Table of Contents
ToggleDevanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
विमानस्थानम् - ३. जनपदोद्ध्वंसनीयविमानम्
अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
द्विविधो हेतुर्व्याधिजनकः प्राणिनां भवति- साधारणः, असाधारणश्च; तत्रासाधारणं प्रतिपुरुषनियतं वातादिजनकमाहाराद्यभिधाय बहुजनसाधारणं वातजलदेशकालरूपं साधारणरोगकारणमभिधातुं जनपदोद्ध्वंसनीयोऽभिधीयते||१-२||
जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत्||३||
जनपदवसत्युपलक्षितं मण्डलं जनपदमण्डलं, ‘पञ्चालक्षेत्रे’ इति तस्य विशेषणम्| द्विजातिवराध्युषित इति वचनेन महाजनसेवितेऽपि देशेऽधर्मवशाज्जनपदोद्ध्वंसो वक्ष्यमाणो भवतीति दर्शयति| पश्चिमे घर्ममास इति ज्येष्ठे| वनविचारमनुविचरन्निति वनं विचर्य विचर्यानुविचरन्नित्यर्थः||३||
दृश्यन्ते हि खलु सौम्य! नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां दिशां चाप्रकृतिभूतानामृतुवैकारिका [१] भावाः, अचिरादितो भूरपि च न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाच्चातङ्कप्रायता नियता|
तस्मात् प्रागुद्ध्वंसात् प्राक् च भूमेर्विरसीभावादुद्धरध्वं सौम्य! भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति|
वयं चैषां रसवीर्यविपाकप्रभावानुपयोक्ष्यामहे ये चास्माननुकाङ्क्षन्ति, यांश्च वयमनुकाङ्क्षामः|
न हि सम्यगुद्धृतेषु सौम्य! भैषज्येषु सम्यग्विहितेषु सम्यक् चावचारितेषु जनपदोद्ध्वंसकराणां विकाराणां किञ्चित् प्रतीकारगौरवं भवति||४||
ऋतुविकाराय भूता ऋतुवैकारिकाः; ऋतुविकारश्चोपलक्षणं, तेन जलदेशवातविकाराय भूता इति मन्तव्यं; यतो भूम्यादीनामपि विकृतिं वक्ष्यति| किंवा ऋत्वननुरूपा ऋतुवैकारिकाः; तेन, ऋत्वननुरूपलक्षणमेव नक्षत्रादीनां [२] विकृतिरित्युक्तं भवति; ग्रीष्मे हि नक्षत्राणि निर्मलानि भवन्ति, तानि यदि तुषारच्छन्नानि ग्रीष्मे भवन्ति, तदा विकृतानि भवन्तीति बोद्धव्यम्| भूरपि चेत्यपिवचनाज्जलानिलौ च ग्राहयति; तेन, भूस्तावदोषधीनां प्रधानं कारणं, सा रसादीन्न प्रतिविधास्यति; जलवातावपि चौषधीनां रसादीन्न प्रतिविधास्यत इत्युक्तं भवति| प्रतिविधास्यतीति जनयिष्यति| उद्धरध्वमिति बहुवचनं बह्वन्तेवासियुक्ताग्निवेशाभिप्रायेण; अग्निवेशस्तु प्रधानत्वेनैक एवेति ‘अग्निवेश’ इतिपदेन तथा ‘सौम्य’ इतिपदेन सम्बोध्यते; भेषजोद्धरणं तु बहुभिरेव कर्तव्यमित्यभिप्रायेण बहुवचनम्| भवति हि प्रधानं सम्बोध्य गणसम्पाद्यक्रियायां बहुवचनं; यथा- सेनापते युध्यध्वमिति| अन्ये तु सौम्यपदं भेषजविशेषणं कुर्वन्ति| ये चास्माननुकाङ्क्षन्ति ये चास्मान् भिषजोऽनुकाङ्क्षन्तीत्यर्थः, यांश्च वयमनुकाङ्क्षामश्चिकित्स्यत्वेन| एतेन, ये वैद्यमनुकाङ्क्षन्ति ते वैद्यप्रियत्वेन साध्याः, असाध्या हि वैद्यद्विष उक्ताः; वैद्याश्च यानिच्छन्ति ते साध्यरोगा एव, असाध्यान् हि वैद्या नेच्छन्ति| एतेनान्येषामपि येषां भेषजसाध्या रोगास्ते आसामोषधीनां रसादीनुपयोक्ष्यन्तीत्यर्थः| यदि च ये अस्मद्गताः, यांश्च वयं प्रयोजनवशादनुगताः, ते उपयोक्ष्यन्तीति व्याख्यायते, तदा आत्रेयस्य पक्षरागित्वेनाप्तत्वं न सम्भवति, “सर्वप्रजानां पितृवच्छरण्यः” (चि.अ.५) इति वचनाच्चास्य नीरागत्वमुक्तम्||४||
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- उद्धृतानि खलु भगवन्! भैषज्यानि, सम्यग्विहितानि, सम्यगवचारितानि [३] च; अपि तु खलु जनपदोद्ध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्म्यसत्त्ववयसां मनुष्याणां कस्माद्भवतीति||५||
उद्द्धृतानीति वचनमभूते भूतवच्चेति प्रयोगाद्बोद्धव्यं, यथा- अचिरकर्तव्ये कृतमिति वदन्ति; न हि वचनकाल एव ओषधीनामुद्धरणं सम्भवतीति| एकेनेति एकजातीयेन| असमानप्रकृत्यादीनां समानकारणाभावान्न तुल्यरूपो व्याधिर्भवितुमर्हतीति प्रश्नार्थः||५||
तमुवाच भगवानात्रेयः- एवमसामान्यावतामप्येभिरग्निवेश! प्रकृत्यादिभिर्भावैर्मनुष्याणां येऽन्ये भावाः सामान्यास्तद्वैगुण्यात् समानकालाः समानलिङ्गाश्च व्याधयोऽभिनिर्वर्तमाना जनपदमुद्ध्वंसयन्ति|
ते तु खल्विमे भावाः सामान्या जनपदेषु भवन्ति; तद्यथा- वायुः, उदकं, देशः, काल इति||६||
समानलिङ्गा इति तुल्यलिङ्गाः||६||
तत्र वातमेवंविधमनारोग्यकरं विद्यात्; तद्यथा-यथर्तुविषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमतिरूक्षमत्यभिष्यन्दिनमतिभैरवारावमतिप्रतिहत- परस्परगतिमतिकुण्डलिनमसात्म्यगन्धबाष्पसिकतापांशुधूमोपहतमिति (१);
उदकं तु खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शं क्लेदबहुलमपक्रान्तजलचरविहङ्गमुपक्षीणजलेशयमप्रीतिकरमपगतगुणं [४] विद्यात् (२);
देशं पुनः प्रकृतिविकृतवर्णगन्धरसस्पर्शं क्लेदबहुलमुपसृष्टं सरीसृपव्यालमशकशलभमक्षिकामूषकोलूकश्माशानिकशकुनिजम्बूकादिभिस्तृणोलूपोपवनवन्तं प्रतानादिबहुलमपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रपवनं प्रध्मातपतत्रिगणमुत्क्रुष्टश्वगणमुद्भ्रान्तव्यथितविविधमृगपक्षिसङ्घमुत्सृष्टनष्टधर्मसत्यलज्जाचारशीलगुणजनपदं शश्वत्क्षुभितोदीर्णसलिलाशयं [५] प्रततोल्कापातनिर्घातभूमिकम्पमतिभयारावरूपं [६] रूक्षताम्रारुणसिताभ्रजालसंवृतार्कचन्द्रतारकमभीक्ष्णं ससम्भ्रमोद्वेगमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितमिवाक्रन्दितशब्दबहुलं चाहितं विद्यात् (३);
कालं तु खलु यथर्तुलिङ्गाद्विपरीतलिङ्गमतिलिङ्गं हीनलिङ्गं चाहितं व्यवस्येत् (४);
इमानेवन्दोषयुक्तांश्चतुरो भावाञ्जनपदोद्ध्वंसकरान् वदन्ति कुशलाः; अतोऽन्यथाभूतांस्तु हितानाचक्षते||७||
विगुणेष्वपि खल्वेतेषु जनपदोद्ध्वंसकरेषु भावेषु भेषजेनोपपाद्यमानानामभयं भवति रोगेभ्य इति||८||
यथर्तुविषममिति ऋत्वननुरूपम्| अपगतगुणमिति जीवनपिपासाहरत्वाद्युक्तजलगुणरहितम्| प्रकृतिवर्णादेर्विकृता वर्णादयो यस्य देशस्य तं प्रकृतिविकृतवर्णगन्धरसस्पर्शम्| श्माशानिकशकुनिः गृध्रः| अपूर्ववदिति परिचितमप्युपहतत्वेनापूर्वमिव दृश्यते| उत्सृष्टाश्च नष्टाश्च धर्मसत्यलज्जागुणा जनैर्यत्र स तथा; तत्र ये धर्मादियुक्तास्ते उत्सृजन्ति धर्मादीनि, ये तु धर्मादीनि सर्वथा अज्ञानान्नाचरन्ति तान् प्रति नष्टान्येव धर्मादीनि| गुह्यकाक्रान्तो हि देशो यथा आक्रन्दनशब्दबहुलो भवति तादृशम्||७-८||
भवन्ति चात्र-
वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम्|
गरीयस्त्वं विशेषेण हेतुमत् सम्प्रवक्ष्यते||९||
वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः|
विद्याद्दुष्परिहार्यत्वाद्गरीयस्तरमर्थवित् [७] ||१०||
वाय्वादिषु यथोक्तानां दोषाणां तु विशेषवित्|
प्रतीकारस्य सौकर्ये विद्याल्लाघवलक्षणम्||११||
वैगुण्यमित्यादिना दुष्टानां वातादीनां यस्य य उत्कर्षो येन च हेतुना तदाह| स्वभावतो दुष्परिहार्यत्वादिति स्वभावादेव वातापेक्षया जलं दुष्परिहरं भवति, जलाच्च देशः, देशाच्च कालः| वातो हि निवातदेशसेवया दुष्टः परिह्रियते, न तथा जलं, तद्धि देहवृत्त्यर्थमवश्यं सेव्यं; जलमपि च यदि महता प्रयत्नेन त्यज्यते, देशस्तु जलापेक्षया दुष्परिहरो भवति, तद्व्यतिरेकेणावस्थातुमशक्यत्वात्; देशोऽपि यदि देशान्तरगमनेन त्यज्यते, कालस्तु सर्वथा त्यक्तुमशक्य इति सर्वेष्वेव गरीयान्| ‘गरीयः परम्’ इति पाठे यद्यतः परं, तत्ततो गरीयो विद्यादिति योजना| एतद्विपर्ययेण लाघवमाह- वाय्वादिष्वित्यादि| प्रतीकारस्य सौकर्य इति यथोक्तविधया वातादिपरित्यागस्य सुकरत्वेनेत्यर्थः||९-११||
चतुर्ष्वपि तु दुष्टेषु कालान्तेषु यदा नराः|
भेषजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा||१२||
येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम्|
कर्म पञ्चविधं तेषां भेषजं परमुच्यते||१३||
रसायनानां विधिवच्चोपयोगः प्रशस्यते|
शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः||१४||
सत्यं भूते दया दानं बलयो देवतार्चनम्|
सद्धृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः||१५||
हितं जनपदानां च शिवानामुपसेवनम्|
सेवनं ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम्||१६||
सङ्कथा धर्मशास्त्राणां महर्षीणां जितात्मनाम्|
धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसम्मतैः||१७||
इत्येतद्भेषजं प्रोक्तमायुषः परिपालनम्|
येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे||१८||
येषां न मृत्युसामान्यमिति न [८] मृत्युजनकदैवसाम्यं येषामस्तीत्यर्थः| सामान्यं न च कर्मणामिति नच मारककर्मसामान्यं येषामस्तीत्यर्थः| केचिद्धि सम्भूयैव जन्मान्तरे ग्रामदाहादिकर्म कुर्वते स्म, तत्कर्मबलात् संहतमृत्यव एव भवन्ति; किंवा पृथगपि मारकं कर्म कृतं केषाञ्चिदेककालं विपच्यमानं भवति, तेऽपि समकालभृत्यवो भवन्ति| तत्र, न मृत्युसामान्यमित्यनेनोत्पन्नरिष्टत्वादेव केचिदसाध्या इति दर्शयति, न कर्मसामान्यमित्यनेन केचिच्चाजातरिष्टा अपि नियतमारककर्मवशादसाध्या भवन्तीति दर्शयति; किंवा न मृत्युसामान्यमित्यनेन च मारको व्याधिः साधारण उच्यते, न कर्मसामान्यमित्यनेन च मारकव्याधिजनकं कर्मोच्यते| पूर्वमुद्धृतैरिति व्यापत्तेः पूर्वं गृहीतैः| गुप्तिः मन्त्रादिना रक्षा| अनियत इति वचनेन दुर्बलकर्मारब्धो हि मृत्युः पार्यत एवैवं प्रतिकर्तुमिति दर्शयति||१२-१८||
इति श्रुत्वा जनपदोद्ध्वंसने कारणानि पुनरपि भगवन्तमात्रेयमग्निवेश उवाच- अथ खलु भगवन्! कुतोमूलमेषां वाय्वादीनां वैगुण्यमुत्पद्यते? येनोपपन्ना जनपदमुद्ध्वंसयन्तीति||१९||
