ebooks-esamhita-esushruta-cikitsasthana-netrabastivyapat-cikitsa

Devanagari Version

काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता

सुश्रुतसंहिता

श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता

चिकित्सास्थानम् - ३६. नेत्रबस्तिव्यापच्चिकित्सितम्

अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||


नेत्रानन्तरमादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन प्रणिधानद्रव्यशय्याव्यापदोऽपि गृह्यन्ते||१-२||

अथ नेत्रे विचलिते तथा चैव विवर्तिते |
गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ||३||
अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा |
विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ||४||
तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते |
मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते |
ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ||५||


तत्र सद्यः क्षतक्रिया मधुघृताभ्यङ्गाद्याः| अत्युत्क्षिप्त इत्यादि| अत्र अत्युत्क्षिप्तेऽवसन्ने च नेत्रेऽभिघातेन वातपैत्तिकपायुवेदनायाम्| पित्तघ्न इति मधुरशीतादिः| स्नेहैश्च सेचनमिति घृतादिस्नेहसेचनं, तच्चानिलापहम्||३-५||

अतिस्थूले कर्कशे च नेत्रेऽस्त्रिमति [१] घर्षणात् |
गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत् ||६||
आसन्नकर्णिके [२] नेत्रे भिन्नेऽणौ वाऽप्यपार्थकः |
अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत् ||७||
प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात् |
क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः ||८||
ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत् |
प्रत्यागच्छंस्ततःकुर्याद्रोगान् बस्तिविघातजान् ||९||
दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत् |१०|


प्रणिधानदोषानभिधाय नेत्रदोषाभिधानमाह- अतिस्थूल इत्यादि| पूर्ववच्छब्देन सद्यःक्षतवत्क्रियेत्यर्थः| आसन्नकर्णिके [३] बस्तिरपार्थको व्यर्थः| भिन्नेऽणौ अणुभिन्ने नेत्रे| अवसेकः क्षरणम्| प्रकृष्टकर्णिकं त्र्यङ्गुलादूर्ध्वं चतुरङ्गुले सन्निविष्टकर्णिकम्| तत्रार्शोयन्त्रेण पञ्चाङ्गुलेनान्तःप्रविष्टेन [४] स्थूलाग्रत्वाद्गुदक्षणनं न स्यात्, बस्तियन्त्रेण पुनस्तीक्ष्णाग्रेण चतुरङ्गुलेन सद्यः- प्राणहरगुदमर्म सम्पीड्यते, अतस्तच्चिकित्सितं युक्तम्| ह्रस्वे यथोचितप्रमाणहीने| अणुस्रोतसि सूक्ष्मच्छिद्रे [५] | क्लेश इति अणुस्रोतःप्रवाहणोत्पन्नकालातिक्रमेण| बस्तिश्च पूर्ववदिति सन्निकृष्टकर्णिके यथा अपार्थको बस्तिस्तद्वदिति| ह्रस्वत्वाद्धेतोरत्रापि तथा; अत एव हेतोः प्रत्यागच्छन् व्याघुटन् बस्तिविघातजान् रोगान् मूत्राघातमूत्रकृच्छ्रादीन् कुर्यात्| चिकित्सितं चानुक्तमपि रोगापेक्षया मूत्राघातादिचिकित्सितम्| जेज्जटाचार्यस्तु ईदृशं व्याख्यानयति- पूर्ववद्बस्तिः पिच्छाबस्तिरित्यर्थः| दीर्घे महास्रोतसि च यन्त्रेऽत्यवपीडवन्नासामुखान्निर्गमनं, गलपीडादिचिकित्सितं च ज्ञेयम्||६-९||-

प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत् ||१०||
बस्तावल्पेऽल्पता वाऽपि द्रव्यस्याल्पा गुणा मताः |
दुर्बद्धे चाणुभिन्ने [६] च विज्ञेयं भिन्ननेत्रवत् ||११||


नेत्रदोषं तत्साधनं चाभिधाय बस्तिदोषं तच्चिकित्सितं चाभिधातुमाह- प्रस्तीर्णे इत्यादि| अल्पे यथोचितप्रमाणहीने| बस्तेरल्पतया च द्रव्यस्याप्यल्पता, अत एव अल्पा गुणाः| भिन्ननेत्रवदिति भिन्ननेत्रेण तुल्यं, यथा भिन्ने नेत्रे बस्तेरवसेकः, तद्वद्दुर्बद्धे भिन्ने च बस्तावित्यर्थः||१०-११||

अतिप्रपीडितो बस्तिः प्रयात्यामाशयं [७] ततः |
वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते ||१२||
तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम् |
शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् ||१३||
शनैः प्रपीडितो बस्तिः पक्वाधानं न गच्छति |
न च सम्पादयत्यर्थं तस्माद्युक्तं प्रपीडयेत् ||१४||
भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते |
तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र बस्तयः ||१५||
कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते |
तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत् ||१६||


बस्तिदोषानभिधाय पीडनदोषानभिधातुमाह- अतिप्रपीडित इत्यादि| प्रपद्यते निर्गच्छतीत्यर्थः| अवधूननं केशादिषूत्क्षिप्य चालनम्| सेकांश्च शीतलान् क्षीरेक्षुरसयष्टिमधुककषायधान्याम्लचुक्रादिशीतद्रव्यपरिषेकान्| शनैः प्रपीडितो मन्दपीडितः| अर्थं न सम्पादयति कार्यं न करोति| अन्तः ‘उदरस्य’ इति शेषः| तेनेति उदरान्तर्गतेन वायुना| तत्राध्मानं रुजश्च| यथास्वं बस्तय इति ये यस्यात्मीया बस्तयः प्रतीकारहेतुत्वेन| कालातिक्रमणादित्यादि| व्याधिश्चाभिप्रवर्धते इति चिरकालनेत्रावस्थानहेतुकगुदमार्गावरोधत्वेन प्रवृत्त्यभिमुखीभूतवातविघातेनानुलोमसाध्यो व्याधिः प्रवर्धत इत्यर्थः||१२-१६||

गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि |
तत्र संशोधनो बस्तिर्हितं चापि विरेचनम् ||१७||
हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ |
अतिमात्रौ तथाऽऽनाहक्लमातीसारकारकौ ||१८||
मूर्च्छां दाहमतीसारं [८] पित्तं चात्युष्णतीक्ष्णकौ |
मृदुशीतावुभौ वातविबन्धाध्मानकारकौ ||१९||
तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः |
गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः ||२०||
प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः |
तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत् ||२१||
स्निग्धोऽतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते |
बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् ||२२||


पीडनदोषानभिधाय द्रव्यदोषान्निर्दिशन्नाह- गुदोपदेह इत्यादि| उपदेह उपलेपः| ‘हितं चापि विरेचनम्’ इत्यत्र ‘रूक्षं चापि विरेचनम्’ इति गयदासः| हीनमात्रावित्यादि| उभौ बस्ती स्नेहबस्तिनिरूहबस्ती| प्रत्यनीक इति हीनमात्रेऽधिकमात्रोऽतिमात्रे हीनमात्रः, तीक्ष्णे मृदुः, मृदौ तीक्ष्णः, उष्णे शीतः, शीते पुनरुष्णः| अतिजाड्यकृत् अतिशयेन क्लेदकारी [९] ||१७-२२||

अतिपीडितवद्दोषान् विद्धि [१०] चाप्यवशीर्षके |
उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् ||२३||
तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य [११] सुखावहः |
न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः ||२४||
हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च |
उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते ||२५||
नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति |
देहे सङ्कुचिते दत्तः सक्थ्नोरप्युभयोस्तथा ||२६||
न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः |
स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः ||२७||
न चाशयं तर्पयति तस्मान्नार्थकरो हि सः |
नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः ||२८||
दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः [१२] |
न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते ||२९||
पश्चादनिलकोपोऽत्र [१३] यथास्वं तत्र कारयेत् |३०|


द्रव्यदोषानभिधाय शय्यादिदोषानभिधातुमाह- अतिपीडितवदित्यादि| विद्धि जानीहि| अतिप्रपीडितो बस्तिः प्रयात्यामाशयमित्यादिवदित्यर्थः [१४] | उच्छीर्षके उच्छ्रितशिरस्के पुरुषे बस्तिर्दत्तः मेहनं मेढ्रं समुन्नाहं सम्यगुन्नाहो यत्र तत्तादृशमाध्मातं कुर्यादित्यर्थः| तस्यामापदि सुन्निग्धस्य पुरुषस्योत्तरो बस्तिः हितः सुखावह इति गयी| जेज्जटाचार्यस्तु “उच्छीर्षके समुन्नाहं कुर्यात् सस्नेहमेहनम्| तत्रोत्तरो हितो बस्तिः सुस्निग्धश्च सुखावहः”- इति पठित्वा व्याख्यानयति- सस्नेहमेहनं स्नेहसंसृष्टमूत्रप्रवर्तनं; तत्र प्रतीकार उत्तरो बस्तिरिति सुस्निग्धस्य शोधनो निरूह इति, न पुनरुत्तरबस्तिरिति| वृद्धसुश्रुते चायं पाठोऽन्यथा; तथा च- “उच्छीर्षके समुन्नाहो बस्तेः कृच्छ्राच्च मेहनम्”- इति| न्युब्जस्य पुरुषस्य विमार्गगो बस्तिः पक्वाधानं पक्वाशयं नाप्नोति| हृद्गुदं बाधते वायुः कोष्ठं च बाधते इत्यर्थः| उत्तानस्येत्यादि| नेत्रसंवेजनं नेत्रकम्पनं, तेन भ्रान्तो वायुरित्यर्थः| सक्थ्नोरूर्वोर्न प्रत्येति न प्रत्यागच्छति न निष्कासयतीत्यर्थः| अवाङ्मुखः अधोमुखः| दक्षिणाश्रितपार्श्वस्य पुरुषस्य बस्तिर्दत्तः सन् कृत्स्नं पक्वाशयं न प्राप्नोति| कुत इत्याह- यतः पक्वाशयो वामपार्श्वानुगो वामपार्श्वमनुगच्छति| उपसंहारव्याजेन निदानवर्जनं चिकित्सितमाह- न्युब्जादीनामित्यादि| अत्रैव दोषसाधनं निर्दिशन्नाह- पश्चादनिलकोप इत्यादि| हृदयपृष्ठगुदादिबाधासु तत्तद्व्याध्युपरमेण भेषजेनैव साधितेन बस्तिना साध्य इत्यर्थः||२३-२९||-

व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते [१५] ||३०||


एवं प्रणिधाननेत्रद्रव्यपीडनशय्यादोषजा वैद्यनिमित्ता एव व्यापदश्चतुश्चत्वारिंशतमभिधाय वैद्यातुरनिमित्ताः स्नेहबस्तिभवा वक्तुकामः प्राह- व्यापदः स्नेहबस्तेरित्यादि||३०||

अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः |
अनुष्णोऽल्पौषधो हीनो बस्तिर्नैति प्रयोजितः ||३१||
विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते |
तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ||३२||
सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः |
अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च ||३३||
अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः |
तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ||३४||
हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम् |
तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ||३५||
अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः |
सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम् ||३६||
नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः |
पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ||३७||
अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते |
दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ||३८||
परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे |
पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च ||३९||
प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात् |
सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ||४०||
पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम् |
सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ||४१||
अतितीक्ष्णो निरूहो वा सवाते चानुवासनः |
हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ||४२||
दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छाऽङ्गगौरवम् |
सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत् ||४३||
रूक्षस्य बहुवातस्य तथा दुःशायितस्य च |
बस्तिरङ्गग्रहं कुर्याद्रूक्षो मृद्वल्पभेषजः ||४४||
तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः |
पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः ||४५||
अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिस्वेदितस्य च |
अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ||४६||
विरेचनातियोगेन समानं तस्य लक्षणम् |
पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ||४७||
अतियोगात् परं यत्र जीवादानं विरिक्तवत् |
देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः ||४८||
नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः |
स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ||४९||
इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः |
भिषजा च तथा कार्यं यथैता न भवन्ति हि ||५०||


अयोगादिव्यापदः सचिकित्सिता आह- अयोगेत्यादि| अल्पौषध इति अल्पानि औषधानि यत्र, एतेनाल्पौषधत्वादतैक्ष्ण्येन हीनवीर्यत्वमुक्तं, हीन इति समुदायस्याल्पमात्रत्वेन| नैति नागच्छति, बस्तिः विष्टम्भादिभिरुपलक्षितः| तीक्ष्णो हितो बस्तिरित्युपलक्षणं, तेन पूर्वोक्तगुणत्रयविपरीत उष्णो बहुलभेषजो यथोचितप्रमाणो हितः पूजित इत्यर्थः| सशेषान्ने इत्यादि| सशेषान्ने अन्नाजीर्णशेषे, भुक्ते च निरूहबस्तिः, तथा बहुदोषेऽनुष्णलवणस्नेहो निरूहबस्तिर्योजितो नरमाध्मापयेत्; नत्वनुवासनः, तस्य सान्न एव हितत्वात्| अत्यशितस्य स्नेहबस्तिस्तथा मात्राशितस्यातिबहुर्मन्दोष्णतायुक्तः स्नेहबस्तिराध्मानं जनयेत् [१६] | परिस्रावाय कल्पते इति परिस्रावोऽयं केवलपित्तजो न तु वमनविरेचनपरिस्राववत् कफपित्तसम्भवः| तत्र पित्तरक्तभूयिष्ठायां सर्पिषा, वातरक्तभूयिष्ठायां तैलेनानुवासनम्| क्षीरेण भोजनं वातपित्तकफप्रत्यनीकं; कफसंसर्गे तु कफहरद्रव्यसंस्कृतक्षीरभोजनमिति ज्ञेयं, तन्त्रान्तरदर्शनात्| रुजस्तास्ताः तोदादयः, ओषचोषादयः, कण्ड्वादयश्च| सर्वदोषहरमिति सर्वदोषहरद्रव्यक्वाथं, गोमूत्रत्रिवृदादिकल्कं शोधनं बस्तिं; शोधनत्वेनोर्ध्वगतदोषमधो नयति, सर्वदोषहरत्वेन सर्वानेव दोषान् दुष्टाञ्छमयति| रूक्षोऽत्र वातप्रकृतिः| शीतः शीतोपचारश्च सुखावह इत्यर्थः| विरिक्तशब्देनात्र विरेकातियोगोत्पन्नं जीवादानम्; अतो विरेकातियोगोत्पन्नजीवादानवल्लिङ्गचिकित्सिताभ्यामेतद्बस्त्यतियोगोत्पन्नं जीवादानं ज्ञेयम्| तत्र विशेषचिकित्सितमाह- देय इत्यादि| सशोणित इति हेतुगर्भं विशेषणं, यतः पिच्छाबस्तिः सशोणितोऽतः शोणितापगमरूपजीवादाने देय इत्यर्थः||३१-५०||

पक्षाद्विरेको वान्तस्य ततश्चापि [१७] निरूहणम् |
सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ||५१||


