Table of Contents
ToggleDevanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
चिकित्सास्थानम् - ३८. निरूहक्रमचिकित्सितम्
अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
निरूहस्य क्रमो निरूहक्रमः अनुक्रमविधानं [१] , स एव चिकित्सितं व्याधिप्रतीकारः| निरूहोपक्रमचिकित्सितमिति केचित् पठन्ति, तन्मतेऽपि निरूहोपक्रमो निरूहारम्भः, स एव चिकित्सितमिति व्याख्यानम्||१-२||
अथानुवासितमास्थापयेत्; स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा, ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य, सव्यपाणिकनिष्ठिकानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य, मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं [२] तु विवृतास्यं कृत्वा, बस्तावौषधं प्रक्षिप्य, दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौषधासन्नमुपसङ्गृह्य [३] , पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत्, ततः सूत्रेणैवौषधान्ते द्विस्त्रिर्वाऽऽवेष्ट्य बध्नीयात्, अथ दक्षिणेनोत्तानेन पाणिना बस्तिं गृहीत्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसङ्गृह्याङ्गुष्ठेन नेत्रद्वारं पिधाय, घृताभ्यक्ताग्रनेत्रं घृताक्तमुपादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात् ||३||
बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् |
एकेनैवावपीडेन न द्रुतं न विलम्बितम् ||४||
ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं [४] ब्रूयात् |
अथातुरमुपवेशयेदुत्कुटुकं [५] बस्त्यागमनार्थम् |
निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति ||५||
अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः |
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ||६||
अनुक्रमप्रणयनसम्बन्धं दर्शयन्नाह- अथानुवासितमित्यादि| अनुवासितं दत्तानुवासनं स्निग्धस्रोतोमार्गतया सुखमेव दोषनिर्हरणार्थमास्थापयेत्| निरूहस्य प्रणिधानविधानमाह- स्वभ्यक्तमित्यादि| उत्सृष्टबहिर्वेगं त्यक्तविण्मूत्रादिकम्| प्रततायां शय्यायां स्तब्धायां, विस्तीर्णायामिति केचित्| अधःसुपरिगृहीतायां पादतलयोः शोभनप्रतिवाहकायाम्| श्रोणिप्रदेशव्यूढायां कटिप्रदेशविशालायां, व्यूढायां शोभनोन्नतायामिति केचिद् व्याख्यानयन्ति| अनुपधानायाम् अनुपशीर्षकायाम् [६] | सुनिषण्णदेहं शोभनं विश्रान्तशरीरम्| सव्यपाणिः वामकरः| औषधं प्रक्षिप्य उपसङ्ग्रहणेन क्रियाविशेषेण| अनुत्सिक्तमूर्ध्वक्षरणरहितं यथा भवति तथा सिक्तम्| अनायतम् अनतिदीर्घं (अचिरात् प्रवृत्तम्)| अबुद्बुदं बुद्बुदरहितम| असङ्कुचितं वस्तुसञ्चरणक्षमम्| अवातम् औषधदानेन निस्सारितवातम्| एवं दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चौषधान्तमुपसङ्गृह्य पुनर्दक्षिणहस्तोपगृहीतोपरि तदितरेण वामकरेण गृहीत्वा, दक्षिणकरेणैवौषधान्ते सूत्रेण द्विस्त्रिर्वाऽऽवेष्ट्य बध्नीयात्| आकर्णिकं कर्णिकां मर्यादीकृत्य| नेत्रं प्रणिधत्स्व प्रवेशयेति आतुरं प्रति भिषग् ब्रूयादिति सम्बन्धः| नेत्रप्रणिधानमभिधाय बस्तिपीडनविधिमाह- बस्तिमित्यादि| त्रिंशन्मात्रा इति मात्रामानं हि अग्निवेशेन व्याख्यातम्- “यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्| निमेषोन्मेषकालो वा सा मात्रा परिकीर्तिता”- इति| पराशरस्तु बस्तिकर्मणि मात्रासङ्ख्यामाह- “जानुमण्डलमावेष्ट्य दत्ते दक्षिणपाणिना| कृष्टनेत्रश्छटाशब्दशतं तिष्ठेदवेगवान्”- इति| तत्र पराशरेण क्रूरकोष्ठपुरुषमङ्गीकृत्य मात्राशतमभिहितं, शेषयोर्मध्यमृदुकोष्ठयोः सप्ततिस्त्रिंशदित्यनुक्तमप्यूहनीयं स्यादित्येके मन्यन्ते; यतः सुश्रुताचार्येणापि मृदुकोष्ठपुरुषापेक्षया प्रोक्तस्त्रिंशन्मात्रापीडनकालः; अथवा त्रिंशन्मात्रानन्तरं वैद्येनोत्तिष्ठेत्युक्ते सति आतुरस्योत्थानोपवेशनोत्कुटुकभवनादिकालविलम्बेनैव मात्राशतं पूर्णं स्यादिति शास्त्रयोरविरोधः| मुहूर्तः घटिकाद्वयम्| मुहूर्तादप्रवर्तमानं शोधननिरूहैरेव व्यक्तक्षाराम्ललवणैर्हरेत् [७] | एकत्र विहितं प्रणिधानं सङ्क्षेपार्थमन्यत्रापि निर्दिशन्नाह- अनेनैवेत्यादि| चतुर्थं वा यथार्थत इति अर्थस्य प्रयोजनस्यानतिक्रमतो यथार्थतः| एतदुक्तं भवति- यदा सुनिरूढलिङ्गप्राप्तो भवति तदा तत्र निर्हरणीयाभावान्निरूहणमप्रयोजनमिति न देयम्, असम्यग्दानेन क्रूरकोष्ठतया प्रभूतदेयत्वेन वा सुनिरूढमप्राप्तस्य निर्हरणीयो दोषोऽस्तीति प्रयोजनमपेक्ष्य चतुर्थमपि निरूहं सुनिरूढलिङ्गार्थं प्रयोजयेत्| ‘चतुर्थं वा यथार्हतः’ इति पाठे निरूहसाध्यप्रयोजनानुरोधाच्चतुर्थमपि पुटकं प्रयोजयेदित्यर्थः||३-६||
सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवारयेत् |७|
अमुमेवार्थं प्रकटयन्नाह- सम्यगित्यादि| केचिद्रक्तमप्यत्र चतुर्थं शमनीयमस्तीति चतुर्थं बस्तिदानमाहुः; अपरे तु पश्चाद्दाहनिर्वापणार्थं मधुरशीतैश्चतुर्थोऽपि बस्तिर्देय इति वदन्ति|७|-
विशेषात् सुकुमाराणां हीन एव क्रमो हितः ||७||
अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम् |८|
हीनयोगजातियोगजयोर्व्यापदोर्मध्ये अतियोगजा व्यापन्महात्ययं करोतीति ततो बिभ्यदाह- अपि हीनेत्यादि||७||-
यस्य स्याद्बस्तिरल्पोऽल्पवेगो [८] हीनमलानिलः ||८||
दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान् |९|
हीननिरूढलक्षणमाह- यस्येत्यादि| अल्पः अल्पगुणमात्रः| अल्पवेगः स्तोकवेगः| मूत्रार्तिः मूत्रपीडा| अल्पगुणमात्रबस्त्युपयोगोत्क्लेशितमलावरोधेन जाड्यमपटुता||८||-
यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते ||९||
तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता |१०|
अतिनिरूढलिङ्गमाह- यानीत्यादि| यान्येव प्रागुक्तानि शूलगुदभ्रंशकफातियोगादीनि [९] ||९||-
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः ||१०||
लाघवं चोपजायेत सुनिरूढं तमादिशेत् |११|
सम्यङ्निरूढलिङ्गमाह- यस्येत्यादि| विट् मलः||१०||-
सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् [१०] ||११||
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् |
सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः ||१२||
त्रिभागहीनमर्धं वा हीनमात्रमथापि वा |
यथाग्निदोषं मात्रेयं भोजनस्य विधीयते ||१३||
अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना |१४|
सुनिरूढस्य पश्चात्कर्म निर्दिशन्नाह- सुनिरूढमित्यादि| केचिदत्र निरूढलिङ्गोत्पादपुटप्रत्यागमानन्तरं पीतनागरकर्षतोयस्योद्वर्तनस्नानादिकं मन्यन्ते| तदुक्तं- “ततः प्रत्यागते बस्तौ वार्युष्णं नागरैः शृतम्| पाययेत् कृतशौचं च स्नापयेदुष्णवारिणा- ” इति| कियद्भोजनं तदाह- त्रिभागेत्यादि| हीनमात्रमथापि वेत्यत्र मात्रशब्दोऽल्पार्थः; तेन हीनमात्रमल्पहीनम्| ततः मात्रावद्भोजनानन्तरम्| यथास्वं यो य आत्मीयदोषापेक्षया स्नेहबस्तिस्तेन स्नेहबस्तिना युञ्ज्यात् परं सुनिरूढमेव पुरुषं नतु दुर्निरूढं, तत्र सदोषतया यथादोषं निरूहणमेव कार्यम्| न चातिरूढं, तत्रातिविरिक्तवद्भेषजं शीतपरिषेकपिच्छाबस्त्यादिकं नतु स्नेहबस्तिः; तथा च विदेहः- “अतितीक्ष्णैर्निरूढस्य हृतदोषस्य सर्वतः| कञ्चिदेवानभिप्रेतं मार्गं स्नेहोऽनुगच्छति”- इति| गयदासस्त परिभाषितं षट्पलप्रमाणं स्नेहबस्तिमत्र देयं न मन्यते, किञ्चानुवासनाख्यं पलत्रयप्रमाणं स्नेहबस्तिं देयं मन्यते| यत्र तु स्नेहबस्तिः स्वतन्त्रः, तत्रैव षट्पलप्रमाणः||११-१३||-
विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ||१४||
आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम् |१५|
इदानीं सान्वासनास्थापनस्य सम्यग्दत्तस्य लक्षणमाह- विविक्ततेत्यादि| विविक्तता सम्यक्पृथगवधारणं, मनस एवेन्द्रियार्थेषु सम्यगवधारणसामर्थ्यं, रसादिधातुवहस्रोतसामनावृतत्वं वा विविक्तता||१४||-
तदहस्तस्य पवनाद्भयं बलवदिष्यते ||१५||
रसौदनस्तेन शस्तस्तदहश्चानुवासनम् |१६|
कुतः पुनर्निरूहशुद्धस्य मन्दाग्नेस्तदहरेव मांसरसभोजनमनुवासनयोजनं चेत्याह- तदहरित्यादि| निरूहणाद्विड्वातादिप्रवृत्तिलक्षणेन धातुक्षयेण कुपितानिलस्य बलवदेव भयमतस्तदहरेव रसौदनभोजनं, तच्च निरूहणमन्दीकृतानलवधभयान्मात्रावत्; तथा पवनभयात्तदहरेव द्वादशप्रसृतनिरूहचतुर्थांशेन स्नेहेनानुवासनम्| गयदासस्तु सुनिरूढस्य तदहः पलत्रयमेवानुवासनं; तथा तदहश्चेति चकारो भिन्नक्रमे, तेनानुवासनं चेत्यत्र सम्बन्धादनुक्तोऽपि मात्राबस्तिश्चात्र समुच्चीयत इति मन्यते; न षट्पलप्रमाणं स्नेहबस्तिं, भोजदर्शनादिति||१५||-
पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् ||१६||
अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते |१७|
निरूहणादनन्तरं तृतीयचतुर्थादावपि दिने बस्तिदानमाह- पश्चादित्यादि| पश्चात् सान्वासनान्निरूहणात्| अग्निबलं दीप्तं बलं वयःशक्त्यनुरूपमुपलभ्य, पवनस्य च चेष्टितं मत्वेति सञ्चलनशब्दकरस्फुरणादिकमवधार्य, अन्नपानेनावष्टब्धे कोष्ठे स्नेहबस्तिरुत्तममात्रारूपः षट्पलः क्रियते| तथाच तन्त्रान्तरं- ‘द्व्यहात्त्र्यहाच्चतुर्थे पञ्चमे वा दद्यान्निरूहादनुवासनम्’ इति||१६||-
अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् ||१७||
तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः |१८|
ततः परं घटिकाद्वयादनागच्छतो निरूहस्य निर्हरणोपायं दर्शयति- अनायान्तमित्यादि| निरूहैर्मतिमान् हरेदिति सम्बन्धः| कथम्भूतैर्निरूहैरित्याह- शोधनैः तीक्ष्णैः| क्षारमूत्राम्लसंयुतैः क्षारो यवक्षारः, मूत्रं गोमूत्रम्, अम्लं काञ्जिकम्||१७||-
विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् ||१८||
शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत् |१९|
विगुणो विपरीतः| अरतिर्न कुत्रचिदवस्थितिश्चेतसः||१८||-
न तु भुक्तवतो देयमास्थापनमिति स्थितिः ||१९||
विसूचिकां वा जनयेच्छर्दिं वाऽपि सुदारुणाम् |
कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने ||२०||
भुक्तवतः कस्मादास्थापनं निषिध्यते तदाह- न त्वित्यादि| न तु भुक्तवत इत्यादिना य आस्थापननिषेधोऽभिहितस्तस्य दृढीकरणार्थं भुक्तवतो विसूचिकादिदोषोद्भावनयाऽभोजिने दानमाह- विसूचिकां वेत्यादि||१९-२०||
जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः |
निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः ||२१||
नवाऽऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति |
तस्मादास्थापनं देयं निराहाराय जानता ||२२||
विसूचिकेत्यादिदूषणोद्भावनद्वारेणाभोजिने दानमभिधाय जीर्णान्नस्येत्याद्युक्तगुणद्वारेणाप्यभोजिन एव दानमाह- जीर्णान्नस्येत्यादि| प्रव्यक्तिं स्पष्टतां निरावरणतामित्यर्थः||२१-२२||
आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम् |
मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते ||२३||
तीव्रशूलाध्मानादिरोगावस्थस्योपक्रमेणापि [११] नोर्ध्वं शुद्ध्यतः फलवर्त्यादिप्रणिधानपूर्वकं भुक्तवतोऽपि निरूहदानं कर्तव्यं स्यादत आह- आवस्थिकमित्यादि||२३||
क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा |
लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा ||२४||
एला त्रिकटुकं रास्ना सरलो देवदारु च |
रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च ||२५||
कटुका शर्करा मुस्तमुशीरं चन्दनं शटी |
मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् ||२६||
बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः |
काकोली क्षीरकाकोली जीवकर्षभकावुभौ ||२७||
तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका |
निरूहेषु यथालाभमेष वर्गो विधीयते ||२८||
इदानीं बस्तियौगिकानि द्रव्याण्युपदिशन्नाह- क्षीराणीत्यादि| फलं त्रिफला| सरलो वृक्षविशेषः| संशोधनानि त्रिवृदादीनि| मदनं मदनफलम्| शक्रजा यवा इन्द्रयवाः| मधूलिका तृणविशेषः ‘मर्कटिका’ इति लोके||२४-२८||
स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः |
क्रुद्धेऽनिले चतुर्थस्तु [१२] षष्ठः पित्ते कफेऽष्टमः ||२९||
सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः |
क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ||३०||
युक्त्या प्रकल्पयेद्धीमान् निरूहे … |३१|
