उपपन्न एव, एवमन्यत्रापि प्रकृतिस्थस्यापि दोषस्य विकारे व्याख्येयम्| अन्ये तु ब्रुवते- प्रकृतिस्थानामपि दोषाणां दुष्टदोषसम्बन्धाद्विकारकारित्वं भवति; यथा- रक्तादीनाम्| हीनवातस्येत्यादि ‘द्वन्द्ववृद्धिः क्षयश्चैकस्य’ इत्यस्योदाहरणम्| देहौजो देहसारः; किंवा देहश्च ओजश्च देहौजः||४५-६१||
दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्|
क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुवेते||६२||
दोषाणां वृद्धिसाम्यक्षयलक्षणानि पृथगाह- दोषा इत्यादि| स्वं लिङ्गमिति वैकारिकम्| यथाबलमिति अतिवृद्धैरतिवृद्धं, मध्यवृद्धैर्मध्यवृद्धमित्यादि| लिङ्गं स्वं जहतीत्यनेन क्षीणानां प्रकृतिलिङ्गक्षयव्यतिरिक्तं विकारकर्तृत्वं नास्तीति दर्शयति; यतो वृद्धा उन्मार्गगामिनो दोषा दूष्यं दूषयन्तो ज्वरादीन् कुर्वन्ति न क्षीणाः, स्वयमेव दुःस्थितत्वात्| स्वं कर्मेति प्राकृतं कर्म| एते च द्विषष्टिर्भेदा आविष्कृततमत्वेनोक्ताः; तेनैकदोषक्षये द्विदोषवृद्धौ च वृद्धवृद्धतरभेदादिभ्योऽधिकत्वमुद्भावनीयम् [२६] | ननु भवत्वेवं सङ्ख्या यदि सन्निपातो दोषाणां स्यात्, स तु न भवितुमर्हति, यतो वातादीनां परस्परं विरुद्धाः सन्ति गुणाः, विरुद्धगुणानां तु परस्परोपघातो भवति, यथा- वह्नितोययोः| नैवं, विरोधो हि भावानां कार्योन्नेयः, नान्यतो दृष्टमात्रेण कल्पयितुं पार्यते; यतोऽन्यत्र तोयदहनयोर्भेद [२७] उपलब्धः, तत् किं पाञ्चभौतिकद्रव्यारम्भेऽपि तयोर्विरोधात् पाञ्चभौतिकं द्रव्यं न स्यात्, तोयाग्निगुणातिरेकाद्वाऽम्लरसो न स्यात् [२८] , तस्मादनुपलब्धत्वाद्दोषसंसर्गे विरोधस्य स्वभावपर्यनुयोगो न युज्यते| अथ मन्यसे- एवं विरुद्धगुणानामपि दोषाणामविरोधे “विरुद्धगुणसन्निपाते भूयसाऽल्पमवजीयते” (वि. १) इति, तथा “ह्रासहेतुर्विशेषस्तु” (सू. १) इति वचने तर्हि निरर्थके| न, अनयोः प्रभावात् प्रतिपादितविषयव्यतिरेके [२९] चरितार्थत्वात्| प्रभावस्तु तयोर्विरोधको भवत्येव; यथा- त्रिदोषकरनिकुचगता गुणाः समान् दोषान् कुर्वन्ति परं, न तु विरुद्धत्वेन दोषहरणं कुर्वते त्रिदोषकर्तृत्वप्रभावात्; तथा आमलकेऽम्लत्वं वातं हन्ति, माधुर्यशैत्ये तु पित्तं, श्लेष्माणं च कटुत्वतिक्तत्वे; निकुचे त्वम्लत्वं कषायशैत्याभिभूतं वातं न निहन्ति, माधुर्यशैत्ये चाम्लत्वाभिभूते पित्तं न जयत एवमादि| तस्माद्दोषाणां प्रभावोऽयं दृष्टत्वादवधार्यते- यत्- न ते परस्परमुपघ्नन्ति| एवम्भूतप्रभावत्वे तु तेषामदृष्टमेव कारणं, प्राणिनां दुःखजनकेन ह्यदृष्टेन तेऽविरोधेन निवेश्यन्ते, अत एव वक्ष्यति- “विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्| दोषाः सहजसात्म्यत्वाद्धोरं विषमहीनिव” (चि. २६) इति| सहजं दैववशात् स्वाभाविकं सात्म्यत्वं सहजसात्म्यत्वम्| अनेन च व्याख्यानेन ‘यथा दोषा अन्योन्यं नोपघ्नन्ति, तथा रसरक्तादीनपि नोपहन्युः’ इत्यादि यदुच्यते कैश्चित्, तत् सर्वं निरस्तम्| ननु, “कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्| निष्प्रत्यनीकः कुरुते” (चि. ३) इति चिकित्सिते वक्ष्यति, तेन प्रकृतिर्दोषस्य प्रतिपक्षा भवतीत्युक्तं, प्रकृतिश्च जन्मप्रभृतिवृद्धो वातादिरुच्यते, “दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते” (सू. ७) इत्यादिवचनात्; तदयं प्राकृतेन दोषेण दोषस्य विरोधः कथं तर्ह्युपपन्नः? उच्यते- तत्र प्रकृतेः प्रत्यनीकता अननुगुणत्वेन मन्तव्या, समानां हि प्रकृतिं प्राप्य दोषः प्रवृद्धबलो भवति, असमानां तु प्राप्य तथा बलवान्न भवति, नासमानया प्रकृत्या हन्यते; एवमन्यत्राप्युन्नेयम्| अतिवृद्धेन वायुनाश्लेष्मणो दुर्बलस्य दुष्टत्वाद्विरोधो भवत्येव क्वचित्, नैतावता संसर्गसन्निपातासम्भवः||६२||
वातादीनां रसादीनां मलानामोजसस्तथा|
क्षयास्तत्रानिलादीनामुक्तं सङ्क्षीणलक्षणम् [३०] ||६३||
घट्टते सहते शब्दं नोच्चैर्द्रवति [३१] शूल्यते|
हृदयं ताम्यति स्वल्पचेष्टस्यापि रसक्षये||६४||
परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसङ्क्षये|
मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता||६५||
सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च|
लक्षणं मेदसि क्षीणे तनुत्वं [३२] चोदरस्य च||६६||
केशलोमनखश्मश्रुद्विजप्रपतनं श्रमः|
ज्ञेयमस्थिक्षये लिङ्गं सन्धिशैथिल्यमेव च||६७||
शीर्यन्त इव चास्थीनि दुर्बलानि लघूनि च|
प्रततं [३३] वातरोगीणि क्षीणे मज्जनि देहिनाम्||६८||
दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं श्रमः|
क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम्||६९||
क्षीणे शकृति चान्त्राणि पीडयन्निव मारुतः|
रूक्षस्योन्नमयन् कुक्षिं तिर्यगूर्ध्वं च गच्छति||७०||
मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यमेव च|
पिपासा बाधते चास्य मुखं च परिशुष्यति||७१||
मलायनानि चान्यानि शून्यानि च लघूनि च|
विशुष्काणि च लक्ष्यन्ते यथास्वं मलसङ्क्षये||७२||
सम्प्रत्यष्टादशक्षयानाह- वातादीनामित्यादि| अत्र मलानामित्यनेन मूत्रपुरीषयोः पञ्चेन्द्रियमलानां च ग्रहणम्| विशेषेणेतिवचनादन्यगात्राणामपि शुष्कता लभ्यते| सन्धीनामित्यादि भेदः- क्षयलक्षणम्, केशेत्यादि अस्थिक्षयस्य| बाधते चास्येति कर्मणि शेषलक्षणा षष्ठी| मलायनानीत्यनेन पञ्चेन्द्रियाधिष्ठानानां मुखनासिकाचक्षुःकर्णानां त्वगिन्द्रियाधिष्ठानभूतानां च लोमकूपप्रजननानां यथास्वं मलायनानि गृह्यन्ते| यदुक्तं जतूकर्णे- “दोषाणां धातूनामोजोमूत्रशकृदिन्द्रियमलानाम्| अष्टादशक्षयास्ते लक्ष्याः स्वगुणक्रियानाशात्” इति||६३-७२||
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः|
दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये||७३||
हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्|
ओजः शरीरे सङ्ख्यातं तन्नाशान्ना विनश्यति||७४||
प्रथमं जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम्|
सर्पिर्वर्णं मधुरसं लाजगन्धि प्रजायते||७५||
(भ्रमरैः फलपुष्पेभ्यो यथा सम्भ्रियते मधु|
तद्वदोजः स्वकर्मभ्यो गुणैः सम्भ्रियते नृणाम्||१||)|
ओजःक्षयलक्षणमाह- बिभेतीत्यादि| दुर्मना मनोबलविहीनः| ओजसो दुर्ज्ञेयत्वेन लक्षणमाह- हृदीत्यादि| शुद्धमिति शुक्लं, रक्तमीषदिति किञ्चिद्रक्तं, सपीतकमिति ईषत्पीतकं; तेन शुक्लवर्णमोजः, रक्तपीतौ तु वर्णावत्रानुगतौ; किंवा, ईषदित्यल्पप्रमाणं, तेनाष्टबिन्दुकमोज इति दर्शयति| यदुक्तं तन्त्रान्तरे- “प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रयाः” इति| एतच्चाष्टबिन्दुकं परमोजो ज्ञेयम्, अर्धाञ्जलिपरिमाणं तु यदोजस्तदप्रधानं; यच्छारीरे वक्ष्यति- “तावच्चैव श्लैष्मिकस्यौजसः प्रमाणम्” (शा. ७) इत्यनेन; तस्माद्द्विविधमिहौजः| अत एवार्थे दशमहामूलीये वक्ष्यति- “तत् परस्यौजसः स्थानं” (सू. ३०) इति; परस्य श्रेष्ठस्याष्टबिन्दुकस्येत्यर्थः| इह च क्षयलक्षणमर्धाञ्जलिमानस्यैव ज्ञैयम्, अष्टबिन्दुकस्य त्ववयवनाशेऽपि मृत्युर्भवतीति हृदीत्यादिना ग्रन्थेन दर्शयति| एतच्चौजः सर्वधातुसमुदायरूपं, तेन सप्तधातुष्वेवावरुद्धमिति नाष्टमधातुत्वातिप्रसक्तिः [३४] ; अत एव सुश्रुतेऽप्युक्तं- “रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजः” (सु. सू. १५) इति| अन्यत्राप्युक्तं- “भ्रमरैः फलपुष्पेभ्यो यथा संह्रियते मधु| तद्वदोजः शरीरेभ्यो गुणैः संह्रियते नृणाम्” इति| ‘प्रथमं जायते’ इत्यादिपाठस्तु नातिप्रसिद्धः| एते चाष्टादश क्षया आविष्कृततमत्वेनोक्ताः; तेन उदकक्षयस्वरक्षयाद्यनभिधानं नोद्भावनीयम्; उक्तं हि- “स्वरक्षयमुरोरोगं” इति; तथोदकक्षयलक्षणं यथा- “जिह्वाताल्वोष्ठकण्ठक्लोमसंशोषं पिपासां चातिवृद्धां दृष्ट्वा उदकवहान्यस्य स्रोतांसि प्रदुष्टानीति जानीयात्” (वि. ५) इति||७३-७५||
व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्|
वातातपौ भयं शोको रूक्षपानं प्रजागरः||७६||
कफशोणितशुक्राणां मलानां चातिवर्तनम्|
कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः||७७||
सामान्येन क्षयाणां हेतुमाह- व्यायाम इत्यादि| प्रमिताशनम् एकरसाभ्यासः| अतिवर्तनम् अतिप्रवृत्तिः, बहिर्गमनमिति यावत्| कालो वार्धक्यमादानं च| भूतोपघातः पिशाचाद्युपघातः| अत्र वातक्षयहेतुर्नोक्तो विलक्षणत्वात्, स चाचिन्तनदिवास्वपनादिर्ज्ञेयः; किंवा, अनशनात् किट्टाभावः, ततश्च किट्टरूपस्य वातस्याप्यनुत्पादात् क्षयो ज्ञेयः||७६-७७||