तमुवाच भगवानात्रेयः- सर्वेषामप्यग्निवेश! वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वाऽसत्कर्म [९] पूर्वकृतं; तयोर्योनिः प्रज्ञापराध एव|
तद्यथा- यदा वै देशनगरनिगमजनपदप्रधाना [१०] धर्ममुत्क्रम्याधर्मेण प्रजां वर्तयन्ति, तदाश्रितोपाश्रिताः पौरजनपदा व्यवहारोपजीविनश्च तमधर्ममभिवर्धयन्ति, ततः सोऽधर्मः प्रसभं धर्ममन्तर्धत्ते, ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते; तेषां तथाऽन्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदेवतानामृतवो व्यापद्यन्ते; तेन नापो यथाकालं देवो वर्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिर्व्यापद्यते, सलिलान्युपशुष्यन्ति, ओषधयः स्वभावं परिहायापद्यन्ते विकृतिं; तत उद्ध्वंसन्ते जनपदाः स्पृश्याभ्यवहार्यदोषात् [११] ||२०||
कुतोमूलं किम्मूलमित्यर्थः| तस्य मूलमधर्म इति ऐहिकमधर्मं दर्शयति| तन्मूलं वेति तस्य वातादिवैगुण्यस्य मूलं पूर्वकृतं वा कर्म| तेनैहिको वाऽधर्मो जन्मान्तरकृतो वाऽधर्मो वातादिवैगुण्यस्य कारणमिति ब्रूते| तद्यदा देशेत्यादिना त्वैहिकमेवाधर्मं यद्वक्ष्यति हेतुतया तत् प्रत्यक्षत्वेन स्फुटसिद्धान्तार्थं, नतु जन्मान्तरकृताधर्मस्याकारणत्वेनेति ज्ञेयम्| तयोरिति ऐहिकजन्मान्तरीययोरधर्मयोः| योनिरिति कारणम्| स्पृश्याभ्यवहार्यदोषादिति स्पृश्यस्य वा जलादेरभ्यवहार्यस्य च कृत्स्नस्य दुष्टत्वात्| एतच्च प्राधान्येन ज्ञेयं; तेन दुष्टपवनगन्धदोषोऽपि ज्ञेयः, असात्म्यगन्धोऽपि दुष्टवाते उक्तः||१९-२०||
तथा शस्त्रप्रभवस्यापि जनपदोद्ध्वंसस्याधर्म एव हेतुर्भवति|
येऽतिप्रवृद्धलोभक्रोधमोहमानास्ते दुर्बलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिक्रामन्ति, परान् वाऽभिक्रामन्ति, परैर्वाऽभिक्राम्यन्ते||२१||
शस्त्रप्रभवस्यापीति बहुजनमारकस्य शस्त्रप्रभवस्येत्यर्थः| आत्मस्वजनपरोपघातायेति अत्र आत्मनः स्वजनस्य परस्य चोपघातो भवति प्राय इत्यर्थः||२१||
रक्षोगणादिभिर्वा विविधैर्भूतसङ्घैस्तमधर्ममन्यद्वाऽप्यपचारान्तरमुपलभ्याभिहन्यन्ते||२२||
राक्षसाद्युत्सादोऽपि जनानामधर्मकृत एव भवतीत्याह- रक्षोगणेत्यादि| अन्यद्वा अपचारान्तरमिति यथोक्ताधर्मकारणादन्यदधर्मकारणमशौचादीत्यर्थः||२२||
तथाऽभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति|
ये लुप्तधर्माणो धर्मादपेतास्ते गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति; ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति प्रागेवानेकपुरुषकुलविनाशाय, नियतप्रत्ययोपलम्भादनियताश्चापरे [१२] ||२३||
प्रागेवेति झटिति, अनेकपुरुषकुलविनाशायाभिशप्ता भस्मतां यान्तीत्यर्थः| नियतप्रत्ययोपलम्भादनियताश्चापरे भस्मतां यान्तीति योजना| अनियता अमिलिता इत्यर्थः| प्रतिनियतपुरुषाभिशापात् प्रतिनियता एव भस्मतां यान्ति, न सर्वे जना इत्यर्थः||२३||
प्रागपि चाधर्मादृते नाशुभोत्पत्तिरन्यतोऽभूत्|
आदिकाले ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावाः प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः शैलसारसंहतस्थिरशरीराः प्रसन्नवर्णेन्द्रियाः पवनसमबलजवपराक्रमाश्चारुस्फिचोऽभिरूपप्रमाणाकृतिप्रसादोपचयवन्तः सत्यार्जवानृशंस्यदानदमनियमतपोपवासब्रह्मचर्यव्रतपरा व्यपगतभयरागद्वेषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमक्लमालस्यपरिग्रहाश्च पुरुषा बभूवुरमितायुषः|
तेषामुदारसत्त्वगुणकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदितानि [१३] प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ|
भ्रश्यति तु कृतयुगे केषाञ्चिदत्यादानात् साम्पन्निकानां सत्त्वानां शरीरगौरवमासीत्, शरीरगौरवाच्छ्रमः, श्रमादालस्यम्, आलस्यात् सञ्चयः, सञ्चयात् परिग्रहः, परिग्रहाल्लोभः प्रादुरासीत् कृते|
ततस्त्रेतायां लोभादभिद्रोहः, अभिद्रोहानृतवचनम्, अनृतवचनात् कामक्रोधमानद्वेषपारुष्याभिघातभयतापशोकचिन्तोद्वेगादयः प्रवृत्ताः|
ततस्त्रेतायां धर्मपादोऽन्तर्धानमगमत्|
तस्यान्तर्धानात् युगवर्षप्रमाणस्य पादह्रासः, पृथिव्यादेश्च गुणपादप्रणाशोऽभूत्|
तत्प्रणाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रांशः|
ततस्तानि प्रजाशरीराणि हीयमानगुणपादैराहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुतपरीतानि [१४] प्राग्व्याधिभिर्ज्वरादिभिराक्रान्तानि|
अतः प्राणिनो ह्रासमवापुरायुषः क्रमश इति||२४||
आद्याविर्भावे च रोगाणामधर्म एव कारणमित्याह- प्रागपि चेत्यादि| यज्ञः यज्ञदेवता, विधिः यज्ञविधायको वेदः, विधानं यज्ञकर्म| जवः वेगः| परिग्रहः ममता| अमितमिवातिबहुत्वेनायुर्येषां ते अमितायुषः| सत्ये हि चतुर्वर्षशतमायुः; यदुक्तं भगवता व्यासेन- “पुरुषाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः| कृते” इति| साम्पन्निकानाम् ईश्वराणाम्| कृते इति कृतयुगस्य शेषे| हीयमानगुणपादैरिति यथा यथा त्रेतायाः क्षयो भवति, तथा तथा आहारविहारगुणपादह्रासो भवन्नास्त इति दर्शयति| विहारोऽपि चाधर्मवतां हीनगुणो भवति, तेन न यथावच्छरीरोपष्टम्भनं करोति| उपष्टभ्यमानानीति धातुसाम्येन पाल्यमानानि||२४||
भवतश्चात्र-
युगे युगे धर्मपादः क्रमेणानेन हीयते|
गुणपादश्च भूतानामेवं लोकः प्रलीयते||२५||
संवत्सरशते पूर्णे याति संवत्सरः क्षयम्|
देहिनामायुषः काले यत्र यन्मानमिष्यते||२६||
इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति||२७||
संवत्सरशते पूर्ण इति संवत्सरेण शततमेंऽशे पूर्णे| यत्र यन्मानमिष्यत इति यत्र युगे यन्मानमिष्यते, तस्य शततमेंऽशे पूर्णे वर्ष एकः क्षयं याति| तेन, कलौ शतवर्षायुषि यदा शततमोंऽशो याति क्षयं तदा नवनवतिः परमायुर्भवतीत्याद्यनुसरणीयम्||२५-२७||
एवंवादिनं भगवन्तमग्निवेश उवाच- किन्नु खलु भगवन्! नियतकालप्रमाणमायुः सर्वं न वेति||२८||
तं भगवानुवाच-
इहाग्निवेश! भूतानामायुर्युक्तिमपेक्षते|
दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम्||२९||
दैवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम्|
स्मृतः पुरुषकारस्तु क्रियते यदिहापरम्||३०||
बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः|
दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम्||३१||
तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च|
नियतस्यायुषो हेतुर्विपरीतस्य चेतरा||३२||
मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम्|३३|
युक्तिमपेक्षत इति दैवपुरुषकारयोर्योगमपेक्षते नियतत्वेऽनियतत्वे चेत्यर्थः| बलं चाबलं च बलाबलं; तत्रायुषो नियतत्वेन बलम्, अनियतत्वेनाबलं ज्ञेयम्| यद्यपि पौर्वदैहिकं कर्मास्थिरत्वेन गतं, तथाऽपि तज्जनितादृष्टस्य विद्यमानत्वात् तद्द्वारा तत्कर्म कारणं भवत्येवेह जन्मन्यपि| पुरुषकारस्त्विह जन्मनि कृतं कर्म सामान्येनोच्यते| तत्र बलिमङ्गलादि अदृष्टजननत्वाद् व्याप्रियते, तथा भेषजादि रसरुधिरादिद्वारा [१५] ||२८-३२||-
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते||३३||
दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते|
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः||३४||
कर्म किञ्चित् क्वचित् काले विपाके नियतं महत्|
किञ्चित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते||३५||
उदारयोरिति प्रशस्तत्वेनोत्तमयोः| दीर्घस्येति रसायनादिना शतादपि दीर्घस्य; सुखस्येति नीरोगत्वेन; नियतस्येति युगनियतस्य, कलौ वर्षशतप्रमाणस्येत्यर्थः; शतादर्वाङनिनियतमपीह नियतशब्देनोच्यते; तेन न तत्र तस्य दैवपुरुषकारजन्यत्वं घटते, तथाऽपि तस्याप्रशस्तदैवपुरुषकारजन्यत्वात् दैवपुरुषकारजन्यत्वं भवतीति युक्तं; किञ्चानियतायुष एव पुरुषा रसायनाधिकारिणो भवन्ति, नियतायुषं प्रति रसायनस्याकिञ्चित्करत्वात्; रसायनादिकृतं चायुरनियतं प्रशस्तत्वेन प्रशस्तदैवपुरुषकारजन्यं भवतीति युक्तम्| किंवा, दीर्घत्वे सति नियतस्यायुषो हेतुरिति योजना; तेन युगनियतं च शतवर्षं, तथा तदधिकं चानियतं महता कर्मणैव क्रियते; पुरुषकारेण तु महताऽस्य सुखित्वं रोगानुपघातात् क्रियते; रसायनेन च जरादिव्याधिप्रतिघातः क्रियते; रसायनलभ्यमप्यायुर्बलवत्कर्मनियतमेवेति भावः| विपरीतस्य दीर्घत्वेनानियतस्य तथा रोगयुक्तत्वेनासुखस्य| इतरेति हीनयोर्द्दैवपुरुषकारयोर्युक्तिरित्यर्थः| मध्यमामध्यमस्य दीर्घत्वेनादीर्घत्वेनानियतस्य, तथा सुखासुखत्वेनानियतस्यायुषो मध्यमयोः कर्मणोर्युक्तिरित्यर्थः| कारणमिति दैवपुरुषकारयोः परस्परबाधने उपपत्तिमित्यर्थः| दैवमित्यादि| दुर्बलमायुर्जननं दैवं बलवता मारकेण दृष्टापथ्यभोजनादिना विपरीतमरणकार्यजननादुपहन्यते; विशिष्टेन बलवता, इतरत् कर्म दृष्टं पुरुषकाराख्यम्, उपहन्यते पराभूयते| एतद्दैवकर्तृकदृष्टपराभवदर्शनाद्दैवनियतमेव सर्वमायुरिति केचिन्मन्यन्त इत्याह [१६] – दृष्ट्वेत्यादि| यदि दृष्टमायुः कारणं स्यात्, न तदा भेषजैः सम्यगुपपादितानां मृत्युः स्यात्; यतश्च सत्यपि चिकित्सिते कर्मवशात्तु मृत्युर्भवति; तेन, यत्रापि चिकित्सा जीवयतीति मन्यन्ते, तत्रापि कर्मैवास्ति जीवनकारणमिति दृष्टशक्तित्वादवधारयाम इति भावः| दैवपुरुषकारयोरुभयोरपि बाध्यत्वं दर्शयन्नेकान्तेन नियतायुःपक्षं व्युदस्यति- कर्मेत्यादि| न क्वचित् कर्म न भवति; यदुच्यते- “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि| अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्” इति| किञ्चित्त्वकालनियतमिति, यथा- इदं मारकं कर्म न तु क्वचित्काले पञ्चविंशवर्षादौ नियतं, तेन यस्मिन् काले पुरुषकाराख्यं दृष्टकर्मानुगुणं प्राप्नोति तस्मिन् काले सहकारिसान्निध्योपबृंहितबलं मारयति, यदा तु दृष्टमपथ्यसेवादि न प्राप्नोति न तदा मारयति, प्रत्ययैः प्रतिबोध्यत इति दृष्टकारणैरुद्रिक्तं क्रियते| ये तु ब्रुवते- किञ्चित् कर्म कालनियतं यदा पच्यते, तस्मिन् काले पच्यत एवेति कालनियमः; विपाकनियतं तु- इदं कर्म विपच्यत एव, न तु विपच्यत इति न; कालविपाकनियतं तु यथा- इदं कर्म अस्मिन्नेव काले विपच्यत एवेति; एतच्च कालविपाकनियतत्वाद्बलवदुच्यते; एतदेव दृष्टाबाधनीयमिति; तेषां मते, अभुक्तमपि क्षीयते दुर्बलकर्म प्रायश्चित्तादिनेति बोद्धव्यं, परं विपर्ययेऽपि तदा किञ्चित्त्वविपाककालनियतमिति वक्तव्यं स्यात्; किञ्चित्त्वकालनियतमिति [१७] वचनात्तु कालनियतमपि||३३-३५||
तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु|
निदर्शनमपि चात्रोदाहरिष्यमः- यदि हि नियतकालप्रमाणमायुः सर्वं स्यात्, तदाऽऽयुष्कामाणां न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनाद्याः क्रिया इष्टयश्च प्रयोज्येरन्; नोद्भ्रान्तचण्डचपलगोजोष्ट्रखरतुरगमहिषादयः पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगाः, तथा न प्रमत्तोन्मत्तोद्भान्तचण्डचपलमोहलोभाकुलमतयः, नारयः, न प्रवृद्धोऽग्निः, च विविधविषाश्रयाः सरीसृपोरगादयः, न साहसं, नादेशकालचर्या, न नरेन्द्रप्रकोप इति; एवमादयो हि भावा नाभावकराः स्युः, आयुषः सर्वस्य नियतकालप्रमाणत्वात्|
न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्रणिनां, व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युर्महर्षीणां रसायनाधिकारे, नापीन्द्रो नियतायुषं शत्रुं वज्रेणाभिहन्यात्, नाश्विनावार्तं भेषजेनोपपादयेतां [१८] , न महर्षयो यथेष्टमायुस्तपसा प्राप्नुयुः, न च विदितवेदितव्या महर्षयः ससुरेशाः सम्यक् पश्येयुरुपदिशेयुराचरेयुर्वा|
अपि च सर्वचक्षुषामेतत् परं यदैन्द्रं चक्षुः [१९] , इदं चाप्यस्माकं तेन प्रत्यक्षं; यथा- पुरुषसहस्राणामुत्थायोत्थायाहवं [२०] कुर्वतामकुर्वतां चातुल्यायुष्ट्वं, तथा जातमात्राणामप्रतीकारात् प्रतीकाराच्च, अविषविषप्राशिनां चाप्यतुल्यायुष्ट्वमेव, न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानां चोत्सीदतां; तस्माद्धितोपचारमूलं जीवितम्, अतो विपर्ययान्मृत्युः|
अपि च देशकालात्मगुणविपरीतानां कर्मणामाहारविकाराणां च क्रमोपयोगः [२१] सम्यक्, त्यागः सर्वस्य [२२] चातियोगायोगमिथ्यायोगानां, सर्वातियोगसन्धारणम् [२३] , असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनम्, आरोग्यानुवृत्तौ हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति||३६||
अतः परमुत्तरमुपसंहरति [२४] – तस्मादित्यादि| उभयदृष्टत्वादिति दैवस्य पुरुषकारेण, तथा पुरुषकारस्य दैवेन बाधदर्शनात्| एकान्तग्रहणमिति नियतमेवायुरिति तथा अनियतमेवायुः सर्वमिति चेत्यर्थः| निदृश्यतेऽभिमतः पक्षः साध्यतेऽनेनेति निदर्शनं युक्तरित्यर्थः| अत्रेति अनैकान्तिकपक्षे| यदीत्यादिना प्रकरणेनायुर्जनकस्य दृष्टस्य हेतोः सेवा तथा आयुर्विघातकस्य हेतोरसेवा सर्वप्रामाणिकजनाविवादसिद्धा दर्श्यते| सा च सर्वा यदि नियतमायुः स्यात्तदा अकिञ्चित्करी स्यात्, अनियते चायुषि किञ्चित्करी स्यात्; तस्मादनियतमप्यायुर्भवतीति भावः| न च सर्वत्रैवादृष्टमेव कारणं दृष्टमकिञ्चित्करमेवेति वदतो दृष्टस्यापि त्रिवृतादेर्विरेकादिकर्तृत्वं व्यक्तमेव; अदृष्टस्यैव तु कारणत्वं दृष्टेकार्यानुपपत्तेः कल्पनीयं; तेनादृष्टस्य कारणत्वं दृष्टकारणमूलमित्यर्थः; न च दृष्टकारणोच्छेदः कल्पयितुमपि पार्यते| इष्टयः यज्ञाः| अत्यर्थसर्पणशीला उरगाः सरीसृपोरगाः| आचरेयुर्वा ‘भेषजम् [२५] ’ इति शेषः| चक्षुषां परमिति अत्यर्थाभ्रान्तत्वेन| अतुल्यायुष्ट्वमिति ये आहवं कुर्वते ते शस्त्रेण म्रियन्ते, ये तु न कुर्वते ते शस्त्रेण न प्रायो म्रियन्ते| प्रतीकारादप्रतीकाराच्चातुल्यायुष्ट्वमिति योजना| न च तुल्य इत्यादौ चित्रघटो यश्चित्रित इव स्थाप्यते, स हि पानीयवहनादिप्रत्यवायहेत्वभावाच्चिरं तिष्ठति; उदपानघटस्तु जलसम्बन्धात् तथा वहनसमये पतनादिना च शीघ्रमुत्सीदति| हितोपचारमूलमिति हितोपचारमूलमपि| क्रमोपयोगः सम्यगिति योजना| सर्वातियोगसन्धारणं सर्वातियोगानां वर्जनम्||३६||
अतः परमग्निवेश उवाच- एवं सत्यनियतकालप्रमाणायुषां भगवन्! कथं कालमृत्युरकालमृत्युर्वाभवतीति||३७||
एवं सतीत्यादि| यत्तावत् कालनियतं तस्याकाले मरणाभावादेव नाकालमृत्युरस्ति, यत्त्वकालनियतं तस्याप्यनियतत्वात् कथं कालमृत्युरकालमृत्युर्वा भवति? अनियते ह्यायुषि कालनियमो नास्ति, नियतकालाच्चार्वागकालमृत्युरुच्यत इति पृच्छार्थः||३७||
तमुवाच भगवानात्रेयः- श्रूयतामग्निवेश! यथा यानसमायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छेत्, तथाऽऽयुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति; स मृत्युः काले|
यथा च स एवाक्षोऽतिभाराधिष्ठितत्वाद्विषमपथादपथादक्षचक्रभङ्गाद्वाह्यवाहकदोषादणिमोक्षादनुपाङ्गात् पर्यसनाच्चान्तराऽवसानमापद्यते, तथाऽऽयुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमाभ्यावहरणाद्विषमशरीरन्यासादतिमैथुनादसत्संश्रयादुदीर्ण- वेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वग्न्युपतापादभिघातादाहारप्रतीकारविवर्जनाच्चान्तराऽवसानमापद्यते, स मृत्युरकाले; तथा ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून् पश्याम इति||३८||
यथाकालमिति यावता कालेन प्रत्यवायशून्यस्याक्षस्य क्षयो भवति तस्मिन्नेवेत्यर्थः| स्वप्रमाणक्षयादेवेति युगानुरूपवर्षशतादिप्रमाणक्षयादित्यर्थः| अपथादिति सर्वथा अमार्गगमनात्| अणिमोक्षादिति कीलमोक्षात्| अनुपाङ्गादिति स्नेहादानात्| पर्यसनात् परिक्षेपात्| मिथ्योपचरितानिति असम्यक्चिकित्सतान्| अकालमृत्यूनिति अकालमृत्युकरान्||३८||
अथाग्निवेशः पप्रच्छ- किन्नु खलु भगवन्! ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्ठं न तथा शीतम्, अस्ति च शीतसाध्योऽपि धातुर्ज्वरकर इति||३९||
सम्प्रति मिथ्योपचारश्रुत्या उष्णतोयं ज्वरेऽप्याग्नेये मिथ्योपचारः स्यादित्याशङ्क्याह- किन्न्वित्यादि| शीतसाध्योऽपिधातुः पित्तमुष्णरूपमित्यर्थः| पानीयं यस्मात् सर्वज्वरितेभ्यो दीयते, तस्मात् पानीयमेवात्र पृच्छति||३९||
तमुवाच भगवानात्रेयः- ज्वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयच्छन्ति भिषजः|
ज्वरो ह्यामाशयसमुत्थः, प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां पाचनवमनापतर्पणसमर्थानि [२६] भवन्ति; पाचनार्थं च पानीयमुष्णं, तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भिषजो भूयिष्ठम्|
तद्धि तेषां पीतं वातमनुलोमयति, अग्निं चोदर्यमुदीरयति, क्षिप्रं जरां गच्छति, श्लेष्माणं परिशोषयति, स्वल्पमपि च पीतं तृष्णाप्रशमनायोपकल्पते; तथायुक्तमपि चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयम्, उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्धन्ते, शीतेन चोपशाम्यन्तीति||४०||
उत्सन्नपित्ते प्रवृद्धपित्ते||४०||
भवति चात्र-
शीतेनोष्णकृतान् रोगाञ्छमयन्ति भिषग्विदः|
ये तु शीतकृता रोगास्तेषामुष्णं भिषग्जितम्||४१||
न केवलं ज्वरे एव शीतोष्णसमुत्थत्वभेदेन उष्णशीतोपचारः, किन्तु सर्वत्रैव व्याधावेवमित्याह- शीतेनेत्यादि| भिषजश्च ते ज्ञानवन्तश्चेति भिषग्विदः||४१||
एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति; यथा- अपतर्पणनिमित्तानां व्याधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणम्||४२||
अपतर्पणमपि च त्रिविधं- लङ्घनं, लङ्घनपाचनं, दोषावसेचनं चेति||४३||
तत्र लङ्घनमल्पबलदोषाणां [२७] , लङ्घनेन ह्यग्निमारुतवृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पो दोषः प्रशोषमापद्यते; लङ्घनपाचने [२८] तु मध्यबलदोषाणां, लङ्घनपाचनाभ्यां हि सूर्यसन्तापमारुताभ्यां पांशुभस्मावकिरणैरिव चानतिबहूदकं मध्यबलो दोषः प्रशोषमापद्यते; बहुदोषाणां पुनर्दोषावसेचनमेव कार्यं, न ह्यभिन्ने केदारसेतौ पल्वलाप्रसेकोऽस्ति, तद्वद्दोषावसेचनम्||४४||
न केवलं शीतोष्णसमुत्थयोरेव परं हेतुविपर्ययेण चिकित्सा, किन्त्वपतर्पणादिजेऽपि हेतुविपरीतेनेत्याह- एवमित्यादि| अपतर्पणसन्तर्पणाभ्यां च सर्वं चिकित्सितं गृहीतं, न ह्यपतर्पणसन्तर्पणाभ्यां विनाऽन्यद्विधानान्तरमस्ति चिकित्सायाः; येन सर्व एवोपक्रमाः सन्तर्पणापतर्पणभेदा एव| अत [२९] एव विशेषज्ञानार्थमपतर्पणभेदानाह- अपतर्पणमित्यादि| लङ्घनपाचनमितिवचनेन यत्र पाचनं क्रियते तत्रावश्यं स्तोकमात्रया लङ्घनमपिक्रियत इति दर्शयति, पाचनकाले हि यदि बृंहणं क्रियते तदा बृंहणेनाग्नेः प्रतिकूलेन पाचनं न स्यादित्यर्थः| अवकिरणैरिवेत्यत्र इवशब्दोऽनतिबहूदकमिवेत्येवंरूपो ज्ञेयः| अन्यद्वेति लङ्घनादि बृंहणादि च||४२-४४||
दोषावसेचनमन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात्|
तद्यथा- अनपवादप्रतीकारस्याधनस्यापरिचारकस्य [३०] वैद्यमानिनश्चण्डस्यासूयकस्य तीव्राधर्मारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य मुमूर्षुलिङ्गान्वितस्य चेति|
एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा योगमृच्छतीति||४५||
