Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
सूत्रस्थानम् - १४. स्वेदाध्यायः
अथातः स्वेदाध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
स्नेहपूर्वकत्वात् स्वेदस्य स्वेदाध्यायोऽभिधीयते| स्वेदप्रतिपादकोऽध्यायः स्वेदाध्यायः||१-२||
अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः|
स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः||३||
स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले|
पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन||४||
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः|
नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्||५||
वातकफात्मका असंसृष्टवातकफजाः, वातकफजत्वेऽप्युदरादयः स्वेदेन न शाम्यन्ति, अत आह- स्वेदसाध्याः; एतेनोदरादयोऽस्वेद्या व्यावर्त्यन्ते| स्नेहपूर्वमिति क्रियाविशेषणम्| न सज्जन्ति अप्रवृत्तानि न भवन्ति यथान्यायं यथागमम्, एतच्च स्नेहस्वेदोपपादनैरित्यनेन सम्बध्यते; यदि वा यथान्यायं यथासहजं नमयन्तीति सम्बन्धः||३-५||
रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च|
द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः||६||
रोगमृतुं व्याधितं च बलवत्त्वादिनाऽपेक्षत इति रोगर्तुव्याधितापेक्षः| नात्युष्णो नातिचण्डतापः| द्रव्यवानिति स्निग्धरूक्षादिद्रव्यवान्| कल्पित इति रोगादीनपेक्ष्य यथोचितेन द्रव्येण देशे चामाशयादौ यथायोग्यतया सम्पादित इति मन्तव्यम्||६||
व्याधौ शीते शरीरे च महान् स्वेदो महाबले|
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः||७||
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते|
स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः||८||
रोगाद्यपेक्षयोक्तकल्पनां दर्शयति- व्याधावित्यादि| व्याधौ महाबले तथा शीते कालकृते महाबले| महानिति चण्डताप एव पुनः पुनः क्रियमाणत्वेन मृदुस्वेदापेक्षयाऽधिकतापत्वेन ज्ञेयः| दुर्बल इति तथा मध्यम इति च व्याध्यादिषु पूर्ववद्योजनीयम्स्नि ग्धरूक्षद्रव्यकृतः स्निग्धरूक्षः, स्निग्धरूक्षद्रव्यादयो वातश्लेष्मादिषु यथासङ्ख्यं मन्तव्याः; एतच्च स्निग्धरूक्षादिकथनं द्रव्यापेक्षकल्पनोदाहरणं; वाते स्निग्धः, कफे रूक्षः||७-८||
आमाशयगते वाते कफे पक्वाशयाश्रिते|
रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च||९||
तं देशविशेषसम्बन्धेन व्यभिचारयन् देशापेक्षां कल्पनामाह- आमाशयेत्यादि आमाशयगते वाते रूक्षपूर्वः स्थानापेक्षया पूर्वं रूक्षं कृत्वा पश्चाद्वातापेक्षः स्निग्धः कार्यः, एवं पक्वाशयगते कफे स्नेहपूर्वो व्याख्येयः; आमाशयशब्देन कफस्थानं ज्ञेयं, कफस्थानापेक्षया हि प्रथमं रूक्षः क्रियते, यदुक्तं- “स्थानं जयेद्धि पूर्वं तु स्थानस्थस्याविरुद्धतः” इति||९||
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा|
मध्यमं वङ्क्षणौ शेषमङ्गावयवमिष्टतः||१०||
मृदु नैव वेति स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः, स्वेदव्यतिरिक्तोपायान्तरसम्भवे तु न वेति बोद्धव्यम्| इष्टत इत्यातुरेच्छातो वैद्येच्छातश्च| इष्टत इति भावादिच्छावचनः||१०||
सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा|
पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी||११||
स्वेदे क्रियमाणे चक्षुषः स्वेदपरिहारोपायमाह- सुशुद्धैरित्यादि| नक्तकः कर्पटावयवः [१] ||११||
मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि|
जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्||१२||
स्वेदे क्रियमाणे हृदयरक्षणार्थमाह- मुक्तावलीभिरित्यादि| जलजानि पङ्कजादीनि| एवमस्वेद्यत्वसामान्यत्वाद्वृषणरक्षाऽप्युन्नेतव्या, प्राधान्याद्धृदयचक्षुःपालनमुक्तम्||१२||
शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे|
सञ्जाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता||१३||
शीतशूलेत्यादि| स्वेद इति स्वेदभवे घर्मे| स्वेदनाद्विरतिर्मतेत्युपदिशन् शीतादिव्युपरमे सति स्वेदो निवर्तनीयः, शीताद्यनुपरमे च स्वेदः कर्तव्य इति द्वयमुपदिशति; ततश्च इत एव स्वेदनिवृत्तिविषयशीतादिव्युपरमोत्पादः स्वेदस्य सम्यग्योगलक्षणं तथा शीतादिव्युपरमानुत्पादश्च स्वेदानिवृत्तिविषयोऽयोगलक्षणमुक्तं भवतीति नायोगलक्षणानभिधानमुद्भावनीयम्||१३||
पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा|
दाहः स्वराङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम्||१४||
उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्वशो विधिः|
सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः||१५||
अतिस्विन्नचिकित्सितमाह- उक्त इत्यादि| ग्रैष्मिको विधिरित्यनेन लब्धे पुनर्मधुरः स्निग्धशीतल इत्यादिवचनं “मद्यमल्पं न वा पेयं” (सू.अ.६) इत्यत्रोपदिष्टमद्यपानस्य प्रतिषेधार्थं, मधुरशीतादियोगविशेषविधानार्थं च||१४-१५||
कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम्|
पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम्||१६||
विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम्|
श्रान्तानां नष्टसञ्ज्ञानां स्थूलानां पित्तमेहिनाम्||१७||
तृष्यतां क्षुधितानां [२] च क्रुद्धानां शोचतामपि|
कामल्युदरिणां चैव क्षतानामाढ्यरोगिणाम्||१८||
दुर्बलातिविशुष्काणामुपक्षीणौजसां तथा|
भिषक् तैमिरिकाणां च न स्वेदमवतारयेत्||१९||
अस्वेद्यानाह- कषायेत्यादि| कषायद्रव्यकृतं मद्यं कषायमद्यं; किंवा कषायशब्दोऽमधुरवचनः, न तेन यदुच्यते कषायनित्यस्य वातप्रधानता स्यात् कषायस्य वातकारित्वात्, वाते च स्वेदो विहित एव, तत् कथं कषायनित्यं प्रति स्वेदनिषेध इति, तन्निरस्तं भवति| किंवा, कषायनित्या रूक्षातिस्तब्धगात्रा भवन्ति, कषायस्य विरूक्षकस्तम्भकत्वेन; ततश्च तेषां स्वेदः पर्वभेदमावहतीत्यतः कषायनित्यनिषेधः| रक्तपित्तिनामविधानादेव स्वेदे निषिद्धे, पुनः स्वेदनिषेधो रक्तपित्तिनां यद्यन्योऽपि स्वेदसाध्यो वातश्लेष्मजो विकारो भवति तत्रापि स्वेदनिषेधार्थं, तथा रक्तपित्तिनां वमनविरेचनाङ्गतया प्राप्तस्वेदप्रतिप्रसवनिषेधार्थं च; एवं पित्तमेहिकामल्यादिष्वपि व्याख्येयम्| पित्तिनामिति पित्तप्रकृतीनाम्| मधुमेहशब्देन सर्व एवं मेहा गृह्यन्ते, मधुमेहशब्दो हि सर्वेष्वेव मेहेषु वर्तत इति कियन्तःशिरसीये दर्शनीयं, मेहेषु च सर्वेष्वेव शरीरशैथिल्यप्रवृत्तेषु विशेषतः शरीरशैथिल्यहेतुत्वेन स्वेदो न युज्यते; पित्तमेहिनामिति तु पुनरभिधानं पित्तसम्बन्धेन विशेषप्रतिषेधतादर्शनार्थम्| ब्रध्नः गुदः| मद्यविकारिणामिति मद्यनित्यस्य वातकफजमदात्यये स्वेदनिषेधार्थम्| आढ्यरोगीह वातरक्ती| एषु चास्वेदविषयेषु यदि स्वेदैकसाध्यः सन्न्यासादिर्भवति तदा महाप्रत्यवायभयादल्पप्रत्यवायमुपेक्ष्यापि स्वेदो विधेय इति न्यायसिद्धमेव; यदाहुर्न्यायविदः- “भूयोविरोधे स्वल्पमन्याय्यम्” इति||१६-१९||
