ebooks-esamhita-ecaraka-sutrasthana-sneha-adhyaya

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

सूत्रस्थानम् - १३. स्नेहाध्यायः

अथातः स्नेहाध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

निर्देशवातकलाकलीये वातादयोऽभिहिताः, तेषां भेषजं यथा कल्पनीयं तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते| भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्रव्याभिधानं विना न पार्यते कल्पयितुम् [१] ; अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पनेहाभिधीयते, बस्तिकल्पना त्विह बहुवक्तव्यत्वान्नोक्ता| अत्रापि वमनादिप्रवृत्तौ स्नेहस्यैव प्रथमं विधीयमानतया तथा दोषप्रधानस्य वातस्य प्रधानभेषजत्वाच्च तत्प्रतिपादक एव स्नेहाध्यायोऽभिधीयते| स्नेहस्य प्रतिपादकोऽध्यायः स्नेहाध्यायः||१-२||

साङ्ख्यैः सङ्ख्यातसङ्ख्येयैः सहासीनं पुनर्वसुम्|
जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्||३||

सङ्ख्या सम्यग्ज्ञानं, तेन व्यवहरन्तीति साङ्ख्याः| सङ्ख्यातं ज्ञातं सङ्ख्येयं ज्ञेयं यैस्ते तथा; यदि वा ‘सङ्ख्यातसङ्ख्येयम्’ इति पाठः, तदा पुनर्वसुविशेषणमेतत्; अर्थस्तु समानः| साङ्ख्यैः सहावस्थानोपदर्शनमात्रेयस्य कर्तव्यप्रश्नानुगुणमनःसमाधानोपदर्शनार्थम्| संशयमिति संशयेन [२] विषयिणा विषयं लक्षयति, तेन संशयमिति संशयविषयमित्यर्थः||३||

किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्|
कालानुपाने के कस्य कति काश्च विचारणाः||४||
कति मात्राः कथम्मानाः का च केषूपदिश्यते|
कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः||५||
स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्|
किं पानात् प्रथमं पीते जीर्णे किञ्च हिताहितम्||६||
के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः|
अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते||७||
विचारणाः केषु योज्या विधिना केन तत् प्रभो!|
स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्||८||

कोऽसौ संशय इत्याह- किंयोनय इत्यादि| किंयोनयः किमाधारकारणाः| कालश्चानुपानं च कालानुपाने| विचारणा द्रव्यान्तरासंयुक्तस्नेहपानं वर्जयित्वा स्नेहोपयोगः| कथम्माना कीदृङ्माना| का चेति मात्रा| प्रकर्षः कालप्रकर्षः| स्नेहने स्नेहयुक्तिक्रियायाम्| के नचेति के न च स्नेह्याः| किं पानात् स्नेहपानात् प्रथमं पूर्वं हिताहितं; किञ्च पीते स्नेहे तथा जीर्णे च स्नेहे हिताहितमिति योज्यम्| सिद्धयो व्यापत्साधनानि भेषजानि| अच्छे इति संशोधनपृथङ्निर्देशाद्गोबलीवर्दन्यायेन संशमन इति भवति| वृत्तिरिति वृत्तिः उपचारविधानम्| ज्ञानं शास्त्रम्||४-८||

अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः|
स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा||९||
तिलः प्रियालाभिषुकौ बिभीतकश्चित्राभयैरण्डमधूकसर्षपाः|
कुसुम्भबिल्वारुकमूलकातसीनिकोचकाक्षोडकरञ्जशिग्रुकाः||१०||
स्नेहाशयाः स्थावरसञ्ज्ञितास्तथा स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः|
तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथोपदिश्यते||११||

अभिषुक औत्तरापथिकः| चित्रा गोरक्षकर्कटी, तद्बीजमिह; यदि वा चित्रा लोहितैरण्डः| अतसी ‘उमा’ इति ख्याता [३] | आरुकनिकोचकाक्षोडा औत्तरापथिकाः| स्नेहाशयाः स्नेहस्थानानि| एते चाविष्कृततमत्वेनोक्ताः, तेन निम्बतैलादयो बोद्धव्याः| आमिषं मांसम्||९-११||

सर्वेषां तैलजातानां तिलतैलं विशिष्यते|
बलार्थे स्नेहने चाग्र्यमैरण्डं तु विरेचने||१२||
(कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु |
कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि ||१||)|

तैलजातानामिति जातशब्दः प्रकारवचनः; यथा- “यदाहारजातमग्निवेश” (सू.अ.२५) इत्यादि| अत्र यद्यपि योगात्तिलभवमेव तैलं, तथाऽपि रूढ्येह सर्व एव स्थावरस्नेहास्तैलमित्युच्यन्ते| यदुक्तं सुश्रुते- “निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि” (सु.सू.अ.४५) इति| विशिष्यते अतिरिच्यते| अग्र्यमित्यैरण्डेन सम्बध्यते||१२||

सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः|
एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||१३||

सर्वस्नेहोत्तमा इत्यत्र सर्वशब्देन दधिक्षीरादयो गृह्यन्ते; सर्वस्नेहोत्तमत्वं च सर्पिरादीनां स्नेहगुणप्रकर्षवत्त्वेन| संस्कारो गुणान्तरारोपणं, तस्यानुवर्तनमनुविधानं स्वीकरणमिति यावत्| एतदुक्तं भवति- यत्- न तथा तैलादयो द्रव्यान्तरसंस्कृताः संस्कारगुणान् वहन्ति यथा सर्पिरिति| अत एवोक्तं- “नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते| यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्” (नि. अ.१)| अत एव संस्कारकद्रव्यचित्रकादिगुणानुविधानेऽपि सर्पिर्न स्वगुणान् स्नेहशैत्यादीन् जहाति, किञ्च स्वगुणान् तद्गुणांश्च वहति, यतोऽनुशब्देन पश्चाद्वाचिना स्वगुणवर्तनस्य पश्चात् संस्कारकगुणवर्तनमुच्यते| अत एवोक्तं- “स्नेहाद्वातं शमयति पित्तं माधुर्यशैत्यतः| घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम्” (नि. अ.१) इति| न च वाच्यं रूक्षोष्णचित्रकादिसंस्काराद्रूक्षोष्णं सर्पिर्भूतं, ततश्च सर्पिषः स्नेहशैत्ये तद्विरुद्धे कथं तिष्ठतः? इति; यतः सर्पिःसम्बद्धचित्रकावयवानुगतं हि रूक्षोष्णत्वं, सर्पिर्गते च स्नेहशैत्ये इति भिन्नाश्रयत्वान्न विरोधः; इदमेव च सर्पिषः संस्कारानुवर्तनं यत्- स्वगुणविरुद्धस्यापि तस्यानुपघातेन धारणं; संस्कारकचित्रकादिगुणवहनेऽपि सर्पिषः शैत्यादयः कदाचिदभिभूयन्ते संस्कारकगुणैरुष्णादिभिर्न पुनः स्नेहगुणः, तस्य स्नेहेषु सर्वात्मना व्यवस्थितस्य प्रबलत्वात्; अत एव सर्पिरादयः स्नेहप्रधानत्वात् ‘स्नेहा’ इत्युच्यन्ते| अन्ये तु संस्कारानुवर्तनं स्वगुणोपघातेन संस्कारकगुणवहनं ब्रुवते, एतच्च तैले तिष्ठति न सर्पिषीति वदन्ति; सर्पिषि तु संस्कारानुवर्तनमुक्तं यत् तत् सर्पिषि सर्वथा कस्यचिद्गुणस्य संस्कारगुणेनानुपघाताद्भवति [४] ; तथाहि- दाहप्रशमनार्थं ज्वरे चन्दनादिशीतद्रव्यसाधिततैलमुक्तं, यतः शीतेन साधितं तैलमुष्णमपि स्वभावाच्छीतमेव भवतीति||१३||

घृतं पित्तानिलहरं रसशुक्रौजसां हितम्|
निर्वापणं मृदुकरं स्वरवर्णप्रसादनम्||१४||
मारुतघ्नं न च श्लेष्मवर्धनं बलवर्धनम्|
त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम्||१५||
विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि|
पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा||१६||
बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः|
मज्जा विशेषतोऽस्थ्नां च बलकृत् स्नेहने हितः||१७||

स्नेहगुणानभिधत्ते- घृतमित्यादि| निर्वापणं दाहप्रशमनम्| मारुतघ्नमित्यादि तैलगुणाः| स्थिरकरम् अङ्गस्थैर्यकरम्| विद्धेत्यादि वसागुणाः| पौरुषोपचयः शुक्रोपचयः| स्नेहे शरीरस्नेहने कर्तव्ये| बलशुक्रेत्यादि मज्जगुणाः||१४-१७||

सर्पिः शरदि पातव्यं वसा मज्जा च माधवे|
तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः||१८||

सर्पिरादिपानकालमाह- सर्पिः शरदीत्यादि| माधवे वैशाखे| प्रावृडाषाढश्रावणौ, यदुक्तं- “प्रावृट् शुक्रनभौ ज्ञेयौ” (सि.अ.६) इति| शरदि बहुपित्तत्वेन पित्तविरुद्धं घृतमेव यौगिकं, नान्यस्तैलादिः| वसामज्ज्ञोस्तु नातिशीतोष्णत्वात् साधारणे; यतस्तयोरनुपाने शीतत्वेन वोष्णत्वेन वा निर्देशो न कृतः; “यथासत्त्वं तु शैत्यौष्ण्ये वसामज्ज्ञोर्विनिर्दिशेत्” (सू.अ.२७) इति तु वचनेन शैत्यौष्ण्याभिधानं सामान्येन, तैलसर्पिर्वदौष्ण्यशैत्यानभिधानान्न प्रकर्षप्राप्तशैत्योष्णत्वप्रापकम्| अत एवोक्तं- “तैलवसामज्जसर्पिषां तु यथापूर्वं श्रेष्ठत्वं वातश्लेष्मविकारेषु भवति, यथोत्तरं पित्तविकारेषु” (वि.अ.८) इति| अत्रोत्तरस्य सर्पिषः शैत्यात् पित्तहरत्वं, तैलस्य तूष्णत्वाद्वातश्लेष्महरत्वं, वसामज्ज्ञोस्तु साधारणत्वेन मध्यगतत्वमिति स्थितम्| एवं वसामज्ज्ञोः साधारणत्वेन तथा बल्यत्वधातुवृद्धिकरत्वाभ्यामनतिशीतोष्णे तथा बलक्षयधातुक्षययुक्ते माधवे प्रयोगो युक्तः| चैत्रस्तु मुख्यसाधारणगुणोऽपि प्रभूतश्लेष्मतया न स्नेहविषय इत्यनुक्तः| सामान्येन स्नेहोपयोगे शस्तं कालमाह- नात्युष्णेत्यादि| नात्युष्णे ग्रीष्मे, नातिशीते हेमन्ते शिशिरे च तथा वर्षजनितशैत्ये वर्षाकाले| अयं चानात्ययिकविकारे सति कालनियमो ज्ञेयः, अग्रे उष्णे शीते च काले स्नेहोपदेशात्||१८||

वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः|
श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे||१९||

कालविशेषे दोषविशेषे च पानक्रमं दर्शयति- वातेत्यादिना| वातश्च पित्तं च वातपित्तं, तदधिको वातपित्ताधिकः| रात्राविति सायम्| उष्णे ग्रीष्मे| श्लेष्माधिकग्रहणमत्यन्तशीतविकारगृहीतपुरुषोपलक्षणार्थं, तेन वातश्लेष्माधिकः श्लेष्माधिकश्च गृह्यते; अत एव सुश्रुतेऽप्युक्तं- “वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा” (सु.चि.३१) इति| केवलवाताधिकस्य तथा पित्ताधिकस्य श्लेष्माधिकस्य च साधारणे शरदादौ काले उत्सर्गसिद्ध एव पानकालो वक्ष्यमाणो भवति| वक्ष्यति हि- “पिबेत् संशमनं स्नेहमन्नकाले” इत्यादि| अन्ये तु ब्रुवते- वाताधिकग्रहणेन केवलवातस्यापि ग्रहणं, श्लेष्माधिकव्यपदेशाच्च वातश्लेष्म-पित्तश्लेष्मणोरपि ग्रहणमिति| शीते हेमन्तादौ| अमलः प्रबलरश्मिर्यस्मिन् दिनस्य भागे भास्करः सोऽमलभास्करो मध्याह्न इति यावत्||१९||

अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा|
मूर्च्छां पिपासामुन्मादं कामलां वा समीरयेत्||२०||
शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा|
आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति||२१||

उक्तकालनियमविपर्यये दोषमाह- अत्युष्णे वेत्यादि| अत्युष्णे काले दिवा पीतः स्नेहः श्लैष्मिकस्यापि यथोक्तविकारकरः, तथा वातपित्ताधिकेन पीतः शीतकालेऽपि यथोक्तविकारकरः; एवं निशापानेऽपि वाक्यार्थः; परं निषिद्धस्य कालस्य दोषस्य च मेलकेऽत्यये चोक्तविकारप्रकर्षाप्रकर्षौ तर्कणीयौ||२०-२१||

जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते|
वसामज्ज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु वा||२२||

अनुपानमाह- जलमित्यादि| तैलेऽन्विति अनुपाने| अनुपानपरिमाणं तु सम्यग्भेषजपाकार्थं क्रियमाणं भेषजावैकारिकपाकेनैवोन्नेयं, वृद्धवैद्यव्यवहाराच्च||२२||

ओदनश्च विलेपी च रसो मांसं पयो दधि|
यवागूः सूपशाकौ च यूषः काम्बलिकः खडः||२३||
सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च|
भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः||२४||
गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्|
चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः [५] ||२५||

विचारणाः सङ्ख्यया स्वरूपेण चैकग्रन्थेनाह- ओदनश्चेत्यादि| विलेपी विरलद्रवा यवागूर्बहुसिक्थसमन्विता ज्ञेया| सशाकपल्लवेन कृतो यूषः खडः| काम्बलिको दधिलवणस्नेहतिलादिकृत ईषदम्लः| एतयोरुदाहरणं यथा- “तक्रे कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः [६] | सुपक्वः खडयूषोऽयमयं काम्बलिको मतः|| दध्यम्लो लवणस्नेहतिलमाषान्वितः शृतः” इति| लेहः शर्करादीनां पाकात् कृतः; लिह्यत इति लेहः| प्रविचार्यते अवचार्यतेऽनुकल्पेनोपयुज्यतेऽनयेति प्रविचारणा ओदनादयः; ओदनादयश्च स्नेहप्रविचारणायां स्नेहयुक्ता एव बोद्धव्याः; अभ्यञ्जनादयस्तु यद्यपि शुद्धस्नेहसम्पाद्यास्तथाऽपि जठराग्निसम्बन्धे न व्याप्रियन्त इति तन्त्रे विचारणाशब्देनोच्यन्ते||२३-२५||

अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम्|
स्नेहस्य स भिषग्दृष्टः [७] कल्पः प्राथमकल्पिकः||२६||

केवलस्नेहपानं तु स्नेहने शक्त्यतिशयवत्त्वेन न विचारणासञ्ज्ञयोच्यते, एतदेवाह- अच्छपेय इत्यादि| अच्छश्च पेयश्च अच्छपेयः, ओदनाद्यसम्बन्धे सति पेय इत्यर्थः| न तामाहुर्विचारणामिति वचनेन वैद्यपरम्परासिद्धोऽयं व्यवहार इति दर्शयति| भिषग्भिर्दृष्टो भिषग्दृष्टः| प्रथमे श्रेष्ठे कल्पे पक्षे भवतीति प्राथमकल्पिकः, श्रेष्ठ इत्यर्थः||२६||

रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः|
षड्भिस्त्रिषष्टिधा सङ्ख्यां प्राप्नोत्येकश्च केवलः||२७||
एवमेताश्चतुःषष्टिः स्नेहानां प्रविचारणा [८] |
ओकर्तुव्याधिपुरुषान् प्रयोज्या जानता भवेत्||२८||

प्रकारान्तरेण विचारणाभेदमाह- रसैश्चेत्यादि| समासो रसानामन्योन्यमेलकः, व्यासोऽमेलकः; समासव्यासवद्भिः षड्भी रसैरोदनादिगतैरुपहितो युक्तः सन् स्नेहस्त्रिषष्टिसङ्ख्यां प्राप्नोति| एकश्च केवल इत्यच्छपेयं वर्जयित्वाऽभ्यञ्जनादिप्रयोज्यः| त्रिषष्ठी रसभेदा आत्रेयभद्रकाप्यीये “स्वादुरम्लादिभिर्योगं” (सू.अ.२६) इत्यादिवाक्ये वक्ष्यमाणा बोद्धव्याः| एवं स्नेहानां रसयुक्तानां चतुःषष्टिः प्रविचारणा भवन्ति| चतुःषष्टिरिति स्नेहानामित्यनेन सम्बध्यते, तेन प्रविचारणेत्येकवचनमुपपन्नं भवति| न सर्वविचारणा सर्वत्र कर्तव्या, किन्तु सात्म्यर्तुव्याधिदोषपुरुषान् परीक्ष्य या यत्र युज्यते सा तत्र कर्तव्येत्याह- ओकर्त्वित्यादि| ओकः अभ्यासः| पुरुषग्रहणेन कस्मिन् देशेऽयं पुरुषो वर्तत इति परीक्षया देशोऽप्यवरुद्धो बोद्धव्यः, वयोबलप्रभृतयश्च बोद्धव्याः||२७-२८||

अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते|
प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||२९||
इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः|
तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति||३०||
प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः|
पावकश्चोत्तमबलो येषां ये चोत्तमा बले||३१||
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये|
उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च||३२||
पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु|
विकाराञ्छमयत्येषां शीघ्रं सम्यक्प्रयोजिता||३३||
दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी|
बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्||३४||
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः|
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||
नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च|
पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले||३६||
मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी|
सुखेन च स्नेहयति शोधनार्थे च युज्यते||३७||
ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः|
रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये||३८||
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः|
स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले||३९||
परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी|
वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते||४०||

मात्रायाः सङ्ख्यां प्रमाणं चाह- अहोरात्रमित्यादि| अहोरात्रशब्दोऽष्टप्रहरोपलक्षणः, एवमहःशब्दार्धाहशब्दौ चतुःप्रहरद्विप्रहरोपलक्षणौ, तेन प्रहराद्यतीतेऽप्यहनि पीता मात्रा यथोक्तप्रहरकालप्राप्त्या दिनान्तरे रात्रौ वा जीर्यमाणा मन्तव्या; अन्ये त्वहोरात्रशब्देन न्यूनेनाप्यह्ना युक्ता रात्रिरहोरात्रशब्देनोच्यते [९] , कृत्स्नार्धाहौ तु प्रहरोपलक्षणाविति वदन्ति| अत्र यदा अहोरात्रपरिणामिनी मात्रा क्रियते, तदा तदहराहारो न कर्तव्यः; अत एवैतत्पानं पुरुषविशेषविषयकथने उक्तं- “क्षुत्पिपासासहानराः” इति| प्रभूतस्नेहनित्याः प्रभूतस्नेहसात्म्याः| सम्यग्यो जितेतिवचनेन महाव्यापत्तित्वमस्याः सूचयति| सर्वमार्गाः कोष्ठसन्धिमर्मशाखाः| पुनर्नवकरी निःशेषदोषहरत्वेन| अरुष्केत्यादि मध्यममात्रागुणः; अरुष्का अरूंषिका| शोधनार्थ इति शोधनार्थ(ङ्ग)स्नेहकरणे; एतेन उत्तममात्रा संशमने [१०] एव परं, न तु शोधनाङ्गस्नेहे कर्तव्येति दर्शयति| ये त्वित्यादि ह्रस्वमात्रागुणः| परिहारे सुखेति अल्पपरिहारत्वेन||२९-४०||

वातपित्तप्रकृतयो वातपित्तविकारिणः|
चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः||४१||
आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः|
पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये||४२||
दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः|
पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः||४३||

यः स्नेहो यत्र कार्यस्तमाह- वातपित्तेत्यादि| वातपित्तविकारग्रहणेनैव वातपित्तप्रकृतिषु लब्धेषु पुनस्तदभिधानं वातपित्तप्रकृतीनां स्तोकश्लेष्मविकारेऽपि घृतपानोपदेशार्थम्; एवं वातव्याधिभिराविष्टा वातप्रकृतयश्च य इत्यत्र व्याख्येयम्| बलार्थिन इत्यत्र बलशब्दः स्मृत्यादिभिः सम्बध्यते| आर्ताः पीडिताः, दाहादिभिरिति सम्बन्धः||४१-४३||

प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः|
वातव्याधिभिराविष्टा वातप्रकृतयश्च ये||४४||
बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम् [११] |
स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः||४५||
कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः|
पिबेयुः शीतले काले तैलं तैलोचिताश्च ये||४६||

तैलविषयमाह- प्रवृद्धेत्यादि| शीतले काल इति तैलस्योष्णत्वेन शीतलेऽपि काल इत्यर्थः; तेन सामान्यप्रतिषेधः ‘नात्युष्णशीते स्नेहं पिबेन्नरः’ इति न विरुध्यते; यदि वा सर्पिःपानकालापेक्षया शीतत्वं बोद्धव्यम्||४४-४६||

वातातपसहा ये च रूक्षा भाराध्वकर्शिताः|
संशुष्करेतोरुधिरा निष्पीतकफमेदसः||४७||
अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः|
बलवान्मारुतो येषां खानि चावृत्य तिष्ठति||४८||
महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः|
तेषां स्नेहयितव्यानां वसापानं विधीयते||४९||

वसाविषयमाह- वातातपेत्यादि| संशुष्कनिष्पीतशब्दौ क्षीणार्थावेव| महारुज इत्यस्थ्यादिभिः सम्बध्यते| खानि स्रोतांसि||४७-४९||

दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः|
वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः||५०||
येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः|५१|

दीप्ताग्नय इत्यादि मज्जपानविषयः| घस्मरा बहुभक्षकाः| आप्नुयुः उपयुञ्जीरन्||५०||-

स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ||५१||

प्रकर्षाविति अल्पप्रकर्षभूयःप्रकर्षौ [१२] ; तेन, अल्पत्वेन त्रैरात्रिकः प्रकर्षः, भूयस्त्वेन साप्तरात्रिक इति च भवति| एतच्च वक्ष्यमाणसद्यःस्नेहप्रयोगातिरिक्तप्रयोगे बोद्धव्यं; यदि वा, सद्यःस्नेहप्रयोगा अपि त्र्यहेणैव स्नेहयन्ति, स्तुत्यर्थं तु तेषु सद्य इत्युक्तम्| यदुक्तं- “त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य इष्टः| नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु” (सि.अ.१.) इति||५१||

स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः|
व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः||५२||

सामान्येन स्नेह्यानाह- स्वेद्या इत्यादि| स्वेद्याः स्वतन्त्रस्वेदसाध्या वातरुगार्तादयः, शोधनाङ्गस्वेदसाध्यानां तु शोधयितव्या इत्यनेनैव गृहीतत्वात्| चिन्तका इति चिन्ताबहुलाः||५२||

संशोधनादृते येषां रूक्षणं सम्प्रवक्ष्यते|
न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम्||५३||
अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये|
तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः||५४||
अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः|
दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः||५५||
न स्नेह्या वर्तमानेषु न नस्तो बस्तिकर्मसु|
स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः||५६||