सम्प्रति निरूहणेषु क्वाथादिषु प्रतिदोषं कियती कस्य मात्रेत्याह- स्वस्थ इत्यादि| स्वस्थे समवातपित्तकफे पुरुषे| द्वादशप्रसृतस्य निरूहस्य क्वाथस्य चत्वारो भागाश्चत्वारः प्रसृताः अष्टौ पलानि| स्नेहस्य पञ्चम इति चतुर्विंशतिपलनिरूहापेक्षया पादोनपञ्चपलानि| क्रुद्धेऽनिले चतुर्थ इति चतुर्थो भागः षट्पलानीत्यर्थः [१३] | षष्ठः पित्ते इति क्रुद्धे पित्ते स्नेहस्य षष्ठो भागश्चत्वारि पलानीत्यर्थः| कफेऽष्टम इति क्रुद्धे कफे स्नेहस्याष्टमो भागस्त्रीणि पलानीत्यर्थः| कषायस्नेहौ विभज्य कल्कभागं दर्शयन्नाह- सर्वेष्विति| सर्वेषु वातपित्तश्लेष्मसु कल्कस्याष्टमो भागस्त्रीणि पलानीत्यर्थः| ‘सर्वेषु स्वस्थास्वस्थेषु’ इति गयी| लवणं पुनरित्यादि लवणादीनि विशेषप्रमाणेनानुक्तान्यपि युक्त्या दापयेत्, युक्त्या योगेनेत्यर्थः| यथा योगातियोगौ न भवतः| ननु कषायादिवल्लवणादिषु कुतो मात्रा नोक्ता? सत्यं, लवणादीनां दोषभेषजयोः सामान्यविशेषेण गुणमवलोक्य सम्यग्योगसाधनमेव मानम्| तद्यथा- वाते क्षौद्रं मितं, पित्ते नातिबहु, बहु पुनः कफे इति| एवमन्येष्वपि द्रव्येषु ज्ञेयम्| नियते पुनर्माने क्वचिद्योगः क्वचिदयोग इति स्यात्| एतदुक्तं भवति- कषायादिना नियतमानेन सहानियतमानैर्लवणादिभिर्युक्त्या द्वादश प्रसृताः पूरणीया इति| ततो लवणादीनां मात्रां दोषभेषजयोः सामान्यविशेषन्यायेन गुणमवलोक्य सम्यक् प्रकल्पयेत्| क्वचिद्वातादिविषयसात्म्यमन्यथा पठ्यते| तथाहि- “मधुस्नेहनकल्काख्यकषायावापतः क्रमात्| त्रीणि षड् द्वादश त्रीणि पलान्यनिलरोगिणाम्| पित्ते चत्वारि चत्वारि द्वे द्विपञ्च चतुष्टयम्| षट् त्रीणि द्वे दश त्रीणि कफे चापि निरूहणम्”- इति पूर्वाचार्यभणितत्वाद्द्वयमपि मतं प्रमाणम्||२९||
… कल्पना त्वियम् ||३१||
कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः |
बस्तेः [१४] सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत् ||३२||
निरूहावयवयोगिषु सम्यग्योगहेतुकमात्रां नियम्य समुदायकल्पनामुद्दिशन्नाह- कल्पना त्वियमिति| का पुनरियमित्याह कल्कस्नेहकषायाणामित्यादि| अविवेकादिति ल्यब्लोपे पञ्चमी; तेन कल्कादीनां विवेकाभावमपृथग्भावं वीक्ष्य सुकल्पना भिषग्वरैः प्रोक्ता| एतेन हस्तप्रधावनसीमन्तादिकृन्मिथ्यायुक्तः| तथा चोक्तं- “न धावत्यौषधं पाणिं न तिष्ठत्यवलिप्य च| न करोति च सीमन्तं स निरूहः सुयोजितः”- इति| तस्य दानं यथार्थकृदिति वातपित्तकफशोणितहरणशोधनसङ्ग्रहणलेखनबृंहणवाजीकरणरसायनादियोगकृत्||३०-३२||
दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् |
पात्रे तलेन मथ्नीयात्तद्वत् स्नेहं [१५] शनैः शनैः ||३३||
सम्यक् सुमथिते दद्यात् फलकल्कमतः परम् |
ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ||३४||
गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च |
यथा वा साधु मन्येत न सान्द्रो न तनुः समः ||३५||
रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु |
कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ||३६||
बस्तिद्रव्याणि येन क्रमेण योज्यन्ते तमाह- दत्त्वेत्यादि| अक्षः कर्षमित्यर्थः| मधुनः प्रसृतद्वयं चत्वारि पलानि| तलेन हस्ततलेन| तद्वत् स्नेहं मधुप्रमाणम्| शनैः शनैरल्पमल्पं स्नेहं दत्त्वेत्यर्थः| शनैः शनैरित्युत्तरत्रापि सम्बध्यते| फलकल्कमतः परं अतः परमस्मिन् सुमथिते फलकल्कं मदनफलकल्कम्| तत इत्यादि ततः फलकल्कादिदानोत्तरम्| कल्कादीन् यथोचितान् वातादिषूचितानतिक्रमेण| भागैः स्वैरिति अंशैरात्मीयैः, यथा मदनफलेन सह सर्वकल्कद्रव्याणां पलत्रयं भवत्येवं कल्पितैः| श्लक्ष्णपेषितान् सूक्ष्मपेषितान् सूक्ष्मपेषितान् कल्कान् दद्यादिति सम्बन्धः| गम्भीरे इत्यादि पूर्वपात्रादन्यस्मिन् गम्भीरभाजने खजेन मथ्नीयात्| खजोऽत्र पञ्चाङ्गुलो हस्तो मन्थानश्च| यथेत्यादि मथ्नीत्यादित्रापि सम्बन्धनीयम्| एतेन करेणापि मथ्नीयादित्यर्थः| रसेत्यादि रसादीनां दोषावस्थामपेक्ष्य ‘मात्रामर्पयेत्’ इति शेषः| तन्त्रान्तरे निरूहयोजना प्रोक्ता- “माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्| आवाप्यावाप्य पात्रे तन्मथ्नीयादन्तराऽन्तरा| सम्यक् पाणितलेनैव निरूहे योजनाविधिः”- इति||३३-३६||
अत ऊर्ध्वं द्वादशप्रसृतान् [१६] वक्ष्यामः |
दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् |
विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ||३७||
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् |
सम्मूर्च्छिते कषायं तु चतुःप्रसृतिसम्मितम् ||३८||
वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम् |
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ||३९||
ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम् |
अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम् ||४०||
यथावयो निरूहाणां कल्पनेयमुदाहृता |
सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः ||४१||
द्वादशप्रसृतिप्रमाणसाधनं निर्दिशन्नाह- अत इत्यादि| सम्मूर्च्छिते सम्मिलिते| वितरेत् दद्यात्| आवापः पश्चान्निक्षेप्यं क्षीरकाञ्जिकादि द्रव्यम्| द्विप्रसृतोन्मितं चतुःपलप्रमाणम्| सैन्धवकर्षस्तु स्तोकत्वाच्चतुर्विंशतिपलेष्वेवान्तर्भवतीत्यतिरिक्तदोषो न वाच्यः| अपह्रासे अपह्रासविषये स्तोककरणाभिलाषे प्रसृतहापनं पलद्वयादित्यागं [१७] भिषक् कुर्यात्||३७-४१||
अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः |
यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ||४२||
विभागशः विभागेनेत्यर्थः| यथादोषप्रयुक्ता इत्यत्र दोषशब्दो वातादिषु व्याधिषु च प्रवर्तते||४२||
शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः |
पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः ||४३||
क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः |
कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः ||४४||
वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः |
दद्यादास्थापनं कोष्णं क्षौद्राद्यैरभिसंस्कृतम् ||४५||
पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम् |
ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ||४६||
इदानीं कुपितानिलमधिकृत्य बस्तिदानमाह, तथा सर्वबस्तिद्रव्यनिक्षेपक्रमं च| शम्पाकः किरमालकः| निशाच्छदः शटी| पञ्चमूली अत्र ह्रस्वा| अम्भोदः मुस्ता| तत्र शम्पाकादीनि सुरदारुपर्यन्तानि चतुर्दशपलप्रमितानि, मदनाष्टकसंयुतानि चतुर्भिर्मदनफलैः पलं भवति, एवं षोडशपलानि द्रव्याणि जर्जरीकृत्याष्टगुणमष्टाविंशत्यधिकशतपलप्रमाणं जलं दत्त्वा क्वाथयेद् यावद्द्वात्रिंशत् पलानि भवन्ति, ततो वस्त्रपूतं कृत्वाऽष्टपलं [१८] क्वाथं गृह्णीयात्; चतुर्वारप्रयोजनोऽयं [१९] क्वाथः, द्वितीयं वा तृतीयं वेत्यादिनोक्तत्वात्| ततश्च गम्भीरं ताम्रभाजनमानीय, टङ्कत्रयपरिमितं सैन्धवं निक्षिप्य [२०] , क्षौद्रमित्युक्तत्वात् पलत्रयपरिमितं मधु च करतलेन मथ्नीयात्, ततः सैन्धवमधुनी एकीकृत्य, क्षौद्राद्यैरभिसंस्कृतमित्यत्राद्यशब्देन स्नेहक्षीरकाञ्जिकमूत्रमांसरसादीनां सङ्गृहीतत्वात षट्पलप्रमाणं पक्वं तैलं प्रक्षिप्य मथ्नीयात्; तदनु चैकीभूत स्नेहे मागधिकादिरसाञ्जनपर्यन्तनवद्रव्यचूर्णं सैन्धवटङ्कत्रयेण पलत्रयप्रमितं निक्षिप्य मथ्नीयात्; सैन्धवटङ्कत्रयप्रमाणस्यादावेव च निक्षिप्तत्वात् कल्कः पलत्रयपरिमितो निक्षिप्तो भवति; ततश्च द्वात्रिंशत्पलपरिमितक्वाथमध्यादष्टौ पलान्युद्धृत्य तत्र निक्षिपेत्; तदनु च मांसरसस्य सार्धपलं, क्षीरस्यापि सार्धं पलं, काञ्जिकस्यार्धं पलं, तथा गोमूत्रस्यापि तत्र निक्षिप्यते| एवं चतुर्विंशतिपलानि भवन्ति| एवं द्वितीयं तृतीयं चतुर्थं वा पुटकं दद्यात्| अयं बस्तिर्वातरोगे च प्रयोज्यः||४३-४६||
गुडूचीत्रिफलारास्नादशमूलबलापलैः |
क्वथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः [२१] ||४७||
शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः |
सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः ||४८||
क्षौद्रतैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः |
समालोड्य च मूत्रेण दद्यादास्थापनं परम् ||४९||
तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम् |
सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ||५०||
गुडूचीत्यादि| पलं मांसम्| शेषं प्रसिद्धम्| गुडूच्यादीनि बलान्तानि षोडशद्रव्याणि प्रत्येकं पलमितानि, तथा मांसस्यापि षोडशपलानि, एवं सप्तदशद्रव्याणि द्वात्रिंशत्पलपरिमितानि, मांसस्य [२२] बहुलत्वाच्चतुर्गुणं षट्त्रिंशदधिकशतपलप्रमाणं जलं दत्त्वा क्वाथयेत्, ततश्चतुर्थांशावशिष्टानि द्वात्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे पलाष्टकं ग्राह्यम्| प्रियङ्ग्वादिद्रव्यकल्को यथोक्तप्रमाणेन| बिल्वजं बिल्वफलम्| मधु पूर्ववत्, तैलघृते च पूर्ववत्, क्षीरस्य द्विपलं; शुक्तकाञ्जिकमस्तुगोमूत्राणां प्रत्येकमर्धपलमित्येवं चतुर्विंशतिपलानि भवन्ति| द्रव्यनिक्षेपक्रमः पूर्ववत्| तेजोवर्णेत्यादि तेजस्त्वग्गतं [२३] भ्राजकाग्निसञ्ज्ञं पित्तम्| वर्णो गौरादिः| बलं मांसोपचयः| उत्साहः चैतसिको धर्मः| वीर्यं शक्तिः| प्राणा अग्नीषोमादयः| अयमपि वाते वातरोगे च योज्यः||४७-५०||
कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः |
सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः ||५१||
पालिकैः क्वथितैः सम्यग् द्रव्यैरेभिश्च पेषितैः |
शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः ||५२||
विदारीमिसिमञ्जिष्ठाश्यामेन्द्रयवसिन्धुजैः |
फलपद्मकयष्ठ्याह्वैः क्षौद्रक्षीरघृताप्लुतैः ||५३||
दत्तमास्थापनं शीतमम्लहीनैस्तथा द्रवैः |
दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत् ||५४||
इदानीं कुपितपित्तमधिकृत्य बस्तिदानमाह- कुशादीत्यादि| कुशकाशनलदर्भकाण्डेक्षव इति कुशादिपञ्चमूलम्| अब्दो मुस्ता, उत्पलं नीलोत्पलम्, रेणुः पर्पटकः| आत्मगुप्ता कपिकच्छूकः श्यामा प्रियङ्गुः| फलं मदनफलम्| पेषितैः पिष्टैः| कुशादिसप्तदशद्रव्याणि पलप्रमितानि, अष्टगुणं षट्त्रिंशदधिकपलशतप्रमाणं जलं दत्त्वा क्वाथयेत्, ततश्चतुर्थांशावशिष्टानि चतुस्त्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे क्वाथपलाष्टकं ग्राह्यं, शृङ्गाटकादियष्टीमधुकान्तानां पञ्चदशद्रव्याणां कल्कं पलत्रयप्रमाणं, ‘पित्ते नातिबहु क्षौद्रं’ इत्युक्तत्वान्मधुनश्चत्वारि पलानि, क्रुद्धे पित्तेऽष्टमो भागः स्नेहस्य’ इत्युक्तत्वाद् घृतस्य चत्वारि पलानि, क्षीरस्य पलद्वयं, ‘अम्लहीनैस्तथा द्रवैः’ इत्युक्तत्वान्मांसरसस्यैकं पलं, इक्षुरसस्य पलद्वयं, एवं चतुर्विंशतिपलानि भवन्ति| द्रव्याणां निक्षेपक्रमः पूर्ववत्| अयं बस्तिः पित्ते पित्तरोगे च प्रयोज्यः| ‘विदारीमिसिमञ्जिष्ठा’ इत्यत्र मिसिस्थाने विषेति केचित् पठन्ति, तत्र विषम् अतिविषा; विषं वा वालकं, तोयनामत्वात्||५१-५४||
रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः |
सारिवावृषकाश्मर्यमेदामधुकपद्मकैः ||५५||
स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः |
पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः ||५६||
प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः |
अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः ||५७||
कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः |
द्रवैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः ||५८||
गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान् |
असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान् ||५९||
रोध्रेत्यादि| अनन्ता उत्पलसारिवा| स्थिरादि लघुपञ्चमूली, तृणमूलं कुशादिपञ्चमूलं, अभीरुः शतावरी| रोध्रादितृणमूल्यन्तानां त्रयोविंशतिद्रव्याणां कर्षत्रयप्रमितत्वेन सप्तदशपलानि कर्षाधिकानि, अष्टगुणमष्टत्रिंशदधिकशतपलप्रमाणं जलं दत्त्वा क्वाथयेत्, अतः सार्धचतुस्त्रिंशत्पलानि ग्राह्याणि, अत एकपुटकार्थे क्वाथपलाष्टकं ग्राह्यं, जीवकादिशर्करान्तैकोनविंशतिद्रव्याणां कल्कः पलत्रयप्रमाणः, मधुघृते पूर्ववत्, ‘द्रवैस्तीक्ष्णाम्लवर्ज्यैः’ इत्युक्तत्वात् क्षीरमांसरसेक्षुरसाः पूर्ववत्, इत्येवं चतुर्विंशतिपलानि भवन्ति| द्रव्यनिःक्षेपक्रमः पूर्ववत्| अयमपि बस्तिः पित्ते पित्तरोगे च प्रयोज्यः||५५-५९||
भद्रानिम्बकुलत्थार्ककोशातक्यमृतामरैः |
सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः ||६०||
क्वाथः, कल्कस्तु कर्तव्यो वचामदनसर्षपैः [२४] |
सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ||६१||
कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः |
कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ||६२||
मेदस्विनामनग्नीनां कफरोगाशनद्विषाम् |
गलगण्डगरग्लानिश्लीपदोदररोगिणाम् ||६३||
इदानीं कुपितकफमधिकृत्य बस्तिदानमाह- भद्रेत्यादि| भद्रा कट्फलं, भद्रादिवत्सकान्तानां त्रयोदशद्रव्याणां षोडशपलानि अष्टगुणमष्टाविंशत्यधिकशतपलप्रमाणं जलं दत्त्वा क्वाथयेत्, अतो द्वात्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे क्वाथपलाष्टकं, वचादिनागरान्तानां दशद्रव्याणां कल्कस्य पलत्रयं, कटुतैलतिलतैलयोस्त्रीणि पलानि कफेऽष्टम इत्युक्तत्वात्, मधुनः पुनः षट्पलानि, यवक्षारस्यैकपलं, मूत्रस्य सार्धपलं तथा काञ्जिकस्य, एवं चतुर्विंशतिपलानि| द्रव्यनिक्षेपक्रमः पूर्ववत्| अयं बस्तिः कफे कफरोगे च योज्यः||६०-६३||
दशमूलीनिशाबिल्वपटोलत्रिफलामरैः |
क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ||६४||
पाठामागधिकेन्द्राह्वैस्तैलक्षारमधुप्लुतैः |
कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः ||६५||
कफपाण्डुगदालस्यमूत्रमारुतसङ्गिनाम् |
आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम् ||६६||