प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे|
कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे||२०||
अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके|
कोष्ठानाहविबन्धेषु मूत्राघाते [३] विजृम्भके||२१||
पार्श्वपृष्ठकटीकुक्षिसङ्ग्रहे गृध्रसीषु च|
मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्दके||२२||
पादजानूरुजङ्घार्तिसङ्ग्रहे श्वयथावपि|
खल्लीष्वामेषु शीते च वेपथौ वातकण्टके||२३||
सङ्कोचायामशूलेषु स्तम्भगौरवसुप्तिषु [४] |
सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते||२४||
प्रतिश्याये चेत्यादिना स्वेद्यान् दर्शयति| विनामकः शरीरविनमनकारी वातः| विजृम्भको बहिरायामः, जृम्भाबहुत्वं वा| पादजानूरुजङ्घाभिरर्तिः सङ्ग्रहश्च पृथक् सम्बध्यते| खल्ली हस्तपदावमोटनम्| वातकण्टको गुल्फाश्रितो वातः| अलाघव इति पूर्वमुक्तेऽपि पुनर्गौरववचनमङ्गानां गुरुतरत्वप्रतिपादनार्थम्, अलाघववचनं तु लाघवप्रतिषेधमात्रप्रयोजनं नातिगुरुत्वं ब्रूते, यतः सर्वत्र नञ् विरुद्धे न वर्तते, यथा “अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्” (सू.अ.२१) इत्यत्र न ह्यरूक्षशब्देन स्निग्धत्वमभिप्रेतं, किं तर्हि रूक्षताप्रतिषेधमात्रमेव||२०-२४||
तिलमाषकुलत्थाम्लघृततैलामिषौदनैः|
पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत्||२५||
गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः|
सिकतापांशुपाषाणकरीषायसपूटकैः||२६||
श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान् समुपाचरेत्|
द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि||२७||
वक्ष्यमाणानां सङ्करादिस्वेदानां द्रव्याण्याह- तिलमाषेत्यादि| पिण्डरूपः स्वेदः पिण्डस्वेदः| करीषः शुष्कगोमयः; आयसः अयोविकारः, स चेह पुटकरणयोग्यो बोद्धव्यः| पूर्वैरिति तिलमाषादिभिः| यथास्वमित्यनेन तिलमाषादयो वाते, गोखरादिग्रन्थोक्ताश्च श्लेष्मणि, प्रस्तरस्वेदे कर्तव्या इति दर्शयति||२५-२७||
भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च|
विधूमाङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम्||२८||
भूगृहेष्विति भूस्वेदार्थेषु गृहेषु| उष्णगर्भगृहेष्विति कुटीस्वेदं दर्शयति| स्वभ्यक्त इति सम्यगभ्यक्तः||२८||
ग्राम्यानूपौदकं मांसं पयो बस्तशिरस्तथा|
वराहमध्यपित्तासृक् [५] स्नेहवत्तिलतण्डुलाः||२९||
इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्|
देशकालविभागज्ञो [६] युक्त्यपेक्षो भिषक्तमः||३०||
वारुणामृतकैरण्डशिग्रुमूलकसर्षपैः|
वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च||३१||
शोभाञ्जनकसैरेयमालतीसुरसार्जकैः [७] |
पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्||३२||
भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना|
मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत्||३३||
बस्तशिरः छागमस्तकम्| स्नेहवन्तश्चैरण्डबीजादयः तिलाश्च तण्डुलाश्च स्नेहवत्तिलतण्डुलाः| ग्राम्येत्यादिना वातापहो नाडीस्वेद उक्तः, वारुणेत्यादिना कफापहः, भूतीकेत्यादिना वातश्लेष्मापहः| वारुणो वरुणः अमृतका गुडूची, सर्षपैरित्यत्र पत्रैरिति सम्बध्यते| वंशो वेणुः| पुनः शोभाञ्जनग्रहणाद्द्वितीयो विटपशोभाञ्जनो गृह्यते, सैरेयः झिण्टी||२९-३३||
एत एव च निर्यूहाः प्रयोज्या जलकोष्ठके|
स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत्||३४||
एत एवेति नाडीस्वेदोक्तास्त्रयोऽपि| जलकोष्ठः अवगाहार्थं कृतं महज्जलपात्रम्; एवं घृतक्षीरतैलकोष्ठाश्च व्याख्याताः||३४||
गोधूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः|
सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते||३५||
गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया|
उमया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत्||३६||
चर्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः|
उष्णवीर्यैरलाभे तु कौशेयाविकशाटकैः||३७||
गोधूमशकलैः गोधूमचूर्णैः| किण्वः सुराबीजम्| उपनाहः बहलं लेपं दत्त्वा चर्मादिभिरावृत्य व्याधियुक्तस्याङ्गस्य बन्धनम्; चर्मभिश्चोपनद्धव्य इत्यत्र उपनाहोऽनग्निस्वेदो [८] ग्राह्यः| गन्धैः सुगन्धिद्रव्यैरुपनाहो बन्धनीयः| उष्णवीर्यैरिति उष्णवीर्यमृगादिप्राणिप्रभवैः [९] | आविकशाटकः कम्बलः||३५-३७||
रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवा कृतम्|
विदाहपरिहारार्थं, स्यात् प्रकर्षस्तु शीतले||३८||
उपनाहस्वेदे बन्धमोक्षावधिं दर्शयति- रात्रौ बद्धमित्यादि| दिवाकृतमित्यत्र ‘बन्धं’ इति शेषः| विदाहः रक्तादिविदाहः| शीतले इत्यत्र “काले” इति शेषः| प्रकर्ष उक्ताद्बन्धनकालादधिककालत्वं बन्धनस्य||३८||
सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम्|
जेन्ताकोऽश्मघनः कर्षूः कुटी भूः कुम्भिकैव च||३९||
कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश|
तान् यथावत् प्रवक्ष्यामि सर्वानेवानुपूर्वशः||४०||
सम्प्रति साग्निस्वेदानां सङ्करादीनां लक्षणमभिधातुं सङ्करादीन् स्वेदान् नामतस्तावदुद्दिशति- सङ्कर इत्यादि| सङ्करादिशब्दाश्चायुर्वेदपरम्परासिद्धाः; तत्र क्वचिन्नाडीस्वेदादौ नाड्या प्रणीयत इत्यन्वयोऽप्यनुसरणीयः, जेन्ताकादयश्चान्वयनिरपेक्षा एव||३९-४०||
तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद इति विद्यात्||४१||
पिण्डैर्यथोक्तैरिति तिलमाषादिपिण्डैस्तथा गोखरादिग्रन्थोक्तपुटकरूपैश्च पिण्डैः; स्वेदनमेवोपस्वेदनम्||४१||
शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदेपञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगात्रस्य शयानस्योपस्वेदनं [१०] प्रस्तरस्वेद इति विद्यात्||४२||
पुलाकः तुच्छधान्यम्| उत्कारिका माषादिकृतोत्काराकृतिव्यञ्जनविशेषः [११] | प्रस्तीर्यत इति प्रस्तरः शयनप्रमाणेन स्वेदवस्तूनां विस्तरणं, तस्मिन् प्रस्तरे| कौशेयाविकोत्तरप्रच्छदे कौशेयाविकपिहित इत्यर्थः| पञ्चाङ्गुल एरण्डभेदः||४२||
स्वेदनद्रव्याणां पुनर्मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्वा विनामितया वातहरसिद्धस्नेहाभ्यक्तगात्रो बाष्पमुपहरेत्; बाष्पो ह्यनृजुगामी [१२] विहतचण्डवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः||४३||
स्वेदनेत्यादिना नाडीस्वेदमाह| स्वेदनद्रव्याणि स्वेदोपगगणोक्तानि इह च नाडीस्वेदक्वाथार्थमुक्तानि| शिरःपदं मस्तकम्| बाष्पमनुद्वमन्त्यामित्यनेन क्वथनकाले बाष्पो यथा न निर्याति तथा कर्तव्यमिति दर्शयति| उत्क्वथितानां बाष्पं स्नेहाक्तगात्रः [१३] सन् नाड्या उपहरेदिति सम्बन्धः| नाडीकरणविधिमाह- शरेषीकेत्यादि| वंशदलो वंशविदलः [१४] | गजाग्रहस्तसंस्थानत्वं नाड्या अग्र एव बोद्धव्यम्| व्यामः तिर्यग्विस्तृतबाहुद्वयप्रमाणं; व्यामदीर्घत्वं नाड्या बहलस्वेदे कर्तव्यम्| व्यामचतुर्थभागेन व्यामाष्टभागेन च मूले अग्रे च यथासङ्ख्यं मानं नाड्या वेदितव्यं; परिणाहेन वेष्टनेन स्रोतो रन्ध्रं यस्याः सा तथा| यथोक्तनाडीकरणे गुणमाह- बाष्पो हीत्यादि| विहतचण्डवेगत्वं नाडीकाया दीर्घत्वेन वक्रत्वेन च बोद्धव्यम्||४३||
वातिकोत्तरवातिकानां पुनर्मूलादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वर्षणिकाः [१५] प्रनाडीर्वा पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः||४४||
परिषेकविधिमाह- वातिकेत्यादि| वातिकानि वातहराणि, उत्तरवातिकानि उत्तरवाते [१६] प्रधानवाते वातश्लेष्मणि हितानीह ग्राह्याणि| वर्षणिका अल्पघटी, ‘सहस्रधारा’ इत्यन्ये; प्रणाडी वेणुनलनाड्याद्याः||४४||
वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः||४५||
यथोक्त एवेति लोकप्रसिद्ध एव| अवगाहः अवगाहस्वेदः||४५||
अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत- तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वाऽरत्नीरुपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाऽभिमुखतीर्थं कूटागारं कारयेत्, उत्सेधविस्तारतः परमरत्नीः षोडश, समन्तात् सुवृत्तं मृत्कर्मसम्पन्नमनेकवातायनम्; अस्य कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेदाकपाटात्, मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत्; तं च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्; स यदा जानीयात् साधु दग्धानि काष्ठानि गतधूमान्यवतप्तं च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति, तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्, प्रवेशयंश्चैनमनुशिष्यात्- सौम्य! प्रविश कल्याणायारोग्याय चेति, प्रविश्य चैनां पिण्डिकामधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः, न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषा विमोक्तव्याऽऽप्राणोच्छ्वासात्, भ्रश्यमानो ह्यतः पिण्डिवकावकाशाद्द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणाञ्जह्याः, तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः; त्वं यदा जानीयाः- विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघूभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति, ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्येथाः, निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः, अपगतसन्तापक्लमस्तु मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयाः; इति जेन्ताकस्वेदः||४६||
जेन्ताकविधिमाह- अथेत्यादि| अथशब्दो मङ्गले आनन्तर्ये वा| पूर्वस्यामुत्तरस्यां वेति ग्रामाद्बाद्धव्यम्| गुणवतीति सस्यप्ररोहादियुक्तत्वेन; प्रशस्तभूमिभागत्वं तुषाङ्गारादिरहितत्वेन| परीवापः दीर्घिका| सुष्ठु उप समीपे तीर्थं यस्य तस्मिन् सूपतीर्थे| अरत्निः हस्तः| प्राङ्मुखमिति पश्चिमे, उदङ्मुखमिति दक्षिणे; एवं ह्यभिमुखं तीर्थं भवति| कूटागारमिति वर्तुलागारम्| आकपाटादित्यनेन द्वारपर्यन्तं लक्षयति| किष्कुः हस्तः| पुरुषप्रमाणमिति ऊर्ध्वतः| कन्दुः कन्द्वाकाराग्निस्थानम्| अङ्गारार्थं कोष्ठोऽवकाशो विद्यते यस्मिन् सोऽङ्गारकोष्ठकः, स एव स्तम्भ इत्यङ्गारकोष्ठकस्तम्भः| खादिराणामिति पूरणे षष्ठी| स इत्यत्र ‘त्वं’ इत्यध्याहार्यं, जानीया इत्यर्थः; किंवा, ‘जानीयात्’ इति पाठः, उत्तरत्रापि ‘प्रवेशयेत्’ इति पाठः; एवं च सुगमम्| पिच्छा स्वेदस्यैव पिच्छिलो भागः| सर्वेषु स्रोतःसु विमुक्तं सर्वस्रोतोविमुक्तम् अपगतविबन्धस्तु अपगतमलविबन्धो बोद्धव्यः| चक्षुषोः परिपालनार्थमिति अत्रोपतप्तस्य [१७] सहसा शीतजलप्रवेशे शीतजलपराहत ऊष्मा नयनोपघातं करोतीत्यभिप्रायः| अत्र च जेन्ताके भूमिविशेषपरिग्रहजलसान्निध्यादयो मङ्गलार्थाः; जलसान्निध्यं तु स्विद्यमानस्य दर्शनेन दृष्टेः परिपालनार्थं च, तथा स्वेदातियोगप्रतिक्रियार्थं कूटागारस्य जलसान्निध्ये सुखेन करणार्थं च||४६||
शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्|
तापयित्वा मारुतघ्नैर्दारुभिः सम्प्रदीपितैः||४७||
व्यपोज्झ्य सर्वानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा|
तां शिलामथ कुर्वीत कौषेयाविकसंस्तराम्||४८||
तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन् स्विद्यति ना सुखम्|
कौरवाजिनकौषेयप्रावाराद्यैः [१८] सुसंवृतः [१९] ||४९||
इत्यक्तोऽश्मघनस्वेदः,…|५०|
कौरवं कार्पासम्||४७-४९||-
…कर्षूस्वेदः प्रवक्ष्यते|
खानयेच्छयनस्याधः कर्षूं स्थानविभागवित्||५०||
दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत्ततः|
तस्यामुपरि शय्यायां स्वपन् स्विद्यति ना सुखम्||५१||
कर्षूः अभ्यन्तरविस्तीर्णः स्वल्पमुखो गर्तः||५०-५१||
अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम्|
घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः सम्प्रलेपयेत्||५२||
कुटीमध्ये भिषक् शय्यां स्वास्तीर्णामुपकल्पयेत्|
प्रावाराजिनकौशेयकुथकम्बलगोलकैः||५३||
हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः|
परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम्||५४||
य एवाश्मघनस्वेदविधिर्भूमौ स एव तु|
प्रशस्तायां निवातायां समायामुपदिश्यते||५५||
अनत्युत्सेधविस्तारामिति स्वल्पप्रमाणोच्छ्रायविस्ताराम्| अलोचनां निर्जालकाम्| कुष्ठाद्यैरिति अत्रादिशब्दः प्रकारवचनः, तेनोष्णसुगन्धिद्रव्यैरिति भवति| हसन्तिका अङ्गारधानि(रि)का, परिवार्येति हसन्तिकाभिरित्यनेन सम्बध्यते| तामिति उपकल्पितशय्यां कुटीम्, आरोहेदिति सम्बन्धः||५२-५५||
कुम्भीं वातहरक्वाथपूर्णां भूमौ निखानयेत्|
अर्धभागं त्रिभागं वा शयनं तत्र चोपरि||५६||
स्थापयेदासनं वाऽपि नातिसान्द्रपरिच्छदम्|
अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेदयसो गुडान्||५७||
पाषाणान् वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम्|
सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः||५८||
शयनं तत्र चोपरीति अत्र कुम्भीकोपरि शयनं खट्टादि तथा कर्तव्यं यथा कुम्भीका न भज्यते| तत्स्थ इति यथोक्तशयनासनस्थः||५६-५८||
कूपं शयनविस्तारं द्विगुणं चापि वेधतः|
देशे निवाते शस्ते च कुर्यादन्तःसुमार्जितम्||५९||
हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते|
स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम्||६०||
कूपमिति कूपमिव कूपं गभीरत्वेन| द्विगुणमिति विस्ताराद्बोद्धव्यम्| वेधत इत्यधःखननप्रमाणेन| सुसंस्तीर्ण इति सुष्ठु संस्तीर्णे आच्छादिते, शय्यया खट्वोपरिस्थितया आच्छादिते कूपे इति बोद्धव्यम्||५९-६०||
धीतीकां [२०] तु करीषाणां यथोक्तानां प्रदीपयेत्|
शयनान्तःप्रमाणेन शय्यामुपरि तत्र च||६१||
सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत्|
स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम्||६२||
होलाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा|
इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः||६३||
धीतीकामित्यादिना होलाकस्वेदः| धीतीका शुष्कगोमयादिकृतोऽग्न्याश्रयविशेषः| यथोक्तानामिति पूर्वोक्तहस्त्यश्वादिभवानाम्| शयनान्तःप्रमाणेन धीतीकां ‘कृत्वा’ इत्यध्याहार्य योज्यम्| यथोक्तामिति नातिसान्द्रपरिच्छदाम्| उपसंहरति- इतीत्यादि| साक्षादग्नेर्गुणमुष्णत्वमाश्रित्य स्वेदयतीत्यग्निगुणसंश्रयः||६१-६३||
व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा|
बहुपानं भयक्रोधावुपनाहाहवातपाः||६४||
स्वेदयन्ति दशैतानि नरमग्निगुणादृते|६५|
सम्प्रत्यनग्निस्वेदानाह- व्यायाम इत्यादि| उष्णसदनमिति अग्निसन्तापव्यतिरेकेण निर्जालकतया घनभित्तितया च यद्गृहं स्वेदयति तद्बोद्धव्यम्| बहुपानमिति बहुमद्यपानम्| उपनाहो द्विविधः- साग्निरनग्निश्च; तत्र यः साग्निरुपनाहः स सङ्कर एव बोद्धव्यः, यदुक्तं- “कोलं कुलत्थाः सुरदारुरास्नाः” (सू.अ.३) इत्यादिनाऽऽरग्वधीये; यस्त्वनग्निर्बहलत्वेन शरीरोष्मरोधं कृत्वा स्वेदयति स इह बोद्धव्यः| आतपश्च यद्यप्युष्णः, तथाऽप्यग्निकृतं तस्योष्णत्वं न भवतीत्यनग्निस्वेद उक्तः| अग्निगुणादृते इति साक्षादग्निसम्बन्धेन कृतादुष्णत्वाद्विना||६४||-
इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च||६५||
एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च|
इत्येतत्त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम्||६६||
सर्वस्वेदमुपसंहरति- इत्युक्त इत्यादि| एकाङ्गगताः सङ्करनाड्यादयः, सर्वाङ्गगताः प्रस्तरजेन्ताकादयः| स्निग्धो वातविहितः स्वेदः| रूक्षः कफविहितः| स्निग्धरूक्षस्तु वातश्लेष्मविहितोऽनयोर्न भिद्यत इति पृथङ्गोक्तः| द्वन्द्वं परस्परं विरुद्धं युग्मम्||६५-६६||
स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत्|
तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः||६७||
स्विन्नेन यथा कर्तव्यं तदाह- स्निग्ध इत्यादि पथ्याशनो भवेदित्यत्र यद्यपि शृङ्गग्राहिकया पथ्यं नोक्तं, तथाऽपि स्वेदप्रवृत्तिविषयदोषस्य यत् पथ्यं तदेव बोद्धव्यम्||६७||
तत्र श्लोकाः-
स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः|
यत्र देशे यथा योग्यो देशो रक्ष्यश्च यो यथा||६८||
स्विन्नातिस्विन्नरूपाणि तथाऽतिस्विन्नभेषजम्|
अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना||६९||
त्रयोदशविधः स्वेदो विना दशविधोऽग्निना|
सङ्ग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः||७०||
स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा [२१] |
शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः||७१||
सङ्ग्रहे स्वेदो यथा कार्यकर इति स्नेहपूर्वं प्रयुक्तेनेत्यादि| येभ्यश्च यद्विध इति वाते स्निग्ध इत्यादि सङ्गृह्णाति| यत्र देशे यथा योग्य इति आमाशयगते वाते रूक्षपूर्व इत्यादि| शेषं सुगमम्||६८-७१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्वेदाध्यायो नाम चतुर्दशोऽध्यायः||१४||
इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने निर्देशचतुष्के स्वेदाध्यायश्चतुर्दशः||१४|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
sūtrasthānam - 13. snēhādhyāyaḥ
athātaḥ svēdādhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
snēhapūrvakatvāt svēdasya svēdādhyāyō’bhidhīyatē| svēdapratipādakō’dhyāyaḥ svēdādhyāyaḥ||1-2||
ataḥ svēdāḥ pravakṣyantē yairyathāvatprayōjitaiḥ|
svēdasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ||3||
snēhapūrvaṁ prayuktēna svēdēnāvajitē’nilē|
purīṣamūtrarētāṁsi na sajjanti kathañcana||4||
śuṣkāṇyapi hi kāṣṭhāni snēhasvēdōpapādanaiḥ|
namayanti yathānyāyaṁ kiṁ punarjīvatō narān||5||
vātakaphātmakā asaṁsr̥ṣṭavātakaphajāḥ, vātakaphajatvē’pyudarādayaḥ svēdēna na śāmyanti, ata āha- svēdasādhyāḥ; ētēnōdarādayō’svēdyā vyāvartyantē| snēhapūrvamiti kriyāviśēṣaṇam| na sajjanti apravr̥ttāni na bhavanti| yathānyāyaṁ yathāgamam, ētacca snēhasvēdōpapādanairityanēna sambadhyatē; yadi vā yathānyāyaṁ yathāsahajaṁ namayantīti sambandhaḥ||3-5||
rōgartuvyādhitāpēkṣō nātyuṣṇō’timr̥durna ca|
dravyavān kalpitō dēśē svēdaḥ kāryakarō mataḥ||6||
