Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
सूत्रस्थानम् - १५. उपकल्पनीयोऽध्यायः
अथात उपकल्पनीयमध्यायं व्याख्यास्यामः।।१।।
इति ह स्माह भगवानात्रेयः।।२।। ।
स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोक्तात् सम्बन्धात् स्वेदाध्यायानन्तरं शोधनविधेरभिधायकमुपकल्पनीयमाह। उपकल्पनीयमिति शोधनोपकल्पनामधिकृत्य कृतोऽध्याय उपकल्पनीयः।।१-२।।॥
इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पाययितुकामेन भिषजा प्रागेवौषधपानात् सम्भारा उपकल्पनीया भवन्ति सम्यक्चैव हि गच्छत्यौषधे प्रतिभोगार्थाः, व्यापन्ने चौषधे व्यापदः परिसङ्ख्याय प्रतीकारार्थाः; न हि सन्निकृष्टे काले प्रादुर्भूतायामापदि सत्यपि क्रयाक्रये सुकरमाशु सम्भरणमौषधानां यथावदिति।।३।।
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- ननु भगवन्! आदावेव ज्ञानवता तथा प्रतिविधातव्यं यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा, व्यापच्चासम्यक्प्रयोगनिमित्ता; अथ सम्यगसम्यक् च समारब्धं कर्म सिद्ध्यति व्यापद्यते वाऽनियमेन, तुल्यं भवति ज्ञानमज्ञानेनेति।।४।।॥
राज्ञ इव मात्रा परिच्छदो यस्य स राजमात्रः। विपुलद्रव्यस्तु वणिगादिः। परिसङ्ख्यायेति ज्ञात्वा। क्रयः पण्यम्, आक्रयो मूल्यम्। अनियमेनेति [१] सम्यगारब्धं सिध्यति व्यापद्यते च।।३-४।।
तमुवाच भगवानात्रेयः- शक्यं तथा प्रतिविधातुमस्माभिरस्मद्विधैर्वाऽप्यग्निवेश! यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, तच्च प्रयोगसौष्ठवमुपदेष्टुं यथावत्; नहि कश्चिदस्ति य एतदेवमुपदिष्टमुपधारयितुमुत्सहेत, उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं वा; सूक्ष्माणि हि दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि, यान्यनुचिन्त्यमानानि विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः; तस्मादुभयमेतद्यथावदुपदेक्ष्यामः- सम्यक्प्रयोगं चौषधानां, व्यापन्नानां च व्यापत्साधनानि सिद्धिषूत्तरकालम्।।५।।
प्रयोगसौष्ठवं प्रयोगसुष्ठुत्वं, यथावदुपदेष्टुं शक्यमस्माभिरस्मद्विधैर्वेति योजना। एतदिति प्रयोगसौष्ठवम्। एवमिति यथावद्। उपधारयितुमिति ग्रन्थेन धारयितुम्। प्रतिपत्तुमिति अर्थतो ग्रहीतुम्। सूक्ष्माणीत्यादि सूक्ष्माणीव सूक्ष्माणि दुर्बोधत्वेन; तत्र दोषस्यावस्थान्तराणि- क्षयस्तथा वृद्धिस्तथा समत्वं, एवमूर्ध्वदेहगमनं तथाऽधोदेहगमनं तिर्यग्गमनं वा, तथा शाखाश्रयित्वं कोष्ठाश्रयित्वं मध्यमार्गाश्रयित्वं, तथा स्वदेशगमनं परदेशगमनं, तथा स्वतन्त्रत्वं परतन्त्रत्वं, तथांऽशांशविकल्पः, तथा धातुविशेषाश्रयित्वं, तथा कालप्रकृतिदूष्यानुगुणत्वादिकृत्स्नतन्त्रप्रतिपादितानि ज्ञेयानि; एवं भेषजस्यावस्थान्तराणि- तरुणत्वं, वृद्धत्वम्, आर्द्रत्वं, शुष्कत्वं, द्रव्यान्तरसंयुक्तत्वं, स्वरसादिकल्पनायोगित्वं, रसवीर्यविपाकैः प्रभावैश्च तस्मिन् देहे दोषादौ तत्तत्कार्यकर्तृत्वमेवमादीनि; देशस्त्वानूपजाङ्गलसाधारणप्रशस्तादिभेदभिन्नः; कालावस्थान्तराणि तु ऋतुभेदाः, पूर्वाह्णादिश्च तथा व्याध्यवस्था ज्वराष्टाहादय इत्येवमादीनि; बलं तु सहजं युक्तिकृतं तथा कालकृतमुत्कृष्टापकृष्टमध्यादिभेदभिन्नं; शरीरं तु स्थूलत्वकृशत्वसारवत्त्वनिःसारवत्त्वादि, तथा परिपालनीयदृष्टिमर्माद्यवयवविशेषादिभिश्च भिन्नम्; आहारस्तु प्रकृतिकरणसंयोगराशिभेदादिभिर्भिन्नः; सात्म्यं तु देशतः कालतो व्याधितः प्रकृतितः स्वभावतोऽभ्यासतश्च भिन्नं भवति; सत्त्वं तु भयशौर्यविषादहर्षादियोगभिन्नं भवति; प्रकृतिभेदास्त्वनेकप्रकारभिन्नवाताद्यारब्धत्वेन बोद्धव्याः; वयोभेदास्तु बाल्ययौवनवार्धक्यतदवान्तरभेदाः [२] ; एतानि दोषाद्यवस्थान्तराणि चिकित्साप्रयोगे यथायथाऽपेक्ष्यन्ते, तदुदाहरणं शास्त्रेऽनुसरणीयम्, इह लिख्यमानं तु विस्तरत्वं ग्रन्थस्यावहतीति नोक्तम्। उभयमेतदुत्तरकालं सिद्धिषूपदेक्ष्याम इति योजना।।५।।
इदानीं तावत् सम्भारान् विविधानपि समासेनोपदेक्ष्यामः; तद्यथा- दृढं निवातं प्रवातैकदेशं सुखप्रविचारमनुपत्यकं धूमातपजलरजसामनभिगमनीयमनिष्ठानां च शब्दस्पर्शरसरूपगन्धानां सोदपानोदूखलमुसलवर्चःस्थानस्नानभूमिमहानसं वास्तुविद्याकुशलः प्रशस्तं गृहमेव तावत् पूर्वमुपकल्पयेत्।।६।।
विविधानपीति अपिशब्दः समासेनापीत्येवंरूपो ज्ञेयः; तेन गृहादयोऽपि विस्तरेणोच्यन्ते, सङ्ग्रहणीयादयश्च समासेनेति द्वयमपि सुस्थं स्यात्; यदि वा ‘द्विविधानपि’ इति पाठः, तेन भोगार्थानि तथा व्यापत्साधनानि गृह्यन्ते। अनुपत्यकं यद् विदूरमन्यस्य महतो गृहस्य। उदकं पीयते येन तदुदपानम्।।६।।
ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नानुपचारकुशलान् सर्वकर्मसु पर्यवदातान् सूपौदनपाचकस्नापकसंवाहकोत्थापकसंवेशकौषधपेषकांश्च परिचारकान् सर्वकर्मस्वप्रतिकूलान्, तथा गीतवादित्रोल्लापकश्लोकगाथाख्यायिकेतिहासपुराणकुशलानभिप्रायज्ञाननुमतांश्च देशकालविदः पारिषद्यांश्च, तथा लावकपिञ्जिलशशहरिणैणकालपुच्छकमृगमातृकोरभ्रान्, गां दोग्ध्रीं शीलवतीमनातुरां जीवद्वत्सां सुप्रतिविहिततृणशरणपानीयां, पात्र्याचमनीयोदकोष्ठमणिकघटपिठरपर्योगकुम्भीकुम्भकुण्डशराव- दर्वीकटोदञ्चनपरिपचनमन्थानचर्मचेलसूत्रकार्पासोर्णादीनि च, शयनासनादीनि चोपन्यस्तभृङ्गारप्रतिग्रहाणि सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानानि सोपाश्रयाणि [३] संवेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासन- शिरोविरेचनमूत्रोच्चारकर्मणामुपचारसुखानि, सुप्रक्षालितोपधानाश्च सुश्लक्ष्णखरमध्यमा दृषदः, शस्त्राणि चोपकरणार्थानि, धूमनेत्रं च, बस्तिनेत्रं चोत्तरबस्तिकं च, कुशहस्तकं च, तुलां च, मानभाण्डं च, घृततैलवसामज्जक्षौद्रफाणितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुषोदक- मैरेयमेदकदधिदधिमण्डोदस्विद्धान्याम्लमूत्राणि च, तथा शालिषष्टिकमुद्गमाषयवतिलकुलत्थबदरमृद्वीकाकाश्मर्यपरूषकाभयामलकबिभीतकानि, नानाविधानि च स्नेहस्वेदोपकरणानि द्रव्याणि, तथैवोर्ध्वहरानुलोमिकोभयभाञ्जि, सङ्ग्रहणीयदीपनीयपाचनीयोपशमनीयवातहरादिसमाख्यातानि चौषधानि; यच्चान्यदपि किञ्चिह्यापदः परिसङ्ख्याय प्रतीकारार्थमुपकरणं विद्यात्, यच्च प्रतिभोगार्थं, तत्तदुपकल्पयेत्।।७।।
प्रादक्षिण्यम् आनुकूल्यम्। उल्लापकं स्तोत्रम्, इतिहासः अज्ञायमानकर्तृकाप्तोपदेशः। मृगमातृका पृथूदरो हरिणः। शरणं गृहम्। आचमनीयोदकोष्ठम् आचमानार्थमुदककोष्ठं; किंवा आचम्यते येन पात्रेण तदाचमनं; मणिको गोलकः [४] , पिठरः स्थाली, पर्योगः कटाहः, कुम्भो दृढावयवोऽल्पमुखो घटः, कटः तृणादिरचितमासनम्, उदञ्चनं पिधानशरावः, परिपचनं तैलपाचनिका। ऊर्णा गड्डररोमाणि। सुप्रक्षालितेत्यादौ उपधानः शिलापुत्र इति प्रसिद्धः, दृषदः पाषाणपट्टकाः। शस्त्राणि चोपकरणार्थानीति कुद्दालकर्तरीप्रभृतीनि। कुशहस्तकं सम्मार्जनी; अन्ये तु आर्द्रद्रव्यपरिपचनमभिदधति। मानभाण्डं [५] प्रतिमानम्।।७।।
ततस्तं पुरुषं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथार्हमुपपादयेत्, तं चेदस्मिन्नन्तरे मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाऽभ्यागच्छेत्तमेव तावदस्योपावर्तयितुं [६] यतेत, ततस्तमुपावर्त्य तावन्तमेवैनं कालं तथाविधेनैव कर्मणोपाचरेत्।।८।।
ततस्तं पुरुषं स्नेहस्वेदोपपन्नमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तमिष्टे नक्षत्रतिथिकरणमुहूर्ते कारयित्वा ब्राह्मणान् स्वस्तिवाचनं प्रयुक्ताभिराशीर्भिरभिमन्त्रितां मधुमधुकसैन्धवफाणितोपहितां मदनफलकषायमात्रां पाययेत्।।९।।
तं चेत्यादौ अस्मिन्नन्तर इति स्नेहस्वेदकरणसमये। तावन्तमेव कालमिति यावता कालेनागतव्याधिप्रशमः कृतस्तावन्तम्। इष्ट इति शोधनकर्तृपुरुषनक्षत्राद्यनुगुणे औषधप्रयोगार्थं विहित इत्यर्थः; यदुक्तं ज्योतिष- “पुष्यो हस्तस्तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ। स्वाति सौम्यं च भैषज्ये कुर्यादन्यत्र वर्जयेत्” इत्यादि। कारयित्वेति स्वस्तिवाचनं कारयित्वा।।८-९।।
मदनफलकषायमात्राप्रमाणं तु खलु सर्वसंशोधनमात्राप्रमाणानि च प्रतिपुरुषमपेक्षितव्यानि भवन्ति; यावद्धि यस्य संशोधनं पीतं वैकारिकदोषहरणायोपपद्यते न चातियोगायोगाय, तावदस्य मात्राप्रमाणं वेदितव्यं भवति।।१०।।
पीतवन्तं तु खल्वेनं मुहूर्तमनुकाङ्क्षेत, तस्य यदा जानीयात् स्वेदप्रादुर्भावेण दोषं प्रविलयनमापद्यमानं, लोमहर्षेण च स्थानेभ्यः प्रचलितं, कुक्षिसमाध्मापनेन च कुक्षिमनुगतं, हृल्लासास्यस्रवणाभ्यामपि चोर्ध्वमुखीभूतम्, अथास्मै जानुसममसम्बाधं सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानं सोपाश्रयमासनमुपवेष्टुं [७] प्रयच्छेत्, प्रतिग्रहांश्चोपचारयेत्, लालाटप्रतिग्रहे पार्श्वोपग्रहणे नाभिप्रपीडने पृष्ठोन्मर्दने चानपत्रपणीयाः सुहृदोऽनुमताः [८] प्रयतेरन्।।११।।
प्रतिपुरुषमपेक्षितव्यानीत्यनेन प्रतिपुरुषं शोधनमात्राभेदं दर्शयति। यावद्धीत्यादि मात्राशितीयोक्तः ‘यावद्ध्यस्याशनं’ (सू.अ.५) इत्यादिग्रन्थव्याख्यानानुसारेण व्याख्येयम्। अनुकाङ्क्षेतेति परीक्षयन् धारयेत्। असम्बाधमिति असङ्कीर्णम्। प्रतिगृह्णन्तीति प्रतिग्रहः पतद्ग्रहाः। ललाटप्रतिग्रहादय अनपत्रपणीया अलज्जाविषयाः।।१०-११।।
अथैनमनुशिष्यात्- विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन् किञ्चिदवनम्य ग्रीवामूर्ध्वशरीरमुपवेगमप्रवृत्तान् प्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमभिस्पृशन् सुखं प्रवर्तयस्वेति, स तथाविधं कुर्यात्; ततोऽस्य वेगान् प्रतिग्रहगतानवेक्षेतावहितः, वेगविशेषदर्शनाद्धि कुशलो योगायोगातियोगविशेषानुपलभेत, वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत लक्षणेन; तस्माद्वेगानवेक्षेतावहितः।।१२।।