दशमूलीत्यादि| इन्द्राह्वः कुटजः| दशमूलाद्यमरान्तसप्तदशद्रव्याणि अष्टगुणं षट्त्रिंशदधिकशतपलप्रमाणं जलं दत्त्वा क्वाथयेत्, अतश्चतुस्त्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे क्वाथपलाष्टकं ग्राह्यं, मुस्तादीन्द्राह्वान्तषड्द्रव्याणां कल्कं पूर्ववत्, तथा तैलमधुनोः [२५] प्रत्येकं चत्वारि पलानि, क्षारस्यार्धपलं, मूत्रस्य सार्धपलं, तथा काञ्जिकस्य सार्धपलं, मदनफलस्य सार्धपलमित्येवं चतुर्विंशतिपलानि भवन्ति| द्रव्यनिःक्षेपक्रमः पूर्ववत्| अयमपि बस्तिः कफे कफरोगे च प्रयोज्यः||६४-६६||
वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः |
दशमूलबलामूर्वायवकोलनिशाच्छदैः ||६७||
कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसम्मितैः |
कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः ||६८||
पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः |
क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः ||६९||
तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम् |
गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम् ||७०||
वृषाश्मभेदेत्यादि| निशाच्छदः शटी षड्ग्रन्था वचा| वृषादिभूनिम्बान्तानि त्रयोविंशतिद्रव्याणि षोडशपलप्रमितानि अष्टाविंशत्यधिकशतपलमितं जलं दत्त्वा क्वाथयेत्, अतो द्वात्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे क्वाथस्याष्टौ पलानि, मदनादिवत्सकान्तदशद्रव्याणां कल्कस्य त्रीणि पलानि, क्षौद्रस्य त्रीणि पलानि, इक्षुक्षीरगोमूत्राणां प्रत्येकं सार्धपलं घृतस्य द्वे पले, तैलस्य द्वे, मांसस्यार्धपलम्| संसृष्टबहुरोगिणामित्यनेन संसर्गसन्निपातरोगप्रशमनत्वमुक्तं स्यात्| तत्र संसर्गो दोषद्वयसमुदायः, सन्निपातस्तु दोषत्रयसमुदायः| तत्र संसर्गे द्वयोरेकस्य प्रकर्षं प्रकल्प्य तदपेक्षया क्षौद्रस्नेहाद्यावापद्रव्याणि पूर्वोक्तन्यायेन स्वबुद्ध्या परिकल्प्य प्रयोज्यानि| यदा तु संसर्गस्तुल्यप्रकर्षो भवति तदा क्षौद्रादीनां गुणदोषान्निपुणबुद्ध्या [२६] विचार्योत्कर्षापकर्षतया मिश्रमानेन निक्षिप्य चतुर्विंशतिपलानि पूरणीयानि| एवं दोषत्रयसंयोगेऽपि क्षौद्रादिद्रव्याणामुत्कर्षापकर्षः परिकल्पनीयः||६७-७०||
रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः |
त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः ||७१||
सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः |
यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्रयवाह्वयैः ||७२||
रसाञ्जनरसक्षौद्रद्राक्षासौवीरसंयुतैः |
युक्तो बस्तिः सुखोष्णोऽयं मांसशुक्रबलौजसाम् ||७३||
आयुषोऽग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान् |
गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ||७४||
विषमज्वरमर्शांसि [२७] ग्रहणीं वातकुण्डलीम् |
जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान् ||७५||
वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः |
रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ||७६||
रास्नारग्वधेत्यादि| सबलैः बलासहितैः| रसो मांसरसः| रास्नादिबलान्तषोडशद्रव्याणि पलप्रमितानि अष्टगुणं जलं दत्त्वा क्वाथयेत्, ततो द्वात्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे क्वाथस्य पलाष्टकं, मदनादीन्द्रयवान्तानां षण्णां द्रव्याणां कल्कस्य त्रीणि पलानि, स्नेहस्य निरूहणाङ्गत्वादनुक्तोऽप्यत्र षट्पलप्रमाणो निक्षेपणीयः| तथाच हारीतः- “स्नेहो गुडो मांसरसः पयांसि साम्लानि मूत्रं मधु सैन्धवं च| एते निरूहे विदुषा प्रयोज्याः क्वाथश्च कल्को मदनात् फलं च [२८] ”- इति| मधुनस्त्रीणि पलानि, रसाञ्जनमांसरसक्षीरसौवीराणां प्रत्येकमेकपलमित्येवं चतुर्विंशतिपलानि भवन्ति| एष बस्तिः स्वस्थातुरविषयः सर्वरोगहरश्च||७१- ७६||
वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः |
साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ||७७||
तत्र बस्तिदानमातुरविषयमाश्रित्य कथितमेव स्वस्थं प्रति पुनः सङ्क्षेपतो वातादिविषयान् बस्तीन्निर्दिशन्नाह- वातघ्नौषधनिष्क्वाथा इत्यादि| एतच्च बस्तय इत्यस्य विशेषणमत एव बहुवचनम्| तत्र वातघ्नौषधानां भद्रदार्वादीनां षोडशपलप्रमितानामष्टगुणजले क्वथितानां चतुर्भागावशेषेण क्वाथस्य द्वात्रिंशत्पलानि, अत एकपुटकस्यार्थे क्वाथपलाष्टकं, सैन्धवस्य टङ्कत्रयं, वातव्याधावुक्तस्य त्रैवृतस्य स्नेहस्य षट्पलानि, क्षीराण्यम्लानि मूत्राणीत्यादिवर्गमध्ये यानि वातहरद्रव्याणि तेषां गुडसहितस्य कल्कस्य पलत्रयं, निरूहाङ्गत्वान्मधुनः पलत्रयम्, अनुक्तान्यप्यावापद्रव्याणि वातहराणि प्रयोज्यान्यतो मांसरसस्यैकं पलं, तथा क्षीरस्य काञ्जिकस्य सटङ्काधिकं पलमेवं चतुर्विंशतिपलानि भवन्ति| बस्तय इति त्रिपुटचतुःपुटापेक्षं बहुवचनम्| एवं वक्ष्यमाणयोगेष्वपि वाच्यम्||७७||
न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः |
विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ||७८||
न्यग्रोधादिगणक्वाथा इत्यादि| न्यग्रोधादीनां षोडशपलप्रमितानां क्वाथः पूर्ववत्, अत एकपुटकस्यार्थे क्वाथपलाष्टकं, काकोल्यादेः कल्कीकृतस्य पलद्वयं, घृतस्य चत्वारि पलानि, शर्करायाः पलम्, एतेन काकोल्यादिपलद्वयेन शर्करायाः पलसहितेन कल्कपलत्रयं, निरूहाङ्गत्वादनुक्तस्यापि सैन्धवस्याक्षं, तथा मधुनोऽपि चत्वारि पलानि, ‘क्षीराण्यम्लानि मूत्राणि’ इत्यादिवर्गमध्ये यानि पित्तहरद्रव्याणि तान्यपि प्रक्षेपणीयानि, तेनेक्षुरसस्य पलं, क्षीरस्य पादोनं पलचतुष्टयमित्येवं चतुर्विंशतिपलानि भवन्ति||७८||
आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः |
सक्षौद्रमूत्रा देयाः स्युर्बस्तयः कुपिते कफे ||७९||
आरग्वधेत्यादि| आरग्वधादीनां षोडशपलप्रमितानां क्वाथः पूर्ववत्, अत एकपुटकस्यार्थे क्वाथपलाष्टकं, पिप्पल्यादिकल्कस्य पलत्रयं, मधुनः षट्पलानि, अनुक्तस्यापि सैन्धवस्य टङ्कत्रयं, तथा कटुतैलस्य त्रीणि पलानि, मूत्रस्य सप्तटङ्काधिकानि त्रीणि पलानि, इत्येवं चतुर्विंशतिपलानि भवन्ति||७९||
शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः |
क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः ||८०||
शर्करेक्षुरसक्षीरेत्यादि| क्षीरवृक्षकषायेणाढ्याः स्फीताः प्रधाना इत्यर्थः| क्षीरवृक्षाणां न्यग्रोधादीनां षोडशपलप्रमितानां क्वाथः पूर्ववत्, अनुक्तमपि सैन्धवं पूर्ववत्, क्षीरादिवर्गमध्ये कथितशोणितहरद्रव्याणां कल्कस्य पलद्वयम्, अनुक्तस्यापि मधुनश्चत्वारि पलानि तथा च घृतस्य, शर्करायाः पलं तथेक्षुरसस्य, क्षीरस्य टङ्कसप्ताधिकं पलत्रितयमानमित्येवं चतुर्विंशतिपलानि भवन्ति| तदेव पित्तं तदेव रक्तमिति मनसि पर्यालोच्य पित्तमानेनायमपि बस्तिः कल्पितः||८०||
शोधनद्रव्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः |
युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः ||८१||
शोधनद्रव्येत्यादि| शोधनद्रव्याणां वमनविरेचनपठितानां क्वाथः पूर्ववत्, सैन्धवं च, तेषामेव शोधनद्रव्याणां कल्कस्य पलद्वयं, स्नेहस्य षट्पलानि, अनुक्तस्यापि मधुनश्चत्वारि पलानि, क्षीरस्यैकं पलं, मूत्रस्य सार्धपलं, तथा काञ्जिकस्यापि, इत्येवं चतुर्विंशतिपलानि भवन्ति| ‘बस्तयः शोधनाः स्मृता’ इति सामान्यवाक्यत्वात् सामान्यबस्तिपरिभाषामानेनायं बस्तिः परिकल्पितः, तथा वक्ष्यमाणा अपि कल्पनीयाः, वातादिविशेषं च वीक्ष्य विशेषमानेन च प्रयोज्याः||८१||
त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः |
ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः ||८२||
त्रिफलाक्वाथेत्यादि| त्रिफलाक्वाथः पूर्ववत्, गोमूत्रस्य च पलत्रयं, निरूहणाङ्गत्वादनुक्तस्यापि सैन्धवस्याक्षं, क्षौद्रस्य चत्वारि पलानि, यवक्षारस्य कर्षत्रयं, तथा निरूहणाङ्गत्वात् स्नेहः प्राप्तस्ततो लेखनीयस्य कटुतैलस्य षट्पलानि, ऊषकादिद्रव्याणां पलद्वयमित्येवं चतुर्विंशतिः||८२||
बृंहणद्रव्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः |
सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः ||८३||
बृंहणेत्यादि| बृंहणद्रव्याणां विदारीगन्धादीनां क्वाथः पूर्ववत्, कल्कैरित्यादिना काकोल्यादीनां कल्कपलद्वयं, मधुनः पूर्ववत्, घृतस्य षट्पलानि, सैन्धवं पूर्ववत्, मांसरसस्य सप्तटङ्काधिकं पलत्रयमित्येवं चतुर्विंशतिपलानि||८३||
चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः |
आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ||८४||
चटकेत्यादि| चटका ग्रामचटकाः तेषामण्डानि, उच्चटा घुर्घुराख्यः शणघण्टकारफलोऽल्पो विटपः सरयूपकण्ठे हिमवति वारेन्द्य्रां च प्रायश उपलभ्यते, चटकाण्डोच्चटानां षोडशपलप्रमितानां क्वाथः पूर्ववत्, अत एकपुटकस्यार्थे पलाष्टकं, क्षीरस्य पलचतुष्टयं, मधुघृते पूर्ववत्, शर्कराया एकं पलं तथा कपिकच्छूफलानां, मध्ये सैन्धवं चाल्पतरं प्रयोज्यं नैव वा ‘शुक्रार्थेषु न तैलगुडसैन्धवम्’ इति वचनात्; इत्येवं चतुर्विंशतिः| गयी तु चटकाण्डद्रवोच्चटाक्वाथौ येषु इति व्याख्याति| तेन उच्चटायां एव क्वाथं मन्यते| चटकाण्डद्रवं तु स्वरूपेणैव गृह्णाति||८४||
बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः |
क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसञ्ज्ञिताः ||८५||
वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम् |
सद्यस्कमसृगाजं [२९] वा देयं पिच्छिलबस्तिषु ||८६||
बदर्यैरावतीत्यादि| ऐरावती नागबला, शेलुः श्लेष्मातकः, धन्वनो धनुर्वृक्षः यस्य ‘धामन’ इति लोके प्रसिद्धिः, अङ्कुरा अग्रपल्लवाः| सास्राः सरुधिराः| बदर्याद्यङ्कुरान् समुदायेन पलत्रयप्रमितान् चतुर्विंशतिपलप्रमितं दुग्धं दत्त्वा, चतुर्गुणं जलं निक्षिप्य क्वाथयेत्, ततः क्षीरशेषं चतुर्विंशतिपलानि ग्राह्याणि; तत्र सामान्यपरिभाषोक्तत्वान्मधुनश्चत्वारि पलान्यावाप्य, द्रवत्वाद्रुधिरस्य चत्वारि पलानीति; एवं पिच्छाबस्तेर्द्वात्रिंशत्पलानि भवन्ति| तथा चोक्तम्- “पिच्छाबस्तेर्भवेत् प्रस्थः पादोनः कीर्तितोऽपरः| चतुर्विंशतिमुष्टिश्च निरूहः समुदाहृतः”- इति| एवमपरेष्वपि पुटकेषु पिच्छाबस्तिमानं कल्पनीयम्| सास्रा इति यदुक्तं तत् कस्यास्रमित्याह- वाराहेत्यादि| उरभ्रो मेषः, एणस्येदम् ऐणेयम्, एणः कृष्णसार इति जेज्जटाचार्यः, ब्रह्मदेवस्तु एण्या इदमैणेयं, न पुनरेणस्येदं ऐणम्| सद्योजातं सद्यस्कं तत्कालीनं जीववतामेव ग्राह्यं, जीवानुसन्धानार्थम्||८५-८६||
प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः |
सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ||८७||
प्रियङ्ग्वादिगणक्वाथा इत्यादि| प्रियङ्ग्वादिगणस्य षोडशपलप्रमितानि द्रव्याणि अष्टगुणं जलं दत्त्वा क्वाथयेत्, अतो द्वात्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे क्वाथस्याष्टौ पलानि, अम्बष्ठाद्येमेति अम्बष्ठाद्योऽत्र कल्करूपः प्रयोज्यः, तथा च वृद्धवाग्भटः,- “ग्राही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः क्रमेण”- इति| अतोऽम्बष्ठादिसङ्ग्राहकद्रव्याणां कल्कस्य त्रीणि पलानि, मधुनश्चत्वारि, सङ्ग्राहकद्रव्यसिद्धघृतस्य षट्पलानि, अनुक्तो यद्यपीहावापस्तथाऽपि सङ्ग्राहकत्वात्तक्रस्य त्रीणि पलान्येवं चतुर्विंशतिः||८७||
एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक् |
समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ||८८||
ननु य एते निरूहयोगास्तेषु स्नेहाः केनौषधेन सिद्धा विधेया इत्याह- एतेष्वेव योगेष्वित्यादि| एतेषु पूर्वोक्तेषु गणेषु| स्नेहाः सर्पिरादयः, अथवा रोगापेक्षया||८८||
वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम् |
बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च ||८९||
यथाक्रमशोधितानां यैः स्नेहैः स्नेहबस्तयो देयास्तानाह- वन्ध्यानां शतपाकेनेत्यादि| यथाक्रमं स्नेहस्वेदवमनविरेचनास्थापनशिरोविरेचनैः शोधितानां वन्ध्यानां नारीणां बलातैलेन शतपाकेन त्रैवृतेन वा बस्तयो देयाः स्युः भवेयुः| तदेषु शतपाकमुत्पादितं वातव्याधौ, बलातैलं मूढगर्भचिकित्सिते, त्रैवृतं महावातव्याधौ| तत्र त्रिभिः स्नेहैर्घृततैलवसाख्यैः वृतं निर्मितं त्रिवृतं, त्रिवृतमेव त्रैवृतं, स्वार्थिकोऽण्| तच्च वरणं घृतादीनामन्योन्यस्येत्यर्थाद्गम्यते| जेज्जटादयस्तु [३०] त्रिभिस्तैलवसामज्जाभिर्वृतं त्रिवृतं महास्नेहाख्यमिति प्रतिपादयन्ति||८९||
नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत् |
मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ||९०||
सत्त्वभेदेन बस्तित्रैविध्यं प्रतिपादयन्नाह- नरस्येत्यादि| विपरीतस्य हीनसत्त्वस्येत्यर्थः||९०||
एवं कालं बलं दोषं विकारं च विकारवित् |
बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ||९१||
एवं कालमित्यादि| काले शीतेषु तीक्ष्णः, उष्णेषु मृदुः, वसन्तशरदोः साधारणः, शीतोष्णयोर्मध्यः; एवं बले शक्त्युपचयलक्षाणे श्रेष्ठे तीक्ष्णः, मध्ये मध्यः, कनिष्ठे मृदुः; कफवाते दोषे तीक्ष्णः, पित्तरक्ते मृदुः, कफपित्ते मध्यः; एवं विकारेऽपि; चकारस्यानुक्तसमुच्चयार्थत्वात् क्रूरमध्यमृदुकोष्ठेष्वपि बोद्धव्यम्||९१||
दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः |
पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः ||९२||
इदानीमुत्क्लेशनादिना बस्तिं त्रिधा भिन्दन् तेषां भेदानां कालविशेषे प्रदानमाह- दद्यादित्यादि| तत्रानुत्क्लिष्टदोषस्य आदावुत्क्लेशनं, मध्ये दोषहरं, ततः पश्चाद्दोषशेषस्य संशमनाय संशमनमिति| उत्क्लिष्टदोषस्य दोषहरणसंशमने एव कर्तव्ये| दोषहरस्य बस्तेः प्रथमपुटकदानेन सम्यग्दोषानिर्हरणे द्वितीयं तृतीयं वा पुटकं दद्यात्, एवमुत्क्लेशनसंशमनयोरपि वेद्यम्| उत्क्लिष्टादिज्ञानं तु दोषाणां प्रकोपादिलक्षणेन [३१] ||९२||
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा |
हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ||९३||
शताह्वा मधुकं बीजं कौटजं फलमेव च |
सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ||९४||
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम् |
सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ||९५||
अन्ये तु वृद्धसुश्रुताध्यायिन उत्क्लेशनाद्यर्थमौषधान्यत्र पठन्ति- एरण्डबीजमित्यादि| एतानि एरण्डबीजेत्यादिश्लोकत्रयेण पठितान्यौषधानि उत्क्लेशनाद्यर्थं कल्कावापरूपतया, वातादिबस्त्युक्तकल्कावापेषु कुशाग्रबुद्धिना दोषं मानं च विमृश्य अनुचितपरित्यागोचितस्वीकारेण समवेतानि कार्याणि यथा मात्राधिको मिथ्यामात्रायुक्तश्च बस्तिर्न भवतीति जेज्जटाचार्यः| गयी तु दद्यादित्यादिकं यापनबस्तिविषयं मन्यते| तेषां तु द्विविधं प्रयोजनं- स्वस्थस्य वाजीकरत्वं रसायनहेतुत्वं चेत्येकम्, अपरं च धातुगतदोषहरणं; तत्र धातुगतदोषाणामुत्क्लेशनाभावात् तदुत्क्लेशनाद्यर्थम्मिदमुक्तमित्यर्थः| एते चोत्क्लेशनाद्यर्थमेरण्डबीजेत्यादिश्लोकत्रयेण कल्कावापा यथाक्रममुक्ताः| अन्ये तु हीनसत्त्वबलकालद्रव्यविकारेषु कोष्ठविशेषे च मृदवो बस्तयो देयाः, तैश्चाप्युत्क्लेशने दोषाणां हरणं, शेषस्य तु दोषस्य संशमनमित्याहुः||९३-९५||
नृपाणां तत्समानानां तथा सुमहतामपि |
नारीणां सुकुमाराणां शिशुस्थविरयोरपि ||९६||
दोषनिर्हरणार्थाय बलवर्णोदयाय च |
समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ||९७||
यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते |
फलं च विपुलं दृष्टं व्यापदां चाप्यसम्भवः ||९८||
योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता |
यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ||९९||
अथ [३२] के ते मृदवो बस्तय इति पृष्टो विषयनिर्देशपूर्वं तानेव निर्दिशन्नाह- नृपाणामित्यादि| तत्समानां राजतुल्यपुरुषाणां वाणिज्यव्यवहारिणां वार्धुषिकाणाम्| शिशुस्थविरयोः बालवृद्धयोः| दोषनिर्हरणार्थाय स्वस्थेऽपि कालैककृतदोषनिर्हरणार्थाय, बलवर्णोदयाय च अपेतसकलदोषस्येत्यर्थः| नियमो निषेधः| अत्र माधुतैलिकविधाने| यदेच्छतीति यदा यस्मिन् काले आतुर इच्छति तदा तस्मिन् काले विपश्चिता वैद्येन एष बस्तिः प्रयोक्तव्यः, एतेन सार्वकालिकत्वमुक्तं भवति||९६-९९||
मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः |
पलार्धं शतपुष्पायास्ततोऽर्धं सैन्धवस्य च ||१००||
फलेनैकेन संयुक्तः खजेन च विलोडितः |
देयः सुखोष्णो भिषजा माधुतैलिकसञ्ज्ञितः ||१०१||
मधुतैले समे स्यातामित्यादि| पादहीनाः सर्वे एव माधुतैलिकाः, ततश्च तथा कल्पनीया यथा नव प्रसृता भवन्ति; मधुतैलयोः प्रसृताश्चत्वारो द्विकर्षाधिकाः, एरण्डमूलकषायस्य तावन्त एव, शतपुष्पाऽर्धपलं, सैन्धवस्य कर्षं, मदनफलं चैकमित्येवं नवप्रसृता भवन्ति| अनया कल्पनया सर्व एव माधुतैलिकाः कल्पनीया इति जेज्जटाचार्यः| गयी तु ‘पलेनैकेन संयुक्तः’ इति पठित्वा मृदुनाऽनुक्तेना मांसरसकाञ्जिकादिना पूरणं करोति| एवमपरेषु चतुर्षु नव प्रसृताः पूरणीया इत्याह||१००-१०१||
वचामधुकतैलं च क्वाथः सरससैन्धवः |
पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः ||१०२||
वचामधुकेत्यादि| वचासैन्धवपिप्पलीमदनफलानां प्रत्येकं कार्षिका भागाः, मधुतैलयोश्चत्वारः प्रसृताः कर्षद्वयाधिकाः, एरण्डमूलक्वाथस्तावन्मात्र एव; इति युक्तरथाभिधानो माधुतैलिकः||१०२||
सुरदारु वरा रास्ना शतपुष्पा वचा मधु |
हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः ||१०३||
सुरदार्वित्यादि| सुरदारुवरारास्नाशतपुष्पावचाहिङ्गुसैन्धवानां तुल्यमानेनैकं पलं, मधुतैलयोः कर्षद्वयाधिकान्यष्टौ पलानि, एरण्डमूलक्वाथस्तावन्मात्र एव| एवं दोषहराभिधानो माधुतैलिकः; केचिदत्र हिङ्गुस्थाने बिडं पठन्ति||१०३||
पञ्चमूलीकषायं च तैलं मागधिका मधु |
बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः ||१०४||
पञ्चमूलीकषायमित्यादि| पञ्चमूलीकषायस्य कर्षद्वयाधिकानि अष्टौ पलानि, मधुतैले अपि तावन्मात्रे एव, मागधिकाशताह्वासैन्धवानामेकं पलम्| अयं च पाञ्चमूलिको माधुतैलिकः||१०४||
यवकोलकुलत्थानां क्वाथो मागधिका मधु |
ससैन्धवः सयष्ट्याह्वः सिद्धबस्तिरिति स्मृतः ||१०५||
यवकोलकुलत्थानां पूर्ववत् क्वाथः, मधुतैलेऽपि पूर्ववत्, मागधिकासैन्धवयष्ट्याह्वानामेकं पलम्| सिद्धबस्त्यभिधानोऽयं माधुतैलिकः| पञ्चाप्येते माधुतैलिका उक्ताः||१०५||
मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः |
मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान् ||१०६||
पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम् |
जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् ||१०७||
क्षीरार्धाढकसंयुक्तमाक्षीरात् [३३] सुपरिस्रुतम् |
पादेन जाङ्गलरसस्तथा मधुघृतं समम् ||१०८||
शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः |
कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः ||१०९||
वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत् |
विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ||११०||
बल्यः सञ्जीवनो वृष्यश्चक्षुष्यः शूलनाशनः |
यापनानामयं राजा बस्तिर्मुस्तादिको मतः ||१११||
माधुतैलिकस्याग्रतो गयदासाचार्यमते मुस्तादिस्थापनबस्तिर्नास्ति, जेज्जटाचार्यस्तु मुस्तादिस्थापनबस्तिं पठति व्याख्यानयति च, तद्व्याख्यानाभिप्रायेण मयाऽप्यसौ व्याख्यायते- मुस्तापाठेत्यादि| मुस्तादीनि पञ्चमूलाल्पसहितान्यष्टादशपलानि, ततो मदनस्याष्टाभिः फलैर्द्विपलमित्येवं विंशतिपलप्रमितानि जलाढकेऽष्टाविंशत्यधिकशतपलप्रमिते पचेत्, ततो द्वात्रिंशत्पलप्रमितः क्वाथोऽवशिष्टो भवति, ततस्तं क्वाथं पादशेषं क्षीरार्धाढकसंयुक्तं दुग्धस्य चतुःषष्टिपलोपेतं पुनः पचेत्तावद्यावत् क्षीरावशेषं प्रस्थद्वयं चतुःषष्टिपलानि भवति, पादेन प्रस्थस्याष्टौ पलानि मांसरसस्य, एवं द्वासप्ततिपलानि भवन्ति| अतो मध्यादेकस्य पुटस्यार्थे चतुर्विंशतिपलानि ग्राह्याणि; तत्र मधुनः प्रसृतः सार्धः, घृतस्य तावदित्येवं षट्पलानि क्षिप्यन्ते, शताह्वादीनां षड्द्रव्याणां कर्षप्रमितानां कल्कस्य सार्धं पलं, निरूहाङ्गत्वान्मदनफलस्यार्धपलमेवं कल्कस्य प्रसृतो भवतीत्येकस्मिन् पुटके द्वात्रिंशत्पलप्रमितप्रस्थो भवति; एवमपरमपि पुटकद्वयं करणीयं, एवं पुटकत्रयस्यार्थे षण्णवतिपलानि भवन्ति| इदं मुस्तादियापनबस्तिमानं जेज्जटाचार्येण तन्त्रान्तरोक्तमध्यमानेन कल्पितं| तथा च पराशरः- “निरूहस्य प्रमाणं तु प्रस्थं पादोत्तरं स्मृतम्| मध्यमं प्रस्थमुद्दिष्टं हीनं च कुडवास्त्रयः”- इति| गूढपदभङ्गटिप्पणकारेण पुनरन्यथा व्याख्यातम्| तथाहि- “मुस्तादिद्रव्याणां पालिकान् भागान् द्रवत्वाद्द्विगुणया कल्पनया जलस्याढके अष्टाविंशत्यधिके पलशते पक्त्वा पादशेषं द्वात्रिंशत्पलप्रमाणं क्षीरार्धाढकसंयुक्तं पुनः पचेद्यावत्क्षीरशेषं चतुःषष्टिपलानि भवन्ति| ततश्च सपादप्रस्थे जाङ्गलरसस्य पञ्च पलानि, मधुघृतं पृथक् सार्धद्विपलसम्मितं, शताह्वादिककल्कस्य मदनफलाष्टकेन युक्तं पलद्वयं प्रक्षिप्यैकध्यं षट्सप्तत्या पलैः पुटकत्रयं देयम्||१०३-१११||
अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित् |
बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि ||११२||
अवेक्ष्य भेषजमित्यादि| तत्र भेषजं व्रणज्वरादिहरं, विकारं च व्रणज्वरादिकं वातापित्तकफसंसर्गसन्निपातजं शोणितजं च| चकारेणानुक्तं कालबलादि समुच्चीयते| ‘वातघ्नौषधनिष्क्वाथा’ इत्यादिषु बस्तिषूक्तेन बीजेनेत्यर्थः||११२||
अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयत् |
आहाराचारिकं शेषमन्यत् [३४] कामं समाचरेत् ||११३||
अजीर्णे नेत्यादि| अन्यच्छेषमाहाराचाराश्रितं कर्म कामं यथेष्टं समाचरेत्||११३||
यस्मान्मधु च तैलं च प्राधान्येन [३५] प्रदीयते |
माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ||११४||
रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते |
यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ||११५||
बलोपचयवर्णानां यस्माद् व्याधिशतस्य च |
भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ||११६||
सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः |
मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः ||११७||
विशेषसञ्ज्ञया माधुतैलिकानाह- यस्मान्मधु च तैलमित्यादि||११४-११७||
मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात् |
एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ||११८||
कस्मादेते नियन्त्रणास्तदाह- मृदुत्वादित्यादि| मृदुवीर्यैरौषधैः कल्पितो मृदुः| पादहीनत्वादिति पादेन हीनः पादाभ्यां वा हिनः, ततश्च पादहीना नव प्रसृता भवन्ति, पादाभ्यां हीनाः षट्प्रसृता भवन्ति| अकृत्स्नविधिसेवनादिति वमनादिसंस्कारवर्जनात्| एकबस्तिप्रदानाच्चेति एकपुटकप्रदानात्; ‘एकाहं प्रणिधानाच्च’ इति केचित् पठन्ति, एकाहमेव प्रणिधानं बस्तिदानमित्यर्थः| परं कालैककृते दोषकोपे कदाचित् सम्यङ्निरूढलक्षणमवेक्ष्य द्वित्र्यादिबस्तिदानमपीति पाठविशेषाद्विशिष्टोऽर्थः; अतो ‘नैकाहप्रणिधानात्’ इत्यपरे पठन्ति; तत्र शोधननिरूहवदेकाहमेव प्रणिधानं नास्त्येव; किं तर्हि साधारणत्वात् समधातुषु वाजीकरणादावसकृद्दानमपीति||११८||
इति सुश्रुतसंहितायां चिकित्सास्थाने निरूहक्रमचिकित्सितं नामाष्टत्रिंशोऽध्यायः ||३८||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थानेऽष्टत्रिंशत्तमोऽध्यायः||३८||
१. ‘अनुक्तं विधानं’ इति पा.|
२. ‘अर्धास्यं विवृतं कृत्वा’ इति पा.|
३. ‘औषधान्तमुपसङ्गृह्य’ इति पा.|
४. ‘पीडनकालादुपेक्ष्यातुरमुपवेशयेत्’ इति पा.|
५. ‘उत्कटकं’ इति ‘उत्कटिकं’ इति च पा.|
६. ‘अनुच्छीर्षकायां’ इति पा.|
७. ‘व्यक्तक्षाराम्लोष्णलवणैः’ इति पा.|
८. ‘… रत्यल्पवेगो’ इति पा.|
९. ‘मूर्च्छागुदभ्रंशकफातियोगादीनि’ इति पा.|
१०. ‘सुनिरूढं ततः स्नातं यथास्वं प्रतिभोजयेत्’ इति पा.|
११. ‘… रोगावस्थस्याक्रमेणापि’ इति पा.|
१२. ‘चत्वारः स्नेहभागस्तु पञ्चमः’ इति पा.|
१३. अस्याग्रे ‘क्वाथोऽष्टादशपलानि, एवं पित्तकफयोरपि’ इत्यधिकं पठ्यते क्वचित्पुस्तके|
१४. ‘बस्तिस्तु कल्पितः सम्यक् तस्यादानं यथार्थकृत’ इति पा.| ‘आदानम् उपयोगः’, इति हाराणचन्द्रः|
१५. ‘मथ्नीयादनुस्नेहं’ इति पा.|
१६. ‘द्वादशप्रसृतिबस्तिं’ इति पा.|
१७. ‘पलद्वयत्यागं’ इति पा.|
१८. ‘कृत्वा क्वाथं गृह्णीयात् इति पा.|
१९. ‘चतुष्पलप्रयोजनपरोऽयं’ इति पा.|
२०. ‘निक्षिप्यमाणेऽल्पं क्षौद्रमित्युक्तत्वात्’ इति पा.|
२१. ‘प्रियङ्ग्वञ्जनसैन्धवैः’ इति पा.|
२२. ‘मृदोर्मांसस्य’ इति पा.|
२३. ‘तेजः त्वक्स्था दीप्तिः’ इति पा.|
२४. ‘बलामदनसर्षपैः’ इति पा.|
२५. ‘तथा तैलमधुनी’ इति पा.|
२६. ‘क्षौद्रादीनि गुणदोषतया निपुणबुध्द्या’ इति पा.|
२७. ‘विषमज्वरशूलार्शोग्रहणीवातकुण्डलान्’ इति पा.|
२८. ‘एतान्यनुक्तान्यपि दापयेत युक्त्या निरूहे मदनात्फलं च’ इति पा.|
२९. ‘सद्यस्कमुसृगण्डं वा’ इति पा.|
३०. ‘जेज्जट रूपायतौ’ इति पा.|
३१. ‘प्रवृत्त्युन्मुखत्वादिलक्षणेन’ इति पा.|
३२. ‘आतुरविषयान्निर्दिश्य स्वस्थविषयं निर्दिशन्नाह’ इति पा.|
३३. ‘क्षीरप्रस्थेन संयुक्तं क्षीरशेषं परिस्रुतम्’ इति पा.|
३४. ‘शेषमन्यद्युक्तं’ इति पा.|
३५. ‘प्राधान्येनात्र वर्तते’ इति पा.|
Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
cikitsāsthānam - 38. nirūhakramacikitsitam
athātō nirūhakramacikitsitaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
nirūhasya kramō nirūhakramaḥ anukramavidhānaṁ [1] , sa ēva cikitsitaṁ vyādhipratīkāraḥ| nirūhōpakramacikitsitamiti kēcit paṭhanti, tanmatē’pi nirūhōpakramō nirūhārambhaḥ, sa ēva cikitsitamiti vyākhyānam||1-2||