rōgamr̥tuṁ vyādhitaṁ ca balavattvādinā’pēkṣata iti rōgartuvyādhitāpēkṣaḥ| nātyuṣṇō nāticaṇḍatāpaḥ| dravyavāniti snigdharūkṣādidravyavān kalpita iti rōgādīnapēkṣya yathōcitēna dravyēṇa dēśē cāmāśayādau yathāyōgyatayā sampādita iti mantavyam||6||
vyādhau śītē śarīrē ca mahān svēdō mahābalē|
durbalē durbalaḥ svēdō madhyamē madhyamō hitaḥ||7||
vātaślēṣmaṇi vātē vā kaphē vā svēda iṣyatē|
snigdharūkṣastathā snigdhō rūkṣaścāpyupakalpitaḥ||8||
rōgādyapēkṣayōktakalpanāṁ darśayati- vyādhāvityādi| vyādhau mahābalē tathā śītē kālakr̥tē mahābalē| mahāniti caṇḍatāpa ēva punaḥ punaḥ kriyamāṇatvēna mr̥dusvēdāpēkṣayā’dhikatāpatvēna jñēyaḥ| durbala iti tathā madhyama iti ca vyādhyādiṣu pūrvavadyōjanīyam| snigdharūkṣadravyakr̥taḥ snigdharūkṣaḥ, snigdharūkṣadravyādayō vātaślēṣmādiṣu yathāsaṅkhyaṁ mantavyāḥ; ētacca snigdharūkṣādikathanaṁ dravyāpēkṣakalpanōdāharaṇaṁ; vātē snigdhaḥ, kaphē rūkṣaḥ||7-8||
āmāśayagatē vātē kaphē pakvāśayāśritē|
rūkṣapūrvō hitaḥ svēdaḥ snēhapūrvastathaiva ca||9||
taṁ dēśaviśēṣasambandhēna vyabhicārayan dēśāpēkṣāṁ kalpanāmāha- āmāśayētyādi āmāśayagatē vātē rūkṣapūrvaḥ sthānāpēkṣayā pūrvaṁ rūkṣaṁ kr̥tvā paścādvātāpēkṣaḥ snigdhaḥ kāryaḥ, ēvaṁ pakvāśayagatē kaphē snēhapūrvō vyākhyēyaḥ; āmāśayaśabdēna kaphasthānaṁ jñēyaṁ, kaphasthānāpēkṣayā hi prathamaṁ rūkṣaḥ kriyatē, yaduktaṁ- “sthānaṁ jayēddhi pūrvaṁ tu sthānasthasyāviruddhataḥ” iti||9||
vr̥ṣaṇau hr̥dayaṁ dr̥ṣṭī svēdayēnmr̥du naiva vā|
madhyamaṁ vaṅkṣaṇau śēṣamaṅgāvayavamiṣṭataḥ||10||
mr̥du naiva vēti svēdaikasādhyē vr̥ṣaṇādigatē vyādhau mr̥dusvēdaḥ, svēdavyatiriktōpāyāntarasambhavē tu na vēti bōddhavyam| iṣṭata ityāturēcchātō vaidyēcchātaśca iṣṭata iti bhāvādicchāvacanaḥ||10||
suśuddhairnaktakaiḥ piṇḍyā gōdhūmānāmathāpi vā|
padmōtpalapalāśairvā svēdyaḥ saṁvr̥tya cakṣuṣī||11||
svēdē kriyamāṇē cakṣuṣaḥ svēdaparihārōpāyamāha- suśuddhairityādi| naktakaḥ karpaṭāvayavaḥ [1] ||11||
muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi|
jalārdrairjalajairhastaiḥ svidyatō hr̥dayaṁ spr̥śēt||12||
svēdē kriyamāṇē hr̥dayarakṣaṇārthamāha- muktāvalībhirityādi| jalajāni paṅkajādīni| ēvamasvēdyatvasāmānyatvādvr̥ṣaṇarakṣā’pyunnētavyā, prādhānyāddhr̥dayacakṣuḥpālanamuktam||12||
śītaśūlavyuparamē stambhagauravanigrahē|
sañjātē mārdavē svēdē svēdanādviratirmatā||13||
śītaśūlētyādi| svēda iti svēdabhavē gharmē| svēdanādviratirmatētyupadiśan śītādivyuparamē sati svēdō nivartanīyaḥ, śītādyanuparamē ca svēdaḥ kartavya iti dvayamupadiśati; tataśca ita ēva svēdanivr̥ttiviṣayaśītādivyuparamōtpādaḥ svēdasya samyagyōgalakṣaṇaṁ tathā śītādivyuparamānutpādaśca svēdānivr̥ttiviṣayō’yōgalakṣaṇamuktaṁ bhavatīti nāyōgalakṣaṇānabhidhānamudbhāvanīyam||13||
pittaprakōpō mūrcchā ca śarīrasadanaṁ tr̥ṣā|
dāhaḥ svarāṅgadaurbalyamatisvinnasya lakṣaṇam||14||
uktastasyāśitīyē yō graiṣmikaḥ sarvaśō vidhiḥ|
sō’tisvinnasya kartavyō madhuraḥ snigdhaśītalaḥ||15||
atisvinnacikitsitamāha- ukta ityādi graiṣmikō vidhirityanēna labdhē punarmadhuraḥ snigdhaśītala ityādivacanaṁ “madyamalpaṁ na vā pēyaṁ” (sū.a.6) ityatrōpadiṣṭamadyapānasya pratiṣēdhārthaṁ, madhuraśītādiyōgaviśēṣavidhānārthaṁ ca||14-15||
kaṣāyamadyanityānāṁ garbhiṇyā raktapittinām|
pittināṁ sātisārāṇāṁ rūkṣāṇāṁ madhumēhinām||16||
vidagdhabhraṣṭabradhnānāṁ viṣamadyavikāriṇām|
śrāntānāṁ naṣṭasañjñānāṁ sthūlānāṁ pittamēhinām||17||
tr̥ṣyatāṁ kṣudhitānāṁ [2] ca kruddhānāṁ śōcatāmapi|
kāmalyudariṇāṁ caiva kṣatānāmāḍhyarōgiṇām||18||
durbalātiviśuṣkāṇāmupakṣīṇaujasāṁ tathā|
bhiṣak taimirikāṇāṁ ca na svēdamavatārayēt||19||
asvēdyānāha- kaṣāyētyādi| kaṣāyadravyakr̥taṁ madyaṁ kaṣāyamadyaṁ; kiṁvā kaṣāyaśabdō’madhuravacanaḥ, na tēna yaducyatē- kaṣāyanityasya vātapradhānatā syāt kaṣāyasya vātakāritvāt, vātē ca svēdō vihita ēva, tat kathaṁ kaṣāyanityaṁ prati svēdaniṣēdha iti, tannirastaṁ bhavati| kiṁvā, kaṣāyanityā rūkṣātistabdhagātrā bhavanti, kaṣāyasya virūkṣakastambhakatvēna; tataśca tēṣāṁ svēdaḥ parvabhēdamāvahatītyataḥ kaṣāyanityaniṣēdhaḥ| raktapittināmavidhānādēva svēdē niṣiddhē, punaḥ svēdaniṣēdhō raktapittināṁ yadyanyō’pi svēdasādhyō vātaślēṣmajō vikārō bhavati tatrāpi svēdaniṣēdhārthaṁ, tathā raktapittināṁ vamanavirēcanāṅgatayā prāptasvēdapratiprasavaniṣēdhārthaṁ ca; ēvaṁ pittamēhikāmalyādiṣvapi vyākhyēyam| pittināmiti pittaprakr̥tīnām| madhumēhaśabdēna sarva ēvaṁ mēhā gr̥hyantē, madhumēhaśabdō hi sarvēṣvēva mēhēṣu vartata iti kiyantaḥśirasīyē darśanīyaṁ, mēhēṣu ca sarvēṣvēva śarīraśaithilyapravr̥ttēṣu viśēṣataḥ śarīraśaithilyahētutvēna svēdō na yujyatē; pittamēhināmiti tu punarabhidhānaṁ pittasambandhēna viśēṣapratiṣēdhatādarśanārtham| bradhnaḥ gudaḥ| madyavikāriṇāmiti madyanityasya vātakaphajamadātyayē svēdaniṣēdhārtham| āḍhyarōgīha vātaraktī| ēṣu cāsvēdaviṣayēṣu yadi svēdaikasādhyaḥ sannyāsādirbhavati tadā mahāpratyavāyabhayādalpapratyavāyamupēkṣyāpi svēdō vidhēya iti nyāyasiddhamēva; yadāhurnyāyavidaḥ- “bhūyōvirōdhē svalpamanyāyyam” iti||16-19||
pratiśyāyē ca kāsē ca hikkāśvāsēṣvalāghavē|
karṇamanyāśiraḥśūlē svarabhēdē galagrahē||20||
arditaikāṅgasarvāṅgapakṣāghātē vināmakē|
kōṣṭhānāhavibandhēṣu mūtrāghātē [3] vijr̥mbhakē||21||
pārśvapr̥ṣṭhakaṭīkukṣisaṅgrahē gr̥dhrasīṣu ca|
mūtrakr̥cchrē mahattvē ca muṣkayōraṅgamardakē||22||
pādajānūrujaṅghārtisaṅgrahē śvayathāvapi|
khallīṣvāmēṣu śītē ca vēpathau vātakaṇṭakē||23||