उपवेगं वेगसमीपम्; एतेन सर्वथाऽप्रवृत्ते वेगे प्रवर्तनं निषेधयति। वेगविशेषदर्शनाद्धीत्यादिग्रन्थस्य भाविनो योगायोगादीन् वेगविषयानुपलभ्य तर्कयतीत्यर्थः; किंवा, सिद्धौ वैगिकी शुद्धिरभिधातव्या “जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ” (सि.अ.१) इत्यादिना, तामनेन दर्शयति।।१२।।
तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति; तद्यथा- अप्रवृत्तिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धो वेगानामयोगलक्षणानि भवन्ति; काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानि भवन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः; योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति।
तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्- आध्मानं परिकर्तिका परिस्रावो हृदयोपसरणमङ्गग्रहो जीवादानं [९] विभ्रंशः स्तम्भः क्लमश्चेत्युपद्रवाः।।१३।।
अप्रवृत्तिः कुतश्चिदिति सर्वस्यैवाप्रवृत्तिः; तथा केवलस्य कृत्स्नस्य शोधनीयदोषस्याप्रवृत्तिः; तथौषधस्य विभ्रंशः प्रातिलोम्येन गमनं; यथा- वमनस्याध ऊर्ध्वं च विरेचनस्य, एतदेव सिद्धावुक्तं- “अयोगः प्रातिलोम्येन नचाऽल्पं वा प्रवर्तनम्” (सि. अ.६) इति। किंवा, कुतश्चिद्धाऽप्रवृत्तिः स्तोकदोषप्रवृत्तिरित्यर्थः, तथा केवलस्य चाप्यौषधस्य प्रवृत्तिरिति योजना। यथाक्रममिति वमने प्रथमं श्लेष्मा, तदनु पित्तं, तदनु वायुः; यदुक्तं- “क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः” (सि. अ.१) इति। सम्यग्योगोऽपि हर्तव्यदोषस्याल्पत्वमध्यत्वोत्कृष्टत्वेन त्रिविधो भवतीति दर्शयन्नाह- योगेन त्वित्यादि। तुशब्दोऽवधारणे, तेन योगेनैव यः प्रमाणविशेषोऽल्पादिस्तेन, न त्वयोगातियोगाभ्यामित्यर्थः; अयं च तीक्ष्णादियोगविभागः [१०] पेयाक्रमोत्कर्षार्थः, तथाहि वक्ष्यति सिद्धौ- “पेयां विलेपीं” (सि. अ.१.) इत्यादि। तत्रातियोगेत्यादौ आध्मानादयः शोधनसिद्धौ “बहुदोषस्य रूक्षस्य” (सि. अ.६) इत्यादिना ग्रन्थेन प्रपञ्चेन वक्तव्याः, अतस्तत्रैषां योगातियोगजन्यो यश्चायोगजन्यः स स्फुटो ज्ञेयः।।१३।।
योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य, स्नैहिकवैरेचनिकोपशमनीयानां धूमानामन्यतमं सामर्थ्यतः [११] पाययित्वा, पुनरेवोदकमुपस्पर्शयेत्।।१४।।
उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य संवेश्य चानुशिष्यात्- उच्चैर्भाष्यमत्याशनमतिस्थानमतिचङ्क्रमणं क्रोधशोकहिमातपावश्यायातिप्रवातान् यानयानं ग्राम्यधर्ममस्वपनं निशि दिवा स्वप्नं विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसाऽप्यसेवमानः सर्वमहो गमयस्वेति [१२] ।
स तथा कुर्यात्।।१५।।
स्नैहिकादिधूमपानविकल्पः पुरुषप्रकृत्यपेक्षः; अत एव सामर्थ्यत इत्युक्तं, यद्यस्य युज्यत इत्यर्थः। अतिस्थानमिति अत्यर्थं दण्डायमानत्वेनावस्थितिः। प्रमितभोजनम् एकरसाभ्यासः। अतिहीनं नष्टशक्तिकं धान्यादि। गुरुशब्देन स्वभावगुरुलट्टुकचिपिटकादेर्यथोक्तमात्रयाऽपि भोजननिषेधः।।१४-१५।।
अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नां विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्, एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन [१३] नातिसारवता भोजयेदुष्णोदकानुपानम्; एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रेण प्रकृतिभोजनमागच्छेत्।।१६।।
सायाह्न इत्यादौ सम्यगग्निशुद्धिलक्षणभूते सायाह्ने, किञ्चित्त्वविशुद्धावपरेऽह्नि। यदुक्तं सिद्धौ- “वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यवेक्षयन्। तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्” (सि. अ.६) इति। मण्डपूर्वां मण्डप्रधानाम्। अयं च द्वादशकालनिवर्तनीयः क्रमः प्रधानशुद्धिशुद्धे ज्ञेयः, मध्ये त्वष्टानुकालिकः, तथाऽल्पे चतुरनुकालिकः; उक्तं हि- “पेयां विलेपीं” (सि. अ.१) इत्यादि। अन्नगुणान् मधुरादीन् गुरुकठिनादींश्च। एतच्च संसर्जनक्रमादूर्ध्वं सप्तरात्रेण प्रकृतिभोजनगमनं तदा कर्तव्यं यदि वमनानन्तरं विरेचनं न कर्तव्यं भवति, तत्करणे तु संसर्जनक्रमादूर्ध्वमेव स्नेहपानं; यदुक्तं- “संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेद्वाऽप्यनुवासयेद्वा” (सि. अ.१) इति। तथा सुश्रुतेऽप्युक्तं- “पक्षाद्विरेको वान्तस्य” (सु.चि. अ.३६) इति। यदि संसर्जनक्रमं तथाऽनुगुणाभ्यासं च कृत्वा स्नेहः क्रियते, तदा पक्षाद्विरेको वान्तस्य न स्यात्।।१६।।
अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजपप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान् स्वस्ति वाचयित्वा त्रिवृत्कल्कमक्षमात्रं यथार्हालोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च, सम्यक् विरिक्तं चैनं वमनोक्तेन धूमवर्जेन विधिनोपपादयेदाबलवर्णप्रकृतिलाभात्, बलवर्णोपपन्नं चैनमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतमनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां दर्शयेत्, अथैनं कामेष्ववसृजेत्।।१७।।
भवन्ति चात्र-
अनेन विधिना राजा राजमात्रोऽथवा पुनः।
यस्य वा विपुलं द्रव्यं स संशोधनमर्हति।।१८।।
अथैनमिति कृतसंसर्जनक्रमम्। प्रतिविनीतम् आलोडितम्। दोषादयः पूर्ववद्व्याख्येयाः। विकारांश्चेति कुष्ठज्वरादीन् विरेचनसाध्यान्; पूर्वं तु “सूक्ष्माणि हि” इत्यादौ विकारो नोक्तः, तस्य परीक्ष्यत्वेनैव ग्रहणात्; किंवा दोषग्रहणेनैव तत्र विकारग्रहणम्। कामेषु ईप्सितेषु, अवसृजेत् निर्यन्त्रणं कुर्यात्।।१७-१८।।
दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विशोधनम्।
पिबेत् काममसम्भृत्य सम्भारानपि दुर्लभान्।।१९।।
न हि सर्वमनुष्याणां सन्ति सर्वे परिच्छदाः।
न च रोगा न बाधन्ते दरिद्रानपि दारुणाः।।२०।।
यद्यच्छक्यं मनुष्येण कर्तुमौषधमापदि।
तत्तत् सेव्यं यथाशक्ति वसनान्यशनानि च।।२१।।
सम्प्रति दरिद्रस्य यथोक्तं सम्भारमकृत्वाऽपि संशोधनकरणमाह- दरिद्र इत्यादि। दुर्लभानिति वचनेन सुलभानि दरिद्रेणाऽप्युत्पादनीयानि।।१९-२१।।
मलापहं रोगहरं बलवर्णप्रसादनम्।
पीत्वा संशोधन सम्यगायुषा युज्यते चिरम्।।२२।।
संशोधनकरणगुणमाह- मलापहमित्यादि।।२२।।
तत्र श्लोकाः-
ईश्वराणां वसुमतां वमनं सविरेचनम्।
सम्भारा ये यदर्थं च समानीय प्रयोजयेत्।।२३।।
यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम्।
योगातियोगयोर्यच्च दोषा ये चाप्युपद्रवाः।।२४।।
यदसेव्यं विशुद्धेन यश्च संसर्जनक्रमः।
तत् सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः।।२५।।
सङ्ग्रहे- ईश्वराः सविलासाः; तेन राज्ञो राजमात्रस्य च ग्रहणम्। प्रयोजयेदिति ‘सम्भारान्’ इति शेषः।।२३-२५।।
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने उपकल्पनीयो नाम पञ्चदशोऽध्यायः।।१५।।
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के पञ्चदशोऽध्यायः।।१५।।
१. ‘अनियमेनेति कदाचित् सम्यगारब्धं व्यापद्यति, असम्यगारब्धं च सिध्यतीति’ इति शिवदाससेनः।
२. ‘वार्धक्याद्यवस्था’
३. ‘सह उपाश्रयेण वर्तमानानि सोपाश्रयाणि, उपाश्रय उपधानभेदः’ इति योगीन्द्रनाथसेनः। ‘स्वापाश्रयाणि’ इति पा.।
४. ‘मणति गभीरत्वाज्जलार्पणे शब्दायते इति मणिकः’।
५. ‘मानभाण्डं घॄततैलादिपरिमाणार्थं भाण्डम्’ इति शिवदाससेनः।
६. ‘उपशमयितुं’ इति पा.।
७. ‘स्वापाश्रयं’ इति गङ्गाधरसम्मतः पाठः। निद्राकरणोपयोगीत्यर्थः।
८. ‘अनुकूलाः’ इति पा.।
९. ‘हृदयोपसरणं हृद्ग्रहः, किंवा हृद्ग्रहोत्पादनार्थं हृदये दोषाणामुपसरणम्। अत एव वक्ष्यति- “कुपिता हृदयं गत्वा दोषाः कुर्वन्ति हृद्ग्रहम्” इति। जीवादानमिति जीवनहेतुधातुरूपशोणितनिर्गमः, यदुक्तं- “अतियोगाच्च भैषज्यं जीवं हरति शोणितम्। तज्जीवादानमित्युक्तमादत्ते जीवितं यतः”- इति। विभ्रंशः सञ्ज्ञभ्रंशादिरूपस्त्रिविधः, स च सिद्धौ वक्ष्यमाणः’ इति शिवदाससेनः।
१०. ‘तीक्ष्णादि विभागः’ इति पा.।
११. ‘सामर्थ्यं योग्यता’ इति शिवदाससेनः।
१२. ‘सर्वमाहारमद्याः’ इति पा.।
१३. ‘औदकलावणिकेनोदकलवणाभ्यां संस्कृतेन’ इति शिवदाससेनः।
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
sūtrasthānam - 15. upakalpanīyō'dhyāyaḥ
athāta upakalpanīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
snēhasvēdōpapannasya saṁśōdhanamanantaramityanēnaivōktāt sambandhāt svēdādhyāyānantaraṁ śōdhanavidhērabhidhāyakamupakalpanīyamāha| upakalpanīyamiti śōdhanōpakalpanāmadhikr̥tya kr̥tō’dhyāya upakalpanīyaḥ||1-2||
iha khalu rājānaṁ rājamātramanyaṁ vā vipuladravyaṁ vamanaṁ virēcanaṁ vā pāyayitukāmēna bhiṣajā prāgēvauṣadhapānāt sambhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhē pratibhōgārthāḥ, vyāpannē cauṣadhē vyāpadaḥ parisaṅkhyāya pratīkārārthāḥ; na hi sannikr̥ṣṭē kālē prādurbhūtāyāmāpadi satyapi krayākrayē sukaramāśu sambharaṇamauṣadhānāṁ yathāvaditi||3||
ēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- nanu bhagavan! ādāvēva jñānavatā tathā pratividhātavyaṁ yathā prativihitē sidhyēdēvauṣadhamēkāntēna, samyakprayōganimittā hi sarvakarmaṇāṁ siddhiriṣṭā, vyāpaccāsamyakprayōganimittā; atha samyagasamyak ca samārabdhaṁ karma siddhyati vyāpadyatē vā’niyamēna, tulyaṁ bhavati jñānamajñānēnēti||4||