athānuvāsitamāsthāpayēt; svabhyaktasvinnaśarīramutsr̥ṣṭabahirvēgamavātē śucau vēśmani madhyāhnē pratatāyāṁ śayyāyāmadhaḥsuparigrahāyāṁ śrōṇipradēśaprativyūḍhāyāmanupadhānāyāṁ vāmapārśvaśāyinamākuñcitadakṣiṇasakthimitaraprasāritasakthiṁ sumanasaṁ jīrṇānnaṁ vāgyataṁ suniṣaṇṇadēhaṁ viditvā, tatō vāmapādasyōpari nētraṁ kr̥tvētarapādāṅguṣṭhāṅgulibhyāṁ karṇikāmupari niṣpīḍya, savyapāṇikaniṣṭhikānāmikābhyāṁ bastērmukhārdhaṁ saṅkōcya, madhyamāpradēśinyaṅguṣṭhairardhaṁ [2] tu vivr̥tāsyaṁ kr̥tvā, bastāvauṣadhaṁ prakṣipya, dakṣiṇahastāṅguṣṭhēna pradēśinīmadhyamābhyāṁ cānusiktamanāyatamabudbudamasaṅkucitamavātamauṣadhāsannamupasaṅgr̥hya [3] , punarupari taditarēṇa gr̥hītvā dakṣiṇēnāvasiñcēt, tataḥ sūtrēṇaivauṣadhāntē dvistrirvā”vēṣṭya badhnīyāt, atha dakṣiṇēnōttānēna pāṇinā bastiṁ gr̥hītvā vāmahastamadhyamāṅgulipradēśinībhyāṁ nētramupasaṅgr̥hyāṅguṣṭhēna nētradvāraṁ pidhāya, ghr̥tābhyaktāgranētraṁ ghr̥tāktamupādāya prayacchēdanupr̥ṣṭhavaṁśaṁ samamunmukhamākarṇikaṁ nētraṁ praṇidhatsvēti brūyāt ||3||
bastiṁ savyē karē kr̥tvā dakṣiṇēnāvapīḍayēt |
ēkēnaivāvapīḍēna na drutaṁ na vilambitam ||4||
tatō nētramapanīya triṁśanmātrāḥ pīḍanakālādupēkṣyōttiṣṭhētyāturaṁ [4] brūyāt |
athāturamupavēśayēdutkuṭukaṁ [5] bastyāgamanārtham |
nirūhapratyāgamanakālastu muhūrtō bhavati ||5||
anēna vidhinā bastiṁ dadyādbastiviśāradaḥ |
dvitīyaṁ vā tr̥tīyaṁ vā caturthaṁ vā yathārthataḥ ||6||
anukramapraṇayanasambandhaṁ darśayannāha- athānuvāsitamityādi| anuvāsitaṁ dattānuvāsanaṁ snigdhasrōtōmārgatayā sukhamēva dōṣanirharaṇārthamāsthāpayēt| nirūhasya praṇidhānavidhānamāha- svabhyaktamityādi| utsr̥ṣṭabahirvēgaṁ tyaktaviṇmūtrādikam| pratatāyāṁ śayyāyāṁ stabdhāyāṁ, vistīrṇāyāmiti kēcit| adhaḥsuparigr̥hītāyāṁ pādatalayōḥ śōbhanaprativāhakāyām| śrōṇipradēśavyūḍhāyāṁ kaṭipradēśaviśālāyāṁ, vyūḍhāyāṁ śōbhanōnnatāyāmiti kēcid vyākhyānayanti| anupadhānāyām anupaśīrṣakāyām [6] | suniṣaṇṇadēhaṁ śōbhanaṁ viśrāntaśarīram| savyapāṇiḥ vāmakaraḥ| auṣadhaṁ prakṣipya upasaṅgrahaṇēna kriyāviśēṣēṇa| anutsiktamūrdhvakṣaraṇarahitaṁ yathā bhavati tathā siktam| anāyatam anatidīrghaṁ (acirāt pravr̥ttam)| abudbudaṁ budbudarahitama| asaṅkucitaṁ vastusañcaraṇakṣamam| avātam auṣadhadānēna nissāritavātam| ēvaṁ dakṣiṇahastāṅguṣṭhēna pradēśinīmadhyamābhyāṁ cauṣadhāntamupasaṅgr̥hya punardakṣiṇahastōpagr̥hītōpari taditarēṇa vāmakarēṇa gr̥hītvā, dakṣiṇakarēṇaivauṣadhāntē sūtrēṇa dvistrirvā”vēṣṭya badhnīyāt| ākarṇikaṁ karṇikāṁ maryādīkr̥tya| nētraṁ praṇidhatsva pravēśayēti āturaṁ prati bhiṣag brūyāditi sambandhaḥ| nētrapraṇidhānamabhidhāya bastipīḍanavidhimāha- bastimityādi| triṁśanmātrā iti mātrāmānaṁ hi agnivēśēna vyākhyātam- “yāvatparyēti hastāgraṁ dakṣiṇaṁ jānumaṇḍalam| nimēṣōnmēṣakālō vā sā mātrā parikīrtitā”- iti| parāśarastu bastikarmaṇi mātrāsaṅkhyāmāha- “jānumaṇḍalamāvēṣṭya dattē dakṣiṇapāṇinā| kr̥ṣṭanētraśchaṭāśabdaśataṁ tiṣṭhēdavēgavān”- iti| tatra parāśarēṇa krūrakōṣṭhapuruṣamaṅgīkr̥tya mātrāśatamabhihitaṁ, śēṣayōrmadhyamr̥dukōṣṭhayōḥ saptatistriṁśadityanuktamapyūhanīyaṁ syādityēkē manyantē; yataḥ suśrutācāryēṇāpi mr̥dukōṣṭhapuruṣāpēkṣayā prōktastriṁśanmātrāpīḍanakālaḥ; athavā triṁśanmātrānantaraṁ vaidyēnōttiṣṭhētyuktē sati āturasyōtthānōpavēśanōtkuṭukabhavanādikālavilambēnaiva mātrāśataṁ pūrṇaṁ syāditi śāstrayōravirōdhaḥ| muhūrtaḥ ghaṭikādvayam| muhūrtādapravartamānaṁ śōdhananirūhairēva vyaktakṣārāmlalavaṇairharēt [7] | ēkatra vihitaṁ praṇidhānaṁ saṅkṣēpārthamanyatrāpi nirdiśannāha- anēnaivētyādi| caturthaṁ vā yathārthata iti arthasya prayōjanasyānatikramatō yathārthataḥ| ētaduktaṁ bhavati- yadā sunirūḍhaliṅgaprāptō bhavati tadā tatra nirharaṇīyābhāvānnirūhaṇamaprayōjanamiti na dēyam, asamyagdānēna krūrakōṣṭhatayā prabhūtadēyatvēna vā sunirūḍhamaprāptasya nirharaṇīyō dōṣō’stīti prayōjanamapēkṣya caturthamapi nirūhaṁ sunirūḍhaliṅgārthaṁ prayōjayēt| ‘caturthaṁ vā yathārhataḥ’ iti pāṭhē nirūhasādhyaprayōjanānurōdhāccaturthamapi puṭakaṁ prayōjayēdityarthaḥ||3-6||
samyaṅnirūḍhaliṅgē tu prāptē bastiṁ nivārayēt |7|
amumēvārthaṁ prakaṭayannāha- samyagityādi| kēcidraktamapyatra caturthaṁ śamanīyamastīti caturthaṁ bastidānamāhuḥ; aparē tu paścāddāhanirvāpaṇārthaṁ madhuraśītaiścaturthō’pi bastirdēya iti vadanti|7|-
viśēṣāt sukumārāṇāṁ hīna ēva kramō hitaḥ ||7||
api hīnakramaṁ kuryānna tu kuryādatikramam |8|
hīnayōgajātiyōgajayōrvyāpadōrmadhyē atiyōgajā vyāpanmahātyayaṁ karōtīti tatō bibhyadāha- api hīnētyādi||7||-
yasya syādbastiralpō’lpavēgō [8] hīnamalānilaḥ ||8||
durnirūḍhaḥ sa vijñēyō mūtrārtyarucijāḍyavān |9|
hīnanirūḍhalakṣaṇamāha- yasyētyādi| alpaḥ alpaguṇamātraḥ| alpavēgaḥ stōkavēgaḥ| mūtrārtiḥ mūtrapīḍā| alpaguṇamātrabastyupayōgōtklēśitamalāvarōdhēna jāḍyamapaṭutā||8||-
yānyēva prāṅmayōktāni liṅgānyativirēcitē ||9||
tānyēvātinirūḍhē’pi vijñēyāni vipaścitā |10|
atinirūḍhaliṅgamāha- yānītyādi| yānyēva prāguktāni śūlagudabhraṁśakaphātiyōgādīni [9] ||9||-
yasya kramēṇa gacchanti viṭpittakaphavāyavaḥ ||10||
lāghavaṁ cōpajāyēta sunirūḍhaṁ tamādiśēt |11|
samyaṅnirūḍhaliṅgamāha- yasyētyādi| viṭ malaḥ||10||-
sunirūḍhaṁ tatō jantuṁ snātavantaṁ tu bhōjayēt [10] ||11||
pittaślēṣmānilāviṣṭaṁ kṣīrayūṣarasaiḥ kramāt |
sarvaṁ vā jāṅgalarasairbhōjayēdavikāribhiḥ ||12||
tribhāgahīnamardhaṁ vā hīnamātramathāpi vā |
yathāgnidōṣaṁ mātrēyaṁ bhōjanasya vidhīyatē ||13||
anantaraṁ tatō yuñjyādyathāsvaṁ snēhabastinā |14|
sunirūḍhasya paścātkarma nirdiśannāha- sunirūḍhamityādi| kēcidatra nirūḍhaliṅgōtpādapuṭapratyāgamānantaraṁ pītanāgarakarṣatōyasyōdvartanasnānādikaṁ manyantē| taduktaṁ- “tataḥ pratyāgatē bastau vāryuṣṇaṁ nāgaraiḥ śr̥tam| pāyayēt kr̥taśaucaṁ ca snāpayēduṣṇavāriṇā- ” iti| kiyadbhōjanaṁ tadāha- tribhāgētyādi| hīnamātramathāpi vētyatra mātraśabdō’lpārthaḥ; tēna hīnamātramalpahīnam| tataḥ mātrāvadbhōjanānantaram| yathāsvaṁ yō ya ātmīyadōṣāpēkṣayā snēhabastistēna snēhabastinā yuñjyāt paraṁ sunirūḍhamēva puruṣaṁ natu durnirūḍhaṁ, tatra sadōṣatayā yathādōṣaṁ nirūhaṇamēva kāryam| na cātirūḍhaṁ, tatrātiviriktavadbhēṣajaṁ śītapariṣēkapicchābastyādikaṁ natu snēhabastiḥ; tathā ca vidēhaḥ- “atitīkṣṇairnirūḍhasya hr̥tadōṣasya sarvataḥ| kañcidēvānabhiprētaṁ mārgaṁ snēhō’nugacchati”- iti| gayadāsasta paribhāṣitaṁ ṣaṭpalapramāṇaṁ snēhabastimatra dēyaṁ na manyatē, kiñcānuvāsanākhyaṁ palatrayapramāṇaṁ snēhabastiṁ dēyaṁ manyatē| yatra tu snēhabastiḥ svatantraḥ, tatraiva ṣaṭpalapramāṇaḥ||11-13||-
viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ ||14||
āsthāpanasnēhabastyōḥ samyagdānē tu lakṣaṇam |15|
idānīṁ sānvāsanāsthāpanasya samyagdattasya lakṣaṇamāha- viviktatētyādi| viviktatā samyakpr̥thagavadhāraṇaṁ, manasa ēvēndriyārthēṣu samyagavadhāraṇasāmarthyaṁ, rasādidhātuvahasrōtasāmanāvr̥tatvaṁ vā viviktatā||14||-
tadahastasya pavanādbhayaṁ balavadiṣyatē ||15||
rasaudanastēna śastastadahaścānuvāsanam |16|
kutaḥ punarnirūhaśuddhasya mandāgnēstadaharēva māṁsarasabhōjanamanuvāsanayōjanaṁ cētyāha- tadaharityādi| nirūhaṇādviḍvātādipravr̥ttilakṣaṇēna dhātukṣayēṇa kupitānilasya balavadēva bhayamatastadaharēva rasaudanabhōjanaṁ, tacca nirūhaṇamandīkr̥tānalavadhabhayānmātrāvat; tathā pavanabhayāttadaharēva dvādaśaprasr̥tanirūhacaturthāṁśēna snēhēnānuvāsanam| gayadāsastu sunirūḍhasya tadahaḥ palatrayamēvānuvāsanaṁ; tathā tadahaścēti cakārō bhinnakramē, tēnānuvāsanaṁ cētyatra sambandhādanuktō’pi mātrābastiścātra samuccīyata iti manyatē; na ṣaṭpalapramāṇaṁ snēhabastiṁ, bhōjadarśanāditi||15||-
paścādagnibalaṁ matvā pavanasya ca cēṣṭitam ||16||
annōpastambhitē kōṣṭhē snēhabastirvidhīyatē |17|
nirūhaṇādanantaraṁ tr̥tīyacaturthādāvapi dinē bastidānamāha- paścādityādi| paścāt sānvāsanānnirūhaṇāt| agnibalaṁ dīptaṁ balaṁ vayaḥśaktyanurūpamupalabhya, pavanasya ca cēṣṭitaṁ matvēti sañcalanaśabdakarasphuraṇādikamavadhārya, annapānēnāvaṣṭabdhē kōṣṭhē snēhabastiruttamamātrārūpaḥ ṣaṭpalaḥ kriyatē| tathāca tantrāntaraṁ- ‘dvyahāttryahāccaturthē pañcamē vā dadyānnirūhādanuvāsanam’ iti||16||-
anāyāntaṁ muhūrtāttu nirūhaṁ śōdhanairharēt ||17||
tīkṣṇairnirūhairmatimān kṣāramūtrāmlasaṁyutaiḥ |18|
tataḥ paraṁ ghaṭikādvayādanāgacchatō nirūhasya nirharaṇōpāyaṁ darśayati- anāyāntamityādi| nirūhairmatimān harēditi sambandhaḥ| kathambhūtairnirūhairityāha- śōdhanaiḥ tīkṣṇaiḥ| kṣāramūtrāmlasaṁyutaiḥ kṣārō yavakṣāraḥ, mūtraṁ gōmūtram, amlaṁ kāñjikam||17||-
viguṇānilaviṣṭabdhaṁ ciraṁ tiṣṭhannirūhaṇam ||18||
śūlāratijvarānāhānmaraṇaṁ vā pravartayēt |19|
viguṇō viparītaḥ| aratirna kutracidavasthitiścētasaḥ||18||-
na tu bhuktavatō dēyamāsthāpanamiti sthitiḥ ||19||
visūcikāṁ vā janayēcchardiṁ vā’pi sudāruṇām |
kōpayēt sarvadōṣān vā tasmāddadyādabhōjinē ||20||
bhuktavataḥ kasmādāsthāpanaṁ niṣidhyatē tadāha- na tvityādi| na tu bhuktavata ityādinā ya āsthāpananiṣēdhō’bhihitastasya dr̥ḍhīkaraṇārthaṁ bhuktavatō visūcikādidōṣōdbhāvanayā’bhōjinē dānamāha- visūcikāṁ vētyādi||19-20||
jīrṇānnasyāśayē dōṣāḥ puṁsaḥ pravyaktimāgatāḥ |
niḥśēṣāḥ sukhamāyānti bhōjanēnāprapīḍitāḥ ||21||
navā”sthāpanavikṣiptamannamagniḥ pradhāvati |
tasmādāsthāpanaṁ dēyaṁ nirāhārāya jānatā ||22||
visūcikētyādidūṣaṇōdbhāvanadvārēṇābhōjinē dānamabhidhāya jīrṇānnasyētyādyuktaguṇadvārēṇāpyabhōjina ēva dānamāha- jīrṇānnasyētyādi| pravyaktiṁ spaṣṭatāṁ nirāvaraṇatāmityarthaḥ||21-22||
āvasthikaṁ kramaṁ cāpi buddhvā kāryaṁ nirūhaṇam |
malē’pakr̥ṣṭē dōṣāṇāṁ balavattvaṁ na vidyatē ||23||
tīvraśūlādhmānādirōgāvasthasyōpakramēṇāpi [11] nōrdhvaṁ śuddhyataḥ phalavartyādipraṇidhānapūrvakaṁ bhuktavatō’pi nirūhadānaṁ kartavyaṁ syādata āha- āvasthikamityādi||23||
kṣīrāṇyamlāni mūtrāṇi snēhāḥ kvāthā rasāstathā |
lavaṇāni phalaṁ kṣaudraṁ śatāhvā sarṣapaṁ vacā ||24||
ēlā trikaṭukaṁ rāsnā saralō dēvadāru ca |
rajanī madhukaṁ hiṅgu kuṣṭhaṁ saṁśōdhanāni ca ||25||
kaṭukā śarkarā mustamuśīraṁ candanaṁ śaṭī |
mañjiṣṭhā madanaṁ caṇḍā trāyamāṇā rasāñjanam ||26||
bilvamadhyaṁ yavānī ca phalinī śakrajā yavāḥ |
kākōlī kṣīrakākōlī jīvakarṣabhakāvubhau ||27||
tathā mēdā mahāmēdā r̥ddhirvr̥ddhirmadhūlikā |
nirūhēṣu yathālābhamēṣa vargō vidhīyatē ||28||
idānīṁ bastiyaugikāni dravyāṇyupadiśannāha- kṣīrāṇītyādi| phalaṁ triphalā| saralō vr̥kṣaviśēṣaḥ| saṁśōdhanāni trivr̥dādīni| madanaṁ madanaphalam| śakrajā yavā indrayavāḥ| madhūlikā tr̥ṇaviśēṣaḥ ‘markaṭikā’ iti lōkē||24-28||
svasthē kvāthasya catvārō bhāgāḥ snēhasya pañcamaḥ |
kruddhē’nilē caturthastu [12] ṣaṣṭhaḥ pittē kaphē’ṣṭamaḥ ||29||
sarvēṣu cāṣṭamō bhāgaḥ kalkānāṁ lavaṇaṁ punaḥ |
kṣaudraṁ mūtraṁ phalaṁ kṣīramamlaṁ māṁsarasaṁ tathā ||30||
yuktyā prakalpayēddhīmān nirūhē … |31|
samprati nirūhaṇēṣu kvāthādiṣu pratidōṣaṁ kiyatī kasya mātrētyāha- svastha ityādi| svasthē samavātapittakaphē puruṣē| dvādaśaprasr̥tasya nirūhasya kvāthasya catvārō bhāgāścatvāraḥ prasr̥tāḥ aṣṭau palāni| snēhasya pañcama iti caturviṁśatipalanirūhāpēkṣayā pādōnapañcapalāni| kruddhē’nilē caturtha iti caturthō bhāgaḥ ṣaṭpalānītyarthaḥ [13] | ṣaṣṭhaḥ pittē iti kruddhē pittē snēhasya ṣaṣṭhō bhāgaścatvāri palānītyarthaḥ| kaphē’ṣṭama iti kruddhē kaphē snēhasyāṣṭamō bhāgastrīṇi palānītyarthaḥ| kaṣāyasnēhau vibhajya kalkabhāgaṁ darśayannāha- sarvēṣviti| sarvēṣu vātapittaślēṣmasu kalkasyāṣṭamō bhāgastrīṇi palānītyarthaḥ| ‘sarvēṣu svasthāsvasthēṣu’ iti gayī| lavaṇaṁ punarityādi lavaṇādīni viśēṣapramāṇēnānuktānyapi yuktyā dāpayēt, yuktyā yōgēnētyarthaḥ| yathā yōgātiyōgau na bhavataḥ| nanu kaṣāyādivallavaṇādiṣu kutō mātrā nōktā? satyaṁ, lavaṇādīnāṁ dōṣabhēṣajayōḥ sāmānyaviśēṣēṇa guṇamavalōkya samyagyōgasādhanamēva mānam| tadyathā- vātē kṣaudraṁ mitaṁ, pittē nātibahu, bahu punaḥ kaphē iti| ēvamanyēṣvapi dravyēṣu jñēyam| niyatē punarmānē kvacidyōgaḥ kvacidayōga iti syāt| ētaduktaṁ bhavati- kaṣāyādinā niyatamānēna sahāniyatamānairlavaṇādibhiryuktyā dvādaśa prasr̥tāḥ pūraṇīyā iti| tatō lavaṇādīnāṁ mātrāṁ dōṣabhēṣajayōḥ sāmānyaviśēṣanyāyēna guṇamavalōkya samyak prakalpayēt| kvacidvātādiviṣayasātmyamanyathā paṭhyatē| tathāhi- “madhusnēhanakalkākhyakaṣāyāvāpataḥ kramāt| trīṇi ṣaḍ dvādaśa trīṇi palānyanilarōgiṇām| pittē catvāri catvāri dvē dvipañca catuṣṭayam| ṣaṭ trīṇi dvē daśa trīṇi kaphē cāpi nirūhaṇam”- iti pūrvācāryabhaṇitatvāddvayamapi mataṁ pramāṇam||29||