गुरुस्निग्धाम्ललवणान्यतिमात्रं समश्नताम्|
नवमन्नं च पानं च निद्रामास्यासुखानि च||७८||
त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम्|
श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते||७९||
तैरावृतगतिर्वायुरोज [३५] आदाय गच्छति|
यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते||८०||
स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः|
दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः||८१||
उपेक्षयाऽस्य जायन्ते [३६] पिडकाः सप्त दारुणाः|
मांसलेष्ववकाशेषु मर्मस्वपि च सन्धिषु||८२||
शराविका कच्छपिका जालिनी सर्षपी तथा|
अलजी विनताख्या च विद्रधी चेति सप्तमी||८३||
अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता|
शराविका स्यात् पिडका शरावाकृतिसंस्थिता||८४||
अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा|
श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता||८५||
स्तब्धा सिराजालवती स्निग्धास्रावा महाशया|
रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी||८६||
पिडका नातिमहती क्षिप्रपाका महारुजा|
सर्षपी सर्षपाभाभिः पिडकाभिश्चिता भवेत्||८७||
दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा|
विसर्पत्यनिशं दुःखाद्दहत्यग्निरिवालजी||८८||
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा|
महती विनता नीला पिडका विनता मता||८९||
सम्प्रति सप्तपिडका वक्तव्याः, अतस्तासां प्रधानहेतुत्वेन प्रमेहानेव तावन्निदानादिक्रमेणाह- गुर्वित्यादि| नवं पानमिति नवं मद्यम्| निद्रामास्यासुखानि चेत्यत्रान्ते ‘भजतां’ इति शेषः| ओजः प्रसादो धातूनामिति यावत्| कृच्छ्र् इति कृच्छ्रसाध्यः| उपेक्षया अचिकित्सया| शराविकादिसञ्ज्ञान्वयो [३७] विवरणे स्फुटः| अलजीसञ्ज्ञा रूढा| एताश्च प्राधान्यादुक्ताः| तेन सुश्रुतेऽपि पिडकाधिक्यमुक्तं यत्, तन्न विरोधि| सिराजालं सिरासमूहः| चिता अधिष्ठिता||७८-८९||
विद्रधिं द्विविधामाहुर्बाह्यामाभ्यन्तरीं तथा|
बाह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा||९०||
शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्|
विरुद्धाजीर्णसङ्क्लिष्टविषमासात्म्यभोजनात्||९१||
व्यापन्नबहुमद्यत्वाद्वेगसन्धारणाच्छ्रमात्|
जिह्मव्यायामशयनादतिभाराध्वमैथुनात्||९२||
अन्तःशरीरे मांसासृगाविशन्ति [३८] यदा मलाः|
तदा सञ्जायते ग्रन्थिर्गम्भीरस्थः सुदारुणः||९३||
हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ च वृक्कयोः|
नाभ्यां वङ्क्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः||९४||
दुष्टरक्तातिमात्रत्वात् स वै शीघ्रं विदह्यते|
ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते||९५||
व्यधच्छेदभ्रमानाहशब्दस्फुरणसर्पणैः|
वातिकीं, पैत्तिकीं तृष्णादाहमोहमदज्वरैः||९६||
जृम्भोत्क्लेशारुचिस्तम्भशीतकैः श्लैष्मिकीं विदुः|
सर्वासु च [३९] महच्छूलं विद्रधीषूपजायते||९७||
शस्त्रास्त्रैर्भिद्यत [४०] इव चोल्मुकैरिव दह्यते|
विद्रधी व्यम्लता याता वृश्चिकैरिव दश्यते||९८||
तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी|
तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी||९९||
श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु|
लक्षणं सर्वमेवैतद्भजते सान्निपातिकी||१००||
विद्रधिं द्विविधामित्यनेनाभ्यन्तरविद्रधेरपि विद्रधित्वेन पिडकानां सप्तत्वेऽविरोध इति दर्शयति| कण्डराभा स्थूलस्नाय्वाकारा| अन्तर्विद्रधेर्गरीयस्त्वेन निदानान्याह- शीतकेत्यादि| सङ्क्लिष्टं दोषलम्| व्यापन्नं [४१] च बहु च मद्यमुपयुङ्क्ते यः स व्यापन्नबहुमद्यः| अन्तःशरीर इति कोष्ठे| मला दोषाः| ग्रन्थिरिव ग्रन्थिः| स इति ग्रन्थिः| व्यधादयो व्यथाप्रकाराः [४२] | शीतमेव शीतकम्| व्यम्लतां याता विदाहं प्राप्ता| तमकः श्वासभेदः||९०-१००||
अथासां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषमुपदेक्ष्यामः- तत्र प्रधानमर्मजायां विद्रध्यां हृद्धट्टनतमकप्रमोहकासश्वासाः, क्लोमजायां पिपासामुखशोषगलग्रहाः, यकृज्जायां श्वासः, प्लीहजायामुच्छ्वासोपरोधः, कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं, वृक्कजायां पृष्ठकटिग्रहः, नाभिजायां हिक्का, वङ्क्षणजायां सक्थिसादः, बस्तिजायां कृच्छ्रपूतिमूत्रवर्चसत्वं [४३] चेति||१०१||
पक्वप्रभिन्नासूर्ध्वजासु मुखात् स्रावः स्रवति, अधोजासु गुदात्, उभयतस्तु नाभिजासु||१०२||
आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी च मरणाय; शेषाः पुनः कुशलमाशुप्रतिकारिणं चिकित्सकमासाद्योपशाम्यन्ति|
तस्मादचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युदग्नितुल्यां स्नेहविरेचनैराश्वेवोपक्रमेत् सर्वशो गुल्मवच्चेति||१०३||
कुक्षिपार्श्वान्तरांसशूलमिति कुक्षिपार्श्वान्तरांसेषु शूलम् [४४] | हृन्नाभिबस्तिजासु सान्निपातिकीं पृथक् पठन् सान्निपातिकीं पक्वामपक्वां चासाध्यां दर्शयति| शस्त्रादिदृष्टान्तत्रयाच्छस्त्रवन्मर्मच्छेदकत्वं, सर्पवदाशुसञ्ज्ञाहारित्वं, विद्युदग्निवदाशुमारकत्वं ज्ञेयम्||१०१-१०३||
भवन्ति चात्र-
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः|
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः||१०४||
शराविका कच्छपिका जालिनी चेति दुःसहाः|
जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः||१०५||
सर्षपी चालजी चैव विनता विद्रधी च याः|
साध्यः पित्तोल्बणास्तास्तु सम्भवन्त्यल्पमेदसः||१०६||
मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः|
जायन्ते यस्य पिडिकाः स प्रमेही न जीवति||१०७||
प्रमेहं विनाऽप्युक्तपिडकासम्भवं दर्शयति- विनेत्यादि| एतेन च पिडकानां माधुमेहिकत्वं यत् पूर्वमुक्तं तत् प्रायिकत्वेन ज्ञेयम्| वास्तु स्थानम्| विद्रधी चेति बाह्यविद्रधी||१०४-१०७||
तथाऽन्याः पिडकाः सन्ति रक्तपीतासितारुणाः|
पाण्डुराः पाण्डुवर्णाश्च भस्माभा मेचकप्रभाः||१०८||
मृद्व्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथाऽपराः|
मन्दवेगा महावेगाः स्वल्पशूला महारुजः||१०९||
ता बुद्ध्वा मारुतादीनां यथास्वैर्हेतुलक्षणैः|
ब्रूयादुपचरेच्चाशु प्रागुपद्रवदर्शनात्||११०||
तृट्श्वासमांससङ्कोथमोहहिक्कामदज्वराः|
वीसर्पमर्मसंरोधाः पिडकानामुपद्रवाः||१११||
प्रमेहपिडकाप्रसङ्गेनान्यासामपि पिडकानामाविष्कृतानां लक्षणं ब्रूते- तथाऽन्या इत्यादि| पाण्डुरा धूसराः, पाण्डुवर्णास्तु रूक्षपाण्डुवर्णा ज्ञेयाः| मेचकप्रभाः स्निग्धकृष्णवर्णाः| उपचरेच्चेति मारुतादीनां भेषजैरित्यर्थाद्भवति| प्रागुपद्रवदर्शनादित्यनेन उपद्रवयुक्ता पिडका असाध्येति दर्शयति| सङ्कोथः पूतिभावः||१०८-१११||
क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः|
ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधाऽपरा||११२||
त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु|
इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः||११३||
सम्प्रति दोषाणां गतिं विवृणोति- क्षय इत्यादि| स्थानं स्वमानवस्थानम्| गतिः प्रकारोऽवस्था वा| चय इत्यत्र प्रशब्दो लुप्तनिर्दिष्टः, तेन प्रकृष्टचयः; एवं प्रकृष्टः कोपः प्रकोपः; एवं प्रशमोऽपि| एतेन वर्षादिषु पित्तादीनां प्रकृष्टश्चयो भवतीति दर्श्यते, इतरदोषस्यापि च स्तोकमात्रेण चयो यथासम्भवं सूच्यते; तेन शरद्यनुबलत्वेन कफप्रकोपो भवतीत्यादि गृहीतं भवति||११२-११३||
चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्|
भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु||११४||
गतिः कालकृता चैषा चयाद्या पुनरुच्यते|११५|