अस्नेह्यानाह- संशोधनादृत इत्यादि| येषां रूक्षणं वक्ष्यते लङ्घनबृंहणीये- “अभिष्यन्दा महादोषा मर्मस्था व्याधयश्च ये| ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः” (सू. अ.२२) इत्यनेन, तेषां शोधनादृते स्नेहनं न शस्तं, यदा तु शोधनेन विरूक्ष्यन्ते तदा परं शोधनाङ्ग(र्थ)स्तत्र स्नेहः कर्तव्य इति भावः| उत्सन्नो वृद्धः कफो मेदश्च येषां ते तथा; एतच्च विशेषणं विरूक्षणीया एवम्भूता एव भवन्तीति दर्शयति [१३] | अभिष्यण्णः द्रवप्रधानश्लेष्मविकारी| गरः कृत्रिमं विषम्| अतिप्रतान्तः अतिक्षीणद्रवधातुः| वर्तमानेषु क्रियमाणेष्वित्यर्थः||५३-५६||

पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः|
पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्||५७||
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्|
मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते||५८||
पाण्डुता गौरवं [१४] जाड्यं पुरीषस्याविपक्वता|
तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्||५९||

अस्निग्धलक्षणमाह- पुरीषमित्यादि| मृदुरिति पक्तुर्विशेषणम्| वातानुलोम्यमित्यादि स्निग्धलक्षणम्| पाण्डुतेत्यादि अतिस्निग्धलक्षणम्| जाड्यम् इन्द्रियजडत्वम्||५७-५९||

द्रवोष्णमनभिष्यन्दि भोज्यमन्नं प्रमाणतः|
नातिस्निग्धमसङ्कीर्णं श्वः स्नेहं पातुमिच्छता||६०||
पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः|
शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः||६१||

स्नेहात् पूर्वं यत् पथ्यं तदाह- द्रवोष्णमित्यादि| असङ्कीर्णम् अविरुद्धवीर्यम्| श्व इत्यागामिदिने| अन्नकाले द्विप्रहरादिलक्षणे बुभुक्षा कदाचिन्न [१५] स्यादपि तदर्थं विशेषणं- प्रकाङ्क्षित इति| शुद्ध्यर्थं तु स्नेहं नैशे दिनान्तरकृते आहारे जीर्ण एव प्रातरेव पिबेदित्यर्थः| संशमनार्थस्नेहो यदि जरणान्ते प्रातरेव क्रियते तदा कोष्ठोपलेपकदोषस्याक्षयात्तेन दोषेण सम्बद्धो दोषोत्क्लेशं कुर्यान्न संशमनं, संशोधनार्थस्तु दोषोत्क्लेशं करोतीत्यपेक्षणीय एवेति भावः| एतच्च कालकथनमुत्सर्गेण, तेन “वातपित्ताधिको रात्रौ” इत्युक्तकालविरोधो न भवति||६०-६१||

उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः [१६] |
शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न [१७] धारयेत्||६२||
व्यायाममुच्चैर्वचनं क्रोधशोकौ हिमातपौ|
वर्जयेदप्रवातं च सेवेत शयनासनम्||६३||
स्नेहं [१८] पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च|
स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः||६४||

क्षपायामेव स्वपितीति क्षपाशयः| अप्रवातं चेति शयनासनविशेषणम्| स्नेहं प्रतिभुञ्जान इति स्नेहे जीर्णेऽपि स्नेहप्रयोगानुगुणमन्यस्नेहमविरुद्धवीर्यादिगुणयुक्तं भुञ्जानः| एतेन स्नेहे पीते जीर्णे किञ्च हिताहितमिति प्रश्नद्वयस्योत्तरमिदम्- उष्णोदकोपचारी स्यादित्यादि भवति||६२-६४||

मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया|
स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५||
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि|
पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६||
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा|
मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७||
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन|
भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८||
उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता|
मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः||६९||

मृदुकोष्ठादिलक्षणमाह- मृद्वित्यादि| अभ्यर्हितत्वात् कोष्ठज्ञानस्यान्यथाऽपि तल्लक्षणमाह- गुडमित्यादि| उल्लोडितं दधिसरः| कृशरा तिलतण्डुलमाषकृता यवागूः; वचनं हि- “तिलतण्डुलमाषैस्तु कृशरा त्रिसरेति च”| क्रूरकोष्ठाविरेचनहेतुमाह- भवतीत्यादि| ग्रहणी कोष्ठस्थाग्न्यधिष्ठानभूता नाडी; यदुक्तम्- “अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता” (चि.अ.१५) इति| उदीर्णपित्तेत्यादि मृदुकोष्ठस्वरूपकथनम्| क्रूरकोष्ठस्य ग्रहणीगतो वायुर्गुडादीनां सरत्वं प्रतिबध्नाति, मृदुकोष्ठस्य हि ग्रहण्यां विरोधको वायुर्नास्ति, स्तम्भकोऽपि श्लेष्माऽल्पः, उद्भूतसरत्वगुणं च पित्तं प्रबलं; तेन गुडादिभिः सुखं विरेचनं भवतीति भावः||६५-६९||

उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्|
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०||
स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली|
स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्||७१||
नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि|
स चेत् सुशीतं सलिलं नासादयति दह्यते|
यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना||७२||
अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्|
शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्||७३||
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः|
सर्वं ह्यनुरजेद्देहं [१९] हत्वा सञ्ज्ञां च मारयेत्||७४||
तन्द्रा [२०] सोत्क्लेश आनाहो ज्वरः स्तम्भो विसञ्ज्ञता|
कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा||७५||
जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः|
शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्||७६||
तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्|
प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च||७७||
तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्|
मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्||७८||

सम्प्रति स्नेहव्यापदो दर्शयति- उदीर्णेत्यादि| ओजः सर्वधातुसारभूतं हृदि स्थितं, प्रक्षारयन् स्थानाद्भ्रंशयन् क्षपयंश्च| बलीत्यनेन स्नेहेन्धनो वह्निर्नितरां बलवान् भवतीति दर्शयति| वचनं हि- “नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि” इति| उत्तमां महतीं मात्राम्| सोपसर्गां सोपद्रवाम्| कक्षः काष्ठसमूहः| छर्दयेदिति प्रथमं स्नेहमेव तृष्णाकारकं छर्दयित्वा पुनः शीतोदकं पीत्वा रूक्षान्नं च भुक्त्वा उल्लिखेदिति योजनीयम्| न सर्पिरित्यादि|- न सर्पिः सामे पित्ते पेयं, केवलं त्वसंस्कृतं विशेषतो न पेयं सामपित्त एवेति योजना; एवं मन्यते- संस्कृतं तिक्तकादिभिर्युतं सामे पित्ते तिक्तकादिपाचनगुणानुयोगाद्योग्यं कदाचिद्भवत्यपि [२१] , असंस्कृतं तु सर्वथा विरुद्धमेव; यदिवा, केवलमसंस्कृतं सर्पिः पित्ते सामान्येन सामे निरामे वा न पेयं, सामे पित्ते विशेषत इति योजना| एतेन, यत्रापि सामान्येन घृतं विहितं, यथा- “अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे| परिपक्वेषु दोषेषु सर्पिःपानं यथाऽमृतम्” (चि.अ.३) इत्यादौ, तत्राप्युचितभेषजसंस्कृतमेव बोद्धव्यम्| यदिवा, न केवलं पित्ते सामे सर्पिर्विशेषतो न पेयं, किन्तर्हि तैलादीन्यपि वातश्लेष्मविहितानि तयोः सामयोर्न पेयानीत्यर्थः| अस्मिन् व्याख्यानेऽपेयमित्यकारप्रश्लेषो द्रष्टव्यः| अनुरजेत् पित्तवर्णं कुर्यात्| सञ्ज्ञा स्मृतिः, तद्धननं चेह व्याधिप्रभावात्| स्तैमित्यम् आर्द्रवस्त्रागुण्ठितत्वमिव| आमप्रदोषा अलसकविसूचिकादयः| कालप्रतीक्षणं स्नेहजनितदोषक्षयं यावदभोजनम्| तक्रस्यारिष्टानां च चिकित्सावक्ष्यमाणानां प्रयोगः| मूत्राणां त्रिफलायाश्च सेवनमिति सम्बन्धः||७०-७८||

अकाले चाहितश्चैव मात्रया न च योजितः|
स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः||७९||

मिथ्योपचारात् यथोक्तविध्यननुष्ठानात्| अतिसेवितः कालप्रकर्षेण सेवितः||७९||

स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्|
स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्||८०||

संशोधनस्नेहपाने वृत्तिप्रचारमाह- स्नेहादित्यादि| स्नेहात् स्नेहप्रयोगात्| त्रिरात्रोपरतः त्रिरात्रं परित्यक्तस्नेहपान इत्यर्थः| प्रस्कन्दनं विरेचनम्| स्नेहोपरमत्रिरात्र [२२] एव भोजनं दर्शयति- स्नेहवदित्यादि| रसप्रधानमोदनं रसौदनम्||८०||

एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्|८१|

वमने स्नेहवृत्तिमाह- एकेत्यादि| एकाहोपरतः स्नेहादिति योजना| तद्वदिति स्नेहवद्द्रवमुष्णं च रसौदनं स्नेहोपरमदिवस एव|८१|-

स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्||८१||

संशमनविधिमाह- स्यात्त्वित्यादि| असंशोधनार्थीये संशमने| वृत्तिः उपचारः| विरिक्तवदित्यनेनागतावेक्षणेनोपकल्पनीयवक्ष्यमाणं “सम्यग्विरिक्तं चैनं” (सू. अ.१५) इत्यादिग्रन्थप्रतिपादनीयमुपचारमाह, नतु पेयादिक्रममात्रम् [२३] | यद्यपि वमनोक्ता एव तत्रोच्चैर्भाष्यादयो विरेचनवृत्तावप्यतिदिष्टास्तथाऽपीह वमनविधि परित्यज्य विरेचनविध्यतिदेशो धूमपानप्रतिषेधार्थः, विरेचने हि तत्र “धूमपानवर्जं” (सू. अ.१५) इति कृतं, स्नेहपाने च धूमपानं निषिद्धं मात्राशितीये- “न मद्यदुग्धे पीत्वा च न स्नेहं” (सू. अ.५) इत्यादिना||८१||

स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः|
क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा||८२||
लावतैत्तिरमायूरहांसवाराहकौक्कुटाः|
गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः||८३||
यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः|
दाडिमं दधि सव्योषं रससंयोगसङ्ग्रहः||८४||
स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः|
कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा||८५||
फाणितं शृङ्गवेरं च तैलं च सुरया सह|
पिबेद्रूक्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम्||८६||
तैलं सुराया मण्डेन वसां मज्जानमेव वा|
पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः||८७||
धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः|
नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम्||८८||
पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः|
क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम्||८९||
सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृ(कृ)ता|
पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता||९०||
(शौकरो वा रसः स्निग्धः सर्पिर्लवणसंयुतः |
पीतो द्विर्वासरे यत्नात् स्नेहयेदचिरान्नरम् ||१||)|

विचारणाविषयमाह- स्नेहद्विष इत्यादिना| लावादिरसानामुक्तानां संस्कारमाह- यवेत्यादि| रसे स्नेहार्थोक्तरस उचितः संयोगो येषां ते रससंयोगाः, तेषां सङ्ग्रहणं सङ्ग्रहः| पूर्वमिति भोजनात् पूर्वम्| तिलप्रधानः काम्बलिकस्तिलकाम्बलिकः| फाणितमित्यादौ शृङ्गवेरमिति शृङ्गवेररसम्| भृतैः भटित्रीकृतैः| पाञ्चप्रसृतिकी अग्रे वक्ष्यमाणा| माषमिश्रको माषतण्डुलकृतमन्नम्| पेया पातव्या||८२-९०||

ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्|
कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्||९१||
स्नेहैर्यथार्हं तान् सिद्धैः स्नेहयेदविकारिभिः|
पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा||९२||
द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत्|
व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः||९३||
यवकोलकुलत्थानां रसाः क्षारः सुरा दधि|
क्षीरसर्पिश्च तत् सिद्धं स्नेहनीयं घृतोत्तमम्||९४||