इदानीं पञ्चानां कर्मणां क्रमेण क्रियमाणानां यतो यतो यद्यद्यावता कालेन करणीयं तत्तदुपदिशन्नाह- पक्षादित्यादि| सम्यग्योगेन वान्तस्य पुरुषस्य विरेचनं पक्षान्नार्वाङ्नापि परतः; तत्रार्वाक् क्रियमाणं पुरुषानलबलयोरबलत्वाद् व्यापदमावहति, अतिपरतः पुनः स्नेहस्वेदादिगुणोऽन्तरितः स्यात्; तस्मात् पक्षादेव वान्तो विरेचनीयः| तत्र प्रधानशुद्धिमपेक्ष्यान्नसंसर्गेण दिनानि षडतिक्रम्य मधुरादिरससंसर्गमाचरेत्| स्नेहपानेनापि दिनानि षडतिक्रमेत्| ततः स्वेदं समाचरन् लघूष्णं भुज्यमानस्त्र्यहं स्थितश्चतुर्थेऽहनि विरेकं कुर्यात्| ततस्तस्माद्विरेकादन्नसंसर्गेण दिनानि षडतिक्रम्यानन्तरं मधुरादिरससंसर्गं समाचरन् सप्तरात्राद्विरेचित इति वाक्यादष्टमादिदिवसेष्वनुवासनानि यथादोषं विदध्यात्| ततः षोडशेऽह्नि स्नेहाभ्यक्तः स्वेदितश्चास्थापनं सेवेत| गयदासस्तु चरकाचायाभिप्रायेण विरेचनादूर्ध्वं षडहं कृतान्नसंसर्गस्यावस्थाविशेषेण स्नेहपानमनुवासनं च द्वयमपि मन्यते| तथा च चरकाचार्यवचनम्- “संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा”- (च.सि.अ.१) इति| तत्र विरेचनादूर्ध्वमन्नसंसर्गेण दिनानि षट्, ततो मधुरादिरससंसर्गमाचरेत्, स्नेहपानेनापि दिनानि षडतिक्रामेन्, ततो दिनत्रयं लघूष्णं भुञ्जानश्चतुर्थेऽहनि स्नेहाभ्यक्तः स्वेदितश्चास्थापनं सेवेत| स्नेहपानपूर्वकस्यानुवासनपूर्वकस्य चास्थापनस्यावस्था गयदासेन दर्शिता; यथा- हीनविरिक्तस्यावशिष्टपरिपक्वामसञ्चयावृत वायौ स्नेहपानपूर्वकमास्थापनं क्वचिद्व्याध्यवस्थावशात् प्राक् स्नेहनविरेचितस्यास्थापनमिति| निरूढः पुरुषः सद्य एव तद्दिवसे एवानुवास्यः| एतेन दत्तनिरूहो यथोक्तं भोजयित्वाऽऽर्द्रपाणिरेवानुवास्यः| विरेचितस्तु सप्तरात्रात् परतोऽनुवास्यो नार्वाक्| उक्तं हि- “विरेचनात् सप्तरात्रे गते जातबलाय वै| कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः” (चि.अ.३७) इति| केचिदन्यादृशं व्याख्यानं कुर्वन्ति; तच्च गयदासाचायण बहुधा दूषितत्वादस्माभिरप्युपेक्षितम्||५१||

इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ||३६||


इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने षट्त्रिंशत्तमोऽध्यायः||३६||

१. ‘चावनते तथा’ इति पा.|
२. ‘निकृष्टकर्णिके’ इति पा.|
३. ‘निकृष्टकर्णिकेऽत्यासन्नकर्णिके’ इति पा.|
४. ‘चतुरङ्गुलेन’ इति पा.|
५. ‘अत्यल्पाग्रच्छिद्रे’ इति पा.|
६. ‘चैव भिन्ने’ इति पा.|
७. ‘क्रामत्यामाशय इति पा.|
८. ‘छर्दिमतीसारं’ इति पा.|
९. ‘निःस्यन्दकारी’ इति पा.|
१०. ‘विधिं’ इति पा.|
११. ‘सुस्निग्धस्य’ इति पा.|
१२. ‘हि सः’ इति पा.|
१३. ‘यस्याप्यनिलकोपोऽत्र’ इति पा.|
१४. ‘क्रामत्यामाशयं’ इति पा.|
१५. ‘तच्चिकित्सितम्’ इति पा.|
१६. अस्याग्रे ‘अतिमात्रो वाऽनुष्णादिगुणयुक्तो निरूहबस्तिर्नरमाध्मापयेत्| बहुपुरीषस्य च द्विवधो बस्तिराध्मापयेत्|’ इत्यधिकं पठ्यते हस्तलिखितपुस्तके|
१७. ‘ततः पक्षान्निरूहणम्’ इति पा.|

 

Diacritic Version

kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā

Suśrutasaṁhitā

śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā

cikitsāsthānam - 36. nētrabastivyāpaccikitsitam

athātō nētrabastivyāpaccikitsitaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||


nētrānantaramādiśabdō luptanirdiṣṭō draṣṭavyaḥ; tēna praṇidhānadravyaśayyāvyāpadō’pi gr̥hyantē||1-2||

atha nētrē vicalitē tathā caiva vivartitē |
gudē kṣataṁ rujā vā syāttatra sadyaḥkṣatakriyāḥ ||3||
atyutkṣiptē’vasannē ca nētrē pāyau bhavēdrujā |
vidhiratrāpi pittaghnaḥ kāryaḥ snēhaiśca sēcanam ||4||
tiryakpraṇihitē nētrē tathā pārśvāvapīḍitē |
mukhasyāvaraṇādbastirna samyak pratipadyatē |
r̥ju nētraṁ vidhēyaṁ syāttatra samyagvijānatā ||5||


tatra sadyaḥ kṣatakriyā madhughr̥tābhyaṅgādyāḥ| atyutkṣipta ityādi| atra atyutkṣiptē’vasannē ca nētrē’bhighātēna vātapaittikapāyuvēdanāyām| pittaghna iti madhuraśītādiḥ| snēhaiśca sēcanamiti ghr̥tādisnēhasēcanaṁ, taccānilāpaham||3-5||

atisthūlē karkaśē ca nētrē’strimati [1] gharṣaṇāt |
gudē bhavēt kṣataṁ ruk ca sādhanaṁ tasya pūrvavat ||6||
āsannakarṇikē [2] nētrē bhinnē’ṇau vā’pyapārthakaḥ |
avasēkō bhavēdbastēstasmāddōṣān vivarjayēt ||7||
prakr̥ṣṭakarṇikē raktaṁ gudamarmaprapīḍanāt |
kṣaratyatrāpi pittaghnō vidhirbastiśca picchilaḥ ||8||
hrasvē tvaṇusrōtasi ca klēśō bastiśca pūrvavat |
pratyāgacchaṁstataḥkuryādrōgān bastivighātajān ||9||
dīrghē mahāsrōtasi ca jñēyamatyavapīḍavat |10|