यथाक्रममिति वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृट्क्रमेण; किंवा यथाक्रममिति यथायोग्यतया| पित्तादीनामिति पित्तश्लेष्मवातानाम्| एकैकश इति अयौगपद्येन| एतच्च प्राधान्येनैव ज्ञेयं, तेन प्रावृषि श्लेष्मपित्तकोपेनाप्रधानेन न व्यभिचारः| यदुक्तं- “वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः” (सू.अ.६) इति| अत्र हि पवनादय इति पवनप्रधानाः; एवं वसन्ते वातपित्तप्रकोपे व्याख्येयम्| अत्र च षट्सु ऋतुषु पित्तश्लेष्मवातानां प्रबलचयादयो विभज्यमानत्वेन; तेन पित्तचयकाले वातस्य कोपः, शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः कफस्य चयः, वसन्ते तु कफप्रकोप एव परं, तथा कफप्रशमके ग्रीष्मे वातचय इति च स्यात्| वातं परित्यज्य पित्तादीनामित्यभिधानां विसर्गस्याभिप्रेतत्वेनाग्रे वक्तव्यत्वात् कृतं, विसर्गे च पित्तचय एव भवतीति कृत्वा||११४||-
गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या||११५||
पित्तादेवोष्मणः पक्तिर्नराणामुपजायते|
तच्च पित्तं [४५] प्रकुपितं विकारान् कुरुते बहून्||११६||
प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते|
स चैवौजः स्मृतः काये स च पाप्मोपदिश्यते||११७||
सर्वा हि चेष्टा वातेन स प्राणः प्राणीनां स्मृतः|
तेनैव रोगा जायन्ते तेन चैवोपरुध्यते||११८||
गतिभेदान्तरमाह- गतिश्चेत्यादि| अत्र पित्तमादौ [४६] कृतं शरीरस्थितिहेत्वग्निकर्तृत्वेन| पक्तिः पाकः| बलमिति बलहेतुत्वेन| मल इति शरीरमलिनीकरणात्| ओज इति सारभूतं; यदि वा द्वितीयश्लैष्मिकौजोहेतुत्वेनौजः| वक्ष्यति हि शारीरे- “तावच्चैव श्लैष्मिकस्यौजसश्च प्रमाणम्” (शा.अ.७) इति| दुःखहेतुत्वात् पाप्मा| सर्वा हि चेष्टा इति अविकृतगमनाद्याः| उपरुध्यते म्रियते||११५-११८||
नित्यं सन्निहितामित्रं समीक्ष्यात्मानमात्मवान्|
नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरम्||११९||
आत्मवानिति प्रशंसायां मतुप्प्रत्ययः| युक्त इत्युद्युक्तः| अनित्वरम् अगत्वरम्||११९||
तत्र श्लोकौ-
शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः|
क्षयाः सपिडकाश्चोक्ता दोषाणां गतिरेव च||१२०||
कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना|
ज्ञानार्थं भिषजां चैव प्रजानां च हितैषिणा||१२१||
तत्र श्लोकावित्यादि||१२०-१२१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः||१७||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः||१७||
१. ‘हुताशवेशवचनं’ इति पा.|
२. ‘गतिर्वक्ष्यामि विस्तरम्’ इति पा.|
३. ‘शिरोभितापात्’ इति पा.|
४. ‘अभ्यर्हितत्वं’ इति पा.|
५. ‘तीक्ष्णाघ्राणात्’ इति पा.|
६. ‘शिरोगता वै धमनीर्वायुराविश्य कुप्यति’ इति पा.|
७. ‘घाटा ग्रीवायाः पश्चाद्भागः, ‘घाड’ इति यस्यापभ्रंशः’|
८. ‘भ्रुवोर्मध्यं’ इति पा.|
९. ‘बाध्येते’ इति पा.|
१०. ‘वृत्तत्वात् प्रसिद्धत्वात्’|
११. ‘सुखायते’ इति पा.|
१२. ‘छेदव्यधनरुक्कण्डूशोफदौर्गन्ध्यदुःखितम्’ इति पा.|
१३. ‘लक्षणेन च’ इति पा.|
१४. ‘…शीतरूक्षाल्पभोजनैः’ इति पा.|
१५. योगीन्द्रनाथसेनस्तु ‘द्रवः’ इति पठति, ‘द्रवः द्रुतत्वं’ इति च व्याख्यानयति|
१६. ‘संसर्गेण नवैते षडेकवृद्ध्या’ इति पा.|
१७. ‘व्याधीनां द्व्यधिका षष्टिरित्युक्तं विवृणोति- द्व्युल्बणैकोल्बणैरिति| वृद्धैर्दोषैः पञ्चविंशतिर्व्याधयो भवन्ति| तद्यथा- सन्निपाते त्रयोदश, संसर्गे नव, पृथक् त्रयश्चेति| द्व्युल्बणैकोल्बणैर्दोषैः षटः, सन्निपतितानां दोषाणां मध्ये द्वयोरतिशये त्रयः, एकस्यातिशये त्रयः, इति द्व्युल्बणैकोल्बणैः षट्| हीनमध्याधिकैः सन्निपतितैः षट्| समैः तुल्यवृद्धैर्दोषैश्चैकः, इति सन्निपाताः त्रयोदश| तथाच- कफः वृद्धः वातपित्ते अधिकवृद्धे १, पित्तं वृद्धं वातकफावधिकवृद्धौ २, वातो वृद्धः पित्तकफावधिकवृद्धौ ३, इति द्व्युल्बणैस्त्रयः| पित्तकफौ वृद्धौ वातोऽधिकवृद्धः १, वातकफौ वृद्धौ पित्तमधिकवृद्धं २, वातपित्ते वृद्धे कफौऽधिकवृद्धः ३, इति एकोल्बणैस्त्रयः| वातो वृद्धः पित्तं वृद्धतरं श्लेष्मा वृद्धतमः १, वातो वृद्धः श्लेष्मा वृद्धतरः पित्तं वृद्धतमं २, पित्तं वृद्धं श्लेष्मा वृद्धतरः वातो वृद्धतमः ३, पित्तं वृद्धं वातो वृद्धतरः श्लेष्मा वृद्धतमः ४, श्लेष्मा वृद्धो वातो वृद्धतरः पित्तं वृद्धतमं ५, श्लेष्मा वृद्धः पित्तं वृद्धतरं वातो वृद्धतमः ६, इति हीनमध्याधिकैः षट्| तुल्यवृद्धा वातपित्तश्लेष्माण इति समैरेकः| संसर्गेण नव| तत्र एकवृद्ध्या षट्, समैश्च त्रयः| संसृष्टयोर्दोषयोर्मध्ये एकस्य वृद्ध्या अतिशयेन षट्| तद्यथा- वातो वृद्धः पित्तं वृद्धतरं १, पित्तं वृद्धं वातो वृद्धतरः २, श्लेष्मा वृद्धः पित्तं वृद्धतरं ३, पित्तं वृद्धं श्लेष्मा वृद्धतरः ४, वातो वृद्धः श्लेष्मा वृद्धतरः ५, श्लेष्मा वृद्धो वातो वृद्धतरः ६, इति एकवृद्ध्या षट्| समैर्दोषयोः समानवृद्ध्या त्रयः| तद्यथा- वातपित्ताभ्यां वृद्धाभ्यामेकः, वातश्लेष्मभ्यां वृद्धाभ्यां द्वितीयः, पित्तश्लेष्मभ्यां वृद्धाभ्यां तृतीयः, इति संसर्गेण नव| पृथक् व्यस्तैर्वृद्धैस्त्रयः| तद्यथा- वातो वृद्धः, पित्तं वृद्धं, श्लेष्मा वृद्धः, एवं वृद्धैः पञ्चविंशतिः| वृद्ध्या पञ्चविंशतिमुक्त्वा क्षयेऽपि पञ्चविंशतिं दर्शयति- यथेत्यादि| यथा वृद्धैर्दोषैः पञ्चविंशतिस्तथा क्षीणैरपि पञ्चविंशतिर्विकाराः स्युः| सन्निपाते त्रयोदशः, संसर्गे नव, पृथक् त्रयश्चेति| तद्यथा- वातः क्षीणः पित्तश्लेष्माणावतिक्षीणौ १, पित्तं क्षीणं वातश्लेष्माणावतिक्षीणौ २, श्लेष्मा क्षीणः, वातपित्ते अतिक्षीणे ३, इति क्षीणानां सन्निपतितानां मध्ये द्वयोरतिशये त्रयः| वातपित्ते क्षीणे श्लेष्मा अतिक्षीणः १, पित्तश्लेष्माणौ क्षीणौ वातोऽतिक्षीणः २, वातश्लेष्माणौ क्षीणौ पित्तमतिक्षीणम् ३, इति एकस्यातिशये त्रयः| श्लेष्मा क्षीणः पित्तं क्षीणतरं वातः क्षीणतमः १, वातः क्षीणः श्लेष्मा क्षीणतरः पित्तं क्षीणतमं २, पित्तं क्षीणं श्लेष्मा क्षीणतरो वातः क्षीणतमः ३, श्लेष्मा क्षीणो वातः क्षीणतरः पित्तं क्षीणतमं ४, वातः क्षीणः पित्तं क्षीणतरं श्लेष्मा क्षीणतमः ५, पित्तं क्षीणं वातः क्षीणतरः श्लेष्मा क्षीणतमः ६, इति हीनमध्याधिकैः षट्| क्षीणा वातपित्तश्लेष्माण इति समैः क्षीणरेकः| एते त्रयोदश सन्निपाताः| संसर्गेण नव| तत्र क्षीणयोरेकस्यातिशये षट्| तद्यथा- वातः क्षीणः पित्तं क्षीणतरं १, पित्तं क्षीणं वातः क्षीणतरः २, वातः क्षीणः श्लेष्मा क्षीणतरः ३, श्लेष्मा क्षीणः वातः क्षीणतरः ४, श्लेष्मा क्षीणः पित्तं क्षीणतरं ५, पित्तं क्षीणं श्लेष्मा क्षीणतरः ६| तुल्यक्षीणाभ्यां त्रयः| तद्यथा- क्षीणे वातपित्ते १, क्षीणौ पित्तश्लेष्माणौ २, क्षीणौ वातश्लेष्माणौ ३, इति संसर्गेण नव| पृथक् त्रयः- वातः क्षीणः १, पित्तं क्षीणं २, श्लेष्मा क्षीणः ३, एवं क्षीणैः पञ्चविंशतिः| सन्निपतितानां दोषाणां युगपद्वृद्धिक्षयकृतोऽन्यो विकल्पो भेद उपदिश्यते| तमेव विकल्पं दर्शयति- वृद्धिरिति| एकस्य वृद्धिः, एकस्य समता, एकस्य च सङ्क्षयः| वातो वृद्धः पित्तं समं श्लेष्मा क्षीणः १, वातो वृद्धः श्लेष्मा समः पित्तं क्षीणं २, पित्तं वृद्धं वातः समः श्लेष्मा क्षीणः ३, पित्तं वृद्धं श्लेष्मा समः वातः क्षीणाः ४, श्लेष्मा वृद्धः वातः समः पित्तं क्षीणं ५, श्लेष्मा वृद्धः पित्तं समं वातः क्षीणः ६| द्वन्द्ववृद्धिः द्वयोर्वृद्धिः, एकस्य च क्षयः, एकस्य वृद्धिर्द्वयोश्च क्षयः, अत्रापि षट्| तद्यथा- श्लेष्मपित्ते वृद्धे वातः क्षीणः १, श्लेष्मवातौ वृद्धौ पित्तं क्षीणं २, वातपित्ते वृद्धे श्लेष्मा क्षीणः ३, इति द्वन्द्ववृद्ध्या एकस्य क्षयेण त्रयः| श्लेष्मा वृद्धः वातपित्ते क्षीणे १, पित्तं वृद्धं श्लेष्मवातौ क्षीणौ २, वायुर्वृद्धः पित्तश्लेष्माणौ क्षीणौ ३, इति एकवृद्ध्या द्वयोः क्षयेण त्रयः| वृद्धैः पञ्चविंशतिः क्षीणैः पञ्चविंशतिरिति पञ्चाशत्, वृद्धिक्षयसमताकृताः षट्, वृद्धिक्षयकृताश्च षट्, एवं द्विषष्टिः’| इति चरकोपस्कारे योगीन्द्रनाथसेनः|
१८. ‘एकवृद्धिरित्यादिनाऽपि त्रयः’ इति पा.|
१९. ‘साम्ये स्थितं’ इति पा.|
२०. ‘प्रकृतिस्थं यदा वातं’ इति पा.|
२१. ‘प्रकृतिस्थं कफं’ इति पा.|
२२. ‘प्रकृतिस्थं यदा वातं श्लेष्मा पित्तपरिक्षये| सन्निरुन्ध्यात्तदा कुर्याच्छीतकं गौरवं ज्वरम्’ इति पा.|
२३. ‘प्रकृतिस्थं यदा पित्तं श्लेष्मा मारुतसङ्क्षये| सन्निरुन्ध्यात्तदा कुर्यान्मृद्वग्नित्वं शिरोग्रहम्’ इति पा.|
२४. ‘वेपयत्यथ मानवम्’ इति पा.|
२५. ‘तत्र तत्रेति’ इति पा.|
२६. ‘नोद्भावनीयमिति पाठस्तु न समीचीनः ‘तेनैतेषां तरतमादिभेदेन रसरुधिरादिसंसर्गभेदेन अगण्यत्वमेव ज्ञेयं, उक्तंहि- “संसर्गाद्रसरुधिरादिभिस्तथैषां दोषांस्तु क्षयसमताविवृद्धिभेदात्| आनन्त्यं तरतमयोगतश्च याताञ्जानीयादवहितमानसो यथास्वम्” (वा. सू. १२)’ इति शिवदाससेनेन व्याख्यातत्वात्|