… kalpanā tviyam ||31||
kalkasnēhakaṣāyāṇāmavivēkādbhiṣagvaraiḥ |
bastēḥ [14] sukalpanā prōktā tasya dānaṁ yathārthakr̥t ||32||
nirūhāvayavayōgiṣu samyagyōgahētukamātrāṁ niyamya samudāyakalpanāmuddiśannāha- kalpanā tviyamiti| kā punariyamityāha kalkasnēhakaṣāyāṇāmityādi| avivēkāditi lyablōpē pañcamī; tēna kalkādīnāṁ vivēkābhāvamapr̥thagbhāvaṁ vīkṣya sukalpanā bhiṣagvaraiḥ prōktā| ētēna hastapradhāvanasīmantādikr̥nmithyāyuktaḥ| tathā cōktaṁ- “na dhāvatyauṣadhaṁ pāṇiṁ na tiṣṭhatyavalipya ca| na karōti ca sīmantaṁ sa nirūhaḥ suyōjitaḥ”- iti| tasya dānaṁ yathārthakr̥diti vātapittakaphaśōṇitaharaṇaśōdhanasaṅgrahaṇalēkhanabr̥ṁhaṇavājīkaraṇarasāyanādiyōgakr̥t||30-32||
dattvā”dau saindhavasyākṣaṁ madhunaḥ prasr̥tadvayam |
pātrē talēna mathnīyāttadvat snēhaṁ [15] śanaiḥ śanaiḥ ||33||
samyak sumathitē dadyāt phalakalkamataḥ param |
tatō yathōcitān kalkān bhāgaiḥ svaiḥ ślakṣṇapēṣitān ||34||
gambhīrē bhājanē’nyasminmathnīyāttaṁ khajēna ca |
yathā vā sādhu manyēta na sāndrō na tanuḥ samaḥ ||35||
rasakṣīrāmlamūtrāṇāṁ dōṣāvasthāmavēkṣya tu |
kaṣāyaprasr̥tān pañca supūtāṁstatra dāpayēt ||36||
bastidravyāṇi yēna kramēṇa yōjyantē tamāha- dattvētyādi| akṣaḥ karṣamityarthaḥ| madhunaḥ prasr̥tadvayaṁ catvāri palāni| talēna hastatalēna| tadvat snēhaṁ madhupramāṇam| śanaiḥ śanairalpamalpaṁ snēhaṁ dattvētyarthaḥ| śanaiḥ śanairityuttaratrāpi sambadhyatē| phalakalkamataḥ paraṁ ataḥ paramasmin sumathitē phalakalkaṁ madanaphalakalkam| tata ityādi tataḥ phalakalkādidānōttaram| kalkādīn yathōcitān vātādiṣūcitānatikramēṇa| bhāgaiḥ svairiti aṁśairātmīyaiḥ, yathā madanaphalēna saha sarvakalkadravyāṇāṁ palatrayaṁ bhavatyēvaṁ kalpitaiḥ| ślakṣṇapēṣitān sūkṣmapēṣitān sūkṣmapēṣitān kalkān dadyāditi sambandhaḥ| gambhīrē ityādi pūrvapātrādanyasmin gambhīrabhājanē khajēna mathnīyāt| khajō’tra pañcāṅgulō hastō manthānaśca| yathētyādi mathnītyāditrāpi sambandhanīyam| ētēna karēṇāpi mathnīyādityarthaḥ| rasētyādi rasādīnāṁ dōṣāvasthāmapēkṣya ‘mātrāmarpayēt’ iti śēṣaḥ| tantrāntarē nirūhayōjanā prōktā- “mākṣikaṁ lavaṇaṁ snēhaṁ kalkaṁ kvāthamiti kramāt| āvāpyāvāpya pātrē tanmathnīyādantarā’ntarā| samyak pāṇitalēnaiva nirūhē yōjanāvidhiḥ”- iti||33-36||
ata ūrdhvaṁ dvādaśaprasr̥tān [16] vakṣyāmaḥ |
dattvā”dau saindhavasyākṣaṁ madhunaḥ prasr̥tidvayam |
vinirmathya tatō dadyāt snēhasya prasr̥titrayam ||37||
ēkībhūtē tataḥ snēhē kalkasya prasr̥tiṁ kṣipēt |
sammūrcchitē kaṣāyaṁ tu catuḥprasr̥tisammitam ||38||
vitarēcca tadāvāpamantē dviprasr̥tōnmitam |
ēvaṁ prakalpitō bastirdvādaśaprasr̥tō bhavēt ||39||
jyēṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam |
apahrāsē bhiṣakkuryāttadvat prasr̥tihāpanam ||40||
yathāvayō nirūhāṇāṁ kalpanēyamudāhr̥tā |
saindhavādidravāntānāṁ siddhikāmairbhiṣagvaraiḥ ||41||
dvādaśaprasr̥tipramāṇasādhanaṁ nirdiśannāha- ata ityādi| sammūrcchitē sammilitē| vitarēt dadyāt| āvāpaḥ paścānnikṣēpyaṁ kṣīrakāñjikādi dravyam| dviprasr̥tōnmitaṁ catuḥpalapramāṇam| saindhavakarṣastu stōkatvāccaturviṁśatipalēṣvēvāntarbhavatītyatiriktadōṣō na vācyaḥ| apahrāsē apahrāsaviṣayē stōkakaraṇābhilāṣē prasr̥tahāpanaṁ paladvayādityāgaṁ [17] bhiṣak kuryāt||37-41||
ata ūrdhvaṁ pravakṣyantē bastayō’tra vibhāgaśaḥ |
yathādōṣaṁ prayuktā yē hanyurnānāvidhān gadān ||42||
vibhāgaśaḥ vibhāgēnētyarthaḥ| yathādōṣaprayuktā ityatra dōṣaśabdō vātādiṣu vyādhiṣu ca pravartatē||42||
śampākōrubuvarṣābhūvājigandhāniśācchadaiḥ |
pañcamūlībalārāsnāguḍūcīsuradārubhiḥ ||43||
kvathitaiḥ pālikairēbhirmadanāṣṭakasaṁyutaiḥ |
kalkairmāgadhikāmbhōdahapuṣāmisisaindhavaiḥ ||44||
vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ |
dadyādāsthāpanaṁ kōṣṇaṁ kṣaudrādyairabhisaṁskr̥tam ||45||
pr̥ṣṭhōrutrikaśūlāśmaviṇmūtrānilasaṅginām |
grahaṇīmārutārśōghnaṁ raktamāṁsabalapradam ||46||
idānīṁ kupitānilamadhikr̥tya bastidānamāha, tathā sarvabastidravyanikṣēpakramaṁ ca| śampākaḥ kiramālakaḥ| niśācchadaḥ śaṭī| pañcamūlī atra hrasvā| ambhōdaḥ mustā| tatra śampākādīni suradāruparyantāni caturdaśapalapramitāni, madanāṣṭakasaṁyutāni caturbhirmadanaphalaiḥ palaṁ bhavati, ēvaṁ ṣōḍaśapalāni dravyāṇi jarjarīkr̥tyāṣṭaguṇamaṣṭāviṁśatyadhikaśatapalapramāṇaṁ jalaṁ dattvā kvāthayēd yāvaddvātriṁśat palāni bhavanti, tatō vastrapūtaṁ kr̥tvā’ṣṭapalaṁ [18] kvāthaṁ gr̥hṇīyāt; caturvāraprayōjanō’yaṁ [19] kvāthaḥ, dvitīyaṁ vā tr̥tīyaṁ vētyādinōktatvāt| tataśca gambhīraṁ tāmrabhājanamānīya, ṭaṅkatrayaparimitaṁ saindhavaṁ nikṣipya [20] , kṣaudramityuktatvāt palatrayaparimitaṁ madhu ca karatalēna mathnīyāt, tataḥ saindhavamadhunī ēkīkr̥tya, kṣaudrādyairabhisaṁskr̥tamityatrādyaśabdēna snēhakṣīrakāñjikamūtramāṁsarasādīnāṁ saṅgr̥hītatvāta ṣaṭpalapramāṇaṁ pakvaṁ tailaṁ prakṣipya mathnīyāt; tadanu caikībhūta snēhē māgadhikādirasāñjanaparyantanavadravyacūrṇaṁ saindhavaṭaṅkatrayēṇa palatrayapramitaṁ nikṣipya mathnīyāt; saindhavaṭaṅkatrayapramāṇasyādāvēva ca nikṣiptatvāt kalkaḥ palatrayaparimitō nikṣiptō bhavati; tataśca dvātriṁśatpalaparimitakvāthamadhyādaṣṭau palānyuddhr̥tya tatra nikṣipēt; tadanu ca māṁsarasasya sārdhapalaṁ, kṣīrasyāpi sārdhaṁ palaṁ, kāñjikasyārdhaṁ palaṁ, tathā gōmūtrasyāpi tatra nikṣipyatē| ēvaṁ caturviṁśatipalāni bhavanti| ēvaṁ dvitīyaṁ tr̥tīyaṁ caturthaṁ vā puṭakaṁ dadyāt| ayaṁ bastirvātarōgē ca prayōjyaḥ||43-46||
guḍūcītriphalārāsnādaśamūlabalāpalaiḥ |
kvathitaiḥ ślakṣṇapiṣṭaistu priyaṅgughanasaindhavaiḥ [21] ||47||
śatapuṣpāvacākr̥ṣṇāyavānīkuṣṭhabilvajaiḥ |
saguḍairakṣamātraistu madanārdhapalānvitaiḥ ||48||
kṣaudratailaghr̥takṣīraśuktakāñjikamastubhiḥ |
samālōḍya ca mūtrēṇa dadyādāsthāpanaṁ param ||49||
tējōvarṇabalōtsāhavīryāgniprāṇavardhanam |
sarvamārutarōgaghnaṁ vayaḥsthāpanamuttamam ||50||
guḍūcītyādi| palaṁ māṁsam| śēṣaṁ prasiddham| guḍūcyādīni balāntāni ṣōḍaśadravyāṇi pratyēkaṁ palamitāni, tathā māṁsasyāpi ṣōḍaśapalāni, ēvaṁ saptadaśadravyāṇi dvātriṁśatpalaparimitāni, māṁsasya [22] bahulatvāccaturguṇaṁ ṣaṭtriṁśadadhikaśatapalapramāṇaṁ jalaṁ dattvā kvāthayēt, tataścaturthāṁśāvaśiṣṭāni dvātriṁśatpalāni grāhyāṇi, ata ēkapuṭakasyārthē palāṣṭakaṁ grāhyam| priyaṅgvādidravyakalkō yathōktapramāṇēna| bilvajaṁ bilvaphalam| madhu pūrvavat, tailaghr̥tē ca pūrvavat, kṣīrasya dvipalaṁ; śuktakāñjikamastugōmūtrāṇāṁ pratyēkamardhapalamityēvaṁ caturviṁśatipalāni bhavanti| dravyanikṣēpakramaḥ pūrvavat| tējōvarṇētyādi tējastvaggataṁ [23] bhrājakāgnisañjñaṁ pittam| varṇō gaurādiḥ| balaṁ māṁsōpacayaḥ| utsāhaḥ caitasikō dharmaḥ| vīryaṁ śaktiḥ| prāṇā agnīṣōmādayaḥ| ayamapi vātē vātarōgē ca yōjyaḥ||47-50||
kuśādipañcamūlābdatriphalōtpalavāsakaiḥ |
sārivōśīramañjiṣṭhārāsnārēṇuparūṣakaiḥ ||51||
pālikaiḥ kvathitaiḥ samyag dravyairēbhiśca pēṣitaiḥ |
śr̥ṅgāṭakātmaguptēbhakēsarāgurucandanaiḥ ||52||
vidārīmisimañjiṣṭhāśyāmēndrayavasindhujaiḥ |
phalapadmakayaṣṭhyāhvaiḥ kṣaudrakṣīraghr̥tāplutaiḥ ||53||
dattamāsthāpanaṁ śītamamlahīnaistathā dravaiḥ |
dāhāsr̥gdarapittāsr̥kpittagulmajvarāñjayēt ||54||
idānīṁ kupitapittamadhikr̥tya bastidānamāha- kuśādītyādi| kuśakāśanaladarbhakāṇḍēkṣava iti kuśādipañcamūlam| abdō mustā, utpalaṁ nīlōtpalam, rēṇuḥ parpaṭakaḥ| ātmaguptā kapikacchūkaḥ śyāmā priyaṅguḥ| phalaṁ madanaphalam| pēṣitaiḥ piṣṭaiḥ| kuśādisaptadaśadravyāṇi palapramitāni, aṣṭaguṇaṁ ṣaṭtriṁśadadhikapalaśatapramāṇaṁ jalaṁ dattvā kvāthayēt, tataścaturthāṁśāvaśiṣṭāni catustriṁśatpalāni grāhyāṇi, ata ēkapuṭakasyārthē kvāthapalāṣṭakaṁ grāhyaṁ, śr̥ṅgāṭakādiyaṣṭīmadhukāntānāṁ pañcadaśadravyāṇāṁ kalkaṁ palatrayapramāṇaṁ, ‘pittē nātibahu kṣaudraṁ’ ityuktatvānmadhunaścatvāri palāni, kruddhē pittē’ṣṭamō bhāgaḥ snēhasya’ ityuktatvād ghr̥tasya catvāri palāni, kṣīrasya paladvayaṁ, ‘amlahīnaistathā dravaiḥ’ ityuktatvānmāṁsarasasyaikaṁ palaṁ, ikṣurasasya paladvayaṁ, ēvaṁ caturviṁśatipalāni bhavanti| dravyāṇāṁ nikṣēpakramaḥ pūrvavat| ayaṁ bastiḥ pittē pittarōgē ca prayōjyaḥ| ‘vidārīmisimañjiṣṭhā’ ityatra misisthānē viṣēti kēcit paṭhanti, tatra viṣam ativiṣā; viṣaṁ vā vālakaṁ, tōyanāmatvāt||51-54||
rōdhracandanamañjiṣṭhārāsnānantābalardhibhiḥ |
sārivāvr̥ṣakāśmaryamēdāmadhukapadmakaiḥ ||55||
sthirāditr̥ṇamūlaiśca kvāthaḥ karṣatrayōnmitaiḥ |
piṣṭairjīvakakākōlīyugardhimadhukōtpalaiḥ ||56||
prapauṇḍarīkajīvantīmēdārēṇuparūṣakaiḥ |
abhīrumisisindhūtthavatsakōśīrapadmakaiḥ ||57||
kasēruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ |
dravaistīkṣṇāmlavarjyaiśca dattō bastiḥ suśītalaḥ ||58||
gulmāsr̥gdarahr̥tpāṇḍurōgān saviṣamajvarān |
asr̥kpittātisārau ca hanyātpittakr̥tān gadān ||59||
rōdhrētyādi| anantā utpalasārivā| sthirādi laghupañcamūlī, tr̥ṇamūlaṁ kuśādipañcamūlaṁ, abhīruḥ śatāvarī| rōdhrāditr̥ṇamūlyantānāṁ trayōviṁśatidravyāṇāṁ karṣatrayapramitatvēna saptadaśapalāni karṣādhikāni, aṣṭaguṇamaṣṭatriṁśadadhikaśatapalapramāṇaṁ jalaṁ dattvā kvāthayēt, ataḥ sārdhacatustriṁśatpalāni grāhyāṇi, ata ēkapuṭakārthē kvāthapalāṣṭakaṁ grāhyaṁ, jīvakādiśarkarāntaikōnaviṁśatidravyāṇāṁ kalkaḥ palatrayapramāṇaḥ, madhughr̥tē pūrvavat, ‘dravaistīkṣṇāmlavarjyaiḥ’ ityuktatvāt kṣīramāṁsarasēkṣurasāḥ pūrvavat, ityēvaṁ caturviṁśatipalāni bhavanti| dravyaniḥkṣēpakramaḥ pūrvavat| ayamapi bastiḥ pittē pittarōgē ca prayōjyaḥ||55-59||
bhadrānimbakulatthārkakōśātakyamr̥tāmaraiḥ |
sārivābr̥hatīpāṭhāmūrvāragvadhavatsakaiḥ ||60||
kvāthaḥ, kalkastu kartavyō vacāmadanasarṣapaiḥ [24] |
saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ ||61||
kaṭutailamadhukṣāramūtratailāmlasaṁyutaiḥ |
kāryamāsthāpanaṁ tūrṇaṁ kāmalāpāṇḍumēhinām ||62||
mēdasvināmanagnīnāṁ kapharōgāśanadviṣām |
galagaṇḍagaraglāniślīpadōdararōgiṇām ||63||
idānīṁ kupitakaphamadhikr̥tya bastidānamāha- bhadrētyādi| bhadrā kaṭphalaṁ, bhadrādivatsakāntānāṁ trayōdaśadravyāṇāṁ ṣōḍaśapalāni aṣṭaguṇamaṣṭāviṁśatyadhikaśatapalapramāṇaṁ jalaṁ dattvā kvāthayēt, atō dvātriṁśatpalāni grāhyāṇi, ata ēkapuṭakasyārthē kvāthapalāṣṭakaṁ, vacādināgarāntānāṁ daśadravyāṇāṁ kalkasya palatrayaṁ, kaṭutailatilatailayōstrīṇi palāni kaphē’ṣṭama ityuktatvāt, madhunaḥ punaḥ ṣaṭpalāni, yavakṣārasyaikapalaṁ, mūtrasya sārdhapalaṁ tathā kāñjikasya, ēvaṁ caturviṁśatipalāni| dravyanikṣēpakramaḥ pūrvavat| ayaṁ bastiḥ kaphē kapharōgē ca yōjyaḥ||60-63||
daśamūlīniśābilvapaṭōlatriphalāmaraiḥ |
kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ ||64||
pāṭhāmāgadhikēndrāhvaistailakṣāramadhuplutaiḥ |
kuryādāsthāpanaṁ samyaṅmūtrāmlaphalayōjitaiḥ ||65||
kaphapāṇḍugadālasyamūtramārutasaṅginām |
āmāṭōpāpacīślēṣmagulmakrimivikāriṇām ||66||