praṇidhānadōṣānabhidhāya nētradōṣābhidhānamāha- atisthūla ityādi| pūrvavacchabdēna sadyaḥkṣatavatkriyētyarthaḥ| āsannakarṇikē [3] bastirapārthakō vyarthaḥ| bhinnē’ṇau aṇubhinnē nētrē| avasēkaḥ kṣaraṇam| prakr̥ṣṭakarṇikaṁ tryaṅgulādūrdhvaṁ caturaṅgulē sanniviṣṭakarṇikam| tatrārśōyantrēṇa pañcāṅgulēnāntaḥpraviṣṭēna [4] sthūlāgratvādgudakṣaṇanaṁ na syāt, bastiyantrēṇa punastīkṣṇāgrēṇa caturaṅgulēna sadyaḥ- prāṇaharagudamarma sampīḍyatē, atastaccikitsitaṁ yuktam| hrasvē yathōcitapramāṇahīnē| aṇusrōtasi sūkṣmacchidrē [5] | klēśa iti aṇusrōtaḥpravāhaṇōtpannakālātikramēṇa| bastiśca pūrvavaditi sannikr̥ṣṭakarṇikē yathā apārthakō bastistadvaditi| hrasvatvāddhētōratrāpi tathā; ata ēva hētōḥ pratyāgacchan vyāghuṭan bastivighātajān rōgān mūtrāghātamūtrakr̥cchrādīn kuryāt| cikitsitaṁ cānuktamapi rōgāpēkṣayā mūtrāghātādicikitsitam| jējjaṭācāryastu īdr̥śaṁ vyākhyānayati- pūrvavadbastiḥ picchābastirityarthaḥ| dīrghē mahāsrōtasi ca yantrē’tyavapīḍavannāsāmukhānnirgamanaṁ, galapīḍādicikitsitaṁ ca jñēyam||6-9||-

prastīrṇē bahalē cāpi bastau durbaddhadōṣavat ||10||
bastāvalpē’lpatā vā’pi dravyasyālpā guṇā matāḥ |
durbaddhē cāṇubhinnē [6] ca vijñēyaṁ bhinnanētravat ||11||


nētradōṣaṁ tatsādhanaṁ cābhidhāya bastidōṣaṁ taccikitsitaṁ cābhidhātumāha- prastīrṇē ityādi| alpē yathōcitapramāṇahīnē| bastēralpatayā ca dravyasyāpyalpatā, ata ēva alpā guṇāḥ| bhinnanētravaditi bhinnanētrēṇa tulyaṁ, yathā bhinnē nētrē bastēravasēkaḥ, tadvaddurbaddhē bhinnē ca bastāvityarthaḥ||10-11||

atiprapīḍitō bastiḥ prayātyāmāśayaṁ [7] tataḥ |
vātēritō nāsikābhyāṁ mukhatō vā prapadyatē ||12||
tatra tūrṇaṁ galāpīḍaṁ kuryāccāpyavadhūnanam |
śiraḥkāyavirēkau ca tīkṣṇau sēkāṁśca śītalān ||13||
śanaiḥ prapīḍitō bastiḥ pakvādhānaṁ na gacchati |
na ca sampādayatyarthaṁ tasmādyuktaṁ prapīḍayēt ||14||
bhūyō bhūyō’vapīḍēna vāyurantaḥ prapīḍyatē |
tēnādhmānaṁ rujaścōgrā yathāsvaṁ tatra bastayaḥ ||15||
kālātikramaṇāt klēśō vyādhiścābhipravardhatē |
tatra vyādhibalaghnaṁ tu bhūyō bastiṁ nidhāpayēt ||16||


bastidōṣānabhidhāya pīḍanadōṣānabhidhātumāha- atiprapīḍita ityādi| prapadyatē nirgacchatītyarthaḥ| avadhūnanaṁ kēśādiṣūtkṣipya cālanam| sēkāṁśca śītalān kṣīrēkṣurasayaṣṭimadhukakaṣāyadhānyāmlacukrādiśītadravyapariṣēkān| śanaiḥ prapīḍitō mandapīḍitaḥ| arthaṁ na sampādayati kāryaṁ na karōti| antaḥ ‘udarasya’ iti śēṣaḥ| tēnēti udarāntargatēna vāyunā| tatrādhmānaṁ rujaśca| yathāsvaṁ bastaya iti yē yasyātmīyā bastayaḥ pratīkārahētutvēna| kālātikramaṇādityādi| vyādhiścābhipravardhatē iti cirakālanētrāvasthānahētukagudamārgāvarōdhatvēna pravr̥ttyabhimukhībhūtavātavighātēnānulōmasādhyō vyādhiḥ pravardhata ityarthaḥ||12-16||

gudōpadēhaśōphau tu snēhō’pakvaḥ karōti hi |
tatra saṁśōdhanō bastirhitaṁ cāpi virēcanam ||17||
hīnamātrāvubhau bastī nātikāryakarau matau |
atimātrau tathā”nāhaklamātīsārakārakau ||18||
mūrcchāṁ dāhamatīsāraṁ [8] pittaṁ cātyuṣṇatīkṣṇakau |
mr̥duśītāvubhau vātavibandhādhmānakārakau ||19||
tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ |
gudabastyupadēhaṁ tu kuryāt sāndrō nirūhaṇaḥ ||20||
pravāhikāṁ vā janayēttanuralpaguṇāvahaḥ |
tatra sāndrē tanuṁ bastiṁ tanau sāndraṁ ca dāpayēt ||21||
snigdhō’tijāḍyakr̥drūkṣaḥ stambhādhmānakr̥ducyatē |
bastiṁ rūkṣamatisnigdhē snigdhaṁ rūkṣē ca dāpayēt ||22||