अनपवादप्रतीकारो वाच्यप्रतीकारः| अधनस्यानुपकरणत्वेन न चिकित्सा पार्यते कर्तुमित्यर्थः| वैद्यमानी दुरभिमानाद्वैद्योपदेशं न करोति| तीव्राधर्मरुचेः प्रतिक्रियायामधर्मो भवति, न च चिकित्सा सिध्यत्यधर्मप्रतिबन्धात्| मुमूर्षुलिङ्गान्वितस्येति रिष्टयुक्तस्य| पापीयसेति पापहेतुना पापजनकेनायशसा||४५||
भवति चात्र-
तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम्|
कर्मणस्तन्न कर्तव्यमेतद्बुद्धिमतां मतम्||४६||
(अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः|
ज्ञेयः स जाङ्गलो देशः स्वल्परोगतमोऽपि च||४७||
प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः|
अनूपो बहुदोषश्च, समः साधारणो मतः)||४८||
अनुबन्धे वेति उत्तरकालम्| केचिदल्पोदकद्रुमो यस्त्वित्यादिग्रन्थं जाङ्गलादिदेशलक्षणमत्र पठन्ति||४६-४८||
तत्र श्लोकाः-
पूर्वरूपाणि सामान्या हेतवः सस्वलक्षणाः|
देशोद्ध्वंसस्य भैषज्यं हेतूनां मूलमेव च||४९||
प्राग्विकारसमुत्पत्तिरायुषश्च क्षयक्रमः|
मरणं प्रति भूतानां कालाकालविनिश्चयः||५०||
यथा चाकालमरणं यथायुक्तं च भेषजम्|
सिद्धिं यात्यौषधं येषां न कुर्याद्येन हेतुना||५१||
तदात्रेयोऽग्निवेशाय निखिलं सर्वमुक्तवान्|
देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तमः||५२||
सङ्ग्रहे पूर्वरूपाणीति नक्षत्रादिविकाराः| सस्वलक्षणाः सस्वविकृतिलक्षणाः, तच्च लक्षणं तत्र वातमेवंविधमित्यादिना प्रोक्तम्| यथायुक्तं च भेषजं सिद्धिं यातीति अनेनोष्णपानीयदानोपपत्त्या सर्वं सङ्गृहीतम्||४९-५२||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः||३||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः||३||
१. ‘च प्रकृतिभूतानां’ इति पा.|
२. ‘लक्षणत्वादीनां इति पा.|
३. ‘सम्यग्विचारचारितानि’ च इति पा.|
४. ‘उपक्षीणजलाशयं’ इति पा.|
५. ‘सस्वनक्षुभितोदीर्णसलिलाशयं’ इति पा.|
६. ‘… प्रतिभयावाररूपं’ इति गङ्गाधरसम्मतः पाठः|
७. ‘विद्यादपरिहार्यत्वाद्गरीयः परमर्थवित्’ इति पा.|
८. ‘येषां न मृत्युजनकारिष्टरूपं सामान्यमस्तीत्यर्थः’ इति पा.|
९. ‘चासत्कर्म’ इति पा.|
१०. नगरनिगमजनपदप्रधाना नगरादीनामध्यक्षाः|
११. ‘स्पर्शाभ्यवहार्यदोषात्’ इति पा.|
१२. प्रागेवेत्यादि पाठो योगीन्द्रनाथसेनेन न पठ्यते|
१३. ‘उदारसत्त्वगुणैः कर्मणां धर्माणां चाचिन्त्यत्वाद्रस …’ इति पा.|
१४. ‘हीयमानानि हीयमानगुणपादैर्हीयमानगुणैश्चाहारविहारैरयथापूर्वमुपष्टभ्यमानाग्निमारुतपरीतानि’ इति पा.|
१५. “आहाराचारप्रायश्चित्तादिपुरुषकारस्त्वैहिकफलं दृष्टम्, अदृष्टं च प्रायो जन्मान्तरकृतं शुभाशुभं शरीरादिनिर्वर्तकं, तदेतद्द्वितयमपि कारणं दृष्टसामर्थ्यात्| तत्र यदा दृष्टमाहारादि शुभमुपचितम्, अदृष्टं च धर्मरूपं शुभमुपचितं भवति, तदा युगनियतवर्षशतरूपस्यायुषः सुखयुक्तस्य च निष्पत्तिः| यदा तु दैवपुरुषकारयोः शुभमध्यमयोरन्योन्यस्यानुगुणयोर्योगः, तदा मध्यं मध्यमसुखं युगनियतादल्पं भवति| यदा तु हीनयोर्योगः, तदा हि हीनमसुखायुर्भवति| एवं यदा दैवमशुभं, पुरुषकारश्चाशुभः, तदाऽत्यल्पं दुःखबहुलं चायुर्भवति| एवमशुभदैवपुरुषकारयोर्मध्यमतायां हीनतायां वा उदाहरणमूह्यम्| एवं यदा दैवं शुभमुत्तमं, पुरुषकारस्तु मध्यो हीनो वा, तदाऽपि फलविशेष ऊह्यः| अत्रार्थे चरकः-“इहाग्निवेश ! भूतानामायुर्युक्तिमपेक्षते| दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम्| दैवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम्| स्मृतः पुरुषकारस्तु क्रियते यदिहापरम्| बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः| दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम्| तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च| नियतस्यायुषो हेतुर्विपरीतस्य चेतरा| मध्यमा मध्यमस्योक्ता विशेषं शृणु चापरम्” (च.वि.अ.३) इति| अत्र पौर्वदैहिकमिति प्रायेण जन्मान्तरकृतस्यैवेह जन्मनि पाकादुक्तमेतत्, जन्मान्तरकृतं तु यागब्रह्मवधादि प्रायो जन्मान्तर एव फलति| नियतस्येति युगनियतस्य” इति सु.टी.भा. (सू.अ.१७) चक्रः|
१६. “यदा तु दैवपुरुषकारयोर्विरोधः, तदा दुर्बलं दैवं पुरुषकारेण बलवता हन्यते, बलवता दैवेन दुर्बलः पुरुषकारो हन्यते| अत एव च दैवेन पुरुषकारं पराभूतं दृष्ट्वा केचित् कर्मवादिनो दैवनियतमेवायुरादिकं वदन्ति, व्यर्थं च पुरुषकारं दैवयुक्तिव्यपाश्रयाहाराचाररूपं वदन्ति|” इति सु.टी.भा.(सू.अ.१) चक्रः|
१७. “बलवतोस्तु दैवपुरुषकारयोर्विरोधिनोर्युगपदुपस्थापनं नास्त्येव, विरोधिनां सुखदुःखादीनां यौगपद्येनानुपलम्भादेव| बलवत्ता तु दैवाख्यकर्मणो धर्माधर्मरूपस्य कालविपाकनियमाद् भवति| विपर्यये तु अबलवत्त्वं पुरुषकारबाधनीयत्वं च भवति| यदाह चरकः- “कर्म किञ्चित् क्वचित् काले विपाकनियतं महत्| किञ्चित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते” (च.वि.अ.३) इति| अत्र त्रिविधो नियमः एकविधश्चानियमः, एवं पक्षचतुष्टयमपि भवति| यथा-“इदं कर्म यदि पच्येत तदा अस्मिन्नेव काले पच्येत, नान्यत्रेति कालनियमः| तथा-इदं कर्म यत्र क्वचित् काले पच्येतैव, न पच्येतेति न, इति विपाकनियमः| एतौ पक्षौ पुरुषकारबाध्यतया शास्त्रविषयौ, पाक्षिकस्य नियमस्यासत्त्वात्| तथा-इदं कर्मास्मिन्नेव काले पच्येतैवेति कालविपाकनियमः| अयमविषयः शास्त्रस्य, पुरुषकारानपेक्षत्वात्| तथा-इदं कर्म कुत्रचित् काले प्रत्ययं दृष्टमासाद्य पच्येत, यदि वा न पच्येत, तदपि च प्रायश्चित्तादिपराभूतत्वादेवेति कालविपाकानियमः सर्वथा शास्त्रविषयः| अत्र पक्षचतुष्टये केचिद् वदन्ति-“किञ्चिन्न कालनियतं” (च.वि.अ.३) इति वदता चरकेण कालानियमो दर्शितः, विपाकानियमस्तु न दर्शितः| कर्मणां विपाकानियमो नास्ति| यदुच्यते-“नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि| अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्” इति| किन्तु प्रायश्चित्तानामपि अदत्तफलकर्मक्षयोपदेशात्, तथा “ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन” (भ.गी.अ.४) इति ज्ञानाग्निना च कर्मक्षयोपदेशाद् विपाकानियमपक्षोऽपि सम्भवत्येव| तथा च-“न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते (शा.अ.१)” इति वदता चरकेणापि महतः कर्मणः प्रायश्चित्ताबाधनीयस्य विपाकनियमोऽपि दर्शितो भवति| अलमतिसूक्ष्मगतिकर्मविचारेण| शास्त्रस्यारोग्यसाधनाहाराचाररूपपुरुषकारोपदेशकत्वेन प्रयोजनवत्त्वमस्त्येव” इति सु.टी.भा. (सू.अ.१) चक्रः|
१८. ‘भेषजेनोपचरेताम्’ इति पा.|
१९. सर्वचक्षुषां सर्वप्रमाणानामित्यर्थः, एतत्परमभ्रान्तत्वेन श्रेष्ठं, यदैन्द्रं चक्षुः प्रत्यक्षप्रमाणमित्यर्थः| ‘यद्दिव्यं’ इति पा.|
२०. ‘आहारं’ इति पा.|
२१. ‘क्रियोपयोगः’ इति पा.|
२२. सर्वस्येति कालस्य कर्मण इन्द्रियार्थस्य च|
२३. ‘सन्धारणमनुदीर्णानां’ इति पा.|
२४. ‘अतः परमुक्तमुपसंहरति’ इति पा.|
२५. ‘भेषजं तावदाहाराचाररूपं यस्य दोषस्य विकारस्य वा विपरीतं, तदसति विरोधके तं शमयतीति दृष्टं, यथा-कटुकेन श्लेष्मक्षयः, अग्निना शीतप्रशमनम्, आहारेण क्षुदुपशमः, पानीयपानेन पिपासापगमः| एवमादि सामान्येन वृद्धिः, विपरीतेन च ह्रास इति दृश्यते| न चात्रापि दृष्टेनैवोपपद्यमानेऽदृष्टमेव कारणमिति कल्पना युक्ता| यतो दृष्टेनानुपपद्यमाने कार्ये कारणमदृष्टं कल्प्यते, दृष्टपराभवेन तु सर्वत्रादृष्टकल्पनं प्रामाणिकमेव| यतो यदेवादृष्टं कारणत्वेनाभिमतं तद्दृष्टयागादिजन्यं, तद्वदेव भेषजं दृष्टरूपं तावत्क्वचिदस्त्येवं स्वीकर्तव्यम्’ इति सुश्रुतटीकायां भानुमत्यां(सु.अ.१) चक्रः|
२६. ‘विरेचनवमनापतर्पणसंशमनान्येव’ इति पा.|
२७. ‘अल्पदोषाणाम्’ इति पा.|
२८. ‘लङ्घनपाचनं’ इति पा.|
२९. ‘अत एव’ इति हस्तलिखितपुस्तके न पठ्यते|
३०. ‘अल्पवादप्रतीकारस्य’ इति पा.|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
Carakasaṁhitā
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
vimānasthānam - 3. janapadōddhvaṁsanīyavimānam
athātō janapadōddhvaṁsanīyaṁ vimānaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
dvividhō hēturvyādhijanakaḥ prāṇināṁ bhavati- sādhāraṇaḥ, asādhāraṇaśca; tatrāsādhāraṇaṁ pratipuruṣaniyataṁ vātādijanakamāhārādyabhidhāya bahujanasādhāraṇaṁ vātajaladēśakālarūpaṁ sādhāraṇarōgakāraṇamabhidhātuṁ janapadōddhvaṁsanīyō’bhidhīyatē||1-2||
janapadamaṇḍalē pañcālakṣētrē dvijātivarādhyuṣitē kāmpilyarājadhānyāṁ bhagavān punarvasurātrēyō’ntēvāsigaṇaparivr̥taḥ paścimē gharmamāsē gaṅgātīrē vanavicāramanuvicarañchiṣyamagnivēśamabravīt||3||
janapadavasatyupalakṣitaṁ maṇḍalaṁ janapadamaṇḍalaṁ, ‘pañcālakṣētrē’ iti tasya viśēṣaṇam| dvijātivarādhyuṣita iti vacanēna mahājanasēvitē’pi dēśē’dharmavaśājjanapadōddhvaṁsō vakṣyamāṇō bhavatīti darśayati| paścimē gharmamāsa iti jyēṣṭhē| vanavicāramanuvicaranniti vanaṁ vicarya vicaryānuvicarannityarthaḥ||3||
dr̥śyantē hi khalu saumya! nakṣatragrahagaṇacandrasūryānilānalānāṁ diśāṁ cāprakr̥tibhūtānāmr̥tuvaikārikā [1] bhāvāḥ, acirāditō bhūrapi ca na yathāvadrasavīryavipākaprabhāvamōṣadhīnāṁ pratividhāsyati, tadviyōgāccātaṅkaprāyatā niyatā|
tasmāt prāguddhvaṁsāt prāk ca bhūmērvirasībhāvāduddharadhvaṁ saumya! bhaiṣajyāni yāvannōpahatarasavīryavipākaprabhāvāṇi bhavanti|
vayaṁ caiṣāṁ rasavīryavipākaprabhāvānupayōkṣyāmahē yē cāsmānanukāṅkṣanti, yāṁśca vayamanukāṅkṣāmaḥ|