२७. ‘विरोधः’ इति पा.|
२८. ‘भवति’ इति पा.|
२९. ‘प्रभावोत्पादितविषयव्यतिरेके’ इति पा.|
३०. ‘च क्षीणलक्षणम्’ इति पा.|
३१. ‘द्रवति इति हृदयं धुगधुगिति करोति’ इति शिवदाससेनः|
३२. ‘तनुत्वं तोदनं त्वचः’ इति पा.|
३३. ‘विशुष्काणि च लक्ष्यन्ते’ इति पा.|
३४. ‘नाष्टधातुत्वादिप्रसक्तिः’ इति पा.|
३५. ‘तैरावृतः प्रसादं च गृहीत्वा याति मारुतः’ इति पा.|
३६. ‘भवन्त्युपेक्षया तस्य’ इति पा.|
३७. ‘शराविकादिसञ्ज्ञा स्वयोनिविवरणे स्फुटा’ इति पा.|
३८. ‘मांसासृक् प्रविशन्ति’ इति पा.|
३९. ‘सर्वास्वासु’ इति पा.|
४०. ‘तप्तैः शस्त्रैर्यथा मथ्येतोल्मुकैरिव दह्यते’ इति पा.| उल्मुकमङ्गारम्|
४१. ‘व्यापन्नम् असम्यक्सन्धानादिना विकृतिमापन्नम्’|
४२. ‘व्यथाविशेषाः’ इति पा.|
४३. ‘कृच्छ्रमूत्रता, पूतिवर्चस्त्वं च’ इति पा.|
४४. ‘कुक्षिपार्श्वमध्येंऽसे शूलं’ इति पा.|
४५. ‘पित्तं चैघ’ इति पा.|
४६. ‘पित्तमग्रे’ इति पा.|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
sūtrasthānam - 17. kiyantaḥśirasīyō'dhyāyaḥ
athātaḥ kiyantaḥśirasīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
pūrvacatuṣkacatuṣṭayēna bhēṣajamabhihitaṁ, samprati tadviṣayarōgābhidhānārthaṁ rōgacatuṣkō’bhidhātavyaḥ, cikitsā ca vidhēyatvēnaiva pradhānamataḥ prathamamuktā, kiñca darśitaścāyaṁ prathamādhyāya ēva sambandhaḥ, ēvaṁ cāṅgēṣu marmasu ca pradhānabhūtaśirōhr̥dayarōgābhidhāyakatvēna kiyantaḥ śirasīyō’bhidhīyatē||1-2||
kiyantaḥ śirasi prōktā rōgā hr̥di ca dēhinām|
kati cāpyanilādīnāṁ rōgā mānavikalpajāḥ||3||
kṣayāḥ kati samākhyātāḥ piḍakāḥ kati cānagha!|
gatiḥ katividhā cōktā dōṣāṇāṁ dōṣasūdana!||4||
hutāśavēśasya vacastacchrutvā [1] gururabravīt|
pr̥ṣṭavānasi yat saumya! tanmē śr̥ṇu savistaram||5||
dr̥ṣṭāḥ pañca śirōrōgāḥ pañcaiva hr̥dayāmayāḥ|
vyādhīnāṁ hyadhikā ṣaṣṭirdōṣamānavikalpajā||6||
daśāṣṭau ca kṣayāḥ sapta piḍakā mādhumēhikāḥ|
dōṣāṇāṁ trividhā cōktā gatirvistarataḥ [2] śr̥ṇu||7||
kṣayasthānavr̥ddhayō dōṣamānaṁ, tasya vikalpō dōṣāntarasambandhāsambandhakr̥tō bhēdaḥ| mādhumēhikā ityatra madhumēhaśabdaḥ sāmānyēna pramēhavacanaḥ| yatō’traiva sāmānyēna brūtē- “vinā pramēhamapyētā jāyantē duṣṭamēdasaḥ” iti; anyathā hi ‘vinā madhumēhaṁ’ iti kr̥taṁ syāt; tathā cikitsitē vakṣyati sāmānyēnaiva yat- “pramēhiṇāṁ yāḥ piḍakā mayōktā rōgādhikārē pr̥thagēva sapta” (ci. 6) ityādi| tathā madhumēhapiḍakānāṁ cikitsitōpadēśācca sarvamēhabhavatvaṁ piḍakānāṁ, madhumēhabhavatvē hi madhumēhasyaivāsādhyatvānna tadbhavapiḍakānāmupakramaṇīyatvamasti; kiñca pradēśāntarē’pi madhumēhaśabdēnāyaṁ sarvapramēhānuktavān, yathā- “gulmī ca madhumēhī ca rājayakṣmī ca yō naraḥ| acikitsyā bhavantyētē balamāṁsaparikṣayē” (iṁ. 9) iti| atra hi yadi vātikō madhumēhō’bhiprētaḥ syāttadā tasya svarūpata ēvāsādhyatvēna ‘balamāṁsaparikṣayē sati’ iti viśēṣaṇamanarthakaṁ syāt| suśrutēnāpi ca sāmānyēna pramēhē ēvaitāḥ piḍakā darśitāḥ, yaduktaṁ- “tatra vasāmēdōbhyāmabhipannaśarīrasya tribhirdōṣaiścānugatadhātōḥ pramēhiṇō daśa piḍakā jāyantē” (su. ni. 6) ityādi| sarva ēva pramēhā yasmāddēhaṁ madhurīkr̥tya jāyantē tasmānmadhumēhā ityucyantē, vacanaṁ hi- “ṣaṭpadapippīlikābhiśca śarīramūtrābhisaraṇam” (ni. 4) iti, tathā ca vāgbhaṭaḥ- “madhuraṁ yacca sarvēṣu prāyō madhviva mēhati| sarvē hi madhumēhākhyā mādhuryācca tanōrataḥ” (vā. ni. 10) iti| vistarata iti śr̥ṇvityanēna sambadhyatē||3-7||
sandhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt|
uccairbhāṣyādavaśyāyāt prāgvātādatimaithunāt||8||
gandhādasātmyādāghrātādrajōdhūmahimātapāt|
gurvamlaharitādānādati śītāmbusēvanāt||9||
śirō’bhighātādduṣṭāmādrōdanādbāṣpanigrahāt [3] |
mēghāgamānmanastāpāddēśakālaviparyayāt||10||
vātādayaḥ prakupyanti śirasyasraṁ ca duṣyati|
tataḥ śirasi jāyantē rōgā vividhalakṣaṇāḥ||11||
sandhāraṇāditi vēgasandhāraṇāt| haritam ārdrakādi| atīti pūrvēṇa parēṇa ca śītāmbusēvanādityanēna sambadhyatē| duṣṭādāmāt duṣṭāmāt; kiṁvā ‘uṣṇāmāt’ iti pāṭhaḥ, tatrōṣṇāccāmāccētyarthaḥ| dēśakālaviparyayādityatra dēśaviparyaya upasargagr̥hītatvaṁ dēśasya| asraṁ ca praduṣyatītyabhidadhānaḥ sarvaśirōrōgēṣu raktaduṣṭiṁ darśayati||8-11||
prāṇāḥ prāṇabhr̥tāṁ yatra śritāḥ sarvēndriyāṇi ca|
yaduttamāṅgamāṅgānāṁ śirastadabhidhīyatē||12||
prāṇā ityādinā’ṅgēṣu śiraḥprādhānyaṁ darśayan prakr̥taśirōrōgāṇāmēvātyahitatvaṁ [4] darśayati; tēna nōtsūtraṁ śiraḥprādhānyābhidhānam| śritā iva śritāḥ, śira-upaghātē upaghātāt| upariṣṭādaṅgamuttamāṅgam||12||
ardhāvabhēdakō vā syāt sarvaṁ vā rujyatē śiraḥ|
pratiśyāmukhanāsākṣikarṇarōgaśirōbhramāḥ||13||
arditaṁ śirasaḥ kampō galamanyāhanugrahaḥ|
vividhāścāparē rōgā vātādikrimisambhavāḥ||14||
prakr̥tāñchirōrōgānāha- ardhētyādinā krimisambhavā ityantēna| ētacca ‘jāyantē rōgā vividhalakṣaṇāḥ’ ityasya vivaraṇam||13-14||
pr̥thagdiṣṭāstu yē pañca saṅgrahē paramarṣibhiḥ|
śirōgadāṁstāñchr̥ṇu mē yathāsvairhētulakṣaṇaiḥ||15||
uccairbhāṣyātibhāṣyābhyāṁ tīkṣṇapānāt [5] prajāgarāt|
śītamārutasaṁsparśādvyavāyādvēganigrahāt||16||
upavāsādabhīghātādvirēkādvamanādati|
bāṣpaśōkabhayatrāsādbhāramārgātikarśanāt||17||
śirōgatāḥ [6] sirā vr̥ddhō vāyurāviśya kupyati|
tataḥ śūlaṁ mahattasya vātāt samupajāyatē||18||
nistudyētē bhr̥śaṁ śaṅkau ghāṭā [7] sambhidyatē tathā|
sabhrūmadhyaṁ [8] lalāṭaṁ ca tapatīvātivēdanam||19||
vadhyētē [9] svanataḥ śrōtrē niṣkr̥ṣyētē ivākṣiṇī|
ghūrṇatīva śiraḥ sarvaṁ sandhibhya iva mucyatē||20||
sphuratyati sirājālaṁ stabhyatē ca śirōdharā|
snigdhōṣṇamupaśētē ca śirōrōgē’nilātmakē||21||
śirōgatatvēna nāsādirōgēṣvapi prāptēṣu tān vihāyaivāṣṭōdarīyē prōktāṁstānēva śiraḥśūlalakṣaṇān rōgān prapañcēna vaktumāha- pr̥thagityādi| saṅgrahē aṣṭōdarīyē; tēna nārūṁṣikādayō’traprakaraṇē śirōrōgaśabdēnōcyantē; śirōrōgaśabdasya śūla ēva rujākarē vr̥ttatvāt [10] | tīkṣṇapānaṁ tīkṣṇamadyapānaṁ; kiṁvā, tīkṣṇaṁ maricādi| vadhyētē iva vadhyētē, atyarthapīḍāyuktatvēna||15-21||
kaṭvamlalavaṇakṣāramadyakrōdhātapānalaiḥ|
pittaṁ śirasi sanduṣṭaṁ śirōrōgāya kalpatē||22||
dahyatē rujyatē tēna śiraḥ śītaṁ suṣūyatē [11] |
dahyētē cakṣuṣī tr̥ṣṇā bhramaḥ svēdaśca jāyatē||23||
śītaṁ suṣūyatē śītamicchati||22-23||
āsyāsukhaiḥ svapnasukhairgurusnigdhātibhōjanaiḥ|
ślēṣmā śirasi sanduṣṭaḥ śirōrōgāya kalpatē||24||
śirō mandarujaṁ tēna suptaṁ stimitabhārikam|
bhavatyutpadyatē tandrā tathā”lasyamarōcakaḥ||25||
vātācchūlaṁ bhramaḥ kampaḥ pitāddāhō madastr̥ṣā|
kaphādgurutvaṁ tandrā ca śirōrōgē tridōṣajē||26||
svapnasukhamanucitadivāsvapnēna jñēyam| suptamiva suptaṁ, prabōdharahitatvēna| bhārākrāntamiva bhārikam||24-26||
tilakṣīraguḍājīrṇapūtisaṅkīrṇabhōjanāt|
klēdō’sr̥kkaphamāṁsānāṁ dōṣalasyōpajāyatē||27||
tataḥ śirasi saṅklēdāt krimayaḥ pāpakarmaṇaḥ|
janayanti śirōrōgaṁ jātā bībhatsalakṣaṇam||28||
vyadhacchēdarujākaṇḍūśōphadaurgatyaduḥkhitam [12] |
krimirōgāturaṁ vidyāt krimīṇāṁ darśanēna [13] ca||29||
saṅkīrṇabhōjanaṁ viruddhāharaḥ| dōṣalasya bahudōṣasya| pāpakarmaṇa ityanēnādharmavata ēvāyamatiduḥkhakrimirōgō bhavatīti darśayati| bībhatsalakṣaṇamiti ghrāṇādibhyaḥ pūyādipravr̥ttēḥ||27-29||