pīḍanadōṣānabhidhāya dravyadōṣānnirdiśannāha- gudōpadēha ityādi| upadēha upalēpaḥ| ‘hitaṁ cāpi virēcanam’ ityatra ‘rūkṣaṁ cāpi virēcanam’ iti gayadāsaḥ| hīnamātrāvityādi| ubhau bastī snēhabastinirūhabastī| pratyanīka iti hīnamātrē’dhikamātrō’timātrē hīnamātraḥ, tīkṣṇē mr̥duḥ, mr̥dau tīkṣṇaḥ, uṣṇē śītaḥ, śītē punaruṣṇaḥ| atijāḍyakr̥t atiśayēna klēdakārī [9] ||17-22||

atipīḍitavaddōṣān viddhi [10] cāpyavaśīrṣakē |
ucchīrṣakē samunnāhaṁ bastiḥ kuryācca mēhanam ||23||
tatrōttarō hitō bastiḥ susvinnasya [11] sukhāvahaḥ |
nyubjasya bastirnāpnōti pakvādhānaṁ vimārgagaḥ ||24||
hr̥dgudaṁ bādhatē cātra vāyuḥ kōṣṭhamathāpi ca |
uttānasyāvr̥tē mārgē bastirnāntaḥ prapadyatē ||25||
nētrasaṁvējanabhrāntō vāyuścāntaḥ prakupyati |
dēhē saṅkucitē dattaḥ sakthnōrapyubhayōstathā ||26||
na samyaganilāviṣṭō bastiḥ pratyēti dēhinaḥ |
sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ ||27||
na cāśayaṁ tarpayati tasmānnārthakarō hi saḥ |
nāpnōti bastirdattastu kr̥tsnaṁ pakvāśayaṁ punaḥ ||28||
dakṣiṇāśritapārśvasya vāmapārśvānugō yataḥ [12] |
nyubjādīnāṁ pradānaṁ ca bastērnaiva praśasyatē ||29||
paścādanilakōpō’tra [13] yathāsvaṁ tatra kārayēt |30|


dravyadōṣānabhidhāya śayyādidōṣānabhidhātumāha- atipīḍitavadityādi| viddhi jānīhi| atiprapīḍitō bastiḥ prayātyāmāśayamityādivadityarthaḥ [14] | ucchīrṣakē ucchritaśiraskē puruṣē bastirdattaḥ mēhanaṁ mēḍhraṁ samunnāhaṁ samyagunnāhō yatra tattādr̥śamādhmātaṁ kuryādityarthaḥ| tasyāmāpadi sunnigdhasya puruṣasyōttarō bastiḥ hitaḥ sukhāvaha iti gayī| jējjaṭācāryastu “ucchīrṣakē samunnāhaṁ kuryāt sasnēhamēhanam| tatrōttarō hitō bastiḥ susnigdhaśca sukhāvahaḥ”- iti paṭhitvā vyākhyānayati- sasnēhamēhanaṁ snēhasaṁsr̥ṣṭamūtrapravartanaṁ; tatra pratīkāra uttarō bastiriti susnigdhasya śōdhanō nirūha iti, na punaruttarabastiriti| vr̥ddhasuśrutē cāyaṁ pāṭhō’nyathā; tathā ca- “ucchīrṣakē samunnāhō bastēḥ kr̥cchrācca mēhanam”- iti| nyubjasya puruṣasya vimārgagō bastiḥ pakvādhānaṁ pakvāśayaṁ nāpnōti| hr̥dgudaṁ bādhatē vāyuḥ kōṣṭhaṁ ca bādhatē ityarthaḥ| uttānasyētyādi| nētrasaṁvējanaṁ nētrakampanaṁ, tēna bhrāntō vāyurityarthaḥ| sakthnōrūrvōrna pratyēti na pratyāgacchati na niṣkāsayatītyarthaḥ| avāṅmukhaḥ adhōmukhaḥ| dakṣiṇāśritapārśvasya puruṣasya bastirdattaḥ san kr̥tsnaṁ pakvāśayaṁ na prāpnōti| kuta ityāha- yataḥ pakvāśayō vāmapārśvānugō vāmapārśvamanugacchati| upasaṁhāravyājēna nidānavarjanaṁ cikitsitamāha- nyubjādīnāmityādi| atraiva dōṣasādhanaṁ nirdiśannāha- paścādanilakōpa ityādi| hr̥dayapr̥ṣṭhagudādibādhāsu tattadvyādhyuparamēṇa bhēṣajēnaiva sādhitēna bastinā sādhya ityarthaḥ||23-29||-

vyāpadaḥ snēhabastēstu vakṣyantē taccikitsitē [15] ||30||


ēvaṁ praṇidhānanētradravyapīḍanaśayyādōṣajā vaidyanimittā ēva vyāpadaścatuścatvāriṁśatamabhidhāya vaidyāturanimittāḥ snēhabastibhavā vaktukāmaḥ prāha- vyāpadaḥ snēhabastērityādi||30||

ayōgādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ |
anuṣṇō’lpauṣadhō hīnō bastirnaiti prayōjitaḥ ||31||
viṣṭambhādhmānaśūlaiśca tamayōgaṁ pracakṣatē |
tatra tīkṣṇō hitō bastistīkṣṇaṁ cāpi virēcanam ||32||
saśēṣānnē’thavā bhuktē bahudōṣē ca yōjitaḥ |
atyāśitasyātibahurbastirmandōṣṇa ēva ca ||33||
anuṣṇalavaṇasnēhō hyatimātrō’thavā punaḥ |
tathā bahupurīṣaṁ ca kṣipramādhmāpayēnnaram ||34||
hr̥tkaṭīpārśvapr̥ṣṭhēṣu śūlaṁ tatrātidāruṇam |
tatra tīkṣṇatarō bastirhitaṁ cāpyanuvāsanam ||35||
atitīkṣṇōtilavaṇō rūkṣō bastiḥ prayōjitaḥ |
sapittaṁ kōpayēdvāyuṁ kuryācca parikartikām ||36||
nābhibastigudaṁ tatra chinattīvātidēhinaḥ |
picchābastirhitastasya snēhaśca madhuraiḥ śr̥taḥ ||37||
atyamlalavaṇastīkṣṇaḥ parisrāvāya kalpatē |
daurbalyamaṅgasādaśca jāyatē tatra dēhinaḥ ||38||
parisravēttataḥ pittaṁ dāhaṁ sañjanayēdgudē |
picchābastirhitastatra bastiḥ kṣīraghr̥tēna ca ||39||
pravāhikā bhavēttīkṣṇānnirūhāt sānuvāsanāt |
sadāhaśūlaṁ kr̥cchrēṇa kaphāsr̥gupavēśyatē ||40||
picchābastirhitastatra payasā caiva bhōjanam |
sarpirmadhurakaiḥ siddhaṁ tailaṁ cāpyanuvāsanam ||41||
atitīkṣṇō nirūhō vā savātē cānuvāsanaḥ |
hr̥dayasyōpasaraṇaṁ kurutē cāṅgapīḍanam ||42||
dōṣaistatra rujastāstā madō mūrcchā’ṅgagauravam |
sarvadōṣaharaṁ bastiṁ śōdhanaṁ tatra dāpayēt ||43||
rūkṣasya bahuvātasya tathā duḥśāyitasya ca |
bastiraṅgagrahaṁ kuryādrūkṣō mr̥dvalpabhēṣajaḥ ||44||
tatrāṅgasādaḥ prastambhō jr̥mbhōdvēṣṭanavēpakāḥ |
parvabhēdaśca tatrēṣṭāḥ svēdābhyañjanabastayaḥ ||45||
atyuṣṇatīkṣṇō’tibahurdattō’tisvēditasya ca |
alpadōṣasya vā bastiratiyōgāya kalpatē ||46||
virēcanātiyōgēna samānaṁ tasya lakṣaṇam |
picchābastiprayōgaśca tatra śītaḥ sukhāvahaḥ ||47||
atiyōgāt paraṁ yatra jīvādānaṁ viriktavat |
dēyastatra hitaścāpsu picchābastiḥ saśōṇitaḥ ||48||
navaitā vyāpadō yāstu nirūhaṁ pratyudāhr̥tāḥ |
snēhabastiṣvapi hi tā vijñēyāḥ kuśalairiha ||49||
ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ |
bhiṣajā ca tathā kāryaṁ yathaitā na bhavanti hi ||50||


ayōgādivyāpadaḥ sacikitsitā āha- ayōgētyādi| alpauṣadha iti alpāni auṣadhāni yatra, ētēnālpauṣadhatvādataikṣṇyēna hīnavīryatvamuktaṁ, hīna iti samudāyasyālpamātratvēna| naiti nāgacchati, bastiḥ viṣṭambhādibhirupalakṣitaḥ| tīkṣṇō hitō bastirityupalakṣaṇaṁ, tēna pūrvōktaguṇatrayaviparīta uṣṇō bahulabhēṣajō yathōcitapramāṇō hitaḥ pūjita ityarthaḥ| saśēṣānnē ityādi| saśēṣānnē annājīrṇaśēṣē, bhuktē ca nirūhabastiḥ, tathā bahudōṣē’nuṣṇalavaṇasnēhō nirūhabastiryōjitō naramādhmāpayēt; natvanuvāsanaḥ, tasya sānna ēva hitatvāt| atyaśitasya snēhabastistathā mātrāśitasyātibahurmandōṣṇatāyuktaḥ snēhabastirādhmānaṁ janayēt [16] | parisrāvāya kalpatē iti parisrāvō’yaṁ kēvalapittajō na tu vamanavirēcanaparisrāvavat kaphapittasambhavaḥ| tatra pittaraktabhūyiṣṭhāyāṁ sarpiṣā, vātaraktabhūyiṣṭhāyāṁ tailēnānuvāsanam| kṣīrēṇa bhōjanaṁ vātapittakaphapratyanīkaṁ; kaphasaṁsargē tu kaphaharadravyasaṁskr̥takṣīrabhōjanamiti jñēyaṁ, tantrāntaradarśanāt| rujastāstāḥ tōdādayaḥ, ōṣacōṣādayaḥ, kaṇḍvādayaśca| sarvadōṣaharamiti sarvadōṣaharadravyakvāthaṁ, gōmūtratrivr̥dādikalkaṁ śōdhanaṁ bastiṁ; śōdhanatvēnōrdhvagatadōṣamadhō nayati, sarvadōṣaharatvēna sarvānēva dōṣān duṣṭāñchamayati| rūkṣō’tra vātaprakr̥tiḥ| śītaḥ śītōpacāraśca sukhāvaha ityarthaḥ| viriktaśabdēnātra virēkātiyōgōtpannaṁ jīvādānam; atō virēkātiyōgōtpannajīvādānavalliṅgacikitsitābhyāmētadbastyatiyōgōtpannaṁ jīvādānaṁ jñēyam| tatra viśēṣacikitsitamāha- dēya ityādi| saśōṇita iti hētugarbhaṁ viśēṣaṇaṁ, yataḥ picchābastiḥ saśōṇitō’taḥ śōṇitāpagamarūpajīvādānē dēya ityarthaḥ||31-50||

