Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
सूत्रस्थानम् - १८. त्रिशोथीयोऽध्यायः
अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्याये पिडका उक्ताः, ताश्च शोथरूपाः, अतः शोथाधिकारात् त्रिशोथीयोऽभिधीयते||१-२||
त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन||३||
वक्ष्यमाणद्विविधादिभेदे विद्यमानेऽपि वातादिकृतत्रित्वाभिधानमग्रे वातादिकृतस्यैव प्राधान्यख्यापनार्थम्||३||
तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते||४||
भेदनम् आशयविदारणं, क्षणनम् अस्थिचूर्णनं, भञ्जनं जर्जरीकरणं, पिच्छ्नम् अत्यर्थपीडनम्, उत्पेषणं शिलोत्पेषणमिव, वेष्टनम् अग्रन्थिबन्धनं सर्पादिभिः| शूकवतां क्रिमीणां शूकः शूकक्रिमिशूकः| स्वेदनादिभिर्विषिणामिति योज्यम्||४||
ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः; बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते||५||
आदावुपलभ्यन्त इति वचनादुत्तरकालमागन्तोरपि निजतुल्यतां ब्रूते| यदुक्तम्- “आगन्तुरन्वेति निजं विकारं” (सू.अ.१९) इति| निजव्यञ्जनैकदेशविपरीतैरिति निजलक्षणेभ्य आगन्तूनामेकदेशो विपरीतो भवति, स च वातादिजन्यश्यावादिवर्णविकारत्वाज्ज्ञेयः; किंवा आगन्तुर्व्यथापूर्वो भवति पश्चाद्वातादिभिरनुबध्यते, निजस्तु पूर्वं वातादिलक्षणैर्युज्यते पश्चाद्वेदनावान् भवतीत्येकदेशवैपरीत्यम्| बन्धः अरिष्टाबन्धो व्रणबन्धश्च| बन्धादयश्च यथायोग्यतया बोद्धव्याः||५||
निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वा छर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वा छर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधान्यानूपौदक- पिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसम्पीडनादामगर्भप्रपतनात् प्रजातानां च मिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः||६||
छर्द्यादयः स्वरूपत एव शोथहेतवः| कर्माद्यतिकर्शितस्य तु सहसाऽतिगुर्वादिसेवनं शोथहेतुः; कर्मेति पञ्चकर्म| विरूढनवशब्दौ शूकशमीधान्यविशेषणौ| प्रजातानामिति अचिरप्रसूतानाम्||६||
अयं त्वत्र विशेषः- शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः [१] प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोफं जनयति; स क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णो वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते सङ्कुच्यत आयम्यत इवेति वातशोथः (१);
उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्मांसशोणितान्यभिभूय शोथं जनयति; स क्षिप्रोत्थानप्रशमो भवति, कृष्णपीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा [२] उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत [३] इति पित्तशोथः (२);
गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च श्लेष्मा प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति; स कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथः (३);
यथास्वकारणाकृतिसंसर्गाद्द्विदोषजास्त्रयः शोथा भवन्ति; यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एकः; एवं [४] सप्तविधो भेदः||७||
प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो [५] द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च शोथ उपलभ्यते, पुनश्चैक [६] एवोत्सेधसामान्यात्||८||
क्षपणं वमनादिभिः| प्रकृतिवर्णः देहसमानवर्णः| चलः सङ्क्रमणवान्| स्पन्दनः कम्पनः| उष्यते पार्श्वस्थेनेव वह्निना दह्यते| धूप्यते धूममिवोद्वमति| ऊष्मायते [७] बहिः परैरप्युष्णत्वेनोपलभ्यते| स्विद्यते स्वेदवान् भवति| न सुषूयते न सहते; स्पर्शनं च न सहते, उष्णं च न सहते| स कृच्छ्रोत्थानप्रशम इति चिरोत्थानप्रशमः| प्रकृतिभिरिति कारणैः| उत्सेध उन्नतत्वम्||७-८||
भवन्ति चात्र-
शूयन्ते यस्य गात्राणि स्वपन्तीव [८] रुजन्ति च|
पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्||९||
यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति|
स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः||१०||
यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते|
स्विद्यति क्लिद्यते गन्धी स पैत्तः स्वयथुः स्मृतः||११||
यः पीतनेत्रवक्त्रत्वक् [९] पूर्वं मध्यात् प्रशूयते|
तनुत्वक् चातिसारी च पित्तशोथः स उच्यते||१२||
शीतः [१०] सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव च|
निपीडितो नोन्नमति [११] श्वयथुः स कफात्मकः||१३||
यस्य शस्त्रकुशच्छिन्नाच्छोणितं [१२] न प्रवर्तते|
कृच्छ्रेण पिच्छा स्रवति स चापि कफसम्भवः||१४||
निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः|
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः||१५||