rājña iva mātrā paricchadō yasya sa rājamātraḥ| vipuladravyastu vaṇigādiḥ| parisaṅkhyāyēti jñātvā| krayaḥ paṇyam, ākrayō mūlyam| aniyamēnēti [1] samyagārabdhaṁ sidhyati vyāpadyatē ca||3-4||
tamuvāca bhagavānātrēyaḥ- śakyaṁ tathā pratividhātumasmābhirasmadvidhairvā’pyagnivēśa! yathā prativihitē sidhyēdēvauṣadhamēkāntēna, tacca prayōgasauṣṭhavamupadēṣṭuṁ yathāvat; nahi kaścidasti ya ētadēvamupadiṣṭamupadhārayitumutsahēta, upadhārya vā tathā pratipattuṁ prayōktuṁ vā; sūkṣmāṇi hi dōṣabhēṣajadēśakālabalaśarīrāhārasātmyasattvaprakr̥tivayasāmavasthāntarāṇi, yānyanucintyamānāni vimalavipulabuddhērapi buddhimākulīkuryuḥ kiṁ punaralpabuddhēḥ; tasmādubhayamētadyathāvadupadēkṣyāmaḥ- samyakprayōgaṁ cauṣadhānāṁ, vyāpannānāṁ ca vyāpatsādhanāni siddhiṣūttarakālam||5||
prayōgasauṣṭhavaṁ prayōgasuṣṭhutvaṁ, yathāvadupadēṣṭuṁ śakyamasmābhirasmadvidhairvēti yōjanā| ētaditi prayōgasauṣṭhavam| ēvamiti yathāvad| upadhārayitumiti granthēna dhārayitum| pratipattumiti arthatō grahītum| sūkṣmāṇītyādi sūkṣmāṇīva sūkṣmāṇi durbōdhatvēna; tatra dōṣasyāvasthāntarāṇi- kṣayastathā vr̥ddhistathā samatvaṁ, ēvamūrdhvadēhagamanaṁ tathā’dhōdēhagamanaṁ tiryaggamanaṁ vā, tathā śākhāśrayitvaṁ kōṣṭhāśrayitvaṁ madhyamārgāśrayitvaṁ, tathā svadēśagamanaṁ paradēśagamanaṁ, tathā svatantratvaṁ paratantratvaṁ, tathāṁ’śāṁśavikalpaḥ, tathā dhātuviśēṣāśrayitvaṁ, tathā kālaprakr̥tidūṣyānuguṇatvādikr̥tsnatantrapratipāditāni jñēyāni; ēvaṁ bhēṣajasyāvasthāntarāṇi- taruṇatvaṁ, vr̥ddhatvam, ārdratvaṁ, śuṣkatvaṁ, dravyāntarasaṁyuktatvaṁ, svarasādikalpanāyōgitvaṁ, rasavīryavipākaiḥ prabhāvaiśca tasmin dēhē dōṣādau tattatkāryakartr̥tvamēvamādīni; dēśastvānūpajāṅgalasādhāraṇapraśastādibhēdabhinnaḥ; kālāvasthāntarāṇi tu r̥tubhēdāḥ, pūrvāhṇādiśca tathā vyādhyavasthā jvarāṣṭāhādaya ityēvamādīni; balaṁ tu sahajaṁ yuktikr̥taṁ tathā kālakr̥tamutkr̥ṣṭāpakr̥ṣṭamadhyādibhēdabhinnaṁ; śarīraṁ tu sthūlatvakr̥śatvasāravattvaniḥsāravattvādi, tathā paripālanīyadr̥ṣṭimarmādyavayavaviśēṣādibhiśca bhinnam; āhārastu prakr̥tikaraṇasaṁyōgarāśibhēdādibhirbhinnaḥ; sātmyaṁ tu dēśataḥ kālatō vyādhitaḥ prakr̥titaḥ svabhāvatō’bhyāsataśca bhinnaṁ bhavati; sattvaṁ tu bhayaśauryaviṣādaharṣādiyōgabhinnaṁ bhavati; prakr̥tibhēdāstvanēkaprakārabhinnavātādyārabdhatvēna bōddhavyāḥ; vayōbhēdāstu bālyayauvanavārdhakyatadavāntarabhēdāḥ [2] ; ētāni dōṣādyavasthāntarāṇi cikitsāprayōgē yathāyathā’pēkṣyantē, tadudāharaṇaṁ śāstrē’nusaraṇīyam, iha likhyamānaṁ tu vistaratvaṁ granthasyāvahatīti nōktam| ubhayamētaduttarakālaṁ siddhiṣūpadēkṣyāma iti yōjanā||5||
idānīṁ tāvat sambhārān vividhānapi samāsēnōpadēkṣyāmaḥ; tadyathā- dr̥ḍhaṁ nivātaṁ pravātaikadēśaṁ sukhapravicāramanupatyakaṁ dhūmātapajalarajasāmanabhigamanīyamaniṣṭhānāṁ ca śabdasparśarasarūpagandhānāṁ sōdapānōdūkhalamusalavarcaḥsthānasnānabhūmimahānasaṁ vāstuvidyākuśalaḥ praśastaṁ gr̥hamēva tāvat pūrvamupakalpayēt||6||
vividhānapīti apiśabdaḥ samāsēnāpītyēvaṁrūpō jñēyaḥ; tēna gr̥hādayō’pi vistarēṇōcyantē, saṅgrahaṇīyādayaśca samāsēnēti dvayamapi susthaṁ syāt; yadi vā ‘dvividhānapi’ iti pāṭhaḥ, tēna bhōgārthāni tathā vyāpatsādhanāni gr̥hyantē| anupatyakaṁ yad vidūramanyasya mahatō gr̥hasya| udakaṁ pīyatē yēna tadudapānam||6||
tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyōpapannānupacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṁvāhakōtthāpakasaṁvēśakauṣadhapēṣakāṁśca paricārakān sarvakarmasvapratikūlān, tathā gītavāditrōllāpakaślōkagāthākhyāyikētihāsapurāṇakuśalānabhiprāyajñānanumatāṁśca dēśakālavidaḥ pāriṣadyāṁśca, tathā lāvakapiñjilaśaśahariṇaiṇakālapucchakamr̥gamātr̥kōrabhrān, gāṁ dōgdhrīṁ śīlavatīmanāturāṁ jīvadvatsāṁ suprativihitatr̥ṇaśaraṇapānīyāṁ, pātryācamanīyōdakōṣṭhamaṇikaghaṭapiṭharaparyōgakumbhīkumbhakuṇḍaśarāva- darvīkaṭōdañcanaparipacanamanthānacarmacēlasūtrakārpāsōrṇādīni ca, śayanāsanādīni cōpanyastabhr̥ṅgārapratigrahāṇi suprayuktāstaraṇōttarapracchadōpadhānāni sōpāśrayāṇi [3] saṁvēśanōpavēśanasnēhasvēdābhyaṅgapradēhapariṣēkānulēpanavamanavirēcanāsthāpanānuvāsana- śirōvirēcanamūtrōccārakarmaṇāmupacārasukhāni, suprakṣālitōpadhānāśca