यथार्हमिति यो यत्र स्नेहो युज्यते सर्पिरादिः| सिद्धैरिति पिप्पलीभिस्तथा हरीतक्या तथा त्रिफलया चेति पृथग्योजनीयं; पिप्पल्यादिसिद्धस्नेहश्च कुष्ठादिषु यथासङ्ख्यमिति केचित्| यूषशब्दः क्वाथवचनः| व्योषगर्भं व्योषकल्कम्| अत्र त्रिभिर्द्रव्यैर्मिलित्वा चातुर्गुण्यम्| यवकोलादौ षड्द्रव्याणि स्नेहसमानि| क्षारो यवक्षारः कल्कः||९१-९४||

तैलमज्जवसासर्पिर्बदरत्रिफलारसैः|
योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्||९५||

तैलमज्जेत्यादि|- चतुःस्नेहोऽकल्क एव, तैलमज्जवसासर्पिरित्येकवद्भावाद्द्वितीयान्तः प्रयोगः||९५||

गृह्णात्यम्बु [२४] यथा वस्त्रं प्रस्रवत्यधिकं यथा|
यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः||९६||
यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्|
स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः||९७||

सम्प्रति स्नेह उपयुक्तो यथा शरीरं सस्नेह्याधिको दृश्यते, तदाह- गृह्णातीत्यादि| तच्च शिष्येणाध्यायादावपृष्टमपि शिष्यहिततयाऽभिधीयते| यथाग्नीति अग्न्यनधिक इत्यर्थः| नन्वग्न्यधिकश्चेत् स्रवति, तदवधि च स्नेहलक्षणमुक्तं, यदुच्यते- “अधस्तात् स्नेहदर्शनम्” इति, तेनैकदिन एवाधिकस्नेहपानं क्रियतामित्याह- यथा चेत्यादि| आक्लेद्य ईषत्क्लेदयित्वा| त्वरितसेवितः स्नेहो धातूनस्नेहयित्वैव स्रंसतेऽधो याति यावान्, न तावता स्नेहनं भवतीति भावः||९६-९७||

लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्|
तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||९८||

स्नेहने सर्वस्नेहेषु लवणप्रयोगमाह- लवणोपहिता इत्यादि| तदिति लवणम्| अभिष्यन्दि दोषसङ्घातविच्छेदकम्| व्यवायि अखिलदेहव्याप्तिपूर्वकपाकगामि||९८||

स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्|
स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत् [२५] ||९९||

अतो वक्ष्यमाणस्वेदोपकल्पनाध्याययोः सम्बन्धसूचकं स्वेदादिषु स्नेहस्य प्राग्भावमाह- स्नेहमित्यादि||९९||

तत्र श्लोकः-
स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा|
यथाप्रश्नं [२६] भगवता व्याहृतं चान्द्रभागिना||१००||

चान्द्रभागी पुनर्वसुः||१००||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः समाप्तः||१३||

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने कल्पनाचतुष्के स्नेहाध्यायो नाम त्रयोदशोऽध्यायः||१३||

१. ‘कथयितुं’ इति पा.|
२. ‘संशयविषयेण विषयिणं’ इति पा.|
३. ‘सीडनीति प्रसिद्धा’ इति पा.|
४. ‘संस्कारगणेन स्वगुणोपघाताद्भवति’ इति पा.|
५. ‘कल्पनापूर्वकभेदा’ इत्यर्थः|
६. ‘…चुक्रीका…’ इति पा.|
७. ‘भिषग्दिष्टः’ इति|
८. ‘प्रविचारणाः’ इति पा.|
९. ‘अहोरात्रेणैवोच्यते’ इति पा.|
१०. ‘संशमनी’ इति पा.|
११. ‘स्थिरतां दृढगात्रताम्’ इति पा.|
१२. ‘अल्पत्वभूयस्त्वप्रकर्षौ’ इति पा.|
१३. ‘दर्शनार्थं’ इति पा.|
१४. ‘सदनं’ इति पा.|
१५. ‘न भवत्यपि’ इति पा.|
१६. ‘ब्रह्मचारी क्षपाशय इत्यनेन मैथुनदिवास्वप्नरात्रिजागरणानां निषेधः’ इति शिवदाससेनः|
१७. ‘उदीर्णांश्च न धारयेदित्यत्र चकारादनुदीर्णांश्च नोदीरयेदित्यर्थो ज्ञेयः’ इति शिवदाससेनः|
१८. गङ्गाधरस्तु ‘स्नेहं पीत्वा नरे स्नेहं प्रतिभुञ्जान एव च’ इति पठति, ‘स्नेहं पीत्वा त्वपरं स्नेहं प्रतिभुञ्जाने नरे स्नेहमिथ्योपचाराद्दारुणा गदा जायन्ते’ इति व्याख्यानयति| योगीन्द्रनाथसेनस्तु ‘स्नेहं पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च| उष्णोदकोपचारी स्यात्’ इत्यादि ‘सेवेत शयनासनम्| स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदा’ इत्येवं किञ्चित्पौर्वापर्यं कृत्वा पठति, ‘पीते हिताहितमाह- स्नेहं पीत्वेत्यादि| स्नेहं पीत्वा तथा स्नेहं प्रतिभुञ्जानः तस्मिन्नेव दिने स्नेहं पिबन् स्नेहं पीतवान् स्नेहं पिबंश्चेत्यर्थः, नर उष्णोदकोपचारी स्यात्’ इत्यादि व्याख्यानयति च|
१९. ‘ह्यनुचरेद्देहं’ इति पा.|
२०. ‘तन्त्रीरुत्क्लेश’ इति पा.|
२१. ‘योग्यं शङ्क्येतापि’ इति पा.|
२२. ‘स्नेहोपरतस्य त्रिरात्र एव’ इति पा.|
२३. ‘विरिक्तवदिति यथा विरिक्ते पेयादिक्रमस्तथाऽस्मिन्नपि’ इति योगीन्द्रनाथसेनः|
२४. “इदानीमुपयुक्तः स्नेहः शरीरं संस्नेह्याधिकश्चेद्भवति तदा स्रवति, अन्यथातु जीर्यत्येवेत्याह- गृह्णातीत्यादि| यथाग्नीति अग्न्यनुरूपम्| ननु स्नेहपानं हि स्निग्धलक्षणावधि कार्यं, तेनैकदिन एव तथा स्नेहपानं क्रियतां यथा शीघ्रमेव स्नेहलक्षणं स्यादित्याह- यथा चेत्यादि| आक्लेद्य ईषत्क्लेदयित्वा, एवं त्वरितसेवितोऽपि स्नेहो धातूनस्नेहयित्वैव स्रंसते अधो याति, तथा च सति सम्यक्स्नेहनं न भवतीति भावः” इति शिवदाससेनः|
२५. ‘संशोधनमनन्तरम्’ इति पा.|
२६. ‘यथान्यायं यथाशास्त्रं स्नेहस्वेदोपपादनैरित्यन्वयः, शास्त्रोक्तस्नेहस्वेदविधिभिरित्यर्थः’ इति शिवदाससेनः|

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

Carakasaṁhitā

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

sūtrasthānam - 13. snēhādhyāyaḥ

athātaḥ snēhādhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||

nirdēśavātakalākalīyē vātādayō’bhihitāḥ, tēṣāṁ bhēṣajaṁ yathā kalpanīyaṁ tadupadēṣṭuṁ kalpanācatuṣkō’bhidhīyatē| bhēṣajānāṁ kalpanā bhēṣajakalpanā, sā ca kalpanā āśrayadravyābhidhānaṁ vinā na pāryatē kalpayitum [1] ; ataḥ snēhādidravyagōcarā snēha-svēda-vamana-virēcanakalpanēhābhidhīyatē, bastikalpanā tviha bahuvaktavyatvānnōktā| atrāpi vamanādipravr̥ttau snēhasyaiva prathamaṁ vidhīyamānatayā tathā dōṣapradhānasya vātasya pradhānabhēṣajatvācca tatpratipādaka ēva snēhādhyāyō’bhidhīyatē| snēhasya pratipādakō’dhyāyaḥ snēhādhyāyaḥ||1-2||

sāṅkhyaiḥ saṅkhyātasaṅkhyēyaiḥ sahāsīnaṁ punarvasum|
jagaddhitārthaṁ papraccha vahnivēśaḥ svasaṁśayam||3||

saṅkhyā samyagjñānaṁ, tēna vyavaharantīti sāṅkhyāḥ| saṅkhyātaṁ jñātaṁ saṅkhyēyaṁ jñēyaṁ yaistē tathā; yadi vā ‘saṅkhyātasaṅkhyēyam’ iti pāṭhaḥ, tadā punarvasuviśēṣaṇamētat; arthastu samānaḥ| sāṅkhyaiḥ sahāvasthānōpadarśanamātrēyasya kartavyapraśnānuguṇamanaḥsamādhānōpadarśanārtham| saṁśayamiti saṁśayēna [2] viṣayiṇā viṣayaṁ lakṣayati, tēna saṁśayamiti saṁśayaviṣayamityarthaḥ||3||

kiṁyōnayaḥ kati snēhāḥ kē ca snēhaguṇāḥ pr̥thak|
kālānupānē kē kasya kati kāśca vicāraṇāḥ||4||
kati mātrāḥ kathammānāḥ kā ca kēṣūpadiśyatē|
kaśca kēbhyō hitaḥ snēhaḥ prakarṣaḥ snēhanē ca kaḥ||5||
snēhyāḥ kē kē na ca snigdhāsnigdhātisnigdhalakṣaṇam|
kiṁ pānāt prathamaṁ pītē jīrṇē kiñca hitāhitam||6||
kē mr̥dukrūrakōṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ|
acchē saṁśōdhanē caiva snēhē kā vr̥ttiriṣyatē||7||
vicāraṇāḥ kēṣu yōjyā vidhinā kēna tat prabhō!|
snēhasyāmitavijñāna jñānamicchāmi vēditum||8||

kō’sau saṁśaya ityāha- kiṁyōnaya ityādi| kiṁyōnayaḥ kimādhārakāraṇāḥ| kālaścānupānaṁ ca kālānupānē| vicāraṇā dravyāntarāsaṁyuktasnēhapānaṁ varjayitvā snēhōpayōgaḥ| kathammānā kīdr̥ṅmānā| kā cēti mātrā| prakarṣaḥ kālaprakarṣaḥ| snēhanē snēhayuktikriyāyām| kē nacēti kē na ca snēhyāḥ  kiṁ pānāt snēhapānāt prathamaṁ pūrvaṁ hitāhitaṁ; kiñca pītē snēhē tathā jīrṇē ca snēhē hitāhitamiti yōjyam| siddhayō vyāpatsādhanāni bhēṣajāni| acchē iti saṁśōdhanapr̥thaṅnirdēśādgōbalīvardanyāyēna saṁśamana iti bhavati| vr̥ttiriti vr̥ttiḥ upacāravidhānam| jñānaṁ śāstram||4-8||

atha tatsaṁśayacchēttā pratyuvāca punarvasuḥ|
snēhānāṁ dvividhā saumya yōniḥ sthāvarajaṅgamā||9||
tilaḥ priyālābhiṣukau bibhītakaścitrābhayairaṇḍamadhūkasarṣapāḥ|
kusumbhabilvārukamūlakātasīnikōcakākṣōḍakarañjaśigrukāḥ||10||
snēhāśayāḥ sthāvarasañjñitāstathā syurjaṅgamā matsyamr̥gāḥ sapakṣiṇaḥ|
tēṣāṁ dadhikṣīraghr̥tāmiṣaṁ vasā snēhēṣu majjā ca tathōpadiśyatē||11||

abhiṣuka auttarāpathikaḥ| citrā gōrakṣakarkaṭī, tadbījamiha; yadi vā citrā lōhitairaṇḍaḥ| atasī ‘umā’ iti khyātā [3] | ārukanikōcakākṣōḍā auttarāpathikāḥ| snēhāśayāḥ snēhasthānāni| ētē cāviṣkr̥tatamatvēnōktāḥ, tēna nimbatailādayō bōddhavyāḥ| āmiṣaṁ māṁsam||9-11||

sarvēṣāṁ tailajātānāṁ tilatailaṁ viśiṣyatē|
balārthē snēhanē cāgryamairaṇḍaṁ tu virēcanē||12||
(kaṭūṣṇaṁ tailamairaṇḍaṁ vātaślēṣmaharaṁ guru |
kaṣāyasvādutiktaiśca yōjitaṁ pittahantrapi ||1||)|