na hi samyaguddhr̥tēṣu saumya! bhaiṣajyēṣu samyagvihitēṣu samyak cāvacāritēṣu janapadōddhvaṁsakarāṇāṁ vikārāṇāṁ kiñcit pratīkāragauravaṁ bhavati||4||
r̥tuvikārāya bhūtā r̥tuvaikārikāḥ; r̥tuvikāraścōpalakṣaṇaṁ, tēna jaladēśavātavikārāya bhūtā iti mantavyaṁ; yatō bhūmyādīnāmapi vikr̥tiṁ vakṣyati| kiṁvā r̥tvananurūpā r̥tuvaikārikāḥ; tēna, r̥tvananurūpalakṣaṇamēva nakṣatrādīnāṁ [2] vikr̥tirityuktaṁ bhavati; grīṣmē hi nakṣatrāṇi nirmalāni bhavanti, tāni yadi tuṣāracchannāni grīṣmē bhavanti, tadā vikr̥tāni bhavantīti bōddhavyam| bhūrapi cētyapivacanājjalānilau ca grāhayati; tēna, bhūstāvadōṣadhīnāṁ pradhānaṁ kāraṇaṁ, sā rasādīnna pratividhāsyati; jalavātāvapi cauṣadhīnāṁ rasādīnna pratividhāsyata ityuktaṁ bhavati| pratividhāsyatīti janayiṣyati| uddharadhvamiti bahuvacanaṁ bahvantēvāsiyuktāgnivēśābhiprāyēṇa; agnivēśastu pradhānatvēnaika ēvēti ‘agnivēśa’ itipadēna tathā ‘saumya’ itipadēna sambōdhyatē; bhēṣajōddharaṇaṁ tu bahubhirēva kartavyamityabhiprāyēṇa bahuvacanam| bhavati hi pradhānaṁ sambōdhya gaṇasampādyakriyāyāṁ bahuvacanaṁ; yathā- sēnāpatē yudhyadhvamiti| anyē tu saumyapadaṁ bhēṣajaviśēṣaṇaṁ kurvanti| yē cāsmānanukāṅkṣanti yē cāsmān bhiṣajō’nukāṅkṣantītyarthaḥ, yāṁśca vayamanukāṅkṣāmaścikitsyatvēna| ētēna, yē vaidyamanukāṅkṣanti tē vaidyapriyatvēna sādhyāḥ, asādhyā hi vaidyadviṣa uktāḥ; vaidyāśca yānicchanti tē sādhyarōgā ēva, asādhyān hi vaidyā nēcchanti| ētēnānyēṣāmapi yēṣāṁ bhēṣajasādhyā rōgāstē āsāmōṣadhīnāṁ rasādīnupayōkṣyantītyarthaḥ| yadi ca yē asmadgatāḥ, yāṁśca vayaṁ prayōjanavaśādanugatāḥ, tē upayōkṣyantīti vyākhyāyatē, tadā ātrēyasya pakṣarāgitvēnāptatvaṁ na sambhavati, “sarvaprajānāṁ pitr̥vaccharaṇyaḥ” (ci.a.5) iti vacanāccāsya nīrāgatvamuktam||4||
ēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- uddhr̥tāni khalu bhagavan! bhaiṣajyāni, samyagvihitāni, samyagavacāritāni [3] ca; api tu khalu janapadōddhvaṁsanamēkēnaiva vyādhinā yugapadasamānaprakr̥tyāhāradēhabalasātmyasattvavayasāṁ manuṣyāṇāṁ kasmādbhavatīti||5||
udddhr̥tānīti vacanamabhūtē bhūtavaccēti prayōgādbōddhavyaṁ, yathā- acirakartavyē kr̥tamiti vadanti; na hi vacanakāla ēva ōṣadhīnāmuddharaṇaṁ sambhavatīti| ēkēnēti ēkajātīyēna| asamānaprakr̥tyādīnāṁ samānakāraṇābhāvānna tulyarūpō vyādhirbhavitumarhatīti praśnārthaḥ||5||
tamuvāca bhagavānātrēyaḥ- ēvamasāmānyāvatāmapyēbhiragnivēśa! prakr̥tyādibhirbhāvairmanuṣyāṇāṁ yē’nyē bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayō’bhinirvartamānā janapadamuddhvaṁsayanti|
tē tu khalvimē bhāvāḥ sāmānyā janapadēṣu bhavanti; tadyathā- vāyuḥ, udakaṁ, dēśaḥ, kāla iti||6||
samānaliṅgā iti tulyaliṅgāḥ||6||
tatra vātamēvaṁvidhamanārōgyakaraṁ vidyāt; tadyathā-yathartuviṣamamatistimitamaticalamatiparuṣamatiśītamatyuṣṇamatirūkṣamatyabhiṣyandinamatibhairavārāvamatipratihata- parasparagatimatikuṇḍalinamasātmyagandhabāṣpasikatāpāṁśudhūmōpahatamiti (1);
udakaṁ tu khalvatyarthavikr̥tagandhavarṇarasasparśaṁ klēdabahulamapakrāntajalacaravihaṅgamupakṣīṇajalēśayamaprītikaramapagataguṇaṁ [4] vidyāt (2);
dēśaṁ punaḥ prakr̥tivikr̥tavarṇagandharasasparśaṁ klēdabahulamupasr̥ṣṭaṁ sarīsr̥pavyālamaśakaśalabhamakṣikāmūṣakōlūkaśmāśānikaśakunijambūkādibhistr̥ṇōlūpōpavanavantaṁ pratānādibahulamapūrvavadavapatitaśuṣkanaṣṭaśasyaṁ dhūmrapavanaṁ pradhmātapatatrigaṇamutkruṣṭaśvagaṇamudbhrāntavyathitavividhamr̥gapakṣisaṅghamutsr̥ṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṁ śaśvatkṣubhitōdīrṇasalilāśayaṁ [5] pratatōlkāpātanirghātabhūmikampamatibhayārāvarūpaṁ [6] rūkṣatāmrāruṇasitābhrajālasaṁvr̥tārkacandratārakamabhīkṣṇaṁ sasambhramōdvēgamiva satrāsaruditamiva satamaskamiva guhyakācaritamivākranditaśabdabahulaṁ cāhitaṁ vidyāt (3);
kālaṁ tu khalu yathartuliṅgādviparītaliṅgamatiliṅgaṁ hīnaliṅgaṁ cāhitaṁ vyavasyēt (4);
imānēvandōṣayuktāṁścaturō bhāvāñjanapadōddhvaṁsakarān vadanti kuśalāḥ; atō’nyathābhūtāṁstu hitānācakṣatē||7||
viguṇēṣvapi khalvētēṣu janapadōddhvaṁsakarēṣu bhāvēṣu bhēṣajēnōpapādyamānānāmabhayaṁ bhavati rōgēbhya iti||8||
yathartuviṣamamiti r̥tvananurūpam| apagataguṇamiti jīvanapipāsāharatvādyuktajalaguṇarahitam| prakr̥tivarṇādērvikr̥tā varṇādayō yasya dēśasya taṁ prakr̥tivikr̥tavarṇagandharasasparśam| śmāśānikaśakuniḥ gr̥dhraḥ| apūrvavaditi paricitamapyupahatatvēnāpūrvamiva dr̥śyatē| utsr̥ṣṭāśca naṣṭāśca dharmasatyalajjāguṇā janairyatra sa tathā; tatra yē dharmādiyuktāstē utsr̥janti dharmādīni, yē tu dharmādīni sarvathā ajñānānnācaranti tān prati naṣṭānyēva dharmādīni| guhyakākrāntō hi dēśō yathā ākrandanaśabdabahulō bhavati tādr̥śam||7-8||
bhavanti cātra-
vaiguṇyamupapannānāṁ dēśakālānilāmbhasām|
garīyastvaṁ viśēṣēṇa hētumat sampravakṣyatē||9||
vātājjalaṁ jalāddēśaṁ dēśāt kālaṁ svabhāvataḥ|
vidyādduṣparihāryatvādgarīyastaramarthavit [7] ||10||
vāyvādiṣu yathōktānāṁ dōṣāṇāṁ tu viśēṣavit|
pratīkārasya saukaryē vidyāllāghavalakṣaṇam||11||
vaiguṇyamityādinā duṣṭānāṁ vātādīnāṁ yasya ya utkarṣō yēna ca hētunā tadāha| svabhāvatō duṣparihāryatvāditi svabhāvādēva vātāpēkṣayā jalaṁ duṣpariharaṁ bhavati, jalācca dēśaḥ, dēśācca kālaḥ| vātō hi nivātadēśasēvayā duṣṭaḥ parihriyatē, na tathā jalaṁ, taddhi dēhavr̥ttyarthamavaśyaṁ sēvyaṁ; jalamapi ca yadi mahatā prayatnēna tyajyatē, dēśastu jalāpēkṣayā duṣpariharō bhavati, tadvyatirēkēṇāvasthātumaśakyatvāt; dēśō’pi yadi dēśāntaragamanēna tyajyatē, kālastu sarvathā tyaktumaśakya iti sarvēṣvēva garīyān| ‘garīyaḥ param’ iti pāṭhē yadyataḥ paraṁ, tattatō garīyō vidyāditi yōjanā| ētadviparyayēṇa lāghavamāha- vāyvādiṣvityādi| pratīkārasya saukarya iti yathōktavidhayā vātādiparityāgasya sukaratvēnētyarthaḥ||9-11||
caturṣvapi tu duṣṭēṣu kālāntēṣu yadā narāḥ|
bhēṣajēnōpapādyantē na bhavantyāturāstadā||12||
yēṣāṁ na mr̥tyusāmānyaṁ sāmānyaṁ na ca karmaṇām|
karma pañcavidhaṁ tēṣāṁ bhēṣajaṁ paramucyatē||13||
rasāyanānāṁ vidhivaccōpayōgaḥ praśasyatē|
śasyatē dēhavr̥ttiśca bhēṣajaiḥ pūrvamuddhr̥taiḥ||14||
satyaṁ bhūtē dayā dānaṁ balayō dēvatārcanam|
saddhr̥ttasyānuvr̥ttiśca praśamō guptirātmanaḥ||15||
hitaṁ janapadānāṁ ca śivānāmupasēvanam|
sēvanaṁ brahmacaryasya tathaiva brahmacāriṇām||16||
saṅkathā dharmaśāstrāṇāṁ maharṣīṇāṁ jitātmanām|
dhārmikaiḥ sāttvikairnityaṁ sahāsyā vr̥ddhasammataiḥ||17||
ityētadbhēṣajaṁ prōktamāyuṣaḥ paripālanam|
yēṣāmaniyatō mr̥tyustasmin kālē sudāruṇē||18||
yēṣāṁ na mr̥tyusāmānyamiti na [8] mr̥tyujanakadaivasāmyaṁ yēṣāmastītyarthaḥ| sāmānyaṁ na ca karmaṇāmiti naca mārakakarmasāmānyaṁ yēṣāmastītyarthaḥ| kēciddhi sambhūyaiva janmāntarē grāmadāhādikarma kurvatē sma, tatkarmabalāt saṁhatamr̥tyava ēva bhavanti; kiṁvā pr̥thagapi mārakaṁ karma kr̥taṁ kēṣāñcidēkakālaṁ vipacyamānaṁ bhavati, tē’pi samakālabhr̥tyavō bhavanti| tatra, na mr̥tyusāmānyamityanēnōtpannariṣṭatvādēva kēcidasādhyā iti darśayati, na karmasāmānyamityanēna kēciccājātariṣṭā api niyatamārakakarmavaśādasādhyā bhavantīti darśayati; kiṁvā na mr̥tyusāmānyamityanēna ca mārakō vyādhiḥ sādhāraṇa ucyatē, na karmasāmānyamityanēna ca mārakavyādhijanakaṁ karmōcyatē| pūrvamuddhr̥tairiti vyāpattēḥ pūrvaṁ gr̥hītaiḥ| guptiḥ mantrādinā rakṣā| aniyata iti vacanēna durbalakarmārabdhō hi mr̥tyuḥ pāryata ēvaivaṁ pratikartumiti darśayati||12-18||
iti śrutvā janapadōddhvaṁsanē kāraṇāni punarapi bhagavantamātrēyamagnivēśa uvāca- atha khalu bhagavan! kutōmūlamēṣāṁ vāyvādīnāṁ vaiguṇyamutpadyatē? yēnōpapannā janapadamuddhvaṁsayantīti||19||
tamuvāca bhagavānātrēyaḥ- sarvēṣāmapyagnivēśa! vāyvādīnāṁ yadvaiguṇyamutpadyatē tasya mūlamadharmaḥ, tanmūlaṁ vā’satkarma [9] pūrvakr̥taṁ; tayōryōniḥ prajñāparādha ēva|
tadyathā- yadā vai dēśanagaranigamajanapadapradhānā [10] dharmamutkramyādharmēṇa prajāṁ vartayanti, tadāśritōpāśritāḥ paurajanapadā vyavahārōpajīvinaśca tamadharmamabhivardhayanti, tataḥ sō’dharmaḥ prasabhaṁ dharmamantardhattē, tatastē’ntarhitadharmāṇō dēvatābhirapi tyajyantē; tēṣāṁ tathā’ntarhitadharmaṇāmadharmapradhānānāmapakrāntadēvatānāmr̥tavō vyāpadyantē; tēna nāpō yathākālaṁ dēvō varṣati na vā varṣati vikr̥taṁ vā varṣati, vātā na samyagabhivānti, kṣitirvyāpadyatē, salilānyupaśuṣyanti, ōṣadhayaḥ svabhāvaṁ parihāyāpadyantē vikr̥tiṁ; tata uddhvaṁsantē janapadāḥ spr̥śyābhyavahāryadōṣāt [11] ||20||