daśamūlītyādi| indrāhvaḥ kuṭajaḥ| daśamūlādyamarāntasaptadaśadravyāṇi aṣṭaguṇaṁ ṣaṭtriṁśadadhikaśatapalapramāṇaṁ jalaṁ dattvā kvāthayēt, ataścatustriṁśatpalāni grāhyāṇi, ata ēkapuṭakasyārthē kvāthapalāṣṭakaṁ grāhyaṁ, mustādīndrāhvāntaṣaḍdravyāṇāṁ kalkaṁ pūrvavat, tathā tailamadhunōḥ [25] pratyēkaṁ catvāri palāni, kṣārasyārdhapalaṁ, mūtrasya sārdhapalaṁ, tathā kāñjikasya sārdhapalaṁ, madanaphalasya sārdhapalamityēvaṁ caturviṁśatipalāni bhavanti| dravyaniḥkṣēpakramaḥ pūrvavat| ayamapi bastiḥ kaphē kapharōgē ca prayōjyaḥ||64-66||
vr̥ṣāśmabhēdavarṣābhūdhānyagandharvahastakaiḥ |
daśamūlabalāmūrvāyavakōlaniśācchadaiḥ ||67||
kulatthabilvabhūnimbaiḥ kvathitaiḥ palasammitaiḥ |
kalkairmadanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ ||68||
pippalīmūlasindhūtthayavānīmisivatsakaiḥ |
kṣaudrēkṣukṣīragōmūtrasarpistailarasāplutaiḥ ||69||
tūrṇamāsthāpanaṁ kāryaṁ saṁsr̥ṣṭabahurōgiṇām |
gr̥dhrasīśarkarāṣṭhīlātūnīgulmagadāpaham ||70||
vr̥ṣāśmabhēdētyādi| niśācchadaḥ śaṭī ṣaḍgranthā vacā| vr̥ṣādibhūnimbāntāni trayōviṁśatidravyāṇi ṣōḍaśapalapramitāni aṣṭāviṁśatyadhikaśatapalamitaṁ jalaṁ dattvā kvāthayēt, atō dvātriṁśatpalāni grāhyāṇi, ata ēkapuṭakasyārthē kvāthasyāṣṭau palāni, madanādivatsakāntadaśadravyāṇāṁ kalkasya trīṇi palāni, kṣaudrasya trīṇi palāni, ikṣukṣīragōmūtrāṇāṁ pratyēkaṁ sārdhapalaṁ ghr̥tasya dvē palē, tailasya dvē, māṁsasyārdhapalam| saṁsr̥ṣṭabahurōgiṇāmityanēna saṁsargasannipātarōgapraśamanatvamuktaṁ syāt| tatra saṁsargō dōṣadvayasamudāyaḥ, sannipātastu dōṣatrayasamudāyaḥ| tatra saṁsargē dvayōrēkasya prakarṣaṁ prakalpya tadapēkṣayā kṣaudrasnēhādyāvāpadravyāṇi pūrvōktanyāyēna svabuddhyā parikalpya prayōjyāni| yadā tu saṁsargastulyaprakarṣō bhavati tadā kṣaudrādīnāṁ guṇadōṣānnipuṇabuddhyā [26] vicāryōtkarṣāpakarṣatayā miśramānēna nikṣipya caturviṁśatipalāni pūraṇīyāni| ēvaṁ dōṣatrayasaṁyōgē’pi kṣaudrādidravyāṇāmutkarṣāpakarṣaḥ parikalpanīyaḥ||67-70||
rāsnāragvadhavarṣābhūkaṭukōśīravāridaiḥ |
trāyamāṇāmr̥tāraktāpañcamūlībibhītakaiḥ ||71||
sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ |
yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ ||72||
rasāñjanarasakṣaudradrākṣāsauvīrasaṁyutaiḥ |
yuktō bastiḥ sukhōṣṇō’yaṁ māṁsaśukrabalaujasām ||73||
āyuṣō’gnēśca saṁskartā hanti cāśu gadānimān |
gulmāsr̥gdaravīsarpamūtrakr̥cchrakṣatakṣayān ||74||
viṣamajvaramarśāṁsi [27] grahaṇīṁ vātakuṇḍalīm |
jānujaṅghāśirōbastigrahōdāvartamārutān ||75||
vātāsr̥kśarkarāṣṭhīlākukṣiśūlōdarārucīḥ |
raktapittakaphōnmādapramēhādhmānahr̥dgrahān ||76||
rāsnāragvadhētyādi| sabalaiḥ balāsahitaiḥ| rasō māṁsarasaḥ| rāsnādibalāntaṣōḍaśadravyāṇi palapramitāni aṣṭaguṇaṁ jalaṁ dattvā kvāthayēt, tatō dvātriṁśatpalāni grāhyāṇi, ata ēkapuṭakasyārthē kvāthasya palāṣṭakaṁ, madanādīndrayavāntānāṁ ṣaṇṇāṁ dravyāṇāṁ kalkasya trīṇi palāni, snēhasya nirūhaṇāṅgatvādanuktō’pyatra ṣaṭpalapramāṇō nikṣēpaṇīyaḥ| tathāca hārītaḥ- “snēhō guḍō māṁsarasaḥ payāṁsi sāmlāni mūtraṁ madhu saindhavaṁ ca| ētē nirūhē viduṣā prayōjyāḥ kvāthaśca kalkō madanāt phalaṁ ca [28] ”- iti| madhunastrīṇi palāni, rasāñjanamāṁsarasakṣīrasauvīrāṇāṁ pratyēkamēkapalamityēvaṁ caturviṁśatipalāni bhavanti| ēṣa bastiḥ svasthāturaviṣayaḥ sarvarōgaharaśca||71- 76||
vātaghnauṣadhaniṣkvāthāḥ saindhavatrivr̥tāyutāḥ |
sāmlāḥ sukhōṣṇā yōjyāḥ syurbastayaḥ kupitē’nilē ||77||
tatra bastidānamāturaviṣayamāśritya kathitamēva svasthaṁ prati punaḥ saṅkṣēpatō vātādiviṣayān bastīnnirdiśannāha- vātaghnauṣadhaniṣkvāthā ityādi| ētacca bastaya ityasya viśēṣaṇamata ēva bahuvacanam| tatra vātaghnauṣadhānāṁ bhadradārvādīnāṁ ṣōḍaśapalapramitānāmaṣṭaguṇajalē kvathitānāṁ caturbhāgāvaśēṣēṇa kvāthasya dvātriṁśatpalāni, ata ēkapuṭakasyārthē kvāthapalāṣṭakaṁ, saindhavasya ṭaṅkatrayaṁ, vātavyādhāvuktasya traivr̥tasya snēhasya ṣaṭpalāni, kṣīrāṇyamlāni mūtrāṇītyādivargamadhyē yāni vātaharadravyāṇi tēṣāṁ guḍasahitasya kalkasya palatrayaṁ, nirūhāṅgatvānmadhunaḥ palatrayam, anuktānyapyāvāpadravyāṇi vātaharāṇi prayōjyānyatō māṁsarasasyaikaṁ palaṁ, tathā kṣīrasya kāñjikasya saṭaṅkādhikaṁ palamēvaṁ caturviṁśatipalāni bhavanti| bastaya iti tripuṭacatuḥpuṭāpēkṣaṁ bahuvacanam| ēvaṁ vakṣyamāṇayōgēṣvapi vācyam||77||
nyagrōdhādigaṇakvāthāḥ kākōlyādisamāyutāḥ |
vidhēyā bastayaḥ pittē sasarpiṣkāḥ saśarkarāḥ ||78||
nyagrōdhādigaṇakvāthā ityādi| nyagrōdhādīnāṁ ṣōḍaśapalapramitānāṁ kvāthaḥ pūrvavat, ata ēkapuṭakasyārthē kvāthapalāṣṭakaṁ, kākōlyādēḥ kalkīkr̥tasya paladvayaṁ, ghr̥tasya catvāri palāni, śarkarāyāḥ palam, ētēna kākōlyādipaladvayēna śarkarāyāḥ palasahitēna kalkapalatrayaṁ, nirūhāṅgatvādanuktasyāpi saindhavasyākṣaṁ, tathā madhunō’pi catvāri palāni, ‘kṣīrāṇyamlāni mūtrāṇi’ ityādivargamadhyē yāni pittaharadravyāṇi tānyapi prakṣēpaṇīyāni, tēnēkṣurasasya palaṁ, kṣīrasya pādōnaṁ palacatuṣṭayamityēvaṁ caturviṁśatipalāni bhavanti||78||
āragvadhādiniṣkvāthāḥ pippalyādisamāyutāḥ |
sakṣaudramūtrā dēyāḥ syurbastayaḥ kupitē kaphē ||79||
āragvadhētyādi| āragvadhādīnāṁ ṣōḍaśapalapramitānāṁ kvāthaḥ pūrvavat, ata ēkapuṭakasyārthē kvāthapalāṣṭakaṁ, pippalyādikalkasya palatrayaṁ, madhunaḥ ṣaṭpalāni, anuktasyāpi saindhavasya ṭaṅkatrayaṁ, tathā kaṭutailasya trīṇi palāni, mūtrasya saptaṭaṅkādhikāni trīṇi palāni, ityēvaṁ caturviṁśatipalāni bhavanti||79||
śarkarēkṣurasakṣīraghr̥tayuktāḥ suśītalāḥ |
kṣīravr̥kṣakaṣāyāḍhyā bastayaḥ śōṇitē hitāḥ ||80||
śarkarēkṣurasakṣīrētyādi| kṣīravr̥kṣakaṣāyēṇāḍhyāḥ sphītāḥ pradhānā ityarthaḥ| kṣīravr̥kṣāṇāṁ nyagrōdhādīnāṁ ṣōḍaśapalapramitānāṁ kvāthaḥ pūrvavat, anuktamapi saindhavaṁ pūrvavat, kṣīrādivargamadhyē kathitaśōṇitaharadravyāṇāṁ kalkasya paladvayam, anuktasyāpi madhunaścatvāri palāni tathā ca ghr̥tasya, śarkarāyāḥ palaṁ tathēkṣurasasya, kṣīrasya ṭaṅkasaptādhikaṁ palatritayamānamityēvaṁ caturviṁśatipalāni bhavanti| tadēva pittaṁ tadēva raktamiti manasi paryālōcya pittamānēnāyamapi bastiḥ kalpitaḥ||80||
śōdhanadravyaniṣkvāthāstatkalkasnēhasaindhavaiḥ |
yuktāḥ khajēna mathitabastayaḥ śōdhanāḥ smr̥tāḥ ||81||
śōdhanadravyētyādi| śōdhanadravyāṇāṁ vamanavirēcanapaṭhitānāṁ kvāthaḥ pūrvavat, saindhavaṁ ca, tēṣāmēva śōdhanadravyāṇāṁ kalkasya paladvayaṁ, snēhasya ṣaṭpalāni, anuktasyāpi madhunaścatvāri palāni, kṣīrasyaikaṁ palaṁ, mūtrasya sārdhapalaṁ, tathā kāñjikasyāpi, ityēvaṁ caturviṁśatipalāni bhavanti| ‘bastayaḥ śōdhanāḥ smr̥tā’ iti sāmānyavākyatvāt sāmānyabastiparibhāṣāmānēnāyaṁ bastiḥ parikalpitaḥ, tathā vakṣyamāṇā api kalpanīyāḥ, vātādiviśēṣaṁ ca vīkṣya viśēṣamānēna ca prayōjyāḥ||81||
triphalākvāthagōmūtrakṣaudrakṣārasamāyutāḥ |
ūṣakādipratīvāpā bastayō lēkhanāḥ smr̥tāḥ ||82||
triphalākvāthētyādi| triphalākvāthaḥ pūrvavat, gōmūtrasya ca palatrayaṁ, nirūhaṇāṅgatvādanuktasyāpi saindhavasyākṣaṁ, kṣaudrasya catvāri palāni, yavakṣārasya karṣatrayaṁ, tathā nirūhaṇāṅgatvāt snēhaḥ prāptastatō lēkhanīyasya kaṭutailasya ṣaṭpalāni, ūṣakādidravyāṇāṁ paladvayamityēvaṁ caturviṁśatiḥ||82||
br̥ṁhaṇadravyaniṣkvāthāḥ kalkairmadhurakairyutāḥ |
sarpirmāṁsarasōpētā bastayō br̥ṁhaṇāḥ smr̥tāḥ ||83||
br̥ṁhaṇētyādi| br̥ṁhaṇadravyāṇāṁ vidārīgandhādīnāṁ kvāthaḥ pūrvavat, kalkairityādinā kākōlyādīnāṁ kalkapaladvayaṁ, madhunaḥ pūrvavat, ghr̥tasya ṣaṭpalāni, saindhavaṁ pūrvavat, māṁsarasasya saptaṭaṅkādhikaṁ palatrayamityēvaṁ caturviṁśatipalāni||83||
caṭakāṇḍōccaṭākvāthāḥ sakṣīraghr̥taśarkarāḥ |
ātmaguptāphalāvāpāḥ smr̥tā vājīkarā nr̥ṇām ||84||
caṭakētyādi| caṭakā grāmacaṭakāḥ tēṣāmaṇḍāni, uccaṭā ghurghurākhyaḥ śaṇaghaṇṭakāraphalō’lpō viṭapaḥ sarayūpakaṇṭhē himavati vārēndyrāṁ ca prāyaśa upalabhyatē, caṭakāṇḍōccaṭānāṁ ṣōḍaśapalapramitānāṁ kvāthaḥ pūrvavat, ata ēkapuṭakasyārthē palāṣṭakaṁ, kṣīrasya palacatuṣṭayaṁ, madhughr̥tē pūrvavat, śarkarāyā ēkaṁ palaṁ tathā kapikacchūphalānāṁ, madhyē saindhavaṁ cālpataraṁ prayōjyaṁ naiva vā ‘śukrārthēṣu na tailaguḍasaindhavam’ iti vacanāt; ityēvaṁ caturviṁśatiḥ| gayī tu caṭakāṇḍadravōccaṭākvāthau yēṣu iti vyākhyāti| tēna uccaṭāyāṁ ēva kvāthaṁ manyatē| caṭakāṇḍadravaṁ tu svarūpēṇaiva gr̥hṇāti||84||
badaryairāvatīśēluśālmalīdhanvanāṅkurāḥ |
kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasañjñitāḥ ||85||
vārāhamāhiṣaurabhrabaiḍālaiṇēyakaukkuṭam |
sadyaskamasr̥gājaṁ [29] vā dēyaṁ picchilabastiṣu ||86||
badaryairāvatītyādi| airāvatī nāgabalā, śēluḥ ślēṣmātakaḥ, dhanvanō dhanurvr̥kṣaḥ yasya ‘dhāmana’ iti lōkē prasiddhiḥ, aṅkurā agrapallavāḥ| sāsrāḥ sarudhirāḥ| badaryādyaṅkurān samudāyēna palatrayapramitān caturviṁśatipalapramitaṁ dugdhaṁ dattvā, caturguṇaṁ jalaṁ nikṣipya kvāthayēt, tataḥ kṣīraśēṣaṁ caturviṁśatipalāni grāhyāṇi; tatra sāmānyaparibhāṣōktatvānmadhunaścatvāri palānyāvāpya, dravatvādrudhirasya catvāri palānīti; ēvaṁ picchābastērdvātriṁśatpalāni bhavanti| tathā cōktam- “picchābastērbhavēt prasthaḥ pādōnaḥ kīrtitō’paraḥ| caturviṁśatimuṣṭiśca nirūhaḥ samudāhr̥taḥ”- iti| ēvamaparēṣvapi puṭakēṣu picchābastimānaṁ kalpanīyam| sāsrā iti yaduktaṁ tat kasyāsramityāha- vārāhētyādi| urabhrō mēṣaḥ, ēṇasyēdam aiṇēyam, ēṇaḥ kr̥ṣṇasāra iti jējjaṭācāryaḥ, brahmadēvastu ēṇyā idamaiṇēyaṁ, na punarēṇasyēdaṁ aiṇam| sadyōjātaṁ sadyaskaṁ tatkālīnaṁ jīvavatāmēva grāhyaṁ, jīvānusandhānārtham||85-86||
priyaṅgvādigaṇakvāthā ambaṣṭhādyēna saṁyutāḥ |
sakṣaudrāḥ saghr̥tāścaiva grāhiṇō bastayaḥ smr̥tāḥ ||87||
priyaṅgvādigaṇakvāthā ityādi| priyaṅgvādigaṇasya ṣōḍaśapalapramitāni dravyāṇi aṣṭaguṇaṁ jalaṁ dattvā kvāthayēt, atō dvātriṁśatpalāni grāhyāṇi, ata ēkapuṭakasyārthē kvāthasyāṣṭau palāni, ambaṣṭhādyēmēti ambaṣṭhādyō’tra kalkarūpaḥ prayōjyaḥ, tathā ca vr̥ddhavāgbhaṭaḥ,- “grāhī priyaṅgvambaṣṭhādikvāthakalkaiḥ kramēṇa”- iti| atō’mbaṣṭhādisaṅgrāhakadravyāṇāṁ kalkasya trīṇi palāni, madhunaścatvāri, saṅgrāhakadravyasiddhaghr̥tasya ṣaṭpalāni, anuktō yadyapīhāvāpastathā’pi saṅgrāhakatvāttakrasya trīṇi palānyēvaṁ caturviṁśatiḥ||87||
ētēṣvēva ca yōgēṣu snēhāḥ siddhāḥ pr̥thak pr̥thak |
samastēṣvathavā samyagvidhēyāḥ snēhabastayaḥ ||88||
nanu ya ētē nirūhayōgāstēṣu snēhāḥ kēnauṣadhēna siddhā vidhēyā ityāha- ētēṣvēva yōgēṣvityādi| ētēṣu pūrvōktēṣu gaṇēṣu| snēhāḥ sarpirādayaḥ, athavā rōgāpēkṣayā||88||
vandhyānāṁ śatapākēna śōdhitānāṁ yathākramam |
balātailēna dēyāḥ syurbastayastraivr̥tēna ca ||89||
yathākramaśōdhitānāṁ yaiḥ snēhaiḥ snēhabastayō dēyāstānāha- vandhyānāṁ śatapākēnētyādi| yathākramaṁ snēhasvēdavamanavirēcanāsthāpanaśirōvirēcanaiḥ śōdhitānāṁ vandhyānāṁ nārīṇāṁ balātailēna śatapākēna traivr̥tēna vā bastayō dēyāḥ syuḥ bhavēyuḥ| tadēṣu śatapākamutpāditaṁ vātavyādhau, balātailaṁ mūḍhagarbhacikitsitē, traivr̥taṁ mahāvātavyādhau| tatra tribhiḥ snēhairghr̥tatailavasākhyaiḥ vr̥taṁ nirmitaṁ trivr̥taṁ, trivr̥tamēva traivr̥taṁ, svārthikō’ṇ| tacca varaṇaṁ ghr̥tādīnāmanyōnyasyētyarthādgamyatē| jējjaṭādayastu [30] tribhistailavasāmajjābhirvr̥taṁ trivr̥taṁ mahāsnēhākhyamiti pratipādayanti||89||
narasyōttamasattvasya tīkṣṇaṁ bastiṁ nidhāpayēt |
madhyamaṁ madhyasattvasya viparītasya vai mr̥dum ||90||
sattvabhēdēna bastitraividhyaṁ pratipādayannāha- narasyētyādi| viparītasya hīnasattvasyētyarthaḥ||90||
ēvaṁ kālaṁ balaṁ dōṣaṁ vikāraṁ ca vikāravit |
bastidravyabalaṁ caiva vīkṣya bastīn prayōjayēt ||91||