suślakṣṇakharamadhyamā dr̥ṣadaḥ, śastrāṇi cōpakaraṇārthāni, dhūmanētraṁ ca, bastinētraṁ cōttarabastikaṁ ca, kuśahastakaṁ ca, tulāṁ ca, mānabhāṇḍaṁ ca, ghr̥tatailavasāmajjakṣaudraphāṇitalavaṇēndhanōdakamadhusīdhusurāsauvīrakatuṣōdaka- mairēyamēdakadadhidadhimaṇḍōdasviddhānyāmlamūtrāṇi ca, tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramr̥dvīkākāśmaryaparūṣakābhayāmalakabibhītakāni, nānāvidhāni ca snēhasvēdōpakaraṇāni dravyāṇi, tathaivōrdhvaharānulōmikōbhayabhāñji, saṅgrahaṇīyadīpanīyapācanīyōpaśamanīyavātaharādisamākhyātāni cauṣadhāni; yaccānyadapi kiñcihyāpadaḥ parisaṅkhyāya pratīkārārthamupakaraṇaṁ vidyāt, yacca pratibhōgārthaṁ, tattadupakalpayēt||7||
prādakṣiṇyam ānukūlyam| ullāpakaṁ stōtram, itihāsaḥ ajñāyamānakartr̥kāptōpadēśaḥ| mr̥gamātr̥kā pr̥thūdarō hariṇaḥ| śaraṇaṁ gr̥ham| ācamanīyōdakōṣṭham ācamānārthamudakakōṣṭhaṁ; kiṁvā ācamyatē yēna pātrēṇa tadācamanaṁ; maṇikō gōlakaḥ [4] , piṭharaḥ sthālī, paryōgaḥ kaṭāhaḥ, kumbhō dr̥ḍhāvayavō’lpamukhō ghaṭaḥ, kaṭaḥ tr̥ṇādiracitamāsanam, udañcanaṁ pidhānaśarāvaḥ, paripacanaṁ tailapācanikā| ūrṇā gaḍḍararōmāṇi| suprakṣālitētyādau upadhānaḥ śilāputra iti prasiddhaḥ, dr̥ṣadaḥ pāṣāṇapaṭṭakāḥ| śastrāṇi cōpakaraṇārthānīti kuddālakartarīprabhr̥tīni| kuśahastakaṁ sammārjanī; anyē tu ārdradravyaparipacanamabhidadhati| mānabhāṇḍaṁ [5] pratimānam||7||
tatastaṁ puruṣaṁ yathōktābhyāṁ snēhasvēdābhyāṁ yathārhamupapādayēt, taṁ cēdasminnantarē mānasaḥ śārīrō vā vyādhiḥ kaścittīvrataraḥ sahasā’bhyāgacchēttamēva tāvadasyōpāvartayituṁ [6] yatēta, tatastamupāvartya tāvantamēvainaṁ kālaṁ tathāvidhēnaiva karmaṇōpācarēt||8||
tatastaṁ puruṣaṁ snēhasvēdōpapannamanupahatamanasamabhisamīkṣya sukhōṣitaṁ suprajīrṇabhaktaṁ śiraḥsnātamanuliptagātraṁ sragviṇamanupahatavastrasaṁvītaṁ dēvatāgnidvijaguruvr̥ddhavaidyānarcitavantamiṣṭē nakṣatratithikaraṇamuhūrtē kārayitvā brāhmaṇān svastivācanaṁ prayuktābhirāśīrbhirabhimantritāṁ madhumadhukasaindhavaphāṇitōpahitāṁ madanaphalakaṣāyamātrāṁ pāyayēt||9||
taṁ cētyādau asminnantara iti snēhasvēdakaraṇasamayē| tāvantamēva kālamiti yāvatā kālēnāgatavyādhipraśamaḥ kr̥tastāvantam| iṣṭa iti śōdhanakartr̥puruṣanakṣatrādyanuguṇē auṣadhaprayōgārthaṁ vihita ityarthaḥ; yaduktaṁ jyōtiṣa- “puṣyō hastastathā jyēṣṭhā rōhiṇī śravaṇāśvinau| svāti saumyaṁ ca bhaiṣajyē kuryādanyatra varjayēt” ityādi| kārayitvēti svastivācanaṁ kārayitvā||8-9||
madanaphalakaṣāyamātrāpramāṇaṁ tu khalu sarvasaṁśōdhanamātrāpramāṇāni ca pratipuruṣamapēkṣitavyāni bhavanti; yāvaddhi yasya saṁśōdhanaṁ pītaṁ vaikārikadōṣaharaṇāyōpapadyatē na cātiyōgāyōgāya, tāvadasya mātrāpramāṇaṁ vēditavyaṁ bhavati||10||
pītavantaṁ tu khalvēnaṁ muhūrtamanukāṅkṣēta, tasya yadā jānīyāt svēdaprādurbhāvēṇa dōṣaṁ pravilayanamāpadyamānaṁ, lōmaharṣēṇa ca sthānēbhyaḥ pracalitaṁ, kukṣisamādhmāpanēna ca kukṣimanugataṁ, hr̥llāsāsyasravaṇābhyāmapi cōrdhvamukhībhūtam, athāsmai jānusamamasambādhaṁ suprayuktāstaraṇōttarapracchadōpadhānaṁ sōpāśrayamāsanamupavēṣṭuṁ [7] prayacchēt, pratigrahāṁścōpacārayēt, lālāṭapratigrahē pārśvōpagrahaṇē nābhiprapīḍanē pr̥ṣṭhōnmardanē cānapatrapaṇīyāḥ suhr̥dō’numatāḥ [8] prayatēran||11||
pratipuruṣamapēkṣitavyānītyanēna pratipuruṣaṁ śōdhanamātrābhēdaṁ darśayati| yāvaddhītyādi mātrāśitīyōktaḥ ‘yāvaddhyasyāśanaṁ’ (sū.a.5) ityādigranthavyākhyānānusārēṇa vyākhyēyam| anukāṅkṣētēti parīkṣayan dhārayēt| asambādhamiti asaṅkīrṇam| pratigr̥hṇantīti pratigrahaḥ patadgrahāḥ| lalāṭapratigrahādaya anapatrapaṇīyā alajjāviṣayāḥ||10-11||
athainamanuśiṣyāt- vivr̥tōṣṭhatālukaṇṭhō nātimahatā vyāyāmēna vēgānudīrṇānudīrayan kiñcidavanamya grīvāmūrdhvaśarīramupavēgamapravr̥ttān pravartayan suparilikhitanakhābhyāmaṅgulibhyāmutpalakumudasaugandhikanālairvā kaṇṭhamabhispr̥śan sukhaṁ pravartayasvēti, sa tathāvidhaṁ kuryāt; tatō’sya vēgān pratigrahagatānavēkṣētāvahitaḥ, vēgaviśēṣadarśanāddhi kuśalō yōgāyōgātiyōgaviśēṣānupalabhēta, vēgaviśēṣadarśī punaḥ kr̥tyaṁ yathārhamavabudhyēta lakṣaṇēna; tasmādvēgānavēkṣētāvahitaḥ||12||