शूयन्त इत्यादि| पुनः श्लोकेन लक्षणाभिधानं प्रायोभाविलक्षणदर्शनार्थम्| स्वपन्तीवेति निर्वेदनः| एतेन [१३] वायोश्चलत्वेन क्षणाच्च रुक्, क्षणाच्च तदभाव इति ज्ञेयम्| मध्यादिति शरीरमध्यात्| सक्तगतिः अविसारी| शस्त्रकुशच्छिन्नादिति शस्त्रकुशकृताच्छेदात्||९-१५||
यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्|
जन्तोः स च सुकष्टः स्यात् प्रसृतः स्त्रीमुखाच्च यः||१६||
यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा|
स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः||१७||
पादाभिनिर्वृत्तः शोथः पुरुषाणां लघावधोदेशे जातः सन् यदा न जीयते तदा गुरुमूर्ध्वदेशं गतः स न पार्यते जेतुं, यो हि लघौ प्रदेशे जेतुं न पार्यते स गुरुप्रदेशगतो नितरामेव न पार्यते; एवं प्रसृतः स्त्रीमुखाच्च य इत्यपि ज्ञेयम्| वचनं हि- “अधोभागो गुरुः स्त्रीणामूर्ध्वः पुंसां गुरुस्तथा” (सु.सू.अ.४६) इति||१६-१७||
छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च|
सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसङ्ग्रहः||१८||
उक्तानुपद्रवानाह- छर्दिरित्यादि||१८||
यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते|
आशु सञ्जनयेच्छोथं [१४] जायतेऽस्योपजिह्विका||१९||
यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते|
आशु सञ्जनयेच्छोफं [१५] करोति गलशुण्डिकाम्||२०||
यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते|
शनैः सञ्जनयेच्छोफं [१६] गलगण्डोऽस्य जायते||२१||
यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः|
आशु सञ्जनयेच्छोफं [१७] जायतेऽस्य गलग्रहः||२२||
यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति|
शोफं सरागं जनयेद्विसर्पस्तस्य [१८] जायते||२३||
यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते|
शोथं सरागं जनयेत् [१९] पिडका तस्य जायते||२४||
यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति|
तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते||२५||
यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते|
श्वयथुः शङ्खको नाम दारुणस्तस्य जायते||२६||
यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते|
ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते||२७||
वातः प्लीहानमुद्धूय कुपितो यस्य तिष्ठति|
शनैः परितुदन् [२०] पार्श्वं प्लीहा तस्याभिवर्धते||२८||
यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते|
शोफं सशूलं जनयन् गुल्मस्तस्योपजायते||२९||
यस्य वायुः प्रकुपितः शोफशूलकरश्चरन्|
वङ्क्षणाद्वृषणौ याति वृद्धिस्तस्योपजायते||३०||
यस्य वातः प्रकुपितस्त्वङ्मांसान्तरमाश्रितः|
शोथं सञ्जनयेत् कुक्षावुदरं तस्य जायते||३१||
यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति|
नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते||३२||
रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः|
विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसङ्ग्रहे||३३||
वातपित्तकफा यस्य युगपत् कुपितास्त्रयः|
जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः||३४||
जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः|
तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत्||३५||
त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्|
कुशलेन त्वनुक्रान्तः [२१] क्षिप्रं सम्पद्यते सुखी||३६||
सम्प्रत्युत्सेधसामान्यात् प्रादेशिकाञ्छोथानाह- यस्येत्यादि| काकलं तालुमूलम्| शनैरितिवचनेन गलगण्डकारिणो दोषाश्चिरक्रिया भवन्तीति दर्शयति; गलग्रहादौ चाशुकारिणो दोषा भवन्ति| विसर्पस्य पिडकायाश्च तुल्यकारणत्वेऽपि विसर्पे सर्पणशीलो दोषः, पिडकायां च स्थिरो ज्ञेयः; अत एव पिडकासम्प्राप्तौ ‘अवतिष्ठते’ इत्युक्तम्| यस्य पित्तमित्यादौ पित्तं प्राप्य शोणितं कर्तृ शुष्यतीति योजनीयम्| पिप्लवः ‘जटुला’ इति प्रसिद्धः| दारुणः अनुपक्रमादाशुमारकः| दुर्जयोऽन्तायेति दुर्जयो वा यथाक्रममुपक्रम्यमाणः [२२] , अन्ताय वा मिथ्योपक्रमाद्वेति मन्तव्यम्| अयमेव शोथोऽन्यत्राप्युक्तः- “सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणाः| शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते” इति| गुल्मादयो विस्तरवक्तव्या अपि इहोत्सेधसामान्याल्लेशत उच्यन्ते| शोथसङ्ग्रह इति शोथत्वेनोत्सेधरूपेण सङ्ग्रहः शोथसङ्ग्रहः|| समुच्छ्रिता अतिरिक्तप्रमाणाः| भृशम् अत्यर्थदुःखकारिणम्| क्षिप्रमित्यनुक्रान्त इत्यनेन सम्बध्यते, तेन त्रिरात्रघातित्वं यस्य तस्य कथं शीघ्रप्रशम इति चोद्यं नोत्तिष्ठते; किंवा क्षिप्रं सम्पद्यते सुखीति व्याधिमहिम्ना भवति| व्याधेरेवैतत् स्वरूपं यच्छीघ्रं हन्ति, शीघ्रं प्रशाम्यतीति| यदुक्तं- “स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा” (चि. ३) इति||१९-३६||
सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः|
ये हन्युरनुपक्रान्ता मिथ्याचारेण [२३] वा पुनः||३७||
साध्याश्चाप्यपरे [२४] सन्ति व्याधयो मृदुसम्मताः|
यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम्||३८||
असाध्याश्चापरे सन्ति व्याधयो याप्यसञ्ज्ञिताः|
सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्||३९||
सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति|
अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत्||४०||
साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः|
मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः||४१||
एतदेव शीघ्रकारित्वमन्येष्वपि ज्वरान्तकर्णशोथवलयादिष्वस्तीत्याह- सन्तीत्यादि| दारुणा इति सम्मता दारुणसम्मताः| दारुणत्वप्रसङ्गेन मृद्वादिभेदानप्याह- साध्याश्चेत्यादि| यात्राकरं यापनाकरम्| बालैः अज्ञैः, असाध्ये अज्ञा एवोत्साहात् प्रवर्तन्त इत्यर्थः| असाध्यस्य मृदुदारुणत्वं याप्यप्रत्याख्येयभेदेन, तथा सद्यःप्राणहरकालान्तरप्राणहरत्वादिना च||३७-४१||
त एवापरिसङ्ख्येया भिद्यमाना भवन्ति हि|
रुजावर्णसमुत्थानस्थानसंस्थाननामभिः [२५] ||४२||
व्यवस्थाकरणं [२६] तेषां यथास्थूलेषु सङ्ग्रहः|
तथा प्रकृतिसामान्यं विकारेषूपदिश्यते||४३||
त एवेत्यादि| समुत्थानभेदा हेतुभेदाः; रूक्षभोजनरात्रिजागरणादिभिन्नहेतुजन्यो हि वातो भिन्नोपक्रमसाध्यश्च भवतीति भावः| स्थानभेदा आमाशयादयो रसादयश्च| संस्थानम् आकृतिः, यथा- गुल्मार्बुदादिः| नामभेदो यथा- एकस्मिन्नेव राजयक्ष्मणि राजयक्ष्मशोषादिसञ्ज्ञा| नन्वेवमपरिसङ्ख्येयत्वे कथं व्यवहार इत्याह- व्यवस्थेत्यादि| व्यवस्थाकरणं चिकित्साव्यवहारार्थं सङ्ख्याकथनम्| यथास्थूलेष्विति ये ये स्थूला उदरमूत्रकृच्छ्रादयस्तेषु; सङ्ग्रहः अष्टोदरीयरोगसङ्ग्रहे (उदिश्यते) इत्यर्थः| अस्थूलेषु विकारेषु अष्टोदरीये सञ्ज्ञयाऽनुक्तेषु कथं व्यवस्थाकरणमित्याह- तथेत्यादि| प्रकृतिसामान्यं समानकारणता; तेनानुक्तेषु साक्षाद्ध्याधिषु वातजोऽयं श्लेष्मजोऽयमिति, तथा रसजोऽयं रक्तजोऽयमित्यादिका चिकित्साव्यवहारार्थं व्यवस्था कर्तव्येति भावः| अत एवाष्टोदरीये वक्ष्यति- “सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते” (सू. १९) इति||४२-४३||
विकारनामाकुशलो न जिह्रीयात् कदाचन|
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||४४||
स एव कुपितो दोषः समुत्थानविशेषतः|
स्थानान्तरगतश्चैव जनयत्यामयान् बहून् [२७] ||४५||
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च|
समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत्||४६||
यो ह्येतत्त्रितयं ज्ञात्वा कर्माण्यारभते भिषक्|
ज्ञानपूर्वं यथान्यायं [२८] स कर्मसु न मुह्यति||४७||
ज्वररक्तपित्तादिवन्नामाज्ञानेऽपि वातादिजन्यत्वज्ञानेनैव प्रचरितव्यमित्याह- विकारेत्यादि| स्थानान्तरगतश्चेत्यत्र चकार एकस्थानगतोऽपि बहुविकारं करोतीति समुच्चिनोति| यतो वक्ष्यति- “करोति गलमाश्रितः| कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्” (चि. ८) इति| अधिष्ठानान्तराणि आशयान्तराणि| ज्ञानपूर्वमिति चिकित्साज्ञानपूर्वकम्| यथान्यायं यथागमम्| एवं मन्यते- यद्वातारब्धत्वादिज्ञानमेव कारणं रोगाणां चिकित्सायामुपकारि, नामज्ञानं तु व्यवहारमात्रप्रयोजनार्थं न स्वरूपेण चिकित्सायामुपकारीति||४४-४७||
नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः|
विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः||४८||
सम्प्रति वातादिज्ञानेन रोगज्ञानमुद्दिष्टं तेनोपोद्धातेन वातादीनां प्रकृतिस्थानामप्रकृतिस्थानां च लक्षणं वक्तुमाह- नित्या इत्यादि| बुभुत्सेत ज्ञातुमिच्छेत्||४८||
उत्साहोच्छ्वासनिः श्वासचेष्टा धातुगतिः समा|
समो मोक्षो गतिमतां वायोः कर्माविकारजम्||४९||
दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्|
प्रभा प्रसादो मेधा च पित्तकर्माविकारजम्||५०||
स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्|
क्षमा धृतिरलोभश्च कफकर्माविकारजम्||५१||
चेष्टेति अविकृता चेष्टा| धातुगतिरिति रसादीनां पोष्यं धातुं प्रति गमनम्| गतिमतामिति पुरीषादीनां बहिर्निःसरताम्| प्रसादः मनःप्रसादः| बन्धः सन्धिबन्धः| स्थिरत्वम् अशैथिल्यम्| गौरवं प्राकृतं शरीरगौरवम्| क्षमा सहिष्णुता| धृतिः मनसोऽचाञ्चल्यम्| क्षमादयश्च श्लेष्मणः प्रभावात् क्रियन्ते; एवमन्यत्रापि ज्ञेयम्||४९-५१||
वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते|
कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्||५२||