tailajātānāmiti jātaśabdaḥ prakāravacanaḥ; yathā- “yadāhārajātamagnivēśa” (sū.a.25) ityādi| atra yadyapi yōgāttilabhavamēva tailaṁ, tathā’pi rūḍhyēha sarva ēva sthāvarasnēhāstailamityucyantē| yaduktaṁ suśrutē- “niṣpattēstadguṇatvācca tailatvamitarēṣvapi” (su.sū.a.45) iti| viśiṣyatē atiricyatē| agryamityairaṇḍēna sambadhyatē||12||

sarpistailaṁ vasā majjā sarvasnēhōttamā matāḥ|
ēṣu caivōttamaṁ sarpiḥ saṁskārasyānuvartanāt||13||

sarvasnēhōttamā ityatra sarvaśabdēna dadhikṣīrādayō gr̥hyantē; sarvasnēhōttamatvaṁ ca sarpirādīnāṁ snēhaguṇaprakarṣavattvēna saṁskārō guṇāntarārōpaṇaṁ, tasyānuvartanamanuvidhānaṁ svīkaraṇamiti yāvat| ētaduktaṁ bhavati- yat- na tathā tailādayō dravyāntarasaṁskr̥tāḥ saṁskāraguṇān vahanti yathā sarpiriti| ata ēvōktaṁ- “nānyaḥ snēhastathā kaścit saṁskāramanuvartatē| yathā sarpirataḥ sarpiḥ sarvasnēhōttamaṁ matam” (ni. a.1)| ata ēva saṁskārakadravyacitrakādiguṇānuvidhānē’pi sarpirna svaguṇān snēhaśaityādīn jahāti, kiñca svaguṇān tadguṇāṁśca vahati, yatō’nuśabdēna paścādvācinā svaguṇavartanasya paścāt saṁskārakaguṇavartanamucyatē| ata ēvōktaṁ- “snēhādvātaṁ śamayati pittaṁ mādhuryaśaityataḥ| ghr̥taṁ tulyaguṇaṁ dōṣaṁ saṁskārāttu jayēt kapham” (ni. a.1) iti| na ca vācyaṁ rūkṣōṣṇacitrakādisaṁskārādrūkṣōṣṇaṁ sarpirbhūtaṁ, tataśca sarpiṣaḥ snēhaśaityē tadviruddhē kathaṁ tiṣṭhataḥ? iti; yataḥ sarpiḥsambaddhacitrakāvayavānugataṁ hi rūkṣōṣṇatvaṁ, sarpirgatē ca snēhaśaityē iti bhinnāśrayatvānna virōdhaḥ; idamēva ca sarpiṣaḥ saṁskārānuvartanaṁ yat- svaguṇaviruddhasyāpi tasyānupaghātēna dhāraṇaṁ; saṁskārakacitrakādiguṇavahanē’pi sarpiṣaḥ śaityādayaḥ kadācidabhibhūyantē saṁskārakaguṇairuṣṇādibhirna punaḥ snēhaguṇaḥ, tasya snēhēṣu sarvātmanā vyavasthitasya prabalatvāt; ata ēva sarpirādayaḥ snēhapradhānatvāt ‘snēhā’ ityucyantē| anyē tu saṁskārānuvartanaṁ svaguṇōpaghātēna saṁskārakaguṇavahanaṁ bruvatē, ētacca tailē tiṣṭhati na sarpiṣīti vadanti; sarpiṣi tu saṁskārānuvartanamuktaṁ yat tat sarpiṣi sarvathā kasyacidguṇasya saṁskāraguṇēnānupaghātādbhavati [4] ; tathāhi- dāhapraśamanārthaṁ jvarē candanādiśītadravyasādhitatailamuktaṁ, yataḥ śītēna sādhitaṁ tailamuṣṇamapi svabhāvācchītamēva bhavatīti||13||

ghr̥taṁ pittānilaharaṁ rasaśukraujasāṁ hitam|
nirvāpaṇaṁ mr̥dukaraṁ svaravarṇaprasādanam||14||
mārutaghnaṁ na ca ślēṣmavardhanaṁ balavardhanam|
tvacyamuṣṇaṁ sthirakaraṁ tailaṁ yōniviśōdhanam||15||
viddhabhagnāhatabhraṣṭayōnikarṇaśirōruji|
pauruṣōpacayē snēhē vyāyāmē cēṣyatē vasā||16||
balaśukrarasaślēṣmamēdōmajjavivardhanaḥ|
majjā viśēṣatō’sthnāṁ ca balakr̥t snēhanē hitaḥ||17||

snēhaguṇānabhidhattē- ghr̥tamityādi| nirvāpaṇaṁ dāhapraśamanam| mārutaghnamityādi tailaguṇāḥ| sthirakaram aṅgasthairyakaram| viddhētyādi vasāguṇāḥ| pauruṣōpacayaḥ śukrōpacayaḥ| snēhē śarīrasnēhanē kartavyē| balaśukrētyādi majjaguṇāḥ||14-17||

sarpiḥ śaradi pātavyaṁ vasā majjā ca mādhavē|
tailaṁ prāvr̥ṣi nātyuṣṇaśītē snēhaṁ pibēnnaraḥ||18||

sarpirādipānakālamāha- sarpiḥ śaradītyādi| mādhavē vaiśākhē| prāvr̥ḍāṣāḍhaśrāvaṇau, yaduktaṁ- “prāvr̥ṭ śukranabhau jñēyau” (si.a.6) iti| śaradi bahupittatvēna pittaviruddhaṁ ghr̥tamēva yaugikaṁ, nānyastailādiḥ| vasāmajjñōstu nātiśītōṣṇatvāt sādhāraṇē; yatastayōranupānē śītatvēna vōṣṇatvēna vā nirdēśō na kr̥taḥ; “yathāsattvaṁ tu śaityauṣṇyē vasāmajjñōrvinirdiśēt” (sū.a.27) iti tu vacanēna śaityauṣṇyābhidhānaṁ sāmānyēna, tailasarpirvadauṣṇyaśaityānabhidhānānna prakarṣaprāptaśaityōṣṇatvaprāpakam| ata ēvōktaṁ- “tailavasāmajjasarpiṣāṁ tu yathāpūrvaṁ śrēṣṭhatvaṁ vātaślēṣmavikārēṣu bhavati, yathōttaraṁ pittavikārēṣu” (vi.a.8) iti| atrōttarasya sarpiṣaḥ śaityāt pittaharatvaṁ, tailasya tūṣṇatvādvātaślēṣmaharatvaṁ, vasāmajjñōstu sādhāraṇatvēna madhyagatatvamiti sthitam| ēvaṁ vasāmajjñōḥ sādhāraṇatvēna tathā balyatvadhātuvr̥ddhikaratvābhyāmanatiśītōṣṇē tathā balakṣayadhātukṣayayuktē mādhavē prayōgō yuktaḥ| caitrastu mukhyasādhāraṇaguṇō’pi prabhūtaślēṣmatayā na snēhaviṣaya ityanuktaḥ| sāmānyēna snēhōpayōgē śastaṁ kālamāha- nātyuṣṇētyādi| nātyuṣṇē grīṣmē, nātiśītē hēmantē śiśirē ca tathā varṣajanitaśaityē varṣākālē| ayaṁ cānātyayikavikārē sati kālaniyamō jñēyaḥ, agrē uṣṇē śītē ca kālē snēhōpadēśāt||18||

vātapittādhikō rātrāvuṣṇē cāpi pibēnnaraḥ|
ślēṣmādhikō divā śītē pibēccāmalabhāskarē||19||

kālaviśēṣē dōṣaviśēṣē ca pānakramaṁ darśayati- vātētyādinā| vātaśca pittaṁ ca vātapittaṁ, tadadhikō vātapittādhikaḥ| rātrāviti sāyam| uṣṇē grīṣmē| ślēṣmādhikagrahaṇamatyantaśītavikāragr̥hītapuruṣōpalakṣaṇārthaṁ, tēna vātaślēṣmādhikaḥ ślēṣmādhikaśca gr̥hyatē; ata ēva suśrutē’pyuktaṁ- “vātapittādhikō rātrau vātaślēṣmādhikō divā” (su.ci.31) iti| kēvalavātādhikasya tathā pittādhikasya ślēṣmādhikasya ca sādhāraṇē śaradādau kālē utsargasiddha ēva pānakālō vakṣyamāṇō bhavati| vakṣyati hi- “pibēt saṁśamanaṁ snēhamannakālē” ityādi| anyē tu bruvatē- vātādhikagrahaṇēna kēvalavātasyāpi grahaṇaṁ, ślēṣmādhikavyapadēśācca vātaślēṣma-pittaślēṣmaṇōrapi grahaṇamiti| śītē hēmantādau| amalaḥ prabalaraśmiryasmin dinasya bhāgē bhāskaraḥ sō’malabhāskarō madhyāhna iti yāvat||19||

atyuṣṇē vā divā pītō vātapittādhikēna vā|
mūrcchāṁ pipāsāmunmādaṁ kāmalāṁ vā samīrayēt||20||
śītē rātrau piban snēhaṁ naraḥ ślēṣmādhikō’pi vā|
ānāhamaruciṁ śūlaṁ pāṇḍutāṁ vā samr̥cchati||21||

uktakālaniyamaviparyayē dōṣamāha- atyuṣṇē vētyādi| atyuṣṇē kālē divā pītaḥ snēhaḥ ślaiṣmikasyāpi yathōktavikārakaraḥ, tathā vātapittādhikēna pītaḥ śītakālē’pi yathōktavikārakaraḥ; ēvaṁ niśāpānē’pi vākyārthaḥ; paraṁ niṣiddhasya kālasya dōṣasya ca mēlakē’tyayē cōktavikāraprakarṣāprakarṣau tarkaṇīyau||20-21||

jalamuṣṇaṁ ghr̥tē pēyaṁ yūṣastailē’nu śasyatē|
vasāmajjñōstu maṇḍaḥ syāt sarvēṣūṣṇamathāmbu vā||22||

anupānamāha- jalamityādi| tailē’nviti anupānē| anupānaparimāṇaṁ tu samyagbhēṣajapākārthaṁ kriyamāṇaṁ bhēṣajāvaikārikapākēnaivōnnēyaṁ, vr̥ddhavaidyavyavahārācca||22||