upavēgaṁ vēgasamīpam; ētēna sarvathā’pravr̥ttē vēgē pravartanaṁ niṣēdhayati| vēgaviśēṣadarśanāddhītyādigranthasya bhāvinō yōgāyōgādīn vēgaviṣayānupalabhya tarkayatītyarthaḥ; kiṁvā, siddhau vaigikī śuddhirabhidhātavyā “jaghanyamadhyapravarē tu vēgāścatvāra iṣṭā vamanē ṣaḍaṣṭau” (si.a.1) ityādinā, tāmanēna darśayati||12||
tatrāmūnyayōgayōgātiyōgaviśēṣajñānāni bhavanti; tadyathā- apravr̥ttiḥ kutaścit kēvalasya vā’pyauṣadhasya vibhraṁśō vibandhō vēgānāmayōgalakṣaṇāni bhavanti; kālē pravr̥ttiranatimahatī vyathā yathākramaṁ dōṣaharaṇaṁ svayaṁ cāvasthānamiti yōgalakṣaṇāni bhavanti, yōgēna tu dōṣapramāṇaviśēṣēṇa tīkṣṇamr̥dumadhyavibhāgō jñēyaḥ; yōgādhikyēna tu phēnilaraktacandrikōpagamanamityatiyōgalakṣaṇāni bhavanti|
tatrātiyōgāyōganimittānimānupadravān vidyāt- ādhmānaṁ parikartikā parisrāvō hr̥dayōpasaraṇamaṅgagrahō jīvādānaṁ [9] vibhraṁśaḥ stambhaḥ klamaścētyupadravāḥ||13||
apravr̥ttiḥ kutaściditi sarvasyaivāpravr̥ttiḥ; tathā kēvalasya kr̥tsnasya śōdhanīyadōṣasyāpravr̥ttiḥ; tathauṣadhasya vibhraṁśaḥ prātilōmyēna gamanaṁ; yathā- vamanasyādha ūrdhvaṁ ca virēcanasya, ētadēva siddhāvuktaṁ- “ayōgaḥ prātilōmyēna nacā’lpaṁ vā pravartanam” (si. a.6) iti| kiṁvā, kutaściddhā’pravr̥ttiḥ stōkadōṣapravr̥ttirityarthaḥ, tathā kēvalasya cāpyauṣadhasya pravr̥ttiriti yōjanā| yathākramamiti vamanē prathamaṁ ślēṣmā, tadanu pittaṁ, tadanu vāyuḥ; yaduktaṁ- “kramāt kaphaḥ pittamathānilaśca yasyaiti samyagvamitaḥ sa iṣṭaḥ” (si. a.1) iti| samyagyōgō’pi hartavyadōṣasyālpatvamadhyatvōtkr̥ṣṭatvēna trividhō bhavatīti darśayannāha- yōgēna tvityādi| tuśabdō’vadhāraṇē, tēna yōgēnaiva yaḥ pramāṇaviśēṣō’lpādistēna, na tvayōgātiyōgābhyāmityarthaḥ; ayaṁ ca tīkṣṇādiyōgavibhāgaḥ [10] pēyākramōtkarṣārthaḥ, tathāhi vakṣyati siddhau- “pēyāṁ vilēpīṁ” (si. a.1.) ityādi| tatrātiyōgētyādau ādhmānādayaḥ śōdhanasiddhau “bahudōṣasya rūkṣasya” (si. a.6) ityādinā granthēna prapañcēna vaktavyāḥ, atastatraiṣāṁ yōgātiyōgajanyō yaścāyōgajanyaḥ sa sphuṭō jñēyaḥ||13||
yōgēna tu khalvēnaṁ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṁ muhūrtamāśvāsya, snaihikavairēcanikōpaśamanīyānāṁ dhūmānāmanyatamaṁ sāmarthyataḥ [11] pāyayitvā, punarēvōdakamupasparśayēt||14||
upaspr̥ṣṭōdakaṁ cainaṁ nivātamāgāramanupravēśya saṁvēśya cānuśiṣyāt- uccairbhāṣyamatyāśanamatisthānamaticaṅkramaṇaṁ krōdhaśōkahimātapāvaśyāyātipravātān yānayānaṁ grāmyadharmamasvapanaṁ niśi divā svapnaṁ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhōjanavēgasandhāraṇōdīraṇamiti bhāvānētānmanasā’pyasēvamānaḥ sarvamahō gamayasvēti [12] |
sa tathā kuryāt||15||
snaihikādidhūmapānavikalpaḥ puruṣaprakr̥tyapēkṣaḥ; ata ēva sāmarthyata ityuktaṁ, yadyasya yujyata ityarthaḥ| atisthānamiti atyarthaṁ daṇḍāyamānatvēnāvasthitiḥ| pramitabhōjanam ēkarasābhyāsaḥ| atihīnaṁ naṣṭaśaktikaṁ dhānyādi| guruśabdēna svabhāvagurulaṭṭukacipiṭakādēryathōktamātrayā’pi bhōjananiṣēdhaḥ||14-15||
athainaṁ sāyāhnē parē vā’hni sukhōdakapariṣiktaṁ purāṇānāṁ lōhitaśālitaṇḍulānāṁ svavaklinnāṁ maṇḍapūrvāṁ sukhōṣṇāṁ yavāgūṁ pāyayēdagnibalamabhisamīkṣya, ēvaṁ dvitīyē tr̥tīyē cānnakālē, caturthē tvannakālē tathāvidhānāmēva śālitaṇḍulānāmutsvinnāṁ vilēpīmuṣṇōdakadvitīyāmasnēhalavaṇāmalpasnēhalavaṇāṁ vā bhōjayēt, ēvaṁ pañcamē ṣaṣṭhē cānnakālē, saptamē tvannakālē tathāvidhānāmēva śālīnāṁ dviprasr̥taṁ susvinnamōdanamuṣṇōdakānupānaṁ tanunā tanusnēhalavaṇōpapannēna mudgayūṣēṇa bhōjayēt, ēvamaṣṭamē navamē cānnakālē, daśamē tvannakalē lāvakapiñjalādīnāmanyatamasya māṁsarasēnaudakalāvaṇikēna [13] nātisāravatā bhōjayēduṣṇōdakānupānam; ēvamēkādaśē dvādaśē cānnakālē; ata ūrdhvamannaguṇān kramēṇōpabhuñjānaḥ saptarātrēṇa prakr̥tibhōjanamāgacchēt||16||
