ebooks-esamhita-ecaraka-sutrasthana-vatakalakaleeya-adhyaya

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

सूत्रस्थानम् - १२. वातकलाकलीयोऽध्यायः

 


अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||


पूर्वाध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैरभिहिताः, उपयुक्तज्ञानास्तत्कारणवातादयो बहुवाच्यत्वान्नोक्ताः, अतः सम्प्रति पृथक्प्रकरणे तेऽभिधीयन्ते वातकलाकलीये; तत्रापि प्राधान्याद्वायुरेव प्रथममुच्यते| कला गुणः, यदुक्तं- “षोडशकलम्” (सू.अ.१०) इति; अकला गुणविरुद्धो दोषः; तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः; यदि वा कला सूक्ष्मो भागः, तस्यापि कला कलाकला; तस्यापि [१] सूक्ष्मो भाग इत्यर्थः||१-२||

वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यं- किङ्गुणो वायुः, किमस्य प्रकोपणम्, उपशमनानि वाऽस्य कानि, कथं चैनमसङ्घातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्योवेति||३||


अत्रानेकर्षिवचनरूपतया वातादिगुणवचनं बह्वृषिसम्मतिदर्शनार्थं तन्त्रधर्मैतिह्ययुक्तत्वकरणार्थं च| असङ्घातमिति पित्तश्लेष्मवदवयवसङ्घातरहितम्| अनवस्थितमिति चलस्वभावम्| अनासाद्येति चलत्वेनानिबिडावयत्वेन चेति मन्तव्यम्||३||

अत्रोवाच कुशः साङ्कृत्यायनः- रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति||४||


रूक्षादयो भावप्रधानाः, तेन रूक्षत्वादयो गुणा मन्तव्याः| दारुणत्वं चलत्वं चलत्वात्, एवं दीर्घञ्जीवितीयोक्तं चलत्वमुक्तं भवति; यदि वा, दारुणत्वं शोषणत्वात् काठिन्यं करोतीति||४||

तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच- एवमेतद्यथा भगवानाह, एत एव वातगुणा भवन्ति, स त्वेवङ्गुणैरेवन्द्रव्यैरेवम्प्रभावैश्च कर्मभिरभ्यस्यमानैर्वायुः प्रकोपमापद्यते, समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति||५||


कुमारशिरा इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिषेधार्थम्| एवम्प्रभावैरिति प्रभावाद्रौक्ष्यादिकारकैर्धावनजागरणादिभिः, प्रभावाभिधानं [२] च कर्मणां निर्गुणत्वात्| अभ्यस्यमानैरिति असकृत्प्रयुक्तैः||५||

तच्छ्रुत्वा वाक्यं काङ्कायनो बाह्लीकभिषगुवाच- एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपणानि भवन्ति; अतो विपरीतानि वातस्य प्रशमनानि भवन्ति, प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति||६||
तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच- एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपप्रशमनानि भवन्ति|
यथा ह्येनमसङ्घातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, तथाऽनुव्याख्यास्यामः- वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां, तथाविधेषु शरीरेषु वायुराश्रयं गत्वाऽऽप्यायमानः प्रकोपमापद्यते; वातप्रशमनानि पुनःस्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां, तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते||७||


शरीराणामिति शरीरावयवानाम्| शुषिरकराणि रन्ध्रकराणि| आश्रयमिति समानगुणस्थानम्| आप्यायमानः चीयमानः| दारुणविपरीतो मृदुः, शुषिरविपरीतो घनः| असज्यमानः अनवतिष्ठमानः, क्षीयमाणावयव इति यावत्| एतेनैतदुक्तं भवति- यद्यपि वायुना वातकारणानां वातशमनानां वा तथा सम्बन्धो नास्ति, तथाऽपि शरीरसम्बद्धैस्तैर्वातस्य शरीरचारिणः सम्बन्धो भवति, ततश्च वातस्य समानगुणयोगाद्वृद्धिर्विपरीतगुणयोगाच्च ह्रास उपपन्न एवेति||६-७||