क्षयलक्षणमाह- वाते इत्यादि| कर्मणः प्राकृतादिति वातादिप्रकृतिकर्मत्वेनोक्तादुत्साहादेः| हानिः अपचयः| वृद्धिर्वाऽपि विरोधिनामिति उक्तप्राकृतलक्षणविरोधिनां कर्मणां वृद्धिः; यथा वातक्षये उत्साहविरोधिनो विषादस्य वृद्धिः, पित्तक्षयेऽदर्शनापक्त्यादीनां, श्लेष्मक्षये रौक्ष्यादीनां वृद्धिः| इह प्राकृतकर्महानौ सत्यां नावश्यं विरोधिकर्मवृद्धिरत उक्तं- वृद्धिर्वेत्यादि; न ह्यवश्यमुत्साहहानावल्पमात्रायां सत्यां विषादो वर्धते, अलोभन्यूनत्वे वा मनाग्लोभो वर्धते; किंवा, उत्साहाद्यभावेनाभावमुखेन ज्ञानार्थं ‘कर्मणः प्राकृताद्धानिः’ इत्युक्तं, विषादादिवृद्ध्या तु विधिमुखेन ज्ञानार्थं ‘वृद्धिर्वाऽपि विरोधिनाम्’ इत्युक्तम्| यदुच्यते- वृद्धिर्वाऽपि विरोधिनामिति विरोधिदोषाणां, यथा- पित्तवृद्धौ श्लेष्मक्षयो जायते, इत्येवमादि; तन्न, यतोऽन्यदोषवृद्धावन्यस्यावश्यं न ह्यपायो भवति, तथाहि सति पित्तवृद्धौ सत्यां सर्वदा श्लेष्मक्ष्यः स्यात्; न च दोषाः परस्परघातका इति प्रागेव प्रतिपादितं; प्रदेशान्तरेऽपि दोषाणां स्वलक्षणहानिरेव परं क्षयलक्षणं- “क्षीणा जहति लिङ्गं स्वं” (सू.अ.१७) इत्यनेनोक्तम्||५२||
दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्|
दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते||५३||
वृद्धिलक्षणमाह- दोषेत्यादि| प्रकृतिः स्वभावः, तस्य वैशेष्यमाधिक्यं; श्लेष्मणः स्नेहशैत्यमाधुर्यादिर्या प्रकृतिस्तस्या अतिस्निग्धातिशैत्यातिमाधुर्यादिवैशेष्यं वृद्धिलक्षणम्| नियतमिति प्रतिनियतं, यद्यस्य प्रकृतिलक्षणं तद्वृद्धं सप्तस्यैव वृद्धिलक्षणमित्यर्थः; अन्ये तु निश्चितमित्याहुः||५३||
तत्र श्लोकाः-
सङ्ख्यां निमित्तं रूपाणि शोथानां साध्यतां न च|
तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान्||५४||
विधिभेदं विकाराणां त्रिविधं बोध्यसङ्ग्रहम्|
प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु||५५||
वीतमोहरजोदोषलोभमानमदस्पृहः|
व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः||५६||
सङ्ग्रहे शोथानां साध्यतामिति भेषजविशेषसाध्यत्वम्, उपशय इत्यर्थः; तच्च ‘स्नेहौष्ण्यमर्दनाभ्यां च प्रणश्येत् स च वातिक’ इत्युक्तं ज्ञेयम्| न चेति न च साध्यतां, यथा- ‘यश्च पादाभिनिर्वृत्तः’ इत्यादि| तेषां तेषामिति उपजिह्वादीनाम्| शोथान् पूर्वजानित्यभिदधान उपजिह्वादिषु पूर्वं शोथो भवति, पश्चादुपजिह्वादिरोगव्यक्तिरिति दर्शयति| अत एव ‘आशु सञ्जनयेच्छोथं’ इत्युक्त्वा ‘जायतेऽस्योपजिह्विका’ इत्युक्तम्| बोध्यः बोद्धव्यो विकारप्रकृत्यादिः| तस्य त्रिविधं सङ्ग्रहमिति ‘तस्माद्विकारप्रकृतीः’ इत्याद्युक्तं त्रयम्||५४-५६||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयो नामाष्टादशोऽध्यायः||१८||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने रोगचतुष्के त्रिशोथीयो नामाष्टादशोऽध्यायः||१८||
१. ‘… धूमोपवास…’ इति पा.|
२. ‘कपिलपिङ्गलताम्ररोमा’ इति पा.|
३. ‘सहते’ इति पा.|
४. ‘एवं सप्तविधो भेदः’ इति क्वचित्पुस्तके न पठ्यते|
५. ‘एवं भेदप्रकृतिभिस्ताभिस्ताभिर्भिद्यमानः’ इति पा.|
६. ‘स पुनश्चैकः’ इति पा.|
७. ‘उष्णायते’ इति पा.|
८. ‘स्पन्दन्तीव’ इति पा.|
९. ‘पीतमुखनेत्रत्वक्’ इति पा.|
१०. ‘यः शीतलः सक्तगतिः पाण्डुः कण्डूयतेऽपि च’ इति पा.|
११. ‘पीडितो नोन्नमेन्मन्दः’ इति पा.|
१२. ‘छिन्नादित्यनन्तरं ‘अङ्गात्’ इति शेषः’ इति शिवदाससेनः| ‘शस्त्रकुशच्छेदात्’ इति पा.|
१३. ‘एतच्च’ इति पा.|
१४. ‘सञ्जनयञ्छोथं’ इति पा.|
१५. ‘सञ्जनयञ्छोथं’ इति पा.|
१६. ‘सञ्जनयञ्छोथं’ इति पा.|
१७. ‘सञ्जनयञ्छोथं’ इति पा.|
१८. ‘जनयत्’ इति पा.|
१९. ‘जनयत्’ इति पा.|
२०. ‘शूलैः परितुदन्’ इति पा.|
२१. ‘क्षिप्रमनुक्रान्त इति शीघ्रं चिकित्सित इत्यर्थः’ इति शिवदाससेनः|
२२. ‘यथाक्रममनुपक्रम्यमाणः’ इति पा.|
२३. ‘मिथ्यारम्भेण’ इति पा.|
२४. ‘साध्याश्चैवापरे’ इति पा.|
२५. ‘निदानवेदनावर्णस्थानसंस्थाननामभिः’ इति पा.|
२६. ‘व्यवस्थाकारणं इति योगीन्द्रनाथसेनसम्मतः पाठः|
२७. ‘स्थानान्तरगतश्चापि विकारान् कुरुते बहून्’ इति पा.|
२८. ‘यथाम्नायं’ इति पा.|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
sūtrasthānam - 18. triśōthīyō'dhyāyaḥ
athātastriśōthīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
pūrvādhyāyē piḍakā uktāḥ, tāśca śōtharūpāḥ, ataḥ śōthādhikārāt triśōthīyō’bhidhīyatē||1-2||
trayaḥ śōthā bhavanti vātapittaślēṣmanimittāḥ, tē punardvividhā nijāgantubhēdēna||3||
vakṣyamāṇadvividhādibhēdē vidyamānē’pi vātādikr̥tatritvābhidhānamagrē vātādikr̥tasyaiva prādhānyakhyāpanārtham||3||