saṅkōcāyāmaśūlēṣu stambhagauravasuptiṣu [4] |
sarvāṅgēṣu vikārēṣu svēdanaṁ hitamucyatē||24||
pratiśyāyē cētyādinā svēdyān darśayati| vināmakaḥ śarīravinamanakārī vātaḥ| vijr̥mbhakō bahirāyāmaḥ, jr̥mbhābahutvaṁ vā| pādajānūrujaṅghābhirartiḥ saṅgrahaśca pr̥thak sambadhyatē khallī hastapadāvamōṭanam| vātakaṇṭakō gulphāśritō vātaḥ| alāghava iti pūrvamuktē’pi punargauravavacanamaṅgānāṁ gurutaratvapratipādanārtham, alāghavavacanaṁ tu lāghavapratiṣēdhamātraprayōjanaṁ nātigurutvaṁ brūtē, yataḥ sarvatra nañ viruddhē na vartatē, yathā “arūkṣamanabhiṣyandi tvāsīnapracalāyitam” (sū.a.21) ityatra na hyarūkṣaśabdēna snigdhatvamabhiprētaṁ, kiṁ tarhi rūkṣatāpratiṣēdhamātramēva||20-24||
tilamāṣakulatthāmlaghr̥tatailāmiṣaudanaiḥ|
pāyasaiḥ kr̥śarairmāṁsaiḥ piṇḍasvēdaṁ prayōjayēt||25||
gōkharōṣṭravarāhāśvaśakr̥dbhiḥ satuṣairyavaiḥ|
sikatāpāṁśupāṣāṇakarīṣāyasapūṭakaiḥ||26||
ślaiṣmikān svēdayēt pūrvairvātikān samupācarēt|
dravyāṇyētāni śasyantē yathāsvaṁ prastarēṣvapi||27||
vakṣyamāṇānāṁ saṅkarādisvēdānāṁ dravyāṇyāha- tilamāṣētyādi| piṇḍarūpaḥ svēdaḥ piṇḍasvēdaḥ| karīṣaḥ śuṣkagōmayaḥ; āyasaḥ ayōvikāraḥ, sa cēha puṭakaraṇayōgyō bōddhavyaḥ| pūrvairiti tilamāṣādibhiḥ| yathāsvamityanēna tilamāṣādayō vātē, gōkharādigranthōktāśca ślēṣmaṇi, prastarasvēdē kartavyā iti darśayati||25-27||
bhūgr̥hēṣu ca jēntākēṣūṣṇagarbhagr̥hēṣu ca|
vidhūmāṅgārataptēṣu svabhyaktaḥ svidyatē sukham||28||
bhūgr̥hēṣviti bhūsvēdārthēṣu gr̥hēṣu| uṣṇagarbhagr̥hēṣviti kuṭīsvēdaṁ darśayati| svabhyakta iti samyagabhyaktaḥ||28||
grāmyānūpaudakaṁ māṁsaṁ payō bastaśirastathā|
varāhamadhyapittāsr̥k [5] snēhavattilataṇḍulāḥ||29||
ityētāni samutkvāthya nāḍīsvēdaṁ prayōjayēt|
dēśakālavibhāgajñō [6] yuktyapēkṣō bhiṣaktamaḥ||30||
vāruṇāmr̥takairaṇḍaśigrumūlakasarṣapaiḥ|
vāsāvaṁśakarañjārkapatrairaśmantakasya ca||31||
śōbhāñjanakasairēyamālatīsurasārjakaiḥ [7] |
patrairutkvāthya salilaṁ nāḍīsvēdaṁ prayōjayēt||32||
bhūtīkapañcamūlābhyāṁ surayā dadhimastunā|
mūtrairamlaiśca sasnēhairnāḍīsvēdaṁ prayōjayēt||33||
bastaśiraḥ chāgamastakam| snēhavantaścairaṇḍabījādayaḥ tilāśca taṇḍulāśca snēhavattilataṇḍulāḥ| grāmyētyādinā vātāpahō nāḍīsvēda uktaḥ, vāruṇētyādinā kaphāpahaḥ, bhūtīkētyādinā vātaślēṣmāpahaḥ| vāruṇō varuṇaḥ amr̥takā guḍūcī, sarṣapairityatra patrairiti sambadhyatē| vaṁśō vēṇuḥ| punaḥ śōbhāñjanagrahaṇāddvitīyō viṭapaśōbhāñjanō gr̥hyatē, sairēyaḥ jhiṇṭī||29-33||
ēta ēva ca niryūhāḥ prayōjyā jalakōṣṭhakē|
svēdanārthaṁ ghr̥takṣīratailakōṣṭhāṁśca kārayēt||34||
ēta ēvēti nāḍīsvēdōktāstrayō’pi| jalakōṣṭhaḥ avagāhārthaṁ kr̥taṁ mahajjalapātram; ēvaṁ ghr̥takṣīratailakōṣṭhāśca vyākhyātāḥ||34||
gōdhūmaśakalaiścūrṇairyavānāmamlasaṁyutaiḥ|
sasnēhakiṇvalavaṇairupanāhaḥ praśasyatē||35||
gandhaiḥ surāyāḥ kiṇvēna jīvantyā śatapuṣpayā|
umayā kuṣṭhatailābhyāṁ yuktayā cōpanāhayēt||36||
carmabhiścōpanaddhavyaḥ salōmabhirapūtibhiḥ|
uṣṇavīryairalābhē tu kauśēyāvikaśāṭakaiḥ||37||
gōdhūmaśakalaiḥ gōdhūmacūrṇaiḥ| kiṇvaḥ surābījam| upanāhaḥ bahalaṁ lēpaṁ dattvā carmādibhirāvr̥tya vyādhiyuktasyāṅgasya bandhanam; carmabhiścōpanaddhavya ityatra upanāhō’nagnisvēdō [8] grāhyaḥ| gandhaiḥ sugandhidravyairupanāhō bandhanīyaḥ| uṣṇavīryairiti uṣṇavīryamr̥gādiprāṇiprabhavaiḥ [9] | āvikaśāṭakaḥ kambalaḥ||35-37||
rātrau baddhaṁ divā muñcēnmuñcēdrātrau divā kr̥tam|
vidāhaparihārārthaṁ, syāt prakarṣastu śītalē||38||
upanāhasvēdē bandhamōkṣāvadhiṁ darśayati- rātrau baddhamityādi| divākr̥tamityatra ‘bandhaṁ’ iti śēṣaḥ| vidāhaḥ raktādividāhaḥ| śītalē ityatra “kālē” iti śēṣaḥ| prakarṣa uktādbandhanakālādadhikakālatvaṁ bandhanasya||38||
saṅkaraḥ prastarō nāḍī pariṣēkō’vagāhanam|
jēntākō’śmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca||39||
kūpō hōlāka ityētē svēdayanti trayōdaśa|
tān yathāvat pravakṣyāmi sarvānēvānupūrvaśaḥ||40||
samprati sāgnisvēdānāṁ saṅkarādīnāṁ lakṣaṇamabhidhātuṁ saṅkarādīn svēdān nāmatastāvaduddiśati- saṅkara ityādi| saṅkarādiśabdāścāyurvēdaparamparāsiddhāḥ; tatra kvacinnāḍīsvēdādau nāḍyā praṇīyata ityanvayō’pyanusaraṇīyaḥ, jēntākādayaścānvayanirapēkṣā ēva||39-40||
tatra vastrāntaritairavastrāntaritairvā piṇḍairyathōktairupasvēdanaṁ saṅkarasvēda iti vidyāt||41||
piṇḍairyathōktairiti tilamāṣādipiṇḍaistathā gōkharādigranthōktapuṭakarūpaiśca piṇḍaiḥ; svēdanamēvōpasvēdanam||41||
śūkaśamīdhānyapulākānāṁ vēśavārapāyasakr̥śarōtkārikādīnāṁ vā prastarē kauśēyāvikōttarapracchadēpañcāṅgulōrubūkārkapatrapracchadē vā svabhyaktasarvagātrasya śayānasyōpasvēdanaṁ [10] prastarasvēda iti vidyāt||42||
pulākaḥ tucchadhānyam| utkārikā māṣādikr̥tōtkārākr̥tivyañjanaviśēṣaḥ [11] | prastīryata iti prastaraḥ śayanapramāṇēna svēdavastūnāṁ vistaraṇaṁ, tasmin prastarē| kauśēyāvikōttarapracchadē kauśēyāvikapihita ityarthaḥ| pañcāṅgula ēraṇḍabhēdaḥ||42||
svēdanadravyāṇāṁ punarmūlaphalapatraśuṅgādīnāṁ mr̥gaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṁ vā yathārhamamlalavaṇasnēhōpasaṁhitānāṁ mūtrakṣīrādīnāṁ vā kumbhyāṁ bāṣpamanudvamantyāmutkvathitānāṁ nāḍyā śarēṣīkāvaṁśadalakarañjārkapatrānyatamakr̥tayā gajāgrahastasaṁsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrōtasā sarvatō vātaharapatrasaṁvr̥tacchidrayā dvistrirvā vināmitayā vātaharasiddhasnēhābhyaktagātrō bāṣpamupaharēt; bāṣpō hyanr̥jugāmī [12] vihatacaṇḍavēgastvacamavidahan sukhaṁ svēdayatīti nāḍīsvēdaḥ||43||