तच्छ्रुत्वा बडिशवचनमवितथमृषिगणैरनुमतमुवाच वार्योविदो राजर्षिः- एवमेतत् सर्वमनपवादं यथा भगवानाह|
यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वा भवन्ति, तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः- वायुस्तन्त्रयन्त्रधरः, प्राणोदानसमानव्यानापानात्मा, प्रवर्तकश्चेष्टानामुच्चावचानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामुद्योजकः, सर्वेन्द्रियार्थानामभिवोढा, सर्वशरीरधातुव्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्तको वाचः, प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलं, हर्षोत्साहयोर्योनिः, समीरणोऽग्नेः, दोषसंशोषणः [३] , क्षेप्ता बहिर्मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्तागर्भाकृतीनाम्, आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः|
कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैरुपतपति बलवर्णसुखायुषामुपघाताय [४] , मनो व्याहर्षयति [५] , सर्वेन्द्रियाण्युपहन्ति, विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति, भयशोकमोहदैन्यातिप्रलापाञ्जनयति, प्राणांश्चोपरुणद्धि|
प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति; तद्यथा- धरणीधारणं, ज्वलनोज्ज्वालनम्, आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगतिविधानं, सृष्टिश्च मेघानाम्, अपां विसर्गः, प्रवर्तनं स्रोतसां, पुष्पफलानां चाभिनिर्वर्तनम्, उद्भेदनं चौद्भिदानाम्, ऋतूनां प्रविभागः, विभागो धातूनां, धातुमानसंस्थानव्यक्तिः, बीजाभिसंस्कारः, शस्याभिवर्धनमविक्लेदोपशोषणे [६] , अवैकारिकविकारश्चेति|
प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति; तद्यथा- शिखरिशिखरावमथनम्, उन्मथनमनोकहानाम्, उत्पीडनं सागराणाम्, उद्वर्तनं सरसां, प्रतिसरणमापगानाम्, आकम्पनं च भूमेः, आधमनमम्बुदानां [७] , नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः, व्यापादनं च षण्णामृतूनां, शस्यानामसङ्घातः, भूतानां चोपसर्गः, भावानां चाभावकरणं, चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः; स हि भगवान् प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः, सुखासुखयोर्विधाता, मृत्युः, यमः, नियन्ता, प्रजापतिः, अदितिः, विश्वकर्मा, विश्वरूपः, सर्वगः, सर्वतन्त्राणां विधाता, भावानामणुः, विभुः, विष्णुः, क्रान्ता लोकानां, वायुरेव भगवानिति||८||


शरीराशरीरचरस्येति वातस्वरूपकथनं, तेन शरीरेषु चरत इति बहिः शरीरेभ्यो वेति च पुनरुक्तं न भवति| अत्रावयवानिति वदन् [८] कार्त्स्न्याभिधानमशक्यं बहुप्रपञ्चत्वादिति दर्शयति| साधयित्वा प्रतिपाद्य| वातकर्मसु प्रत्यक्षाणि वचनादीनि, मनःप्रेरणाद्यनुमेयं, गर्भाकृतिकरणाद्यागमगम्यम्| तन्त्रं शरीरं, यदुक्तं- “तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्” (इं. अ.१२) इति, तदेव यन्त्रं; यदि वा, तन्त्रस्य यन्त्रं सन्धयः| प्राणाद्यात्मा प्राणादिस्वरूपः| चेष्टाविशेषणम्- उच्चावचानां, विविधानामित्यर्थः, किंवा शुभाशुभानामित्यर्थः| नियन्ता अनीप्सिते विषये प्रवर्तमानस्य मनसः, प्रणेता च मनस एवेप्सितेऽर्थे| उद्योजकः प्रेरकः; किंवा ‘उद्योगकारक’ इति पाठः, सोऽप्यभिन्नार्थः| अभिवोढेवाभिवोढा सर्वेन्द्रियार्थग्राहकत्वेन; तच्चास्य वायुमयेन स्पर्शनेन्द्रियेण सर्वेन्द्रियाणां व्यापकत्वात् पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम्| व्यूहकरः सङ्घातकरो रचनाकर इति यावत् [९] | प्रकृतिः कारणं, शब्दकारणत्वं च वायोर्नित्यमाकाशानुप्रवेशात्; उक्तं हि खादीन्यभिधाय- “तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे” (शा. अ.१) इति| तथा पुनरुक्तं खादीन्यभिधाय “विष्टं ह्यपरं परेण” (न्या.द. अ.२. आ.१.सू.६६) इति| श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे व्याप्रियमाणत्वात्; मूलं प्रधानकारणम्| उत्साहः कार्येषूद्योगो मनसः| योनिः अभिव्यक्तिकारणम्| दोषसंशोषणः शरीरक्लेदसंशोषणः| भेत्ता कर्ता; एतच्च शरीरोत्पत्तिकाले| भूत शब्दः स्वरूपवचनः| उपघातायेति छेदः| गर्भानिति विकृतिमापादयत्यतिकालं धारयतीत्यनेन च सम्बध्यते| आदित्यादीनां सन्तानेनाविच्छेदेन गतिविधानं सन्तानगतिविधानम्| स्रोतसामिति नदीनाम्| प्रविभागो विभक्तलक्षणम् [१०] | धातूनामिति पृथिव्यादीनां, धातवः कार्यद्रव्याणि प्रस्तरादीनि; मानं परिमाणं, संस्थानमाकृतिः, तयोर्व्यक्तिरभिव्यक्तिः, तत्र कारणमिति यावत्| बीजस्य शाल्यादेः, अभिसंस्कारोऽङ्कुरजननशक्तिः| अविक्लेदः पाककालादर्वागविक्लिन्नत्वम्, उपशोषणं च पाकेन यवादीनामार्द्राणामेव, अविक्लेदोपशोषणे शस्यानामेव| अवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रकृतिरूपे कारणत्वं ब्रूते| शिखरी पर्वतः| अनोकहो वृक्षः| ऊर्ध्वं वर्तनमुद्वर्तनम्| प्रतिसरणं प्रतीपगमनम्| विसर्जनं विसर्गः, स च पृथङ्नीहारादिभिः सम्बध्यते; नीहारः शिशिरसमूहः, निर्ह्रादो मेघं विना गर्जितम्, अशनिः वज्रभेदोऽग्निः| असङ्घातः अनुत्पादोऽनुपचयो वा| उपसर्गः मरकादिप्रादुर्भावः| मेघसूर्येत्यादौ विसर्गः सृष्टिः| वायुरिह देवतारूपोऽभिप्रेतः, तेन तस्य भूतरूपचतुर्युगान्तकरानिलकरणमविरुद्धम्; एवं यदन्यदप्यनुपपद्यमानं [११] वायोस्तदपि देवतारूपत्वेनैव समाधेयम्| सम्प्रति सामान्येन पुनः कुपिताकुपितस्य वायोः स्वरूपमुच्यते- स हि भगवानित्यादि| प्रभवः कारणम्| अव्ययः अक्षयः| भूतानामित्युत्तरेण सम्बध्यते| मृत्युयमादिभेदाश्चागमे ज्ञेयाः| सर्वतन्त्राणां सर्वकर्मणां; तन्त्रशब्दः कर्मवचनोऽप्यस्ति, यदुक्तं- “बस्तिस्तन्त्राणां” (सू. अ.२५); कर्मणामित्यर्थः||८||