tatrāgantavaśchēdanabhēdanakṣaṇanabhañjanapicchanōtpēṣaṇaprahāravadhabandhanavēṣṭanavyadhanapīḍanādibhirvā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṁsparśanairvā svēdanaparisarpaṇāvamūtraṇairvā viṣiṇāṁ saviṣaprāṇidaṁṣṭrādantaviṣāṇanakhanipātairvā sāgaraviṣavātahimadahanasaṁsparśanairvā śōthāḥ samupajāyantē||4||
bhēdanam āśayavidāraṇaṁ, kṣaṇanam asthicūrṇanaṁ, bhañjanaṁ jarjarīkaraṇaṁ, picchnam atyarthapīḍanam, utpēṣaṇaṁ śilōtpēṣaṇamiva, vēṣṭanam agranthibandhanaṁ sarpādibhiḥ| śūkavatāṁ krimīṇāṁ śūkaḥ śūkakrimiśūkaḥ| svēdanādibhirviṣiṇāmiti yōjyam||4||
tē punaryathāsvaṁ hētuvyañjanairādāvupalabhyantē nijavyañjanaikadēśaviparītaiḥ; bandhamantrāgadapralēpapratāpanirvāpaṇādibhiścōpakramairupakramyamāṇāḥ praśāntimāpadyantē||5||
ādāvupalabhyanta iti vacanāduttarakālamāgantōrapi nijatulyatāṁ brūtē| yaduktam- “āganturanvēti nijaṁ vikāraṁ” (sū.a.19) iti| nijavyañjanaikadēśaviparītairiti nijalakṣaṇēbhya āgantūnāmēkadēśō viparītō bhavati, sa ca vātādijanyaśyāvādivarṇavikāratvājjñēyaḥ; kiṁvā āganturvyathāpūrvō bhavati paścādvātādibhiranubadhyatē, nijastu pūrvaṁ vātādilakṣaṇairyujyatē paścādvēdanāvān bhavatītyēkadēśavaiparītyam| bandhaḥ ariṣṭābandhō vraṇabandhaśca| bandhādayaśca yathāyōgyatayā bōddhavyāḥ||5||
nijāḥ punaḥ snēhasvēdavamanavirēcanāsthāpanānuvāsanaśirōvirēcanānāmayathāvatprayōgānmithyāsaṁsarjanādvā chardyalasakavisūcikāśvāsakāsātisāraśōṣapāṇḍurōgōdarajvarapradarabhagandarārśōvikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavēgadhāraṇairvā karmarōgōpavāsādhvakarśitasya vā sahasā’tigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudaka- piśitōpayōgānmr̥tpaṅkalōṣṭabhakṣaṇāllavaṇātibhakṣaṇādgarbhasampīḍanādāmagarbhaprapatanāt prajātānāṁ ca mithyōpacārādudīrṇadōṣatvācca śōphāḥ prādurbhavanti; ityuktaḥ sāmānyō hētuḥ||6||
chardyādayaḥ svarūpata ēva śōthahētavaḥ| karmādyatikarśitasya tu sahasā’tigurvādisēvanaṁ śōthahētuḥ; karmēti pañcakarma| virūḍhanavaśabdau śūkaśamīdhānyaviśēṣaṇau| prajātānāmiti aciraprasūtānām||6||
ayaṁ tvatra viśēṣaḥ- śītarūkṣalaghuviśadaśramōpavāsātikarśanakṣapaṇādibhirvāyuḥ [1] prakupitastvaṅmāṁsaśōṇitādīnyabhibhūya śōphaṁ janayati; sa kṣiprōtthānapraśamō bhavati, tathā śyāmāruṇavarṇaḥ prakr̥tivarṇō vā, calaḥ spandanaḥ kharaparuṣabhinnatvagrōmā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyatē pipīlikābhiriva saṁsr̥pyatē sarṣapakalkāvalipta iva cimicimāyatē saṅkucyata āyamyata ivēti vātaśōthaḥ (1);
uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhōjanairagnyātapapratāpaiśca pittaṁ prakupitaṁ tvaṅmāṁsaśōṇitānyabhibhūya śōthaṁ janayati; sa kṣiprōtthānapraśamō bhavati, kr̥ṣṇapītanīlatāmrāvabhāsa uṣṇō mr̥duḥ kapilatāmrarōmā [2] uṣyatē dūyatē dhūpyatē ūṣmāyatē svidyatē klidyatē na ca sparśamuṣṇaṁ ca suṣūyata [3] iti pittaśōthaḥ (2);
gurumadhuraśītasnigdhairatisvapnāvyāyāmādibhiśca ślēṣmā prakupitastvaṅmāṁsaśōṇitādīnyabhibhūya śōthaṁ janayati; sa kr̥cchrōtthānapraśamō bhavati, pāṇḍuśvētāvabhāsō guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgrarōmā sparśōṣṇasahaścēti ślēṣmaśōthaḥ (3);
yathāsvakāraṇākr̥tisaṁsargāddvidōṣajāstrayaḥ śōthā bhavanti; yathāsvakāraṇākr̥tisannipātāt sānnipātika ēkaḥ; ēvaṁ [4] saptavidhō bhēdaḥ||7||
prakr̥tibhistābhistābhirbhidyamānō [5] dvividhastrividhaścaturvidhaḥ saptavidhō’ṣṭavidhaśca śōtha upalabhyatē, punaścaika [6] ēvōtsēdhasāmānyāt||8||
kṣapaṇaṁ vamanādibhiḥ| prakr̥tivarṇaḥ dēhasamānavarṇaḥ| calaḥ saṅkramaṇavān| spandanaḥ kampanaḥ| uṣyatē pārśvasthēnēva vahninā dahyatē| dhūpyatē dhūmamivōdvamati| ūṣmāyatē [7] bahiḥ parairapyuṣṇatvēnōpalabhyatē| svidyatē svēdavān bhavati| na suṣūyatē na sahatē; sparśanaṁ ca na sahatē, uṣṇaṁ ca na sahatē| sa kr̥cchrōtthānapraśama iti cirōtthānapraśamaḥ| prakr̥tibhiriti kāraṇaiḥ| utsēdha unnatatvam||7-8||
bhavanti cātra-
śūyantē yasya gātrāṇi svapantīva [8] rujanti ca|
pīḍitānyunnamantyāśu vātaśōthaṁ tamādiśēt||9||
yaścāpyaruṇavarṇābhaḥ śōthō naktaṁ praṇaśyati|
snēhōṣṇamardanābhyāṁ ca praṇaśyēt sa ca vātikaḥ||10||
yaḥ pipāsājvarārtasya dūyatē’tha vidahyatē|
svidyati klidyatē gandhī sa paittaḥ svayathuḥ smr̥taḥ||11||
yaḥ pītanētravaktratvak [9] pūrvaṁ madhyāt praśūyatē|