ēvaṁ kālamityādi| kālē śītēṣu tīkṣṇaḥ, uṣṇēṣu mr̥duḥ, vasantaśaradōḥ sādhāraṇaḥ, śītōṣṇayōrmadhyaḥ; ēvaṁ balē śaktyupacayalakṣāṇē śrēṣṭhē tīkṣṇaḥ, madhyē madhyaḥ, kaniṣṭhē mr̥duḥ; kaphavātē dōṣē tīkṣṇaḥ, pittaraktē mr̥duḥ, kaphapittē madhyaḥ; ēvaṁ vikārē’pi; cakārasyānuktasamuccayārthatvāt krūramadhyamr̥dukōṣṭhēṣvapi bōddhavyam||91||
dadyādutklēśanaṁ pūrvaṁ madhyē dōṣaharaṁ punaḥ |
paścāt saṁśamanīyaṁ ca dadyādbastiṁ vicakṣaṇaḥ ||92||
idānīmutklēśanādinā bastiṁ tridhā bhindan tēṣāṁ bhēdānāṁ kālaviśēṣē pradānamāha- dadyādityādi| tatrānutkliṣṭadōṣasya ādāvutklēśanaṁ, madhyē dōṣaharaṁ, tataḥ paścāddōṣaśēṣasya saṁśamanāya saṁśamanamiti| utkliṣṭadōṣasya dōṣaharaṇasaṁśamanē ēva kartavyē| dōṣaharasya bastēḥ prathamapuṭakadānēna samyagdōṣānirharaṇē dvitīyaṁ tr̥tīyaṁ vā puṭakaṁ dadyāt, ēvamutklēśanasaṁśamanayōrapi vēdyam| utkliṣṭādijñānaṁ tu dōṣāṇāṁ prakōpādilakṣaṇēna [31] ||92||
ēraṇḍabījaṁ madhukaṁ pippalī saindhavaṁ vacā |
hapuṣāphalakalkaśca bastirutklēśanaḥ smr̥taḥ ||93||
śatāhvā madhukaṁ bījaṁ kauṭajaṁ phalamēva ca |
sakāñjikaḥ sagōmūtrō bastirdōṣaharaḥ smr̥taḥ ||94||
priyaṅgurmadhukaṁ mustā tathaiva ca rasāñjanam |
sakṣīraḥ śasyatē bastirdōṣāṇāṁ śamanaḥ paraḥ ||95||
anyē tu vr̥ddhasuśrutādhyāyina utklēśanādyarthamauṣadhānyatra paṭhanti- ēraṇḍabījamityādi| ētāni ēraṇḍabījētyādiślōkatrayēṇa paṭhitānyauṣadhāni utklēśanādyarthaṁ kalkāvāparūpatayā, vātādibastyuktakalkāvāpēṣu kuśāgrabuddhinā dōṣaṁ mānaṁ ca vimr̥śya anucitaparityāgōcitasvīkārēṇa samavētāni kāryāṇi yathā mātrādhikō mithyāmātrāyuktaśca bastirna bhavatīti jējjaṭācāryaḥ| gayī tu dadyādityādikaṁ yāpanabastiviṣayaṁ manyatē| tēṣāṁ tu dvividhaṁ prayōjanaṁ- svasthasya vājīkaratvaṁ rasāyanahētutvaṁ cētyēkam, aparaṁ ca dhātugatadōṣaharaṇaṁ; tatra dhātugatadōṣāṇāmutklēśanābhāvāt tadutklēśanādyarthammidamuktamityarthaḥ| ētē cōtklēśanādyarthamēraṇḍabījētyādiślōkatrayēṇa kalkāvāpā yathākramamuktāḥ| anyē tu hīnasattvabalakāladravyavikārēṣu kōṣṭhaviśēṣē ca mr̥davō bastayō dēyāḥ, taiścāpyutklēśanē dōṣāṇāṁ haraṇaṁ, śēṣasya tu dōṣasya saṁśamanamityāhuḥ||93-95||
nr̥pāṇāṁ tatsamānānāṁ tathā sumahatāmapi |
nārīṇāṁ sukumārāṇāṁ śiśusthavirayōrapi ||96||
dōṣanirharaṇārthāya balavarṇōdayāya ca |
samāsēnōpadēkṣyāmi vidhānaṁ mādhutailikam ||97||
yānastrībhōjyapānēṣu niyamaścātra nōcyatē |
phalaṁ ca vipulaṁ dr̥ṣṭaṁ vyāpadāṁ cāpyasambhavaḥ ||98||
yōjyastvataḥ sukhēnaiva nirūhakramamicchatā |
yadēcchati tadaivaiṣa prayōktavyō vipaścitā ||99||
atha [32] kē tē mr̥davō bastaya iti pr̥ṣṭō viṣayanirdēśapūrvaṁ tānēva nirdiśannāha- nr̥pāṇāmityādi| tatsamānāṁ rājatulyapuruṣāṇāṁ vāṇijyavyavahāriṇāṁ vārdhuṣikāṇām| śiśusthavirayōḥ bālavr̥ddhayōḥ| dōṣanirharaṇārthāya svasthē’pi kālaikakr̥tadōṣanirharaṇārthāya, balavarṇōdayāya ca apētasakaladōṣasyētyarthaḥ| niyamō niṣēdhaḥ| atra mādhutailikavidhānē| yadēcchatīti yadā yasmin kālē ātura icchati tadā tasmin kālē vipaścitā vaidyēna ēṣa bastiḥ prayōktavyaḥ, ētēna sārvakālikatvamuktaṁ bhavati||96-99||
madhutailē samē syātāṁ kvāthaścairaṇḍamūlajaḥ |
palārdhaṁ śatapuṣpāyāstatō’rdhaṁ saindhavasya ca ||100||
phalēnaikēna saṁyuktaḥ khajēna ca vilōḍitaḥ |
dēyaḥ sukhōṣṇō bhiṣajā mādhutailikasañjñitaḥ ||101||
madhutailē samē syātāmityādi| pādahīnāḥ sarvē ēva mādhutailikāḥ, tataśca tathā kalpanīyā yathā nava prasr̥tā bhavanti; madhutailayōḥ prasr̥tāścatvārō dvikarṣādhikāḥ, ēraṇḍamūlakaṣāyasya tāvanta ēva, śatapuṣpā’rdhapalaṁ, saindhavasya karṣaṁ, madanaphalaṁ caikamityēvaṁ navaprasr̥tā bhavanti| anayā kalpanayā sarva ēva mādhutailikāḥ kalpanīyā iti jējjaṭācāryaḥ| gayī tu ‘palēnaikēna saṁyuktaḥ’ iti paṭhitvā mr̥dunā’nuktēnā māṁsarasakāñjikādinā pūraṇaṁ karōti| ēvamaparēṣu caturṣu nava prasr̥tāḥ pūraṇīyā ityāha||100-101||
vacāmadhukatailaṁ ca kvāthaḥ sarasasaindhavaḥ |
pippalīphalasaṁyuktō bastiryuktarathaḥ smr̥taḥ ||102||
vacāmadhukētyādi| vacāsaindhavapippalīmadanaphalānāṁ pratyēkaṁ kārṣikā bhāgāḥ, madhutailayōścatvāraḥ prasr̥tāḥ karṣadvayādhikāḥ, ēraṇḍamūlakvāthastāvanmātra ēva; iti yuktarathābhidhānō mādhutailikaḥ||102||
suradāru varā rāsnā śatapuṣpā vacā madhu |
hiṅgusaindhavasaṁyuktō bastirdōṣaharaḥ smr̥taḥ ||103||
suradārvityādi| suradāruvarārāsnāśatapuṣpāvacāhiṅgusaindhavānāṁ tulyamānēnaikaṁ palaṁ, madhutailayōḥ karṣadvayādhikānyaṣṭau palāni, ēraṇḍamūlakvāthastāvanmātra ēva| ēvaṁ dōṣaharābhidhānō mādhutailikaḥ; kēcidatra hiṅgusthānē biḍaṁ paṭhanti||103||
pañcamūlīkaṣāyaṁ ca tailaṁ māgadhikā madhu |
bastirēṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ ||104||
pañcamūlīkaṣāyamityādi| pañcamūlīkaṣāyasya karṣadvayādhikāni aṣṭau palāni, madhutailē api tāvanmātrē ēva, māgadhikāśatāhvāsaindhavānāmēkaṁ palam| ayaṁ ca pāñcamūlikō mādhutailikaḥ||104||
yavakōlakulatthānāṁ kvāthō māgadhikā madhu |
sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smr̥taḥ ||105||
yavakōlakulatthānāṁ pūrvavat kvāthaḥ, madhutailē’pi pūrvavat, māgadhikāsaindhavayaṣṭyāhvānāmēkaṁ palam| siddhabastyabhidhānō’yaṁ mādhutailikaḥ| pañcāpyētē mādhutailikā uktāḥ||105||
mustāpāṭhāmr̥tātiktābalārāsnāpunarnavāḥ |
mañjiṣṭhāragvadhōśīratrāyamāṇākhyagōkṣurān ||106||
pālikān pañcamūlālpasahitānmadanāṣṭakam |
jalāḍhakē pacēt kvāthaṁ pādaśēṣaṁ punaḥ pacēt ||107||
kṣīrārdhāḍhakasaṁyuktamākṣīrāt [33] suparisrutam |
pādēna jāṅgalarasastathā madhughr̥taṁ samam ||108||
śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ |
kārṣikaiḥ saindhavōnmiśraiḥ kalkairbastiḥ prayōjitaḥ ||109||
vātāsr̥ṅmēhaśōphārśōgulmamūtravibandhanut |
visarpajvaraviḍbhaṅgaraktapittavināśanaḥ ||110||
balyaḥ sañjīvanō vr̥ṣyaścakṣuṣyaḥ śūlanāśanaḥ |
yāpanānāmayaṁ rājā bastirmustādikō mataḥ ||111||
mādhutailikasyāgratō gayadāsācāryamatē mustādisthāpanabastirnāsti, jējjaṭācāryastu mustādisthāpanabastiṁ paṭhati vyākhyānayati ca, tadvyākhyānābhiprāyēṇa mayā’pyasau vyākhyāyatē- mustāpāṭhētyādi| mustādīni pañcamūlālpasahitānyaṣṭādaśapalāni, tatō madanasyāṣṭābhiḥ phalairdvipalamityēvaṁ viṁśatipalapramitāni jalāḍhakē’ṣṭāviṁśatyadhikaśatapalapramitē pacēt, tatō dvātriṁśatpalapramitaḥ kvāthō’vaśiṣṭō bhavati, tatastaṁ kvāthaṁ pādaśēṣaṁ kṣīrārdhāḍhakasaṁyuktaṁ dugdhasya catuḥṣaṣṭipalōpētaṁ punaḥ pacēttāvadyāvat kṣīrāvaśēṣaṁ prasthadvayaṁ catuḥṣaṣṭipalāni bhavati, pādēna prasthasyāṣṭau palāni māṁsarasasya, ēvaṁ dvāsaptatipalāni bhavanti| atō madhyādēkasya puṭasyārthē caturviṁśatipalāni grāhyāṇi; tatra madhunaḥ prasr̥taḥ sārdhaḥ, ghr̥tasya tāvadityēvaṁ ṣaṭpalāni kṣipyantē, śatāhvādīnāṁ ṣaḍdravyāṇāṁ karṣapramitānāṁ kalkasya sārdhaṁ palaṁ, nirūhāṅgatvānmadanaphalasyārdhapalamēvaṁ kalkasya prasr̥tō bhavatītyēkasmin puṭakē dvātriṁśatpalapramitaprasthō bhavati; ēvamaparamapi puṭakadvayaṁ karaṇīyaṁ, ēvaṁ puṭakatrayasyārthē ṣaṇṇavatipalāni bhavanti| idaṁ mustādiyāpanabastimānaṁ jējjaṭācāryēṇa tantrāntarōktamadhyamānēna kalpitaṁ| tathā ca parāśaraḥ- “nirūhasya pramāṇaṁ tu prasthaṁ pādōttaraṁ smr̥tam| madhyamaṁ prasthamuddiṣṭaṁ hīnaṁ ca kuḍavāstrayaḥ”- iti| gūḍhapadabhaṅgaṭippaṇakārēṇa punaranyathā vyākhyātam| tathāhi- “mustādidravyāṇāṁ pālikān bhāgān dravatvāddviguṇayā kalpanayā jalasyāḍhakē aṣṭāviṁśatyadhikē palaśatē paktvā pādaśēṣaṁ dvātriṁśatpalapramāṇaṁ kṣīrārdhāḍhakasaṁyuktaṁ punaḥ pacēdyāvatkṣīraśēṣaṁ catuḥṣaṣṭipalāni bhavanti| tataśca sapādaprasthē jāṅgalarasasya pañca palāni, madhughr̥taṁ pr̥thak sārdhadvipalasammitaṁ, śatāhvādikakalkasya madanaphalāṣṭakēna yuktaṁ paladvayaṁ prakṣipyaikadhyaṁ ṣaṭsaptatyā palaiḥ puṭakatrayaṁ dēyam||103-111||
avēkṣya bhēṣajaṁ buddhyā vikāraṁ ca vikāravit |
bījēnānēna śāstrajñaḥ kuryādbastiśatānyapi ||112||
avēkṣya bhēṣajamityādi| tatra bhēṣajaṁ vraṇajvarādiharaṁ, vikāraṁ ca vraṇajvarādikaṁ vātāpittakaphasaṁsargasannipātajaṁ śōṇitajaṁ ca| cakārēṇānuktaṁ kālabalādi samuccīyatē| ‘vātaghnauṣadhaniṣkvāthā’ ityādiṣu bastiṣūktēna bījēnētyarthaḥ||112||
ajīrṇē na prayuñjīta divāsvapnaṁ ca varjayat |
āhārācārikaṁ śēṣamanyat [34] kāmaṁ samācarēt ||113||
ajīrṇē nētyādi| anyacchēṣamāhārācārāśritaṁ karma kāmaṁ yathēṣṭaṁ samācarēt||113||
yasmānmadhu ca tailaṁ ca prādhānyēna [35] pradīyatē |
mādhutailika ityēvaṁ bhiṣagbhirbastirucyatē ||114||
rathēṣvapi ca yuktēṣu hastyaśvē cāpi kalpitē |
yasmānna pratiṣiddhō’yamatō yuktarathaḥ smr̥taḥ ||115||
balōpacayavarṇānāṁ yasmād vyādhiśatasya ca |
bhavatyētēna siddhistu siddhabastiratō mataḥ ||116||
sukhināmalpadōṣāṇāṁ nityaṁ snigdhāśca yē narāḥ |
mr̥dukōṣṭhāśca yē tēṣāṁ vidhēyā mādhutailikāḥ ||117||
viśēṣasañjñayā mādhutailikānāha- yasmānmadhu ca tailamityādi||114-117||
mr̥dutvāt pādahīnatvādakr̥tsnavidhisēvanāt |
ēkabastipradānācca siddhabastiṣvayantraṇā ||118||
kasmādētē niyantraṇāstadāha- mr̥dutvādityādi| mr̥duvīryairauṣadhaiḥ kalpitō mr̥duḥ| pādahīnatvāditi pādēna hīnaḥ pādābhyāṁ vā hinaḥ, tataśca pādahīnā nava prasr̥tā bhavanti, pādābhyāṁ hīnāḥ ṣaṭprasr̥tā bhavanti| akr̥tsnavidhisēvanāditi vamanādisaṁskāravarjanāt| ēkabastipradānāccēti ēkapuṭakapradānāt; ‘ēkāhaṁ praṇidhānācca’ iti kēcit paṭhanti, ēkāhamēva praṇidhānaṁ bastidānamityarthaḥ| paraṁ kālaikakr̥tē dōṣakōpē kadācit samyaṅnirūḍhalakṣaṇamavēkṣya dvitryādibastidānamapīti pāṭhaviśēṣādviśiṣṭō’rthaḥ; atō ‘naikāhapraṇidhānāt’ ityaparē paṭhanti; tatra śōdhananirūhavadēkāhamēva praṇidhānaṁ nāstyēva; kiṁ tarhi sādhāraṇatvāt samadhātuṣu vājīkaraṇādāvasakr̥ddānamapīti||118||
iti suśrutasaṁhitāyāṁ cikitsāsthānē nirūhakramacikitsitaṁ nāmāṣṭatriṁśō’dhyāyaḥ ||38||
iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ cikitsāsthānē’ṣṭatriṁśattamō’dhyāyaḥ||38||
1. ‘anuktaṁ vidhānaṁ’ iti pā.|
2. ‘ardhāsyaṁ vivr̥taṁ kr̥tvā’ iti pā.|
3. ‘auṣadhāntamupasaṅgr̥hya’ iti pā.|
4. ‘pīḍanakālādupēkṣyāturamupavēśayēt’ iti pā.|
5. ‘utkaṭakaṁ’ iti ‘utkaṭikaṁ’ iti ca pā.|
6. ‘anucchīrṣakāyāṁ’ iti pā.|
7. ‘vyaktakṣārāmlōṣṇalavaṇaiḥ’ iti pā.|
8. ‘… ratyalpavēgō’ iti pā.|
9. ‘mūrcchāgudabhraṁśakaphātiyōgādīni’ iti pā.|
10. ‘sunirūḍhaṁ tataḥ snātaṁ yathāsvaṁ pratibhōjayēt’ iti pā.|
11. ‘… rōgāvasthasyākramēṇāpi’ iti pā.|
12. ‘catvāraḥ snēhabhāgastu pañcamaḥ’ iti pā.|
13. asyāgrē ‘kvāthō’ṣṭādaśapalāni, ēvaṁ pittakaphayōrapi’ ityadhikaṁ paṭhyatē kvacitpustakē|
14. ‘bastistu kalpitaḥ samyak tasyādānaṁ yathārthakr̥ta’ iti pā.| ‘ādānam upayōgaḥ’, iti hārāṇacandraḥ|
15. ‘mathnīyādanusnēhaṁ’ iti pā.|
16. ‘dvādaśaprasr̥tibastiṁ’ iti pā.|
17. ‘paladvayatyāgaṁ’ iti pā.|
18. ‘kr̥tvā kvāthaṁ gr̥hṇīyāt iti pā.|
19. ‘catuṣpalaprayōjanaparō’yaṁ’ iti pā.|
20. ‘nikṣipyamāṇē’lpaṁ kṣaudramityuktatvāt’ iti pā.|
21. ‘priyaṅgvañjanasaindhavaiḥ’ iti pā.|
22. ‘mr̥dōrmāṁsasya’ iti pā.|
23. ‘tējaḥ tvaksthā dīptiḥ’ iti pā.|
24. ‘balāmadanasarṣapaiḥ’ iti pā.|
25. ‘tathā tailamadhunī’ iti pā.|
26. ‘kṣaudrādīni guṇadōṣatayā nipuṇabudhdyā’ iti pā.|
27. ‘viṣamajvaraśūlārśōgrahaṇīvātakuṇḍalān’ iti pā.|
28. ‘ētānyanuktānyapi dāpayēta yuktyā nirūhē madanātphalaṁ ca’ iti pā.|
29. ‘sadyaskamusr̥gaṇḍaṁ vā’ iti pā.|
30. ‘jējjaṭa rūpāyatau’ iti pā.|
31. ‘pravr̥ttyunmukhatvādilakṣaṇēna’ iti pā.|
32. ‘āturaviṣayānnirdiśya svasthaviṣayaṁ nirdiśannāha’ iti pā.|
33. ‘kṣīraprasthēna saṁyuktaṁ kṣīraśēṣaṁ parisrutam’ iti pā.|
34. ‘śēṣamanyadyuktaṁ’ iti pā.|
35. ‘prādhānyēnātra vartatē’ iti pā.|