kutōmūlaṁ kimmūlamityarthaḥ| tasya mūlamadharma iti aihikamadharmaṁ darśayati| tanmūlaṁ vēti tasya vātādivaiguṇyasya mūlaṁ pūrvakr̥taṁ vā karma| tēnaihikō vā’dharmō janmāntarakr̥tō vā’dharmō vātādivaiguṇyasya kāraṇamiti brūtē| tadyadā dēśētyādinā tvaihikamēvādharmaṁ yadvakṣyati hētutayā tat pratyakṣatvēna sphuṭasiddhāntārthaṁ, natu janmāntarakr̥tādharmasyākāraṇatvēnēti jñēyam| tayōriti aihikajanmāntarīyayōradharmayōḥ| yōniriti kāraṇam| spr̥śyābhyavahāryadōṣāditi spr̥śyasya vā jalādērabhyavahāryasya ca kr̥tsnasya duṣṭatvāt| ētacca prādhānyēna jñēyaṁ; tēna duṣṭapavanagandhadōṣō’pi jñēyaḥ, asātmyagandhō’pi duṣṭavātē uktaḥ||19-20||
tathā śastraprabhavasyāpi janapadōddhvaṁsasyādharma ēva hēturbhavati|
yē’tipravr̥ddhalōbhakrōdhamōhamānāstē durbalānavamatyātmasvajanaparōpaghātāya śastrēṇa parasparamabhikrāmanti, parān vā’bhikrāmanti, parairvā’bhikrāmyantē||21||
śastraprabhavasyāpīti bahujanamārakasya śastraprabhavasyētyarthaḥ| ātmasvajanaparōpaghātāyēti atra ātmanaḥ svajanasya parasya cōpaghātō bhavati prāya ityarthaḥ||21||
rakṣōgaṇādibhirvā vividhairbhūtasaṅghaistamadharmamanyadvā’pyapacārāntaramupalabhyābhihanyantē||22||
rākṣasādyutsādō’pi janānāmadharmakr̥ta ēva bhavatītyāha- rakṣōgaṇētyādi| anyadvā apacārāntaramiti yathōktādharmakāraṇādanyadadharmakāraṇamaśaucādītyarthaḥ||22||
tathā’bhiśāpaprabhavasyāpyadharma ēva hēturbhavati|
yē luptadharmāṇō dharmādapētāstē guruvr̥ddhasiddharṣipūjyānavamatyāhitānyācaranti; tatastāḥ prajā gurvādibhirabhiśaptā bhasmatāmupayānti prāgēvānēkapuruṣakulavināśāya, niyatapratyayōpalambhādaniyatāścāparē [12] ||23||
prāgēvēti jhaṭiti, anēkapuruṣakulavināśāyābhiśaptā bhasmatāṁ yāntītyarthaḥ| niyatapratyayōpalambhādaniyatāścāparē bhasmatāṁ yāntīti yōjanā| aniyatā amilitā ityarthaḥ| pratiniyatapuruṣābhiśāpāt pratiniyatā ēva bhasmatāṁ yānti, na sarvē janā ityarthaḥ||23||
prāgapi cādharmādr̥tē nāśubhōtpattiranyatō’bhūt|
ādikālē hyaditisutasamaujasō’tivimalavipulaprabhāvāḥ pratyakṣadēvadēvarṣidharmayajñavidhividhānāḥ śailasārasaṁhatasthiraśarīrāḥ prasannavarṇēndriyāḥ pavanasamabalajavaparākramāścārusphicō’bhirūpapramāṇākr̥tiprasādōpacayavantaḥ satyārjavānr̥śaṁsyadānadamaniyamatapōpavāsabrahmacaryavrataparā vyapagatabhayarāgadvēṣamōhalōbhakrōdhaśōkamānarōganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvuramitāyuṣaḥ|
tēṣāmudārasattvaguṇakarmaṇāmacintyarasavīryavipākaprabhāvaguṇasamuditāni [13] prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pr̥thivyādīnāṁ kr̥tayugasyādau|
bhraśyati tu kr̥tayugē kēṣāñcidatyādānāt sāmpannikānāṁ sattvānāṁ śarīragauravamāsīt, śarīragauravācchramaḥ, śramādālasyam, ālasyāt sañcayaḥ, sañcayāt parigrahaḥ, parigrahāllōbhaḥ prādurāsīt kr̥tē|
tatastrētāyāṁ lōbhādabhidrōhaḥ, abhidrōhānr̥tavacanam, anr̥tavacanāt kāmakrōdhamānadvēṣapāruṣyābhighātabhayatāpaśōkacintōdvēgādayaḥ pravr̥ttāḥ|
tatastrētāyāṁ dharmapādō’ntardhānamagamat|
tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ, pr̥thivyādēśca guṇapādapraṇāśō’bhūt|
tatpraṇāśakr̥taśca śasyānāṁ snēhavaimalyarasavīryavipākaprabhāvaguṇapādabhrāṁśaḥ|
tatastāni prajāśarīrāṇi hīyamānaguṇapādairāhāravihārairayathāpūrvamupaṣṭabhyamānānyagnimārutaparītāni [14] prāgvyādhibhirjvarādibhirākrāntāni|
ataḥ prāṇinō hrāsamavāpurāyuṣaḥ kramaśa iti||24||
ādyāvirbhāvē ca rōgāṇāmadharma ēva kāraṇamityāha- prāgapi cētyādi| yajñaḥ yajñadēvatā, vidhiḥ yajñavidhāyakō vēdaḥ, vidhānaṁ yajñakarma| javaḥ vēgaḥ| parigrahaḥ mamatā| amitamivātibahutvēnāyuryēṣāṁ tē amitāyuṣaḥ| satyē hi caturvarṣaśatamāyuḥ; yaduktaṁ bhagavatā vyāsēna- “puruṣāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ| kr̥tē” iti| sāmpannikānām īśvarāṇām| kr̥tē iti kr̥tayugasya śēṣē| hīyamānaguṇapādairiti yathā yathā trētāyāḥ kṣayō bhavati, tathā tathā āhāravihāraguṇapādahrāsō bhavannāsta iti darśayati| vihārō’pi cādharmavatāṁ hīnaguṇō bhavati, tēna na yathāvaccharīrōpaṣṭambhanaṁ karōti| upaṣṭabhyamānānīti dhātusāmyēna pālyamānāni||24||
bhavataścātra-
yugē yugē dharmapādaḥ kramēṇānēna hīyatē|
guṇapādaśca bhūtānāmēvaṁ lōkaḥ pralīyatē||25||
saṁvatsaraśatē pūrṇē yāti saṁvatsaraḥ kṣayam|
dēhināmāyuṣaḥ kālē yatra yanmānamiṣyatē||26||
iti vikārāṇāṁ prāgutpattihēturuktō bhavati||27||
saṁvatsaraśatē pūrṇa iti saṁvatsarēṇa śatatamēṁ’śē pūrṇē| yatra yanmānamiṣyata iti yatra yugē yanmānamiṣyatē, tasya śatatamēṁ’śē pūrṇē varṣa ēkaḥ kṣayaṁ yāti| tēna, kalau śatavarṣāyuṣi yadā śatatamōṁ’śō yāti kṣayaṁ tadā navanavatiḥ paramāyurbhavatītyādyanusaraṇīyam||25-27||
ēvaṁvādinaṁ bhagavantamagnivēśa uvāca- kinnu khalu bhagavan! niyatakālapramāṇamāyuḥ sarvaṁ na vēti||28||
taṁ bhagavānuvāca-
ihāgnivēśa! bhūtānāmāyuryuktimapēkṣatē|
daivē puruṣakārē ca sthitaṁ hyasya balābalam||29||
daivamātmakr̥taṁ vidyāt karma yat paurvadaihikam|
smr̥taḥ puruṣakārastu kriyatē yadihāparam||30||
balābalaviśēṣō’sti tayōrapi ca karmaṇōḥ|
dr̥ṣṭaṁ hi trividhaṁ karma hīnaṁ madhyamamuttamam||31||
tayōrudārayōryuktirdīrghasya ca sukhasya ca|
niyatasyāyuṣō hēturviparītasya cētarā||32||
madhyamā madhyamasyēṣṭā kāraṇaṁ śr̥ṇu cāparam|33|
yuktimapēkṣata iti daivapuruṣakārayōryōgamapēkṣatē niyatatvē’niyatatvē cētyarthaḥ| balaṁ cābalaṁ ca balābalaṁ; tatrāyuṣō niyatatvēna balam, aniyatatvēnābalaṁ jñēyam| yadyapi paurvadaihikaṁ karmāsthiratvēna gataṁ, tathā’pi tajjanitādr̥ṣṭasya vidyamānatvāt taddvārā tatkarma kāraṇaṁ bhavatyēvēha janmanyapi| puruṣakārastviha janmani kr̥taṁ karma sāmānyēnōcyatē| tatra balimaṅgalādi adr̥ṣṭajananatvād vyāpriyatē, tathā bhēṣajādi rasarudhirādidvārā [15] ||28-32||-
daivaṁ puruṣakārēṇa durbalaṁ hyupahanyatē||33||
daivēna cētarat karma viśiṣṭēnōpahanyatē|
dr̥ṣṭvā yadēkē manyantē niyataṁ mānamāyuṣaḥ||34||
karma kiñcit kvacit kālē vipākē niyataṁ mahat|
kiñcittvakālaniyataṁ pratyayaiḥ pratibōdhyatē||35||
udārayōriti praśastatvēnōttamayōḥ| dīrghasyēti rasāyanādinā śatādapi dīrghasya; sukhasyēti nīrōgatvēna; niyatasyēti yuganiyatasya, kalau varṣaśatapramāṇasyētyarthaḥ; śatādarvāṅaniniyatamapīha niyataśabdēnōcyatē; tēna na tatra tasya daivapuruṣakārajanyatvaṁ ghaṭatē, tathā’pi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṁ bhavatīti yuktaṁ; kiñcāniyatāyuṣa ēva puruṣā rasāyanādhikāriṇō bhavanti, niyatāyuṣaṁ prati rasāyanasyākiñcitkaratvāt; rasāyanādikr̥taṁ cāyuraniyataṁ praśastatvēna praśastadaivapuruṣakārajanyaṁ bhavatīti yuktam| kiṁvā, dīrghatvē sati niyatasyāyuṣō hēturiti yōjanā; tēna yuganiyataṁ ca śatavarṣaṁ, tathā tadadhikaṁ cāniyataṁ mahatā karmaṇaiva kriyatē; puruṣakārēṇa tu mahatā’sya sukhitvaṁ rōgānupaghātāt kriyatē; rasāyanēna ca jarādivyādhipratighātaḥ kriyatē; rasāyanalabhyamapyāyurbalavatkarmaniyatamēvēti bhāvaḥ| viparītasya dīrghatvēnāniyatasya tathā rōgayuktatvēnāsukhasya| itarēti hīnayōrddaivapuruṣakārayōryuktirityarthaḥ| madhyamāmadhyamasya dīrghatvēnādīrghatvēnāniyatasya, tathā sukhāsukhatvēnāniyatasyāyuṣō madhyamayōḥ karmaṇōryuktirityarthaḥ| kāraṇamiti daivapuruṣakārayōḥ parasparabādhanē upapattimityarthaḥ| daivamityādi| durbalamāyurjananaṁ daivaṁ balavatā mārakēṇa dr̥ṣṭāpathyabhōjanādinā viparītamaraṇakāryajananādupahanyatē; viśiṣṭēna balavatā, itarat karma dr̥ṣṭaṁ puruṣakārākhyam, upahanyatē parābhūyatē| ētaddaivakartr̥kadr̥ṣṭaparābhavadarśanāddaivaniyatamēva sarvamāyuriti kēcinmanyanta ityāha [16] – dr̥ṣṭvētyādi| yadi dr̥ṣṭamāyuḥ kāraṇaṁ syāt, na tadā bhēṣajaiḥ samyagupapāditānāṁ mr̥tyuḥ syāt; yataśca satyapi cikitsitē karmavaśāttu mr̥tyurbhavati; tēna, yatrāpi cikitsā jīvayatīti manyantē, tatrāpi karmaivāsti jīvanakāraṇamiti dr̥ṣṭaśaktitvādavadhārayāma iti bhāvaḥ| daivapuruṣakārayōrubhayōrapi bādhyatvaṁ darśayannēkāntēna niyatāyuḥpakṣaṁ vyudasyati- karmētyādi| na kvacit karma na bhavati; yaducyatē- “nābhuktaṁ kṣīyatē karma kalpakōṭiśatairapi| avaśyamēva bhōktavyaṁ kr̥taṁ karma śubhāśubham” iti| kiñcittvakālaniyatamiti, yathā- idaṁ mārakaṁ karma na tu kvacitkālē pañcaviṁśavarṣādau niyataṁ, tēna yasmin kālē puruṣakārākhyaṁ dr̥ṣṭakarmānuguṇaṁ prāpnōti tasmin kālē sahakārisānnidhyōpabr̥ṁhitabalaṁ mārayati, yadā tu dr̥ṣṭamapathyasēvādi na prāpnōti na tadā mārayati, pratyayaiḥ pratibōdhyata iti dr̥ṣṭakāraṇairudriktaṁ kriyatē| yē tu bruvatē- kiñcit karma kālaniyataṁ yadā pacyatē, tasmin kālē pacyata ēvēti kālaniyamaḥ; vipākaniyataṁ tu- idaṁ karma vipacyata ēva, na tu vipacyata iti na; kālavipākaniyataṁ tu yathā- idaṁ karma asminnēva kālē vipacyata ēvēti; ētacca kālavipākaniyatatvādbalavaducyatē; ētadēva dr̥ṣṭābādhanīyamiti; tēṣāṁ matē, abhuktamapi kṣīyatē durbalakarma prāyaścittādinēti bōddhavyaṁ, paraṁ viparyayē’pi tadā kiñcittvavipākakālaniyatamiti vaktavyaṁ syāt; kiñcittvakālaniyatamiti [17] vacanāttu kālaniyatamapi||33-35||