tanutvak cātisārī ca pittaśōthaḥ sa ucyatē||12||
śītaḥ [10] saktagatiryastu kaṇḍūmān pāṇḍurēva ca|
nipīḍitō nōnnamati [11] śvayathuḥ sa kaphātmakaḥ||13||
yasya śastrakuśacchinnācchōṇitaṁ [12] na pravartatē|
kr̥cchrēṇa picchā sravati sa cāpi kaphasambhavaḥ||14||
nidānākr̥tisaṁsargācchvayathuḥ syāddvidōṣajaḥ|
sarvākr̥tiḥ sannipātācchōthō vyāmiśrahētujaḥ||15||
śūyanta ityādi| punaḥ ślōkēna lakṣaṇābhidhānaṁ prāyōbhāvilakṣaṇadarśanārtham| svapantīvēti nirvēdanaḥ| ētēna [13] vāyōścalatvēna kṣaṇācca ruk, kṣaṇācca tadabhāva iti jñēyam| madhyāditi śarīramadhyāt| saktagatiḥ avisārī| śastrakuśacchinnāditi śastrakuśakr̥tācchēdāt||9-15||
yastu pādābhinirvr̥ttaḥ śōthaḥ sarvāṅgagō bhavēt|
jantōḥ sa ca sukaṣṭaḥ syāt prasr̥taḥ strīmukhācca yaḥ||16||
yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā|
sa ca kaṣṭatamō jñēyō yasya ca syurupadravāḥ||17||
pādābhinirvr̥ttaḥ śōthaḥ puruṣāṇāṁ laghāvadhōdēśē jātaḥ san yadā na jīyatē tadā gurumūrdhvadēśaṁ gataḥ sa na pāryatē jētuṁ, yō hi laghau pradēśē jētuṁ na pāryatē sa gurupradēśagatō nitarāmēva na pāryatē; ēvaṁ prasr̥taḥ strīmukhācca ya ityapi jñēyam| vacanaṁ hi- “adhōbhāgō guruḥ strīṇāmūrdhvaḥ puṁsāṁ gurustathā” (su.sū.a.46) iti||16-17||
chardiḥ śvāsō’rucistr̥ṣṇā jvarō’tīsāra ēva ca|
saptakō’yaṁ sadaurbalyaḥ śōphōpadravasaṅgrahaḥ||18||
uktānupadravānāha- chardirityādi||18||
yasya ślēṣmā prakupitō jihvāmūlē’vatiṣṭhatē|
āśu sañjanayēcchōthaṁ [14] jāyatē’syōpajihvikā||19||
yasya ślēṣmā prakupitaḥ kākalē vyavatiṣṭhatē|
āśu sañjanayēcchōphaṁ [15] karōti galaśuṇḍikām||20||
yasya ślēṣmā prakupitō galabāhyē’vatiṣṭhatē|
śanaiḥ sañjanayēcchōphaṁ [16] galagaṇḍō’sya jāyatē||21||
yasya ślēṣmā prakupitastiṣṭhatyantargalē sthiraḥ|
āśu sañjanayēcchōphaṁ [17] jāyatē’sya galagrahaḥ||22||
yasya pittaṁ prakupitaṁ saraktaṁ tvaci sarpati|
śōphaṁ sarāgaṁ janayēdvisarpastasya [18] jāyatē||23||
yasya pittaṁ prakupitaṁ tvaci raktē’vatiṣṭhatē|
śōthaṁ sarāgaṁ janayēt [19] piḍakā tasya jāyatē||24||
yasya prakupitaṁ pittaṁ śōṇitaṁ prāpya śuṣyati|
tilakā piplavō vyaṅgā nīlikā tasya jāyatē||25||
yasya pittaṁ prakupitaṁ śaṅkhayōravatiṣṭhatē|
śvayathuḥ śaṅkhakō nāma dāruṇastasya jāyatē||26||
yasya pittaṁ prakupitaṁ karṇamūlē’vatiṣṭhatē|
jvarāntē durjayō’ntāya śōthastasyōpajāyatē||27||
vātaḥ plīhānamuddhūya kupitō yasya tiṣṭhati|
śanaiḥ paritudan [20] pārśvaṁ plīhā tasyābhivardhatē||28||
yasya vāyuḥ prakupitō gulmasthānē’vatiṣṭhatē|
śōphaṁ saśūlaṁ janayan gulmastasyōpajāyatē||29||
yasya vāyuḥ prakupitaḥ śōphaśūlakaraścaran|
vaṅkṣaṇādvr̥ṣaṇau yāti vr̥ddhistasyōpajāyatē||30||
yasya vātaḥ prakupitastvaṅmāṁsāntaramāśritaḥ|
śōthaṁ sañjanayēt kukṣāvudaraṁ tasya jāyatē||31||
yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati|
nādhō vrajati nāpyūrdhvamānāhastasya jāyatē||32||
rōgāścōtsēdhasāmānyadadhimāṁsārbudādayaḥ|
viśiṣṭā nāmarūpābhyāṁ nirdēśyāḥ śōthasaṅgrahē||33||
vātapittakaphā yasya yugapat kupitāstrayaḥ|
jihvāmūlē’vatiṣṭhantē vidahantaḥ samucchritāḥ||34||
janayanti bhr̥śaṁ śōthaṁ vēdanāśca pr̥thagvidhāḥ|
taṁ śīghrakāriṇaṁ rōgaṁ rōhiṇīti vinirdiśēt||35||
trirātraṁ paramaṁ tasya jantōrbhavati jīvitam|
kuśalēna tvanukrāntaḥ [21] kṣipraṁ sampadyatē sukhī||36||
sampratyutsēdhasāmānyāt prādēśikāñchōthānāha- yasyētyādi| kākalaṁ tālumūlam| śanairitivacanēna galagaṇḍakāriṇō dōṣāścirakriyā bhavantīti darśayati; galagrahādau cāśukāriṇō dōṣā bhavanti| visarpasya piḍakāyāśca tulyakāraṇatvē’pi visarpē sarpaṇaśīlō dōṣaḥ, piḍakāyāṁ ca sthirō jñēyaḥ; ata ēva piḍakāsamprāptau ‘avatiṣṭhatē’ ityuktam| yasya pittamityādau pittaṁ prāpya śōṇitaṁ kartr̥ śuṣyatīti yōjanīyam| piplavaḥ ‘jaṭulā’ iti prasiddhaḥ| dāruṇaḥ anupakramādāśumārakaḥ| durjayō’ntāyēti durjayō vā yathākramamupakramyamāṇaḥ [22] , antāya vā mithyōpakramādvēti mantavyam| ayamēva śōthō’nyatrāpyuktaḥ- “sannipātajvarasyāntē karṇamūlē sudāruṇāḥ| śōthaḥ sañjāyatē tēna kaścidēva pramucyatē” iti| gulmādayō vistaravaktavyā api ihōtsēdhasāmānyāllēśata ucyantē| śōthasaṅgraha iti śōthatvēnōtsēdharūpēṇa saṅgrahaḥ śōthasaṅgrahaḥ|| samucchritā atiriktapramāṇāḥ| bhr̥śam atyarthaduḥkhakāriṇam| kṣipramityanukrānta ityanēna sambadhyatē, tēna trirātraghātitvaṁ yasya tasya kathaṁ śīghrapraśama iti cōdyaṁ nōttiṣṭhatē; kiṁvā kṣipraṁ sampadyatē sukhīti vyādhimahimnā bhavati| vyādhērēvaitat svarūpaṁ yacchīghraṁ hanti, śīghraṁ praśāmyatīti| yaduktaṁ- “sa śīghraṁ śīghrakāritvāt praśamaṁ yāti hanti vā” (ci. 3) iti||19-36||