śōkōpavāsavyāyāmarūkṣaśuṣkālpabhōjanaiḥ [14] |
vāyurāviśya hr̥dayaṁ janayatyuttamāṁ rujam||30||
vēpathurvēṣṭanaṁ stambhaḥ pramōhaḥ śūnyatā daraḥ [15] |
hr̥di vātāturē rūpaṁ jīrṇē cātyarthavēdanā||31||
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhōjanaiḥ|
madyakrōdhātapaiścāśu hr̥di pittṁ prakupyati||32||
hr̥ddāhastiktatā vakrē tiktāmlōdgiraṇaṁ klamaḥ|
tr̥ṣṇā mūrcchā bhramaḥ svēdaḥ pittahr̥drōgalakṣaṇam||33||
atyādānaṁ gurusnigdhamacintanamacēṣṭanam|
nidrāsukhaṁ cābhyadhikaṁ kaphahr̥drōgakāraṇam||34||
hr̥dayaṁ kaphahr̥drōgē suptaṁ stimitabhārikam|
tandrāruciparītasya bhavatyaśmāvr̥taṁ yathā||35||
hētulakṣaṇasaṁsargāducyatē sānnipātikaḥ|
(hr̥drōgaḥ kaṣṭadaḥ kaṣṭasādhya uktō maharṣibhiḥ)
tridōṣajē tu hr̥drōgē yō durātmā niṣēvatē||36||
tilakṣīraguḍādīni granthistasyōpajāyatē|
marmaikadēśē saṅklēdaṁ rasaścāsyōpagacchati||37||
saṅklēdāt krimayaścāsya bhavantyupahatātmanaḥ|
marmaikadēśē tē jātāḥ sarpantō bhakṣayanti ca||38||
tudyamānaṁ sa hr̥dayaṁ sūcībhiriva manyatē|
chidyamānaṁ yathā śastrairjātakaṇḍūṁ mahārujam||39||
hr̥drōgaṁ krimijaṁ tvētairliṅgairbuddhvā sudāruṇam|
tvarēta jētuṁ taṁ vidvān vikāraṁ śīghrakāriṇam||40||
śōkōpavāsētyādi hr̥drōgalakṣaṇam| vēṣṭanam udvēṣṭanamiva| daraḥ daradarikā| acintanam alpacintanam| aśmāvr̥tam aśmākrāntam| granthiriva granthiḥ, sa ca rasadōṣakr̥taḥ| marmaikadēśē hr̥dayaikadēśē| dvitīyaṁ marmētipadaṁ karmatāpannam||30-40||
dvyulbaṇaikōlbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ|
samaiścaikō vikārāstē sannipātāstrayōdaśa||41||
saṁsargē nava ṣaṭ tēbhya [16] ēkavr̥ddhyā samaistrayaḥ|
pr̥thak trayaśca tairvr̥ddhairvyādhayaḥ pañcaviṁśatiḥ||42||
yathā vr̥ddhaistathā kṣīṇairdōṣēḥ syuḥ pañcaviṁśatiḥ|
vr̥ddhikṣayakr̥taścānyō vikalpa upadēkṣyatē||43||
vr̥ddhirēkasya samatā caikasyaikasya saṅkṣayaḥ|
dvandvavr̥ddhiḥ kṣayaścaikasyaikavr̥ddhirdvayōḥ kṣayaḥ [17] ||44||
‘kati cāpyanilādīnām’ ityādyuktasyōttaraṁ- dvyulbaṇairityādi| hīnamadhyādhikairiti vr̥ddhavr̥ddhataravr̥ddhatamaiḥ| saṁsargē navēti cchēdaḥ| asyaiva vivaraṇaṁ- ṣaṭ tēbhya ityādi| samaisraya iti vr̥ddhaiḥ samaiḥ| vr̥ddhikṣayakr̥ta ityasya vivaraṇaṁ- vr̥ddhirēkasyētyādi| atra ca yadyapi samatā’pi vr̥ddhikṣayavikalpē paṭhyatē, tathā’pi samatāyāḥ svātantryēṇa vikārākartr̥tvāt ‘vr̥ddhikṣayakr̥ta’ ityuktam| vr̥ddhirēkasya samatā caikasyaikasya saṅkṣaya ityanēna ṣaḍvikārāḥ| dvandvavr̥ddhiḥ kṣayaścaikasyētyanēna trayaḥ| ēkavr̥ddhirdvayōḥ kṣayaḥ [18] , tēna trayaḥ| ēvaṁ dviṣaṣṭiprakārā bhavanti||41-44||
prakr̥tisthaṁ yadā pittaṁ mārutaḥ ślēṣmaṇaḥ kṣayē|
sthānādādāya gātrēṣu yatra yatra visarpati||45||
tadā bhēdaśca dāhaśca tatra tatrānavasthitaḥ|
gātradēśē bhavatyasya śramō daurbalyamēva ca||46||
prakr̥tisthaṁ [19] kaphaṁ vāyuḥ kṣīṇē pittē yadā balī|
karṣēt kuryāttadā śūlaṁ saśaityastambhagauravam||47||
yadā’nilaṁ [20] prakr̥tigaṁ pittaṁ kaphaparikṣayē|
saṁruṇaddhi tadā dāhaḥ śūlaṁ cāsyōpajāyatē||48||
ślēṣmāṇaṁ [21] hi samaṁ pittaṁ yadā vātaparikṣayē|
sannirundhyāttadā kuryāt satandrāgauravaṁ jvaram||49||
pravr̥ddhō hi yadā ślēṣmā pittē kṣīṇē samīraṇam|
rundhyāttadā prakurvīta śītakaṁ gauravaṁ rujam [22] ||50||
samīraṇē parikṣīṇē kaphaḥ pittaṁ samatvagam|
kurvīta sannirundhānō mr̥dvagnitvaṁ śirōgraham [23] ||51||
nidrāṁ tandrāṁ pralāpaṁ ca hr̥drōgaṁ gātragauravam|
nakhādīnāṁ ca pītatvaṁ ṣṭhīvanaṁ kaphapittayōḥ||52||
hīnavātasya tu ślēṣmā pittēna sahitaścaran|
karōtyarōcakāpākau sadanaṁ gauravaṁ tathā||53||
hr̥llāsamāsyasravaṇaṁ pāṇḍutāṁ dūyanaṁ madam|
virēkasya ca vaiṣamyaṁ vaiṣamyamanalasya ca||54||
hīnapittasya tu ślēṣmā mārutēnōpasaṁhitaḥ|
stambhaṁ śaityaṁ ca tōdaṁ ca janayatyanavasthitam||55||
gauravaṁ mr̥dutāmagnērbhaktāśraddhāṁ pravēpanam|
nakhādīnāṁ ca śuklatvaṁ gātrapāruṣyamēva ca||56||
mārutastu kaphē hīnē pittaṁ ca kupitaṁ dvayam|
karōti yāni liṅgāni śr̥ṇu tāni samāsataḥ||57||
bhramamudvēṣṭanaṁ tōdaṁ dāhaṁ sphuṭanavēpanē|
aṅgamardaṁ parīśōṣṁ dūyanaṁ dhūpanaṁ tathā||58||
vātapittakṣayē ślēṣmā srōtāṁsyapidadhadbhr̥śam|
cēṣṭāpraṇāśaṁ mūrcchāṁ ca vāksaṅgaṁ ca karōti hi||59||
vātaślēṣmakṣayē pittaṁ dēhaujaḥ sraṁsayaccarēt|
glānimindriyadaurbalyaṁ tr̥ṣṇāṁ mūrcchāṁ kriyākṣayam||60||
pittaślēṣmakṣayē vāyurmarmāṇyatinipīḍayan|
praṇāśayati sañjñāṁ ca vēpayatyathavā [24] naram||61||
vr̥ddhirēkasyētyādērudāharaṇam- prakr̥tisthaṁ yadā pittamityādi| atra kēcidētadēva paramudāharaṇaṁ dr̥ṣṭāntārthaṁ paṭhanti, śēṣōdāharaṇaṁ tu kr̥tsnē tantrē bōddhavyaṁ; kēcittu vr̥ddhikṣayavikalpasya durbōdhatvēna sarvēṣāmēva dvādaśānāmapi vikalpānāmācāryēṇa lakṣaṇaṁ kr̥tamiti kr̥tvā sarvamēva paṭhanti| nanu prakr̥tisthē pittē kathaṁ tadā dāhaścēti saṅgataṁ bhavati, na hi prakr̥tisthō dōṣō vikārakārī, na ca vāyōrdāhaḥ sambhavati| ucyatē- yatra yatrēti [25] vacanād yatra kupitēna vāyunā pittaṁ nītaṁ, tatra śarīrāvayavē prakr̥timānasthitamapi pittaṁ vr̥ddhamēva, yatastasmin pradēśē tāvān pittasambandha ucitō na bhavatyēvētyadhikēna tatra pittēna dāha upapanna ēva, ēvamanyatrāpi prakr̥tisthasyāpi dōṣasya vikārē vyākhyēyam| anyē tu bruvatē- prakr̥tisthānāmapi dōṣāṇāṁ duṣṭadōṣasambandhādvikārakāritvaṁ bhavati; yathā- raktādīnām| hīnavātasyētyādi ‘dvandvavr̥ddhiḥ kṣayaścaikasya’ ityasyōdāharaṇam| dēhaujō dēhasāraḥ; kiṁvā dēhaśca ōjaśca dēhaujaḥ||45-61||
dōṣāḥ pravr̥ddhāḥ svaṁ liṅgaṁ darśayanti yathābalam|
kṣīṇā jahati liṅgaṁ svaṁ, samāḥ svaṁ karma kuvētē||62||
dōṣāṇāṁ vr̥ddhisāmyakṣayalakṣaṇāni pr̥thagāha- dōṣā ityādi| svaṁ liṅgamiti vaikārikam| yathābalamiti ativr̥ddhairativr̥ddhaṁ, madhyavr̥ddhairmadhyavr̥ddhamityādi| liṅgaṁ svaṁ jahatītyanēna kṣīṇānāṁ prakr̥tiliṅgakṣayavyatiriktaṁ vikārakartr̥tvaṁ nāstīti darśayati; yatō vr̥ddhā unmārgagāminō dōṣā dūṣyaṁ dūṣayantō jvarādīn kurvanti na kṣīṇāḥ, svayamēva duḥsthitatvāt| svaṁ karmēti prākr̥taṁ karma| ētē ca dviṣaṣṭirbhēdā āviṣkr̥tatamatvēnōktāḥ; tēnaikadōṣakṣayē dvidōṣavr̥ddhau ca vr̥ddhavr̥ddhatarabhēdādibhyō’dhikatvamudbhāvanīyam [26] | nanu bhavatvēvaṁ saṅkhyā yadi sannipātō dōṣāṇāṁ syāt, sa tu na bhavitumarhati, yatō vātādīnāṁ parasparaṁ viruddhāḥ santi guṇāḥ, viruddhaguṇānāṁ tu parasparōpaghātō bhavati, yathā- vahnitōyayōḥ| naivaṁ, virōdhō hi bhāvānāṁ kāryōnnēyaḥ, nānyatō dr̥ṣṭamātrēṇa kalpayituṁ pāryatē; yatō’nyatra tōyadahanayōrbhēda [27] upalabdhaḥ, tat kiṁ pāñcabhautikadravyārambhē’pi tayōrvirōdhāt pāñcabhautikaṁ dravyaṁ na syāt, tōyāgniguṇātirēkādvā’mlarasō na syāt [28] , tasmādanupalabdhatvāddōṣasaṁsargē virōdhasya svabhāvaparyanuyōgō na yujyatē| atha manyasē- ēvaṁ viruddhaguṇānāmapi dōṣāṇāmavirōdhē “viruddhaguṇasannipātē bhūyasā’lpamavajīyatē” (vi. 1) iti, tathā “hrāsahēturviśēṣastu” (sū. 1) iti vacanē tarhi nirarthakē| na, anayōḥ prabhāvāt pratipāditaviṣayavyatirēkē [29] caritārthatvāt| prabhāvastu tayōrvirōdhakō bhavatyēva; yathā- tridōṣakaranikucagatā guṇāḥ samān dōṣān kurvanti paraṁ, na tu viruddhatvēna dōṣaharaṇaṁ kurvatē tridōṣakartr̥tvaprabhāvāt; tathā āmalakē’mlatvaṁ vātaṁ hanti, mādhuryaśaityē