pakṣādvirēkō vāntasya tataścāpi [17] nirūhaṇam |
sadyō nirūḍhō’nuvāsyaḥ saptarātrādvirēcitaḥ ||51||


idānīṁ pañcānāṁ karmaṇāṁ kramēṇa kriyamāṇānāṁ yatō yatō yadyadyāvatā kālēna karaṇīyaṁ tattadupadiśannāha- pakṣādityādi| samyagyōgēna vāntasya puruṣasya virēcanaṁ pakṣānnārvāṅnāpi parataḥ; tatrārvāk kriyamāṇaṁ puruṣānalabalayōrabalatvād vyāpadamāvahati, atiparataḥ punaḥ snēhasvēdādiguṇō’ntaritaḥ syāt; tasmāt pakṣādēva vāntō virēcanīyaḥ| tatra pradhānaśuddhimapēkṣyānnasaṁsargēṇa dināni ṣaḍatikramya madhurādirasasaṁsargamācarēt| snēhapānēnāpi dināni ṣaḍatikramēt| tataḥ svēdaṁ samācaran laghūṣṇaṁ bhujyamānastryahaṁ sthitaścaturthē’hani virēkaṁ kuryāt| tatastasmādvirēkādannasaṁsargēṇa dināni ṣaḍatikramyānantaraṁ madhurādirasasaṁsargaṁ samācaran saptarātrādvirēcita iti vākyādaṣṭamādidivasēṣvanuvāsanāni yathādōṣaṁ vidadhyāt| tataḥ ṣōḍaśē’hni snēhābhyaktaḥ svēditaścāsthāpanaṁ sēvēta| gayadāsastu carakācāyābhiprāyēṇa virēcanādūrdhvaṁ ṣaḍahaṁ kr̥tānnasaṁsargasyāvasthāviśēṣēṇa snēhapānamanuvāsanaṁ ca dvayamapi manyatē| tathā ca carakācāryavacanam- “saṁsr̥ṣṭabhaktaṁ navamē’hni sarpistaṁ pāyayētāpyanuvāsayēdvā”- (ca.si.a.1) iti| tatra virēcanādūrdhvamannasaṁsargēṇa dināni ṣaṭ, tatō madhurādirasasaṁsargamācarēt, snēhapānēnāpi dināni ṣaḍatikrāmēn, tatō dinatrayaṁ laghūṣṇaṁ bhuñjānaścaturthē’hani snēhābhyaktaḥ svēditaścāsthāpanaṁ sēvēta| snēhapānapūrvakasyānuvāsanapūrvakasya cāsthāpanasyāvasthā gayadāsēna darśitā; yathā- hīnaviriktasyāvaśiṣṭaparipakvāmasañcayāvr̥ta vāyau snēhapānapūrvakamāsthāpanaṁ kvacidvyādhyavasthāvaśāt prāk snēhanavirēcitasyāsthāpanamiti| nirūḍhaḥ puruṣaḥ sadya ēva taddivasē ēvānuvāsyaḥ| ētēna dattanirūhō yathōktaṁ bhōjayitvā”rdrapāṇirēvānuvāsyaḥ| virēcitastu saptarātrāt paratō’nuvāsyō nārvāk| uktaṁ hi- “virēcanāt saptarātrē gatē jātabalāya vai| kr̥tānnāyānuvāsyāya samyagdēyō’nuvāsanaḥ” (ci.a.37) iti| kēcidanyādr̥śaṁ vyākhyānaṁ kurvanti; tacca gayadāsācāyaṇa bahudhā dūṣitatvādasmābhirapyupēkṣitam||51||

iti suśrutasaṁhitāyāṁ cikitsāsthānē nētrabastivyāpaccikitsitaṁ nāma ṣaṭtriṁśō’dhyāyaḥ ||36||


iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ cikitsāsthānē ṣaṭtriṁśattamō’dhyāyaḥ||36||

1. ‘cāvanatē tathā’ iti pā.|
2. ‘nikr̥ṣṭakarṇikē’ iti pā.|
3. ‘nikr̥ṣṭakarṇikē’tyāsannakarṇikē’ iti pā.|
4. ‘caturaṅgulēna’ iti pā.|
5. ‘atyalpāgracchidrē’ iti pā.|
6. ‘caiva bhinnē’ iti pā.|
7. ‘krāmatyāmāśaya iti pā.|
8. ‘chardimatīsāraṁ’ iti pā.|
9. ‘niḥsyandakārī’ iti pā.|
10. ‘vidhiṁ’ iti pā.|
11. ‘susnigdhasya’ iti pā.|
12. ‘hi saḥ’ iti pā.|
13. ‘yasyāpyanilakōpō’tra’ iti pā.|
14. ‘krāmatyāmāśayaṁ’ iti pā.|
15. ‘taccikitsitam’ iti pā.|
16. asyāgrē ‘atimātrō vā’nuṣṇādiguṇayuktō nirūhabastirnaramādhmāpayēt| bahupurīṣasya ca dvivadhō bastirādhmāpayēt|’ ityadhikaṁ paṭhyatē hastalikhitapustakē|
17. ‘tataḥ pakṣānnirūhaṇam’ iti pā.|