ōdanaśca vilēpī ca rasō māṁsaṁ payō dadhi|
yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ||23||
saktavastilapiṣṭaṁ ca madyaṁ lēhāstathaiva ca|
bhakṣyamabhyañjanaṁ bastistathā cōttarabastayaḥ||24||
gaṇḍūṣaḥ karṇatailaṁ ca nastaḥkarṇākṣitarpaṇam|
caturviṁśatirityētāḥ snēhasya pravicāraṇāḥ [5] ||25||

vicāraṇāḥ saṅkhyayā svarūpēṇa caikagranthēnāha- ōdanaścētyādi| vilēpī viraladravā yavāgūrbahusikthasamanvitā jñēyā| saśākapallavēna kr̥tō yūṣaḥ khaḍaḥ| kāmbalikō dadhilavaṇasnēhatilādikr̥ta īṣadamlaḥ| ētayōrudāharaṇaṁ yathā- “takrē kapitthacāṅgērīmaricājājicitrakaiḥ [6] | supakvaḥ khaḍayūṣō’yamayaṁ kāmbalikō mataḥ|| dadhyamlō lavaṇasnēhatilamāṣānvitaḥ śr̥taḥ” iti| lēhaḥ śarkarādīnāṁ pākāt kr̥taḥ; lihyata iti lēhaḥ| pravicāryatē avacāryatē’nukalpēnōpayujyatē’nayēti pravicāraṇā ōdanādayaḥ; ōdanādayaśca snēhapravicāraṇāyāṁ snēhayuktā ēva bōddhavyāḥ; abhyañjanādayastu yadyapi śuddhasnēhasampādyāstathā’pi jaṭharāgnisambandhē na vyāpriyanta iti tantrē vicāraṇāśabdēnōcyantē||23-25||

acchapēyastu yaḥ snēhō na tāmāhurvicāraṇām|
snēhasya sa bhiṣagdr̥ṣṭaḥ [7] kalpaḥ prāthamakalpikaḥ||26||

kēvalasnēhapānaṁ tu snēhanē śaktyatiśayavattvēna na vicāraṇāsañjñayōcyatē, ētadēvāha- acchapēya ityādi| acchaśca pēyaśca acchapēyaḥ, ōdanādyasambandhē sati pēya ityarthaḥ| na tāmāhurvicāraṇāmiti vacanēna vaidyaparamparāsiddhō’yaṁ vyavahāra iti darśayati| bhiṣagbhirdr̥ṣṭō bhiṣagdr̥ṣṭaḥ| prathamē śrēṣṭhē kalpē pakṣē bhavatīti prāthamakalpikaḥ, śrēṣṭha ityarthaḥ||26||

rasaiścōpahitaḥ snēhaḥ samāsavyāsayōgibhiḥ|
ṣaḍbhistriṣaṣṭidhā saṅkhyāṁ prāpnōtyēkaśca kēvalaḥ||27||
ēvamētāścatuḥṣaṣṭiḥ snēhānāṁ pravicāraṇā [8] |
ōkartuvyādhipuruṣān prayōjyā jānatā bhavēt||28||

prakārāntarēṇa vicāraṇābhēdamāha- rasaiścētyādi| samāsō rasānāmanyōnyamēlakaḥ, vyāsō’mēlakaḥ; samāsavyāsavadbhiḥ ṣaḍbhī rasairōdanādigatairupahitō yuktaḥ san snēhastriṣaṣṭisaṅkhyāṁ prāpnōti| ēkaśca kēvala ityacchapēyaṁ varjayitvā’bhyañjanādiprayōjyaḥ| triṣaṣṭhī rasabhēdā ātrēyabhadrakāpyīyē “svāduramlādibhiryōgaṁ” (sū.a.26) ityādivākyē vakṣyamāṇā bōddhavyāḥ| ēvaṁ snēhānāṁ rasayuktānāṁ catuḥṣaṣṭiḥ pravicāraṇā bhavanti| catuḥṣaṣṭiriti snēhānāmityanēna sambadhyatē, tēna pravicāraṇētyēkavacanamupapannaṁ bhavati| na sarvavicāraṇā sarvatra kartavyā, kintu sātmyartuvyādhidōṣapuruṣān parīkṣya yā yatra yujyatē sā tatra kartavyētyāha- ōkartvityādi| ōkaḥ abhyāsaḥ| puruṣagrahaṇēna kasmin dēśē’yaṁ puruṣō vartata iti parīkṣayā dēśō’pyavaruddhō bōddhavyaḥ, vayōbalaprabhr̥tayaśca bōddhavyāḥ||27-28||

ahōrātramahaḥ kr̥tsnamardhāhaṁ ca pratīkṣatē|
pradhānā madhyamā hrasvā snēhamātrā jarāṁ prati||29||
iti tisraḥ samuddiṣṭā mātrāḥ snēhasya mānataḥ|
tāsāṁ prayōgān vakṣyāmi puruṣaṁ puruṣaṁ prati||30||
prabhūtasnēhanityā yē kṣutpipāsāsahā narāḥ|
pāvakaścōttamabalō yēṣāṁ yē cōttamā balē||31||
gulminaḥ sarpadaṣṭāśca visarpōpahatāśca yē|
unmattāḥ kr̥cchramūtrāśca gāḍhavarcasa ēva ca||32||
pibēyuruttamāṁ mātrāṁ tasyāḥ pānē guṇāñchr̥ṇu|
vikārāñchamayatyēṣāṁ śīghraṁ samyakprayōjitā||33||
dōṣānukarṣiṇī mātrā sarvamārgānusāriṇī|
balyā punarnavakarī śarīrēndriyacētasām||34||
aruṣkasphōṭapiḍakākaṇḍūpāmābhirarditāḥ|
kuṣṭhinaśca pramīḍhāśca vātaśōṇitikāśca yē||35||
nātibahvāśinaścaiva mr̥dukōṣṭhāstathaiva ca|
pibēyurmadhyamāṁ mātrāṁ madhyamāścāpi yē balē||36||
mātraiṣā mandavibhraṁśā na cātibalahāriṇī|
sukhēna ca snēhayati śōdhanārthē ca yujyatē||37||
yē tu vr̥ddhāśca bālāśca sukumārāḥ sukhōcitāḥ|
riktakōṣṭhatvamahitaṁ yēṣāṁ mandāgnayaśca yē||38||
jvarātīsārakāsāśca yēṣāṁ cirasamutthitāḥ|
snēhamātrāṁ pibēyustē hrasvāṁ yē cāvarā balē||39||
parihārē sukhā caiṣā mātrā snēhanabr̥ṁhaṇī|
vr̥ṣyā balyā nirābādhā ciraṁ cāpyanuvartatē||40||

mātrāyāḥ saṅkhyāṁ pramāṇaṁ cāha- ahōrātramityādi| ahōrātraśabdō’ṣṭapraharōpalakṣaṇaḥ, ēvamahaḥśabdārdhāhaśabdau catuḥpraharadvipraharōpalakṣaṇau, tēna praharādyatītē’pyahani pītā mātrā yathōktapraharakālaprāptyā dināntarē rātrau vā jīryamāṇā mantavyā; anyē tvahōrātraśabdēna nyūnēnāpyahnā yuktā rātrirahōrātraśabdēnōcyatē [9] , kr̥tsnārdhāhau tu praharōpalakṣaṇāviti vadanti| atra yadā ahōrātrapariṇāminī mātrā kriyatē, tadā tadaharāhārō na kartavyaḥ; ata ēvaitatpānaṁ puruṣaviśēṣaviṣayakathanē uktaṁ- “kṣutpipāsāsahānarāḥ” iti| prabhūtasnēhanityāḥ prabhūtasnēhasātmyāḥ| samyagyō jitētivacanēna mahāvyāpattitvamasyāḥ sūcayati| sarvamārgāḥ kōṣṭhasandhimarmaśākhāḥ| punarnavakarī niḥśēṣadōṣaharatvēna| aruṣkētyādi madhyamamātrāguṇaḥ; aruṣkā arūṁṣikā| śōdhanārtha iti śōdhanārtha(ṅga)snēhakaraṇē; ētēna uttamamātrā saṁśamanē [10] ēva paraṁ, na tu śōdhanāṅgasnēhē kartavyēti darśayati| yē tvityādi hrasvamātrāguṇaḥ| parihārē sukhēti alpaparihāratvēna||29-40||

vātapittaprakr̥tayō vātapittavikāriṇaḥ|
cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vr̥ddhā bālāstathā’balāḥ||41||
āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ|
puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca yē||42||
dīptyōjaḥsmr̥timēdhāgnibuddhīndriyabalārthinaḥ|
pibēyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ||43||

yaḥ snēhō yatra kāryastamāha- vātapittētyādi| vātapittavikāragrahaṇēnaiva vātapittaprakr̥tiṣu labdhēṣu punastadabhidhānaṁ vātapittaprakr̥tīnāṁ stōkaślēṣmavikārē’pi ghr̥tapānōpadēśārtham; ēvaṁ vātavyādhibhirāviṣṭā vātaprakr̥tayaśca ya ityatra vyākhyēyam| balārthina ityatra balaśabdaḥ smr̥tyādibhiḥ sambadhyatē| ārtāḥ pīḍitāḥ, dāhādibhiriti sambandhaḥ||41-43||

pravr̥ddhaślēṣmamēdaskāścalasthūlagalōdarāḥ|
vātavyādhibhirāviṣṭā vātaprakr̥tayaśca yē||44||
balaṁ tanutvaṁ laghutāṁ dr̥ḍhatāṁ sthiragātratām [11] |
snigdhaślakṣṇatanutvaktāṁ yē ca kāṅkṣanti dēhinaḥ||45||
kr̥mikōṣṭhāḥ krūrakōṣṭhāstathā nāḍībhirarditāḥ|
pibēyuḥ śītalē kālē tailaṁ tailōcitāśca yē||46||

tailaviṣayamāha- pravr̥ddhētyādi| śītalē kāla iti tailasyōṣṇatvēna śītalē’pi kāla ityarthaḥ; tēna sāmānyapratiṣēdhaḥ ‘nātyuṣṇaśītē snēhaṁ pibēnnaraḥ’ iti na virudhyatē; yadi vā sarpiḥpānakālāpēkṣayā śītatvaṁ bōddhavyam||44-46||

vātātapasahā yē ca rūkṣā bhārādhvakarśitāḥ|
saṁśuṣkarētōrudhirā niṣpītakaphamēdasaḥ||47||
asthisandhisirāsnāyumarmakōṣṭhamahārujaḥ|
balavānmārutō yēṣāṁ khāni cāvr̥tya tiṣṭhati||48||
mahaccāgnibalaṁ yēṣāṁ vasāsātmyāśca yē narāḥ|
tēṣāṁ snēhayitavyānāṁ vasāpānaṁ vidhīyatē||49||

vasāviṣayamāha- vātātapētyādi| saṁśuṣkaniṣpītaśabdau kṣīṇārthāvēva| mahāruja ityasthyādibhiḥ sambadhyatē| khāni srōtāṁsi||47-49||

dīptāgnayaḥ klēśasahā ghasmarāḥ snēhasēvinaḥ|
vātārtāḥ krūrakōṣṭhāśca snēhyā majjānamāpnuyuḥ||50||
yēbhyō yēbhyō hitō yō yaḥ snēhaḥ sa parikīrtitaḥ|51|

dīptāgnaya ityādi majjapānaviṣayaḥ| ghasmarā bahubhakṣakāḥ| āpnuyuḥ upayuñjīran||50||-

snēhanasya prakarṣau tu saptarātratrirātrakau||51||

prakarṣāviti alpaprakarṣabhūyaḥprakarṣau [12] ; tēna, alpatvēna trairātrikaḥ prakarṣaḥ, bhūyastvēna sāptarātrika iti ca bhavati| ētacca vakṣyamāṇasadyaḥsnēhaprayōgātiriktaprayōgē bōddhavyaṁ; yadi vā, sadyaḥsnēhaprayōgā api tryahēṇaiva snēhayanti, stutyarthaṁ tu tēṣu sadya ityuktam| yaduktaṁ- “tryahāvaraṁ saptadinaṁ paraṁ tu snigdhō naraḥ svēdayitavya iṣṭaḥ| nātaḥ paraṁ snēhanamādiśanti sātmyībhavēt saptadināt paraṁ tu” (si.a.1.) iti||51||

svēdyāḥ śōdhayitavyāśca rūkṣā vātavikāriṇaḥ|
vyāyāmamadyastrīnityāḥ snēhyāḥ syuryē ca cintakāḥ||52||

sāmānyēna snēhyānāha- svēdyā ityādi| svēdyāḥ svatantrasvēdasādhyā vātarugārtādayaḥ, śōdhanāṅgasvēdasādhyānāṁ tu śōdhayitavyā ityanēnaiva gr̥hītatvāt| cintakā iti cintābahulāḥ||52||

saṁśōdhanādr̥tē yēṣāṁ rūkṣaṇaṁ sampravakṣyatē|
na tēṣāṁ snēhanaṁ śastamutsannakaphamēdasām||53||
abhiṣyaṇṇānanagudā nityamandāgnayaśca yē|
tr̥ṣṇāmūrcchāparītāśca garbhiṇyastāluśōṣiṇaḥ||54||
annadviṣaśchardayantō jaṭharāmagarārditāḥ|
durbalāśca pratāntāśca snēhaglānā madāturāḥ||55||
na snēhyā vartamānēṣu na nastō bastikarmasu|
snēhapānāt prajāyantē tēṣāṁ rōgāḥ sudāruṇāḥ||56||