tasmādubhayadr̥ṣṭatvādēkāntagrahaṇamasādhu|
nidarśanamapi cātrōdāhariṣyamaḥ- yadi hi niyatakālapramāṇamāyuḥ sarvaṁ syāt, tadā”yuṣkāmāṇāṁ na mantrauṣadhimaṇimaṅgalabalyupahārahōmaniyamaprāyaścittōpavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayōjyēran; nōdbhrāntacaṇḍacapalagōjōṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ, na prapātagiriviṣamadurgāmbuvēgāḥ, tathā na pramattōnmattōdbhāntacaṇḍacapalamōhalōbhākulamatayaḥ, nārayaḥ, na pravr̥ddhō’gniḥ, ca vividhaviṣāśrayāḥ sarīsr̥pōragādayaḥ, na sāhasaṁ, nādēśakālacaryā, na narēndraprakōpa iti; ēvamādayō hi bhāvā nābhāvakarāḥ syuḥ, āyuṣaḥ sarvasya niyatakālapramāṇatvāt|
na cānabhyastākālamaraṇabhayanivārakāṇāmakālamaraṇabhayamāgacchēt praṇināṁ, vyarthāścārambhakathāprayōgabuddhayaḥ syurmaharṣīṇāṁ rasāyanādhikārē, nāpīndrō niyatāyuṣaṁ śatruṁ vajrēṇābhihanyāt, nāśvināvārtaṁ bhēṣajēnōpapādayētāṁ [18] , na maharṣayō yathēṣṭamāyustapasā prāpnuyuḥ, na ca viditavēditavyā maharṣayaḥ sasurēśāḥ samyak paśyēyurupadiśēyurācarēyurvā|
api ca sarvacakṣuṣāmētat paraṁ yadaindraṁ cakṣuḥ [19] , idaṁ cāpyasmākaṁ tēna pratyakṣaṁ; yathā- puruṣasahasrāṇāmutthāyōtthāyāhavaṁ [20] kurvatāmakurvatāṁ cātulyāyuṣṭvaṁ, tathā jātamātrāṇāmapratīkārāt pratīkārācca, aviṣaviṣaprāśināṁ cāpyatulyāyuṣṭvamēva, na ca tulyō yōgakṣēma udapānaghaṭānāṁ citraghaṭānāṁ cōtsīdatāṁ; tasmāddhitōpacāramūlaṁ jīvitam, atō viparyayānmr̥tyuḥ|
api ca dēśakālātmaguṇaviparītānāṁ karmaṇāmāhāravikārāṇāṁ ca kramōpayōgaḥ [21] samyak, tyāgaḥ sarvasya [22] cātiyōgāyōgamithyāyōgānāṁ, sarvātiyōgasandhāraṇam [23] , asandhāraṇamudīrṇānāṁ ca gatimatāṁ, sāhasānāṁ ca varjanam, ārōgyānuvr̥ttau hētumupalabhāmahē samyagupadiśāmaḥ samyak paśyāmaścēti||36||
ataḥ paramuttaramupasaṁharati [24] – tasmādityādi| ubhayadr̥ṣṭatvāditi daivasya puruṣakārēṇa, tathā puruṣakārasya daivēna bādhadarśanāt| ēkāntagrahaṇamiti niyatamēvāyuriti tathā aniyatamēvāyuḥ sarvamiti cētyarthaḥ| nidr̥śyatē’bhimataḥ pakṣaḥ sādhyatē’nēnēti nidarśanaṁ yuktarityarthaḥ| atrēti anaikāntikapakṣē| yadītyādinā prakaraṇēnāyurjanakasya dr̥ṣṭasya hētōḥ sēvā tathā āyurvighātakasya hētōrasēvā sarvaprāmāṇikajanāvivādasiddhā darśyatē| sā ca sarvā yadi niyatamāyuḥ syāttadā akiñcitkarī syāt, aniyatē cāyuṣi kiñcitkarī syāt; tasmādaniyatamapyāyurbhavatīti bhāvaḥ| na ca sarvatraivādr̥ṣṭamēva kāraṇaṁ dr̥ṣṭamakiñcitkaramēvēti vadatō dr̥ṣṭasyāpi trivr̥tādērvirēkādikartr̥tvaṁ vyaktamēva; adr̥ṣṭasyaiva tu kāraṇatvaṁ dr̥ṣṭēkāryānupapattēḥ kalpanīyaṁ; tēnādr̥ṣṭasya kāraṇatvaṁ dr̥ṣṭakāraṇamūlamityarthaḥ; na ca dr̥ṣṭakāraṇōcchēdaḥ kalpayitumapi pāryatē| iṣṭayaḥ yajñāḥ| atyarthasarpaṇaśīlā uragāḥ sarīsr̥pōragāḥ| ācarēyurvā ‘bhēṣajam [25] ’ iti śēṣaḥ| cakṣuṣāṁ paramiti atyarthābhrāntatvēna| atulyāyuṣṭvamiti yē āhavaṁ kurvatē tē śastrēṇa mriyantē, yē tu na kurvatē tē śastrēṇa na prāyō mriyantē| pratīkārādapratīkārāccātulyāyuṣṭvamiti yōjanā| na ca tulya ityādau citraghaṭō yaścitrita iva sthāpyatē, sa hi pānīyavahanādipratyavāyahētvabhāvācciraṁ tiṣṭhati; udapānaghaṭastu jalasambandhāt tathā vahanasamayē patanādinā ca śīghramutsīdati| hitōpacāramūlamiti hitōpacāramūlamapi| kramōpayōgaḥ samyagiti yōjanā| sarvātiyōgasandhāraṇaṁ sarvātiyōgānāṁ varjanam||36||
ataḥ paramagnivēśa uvāca- ēvaṁ satyaniyatakālapramāṇāyuṣāṁ bhagavan! kathaṁ kālamr̥tyurakālamr̥tyurvābhavatīti||37||
ēvaṁ satītyādi| yattāvat kālaniyataṁ tasyākālē maraṇābhāvādēva nākālamr̥tyurasti, yattvakālaniyataṁ tasyāpyaniyatatvāt kathaṁ kālamr̥tyurakālamr̥tyurvā bhavati? aniyatē hyāyuṣi kālaniyamō nāsti, niyatakālāccārvāgakālamr̥tyurucyata iti pr̥cchārthaḥ||37||
tamuvāca bhagavānātrēyaḥ- śrūyatāmagnivēśa! yathā yānasamāyuktō’kṣaḥ prakr̥tyaivākṣaguṇairupētaḥ sa ca sarvaguṇōpapannō vāhyamānō yathākālaṁ svapramāṇakṣayādēvāvasānaṁ gacchēt, tathā”yuḥ śarīrōpagataṁ balavatprakr̥tyā yathāvadupacaryamāṇaṁ svapramāṇakṣayādēvāvasānaṁ gacchati; sa mr̥tyuḥ kālē|
yathā ca sa ēvākṣō’tibhārādhiṣṭhitatvādviṣamapathādapathādakṣacakrabhaṅgādvāhyavāhakadōṣādaṇimōkṣādanupāṅgāt paryasanāccāntarā’vasānamāpadyatē, tathā”yurapyayathābalamārambhādayathāgnyabhyavaharaṇādviṣamābhyāvaharaṇādviṣamaśarīranyāsādatimaithunādasatsaṁśrayādudīrṇa- vēgavinigrahādvidhāryavēgāvidhāraṇādbhūtaviṣavāyvagnyupatāpādabhighātādāhārapratīkāravivarjanāccāntarā’vasānamāpadyatē, sa mr̥tyurakālē; tathā jvarādīnapyātaṅkānmithyōpacaritānakālamr̥tyūn paśyāma iti||38||
yathākālamiti yāvatā kālēna pratyavāyaśūnyasyākṣasya kṣayō bhavati tasminnēvētyarthaḥ| svapramāṇakṣayādēvēti yugānurūpavarṣaśatādipramāṇakṣayādityarthaḥ| apathāditi sarvathā amārgagamanāt| aṇimōkṣāditi kīlamōkṣāt| anupāṅgāditi snēhādānāt| paryasanāt parikṣēpāt| mithyōpacaritāniti asamyakcikitsatān| akālamr̥tyūniti akālamr̥tyukarān||38||
athāgnivēśaḥ papraccha- kinnu khalu bhagavan! jvaritēbhyaḥ pānīyamuṣṇaṁ prayacchanti bhiṣajō bhūyiṣṭhaṁ na tathā śītam, asti ca śītasādhyō’pi dhāturjvarakara iti||39||
samprati mithyōpacāraśrutyā uṣṇatōyaṁ jvarē’pyāgnēyē mithyōpacāraḥ syādityāśaṅkyāha- kinnvityādi| śītasādhyō’pidhātuḥ pittamuṣṇarūpamityarthaḥ| pānīyaṁ yasmāt sarvajvaritēbhyō dīyatē, tasmāt pānīyamēvātra pr̥cchati||39||
tamuvāca bhagavānātrēyaḥ- jvaritasya kāyasamutthānadēśakālānabhisamīkṣya pācanārthaṁ pānīyamuṣṇaṁ prayacchanti bhiṣajaḥ|
jvarō hyāmāśayasamutthaḥ, prāyō bhēṣajāni cāmāśayasamutthānāṁ vikārāṇāṁ pācanavamanāpatarpaṇasamarthāni [26] bhavanti; pācanārthaṁ ca pānīyamuṣṇaṁ, tasmādētajjvaritēbhyaḥ prayacchanti bhiṣajō bhūyiṣṭham|
taddhi tēṣāṁ pītaṁ vātamanulōmayati, agniṁ cōdaryamudīrayati, kṣipraṁ jarāṁ gacchati, ślēṣmāṇaṁ pariśōṣayati, svalpamapi ca pītaṁ tr̥ṣṇāpraśamanāyōpakalpatē; tathāyuktamapi caitannātyarthōtsannapittē jvarē sadāhabhramapralāpātisārē vā pradēyam, uṣṇēna hi dāhabhramapralāpātisārā bhūyō’bhivardhantē, śītēna cōpaśāmyantīti||40||
utsannapittē pravr̥ddhapittē||40||
bhavati cātra-
śītēnōṣṇakr̥tān rōgāñchamayanti bhiṣagvidaḥ|
yē tu śītakr̥tā rōgāstēṣāmuṣṇaṁ bhiṣagjitam||41||
na kēvalaṁ jvarē ēva śītōṣṇasamutthatvabhēdēna uṣṇaśītōpacāraḥ, kintu sarvatraiva vyādhāvēvamityāha- śītēnētyādi| bhiṣajaśca tē jñānavantaścēti bhiṣagvidaḥ||41||
ēvamitarēṣāmapi vyādhīnāṁ nidānaviparītaṁ bhēṣajaṁ bhavati; yathā- apatarpaṇanimittānāṁ vyādhīnāṁ nāntarēṇa pūraṇamasti śāntiḥ, tathā pūraṇanimittānāṁ vyādhīnāṁ nāntarēṇāpatarpaṇam||42||
apatarpaṇamapi ca trividhaṁ- laṅghanaṁ, laṅghanapācanaṁ, dōṣāvasēcanaṁ cēti||43||
tatra laṅghanamalpabaladōṣāṇāṁ [27] , laṅghanēna hyagnimārutavr̥ddhyā vātātapaparītamivālpamudakamalpō dōṣaḥ praśōṣamāpadyatē; laṅghanapācanē [28] tu madhyabaladōṣāṇāṁ, laṅghanapācanābhyāṁ hi sūryasantāpamārutābhyāṁ pāṁśubhasmāvakiraṇairiva cānatibahūdakaṁ madhyabalō dōṣaḥ praśōṣamāpadyatē; bahudōṣāṇāṁ punardōṣāvasēcanamēva kāryaṁ, na hyabhinnē kēdārasētau palvalāprasēkō’sti, tadvaddōṣāvasēcanam||44||