तच्छ्रुत्वा वार्योविदवचो मरीचिरुवाच- यद्यप्येवमेतत्, किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति [१२] भिषग्विद्यायां; भिषग्विद्यामधिकृत्येयं कथा प्रवृत्तेति [१३] ||९||
वार्योविद उवाच- भिषक् पवनमतिबलमतिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशम्येत्, सहसा प्रकुपितमतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनमत्ययभयात्; वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय चेति||१०||


तच्छ्रुत्वेत्यादि सुगमम्| वर्चस्वित्वं तेजस्वित्वम्||९-१०||

मरीचिरुवाच- अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा- पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादमित्येवमादीनि चापराणि द्वन्द्वानीति||११||


पित्तान्तर्गत इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नेः सद्भावं दर्शयति; न तु पित्तादभेदं, पित्तेनाग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात्, तथा पित्तहरस्य सर्पिषोऽग्निवर्धनत्वेनोक्तत्वात्| पक्तिमपक्तिमिति अविकृतिविकृतिभेदेन पाचकस्याग्नेः कर्म, दर्शनादर्शने नेत्रगतस्यालोचकस्य, ऊष्मणो मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य, भयशौर्यादयो हृदयस्थस्य साधकस्य, रञ्जकस्य तु बहिःस्फुटकार्यादर्शनादुदाहरणं न कृतम्||११||

तच्छ्रुत्वा मरीचिवचः काप्य उवाच- सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा- दार्ढ्यं शैथिल्यमुपचयं कार्श्यमुत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वन्द्वानीति||१२||


सोमो जलदेवता, यदि वा चन्द्रः||१२||

तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच- सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्; सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके; विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति||१३||
तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति||१४||
भवति चात्र-
तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे|
ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः||१५||


ऐकान्तिकवचनादिति अवधारणादित्यर्थः| निःश्रेयसेन सुखेन| ऋतवस्त्रय इति शीतोष्णवर्षलक्षणाश्चतुर्मासेन ऋतुना| उपघातकाल इति देशोच्छेदकाले||१३-१५||

तत्र श्लोकौ-
गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः|
वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः||१६||
महर्षीणां मतिर्या या पुनर्वसुमतिश्च या|
कलाकलीये वातस्य तत् सर्वं सम्प्रकाशितम्||१७||