asnēhyānāha- saṁśōdhanādr̥ta ityādi| yēṣāṁ rūkṣaṇaṁ vakṣyatē laṅghanabr̥ṁhaṇīyē- “abhiṣyandā mahādōṣā marmasthā vyādhayaśca yē| ūrustambhaprabhr̥tayō rūkṣaṇīyā nidarśitāḥ” (sū. a.22) ityanēna, tēṣāṁ śōdhanādr̥tē snēhanaṁ na śastaṁ, yadā tu śōdhanēna virūkṣyantē tadā paraṁ śōdhanāṅga(rtha)statra snēhaḥ kartavya iti bhāvaḥ| utsannō vr̥ddhaḥ kaphō mēdaśca yēṣāṁ tē tathā; ētacca viśēṣaṇaṁ virūkṣaṇīyā ēvambhūtā ēva bhavantīti darśayati [13] | abhiṣyaṇṇaḥ dravapradhānaślēṣmavikārī| garaḥ kr̥trimaṁ viṣam| atipratāntaḥ atikṣīṇadravadhātuḥ| vartamānēṣu kriyamāṇēṣvityarthaḥ||53-56||

purīṣaṁ grathitaṁ rūkṣaṁ vāyurapraguṇō mr̥duḥ|
paktā kharatvaṁ raukṣyaṁ ca gātrasyāsnigdhalakṣaṇam||57||
vātānulōmyaṁ dīptō’gnirvarcaḥ snigdhamasaṁhatam|
mārdavaṁ snigdhatā cāṅgē snigdhānāmupajāyatē||58||
pāṇḍutā gauravaṁ [14] jāḍyaṁ purīṣasyāvipakvatā|
tandrīrarucirutkēśaḥ syādatisnigdhalakṣaṇam||59||

asnigdhalakṣaṇamāha- purīṣamityādi| mr̥duriti pakturviśēṣaṇam| vātānulōmyamityādi snigdhalakṣaṇam| pāṇḍutētyādi atisnigdhalakṣaṇam| jāḍyam indriyajaḍatvam||57-59||

dravōṣṇamanabhiṣyandi bhōjyamannaṁ pramāṇataḥ|
nātisnigdhamasaṅkīrṇaṁ śvaḥ snēhaṁ pātumicchatā||60||
pibēt saṁśamanaṁ snēhamannakālē prakāṅkṣitaḥ|
śuddhyarthaṁ punarāhārē naiśē jīrṇē pibēnnaraḥ||61||

snēhāt pūrvaṁ yat pathyaṁ tadāha- dravōṣṇamityādi| asaṅkīrṇam aviruddhavīryam| śva ityāgāmidinē| annakālē dvipraharādilakṣaṇē bubhukṣā kadācinna [15] syādapi tadarthaṁ viśēṣaṇaṁ- prakāṅkṣita iti| śuddhyarthaṁ tu snēhaṁ naiśē dināntarakr̥tē āhārē jīrṇa ēva prātarēva pibēdityarthaḥ| saṁśamanārthasnēhō yadi jaraṇāntē prātarēva kriyatē tadā kōṣṭhōpalēpakadōṣasyākṣayāttēna dōṣēṇa sambaddhō dōṣōtklēśaṁ kuryānna saṁśamanaṁ, saṁśōdhanārthastu dōṣōtklēśaṁ karōtītyapēkṣaṇīya ēvēti bhāvaḥ| ētacca kālakathanamutsargēṇa, tēna “vātapittādhikō rātrau” ityuktakālavirōdhō na bhavati||60-61||

uṣṇōdakōpacārī syādbrahmacārī kṣapāśayaḥ [16] |
śakr̥nmūtrānilōdgārānudīrṇāṁśca na [17] dhārayēt||62||
vyāyāmamuccairvacanaṁ krōdhaśōkau himātapau|
varjayēdapravātaṁ ca sēvēta śayanāsanam||63||
snēhaṁ [18] pītvā naraḥ snēhaṁ pratibhuñjāna ēva ca|
snēhamithyōpacārāddhi jāyantē dāruṇā gadāḥ||64||

kṣapāyāmēva svapitīti kṣapāśayaḥ| apravātaṁ cēti śayanāsanaviśēṣaṇam| snēhaṁ pratibhuñjāna iti snēhē jīrṇē’pi snēhaprayōgānuguṇamanyasnēhamaviruddhavīryādiguṇayuktaṁ bhuñjānaḥ| ētēna snēhē pītē jīrṇē kiñca hitāhitamiti praśnadvayasyōttaramidam- uṣṇōdakōpacārī syādityādi bhavati||62-64||

mr̥dukōṣṭhastrirātrēṇa snihyatyacchōpasēvayā|
snihyati krūrakrōṣṭhastu saptarātrēṇa mānavaḥ||65||
guḍamikṣurasaṁ mastu kṣīramullōḍitaṁ dadhi|
pāyasaṁ kr̥śarāṁ sarpiḥ kāśmaryatriphalārasam||66||
drākṣārasaṁ pīlurasaṁ jalamuṣṇamathāpi vā|
madyaṁ vā taruṇaṁ pītvā mr̥dukōṣṭhō viricyatē||67||
virēcayanti naitāni krūrakōṣṭhaṁ kadācana|
bhavati krūrakōṣṭhasya grahaṇyatyulbaṇānilā||68||
udīrṇapittā’lpakaphā grahaṇī mandamārutā|
mr̥dukōṣṭhasya tasmāt sa suvirēcyō naraḥ smr̥taḥ||69||

mr̥dukōṣṭhādilakṣaṇamāha- mr̥dvityādi| abhyarhitatvāt kōṣṭhajñānasyānyathā’pi tallakṣaṇamāha- guḍamityādi| ullōḍitaṁ dadhisaraḥ| kr̥śarā tilataṇḍulamāṣakr̥tā yavāgūḥ; vacanaṁ hi- “tilataṇḍulamāṣaistu kr̥śarā trisarēti ca”| krūrakōṣṭhāvirēcanahētumāha- bhavatītyādi| grahaṇī kōṣṭhasthāgnyadhiṣṭhānabhūtā nāḍī; yaduktam- “agnyadhiṣṭhānamannasya grahaṇādgrahaṇī matā” (ci.a.15) iti| udīrṇapittētyādi mr̥dukōṣṭhasvarūpakathanam| krūrakōṣṭhasya grahaṇīgatō vāyurguḍādīnāṁ saratvaṁ pratibadhnāti, mr̥dukōṣṭhasya hi grahaṇyāṁ virōdhakō vāyurnāsti, stambhakō’pi ślēṣmā’lpaḥ, udbhūtasaratvaguṇaṁ ca pittaṁ prabalaṁ; tēna guḍādibhiḥ sukhaṁ virēcanaṁ bhavatīti bhāvaḥ||65-69||

udīrṇapittā grahaṇī yasya cāgnibalaṁ mahat|
bhasmībhavati tasyāśu snēhaḥ pītō’gnitējasā||70||
sa jagdhvā snēhamātrāṁ tāmōjaḥ prakṣārayan balī|
snēhāgniruttamāṁ tr̥ṣṇāṁ sōpasargāmudīrayēt||71||
nālaṁ snēhasamr̥ddhasya śamāyānnaṁ sugurvapi|
sa cēt suśītaṁ salilaṁ nāsādayati dahyatē|
yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā||72||
ajīrṇē yadi tu snēhē tr̥ṣṇā syācchardayēdbhiṣak|
śītōdakaṁ punaḥ pītvā bhuktvā rūkṣānnamullikhēt||73||
na sarpiḥ kēvalaṁ pittē pēyaṁ sāmē viśēṣataḥ|
sarvaṁ hyanurajēddēhaṁ [19] hatvā sañjñāṁ ca mārayēt||74||
tandrā [20] sōtklēśa ānāhō jvaraḥ stambhō visañjñatā|
kuṣṭhāni kaṇḍūḥ pāṇḍutvaṁ śōphārśāṁsyarucistr̥ṣā||75||
jaṭharaṁ grahaṇīdōṣāḥ staimityaṁ vākyanigrahaḥ|
śūlamāmapradōṣāśca jāyantē snēhavibhramāt||76||
tatrāpyullēkhanaṁ śastaṁ svēdaḥ kālapratīkṣaṇam|
prati prati vyādhibalaṁ buddhvā sraṁsanamēva ca||77||
takrāriṣṭaprayōgaśca rūkṣapānānnasēvanam|
mūtrāṇāṁ triphalāyāśca snēhavyāpattibhēṣajam||78||

samprati snēhavyāpadō darśayati- udīrṇētyādi| ōjaḥ sarvadhātusārabhūtaṁ hr̥di sthitaṁ, prakṣārayan sthānādbhraṁśayan kṣapayaṁśca| balītyanēna snēhēndhanō vahnirnitarāṁ balavān bhavatīti darśayati| vacanaṁ hi- “nālaṁ snēhasamr̥ddhasya śamāyānnaṁ sugurvapi” iti| uttamāṁ mahatīṁ mātrām| sōpasargāṁ sōpadravām| kakṣaḥ kāṣṭhasamūhaḥ| chardayēditi prathamaṁ snēhamēva tr̥ṣṇākārakaṁ chardayitvā punaḥ śītōdakaṁ pītvā rūkṣānnaṁ ca bhuktvā ullikhēditi yōjanīyam| na sarpirityādi|- na sarpiḥ sāmē pittē pēyaṁ, kēvalaṁ tvasaṁskr̥taṁ viśēṣatō na pēyaṁ sāmapitta ēvēti yōjanā; ēvaṁ manyatē- saṁskr̥taṁ tiktakādibhiryutaṁ sāmē pittē tiktakādipācanaguṇānuyōgādyōgyaṁ kadācidbhavatyapi [21] , asaṁskr̥taṁ tu sarvathā viruddhamēva; yadivā, kēvalamasaṁskr̥taṁ sarpiḥ pittē sāmānyēna sāmē nirāmē vā na pēyaṁ, sāmē pittē viśēṣata iti yōjanā| ētēna, yatrāpi sāmānyēna ghr̥taṁ vihitaṁ, yathā- “ata ūrdhvaṁ kaphē mandē vātapittōttarē jvarē| paripakvēṣu dōṣēṣu sarpiḥpānaṁ yathā’mr̥tam” (ci.a.3) ityādau, tatrāpyucitabhēṣajasaṁskr̥tamēva bōddhavyam| yadivā, na kēvalaṁ pittē sāmē sarpirviśēṣatō na pēyaṁ, kintarhi tailādīnyapi vātaślēṣmavihitāni tayōḥ sāmayōrna pēyānītyarthaḥ| asmin vyākhyānē’pēyamityakārapraślēṣō draṣṭavyaḥ| anurajēt pittavarṇaṁ kuryāt| sañjñā smr̥tiḥ, taddhananaṁ cēha vyādhiprabhāvāt| staimityam ārdravastrāguṇṭhitatvamiva| āmapradōṣā alasakavisūcikādayaḥ| kālapratīkṣaṇaṁ snēhajanitadōṣakṣayaṁ yāvadabhōjanam| takrasyāriṣṭānāṁ ca cikitsāvakṣyamāṇānāṁ prayōgaḥ| mūtrāṇāṁ triphalāyāśca sēvanamiti sambandhaḥ||70-78||

akālē cāhitaścaiva mātrayā na ca yōjitaḥ|
snēhō mithyōpacārācca vyāpadyētātisēvitaḥ||79||

mithyōpacārāt yathōktavidhyananuṣṭhānāt| atisēvitaḥ kālaprakarṣēṇa sēvitaḥ||79||

snēhāt praskandanaṁ jantustrirātrōparataḥ pibēt|
snēhavaddravamuṣṇaṁ ca tryahaṁ bhuktvā rasaudanam||80||

saṁśōdhanasnēhapānē vr̥ttipracāramāha- snēhādityādi| snēhāt snēhaprayōgāt| trirātrōparataḥ trirātraṁ parityaktasnēhapāna ityarthaḥ| praskandanaṁ virēcanam| snēhōparamatrirātra [22] ēva bhōjanaṁ darśayati- snēhavadityādi| rasapradhānamōdanaṁ rasaudanam||80||