svēdanētyādinā nāḍīsvēdamāha| svēdanadravyāṇi svēdōpagagaṇōktāni iha ca nāḍīsvēdakvāthārthamuktāni| śiraḥpadaṁ mastakam| bāṣpamanudvamantyāmityanēna kvathanakālē bāṣpō yathā na niryāti tathā kartavyamiti darśayati| utkvathitānāṁ bāṣpaṁ snēhāktagātraḥ [13] san nāḍyā upaharēditi sambandhaḥ| nāḍīkaraṇavidhimāha- śarēṣīkētyādi| vaṁśadalō vaṁśavidalaḥ [14] | gajāgrahastasaṁsthānatvaṁ nāḍyā agra ēva bōddhavyam| vyāmaḥ tiryagvistr̥tabāhudvayapramāṇaṁ; vyāmadīrghatvaṁ nāḍyā bahalasvēdē kartavyam| vyāmacaturthabhāgēna vyāmāṣṭabhāgēna ca mūlē agrē ca yathāsaṅkhyaṁ mānaṁ nāḍyā vēditavyaṁ; pariṇāhēna vēṣṭanēna srōtō randhraṁ yasyāḥ sā tathā| yathōktanāḍīkaraṇē guṇamāha- bāṣpō hītyādi| vihatacaṇḍavēgatvaṁ nāḍīkāyā dīrghatvēna vakratvēna ca bōddhavyam||43||
vātikōttaravātikānāṁ punarmūlādīnāmutkvāthaiḥ sukhōṣṇaiḥ kumbhīrvarṣaṇikāḥ [15] pranāḍīrvā pūrayitvā yathārhasiddhasnēhābhyaktagātraṁ vastrāvacchannaṁ pariṣēcayēditi pariṣēkaḥ||44||
pariṣēkavidhimāha- vātikētyādi| vātikāni vātaharāṇi, uttaravātikāni uttaravātē [16] pradhānavātē vātaślēṣmaṇi hitānīha grāhyāṇi| varṣaṇikā alpaghaṭī, ‘sahasradhārā’ ityanyē; praṇāḍī vēṇunalanāḍyādyāḥ||44||
vātaharōtkvāthakṣīratailaghr̥tapiśitarasōṣṇasalilakōṣṭhakāvagāhastu yathōkta ēvāvagāhaḥ||45||
yathōkta ēvēti lōkaprasiddha ēva| avagāhaḥ avagāhasvēdaḥ||45||
atha jēntākaṁ cikīrṣurbhūmiṁ parīkṣēta- tatra pūrvasyāṁ diśyuttarasyāṁ vā guṇavati praśastē bhūmibhāgē kr̥ṣṇamadhuramr̥ttikē suvarṇamr̥ttikē vā parīvāpapuṣkariṇyādīnāṁ jalāśayānāmanyatamasya kūlē dakṣiṇē paścimē vā sūpatīrthē samasuvibhaktabhūmibhāgē saptāṣṭau vā’ratnīrupakramyōdakāt prāṅmukhamudaṅmukhaṁ vā’bhimukhatīrthaṁ kūṭāgāraṁ kārayēt, utsēdhavistārataḥ paramaratnīḥ ṣōḍaśa, samantāt suvr̥ttaṁ mr̥tkarmasampannamanēkavātāyanam; asya kūṭāgārasyāntaḥ samantatō bhittimaratnivistārōtsēdhāṁ piṇḍikāṁ kārayēdākapāṭāt, madhyē cāsya kūṭāgārasya catuṣkiṣkumātraṁ puruṣapramāṇaṁ mr̥nmayaṁ kandusaṁsthānaṁ bahusūkṣmacchidramaṅgārakōṣṭhakastambhaṁ sapidhānaṁ kārayēt; taṁ ca khādirāṇāmāśvakarṇādīnāṁ vā kāṣṭhānāṁ pūrayitvā pradīpayēt; sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṁ ca kēvalamagninā tadagnigr̥haṁ svēdayōgyēna cōṣmaṇā yuktamiti, tatrainaṁ puruṣaṁ vātaharābhyaktagātraṁ vastrāvacchannaṁ pravēśayēt, pravēśayaṁścainamanuśiṣyāt- saumya! praviśa kalyāṇāyārōgyāya cēti, praviśya caināṁ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṁ yathāsukhaṁ śayīthāḥ, na ca tvayā svēdamūrcchāparītēnāpi satā piṇḍikaiṣā vimōktavyā”prāṇōcchvāsāt, bhraśyamānō hyataḥ piṇḍivakāvakāśāddvāramanadhigacchan svēdamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ, tasmāt piṇḍikāmēnāṁ na kathañcana muñcēthāḥ; tvaṁ yadā jānīyāḥ- vigatābhiṣyandamātmānaṁ samyakprasrutasvēdapicchaṁ sarvasrōtōvimuktaṁ laghūbhūtamapagatavibandhastambhasuptivēdanāgauravamiti, tatastāṁ piṇḍikāmanusaran dvāraṁ prapadyēthāḥ, niṣkramya ca na sahasā cakṣuṣōḥ paripālanārthaṁ śītōdakamupaspr̥śēthāḥ, apagatasantāpaklamastu muhūrtāt sukhōṣṇēna vāriṇā yathānyāyaṁ pariṣiktō’śnīyāḥ; iti jēntākasvēdaḥ||46||
jēntākavidhimāha- athētyādi| athaśabdō maṅgalē ānantaryē vā| pūrvasyāmuttarasyāṁ vēti grāmādbāddhavyam| guṇavatīti sasyaprarōhādiyuktatvēna; praśastabhūmibhāgatvaṁ tuṣāṅgārādirahitatvēna| parīvāpaḥ dīrghikā| suṣṭhu upa samīpē tīrthaṁ yasya tasmin sūpatīrthē| aratniḥ hastaḥ| prāṅmukhamiti paścimē, udaṅmukhamiti dakṣiṇē; ēvaṁ hyabhimukhaṁ tīrthaṁ bhavati| kūṭāgāramiti vartulāgāram| ākapāṭādityanēna dvāraparyantaṁ lakṣayati| kiṣkuḥ hastaḥ| puruṣapramāṇamiti ūrdhvataḥ| kanduḥ kandvākārāgnisthānam| aṅgārārthaṁ kōṣṭhō’vakāśō vidyatē yasmin sō’ṅgārakōṣṭhakaḥ, sa ēva stambha ityaṅgārakōṣṭhakastambhaḥ| khādirāṇāmiti pūraṇē ṣaṣṭhī| sa ityatra ‘tvaṁ’ ityadhyāhāryaṁ, jānīyā ityarthaḥ; kiṁvā, ‘jānīyāt’ iti pāṭhaḥ, uttaratrāpi ‘pravēśayēt’ iti pāṭhaḥ; ēvaṁ ca sugamam| picchā svēdasyaiva picchilō bhāgaḥ| sarvēṣu srōtaḥsu vimuktaṁ sarvasrōtōvimuktam apagatavibandhastu apagatamalavibandhō bōddhavyaḥ| cakṣuṣōḥ paripālanārthamiti atrōpataptasya [17] sahasā śītajalapravēśē śītajalaparāhata ūṣmā nayanōpaghātaṁ karōtītyabhiprāyaḥ| atra ca jēntākē bhūmiviśēṣaparigrahajalasānnidhyādayō maṅgalārthāḥ; jalasānnidhyaṁ tu svidyamānasya darśanēna dr̥ṣṭēḥ paripālanārthaṁ ca, tathā svēdātiyōgapratikriyārthaṁ kūṭāgārasya jalasānnidhyē sukhēna karaṇārthaṁ ca||46||
śayānasya pramāṇēna ghanāmaśmamayīṁ śilām|
tāpayitvā mārutaghnairdārubhiḥ sampradīpitaiḥ||47||
vyapōjjhya sarvānaṅgārān prōkṣya caivōṣṇavāriṇā|
tāṁ śilāmatha kurvīta kauṣēyāvikasaṁstarām||48||
tasyāṁ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham|
kauravājinakauṣēyaprāvārādyaiḥ [18] susaṁvr̥taḥ [19] ||49||
ityaktō’śmaghanasvēdaḥ,…|50|
kauravaṁ kārpāsam||47-49||-
…karṣūsvēdaḥ pravakṣyatē|
khānayēcchayanasyādhaḥ karṣūṁ sthānavibhāgavit||50||
dīptairadhūmairaṅgāraistāṁ karṣūṁ pūrayēttataḥ|
tasyāmupari śayyāyāṁ svapan svidyati nā sukham||51||
karṣūḥ abhyantaravistīrṇaḥ svalpamukhō gartaḥ||50-51||
anatyutsēdhavistārāṁ vr̥ttākārāmalōcanām|
ghanabhittiṁ kuṭīṁ kr̥tvā kuṣṭhādyaiḥ sampralēpayēt||52||
kuṭīmadhyē bhiṣak śayyāṁ svāstīrṇāmupakalpayēt|
prāvārājinakauśēyakuthakambalagōlakaiḥ||53||
hasantikābhiraṅgārapūrṇābhistāṁ ca sarvaśaḥ|
parivāryāntarārōhēdabhyaktaḥ svidyatē sukham||54||