सङ्ग्रहे गुणाः षडिति रूक्षादयः| द्विविधो हेतुरिति वातप्रकोपहेतुर्वातप्रशमहेतुश्च| विविधं नानाप्रकारं सन्निखिलमेव वायोः कर्म, यत् पुनश्चतुर्विधं कुपिताकुपितशरीराशरीरचरभेदेन भवति, तदुक्तमिति योजनीयं; न हि चतुर्विधव्यतिरेकेण वायोः पृथग्विधं कर्मोक्तम्||१६-१७||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयो नाम द्वादशोऽध्यायः समाप्तः||१२||
इति निर्देशचतुष्कः||३||


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के वातकलाकलीयो नाम द्वादशोऽध्यायः||१२||
इति निर्देशचतुष्कः||३||

१. ‘वातस्यातिसूक्ष्मो भागः’ इति पा.|
२. ‘प्रभावाद्विधानं’ इति पा.|
३. ‘संशोषणो दोषाणां’ इति पा.|
४. ‘उपघाताय भवति’ इति पा.|
५. ‘व्यावर्तयति’ इति पा.|
६. योगीन्द्रनाथसेनस्तु ‘विक्लेदोपशोषणम्, अवैकारिकविकारश्च इति पठति| विक्लेदस्य उपशोषणं| वैकारिको वातादिविकृतिजन्यो विकारो मरकादिः, तदभावोऽवैकारिकविकारः’ इति च व्याख्यानयति|
७. ‘अवधूननमम्बुदानाम्’ इति पा.|
८. ‘वचनं’ इति पा.|
९. ‘व्यूहः सङ्घातो रचनेति यावत्’ इति पा.|
१०. ‘विभागलक्षणं’ इति पा.|
११. ‘यदप्यनुपपद्यमानं’ इति पा.|
१२. ‘सामर्थ्यमिति प्रयोजनम्’
१३. ‘प्रवर्तते’ इति पा.|

 

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

Carakasaṁhitā

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

sūtrasthānam - 12. vātakalākalīyō'dhyāyaḥ


athātō vātakalākalīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||


pūrvādhyāyē rōgāḥ svarūpamārgabāhyakāraṇabhēṣajairabhihitāḥ, upayuktajñānāstatkāraṇavātādayō bahuvācyatvānnōktāḥ, ataḥ samprati pr̥thakprakaraṇē tē’bhidhīyantē vātakalākalīyē; tatrāpi prādhānyādvāyurēva prathamamucyatē| kalā guṇaḥ, yaduktaṁ- “ṣōḍaśakalam” (sū.a.10) iti; akalā guṇaviruddhō dōṣaḥ; tēna vātakalākalīyō vātaguṇadōṣīya ityarthaḥ; yadi vā kalā sūkṣmō bhāgaḥ, tasyāpi kalā kalākalā; tasyāpi [1] sūkṣmō bhāga ityarthaḥ||1-2||

vātakalākalājñānamadhikr̥tya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyō’nyaṁ- kiṅguṇō vāyuḥ, kimasya prakōpaṇam, upaśamanāni vā’sya kāni, kathaṁ cainamasaṅghātavantamanavasthitamanāsādya prakōpaṇapraśamanāni prakōpayanti praśamayanti vā, kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīrēṣu carataḥ karmāṇi bahiḥśarīrēbhyōvēti||3||


atrānēkarṣivacanarūpatayā vātādiguṇavacanaṁ bahvr̥ṣisammatidarśanārthaṁ tantradharmaitihyayuktatvakaraṇārthaṁ ca| asaṅghātamiti pittaślēṣmavadavayavasaṅghātarahitam| anavasthitamiti calasvabhāvam| anāsādyēti calatvēnānibiḍāvayatvēna cēti mantavyam||3||

atrōvāca kuśaḥ sāṅkr̥tyāyanaḥ- rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍimē vātaguṇā bhavanti||4||


rūkṣādayō bhāvapradhānāḥ, tēna rūkṣatvādayō guṇā mantavyāḥ| dāruṇatvaṁ calatvaṁ calatvāt, ēvaṁ dīrghañjīvitīyōktaṁ calatvamuktaṁ bhavati; yadi vā, dāruṇatvaṁ śōṣaṇatvāt kāṭhinyaṁ karōtīti||4||

tacchrutvā vākyaṁ kumāraśirā bharadvāja uvāca- ēvamētadyathā bhagavānāha, ēta ēva vātaguṇā bhavanti, sa tvēvaṅguṇairēvandravyairēvamprabhāvaiśca karmabhirabhyasyamānairvāyuḥ prakōpamāpadyatē, samānaguṇābhyāsō hi dhātūnāṁ vr̥ddhikāraṇamiti||5||