ēkāhōparatastadvadbhuktvā pracchardanaṁ pibēt|81|

vamanē snēhavr̥ttimāha- ēkētyādi| ēkāhōparataḥ snēhāditi yōjanā| tadvaditi snēhavaddravamuṣṇaṁ ca rasaudanaṁ snēhōparamadivasa ēva|81|-

syāttvasaṁśōdhanārthīyē vr̥ttiḥ snēhē viriktavat||81||

saṁśamanavidhimāha- syāttvityādi| asaṁśōdhanārthīyē saṁśamanē| vr̥ttiḥ upacāraḥ| viriktavadityanēnāgatāvēkṣaṇēnōpakalpanīyavakṣyamāṇaṁ “samyagviriktaṁ cainaṁ” (sū. a.15) ityādigranthapratipādanīyamupacāramāha, natu pēyādikramamātram [23] | yadyapi vamanōktā ēva tatrōccairbhāṣyādayō virēcanavr̥ttāvapyatidiṣṭāstathā’pīha vamanavidhi parityajya virēcanavidhyatidēśō dhūmapānapratiṣēdhārthaḥ, virēcanē hi tatra “dhūmapānavarjaṁ” (sū. a.15) iti kr̥taṁ, snēhapānē ca dhūmapānaṁ niṣiddhaṁ mātrāśitīyē- “na madyadugdhē pītvā ca na snēhaṁ” (sū. a.5) ityādinā||81||

snēhadviṣaḥ snēhanityā mr̥dukōṣṭhāśca yē narāḥ|
klēśāsahā madyanityāstēṣāmiṣṭā vicāraṇā||82||
lāvataittiramāyūrahāṁsavārāhakaukkuṭāḥ|
gavyājaurabhramātsyāśca rasāḥ syuḥ snēhanē hitāḥ||83||
yavakōlakulatthāśca snēhāḥ saguḍaśarkarāḥ|
dāḍimaṁ dadhi savyōṣaṁ rasasaṁyōgasaṅgrahaḥ||84||
snēhayanti tilāḥ pūrvaṁ jagdhāḥ sasnēhaphāṇitāḥ|
kr̥śarāśca bahusnēhāstilakāmbalikāstathā||85||
phāṇitaṁ śr̥ṅgavēraṁ ca tailaṁ ca surayā saha|
pibēdrūkṣō bhr̥tairmāṁsairjīrṇē’śnīyācca bhōjanam||86||
tailaṁ surāyā maṇḍēna vasāṁ majjānamēva vā|
piban saphāṇitaṁ kṣīraṁ naraḥ snihyati vātikaḥ||87||
dhārōṣṇaṁ snēhasaṁyuktaṁ pītvā saśarkaraṁ payaḥ|
naraḥ snihyati pītvā vā saraṁ dadhnaḥ saphāṇitam||88||
pāñcaprasr̥tikī pēyā pāyasō māṣamiśrakaḥ|
kṣīrasiddhō bahusnēhaḥ snēhayēdacirānnaram||89||
sarpistailavasāmajjātaṇḍulaprasr̥taiḥ śr̥(kr̥)tā|
pāñcaprasr̥tikī pēyā pēyā snēhanamicchatā||90||
(śaukarō vā rasaḥ snigdhaḥ sarpirlavaṇasaṁyutaḥ |
pītō dvirvāsarē yatnāt snēhayēdacirānnaram ||1||)|

vicāraṇāviṣayamāha- snēhadviṣa ityādinā| lāvādirasānāmuktānāṁ saṁskāramāha- yavētyādi| rasē snēhārthōktarasa ucitaḥ saṁyōgō yēṣāṁ tē rasasaṁyōgāḥ, tēṣāṁ saṅgrahaṇaṁ saṅgrahaḥ| pūrvamiti bhōjanāt pūrvam| tilapradhānaḥ kāmbalikastilakāmbalikaḥ| phāṇitamityādau śr̥ṅgavēramiti śr̥ṅgavērarasam| bhr̥taiḥ bhaṭitrīkr̥taiḥ| pāñcaprasr̥tikī agrē vakṣyamāṇā| māṣamiśrakō māṣataṇḍulakr̥tamannam| pēyā pātavyā||82-90||

grāmyānūpaudakaṁ māṁsaṁ guḍaṁ dadhi payastilān|
kuṣṭhī śōthī pramēhī ca snēhanē na prayōjayēt||91||
snēhairyathārhaṁ tān siddhaiḥ snēhayēdavikāribhiḥ|
pippalībhirharītakyā siddhaistriphalayā’pi vā||92||
drākṣāmalakayūṣābhyāṁ dadhnā cāmlēna sādhayēt|
vyōṣagarbhaṁ bhiṣak snēhaṁ pītvā snihyati taṁ naraḥ||93||
yavakōlakulatthānāṁ rasāḥ kṣāraḥ surā dadhi|
kṣīrasarpiśca tat siddhaṁ snēhanīyaṁ ghr̥tōttamam||94||

yathārhamiti yō yatra snēhō yujyatē sarpirādiḥ| siddhairiti pippalībhistathā harītakyā tathā triphalayā cēti pr̥thagyōjanīyaṁ; pippalyādisiddhasnēhaśca kuṣṭhādiṣu yathāsaṅkhyamiti kēcit| yūṣaśabdaḥ kvāthavacanaḥ| vyōṣagarbhaṁ vyōṣakalkam| atra tribhirdravyairmilitvā cāturguṇyam| yavakōlādau ṣaḍdravyāṇi snēhasamāni| kṣārō yavakṣāraḥ kalkaḥ||91-94||

tailamajjavasāsarpirbadaratriphalārasaiḥ|
yōniśukrapradōṣēṣu sādhayitvā prayōjayēt||95||

tailamajjētyādi|- catuḥsnēhō’kalka ēva, tailamajjavasāsarpirityēkavadbhāvāddvitīyāntaḥ prayōgaḥ||95||

gr̥hṇātyambu [24] yathā vastraṁ prasravatyadhikaṁ yathā|
yathāgni jīryati snēhastathā sravati cādhikaḥ||96||
yathā vā”klēdya mr̥tpiṇḍamāsiktaṁ tvarayā jalam|
sravati sraṁsatē snēhastathā tvaritasēvitaḥ||97||

samprati snēha upayuktō yathā śarīraṁ sasnēhyādhikō dr̥śyatē, tadāha- gr̥hṇātītyādi| tacca śiṣyēṇādhyāyādāvapr̥ṣṭamapi śiṣyahitatayā’bhidhīyatē| yathāgnīti agnyanadhika ityarthaḥ| nanvagnyadhikaścēt sravati, tadavadhi ca snēhalakṣaṇamuktaṁ, yaducyatē- “adhastāt snēhadarśanam” iti, tēnaikadina ēvādhikasnēhapānaṁ kriyatāmityāha- yathā cētyādi|āklēdya īṣatklēdayitvā|tvaritasēvitaḥ snēhō dhātūnasnēhayitvaiva sraṁsatē’dhō yāti yāvān, na tāvatā snēhanaṁ bhavatīti bhāvaḥ||96-97||

lavaṇōpahitāḥ snēhāḥ snēhayantyacirānnaram|
taddhyabhiṣyandyarūkṣaṁ ca sūkṣmamuṣṇaṁ vyavāyi ca||98||

snēhanē sarvasnēhēṣu lavaṇaprayōgamāha-lavaṇōpahitā ityādi| taditi lavaṇam| abhiṣyandi dōṣasaṅghātavicchēdakam| vyavāyi akhiladēhavyāptipūrvakapākagāmi||98||

snēhamagrē prayuñjīta tataḥ svēdamanantaram|
snēhasvēdōpapannasya saṁśōdhanamathētarat [25] ||99||

atō vakṣyamāṇasvēdōpakalpanādhyāyayōḥ sambandhasūcakaṁ svēdādiṣu snēhasya prāgbhāvamāha- snēhamityādi||99||

tatra ślōkaḥ-
snēhāḥ snēhavidhiḥ kr̥tsnavyāpatsiddhiḥ sabhēṣajā|
yathāpraśnaṁ [26] bhagavatā vyāhr̥taṁ cāndrabhāginā||100||

cāndrabhāgī punarvasuḥ||100||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē snēhādhyāyō nāma trayōdaśō’dhyāyaḥ samāptaḥ||13||

iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyavyākhyāyāmāyurvēdadīpikāyāṁ sūtrasthānē kalpanācatuṣkē snēhādhyāyō nāma trayōdaśō’dhyāyaḥ||13||

1. ‘kathayituṁ’ iti pā.|
2. ‘saṁśayaviṣayēṇa viṣayiṇaṁ’ iti pā.|
3. ‘sīḍanīti prasiddhā’ iti pā.|
4. ‘saṁskāragaṇēna svaguṇōpaghātādbhavati’ iti pā.|
5. ‘kalpanāpūrvakabhēdā’ ityarthaḥ|
6. ‘…cukrīkā…’ iti pā.|
7. ‘bhiṣagdiṣṭaḥ’ iti|
8. ‘pravicāraṇāḥ’ iti pā.|
9. ‘ahōrātrēṇaivōcyatē’ iti pā.|
10. ‘saṁśamanī’ iti pā.|
11. ‘sthiratāṁ dr̥ḍhagātratām’ iti pā.|
12. ‘alpatvabhūyastvaprakarṣau’ iti pā.|
13. ‘darśanārthaṁ’ iti pā.|
14. ‘sadanaṁ’ iti pā.|
15. ‘na bhavatyapi’ iti pā.|
16. ‘brahmacārī kṣapāśaya ityanēna maithunadivāsvapnarātrijāgaraṇānāṁ niṣēdhaḥ’ iti śivadāsasēnaḥ|
17. ‘udīrṇāṁśca na dhārayēdityatra cakārādanudīrṇāṁśca nōdīrayēdityarthō jñēyaḥ’ iti śivadāsasēnaḥ|
18. gaṅgādharastu ‘snēhaṁ pītvā narē snēhaṁ pratibhuñjāna ēva ca’ iti paṭhati, ‘snēhaṁ pītvā tvaparaṁ snēhaṁ pratibhuñjānē narē snēhamithyōpacārāddāruṇā gadā jāyantē’ iti vyākhyānayati| yōgīndranāthasēnastu ‘snēhaṁ pītvā naraḥ snēhaṁ pratibhuñjāna ēva ca| uṣṇōdakōpacārī syāt’ ityādi ‘sēvēta śayanāsanam| snēhamithyōpacārāddhi jāyantē dāruṇā gadā’ ityēvaṁ kiñcitpaurvāparyaṁ kr̥tvā paṭhati, ‘pītē hitāhitamāha- snēhaṁ pītvētyādi| snēhaṁ pītvā tathā snēhaṁ pratibhuñjānaḥ tasminnēva dinē snēhaṁ piban snēhaṁ pītavān snēhaṁ pibaṁścētyarthaḥ, nara uṣṇōdakōpacārī syāt’ ityādi vyākhyānayati ca|
19. ‘hyanucarēddēhaṁ’ iti pā.|
20. ‘tantrīrutklēśa’ iti pā.|
21. ‘yōgyaṁ śaṅkyētāpi’ iti pā.|
22. ‘snēhōparatasya trirātra ēva’ iti pā.|
23. ‘viriktavaditi yathā viriktē pēyādikramastathā’sminnapi’ iti yōgīndranāthasēnaḥ|
24. “idānīmupayuktaḥ snēhaḥ śarīraṁ saṁsnēhyādhikaścēdbhavati tadā sravati, anyathātu jīryatyēvētyāha- gr̥hṇātītyādi| yathāgnīti agnyanurūpam| nanu snēhapānaṁ hi snigdhalakṣaṇāvadhi kāryaṁ, tēnaikadina ēva tathā snēhapānaṁ kriyatāṁ yathā śīghramēva snēhalakṣaṇaṁ syādityāha- yathā cētyādi| āklēdya īṣatklēdayitvā, ēvaṁ tvaritasēvitō’pi snēhō dhātūnasnēhayitvaiva sraṁsatē adhō yāti, tathā ca sati samyaksnēhanaṁ na bhavatīti bhāvaḥ” iti śivadāsasēnaḥ|
25. ‘saṁśōdhanamanantaram’ iti pā.|
26. ‘yathānyāyaṁ yathāśāstraṁ snēhasvēdōpapādanairityanvayaḥ, śāstrōktasnēhasvēdavidhibhirityarthaḥ’ iti śivadāsasēnaḥ|