na kēvalaṁ śītōṣṇasamutthayōrēva paraṁ hētuviparyayēṇa cikitsā, kintvapatarpaṇādijē’pi hētuviparītēnētyāha- ēvamityādi| apatarpaṇasantarpaṇābhyāṁ ca sarvaṁ cikitsitaṁ gr̥hītaṁ, na hyapatarpaṇasantarpaṇābhyāṁ vinā’nyadvidhānāntaramasti cikitsāyāḥ; yēna sarva ēvōpakramāḥ santarpaṇāpatarpaṇabhēdā ēva| ata [29] ēva viśēṣajñānārthamapatarpaṇabhēdānāha- apatarpaṇamityādi| laṅghanapācanamitivacanēna yatra pācanaṁ kriyatē tatrāvaśyaṁ stōkamātrayā laṅghanamapikriyata iti darśayati, pācanakālē hi yadi br̥ṁhaṇaṁ kriyatē tadā br̥ṁhaṇēnāgnēḥ pratikūlēna pācanaṁ na syādityarthaḥ| avakiraṇairivētyatra ivaśabdō’natibahūdakamivētyēvaṁrūpō jñēyaḥ| anyadvēti laṅghanādi br̥ṁhaṇādi ca||42-44||
dōṣāvasēcanamanyadvā bhēṣajaṁ prāptakālamapyāturasya naivaṁvidhasya kuryāt|
tadyathā- anapavādapratīkārasyādhanasyāparicārakasya [30] vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucēratikṣīṇabalamāṁsaśōṇitasyāsādhyarōgōpahatasya mumūrṣuliṅgānvitasya cēti|
ēvaṁvidhaṁ hyāturamupacaran bhiṣak pāpīyasā’yaśasā yōgamr̥cchatīti||45||
anapavādapratīkārō vācyapratīkāraḥ| adhanasyānupakaraṇatvēna na cikitsā pāryatē kartumityarthaḥ| vaidyamānī durabhimānādvaidyōpadēśaṁ na karōti| tīvrādharmarucēḥ pratikriyāyāmadharmō bhavati, na ca cikitsā sidhyatyadharmapratibandhāt| mumūrṣuliṅgānvitasyēti riṣṭayuktasya| pāpīyasēti pāpahētunā pāpajanakēnāyaśasā||45||
bhavati cātra-
tadātvē cānubandhē vā yasya syādaśubhaṁ phalam|
karmaṇastanna kartavyamētadbuddhimatāṁ matam||46||
(alpōdakadrumō yastu pravātaḥ pracurātapaḥ|
jñēyaḥ sa jāṅgalō dēśaḥ svalparōgatamō’pi ca||47||
pracurōdakavr̥kṣō yō nivātō durlabhātapaḥ|
anūpō bahudōṣaśca, samaḥ sādhāraṇō mataḥ)||48||
anubandhē vēti uttarakālam| kēcidalpōdakadrumō yastvityādigranthaṁ jāṅgalādidēśalakṣaṇamatra paṭhanti||46-48||
tatra ślōkāḥ-
pūrvarūpāṇi sāmānyā hētavaḥ sasvalakṣaṇāḥ|
dēśōddhvaṁsasya bhaiṣajyaṁ hētūnāṁ mūlamēva ca||49||
prāgvikārasamutpattirāyuṣaśca kṣayakramaḥ|
maraṇaṁ prati bhūtānāṁ kālākālaviniścayaḥ||50||
yathā cākālamaraṇaṁ yathāyuktaṁ ca bhēṣajam|
siddhiṁ yātyauṣadhaṁ yēṣāṁ na kuryādyēna hētunā||51||
tadātrēyō’gnivēśāya nikhilaṁ sarvamuktavān|
dēśōddhvaṁsanimittīyē vimānē munisattamaḥ||52||
saṅgrahē pūrvarūpāṇīti nakṣatrādivikārāḥ| sasvalakṣaṇāḥ sasvavikr̥tilakṣaṇāḥ, tacca lakṣaṇaṁ tatra vātamēvaṁvidhamityādinā prōktam| yathāyuktaṁ ca bhēṣajaṁ siddhiṁ yātīti anēnōṣṇapānīyadānōpapattyā sarvaṁ saṅgr̥hītam||49-52||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē janapadōddhvaṁsanīyavimānaṁ nāma tr̥tīyō’dhyāyaḥ||3||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ vimānasthānē janapadōddhvaṁsanīyavimānaṁ nāma tr̥tīyō’dhyāyaḥ||3||
1. ‘ca prakr̥tibhūtānāṁ’ iti pā.|
2. ‘lakṣaṇatvādīnāṁ iti pā.|
3. ‘samyagvicāracāritāni’ ca iti pā.|
4. ‘upakṣīṇajalāśayaṁ’ iti pā.|
5. ‘sasvanakṣubhitōdīrṇasalilāśayaṁ’ iti pā.|
6. ‘… pratibhayāvārarūpaṁ’ iti gaṅgādharasammataḥ pāṭhaḥ|
7. ‘vidyādaparihāryatvādgarīyaḥ paramarthavit’ iti pā.|
8. ‘yēṣāṁ na mr̥tyujanakāriṣṭarūpaṁ sāmānyamastītyarthaḥ’ iti pā.|
9. ‘cāsatkarma’ iti pā.|
10. nagaranigamajanapadapradhānā nagarādīnāmadhyakṣāḥ|
11. ‘sparśābhyavahāryadōṣāt’ iti pā.|
12. prāgēvētyādi pāṭhō yōgīndranāthasēnēna na paṭhyatē|
13. ‘udārasattvaguṇaiḥ karmaṇāṁ dharmāṇāṁ cācintyatvādrasa …’ iti pā.|
14. ‘hīyamānāni hīyamānaguṇapādairhīyamānaguṇaiścāhāravihārairayathāpūrvamupaṣṭabhyamānāgnimārutaparītāni’ iti pā.|
15. “āhārācāraprāyaścittādipuruṣakārastvaihikaphalaṁ dr̥ṣṭam, adr̥ṣṭaṁ ca prāyō janmāntarakr̥taṁ śubhāśubhaṁ śarīrādinirvartakaṁ, tadētaddvitayamapi kāraṇaṁ dr̥ṣṭasāmarthyāt| tatra yadā dr̥ṣṭamāhārādi śubhamupacitam, adr̥ṣṭaṁ ca dharmarūpaṁ śubhamupacitaṁ bhavati, tadā yuganiyatavarṣaśatarūpasyāyuṣaḥ sukhayuktasya ca niṣpattiḥ| yadā tu daivapuruṣakārayōḥ śubhamadhyamayōranyōnyasyānuguṇayōryōgaḥ, tadā madhyaṁ madhyamasukhaṁ yuganiyatādalpaṁ bhavati| yadā tu hīnayōryōgaḥ, tadā hi hīnamasukhāyurbhavati| ēvaṁ yadā daivamaśubhaṁ, puruṣakāraścāśubhaḥ, tadā’tyalpaṁ duḥkhabahulaṁ cāyurbhavati| ēvamaśubhadaivapuruṣakārayōrmadhyamatāyāṁ hīnatāyāṁ vā udāharaṇamūhyam| ēvaṁ yadā daivaṁ śubhamuttamaṁ, puruṣakārastu madhyō hīnō vā, tadā’pi phalaviśēṣa ūhyaḥ| atrārthē carakaḥ-“ihāgnivēśa ! bhūtānāmāyuryuktimapēkṣatē| daivē puruṣakārē ca sthitaṁ hyasya balābalam| daivamātmakr̥taṁ vidyāt karma yat paurvadaihikam| smr̥taḥ puruṣakārastu kriyatē yadihāparam| balābalaviśēṣō’sti tayōrapi ca karmaṇōḥ| dr̥ṣṭaṁ hi trividhaṁ karma hīnaṁ madhyamamuttamam| tayōrudārayōryuktirdīrghasya ca sukhasya ca| niyatasyāyuṣō hēturviparītasya cētarā| madhyamā madhyamasyōktā viśēṣaṁ śr̥ṇu cāparam” (ca.vi.a.3) iti| atra paurvadaihikamiti prāyēṇa janmāntarakr̥tasyaivēha janmani pākāduktamētat, janmāntarakr̥taṁ tu yāgabrahmavadhādi prāyō janmāntara ēva phalati| niyatasyēti yuganiyatasya” iti su.ṭī.bhā. (sū.a.17) cakraḥ|
16. “yadā tu daivapuruṣakārayōrvirōdhaḥ, tadā durbalaṁ daivaṁ puruṣakārēṇa balavatā hanyatē, balavatā daivēna durbalaḥ puruṣakārō hanyatē| ata ēva ca daivēna puruṣakāraṁ parābhūtaṁ dr̥ṣṭvā kēcit karmavādinō daivaniyatamēvāyurādikaṁ vadanti, vyarthaṁ ca puruṣakāraṁ daivayuktivyapāśrayāhārācārarūpaṁ vadanti|” iti su.ṭī.bhā.(sū.a.1) cakraḥ|
17. “balavatōstu daivapuruṣakārayōrvirōdhinōryugapadupasthāpanaṁ nāstyēva, virōdhināṁ sukhaduḥkhādīnāṁ yaugapadyēnānupalambhādēva| balavattā tu daivākhyakarmaṇō dharmādharmarūpasya kālavipākaniyamād bhavati| viparyayē tu abalavattvaṁ puruṣakārabādhanīyatvaṁ ca bhavati| yadāha carakaḥ- “karma kiñcit kvacit kālē vipākaniyataṁ mahat| kiñcittvakālaniyataṁ pratyayaiḥ pratibōdhyatē” (ca.vi.a.3) iti| atra trividhō niyamaḥ ēkavidhaścāniyamaḥ, ēvaṁ pakṣacatuṣṭayamapi bhavati| yathā-“idaṁ karma yadi pacyēta tadā asminnēva kālē pacyēta, nānyatrēti kālaniyamaḥ| tathā-idaṁ karma yatra kvacit kālē pacyētaiva, na pacyētēti na, iti vipākaniyamaḥ| ētau pakṣau puruṣakārabādhyatayā śāstraviṣayau, pākṣikasya niyamasyāsattvāt| tathā-idaṁ karmāsminnēva kālē pacyētaivēti kālavipākaniyamaḥ| ayamaviṣayaḥ śāstrasya, puruṣakārānapēkṣatvāt| tathā-idaṁ karma kutracit kālē pratyayaṁ dr̥ṣṭamāsādya pacyēta, yadi vā na pacyēta, tadapi ca prāyaścittādiparābhūtatvādēvēti kālavipākāniyamaḥ sarvathā śāstraviṣayaḥ| atra pakṣacatuṣṭayē kēcid vadanti-“kiñcinna kālaniyataṁ” (ca.vi.a.3) iti vadatā carakēṇa kālāniyamō darśitaḥ, vipākāniyamastu na darśitaḥ| karmaṇāṁ vipākāniyamō nāsti| yaducyatē-“nābhuktaṁ kṣīyatē karma kalpakōṭiśatairapi| avaśyamēva bhōktavyaṁ kr̥taṁ karma śubhāśubham” iti| kintu prāyaścittānāmapi adattaphalakarmakṣayōpadēśāt, tathā “jñānāgniḥ sarvakarmāṇi bhasmasāt kurutē’rjuna” (bha.gī.a.4) iti jñānāgninā ca karmakṣayōpadēśād vipākāniyamapakṣō’pi sambhavatyēva| tathā ca-“na hi karma mahat kiñcit phalaṁ yasya na bhujyatē (śā.a.1)” iti vadatā carakēṇāpi mahataḥ karmaṇaḥ prāyaścittābādhanīyasya vipākaniyamō’pi darśitō bhavati| alamatisūkṣmagatikarmavicārēṇa| śāstrasyārōgyasādhanāhārācārarūpapuruṣakārōpadēśakatvēna prayōjanavattvamastyēva” iti su.ṭī.bhā. (sū.a.1) cakraḥ|
18. ‘bhēṣajēnōpacarētām’ iti pā.|
19. sarvacakṣuṣāṁ sarvapramāṇānāmityarthaḥ, ētatparamabhrāntatvēna śrēṣṭhaṁ, yadaindraṁ cakṣuḥ pratyakṣapramāṇamityarthaḥ| ‘yaddivyaṁ’ iti pā.|
20. ‘āhāraṁ’ iti pā.|
21. ‘kriyōpayōgaḥ’ iti pā.|
22. sarvasyēti kālasya karmaṇa indriyārthasya ca|
23. ‘sandhāraṇamanudīrṇānāṁ’ iti pā.|
24. ‘ataḥ paramuktamupasaṁharati’ iti pā.|
25. ‘bhēṣajaṁ tāvadāhārācārarūpaṁ yasya dōṣasya vikārasya vā viparītaṁ, tadasati virōdhakē taṁ śamayatīti dr̥ṣṭaṁ, yathā-kaṭukēna ślēṣmakṣayaḥ, agninā śītapraśamanam, āhārēṇa kṣudupaśamaḥ, pānīyapānēna pipāsāpagamaḥ| ēvamādi sāmānyēna vr̥ddhiḥ, viparītēna ca hrāsa iti dr̥śyatē| na cātrāpi dr̥ṣṭēnaivōpapadyamānē’dr̥ṣṭamēva kāraṇamiti kalpanā yuktā| yatō dr̥ṣṭēnānupapadyamānē kāryē kāraṇamadr̥ṣṭaṁ kalpyatē, dr̥ṣṭaparābhavēna tu sarvatrādr̥ṣṭakalpanaṁ prāmāṇikamēva| yatō yadēvādr̥ṣṭaṁ kāraṇatvēnābhimataṁ taddr̥ṣṭayāgādijanyaṁ, tadvadēva bhēṣajaṁ dr̥ṣṭarūpaṁ tāvatkvacidastyēvaṁ svīkartavyam’ iti suśrutaṭīkāyāṁ bhānumatyāṁ(su.a.1) cakraḥ|
26. ‘virēcanavamanāpatarpaṇasaṁśamanānyēva’ iti pā.|
27. ‘alpadōṣāṇām’ iti pā.|
28. ‘laṅghanapācanaṁ’ iti pā.|
29. ‘ata ēva’ iti hastalikhitapustakē na paṭhyatē|
30. ‘alpavādapratīkārasya’ iti pā.|