kumāraśirā iti bharadvājaviśēṣaṇamātrēyagurubharadvājaniṣēdhārtham| ēvamprabhāvairiti prabhāvādraukṣyādikārakairdhāvanajāgaraṇādibhiḥ, prabhāvābhidhānaṁ [2] ca karmaṇāṁ nirguṇatvāt| abhyasyamānairiti asakr̥tprayuktaiḥ||5||

tacchrutvā vākyaṁ kāṅkāyanō bāhlīkabhiṣaguvāca- ēvamētadyathā bhagavānāha, ētānyēva vātaprakōpaṇāni bhavanti; atō viparītāni vātasya praśamanāni bhavanti, prakōpaṇaviparyayō hi dhātūnāṁ praśamakāraṇamiti||6||
tacchrutvā vākyaṁ baḍiśō dhāmārgava uvāca- ēvamētadyathā bhagavānāha, ētānyēva vātaprakōpapraśamanāni bhavanti|
yathā hyēnamasaṅghātamanavasthitamanāsādya prakōpaṇapraśamanāni prakōpayanti praśamayanti vā, tathā’nuvyākhyāsyāmaḥ- vātaprakōpaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṁ, tathāvidhēṣu śarīrēṣu vāyurāśrayaṁ gatvā”pyāyamānaḥ prakōpamāpadyatē; vātapraśamanāni punaḥsnigdhagurūṣṇaślakṣṇamr̥dupicchilaghanakarāṇi śarīrāṇāṁ, tathāvidhēṣu śarīrēṣu vāyurasajyamānaścaran praśāntimāpadyatē||7||


śarīrāṇāmiti śarīrāvayavānām| śuṣirakarāṇi randhrakarāṇi| āśrayamiti samānaguṇasthānam| āpyāyamānaḥ cīyamānaḥ| dāruṇaviparītō mr̥duḥ, śuṣiraviparītō ghanaḥ| asajyamānaḥ anavatiṣṭhamānaḥ, kṣīyamāṇāvayava iti yāvat| ētēnaitaduktaṁ bhavati- yadyapi vāyunā vātakāraṇānāṁ vātaśamanānāṁ vā tathā sambandhō nāsti, tathā’pi śarīrasambaddhaistairvātasya śarīracāriṇaḥ sambandhō bhavati, tataśca vātasya samānaguṇayōgādvr̥ddhirviparītaguṇayōgācca hrāsa upapanna ēvēti||6-7||

tacchrutvā baḍiśavacanamavitathamr̥ṣigaṇairanumatamuvāca vāryōvidō rājarṣiḥ- ēvamētat sarvamanapavādaṁ yathā bhagavānāha|
yāni tu khalu vāyōḥ kupitākupitasya śarīrāśarīracarasya śarīrēṣu carataḥ karmāṇi bahiḥśarīrēbhyō vā bhavanti, tēṣāmavayavān pratyakṣānumānōpadēśaiḥ sādhayitvā namaskr̥tya vāyavē yathāśakti pravakṣyāmaḥ- vāyustantrayantradharaḥ, prāṇōdānasamānavyānāpānātmā, pravartakaścēṣṭānāmuccāvacānāṁ, niyantā praṇētā ca manasaḥ, sarvēndriyāṇāmudyōjakaḥ, sarvēndriyārthānāmabhivōḍhā, sarvaśarīradhātuvyūhakaraḥ, sandhānakaraḥ śarīrasya, pravartakō vācaḥ, prakr̥tiḥ sparśaśabdayōḥ, śrōtrasparśanayōrmūlaṁ, harṣōtsāhayōryōniḥ, samīraṇō’gnēḥ, dōṣasaṁśōṣaṇaḥ [3] , kṣēptā bahirmalānāṁ, sthūlāṇusrōtasāṁ bhēttā, kartāgarbhākr̥tīnām, āyuṣō’nuvr̥ttipratyayabhūtō bhavatyakupitaḥ|
kupitastu khalu śarīrē śarīraṁ nānāvidhairvikārairupatapati balavarṇasukhāyuṣāmupaghātāya [4] , manō vyāharṣayati [5] , sarvēndriyāṇyupahanti, vinihanti garbhān vikr̥timāpādayatyatikālaṁ vā dhārayati, bhayaśōkamōhadainyātipralāpāñjanayati, prāṇāṁścōparuṇaddhi|
prakr̥tibhūtasya khalvasya lōkē carataḥ karmāṇīmāni bhavanti; tadyathā- dharaṇīdhāraṇaṁ, jvalanōjjvālanam, ādityacandranakṣatragrahagaṇānāṁ santānagatividhānaṁ, sr̥ṣṭiśca mēghānām, apāṁ visargaḥ, pravartanaṁ srōtasāṁ, puṣpaphalānāṁ cābhinirvartanam, udbhēdanaṁ caudbhidānām, r̥tūnāṁ pravibhāgaḥ, vibhāgō dhātūnāṁ, dhātumānasaṁsthānavyaktiḥ, bījābhisaṁskāraḥ, śasyābhivardhanamaviklēdōpaśōṣaṇē [6] , avaikārikavikāraścēti|
prakupitasya khalvasya lōkēṣu carataḥ karmāṇīmāni bhavanti; tadyathā- śikhariśikharāvamathanam, unmathanamanōkahānām, utpīḍanaṁ sāgarāṇām, udvartanaṁ sarasāṁ, pratisaraṇamāpagānām, ākampanaṁ ca bhūmēḥ, ādhamanamambudānāṁ [7] , nīhāranirhrādapāṁśusikatāmatsyabhēkōragakṣārarudhirāśmāśanivisargaḥ, vyāpādanaṁ ca ṣaṇṇāmr̥tūnāṁ, śasyānāmasaṅghātaḥ, bhūtānāṁ cōpasargaḥ, bhāvānāṁ cābhāvakaraṇaṁ, caturyugāntakarāṇāṁ mēghasūryānalānilānāṁ visargaḥ; sa hi bhagavān prabhavaścāvyayaśca, bhūtānāṁ bhāvābhāvakaraḥ, sukhāsukhayōrvidhātā, mr̥tyuḥ, yamaḥ, niyantā, prajāpatiḥ, aditiḥ, viśvakarmā, viśvarūpaḥ, sarvagaḥ, sarvatantrāṇāṁ vidhātā, bhāvānāmaṇuḥ, vibhuḥ, viṣṇuḥ, krāntā lōkānāṁ, vāyurēva bhagavāniti||8||