tu pittaṁ, ślēṣmāṇaṁ ca kaṭutvatiktatvē; nikucē tvamlatvaṁ kaṣāyaśaityābhibhūtaṁ vātaṁ na nihanti, mādhuryaśaityē cāmlatvābhibhūtē pittaṁ na jayata ēvamādi| tasmāddōṣāṇāṁ prabhāvō’yaṁ dr̥ṣṭatvādavadhāryatē- yat- na tē parasparamupaghnanti| ēvambhūtaprabhāvatvē tu tēṣāmadr̥ṣṭamēva kāraṇaṁ, prāṇināṁ duḥkhajanakēna hyadr̥ṣṭēna tē’virōdhēna nivēśyantē, ata ēva vakṣyati- “viruddhairapi na tvētē guṇairghnanti parasparam| dōṣāḥ sahajasātmyatvāddhōraṁ viṣamahīniva” (ci. 26) iti| sahajaṁ daivavaśāt svābhāvikaṁ sātmyatvaṁ sahajasātmyatvam| anēna ca vyākhyānēna ‘yathā dōṣā anyōnyaṁ nōpaghnanti, tathā rasaraktādīnapi nōpahanyuḥ’ ityādi yaducyatē kaiścit, tat sarvaṁ nirastam| nanu, “kāladūṣyaprakr̥tibhirdōṣastulyō hi santatam| niṣpratyanīkaḥ kurutē” (ci. 3) iti cikitsitē vakṣyati, tēna prakr̥tirdōṣasya pratipakṣā bhavatītyuktaṁ, prakr̥tiśca janmaprabhr̥tivr̥ddhō vātādirucyatē, “dōṣānuśayitā hyēṣāṁ dēhaprakr̥tirucyatē” (sū. 7) ityādivacanāt; tadayaṁ prākr̥tēna dōṣēṇa dōṣasya virōdhaḥ kathaṁ tarhyupapannaḥ? ucyatē- tatra prakr̥tēḥ pratyanīkatā ananuguṇatvēna mantavyā, samānāṁ hi prakr̥tiṁ prāpya dōṣaḥ pravr̥ddhabalō bhavati, asamānāṁ tu prāpya tathā balavānna bhavati, nāsamānayā prakr̥tyā hanyatē; ēvamanyatrāpyunnēyam| ativr̥ddhēna vāyunāślēṣmaṇō durbalasya duṣṭatvādvirōdhō bhavatyēva kvacit, naitāvatā saṁsargasannipātāsambhavaḥ||62||
vātādīnāṁ rasādīnāṁ malānāmōjasastathā|
kṣayāstatrānilādīnāmuktaṁ saṅkṣīṇalakṣaṇam [30] ||63||
ghaṭṭatē sahatē śabdaṁ nōccairdravati [31] śūlyatē|
hr̥dayaṁ tāmyati svalpacēṣṭasyāpi rasakṣayē||64||
paruṣā sphuṭitā mlānā tvagrūkṣā raktasaṅkṣayē|
māṁsakṣayē viśēṣēṇa sphiggrīvōdaraśuṣkatā||65||
sandhīnāṁ sphuṭanaṁ glānirakṣṇōrāyāsa ēva ca|
lakṣaṇaṁ mēdasi kṣīṇē tanutvaṁ [32] cōdarasya ca||66||
kēśalōmanakhaśmaśrudvijaprapatanaṁ śramaḥ|
jñēyamasthikṣayē liṅgaṁ sandhiśaithilyamēva ca||67||
śīryanta iva cāsthīni durbalāni laghūni ca|
pratataṁ [33] vātarōgīṇi kṣīṇē majjani dēhinām||68||
daurbalyaṁ mukhaśōṣaśca pāṇḍutvaṁ sadanaṁ śramaḥ|
klaibyaṁ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam||69||
kṣīṇē śakr̥ti cāntrāṇi pīḍayanniva mārutaḥ|
rūkṣasyōnnamayan kukṣiṁ tiryagūrdhvaṁ ca gacchati||70||
mūtrakṣayē mūtrakr̥cchraṁ mūtravaivarṇyamēva ca|
pipāsā bādhatē cāsya mukhaṁ ca pariśuṣyati||71||
malāyanāni cānyāni śūnyāni ca laghūni ca|
viśuṣkāṇi ca lakṣyantē yathāsvaṁ malasaṅkṣayē||72||
sampratyaṣṭādaśakṣayānāha- vātādīnāmityādi| atra malānāmityanēna mūtrapurīṣayōḥ pañcēndriyamalānāṁ ca grahaṇam| viśēṣēṇētivacanādanyagātrāṇāmapi śuṣkatā labhyatē| sandhīnāmityādi bhēdaḥ- kṣayalakṣaṇam, kēśētyādi asthikṣayasya| bādhatē cāsyēti karmaṇi śēṣalakṣaṇā ṣaṣṭhī| malāyanānītyanēna pañcēndriyādhiṣṭhānānāṁ mukhanāsikācakṣuḥkarṇānāṁ tvagindriyādhiṣṭhānabhūtānāṁ ca lōmakūpaprajananānāṁ yathāsvaṁ malāyanāni gr̥hyantē| yaduktaṁ jatūkarṇē- “dōṣāṇāṁ dhātūnāmōjōmūtraśakr̥dindriyamalānām| aṣṭādaśakṣayāstē lakṣyāḥ svaguṇakriyānāśāt” iti||63-72||
bibhēti durbalō’bhīkṣṇaṁ dhyāyati vyathitēndriyaḥ|
duśchāyō durmanā rūkṣaḥ kṣāmaścaivaujasaḥ kṣayē||73||
hr̥di tiṣṭhati yacchuddhaṁ raktamīṣatsapītakam|
ōjaḥ śarīrē saṅkhyātaṁ tannāśānnā vinaśyati||74||
prathamaṁ jāyatē hyōjaḥ śarīrē’smiñcharīriṇām|
sarpirvarṇaṁ madhurasaṁ lājagandhi prajāyatē||75||
(bhramaraiḥ phalapuṣpēbhyō yathā sambhriyatē madhu|
tadvadōjaḥ svakarmabhyō guṇaiḥ sambhriyatē nr̥ṇām||1||)|
ōjaḥkṣayalakṣaṇamāha- bibhētītyādi| durmanā manōbalavihīnaḥ| ōjasō durjñēyatvēna lakṣaṇamāha- hr̥dītyādi| śuddhamiti śuklaṁ, raktamīṣaditi kiñcidraktaṁ, sapītakamiti īṣatpītakaṁ; tēna śuklavarṇamōjaḥ, raktapītau tu varṇāvatrānugatau; kiṁvā, īṣadityalpapramāṇaṁ, tēnāṣṭabindukamōja iti darśayati| yaduktaṁ tantrāntarē- “prāṇāśrayasyaujasō’ṣṭau bindavō hr̥dayāśrayāḥ” iti| ētaccāṣṭabindukaṁ paramōjō jñēyam, ardhāñjaliparimāṇaṁ tu yadōjastadapradhānaṁ; yacchārīrē vakṣyati- “tāvaccaiva ślaiṣmikasyaujasaḥ pramāṇam” (śā. 7) ityanēna; tasmāddvividhamihaujaḥ| ata ēvārthē daśamahāmūlīyē vakṣyati- “tat parasyaujasaḥ sthānaṁ” (sū. 30) iti; parasya śrēṣṭhasyāṣṭabindukasyētyarthaḥ| iha ca kṣayalakṣaṇamardhāñjalimānasyaiva jñaiyam, aṣṭabindukasya tvavayavanāśē’pi mr̥tyurbhavatīti hr̥dītyādinā granthēna darśayati| ētaccaujaḥ sarvadhātusamudāyarūpaṁ, tēna saptadhātuṣvēvāvaruddhamiti nāṣṭamadhātutvātiprasaktiḥ [34] ; ata ēva suśrutē’pyuktaṁ- “rasādīnāṁ śukrāntānāṁ dhātūnāṁ yat paraṁ tējastat khalvōjaḥ” (su. sū. 15) iti| anyatrāpyuktaṁ- “bhramaraiḥ phalapuṣpēbhyō yathā saṁhriyatē madhu| tadvadōjaḥ śarīrēbhyō guṇaiḥ saṁhriyatē nr̥ṇām” iti| ‘prathamaṁ jāyatē’ ityādipāṭhastu nātiprasiddhaḥ| ētē cāṣṭādaśa kṣayā āviṣkr̥tatamatvēnōktāḥ; tēna udakakṣayasvarakṣayādyanabhidhānaṁ nōdbhāvanīyam; uktaṁ hi- “svarakṣayamurōrōgaṁ” iti; tathōdakakṣayalakṣaṇaṁ yathā- “jihvātālvōṣṭhakaṇṭhaklōmasaṁśōṣaṁ pipāsāṁ cātivr̥ddhāṁ dr̥ṣṭvā udakavahānyasya srōtāṁsi praduṣṭānīti jānīyāt” (vi. 5) iti||73-75||
vyāyāmō’naśanaṁ cintā rūkṣālpapramitāśanam|
vātātapau bhayaṁ śōkō rūkṣapānaṁ prajāgaraḥ||76||
kaphaśōṇitaśukrāṇāṁ malānāṁ cātivartanam|
kālō bhūtōpaghātaśca jñātavyāḥ kṣayahētavaḥ||77||
sāmānyēna kṣayāṇāṁ hētumāha- vyāyāma ityādi| pramitāśanam ēkarasābhyāsaḥ| ativartanam atipravr̥ttiḥ, bahirgamanamiti yāvat| kālō vārdhakyamādānaṁ ca| bhūtōpaghātaḥ piśācādyupaghātaḥ| atra vātakṣayahēturnōktō vilakṣaṇatvāt, sa cācintanadivāsvapanādirjñēyaḥ; kiṁvā, anaśanāt kiṭṭābhāvaḥ, tataśca kiṭṭarūpasya vātasyāpyanutpādāt kṣayō jñēyaḥ||76-77||
gurusnigdhāmlalavaṇānyatimātraṁ samaśnatām|
navamannaṁ ca pānaṁ ca nidrāmāsyāsukhāni ca||78||
tyaktavyāyāmacintānāṁ saṁśōdhanamakurvatām|
ślēṣmā pittaṁ ca mēdaśca māṁsaṁ cātipravardhatē||79||
tairāvr̥tagatirvāyurōja [35] ādāya gacchati|
yadā bastiṁ tadā kr̥cchrō madhumēhaḥ pravartatē||80||
sa mārutasya pittasya kaphasya ca muhurmuhuḥ|
darśayatyākr̥tiṁ gatvā kṣayamāpyāyatē punaḥ||81||
upēkṣayā’sya jāyantē [36] piḍakāḥ sapta dāruṇāḥ|
māṁsalēṣvavakāśēṣu marmasvapi ca sandhiṣu||82||
śarāvikā kacchapikā jālinī sarṣapī tathā|
alajī vinatākhyā ca vidradhī cēti saptamī||83||
antōnnatā madhyanimnā śyāvā klēdaruganvitā|
śarāvikā syāt piḍakā śarāvākr̥tisaṁsthitā||84||
avagāḍhārtinistōdā mahāvāstuparigrahā|
ślakṣṇā kacchapapr̥ṣṭhābhā piḍakā kacchapī matā||85||
stabdhā sirājālavatī snigdhāsrāvā mahāśayā|
rujānistōdabahulā sūkṣmacchidrā ca jālinī||86||
piḍakā nātimahatī kṣiprapākā mahārujā|
sarṣapī sarṣapābhābhiḥ piḍakābhiścitā bhavēt||87||
dahati tvacamutthānē tr̥ṣṇāmōhajvarapradā|
visarpatyaniśaṁ duḥkhāddahatyagnirivālajī||88||
avagāḍharujāklēdā pr̥ṣṭhē vā’pyudarē’pi vā|
mahatī vinatā nīlā piḍakā vinatā matā||89||
samprati saptapiḍakā vaktavyāḥ, atastāsāṁ pradhānahētutvēna pramēhānēva tāvannidānādikramēṇāha- gurvityādi| navaṁ pānamiti navaṁ madyam| nidrāmāsyāsukhāni cētyatrāntē ‘bhajatāṁ’ iti śēṣaḥ| ōjaḥ prasādō dhātūnāmiti yāvat| kr̥cchr iti kr̥cchrasādhyaḥ| upēkṣayā acikitsayā| śarāvikādisañjñānvayō [37] vivaraṇē sphuṭaḥ| alajīsañjñā rūḍhā| ētāśca prādhānyāduktāḥ| tēna suśrutē’pi piḍakādhikyamuktaṁ yat, tanna virōdhi| sirājālaṁ sirāsamūhaḥ| citā adhiṣṭhitā||78-89||