sāyāhna ityādau samyagagniśuddhilakṣaṇabhūtē sāyāhnē, kiñcittvaviśuddhāvaparē’hni| yaduktaṁ siddhau- “vamitaṁ laṅghayēt samyagjīrṇaliṅgānyavēkṣayan| tāni dr̥ṣṭvā tu pēyādikramaṁ kuryānna laṅghanam” (si. a.6) iti| maṇḍapūrvāṁ maṇḍapradhānām| ayaṁ ca dvādaśakālanivartanīyaḥ kramaḥ pradhānaśuddhiśuddhē jñēyaḥ, madhyē tvaṣṭānukālikaḥ, tathā’lpē caturanukālikaḥ; uktaṁ hi- “pēyāṁ vilēpīṁ” (si. a.1) ityādi| annaguṇān madhurādīn gurukaṭhinādīṁśca| ētacca saṁsarjanakramādūrdhvaṁ saptarātrēṇa prakr̥tibhōjanagamanaṁ tadā kartavyaṁ yadi vamanānantaraṁ virēcanaṁ na kartavyaṁ bhavati, tatkaraṇē tu saṁsarjanakramādūrdhvamēva snēhapānaṁ; yaduktaṁ- “saṁsr̥ṣṭabhaktaṁ navamē’hni sarpistaṁ pāyayēdvā’pyanuvāsayēdvā” (si. a.1) iti| tathā suśrutē’pyuktaṁ- “pakṣādvirēkō vāntasya” (su.ci. a.36) iti| yadi saṁsarjanakramaṁ tathā’nuguṇābhyāsaṁ ca kr̥tvā snēhaḥ kriyatē, tadā pakṣādvirēkō vāntasya na syāt||16||
athainaṁ punarēva snēhasvēdābhyāmupapādyānupahatamanasamabhisamīkṣya sukhōṣitaṁ suprajīrṇabhaktaṁ kr̥tahōmabalimaṅgalajapaprāyaścittamiṣṭē tithinakṣatrakaraṇamuhūrtē brāhmaṇān svasti vācayitvā trivr̥tkalkamakṣamātraṁ yathārhālōḍanaprativinītaṁ pāyayēt prasamīkṣya dōṣabhēṣajadēśakālabalaśarīrāhārasātmyasattvaprakr̥tivayasāmavasthāntarāṇi vikārāṁśca, samyak viriktaṁ cainaṁ vamanōktēna dhūmavarjēna vidhinōpapādayēdābalavarṇaprakr̥tilābhāt, balavarṇōpapannaṁ cainamanupahatamanasamabhisamīkṣya sukhōṣitaṁ suprajīrṇabhaktaṁ śiraḥsnātamanuliptagātraṁ sragviṇamanupahatavastrasaṁvītamanurūpālaṅkārālaṅkr̥taṁ suhr̥dāṁ darśayitvā jñātīnāṁ darśayēt, athainaṁ kāmēṣvavasr̥jēt||17||
bhavanti cātra-
anēna vidhinā rājā rājamātrō’thavā punaḥ|
yasya vā vipulaṁ dravyaṁ sa saṁśōdhanamarhati||18||
athainamiti kr̥tasaṁsarjanakramam| prativinītam ālōḍitam| dōṣādayaḥ pūrvavadvyākhyēyāḥ| vikārāṁścēti kuṣṭhajvarādīn virēcanasādhyān; pūrvaṁ tu “sūkṣmāṇi hi” ityādau vikārō nōktaḥ, tasya parīkṣyatvēnaiva grahaṇāt; kiṁvā dōṣagrahaṇēnaiva tatra vikāragrahaṇam| kāmēṣu īpsitēṣu, avasr̥jēt niryantraṇaṁ kuryāt||17-18||
daridrastvāpadaṁ prāpya prāptakālaṁ viśōdhanam|
pibēt kāmamasambhr̥tya sambhārānapi durlabhān||19||
na hi sarvamanuṣyāṇāṁ santi sarvē paricchadāḥ|
na ca rōgā na bādhantē daridrānapi dāruṇāḥ||20||
yadyacchakyaṁ manuṣyēṇa kartumauṣadhamāpadi|
tattat sēvyaṁ yathāśakti vasanānyaśanāni ca||21||
samprati daridrasya yathōktaṁ sambhāramakr̥tvā’pi saṁśōdhanakaraṇamāha- daridra ityādi| durlabhāniti vacanēna sulabhāni daridrēṇā’pyutpādanīyāni||19-21||
malāpahaṁ rōgaharaṁ balavarṇaprasādanam|
pītvā saṁśōdhana samyagāyuṣā yujyatē ciram||22||
saṁśōdhanakaraṇaguṇamāha- malāpahamityādi||22||
tatra ślōkāḥ-
īśvarāṇāṁ vasumatāṁ vamanaṁ savirēcanam|
sambhārā yē yadarthaṁ ca samānīya prayōjayēt||23||
yathā prayōjyā mātrā yā yadayōgasya lakṣaṇam|
yōgātiyōgayōryacca dōṣā yē cāpyupadravāḥ||24||
yadasēvyaṁ viśuddhēna yaśca saṁsarjanakramaḥ|
tat sarvaṁ kalpanādhyāyē vyājahāra punarvasuḥ||25||
saṅgrahē- īśvarāḥ savilāsāḥ; tēna rājñō rājamātrasya ca grahaṇam| prayōjayēditi ‘sambhārān’ iti śēṣaḥ||23-25||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē upakalpanīyō nāma pañcadaśō’dhyāyaḥ||15||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ sūtrasthānē nirdēśacatuṣkē pañcadaśō’dhyāyaḥ||15||
1. ‘aniyamēnēti kadācit samyagārabdhaṁ vyāpadyati, asamyagārabdhaṁ ca sidhyatīti’ iti śivadāsasēnaḥ|
2. ‘vārdhakyādyavasthā’
3. ‘saha upāśrayēṇa vartamānāni sōpāśrayāṇi, upāśraya upadhānabhēdaḥ’ iti yōgīndranāthasēnaḥ| ‘svāpāśrayāṇi’ iti pā.|
4. ‘maṇati gabhīratvājjalārpaṇē śabdāyatē iti maṇikaḥ’|
5. ‘mānabhāṇḍaṁ ghr̥̄tatailādiparimāṇārthaṁ bhāṇḍam’ iti śivadāsasēnaḥ|
6. ‘upaśamayituṁ’ iti pā.|
7. ‘svāpāśrayaṁ’ iti gaṅgādharasammataḥ pāṭhaḥ| nidrākaraṇōpayōgītyarthaḥ|
8. ‘anukūlāḥ’ iti pā.|
9. ‘hr̥dayōpasaraṇaṁ hr̥dgrahaḥ, kiṁvā hr̥dgrahōtpādanārthaṁ hr̥dayē dōṣāṇāmupasaraṇam| ata ēva vakṣyati- “kupitā hr̥dayaṁ gatvā dōṣāḥ kurvanti hr̥dgraham” iti| jīvādānamiti jīvanahētudhāturūpaśōṇitanirgamaḥ, yaduktaṁ- “atiyōgācca bhaiṣajyaṁ jīvaṁ harati śōṇitam| tajjīvādānamityuktamādattē jīvitaṁ yataḥ”- iti| vibhraṁśaḥ sañjñabhraṁśādirūpastrividhaḥ, sa ca siddhau vakṣyamāṇaḥ’ iti śivadāsasēnaḥ|
10. ‘tīkṣṇādi vibhāgaḥ’ iti pā.|
11. ‘sāmarthyaṁ yōgyatā’ iti śivadāsasēnaḥ|
12. ‘sarvamāhāramadyāḥ’ iti pā.|
13