śarīrāśarīracarasyēti vātasvarūpakathanaṁ, tēna śarīrēṣu carata iti bahiḥ śarīrēbhyō vēti ca punaruktaṁ na bhavati| atrāvayavāniti vadan [8] kārtsnyābhidhānamaśakyaṁ bahuprapañcatvāditi darśayati| sādhayitvā pratipādya| vātakarmasu pratyakṣāṇi vacanādīni, manaḥprēraṇādyanumēyaṁ, garbhākr̥tikaraṇādyāgamagamyam| tantraṁ śarīraṁ, yaduktaṁ- “tantrayantrēṣu bhinnēṣu tamō’ntyaṁ pravivikṣatām” (iṁ. a.12) iti, tadēva yantraṁ; yadi vā, tantrasya yantraṁ sandhayaḥ| prāṇādyātmā prāṇādisvarūpaḥ| cēṣṭāviśēṣaṇam- uccāvacānāṁ, vividhānāmityarthaḥ, kiṁvā śubhāśubhānāmityarthaḥ| niyantā anīpsitē viṣayē pravartamānasya manasaḥ, praṇētā ca manasa ēvēpsitē’rthē| udyōjakaḥ prērakaḥ; kiṁvā ‘udyōgakāraka’ iti pāṭhaḥ, sō’pyabhinnārthaḥ| abhivōḍhēvābhivōḍhā sarvēndriyārthagrāhakatvēna; taccāsya vāyumayēna sparśanēndriyēṇa sarvēndriyāṇāṁ vyāpakatvāt pūrvādhyāyapratipāditēna nyāyēna bōddhavyam| vyūhakaraḥ saṅghātakarō racanākara iti yāvat [9] | prakr̥tiḥ kāraṇaṁ, śabdakāraṇatvaṁ ca vāyōrnityamākāśānupravēśāt; uktaṁ hi khādīnyabhidhāya- “tēṣāmēkaguṇaḥ pūrvō guṇavr̥ddhiḥ parē parē” (śā. a.1) iti| tathā punaruktaṁ khādīnyabhidhāya “viṣṭaṁ hyaparaṁ parēṇa” (nyā.da. a.2. ā.1.sū.66) iti| śravaṇamūlatvaṁ vāyōḥ karṇaśaṣkulīracanāviśēṣē vyāpriyamāṇatvāt; mūlaṁ pradhānakāraṇam| utsāhaḥ kāryēṣūdyōgō manasaḥ| yōniḥ abhivyaktikāraṇam| dōṣasaṁśōṣaṇaḥ śarīraklēdasaṁśōṣaṇaḥ| bhēttā kartā; ētacca śarīrōtpattikālē| bhūta śabdaḥ svarūpavacanaḥ| upaghātāyēti chēdaḥ| garbhāniti vikr̥timāpādayatyatikālaṁ dhārayatītyanēna ca sambadhyatē| ādityādīnāṁ santānēnāvicchēdēna gatividhānaṁ santānagatividhānam| srōtasāmiti nadīnām| pravibhāgō vibhaktalakṣaṇam [10] | dhātūnāmiti pr̥thivyādīnāṁ, dhātavaḥ kāryadravyāṇi prastarādīni; mānaṁ parimāṇaṁ, saṁsthānamākr̥tiḥ, tayōrvyaktirabhivyaktiḥ, tatra kāraṇamiti yāvat| bījasya śālyādēḥ, abhisaṁskārō’ṅkurajananaśaktiḥ| aviklēdaḥ pākakālādarvāgaviklinnatvam, upaśōṣaṇaṁ ca pākēna yavādīnāmārdrāṇāmēva, aviklēdōpaśōṣaṇē śasyānāmēva| avaikārikavikārēṇa sarvasminnēva jagati prakr̥tirūpē kāraṇatvaṁ brūtē| śikharī parvataḥ| anōkahō vr̥kṣaḥ| ūrdhvaṁ vartanamudvartanam| pratisaraṇaṁ pratīpagamanam| visarjanaṁ visargaḥ, sa ca pr̥thaṅnīhārādibhiḥ sambadhyatē; nīhāraḥ śiśirasamūhaḥ, nirhrādō mēghaṁ vinā garjitam, aśaniḥ vajrabhēdō’gniḥ| asaṅghātaḥ anutpādō’nupacayō vā| upasargaḥ marakādiprādurbhāvaḥ| mēghasūryētyādau visargaḥ sr̥ṣṭiḥ| vāyuriha dēvatārūpō’bhiprētaḥ, tēna tasya bhūtarūpacaturyugāntakarānilakaraṇamaviruddham; ēvaṁ yadanyadapyanupapadyamānaṁ [11] vāyōstadapi dēvatārūpatvēnaiva samādhēyam| samprati sāmānyēna punaḥ kupitākupitasya vāyōḥ svarūpamucyatē- sa hi bhagavānityādi| prabhavaḥ kāraṇam| avyayaḥ akṣayaḥ| bhūtānāmityuttarēṇa sambadhyatē| mr̥tyuyamādibhēdāścāgamē jñēyāḥ| sarvatantrāṇāṁ sarvakarmaṇāṁ; tantraśabdaḥ karmavacanō’pyasti, yaduktaṁ- “bastistantrāṇāṁ” (sū. a.25); karmaṇāmityarthaḥ||8||