vidradhiṁ dvividhāmāhurbāhyāmābhyantarīṁ tathā|
bāhyā tvaksnāyumāṁsōtthā kaṇḍarābhā mahārujā||90||
śītakānnavidāhyuṣṇarūkṣaśuṣkātibhōjanāt|
viruddhājīrṇasaṅkliṣṭaviṣamāsātmyabhōjanāt||91||
vyāpannabahumadyatvādvēgasandhāraṇācchramāt|
jihmavyāyāmaśayanādatibhārādhvamaithunāt||92||
antaḥśarīrē māṁsāsr̥gāviśanti [38] yadā malāḥ|
tadā sañjāyatē granthirgambhīrasthaḥ sudāruṇaḥ||93||
hr̥dayē klōmni yakr̥ti plīhni kukṣau ca vr̥kkayōḥ|
nābhyāṁ vaṅkṣaṇayōrvā’pi bastau vā tīvravēdanaḥ||94||
duṣṭaraktātimātratvāt sa vai śīghraṁ vidahyatē|
tataḥ śīghravidāhitvādvidradhītyabhidhīyatē||95||
vyadhacchēdabhramānāhaśabdasphuraṇasarpaṇaiḥ|
vātikīṁ, paittikīṁ tr̥ṣṇādāhamōhamadajvaraiḥ||96||
jr̥mbhōtklēśārucistambhaśītakaiḥ ślaiṣmikīṁ viduḥ|
sarvāsu ca [39] mahacchūlaṁ vidradhīṣūpajāyatē||97||
śastrāstrairbhidyata [40] iva cōlmukairiva dahyatē|
vidradhī vyamlatā yātā vr̥ścikairiva daśyatē||98||
tanu rūkṣāruṇaṁ śyāvaṁ phēnilaṁ vātavidradhī|
tilamāṣakulatthōdasannibhaṁ pittavidradhī||99||
ślaiṣmikī sravati śvētaṁ picchilaṁ bahalaṁ bahu|
lakṣaṇaṁ sarvamēvaitadbhajatē sānnipātikī||100||
vidradhiṁ dvividhāmityanēnābhyantaravidradhērapi vidradhitvēna piḍakānāṁ saptatvē’virōdha iti darśayati| kaṇḍarābhā sthūlasnāyvākārā| antarvidradhērgarīyastvēna nidānānyāha- śītakētyādi| saṅkliṣṭaṁ dōṣalam| vyāpannaṁ [41] ca bahu ca madyamupayuṅktē yaḥ sa vyāpannabahumadyaḥ| antaḥśarīra iti kōṣṭhē| malā dōṣāḥ| granthiriva granthiḥ| sa iti granthiḥ| vyadhādayō vyathāprakārāḥ [42] | śītamēva śītakam| vyamlatāṁ yātā vidāhaṁ prāptā| tamakaḥ śvāsabhēdaḥ||90-100||
athāsāṁ vidradhīnāṁ sādhyāsādhyatvaviśēṣajñānārthaṁ sthānakr̥taṁ liṅgaviśēṣamupadēkṣyāmaḥ- tatra pradhānamarmajāyāṁ vidradhyāṁ hr̥ddhaṭṭanatamakapramōhakāsaśvāsāḥ, klōmajāyāṁ pipāsāmukhaśōṣagalagrahāḥ, yakr̥jjāyāṁ śvāsaḥ, plīhajāyāmucchvāsōparōdhaḥ, kukṣijāyāṁ kukṣipārśvāntarāṁsaśūlaṁ, vr̥kkajāyāṁ pr̥ṣṭhakaṭigrahaḥ, nābhijāyāṁ hikkā, vaṅkṣaṇajāyāṁ sakthisādaḥ, bastijāyāṁ kr̥cchrapūtimūtravarcasatvaṁ [43] cēti||101||
pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati, adhōjāsu gudāt, ubhayatastu nābhijāsu||102||
āsāṁ hr̥nnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya; śēṣāḥ punaḥ kuśalamāśupratikāriṇaṁ cikitsakamāsādyōpaśāmyanti|
tasmādacirōtthitāṁ vidradhīṁ śastrasarpavidyudagnitulyāṁ snēhavirēcanairāśvēvōpakramēt sarvaśō gulmavaccēti||103||
kukṣipārśvāntarāṁsaśūlamiti kukṣipārśvāntarāṁsēṣu śūlam [44] | hr̥nnābhibastijāsu sānnipātikīṁ pr̥thak paṭhan sānnipātikīṁ pakvāmapakvāṁ cāsādhyāṁ darśayati| śastrādidr̥ṣṭāntatrayācchastravanmarmacchēdakatvaṁ, sarpavadāśusañjñāhāritvaṁ, vidyudagnivadāśumārakatvaṁ jñēyam||101-103||
bhavanti cātra-
vinā pramēhamapyētā jāyantē duṣṭamēdasaḥ|
tāvaccaitā na lakṣyantē yāvadvāstuparigrahaḥ||104||
śarāvikā kacchapikā jālinī cēti duḥsahāḥ|
jāyantē tā hyatibalāḥ prabhūtaślēṣmamēdasaḥ||105||
sarṣapī cālajī caiva vinatā vidradhī ca yāḥ|
sādhyaḥ pittōlbaṇāstāstu sambhavantyalpamēdasaḥ||106||
marmasvaṁsē gudē pāṇyōḥ stanē sandhiṣu pādayōḥ|
jāyantē yasya piḍikāḥ sa pramēhī na jīvati||107||
pramēhaṁ vinā’pyuktapiḍakāsambhavaṁ darśayati- vinētyādi| ētēna ca piḍakānāṁ mādhumēhikatvaṁ yat pūrvamuktaṁ tat prāyikatvēna jñēyam| vāstu sthānam| vidradhī cēti bāhyavidradhī||104-107||
tathā’nyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ|
pāṇḍurāḥ pāṇḍuvarṇāśca bhasmābhā mēcakaprabhāḥ||108||
mr̥dvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathā’parāḥ|
mandavēgā mahāvēgāḥ svalpaśūlā mahārujaḥ||109||
tā buddhvā mārutādīnāṁ yathāsvairhētulakṣaṇaiḥ|
brūyādupacarēccāśu prāgupadravadarśanāt||110||
tr̥ṭśvāsamāṁsasaṅkōthamōhahikkāmadajvarāḥ|
vīsarpamarmasaṁrōdhāḥ piḍakānāmupadravāḥ||111||
pramēhapiḍakāprasaṅgēnānyāsāmapi piḍakānāmāviṣkr̥tānāṁ lakṣaṇaṁ brūtē- tathā’nyā ityādi| pāṇḍurā dhūsarāḥ, pāṇḍuvarṇāstu rūkṣapāṇḍuvarṇā jñēyāḥ| mēcakaprabhāḥ snigdhakr̥ṣṇavarṇāḥ| upacarēccēti mārutādīnāṁ bhēṣajairityarthādbhavati| prāgupadravadarśanādityanēna upadravayuktā piḍakā asādhyēti darśayati| saṅkōthaḥ pūtibhāvaḥ||108-111||
kṣayaḥ sthānaṁ ca vr̥ddhiśca dōṣāṇāṁ trividhā gatiḥ|
ūrdhvaṁ cādhaśca tiryakca vijñēyā trividhā’parā||112||
trividhā cāparā kōṣṭhaśākhāmarmāsthisandhiṣu|
ityuktā vidhibhēdēna dōṣāṇāṁ trividhā gatiḥ||113||
samprati dōṣāṇāṁ gatiṁ vivr̥ṇōti- kṣaya ityādi| sthānaṁ svamānavasthānam| gatiḥ prakārō’vasthā vā| caya ityatra praśabdō luptanirdiṣṭaḥ, tēna prakr̥ṣṭacayaḥ; ēvaṁ prakr̥ṣṭaḥ kōpaḥ prakōpaḥ; ēvaṁ praśamō’pi| ētēna varṣādiṣu pittādīnāṁ prakr̥ṣṭaścayō bhavatīti darśyatē, itaradōṣasyāpi ca stōkamātrēṇa cayō yathāsambhavaṁ sūcyatē; tēna śaradyanubalatvēna kaphaprakōpō bhavatītyādi gr̥hītaṁ bhavati||112-113||
cayaprakōpapraśamāḥ pittādīnāṁ yathākramam|
bhavantyēkaikaśaḥ ṣaṭsu kālēṣvabhrāgamādiṣu||114||
gatiḥ kālakr̥tā caiṣā cayādyā punarucyatē|115|
yathākramamiti varṣāśaraddhēmantavasantagrīṣmaprāvr̥ṭkramēṇa; kiṁvā yathākramamiti yathāyōgyatayā| pittādīnāmiti pittaślēṣmavātānām| ēkaikaśa iti ayaugapadyēna| ētacca prādhānyēnaiva jñēyaṁ, tēna prāvr̥ṣi ślēṣmapittakōpēnāpradhānēna na vyabhicāraḥ| yaduktaṁ- “varṣāsvagnibalē hīnē kupyanti pavanādayaḥ” (sū.a.6) iti| atra hi pavanādaya iti pavanapradhānāḥ; ēvaṁ vasantē vātapittaprakōpē vyākhyēyam| atra ca ṣaṭsu r̥tuṣu pittaślēṣmavātānāṁ prabalacayādayō vibhajyamānatvēna; tēna pittacayakālē vātasya kōpaḥ, śaradi pittasya prakōpakālē vātapraśamaḥ, hēmantē pittapraśamaḥ kaphasya cayaḥ, vasantē tu kaphaprakōpa ēva paraṁ, tathā kaphapraśamakē grīṣmē vātacaya iti ca syāt| vātaṁ parityajya pittādīnāmityabhidhānāṁ visargasyābhiprētatvēnāgrē vaktavyatvāt kr̥taṁ, visargē ca pittacaya ēva bhavatīti kr̥tvā||114||-
gatiśca dvividhā dr̥ṣṭā prākr̥tī vaikr̥tī ca yā||115||
pittādēvōṣmaṇaḥ paktirnarāṇāmupajāyatē|
tacca pittaṁ [45] prakupitaṁ vikārān kurutē bahūn||116||
prākr̥tastu balaṁ ślēṣmā vikr̥tō mala ucyatē|
sa caivaujaḥ smr̥taḥ kāyē sa ca pāpmōpadiśyatē||117||
sarvā hi cēṣṭā vātēna sa prāṇaḥ prāṇīnāṁ smr̥taḥ|
tēnaiva rōgā jāyantē tēna caivōparudhyatē||118||
gatibhēdāntaramāha- gatiścētyādi| atra pittamādau [46] kr̥taṁ śarīrasthitihētvagnikartr̥tvēna| paktiḥ pākaḥ| balamiti balahētutvēna| mala iti śarīramalinīkaraṇāt| ōja iti sārabhūtaṁ; yadi vā dvitīyaślaiṣmikaujōhētutvēnaujaḥ| vakṣyati hi śārīrē- “tāvaccaiva ślaiṣmikasyaujasaśca pramāṇam” (śā.a.7) iti| duḥkhahētutvāt pāpmā| sarvā hi cēṣṭā iti avikr̥tagamanādyāḥ| uparudhyatē mriyatē||115-118||
nityaṁ sannihitāmitraṁ samīkṣyātmānamātmavān|
nityaṁ yuktaḥ paricarēdicchannāyuranitvaram||119||
ātmavāniti praśaṁsāyāṁ matuppratyayaḥ| yukta ityudyuktaḥ| anitvaram agatvaram||119||
tatra ślōkau-
śirōrōgāḥ sahr̥drōgā rōgā mānavikalpajāḥ|
kṣayāḥ sapiḍakāścōktā dōṣāṇāṁ gatirēva ca||120||
kiyantaḥśirasīyē’sminnadhyāyē tattvadarśinā|
jñānārthaṁ bhiṣajāṁ caiva prajānāṁ ca hitaiṣiṇā||121||