santi hyēvaṁvidhā rōgāḥ sādhyā dāruṇasammatāḥ|
yē hanyuranupakrāntā mithyācārēṇa [23] vā punaḥ||37||
sādhyāścāpyaparē [24] santi vyādhayō mr̥dusammatāḥ|
yatnāyatnakr̥taṁ yēṣu karma sidhyatyasaṁśayam||38||
asādhyāścāparē santi vyādhayō yāpyasañjñitāḥ|
susādhvapi kr̥taṁ yēṣu karma yātrākaraṁ bhavēt||39||
santi cāpyaparē rōgā yēṣu karma na sidhyati|
api yatnakr̥taṁ bālairna tān vidvānupācarēt||40||
sādhyāścaivāpyasādhyāśca vyādhayō dvividhāḥ smr̥tāḥ|
mr̥dudāruṇabhēdēna tē bhavanti caturvidhāḥ||41||
ētadēva śīghrakāritvamanyēṣvapi jvarāntakarṇaśōthavalayādiṣvastītyāha- santītyādi| dāruṇā iti sammatā dāruṇasammatāḥ| dāruṇatvaprasaṅgēna mr̥dvādibhēdānapyāha- sādhyāścētyādi| yātrākaraṁ yāpanākaram| bālaiḥ ajñaiḥ, asādhyē ajñā ēvōtsāhāt pravartanta ityarthaḥ| asādhyasya mr̥dudāruṇatvaṁ yāpyapratyākhyēyabhēdēna, tathā sadyaḥprāṇaharakālāntaraprāṇaharatvādinā ca||37-41||
ta ēvāparisaṅkhyēyā bhidyamānā bhavanti hi|
rujāvarṇasamutthānasthānasaṁsthānanāmabhiḥ [25] ||42||
vyavasthākaraṇaṁ [26] tēṣāṁ yathāsthūlēṣu saṅgrahaḥ|
tathā prakr̥tisāmānyaṁ vikārēṣūpadiśyatē||43||
ta ēvētyādi| samutthānabhēdā hētubhēdāḥ; rūkṣabhōjanarātrijāgaraṇādibhinnahētujanyō hi vātō bhinnōpakramasādhyaśca bhavatīti bhāvaḥ| sthānabhēdā āmāśayādayō rasādayaśca| saṁsthānam ākr̥tiḥ, yathā- gulmārbudādiḥ| nāmabhēdō yathā- ēkasminnēva rājayakṣmaṇi rājayakṣmaśōṣādisañjñā| nanvēvamaparisaṅkhyēyatvē kathaṁ vyavahāra ityāha- vyavasthētyādi| vyavasthākaraṇaṁ cikitsāvyavahārārthaṁ saṅkhyākathanam| yathāsthūlēṣviti yē yē sthūlā udaramūtrakr̥cchrādayastēṣu; saṅgrahaḥ aṣṭōdarīyarōgasaṅgrahē (udiśyatē) ityarthaḥ| asthūlēṣu vikārēṣu aṣṭōdarīyē sañjñayā’nuktēṣu kathaṁ vyavasthākaraṇamityāha- tathētyādi| prakr̥tisāmānyaṁ samānakāraṇatā; tēnānuktēṣu sākṣāddhyādhiṣu vātajō’yaṁ ślēṣmajō’yamiti, tathā rasajō’yaṁ raktajō’yamityādikā cikitsāvyavahārārthaṁ vyavasthā kartavyēti bhāvaḥ| ata ēvāṣṭōdarīyē vakṣyati- “sarvē vikārā vātapittakaphānnātivartantē” (sū. 19) iti||42-43||
vikāranāmākuśalō na jihrīyāt kadācana|
na hi sarvavikārāṇāṁ nāmatō’sti dhruvā sthitiḥ||44||
sa ēva kupitō dōṣaḥ samutthānaviśēṣataḥ|
sthānāntaragataścaiva janayatyāmayān bahūn [27] ||45||
tasmādvikāraprakr̥tīradhiṣṭhānāntarāṇi ca|
samutthānaviśēṣāṁśca buddhvā karma samācarēt||46||
yō hyētattritayaṁ jñātvā karmāṇyārabhatē bhiṣak|
jñānapūrvaṁ yathānyāyaṁ [28] sa karmasu na muhyati||47||
jvararaktapittādivannāmājñānē’pi vātādijanyatvajñānēnaiva pracaritavyamityāha- vikārētyādi| sthānāntaragataścētyatra cakāra ēkasthānagatō’pi bahuvikāraṁ karōtīti samuccinōti| yatō vakṣyati- “karōti galamāśritaḥ| kaṇṭhōddhvaṁsaṁ ca kāsaṁ ca svarabhēdamarōcakam” (ci. 8) iti| adhiṣṭhānāntarāṇi āśayāntarāṇi| jñānapūrvamiti cikitsājñānapūrvakam| yathānyāyaṁ yathāgamam| ēvaṁ manyatē- yadvātārabdhatvādijñānamēva kāraṇaṁ rōgāṇāṁ cikitsāyāmupakāri, nāmajñānaṁ tu vyavahāramātraprayōjanārthaṁ na svarūpēṇa cikitsāyāmupakārīti||44-47||
nityāḥ prāṇabhr̥tāṁ dēhē vātapittakaphāstrayaḥ|
vikr̥tāḥ prakr̥tisthā vā tān bubhutsēta paṇḍitaḥ||48||
samprati vātādijñānēna rōgajñānamuddiṣṭaṁ tēnōpōddhātēna vātādīnāṁ prakr̥tisthānāmaprakr̥tisthānāṁ ca lakṣaṇaṁ vaktumāha- nityā ityādi| bubhutsēta jñātumicchēt||48||
utsāhōcchvāsaniḥ śvāsacēṣṭā dhātugatiḥ samā|
samō mōkṣō gatimatāṁ vāyōḥ karmāvikārajam||49||
darśanaṁ paktirūṣmā ca kṣuttr̥ṣṇā dēhamārdavam|
prabhā prasādō mēdhā ca pittakarmāvikārajam||50||
snēhō bandhaḥ sthiratvaṁ ca gauravaṁ vr̥ṣatā balam|
kṣamā dhr̥tiralōbhaśca kaphakarmāvikārajam||51||