tacchrutvā vāryōvidavacō marīciruvāca- yadyapyēvamētat, kimarthasyāsya vacanē vijñānē vā sāmarthyamasti [12] bhiṣagvidyāyāṁ; bhiṣagvidyāmadhikr̥tyēyaṁ kathā pravr̥ttēti [13] ||9||
vāryōvida uvāca- bhiṣak pavanamatibalamatiparuṣamatiśīghrakāriṇamātyayikaṁ cēnnānuniśamyēt, sahasā prakupitamatiprayataḥ kathamagrē’bhirakṣitumabhidhāsyati prāgēvainamatyayabhayāt; vāyōryathārthā stutirapi bhavatyārōgyāya balavarṇavivr̥ddhayē varcasvitvāyōpacayāya jñānōpapattayē paramāyuḥprakarṣāya cēti||10||


tacchrutvētyādi sugamam| varcasvitvaṁ tējasvitvam||9-10||

marīciruvāca- agnirēva śarīrē pittāntargataḥ kupitākupitaḥ śubhāśubhāni karōti; tadyathā- paktimapaktiṁ darśanamadarśanaṁ mātrāmātratvamūṣmaṇaḥ prakr̥tivikr̥tivarṇau śauryaṁ bhayaṁ krōdhaṁ harṣaṁ mōhaṁ prasādamityēvamādīni cāparāṇi dvandvānīti||11||


pittāntargata iti vacanēna śarīrē jvālādiyuktavahniniṣēdhēna pittōṣmarūpasya vahnēḥ sadbhāvaṁ darśayati; na tu pittādabhēdaṁ, pittēnāgnimāndyasya grahaṇyadhyāyē vakṣyamāṇatvāt, tathā pittaharasya sarpiṣō’gnivardhanatvēnōktatvāt| paktimapaktimiti avikr̥tivikr̥tibhēdēna pācakasyāgnēḥ karma, darśanādarśanē nētragatasyālōcakasya, ūṣmaṇō mātrāmātratvaṁ varṇabhēdau ca tvaggatasya bhrājakasya, bhayaśauryādayō hr̥dayasthasya sādhakasya, rañjakasya tu bahiḥsphuṭakāryādarśanādudāharaṇaṁ na kr̥tam||11||