tatra ślōkāvityādi||120-121||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē kiyantaḥśirasīyō nāma saptadaśō’dhyāyaḥ||17||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ sūtrasthānē rōgacatuṣkē kiyantaḥśirasīyō nāma saptadaśō’dhyāyaḥ||17||
1. ‘hutāśavēśavacanaṁ’ iti pā.|
2. ‘gatirvakṣyāmi vistaram’ iti pā.|
3. ‘śirōbhitāpāt’ iti pā.|
4. ‘abhyarhitatvaṁ’ iti pā.|
5. ‘tīkṣṇāghrāṇāt’ iti pā.|
6. ‘śirōgatā vai dhamanīrvāyurāviśya kupyati’ iti pā.|
7. ‘ghāṭā grīvāyāḥ paścādbhāgaḥ, ‘ghāḍa’ iti yasyāpabhraṁśaḥ’|
8. ‘bhruvōrmadhyaṁ’ iti pā.|
9. ‘bādhyētē’ iti pā.|
10. ‘vr̥ttatvāt prasiddhatvāt’|
11. ‘sukhāyatē’ iti pā.|
12. ‘chēdavyadhanarukkaṇḍūśōphadaurgandhyaduḥkhitam’ iti pā.|
13. ‘lakṣaṇēna ca’ iti pā.|
14. ‘…śītarūkṣālpabhōjanaiḥ’ iti pā.|
15. yōgīndranāthasēnastu ‘dravaḥ’ iti paṭhati, ‘dravaḥ drutatvaṁ’ iti ca vyākhyānayati|
16. ‘saṁsargēṇa navaitē ṣaḍēkavr̥ddhyā’ iti pā.|
17. ‘vyādhīnāṁ dvyadhikā ṣaṣṭirityuktaṁ vivr̥ṇōti- dvyulbaṇaikōlbaṇairiti| vr̥ddhairdōṣaiḥ pañcaviṁśatirvyādhayō bhavanti| tadyathā- sannipātē trayōdaśa, saṁsargē nava, pr̥thak trayaścēti| dvyulbaṇaikōlbaṇairdōṣaiḥ ṣaṭḥ, sannipatitānāṁ dōṣāṇāṁ madhyē dvayōratiśayē trayaḥ, ēkasyātiśayē trayaḥ, iti dvyulbaṇaikōlbaṇaiḥ ṣaṭ| hīnamadhyādhikaiḥ sannipatitaiḥ ṣaṭ| samaiḥ tulyavr̥ddhairdōṣaiścaikaḥ, iti sannipātāḥ trayōdaśa| tathāca- kaphaḥ vr̥ddhaḥ vātapittē adhikavr̥ddhē 1, pittaṁ vr̥ddhaṁ vātakaphāvadhikavr̥ddhau 2, vātō vr̥ddhaḥ pittakaphāvadhikavr̥ddhau 3, iti dvyulbaṇaistrayaḥ| pittakaphau vr̥ddhau vātō’dhikavr̥ddhaḥ 1, vātakaphau vr̥ddhau pittamadhikavr̥ddhaṁ 2, vātapittē vr̥ddhē kaphau’dhikavr̥ddhaḥ 3, iti ēkōlbaṇaistrayaḥ| vātō vr̥ddhaḥ pittaṁ vr̥ddhataraṁ ślēṣmā vr̥ddhatamaḥ 1, vātō vr̥ddhaḥ ślēṣmā vr̥ddhataraḥ pittaṁ vr̥ddhatamaṁ 2, pittaṁ vr̥ddhaṁ ślēṣmā vr̥ddhataraḥ vātō vr̥ddhatamaḥ 3, pittaṁ vr̥ddhaṁ vātō vr̥ddhataraḥ ślēṣmā vr̥ddhatamaḥ 4, ślēṣmā vr̥ddhō vātō vr̥ddhataraḥ pittaṁ vr̥ddhatamaṁ 5, ślēṣmā vr̥ddhaḥ pittaṁ vr̥ddhataraṁ vātō vr̥ddhatamaḥ 6, iti hīnamadhyādhikaiḥ ṣaṭ| tulyavr̥ddhā vātapittaślēṣmāṇa iti samairēkaḥ| saṁsargēṇa nava| tatra ēkavr̥ddhyā ṣaṭ, samaiśca trayaḥ| saṁsr̥ṣṭayōrdōṣayōrmadhyē ēkasya vr̥ddhyā atiśayēna ṣaṭ| tadyathā- vātō vr̥ddhaḥ pittaṁ vr̥ddhataraṁ 1, pittaṁ vr̥ddhaṁ vātō vr̥ddhataraḥ 2, ślēṣmā vr̥ddhaḥ pittaṁ vr̥ddhataraṁ 3, pittaṁ vr̥ddhaṁ ślēṣmā vr̥ddhataraḥ 4, vātō vr̥ddhaḥ ślēṣmā vr̥ddhataraḥ 5, ślēṣmā vr̥ddhō vātō vr̥ddhataraḥ 6, iti ēkavr̥ddhyā ṣaṭ| samairdōṣayōḥ samānavr̥ddhyā trayaḥ| tadyathā- vātapittābhyāṁ vr̥ddhābhyāmēkaḥ, vātaślēṣmabhyāṁ vr̥ddhābhyāṁ dvitīyaḥ, pittaślēṣmabhyāṁ vr̥ddhābhyāṁ tr̥tīyaḥ, iti saṁsargēṇa nava| pr̥thak vyastairvr̥ddhaistrayaḥ| tadyathā- vātō vr̥ddhaḥ, pittaṁ vr̥ddhaṁ, ślēṣmā vr̥ddhaḥ, ēvaṁ vr̥ddhaiḥ pañcaviṁśatiḥ| vr̥ddhyā pañcaviṁśatimuktvā kṣayē’pi pañcaviṁśatiṁ darśayati- yathētyādi| yathā vr̥ddhairdōṣaiḥ pañcaviṁśatistathā kṣīṇairapi pañcaviṁśatirvikārāḥ syuḥ| sannipātē trayōdaśaḥ, saṁsargē nava, pr̥thak trayaścēti| tadyathā- vātaḥ kṣīṇaḥ pittaślēṣmāṇāvatikṣīṇau 1, pittaṁ kṣīṇaṁ vātaślēṣmāṇāvatikṣīṇau 2, ślēṣmā kṣīṇaḥ, vātapittē atikṣīṇē 3, iti kṣīṇānāṁ sannipatitānāṁ madhyē dvayōratiśayē trayaḥ| vātapittē kṣīṇē ślēṣmā atikṣīṇaḥ 1, pittaślēṣmāṇau kṣīṇau vātō’tikṣīṇaḥ 2, vātaślēṣmāṇau kṣīṇau pittamatikṣīṇam 3, iti ēkasyātiśayē trayaḥ| ślēṣmā kṣīṇaḥ pittaṁ kṣīṇataraṁ vātaḥ kṣīṇatamaḥ 1, vātaḥ kṣīṇaḥ ślēṣmā kṣīṇataraḥ pittaṁ kṣīṇatamaṁ 2, pittaṁ kṣīṇaṁ ślēṣmā kṣīṇatarō vātaḥ kṣīṇatamaḥ 3, ślēṣmā kṣīṇō vātaḥ kṣīṇataraḥ pittaṁ kṣīṇatamaṁ 4, vātaḥ kṣīṇaḥ pittaṁ kṣīṇataraṁ ślēṣmā kṣīṇatamaḥ 5, pittaṁ kṣīṇaṁ vātaḥ kṣīṇataraḥ ślēṣmā kṣīṇatamaḥ 6, iti hīnamadhyādhikaiḥ ṣaṭ| kṣīṇā vātapittaślēṣmāṇa iti samaiḥ kṣīṇarēkaḥ| ētē trayōdaśa sannipātāḥ| saṁsargēṇa nava| tatra kṣīṇayōrēkasyātiśayē ṣaṭ| tadyathā- vātaḥ kṣīṇaḥ pittaṁ kṣīṇataraṁ 1, pittaṁ kṣīṇaṁ vātaḥ kṣīṇataraḥ 2, vātaḥ kṣīṇaḥ ślēṣmā kṣīṇataraḥ 3, ślēṣmā kṣīṇaḥ vātaḥ kṣīṇataraḥ 4, ślēṣmā kṣīṇaḥ pittaṁ kṣīṇataraṁ 5, pittaṁ kṣīṇaṁ ślēṣmā kṣīṇataraḥ 6| tulyakṣīṇābhyāṁ trayaḥ| tadyathā- kṣīṇē vātapittē 1, kṣīṇau pittaślēṣmāṇau 2, kṣīṇau vātaślēṣmāṇau 3, iti saṁsargēṇa nava| pr̥thak trayaḥ- vātaḥ kṣīṇaḥ 1, pittaṁ kṣīṇaṁ 2, ślēṣmā kṣīṇaḥ 3, ēvaṁ kṣīṇaiḥ pañcaviṁśatiḥ| sannipatitānāṁ dōṣāṇāṁ yugapadvr̥ddhikṣayakr̥tō’nyō vikalpō bhēda upadiśyatē| tamēva vikalpaṁ darśayati- vr̥ddhiriti| ēkasya vr̥ddhiḥ, ēkasya samatā, ēkasya ca saṅkṣayaḥ| vātō vr̥ddhaḥ pittaṁ samaṁ ślēṣmā kṣīṇaḥ 1, vātō vr̥ddhaḥ ślēṣmā samaḥ pittaṁ kṣīṇaṁ 2, pittaṁ vr̥ddhaṁ vātaḥ samaḥ ślēṣmā kṣīṇaḥ 3, pittaṁ vr̥ddhaṁ ślēṣmā samaḥ vātaḥ kṣīṇāḥ 4, ślēṣmā vr̥ddhaḥ vātaḥ samaḥ pittaṁ kṣīṇaṁ 5, ślēṣmā vr̥ddhaḥ pittaṁ samaṁ vātaḥ kṣīṇaḥ 6| dvandvavr̥ddhiḥ dvayōrvr̥ddhiḥ, ēkasya ca kṣayaḥ, ēkasya vr̥ddhirdvayōśca kṣayaḥ, atrāpi ṣaṭ| tadyathā- ślēṣmapittē vr̥ddhē vātaḥ kṣīṇaḥ 1, ślēṣmavātau vr̥ddhau pittaṁ kṣīṇaṁ 2, vātapittē vr̥ddhē ślēṣmā kṣīṇaḥ 3, iti dvandvavr̥ddhyā ēkasya kṣayēṇa trayaḥ| ślēṣmā vr̥ddhaḥ vātapittē kṣīṇē 1, pittaṁ vr̥ddhaṁ ślēṣmavātau kṣīṇau 2, vāyurvr̥ddhaḥ pittaślēṣmāṇau kṣīṇau 3, iti ēkavr̥ddhyā dvayōḥ kṣayēṇa trayaḥ| vr̥ddhaiḥ pañcaviṁśatiḥ kṣīṇaiḥ pañcaviṁśatiriti pañcāśat, vr̥ddhikṣayasamatākr̥tāḥ ṣaṭ, vr̥ddhikṣayakr̥tāśca ṣaṭ, ēvaṁ dviṣaṣṭiḥ’| iti carakōpaskārē yōgīndranāthasēnaḥ|
18. ‘ēkavr̥ddhirityādinā’pi trayaḥ’ iti pā.|
19. ‘sāmyē sthitaṁ’ iti pā.|
20. ‘prakr̥tisthaṁ yadā vātaṁ’ iti pā.|
21. ‘prakr̥tisthaṁ kaphaṁ’ iti pā.|
22. ‘prakr̥tisthaṁ yadā vātaṁ ślēṣmā pittaparikṣayē| sannirundhyāttadā kuryācchītakaṁ gauravaṁ jvaram’ iti pā.|
23. ‘prakr̥tisthaṁ yadā pittaṁ ślēṣmā mārutasaṅkṣayē| sannirundhyāttadā kuryānmr̥dvagnitvaṁ śirōgraham’ iti pā.|
24. ‘vēpayatyatha mānavam’ iti pā.|
25. ‘tatra tatrēti’ iti pā.|
26. ‘nōdbhāvanīyamiti pāṭhastu na samīcīnaḥ ‘tēnaitēṣāṁ taratamādibhēdēna rasarudhirādisaṁsargabhēdēna agaṇyatvamēva jñēyaṁ, uktaṁhi- “saṁsargādrasarudhirādibhistathaiṣāṁ dōṣāṁstu kṣayasamatāvivr̥ddhibhēdāt| ānantyaṁ taratamayōgataśca yātāñjānīyādavahitamānasō yathāsvam” (vā. sū. 12)’ iti śivadāsasēnēna vyākhyātatvāt|
27. ‘virōdhaḥ’ iti pā.|
28. ‘bhavati’ iti pā.|
29. ‘prabhāvōtpāditaviṣayavyatirēkē’ iti pā.|
30. ‘ca kṣīṇalakṣaṇam’ iti pā.|
31. ‘dravati iti hr̥dayaṁ dhugadhugiti karōti’ iti śivadāsasēnaḥ|
32. ‘tanutvaṁ tōdanaṁ tvacaḥ’ iti pā.|
33. ‘viśuṣkāṇi ca lakṣyantē’ iti pā.|
34. ‘nāṣṭadhātutvādiprasaktiḥ’ iti pā.|
35. ‘tairāvr̥taḥ prasādaṁ ca gr̥hītvā yāti mārutaḥ’ iti pā.|
36. ‘bhavantyupēkṣayā tasya’ iti pā.|
37. ‘śarāvikādisañjñā svayōnivivaraṇē sphuṭā’ iti pā.|
38. ‘māṁsāsr̥k praviśanti’ iti pā.|
39. ‘sarvāsvāsu’ iti pā.|
40. ‘taptaiḥ śastrairyathā mathyētōlmukairiva dahyatē’ iti pā.| ulmukamaṅgāram|
41. ‘vyāpannam asamyaksandhānādinā vikr̥timāpannam’|
42. ‘vyathāviśēṣāḥ’ iti pā.|
43. ‘kr̥cchramūtratā, pūtivarcastvaṁ ca’ iti pā.|
44. ‘kukṣipārśvamadhyēṁ’sē śūlaṁ’ iti pā.|
45. ‘pittaṁ caigha’ iti pā.|
46. ‘pittamagrē’ iti pā.|