cēṣṭēti avikr̥tā cēṣṭā| dhātugatiriti rasādīnāṁ pōṣyaṁ dhātuṁ prati gamanam| gatimatāmiti purīṣādīnāṁ bahirniḥsaratām| prasādaḥ manaḥprasādaḥ| bandhaḥ sandhibandhaḥ| sthiratvam aśaithilyam| gauravaṁ prākr̥taṁ śarīragauravam| kṣamā sahiṣṇutā| dhr̥tiḥ manasō’cāñcalyam| kṣamādayaśca ślēṣmaṇaḥ prabhāvāt kriyantē; ēvamanyatrāpi jñēyam||49-51||
vātē pittē kaphē caiva kṣīṇē lakṣaṇamucyatē|
karmaṇaḥ prākr̥tāddhānirvr̥ddhirvā’pi virōdhinām||52||
kṣayalakṣaṇamāha- vātē ityādi| karmaṇaḥ prākr̥tāditi vātādiprakr̥tikarmatvēnōktādutsāhādēḥ| hāniḥ apacayaḥ| vr̥ddhirvā’pi virōdhināmiti uktaprākr̥talakṣaṇavirōdhināṁ karmaṇāṁ vr̥ddhiḥ; yathā vātakṣayē utsāhavirōdhinō viṣādasya vr̥ddhiḥ, pittakṣayē’darśanāpaktyādīnāṁ, ślēṣmakṣayē raukṣyādīnāṁ vr̥ddhiḥ| iha prākr̥takarmahānau satyāṁ nāvaśyaṁ virōdhikarmavr̥ddhirata uktaṁ- vr̥ddhirvētyādi; na hyavaśyamutsāhahānāvalpamātrāyāṁ satyāṁ viṣādō vardhatē, alōbhanyūnatvē vā manāglōbhō vardhatē; kiṁvā, utsāhādyabhāvēnābhāvamukhēna jñānārthaṁ ‘karmaṇaḥ prākr̥tāddhāniḥ’ ityuktaṁ, viṣādādivr̥ddhyā tu vidhimukhēna jñānārthaṁ ‘vr̥ddhirvā’pi virōdhinām’ ityuktam| yaducyatē- vr̥ddhirvā’pi virōdhināmiti virōdhidōṣāṇāṁ, yathā- pittavr̥ddhau ślēṣmakṣayō jāyatē, ityēvamādi; tanna, yatō’nyadōṣavr̥ddhāvanyasyāvaśyaṁ na hyapāyō bhavati, tathāhi sati pittavr̥ddhau satyāṁ sarvadā ślēṣmakṣyaḥ syāt; na ca dōṣāḥ parasparaghātakā iti prāgēva pratipāditaṁ; pradēśāntarē’pi dōṣāṇāṁ svalakṣaṇahānirēva paraṁ kṣayalakṣaṇaṁ- “kṣīṇā jahati liṅgaṁ svaṁ” (sū.a.17) ityanēnōktam||52||
dōṣaprakr̥tivaiśēṣyaṁ niyataṁ vr̥ddhilakṣaṇam|
dōṣāṇāṁ prakr̥tirhānirvr̥ddhiścaivaṁ parīkṣyatē||53||
vr̥ddhilakṣaṇamāha- dōṣētyādi| prakr̥tiḥ svabhāvaḥ, tasya vaiśēṣyamādhikyaṁ; ślēṣmaṇaḥ snēhaśaityamādhuryādiryā prakr̥tistasyā atisnigdhātiśaityātimādhuryādivaiśēṣyaṁ vr̥ddhilakṣaṇam| niyatamiti pratiniyataṁ, yadyasya prakr̥tilakṣaṇaṁ tadvr̥ddhaṁ saptasyaiva vr̥ddhilakṣaṇamityarthaḥ; anyē tu niścitamityāhuḥ||53||
tatra ślōkāḥ-
saṅkhyāṁ nimittaṁ rūpāṇi śōthānāṁ sādhyatāṁ na ca|
tēṣāṁ tēṣāṁ vikārāṇāṁ śōthāṁstāṁstāṁśca pūrvajān||54||
vidhibhēdaṁ vikārāṇāṁ trividhaṁ bōdhyasaṅgraham|
prākr̥taṁ karma dōṣāṇāṁ lakṣaṇaṁ hānivr̥ddhiṣu||55||
vītamōharajōdōṣalōbhamānamadaspr̥haḥ|
vyākhyātavāṁstriśōthīyē rōgādhyāyē punarvasuḥ||56||
saṅgrahē śōthānāṁ sādhyatāmiti bhēṣajaviśēṣasādhyatvam, upaśaya ityarthaḥ; tacca ‘snēhauṣṇyamardanābhyāṁ ca praṇaśyēt sa ca vātika’ ityuktaṁ jñēyam| na cēti na ca sādhyatāṁ, yathā- ‘yaśca pādābhinirvr̥ttaḥ’ ityādi| tēṣāṁ tēṣāmiti upajihvādīnām| śōthān pūrvajānityabhidadhāna upajihvādiṣu pūrvaṁ śōthō bhavati, paścādupajihvādirōgavyaktiriti darśayati| ata ēva ‘āśu sañjanayēcchōthaṁ’ ityuktvā ‘jāyatē’syōpajihvikā’ ityuktam| bōdhyaḥ bōddhavyō vikāraprakr̥tyādiḥ| tasya trividhaṁ saṅgrahamiti ‘tasmādvikāraprakr̥tīḥ’ ityādyuktaṁ trayam||54-56||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē triśōthīyō nāmāṣṭādaśō’dhyāyaḥ||18||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikākhyāyāṁ sūtrasthānē rōgacatuṣkē triśōthīyō nāmāṣṭādaśō’dhyāyaḥ||18||
1. ‘… dhūmōpavāsa…’ iti pā.|
2. ‘kapilapiṅgalatāmrarōmā’ iti pā.|
3. ‘sahatē’ iti pā.|
4. ‘ēvaṁ saptavidhō bhēdaḥ’ iti kvacitpustakē na paṭhyatē|
5. ‘ēvaṁ bhēdaprakr̥tibhistābhistābhirbhidyamānaḥ’ iti pā.|
6. ‘sa punaścaikaḥ’ iti pā.|
7. ‘uṣṇāyatē’ iti pā.|
8. ‘spandantīva’ iti pā.|
9. ‘pītamukhanētratvak’ iti pā.|
10. ‘yaḥ śītalaḥ saktagatiḥ pāṇḍuḥ kaṇḍūyatē’pi ca’ iti pā.|
11. ‘pīḍitō nōnnamēnmandaḥ’ iti pā.|
12. ‘chinnādityanantaraṁ ‘aṅgāt’ iti śēṣaḥ’ iti śivadāsasēnaḥ| ‘śastrakuśacchēdāt’ iti pā.|
13. ‘ētacca’ iti pā.|
14. ‘sañjanayañchōthaṁ’ iti pā.|
15. ‘sañjanayañchōthaṁ’ iti pā.|
16. ‘sañjanayañchōthaṁ’ iti pā.|
17. ‘sañjanayañchōthaṁ’ iti pā.|
18. ‘janayat’ iti pā.|
19. ‘janayat’ iti pā.|
20. ‘śūlaiḥ paritudan’ iti pā.|
21. ‘kṣipramanukrānta iti śīghraṁ cikitsita ityarthaḥ’ iti śivadāsasēnaḥ|
22. ‘yathākramamanupakramyamāṇaḥ’ iti pā.|
23. ‘mithyārambhēṇa’ iti pā.|
24. ‘sādhyāścaivāparē’ iti pā.|
25. ‘nidānavēdanāvarṇasthānasaṁsthānanāmabhiḥ’ iti pā.|
26. ‘vyavasthākāraṇaṁ iti yōgīndranāthasēnasammataḥ pāṭhaḥ|
27. ‘sthānāntaragataścāpi vikārān kurutē bahūn’ iti pā.|
28. ‘yathāmnāyaṁ’ iti pā.|