tacchrutvā marīcivacaḥ kāpya uvāca- sōma ēva śarīrē ślēṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karōti; tadyathā- dārḍhyaṁ śaithilyamupacayaṁ kārśyamutsāhamālasyaṁ vr̥ṣatāṁ klībatāṁ jñānamajñānaṁ buddhiṁ mōhamēvamādīni cāparāṇi dvandvānīti||12||


sōmō jaladēvatā, yadi vā candraḥ||12||

tacchrutvā kāpyavacō bhagavān punarvasurātrēya uvāca- sarva ēva bhavantaḥ samyagāhuranyatraikāntikavacanāt; sarva ēva khalu vātapittaślēṣmāṇaḥ prakr̥tibhūtāḥ puruṣamavyāpannēndriyaṁ balavarṇasukhōpapannamāyuṣā mahatōpapādayanti samyagēvācaritā dharmārthakāmā iva niḥśrēyasēna mahatā puruṣamiha cāmuṣmiṁśca lōkē; vikr̥tāstvēnaṁ mahatā viparyayēṇōpapādayanti r̥tavastraya iva vikr̥timāpannā lōkamaśubhēnōpaghātakāla iti||13||
tadr̥ṣayaḥ sarva ēvānumēnirē vacanamātrēyasya bhagavatō’bhinananduścēti||14||
bhavati cātra-
tadātrēyavacaḥ śrutvā sarva ēvānumēnirē|
r̥ṣayō’bhinananduśca yathēndravacanaṁ surāḥ||15||


aikāntikavacanāditi avadhāraṇādityarthaḥ| niḥśrēyasēna sukhēna| r̥tavastraya iti śītōṣṇavarṣalakṣaṇāścaturmāsēna r̥tunā| upaghātakāla iti dēśōcchēdakālē||13-15||

tatra ślōkau-
guṇāḥ ṣaḍ dvividhō hēturvividhaṁ karma yat punaḥ|
vāyōścaturvidhaṁ karma pr̥thak ca kaphapittayōḥ||16||
maharṣīṇāṁ matiryā yā punarvasumatiśca yā|
kalākalīyē vātasya tat sarvaṁ samprakāśitam||17||


saṅgrahē guṇāḥ ṣaḍiti rūkṣādayaḥ| dvividhō hēturiti vātaprakōpahēturvātapraśamahētuśca| vividhaṁ nānāprakāraṁ sannikhilamēva vāyōḥ karma, yat punaścaturvidhaṁ kupitākupitaśarīrāśarīracarabhēdēna bhavati, taduktamiti yōjanīyaṁ; na hi caturvidhavyatirēkēṇa vāyōḥ pr̥thagvidhaṁ karmōktam||16-17||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē vātakalākalīyō nāma dvādaśō’dhyāyaḥ samāptaḥ||12||
iti nirdēśacatuṣkaḥ||3||


iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ sūtrasthānē nirdēśacatuṣkē vātakalākalīyō nāma dvādaśō’dhyāyaḥ||12||
iti nirdēśacatuṣkaḥ||3||

1. ‘vātasyātisūkṣmō bhāgaḥ’ iti pā.|
2. ‘prabhāvādvidhānaṁ’ iti pā.|
3. ‘saṁśōṣaṇō dōṣāṇāṁ’ iti pā.|
4. ‘upaghātāya bhavati’ iti pā.|
5. ‘vyāvartayati’ iti pā.|
6. yōgīndranāthasēnastu ‘viklēdōpaśōṣaṇam, avaikārikavikāraśca iti paṭhati| viklēdasya upaśōṣaṇaṁ| vaikārikō vātādivikr̥tijanyō vikārō marakādiḥ, tadabhāvō’vaikārikavikāraḥ’ iti ca vyākhyānayati|
7. ‘avadhūnanamambudānām’ iti pā.|
8. ‘vacanaṁ’ iti pā.|
9. ‘vyūhaḥ saṅghātō racanēti yāvat’ iti pā.|
10. ‘vibhāgalakṣaṇaṁ’ iti pā.|
11. ‘yadapyanupapadyamānaṁ’ iti pā.|
12. ‘sāmarthyamiti prayōjanam’
13. ‘pravartatē’ iti pā.|