ya ēvāśmaghanasvēdavidhirbhūmau sa ēva tu|
praśastāyāṁ nivātāyāṁ samāyāmupadiśyatē||55||
anatyutsēdhavistārāmiti svalpapramāṇōcchrāyavistārām| alōcanāṁ nirjālakām| kuṣṭhādyairiti atrādiśabdaḥ prakāravacanaḥ, tēnōṣṇasugandhidravyairiti bhavati| hasantikā aṅgāradhāni(ri)kā, parivāryēti hasantikābhirityanēna sambadhyatē| tāmiti upakalpitaśayyāṁ kuṭīm, ārōhēditi sambandhaḥ||52-55||
kumbhīṁ vātaharakvāthapūrṇāṁ bhūmau nikhānayēt|
ardhabhāgaṁ tribhāgaṁ vā śayanaṁ tatra cōpari||56||
sthāpayēdāsanaṁ vā’pi nātisāndraparicchadam|
atha kumbhyāṁ susantaptān prakṣipēdayasō guḍān||57||
pāṣāṇān vōṣmaṇā tēna tatsthaḥ svidyati nā sukham|
susaṁvr̥tāṅgaḥ svabhyaktaḥ snēhairanilanāśanaiḥ||58||
śayanaṁ tatra cōparīti atra kumbhīkōpari śayanaṁ khaṭṭādi tathā kartavyaṁ yathā kumbhīkā na bhajyatē| tatstha iti yathōktaśayanāsanasthaḥ||56-58||
kūpaṁ śayanavistāraṁ dviguṇaṁ cāpi vēdhataḥ|
dēśē nivātē śastē ca kuryādantaḥsumārjitam||59||
hastyaśvagōkharōṣṭrāṇāṁ karīṣairdagdhapūritē|
svavacchannaḥ susaṁstīrṇē’bhyaktaḥ svidyati nā sukham||60||
kūpamiti kūpamiva kūpaṁ gabhīratvēna| dviguṇamiti vistārādbōddhavyam| vēdhata ityadhaḥkhananapramāṇēna| susaṁstīrṇa iti suṣṭhu saṁstīrṇē ācchāditē, śayyayā khaṭvōparisthitayā ācchāditē kūpē iti bōddhavyam||59-60||
dhītīkāṁ [20] tu karīṣāṇāṁ yathōktānāṁ pradīpayēt|
śayanāntaḥpramāṇēna śayyāmupari tatra ca||61||
sudagdhāyāṁ vidhūmāyāṁ yathōktāmupakalpayēt|
svavacchannaḥ svapaṁstatrābhyaktaḥ svidyati nā sukham||62||
hōlākasvēda ityēṣa sukhaḥ prōktō maharṣiṇā|
iti trayōdaśavidhaḥ svēdō’gniguṇasaṁśrayaḥ||63||
dhītīkāmityādinā hōlākasvēdaḥ| dhītīkā śuṣkagōmayādikr̥tō’gnyāśrayaviśēṣaḥ| yathōktānāmiti pūrvōktahastyaśvādibhavānām| śayanāntaḥpramāṇēna dhītīkāṁ ‘kr̥tvā’ ityadhyāhārya yōjyam| yathōktāmiti nātisāndraparicchadām| upasaṁharati- itītyādi| sākṣādagnērguṇamuṣṇatvamāśritya svēdayatītyagniguṇasaṁśrayaḥ||61-63||
vyāyāma uṣṇasadanaṁ guruprāvaraṇaṁ kṣudhā|
bahupānaṁ bhayakrōdhāvupanāhāhavātapāḥ||64||
svēdayanti daśaitāni naramagniguṇādr̥tē|65|
sampratyanagnisvēdānāha- vyāyāma ityādi| uṣṇasadanamiti agnisantāpavyatirēkēṇa nirjālakatayā ghanabhittitayā ca yadgr̥haṁ svēdayati tadbōddhavyam bahupānamiti bahumadyapānam| upanāhō dvividhaḥ- sāgniranagniśca; tatra yaḥ sāgnirupanāhaḥ sa saṅkara ēva bōddhavyaḥ, yaduktaṁ- “kōlaṁ kulatthāḥ suradārurāsnāḥ” (sū.a.3) ityādinā”ragvadhīyē; yastvanagnirbahalatvēna śarīrōṣmarōdhaṁ kr̥tvā svēdayati sa iha bōddhavyaḥ| ātapaśca yadyapyuṣṇaḥ, tathā’pyagnikr̥taṁ tasyōṣṇatvaṁ na bhavatītyanagnisvēda uktaḥ| agniguṇādr̥tē iti sākṣādagnisambandhēna kr̥tāduṣṇatvādvinā||64||-
ityuktō dvividhaḥ svēdaḥ saṁyuktō’gniguṇairna ca||65||
ēkāṅgasarvāṅgagataḥ snigdhō rūkṣastathaiva ca|
ityētattrividhaṁ dvandvaṁ svēdamuddiśya kīrtitam||66||
sarvasvēdamupasaṁharati- ityukta ityādi| ēkāṅgagatāḥ saṅkaranāḍyādayaḥ, sarvāṅgagatāḥ prastarajēntākādayaḥ| snigdhō vātavihitaḥ svēdaḥ| rūkṣaḥ kaphavihitaḥ| snigdharūkṣastu vātaślēṣmavihitō’nayōrna bhidyata iti pr̥thaṅgōktaḥ| dvandvaṁ parasparaṁ viruddhaṁ yugmam||65-66||
snigdhaḥ svēdairupakramyaḥ svinnaḥ pathyāśanō bhavēt|
tadahaḥ svinnagātrastu vyāyāmaṁ varjayēnnaraḥ||67||
svinnēna yathā kartavyaṁ tadāha- snigdha ityādi pathyāśanō bhavēdityatra yadyapi śr̥ṅgagrāhikayā pathyaṁ nōktaṁ, tathā’pi svēdapravr̥ttiviṣayadōṣasya yat pathyaṁ tadēva bōddhavyam||67||
tatra ślōkāḥ-
svēdō yathā kāryakarō hitō yēbhyaśca yadvidhaḥ|
yatra dēśē yathā yōgyō dēśō rakṣyaśca yō yathā||68||
svinnātisvinnarūpāṇi tathā’tisvinnabhēṣajam|
asvēdyāḥ svēdayōgyāśca svēdadravyāṇi kalpanā||69||
trayōdaśavidhaḥ svēdō vinā daśavidhō’gninā|
saṅgrahēṇa ca ṣaṭ svēdāḥ svēdādhyāyē nidarśitāḥ||70||
svēdādhikārē yadvācyamuktamētanmaharṣiṇā [21] |
śiṣyaistu pratipattavyamupadēṣṭā punarvasuḥ||71||
saṅgrahē svēdō yathā kāryakara iti snēhapūrvaṁ prayuktēnētyādi| yēbhyaśca yadvidha iti vātē snigdha ityādi saṅgr̥hṇāti| yatra dēśē yathā yōgya iti āmāśayagatē vātē rūkṣapūrva ityādi| śēṣaṁ sugamam||68-71||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē svēdādhyāyō nāma caturdaśō’dhyāyaḥ||14||
iti śrīcakrapāṇidattakr̥tāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikākhyāyāṁ sūtrasthānē nirdēśacatuṣkē svēdādhyāyaścaturdaśaḥ||14||
1. ‘karpaṭāvayavaḥ paṭāvayavaḥ’ iti pāṭhaḥ|
2. ‘kṣutparītānāṁ’ iti pā.|
3. ‘śukrāghātē’ iti pā.|
4. ‘stambhasya gauravaṁ bahutvamatistabdhatētyarthaḥ| na tu gauravamityarthaḥ, alāghavē iti pūrvamuktatvāt’ iti śivadāsasēnaḥ|
5. ‘varāhamēdaḥ’ iti pā.|
6. ‘dēśakālavikārajñaḥ iti, dēśakālavicārajñaḥ’ iti ca pā.
7. ‘… śairīṣa…’ iti pā.|
8. ‘ayaṁ cānagnirasvēdō’tibahalatvēna śarīrōṣmarōdhaṁ kr̥tvā svēdayati’ iti śivadāsasēnaḥ|
9. ‘ānūpaprāṇibhavāni carmāṇi prāyēṇōṣṇavīryāṇi bhavanti’ iti śivadāsasēnaḥ|
10. ‘śayānasyōpari svēdanaṁ’ iti pā.|
11. ‘māṁsādikr̥ta … ’ iti pā.|
12. ‘hyanūrdhvagāmī’ iti pā.|
13. ‘snēhāktagātrasya’ iti pā.|
14. ‘vaṁśapatraṁ’ iti pā.|
15. ‘vārṣulikāḥ iti, varṣulikā’ iti ca pā.|
16. ‘uttaraḥ pradhānō vātō yatra īdr̥śō yō vātakaphasaṁsargastatra hitāni’ iti śivadāsasēnaḥ|
17. ‘atrōṣṇataptasya’ iti pā.|
18. ‘rauravājina…’ iti pā.|
19. ‘sukhaṁ vr̥taḥ’ iti pā.|
20. ‘dhautikāṁ’ iti pā.|
21. ‘yadvācyamuktamiti svēdādhyāyē yadvācyaṁ yō’rtha uktaḥ, tacchiṣyaiḥ| pratipattavyaṁ, yataḥ punarvasurupadēṣṭā’ iti śivadāsasēnaḥ|