ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana

Devanagari Version

काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता

सुश्रुतसंहिता

श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता

निदानस्थानम् - १. वातव्याधिनिदानम्

अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||


हेतुलिङ्गौषधज्ञानबीजभूतेन सूत्रस्थानेन सङ्क्षेपोद्दिष्टस्य हेतुलिङ्गौषधस्य विवरणे सर्वाण्येव स्थानानि प्रस्तुतानि, तेषु च प्रस्तुतेषु स्वाधिकारिणां शल्यतन्त्रव्याधीनां हेतुलक्षणप्रतिपादकतया निदानस्थानस्यारम्भः, तत्रापि दोषाणां वातस्य प्रधानत्वात्तद्व्याधीनां हेतुलक्षणाभ्यां प्राक् प्रतिपादनं युज्यत इत्याह- अथात इत्यादि| वातव्याधेराक्षेपकादेर्निदानं हेतुलक्षणनिर्देशः| अथातो वातव्याधिनिदानमित्यादि यद्यपि प्रथममेव सूत्रमस्ति तथाऽपि ‘प्राब्रवीद्भिषजांवरः’ इत्यनन्तरं द्रष्टव्यम्, अनुपासिताप्रार्थितगुरोः शिष्याणां व्याख्यानेऽनधिकारात्||१-२||


हेतुलिङ्गौषधज्ञानबीजभूतं सङ्क्षिप्तार्थसूत्रणं सूत्रस्थानम्| तेनैव सङ्क्षेपेणोद्दिष्टस्य हेतुलिङ्गौषधज्ञानस्य विवरणे सर्वेष्वेव स्थानेषु पूर्वं निदानमेव प्रस्तूयते; अत्र हि स्वाधिकारिणां शल्यतन्त्रव्याधीनां सामान्यविशेषरूपेण हेतुलक्षणनिर्देश इति| भवति चात्र- “सर्वस्थानप्रपञ्चानां सूत्रमेवार्थसूत्रणम्| सर्वशाखाप्रबन्धानां मूलं स्कन्धस्तरोरिव|| स्थितः स्थानेषु शेषेषु स्वस्थानार्थश्च केवलः| प्रसवानामिवैतेषामुपशाखासु शाखिनः” इति| ननु चिकित्साया विधेयत्वेन प्राधान्यात् सूत्रस्थानानन्तरं तन्निर्देशस्थानमेव युज्यते| नैतदस्ति, चिकित्सा कारकज्ञापकहेतुभिः सर्वभावेन ज्ञातस्य व्याधेरुपपन्ना नान्यथेति कारकज्ञापकहेतुनिर्देशार्थं निदानस्थानमेव कृतम्| तत्रापि सर्वशल्यतन्त्रव्याधीनां हेतुलिङ्गनिर्देशे प्रस्तुते प्रथमं वातव्याधिहेतुलिङ्गनिर्देशः, पित्तकफयोस्तद्व्याधीनां च शेषाणां वातस्यैव समीरणत्वेन हेतुभूतत्वात्| सर्वहेतूनां च प्राग्भावाद्वातव्याधिनिदानमेव प्रथमम्| यद्येवं पित्तकफव्याधिनिदानमपि निर्देष्टव्यं; नैतदस्ति, पित्तकफयोर्हि रूपरसगन्धादियोगाद्रसादिदूष्यद्रव्यसंयोगविशेषेण समुदायिभ्योऽन्यः समुदाय इत्यतश्चूर्णहरिद्रासंयोगवदत्यन्तविसदृशा एवाव्यक्तरूपरसगन्धादिसमन्विताः पृथक् सामान्यजा [१] व्रणज्वरादयो जायन्ते; वातस्य पुनर्द्रव्यनिरपेक्षा [२] वातरक्ताक्षेपकादयोऽ(नति)भिन्नरूपा नानात्मजाः, वातैककृतत्वात्; य इहैवोपदेक्ष्यन्ते; अन्ये पुनरस्य सामान्यजा व्रणज्वरादयः, सर्वैरेवारब्धत्वादिति| भवति चात्र- “व्यक्तोऽन्योरसरूपादिर्वातव्याधौ न दृश्यते| तेन नानात्मजा एव काश्चिन्मारुतजा रुजः||” इति| अथातो वातव्याधिनिदानमिति यद्यपि प्रथममेव सूत्रमस्ति तथाऽपि ‘प्राब्रवीद्भिषजांवरः’ इत्यनन्तरमेव द्रष्टव्यम्, अनुपासिताप्रार्थितगुरोः शिष्याणां व्याख्यानेऽनधिकारात्| वातीति वातः सदागतिः, तस्य व्याधयः विविधं दुःखमादधतीति व्याधयः, ते पुनराक्षेपकादयः, तेषां निदानं हेतुलक्षणनिर्देशः| यदाह “हेतुलक्षणनिर्देशान्निदानानीति षोडश” (सू. ३); कारकज्ञापकनिर्देशादित्यर्थः| तत्र हिन्वन्ति उत्पत्तौ उद्गन्ति गच्छन्तीति हेतवः कारकहेतवः| स्थानसंश्रयाणां हेतवो व्याधिहेतवः| तत्र दोषसञ्चयस्य ऋतुचर्याभिहितः शीतोष्णवर्षादिभिः कालानुवर्तिभिः सोमसूर्यानिलकृतैरोषधिष्वाहितः स्नेहरूक्षगुणो हेतुः, प्रकोपस्य पुनर्बलवद्विग्रहक्रोधदिवास्वप्नादयः| प्रसरहेतवस्तु भिन्ना न सन्ति, प्रसरस्य प्रकोपविशेषत्वादेव| व्याधिहेतवस्तु विरुद्धाशनं कुष्ठस्य, विषमाशनं यक्ष्मणः, अत्यशनमजीर्णस्य, मृद्भक्षणं पाण्डुरोगस्य| उभयहेतवस्तु ‘हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च’ इत्यादि, तथाच ‘स्तन्यावतरणाच्चैव ज्वरो दोषैः प्रकुप्यति (उ. तं. ३९) इति वचनाद्दोषरोगोभयहेतवः| अन्ये त्वन्यथा द्विविधं हेतुमिच्छन्ति- विप्रकृष्टं, सन्निकृष्टं चेति| तत्र विप्रकृष्टा अनन्तरोक्ता दोषरोगोभयहेतवः;सन्निकृष्टाः पुनः कर्मेन्द्रियार्थकालैर्विषमा वातादयः| कर्मादीनां तु वैषम्यं त्रिविधेन मिथ्याहीनातियोगेन, कर्मादिसम्यग्योगेन पुनरेकेन दोषसाम्यं, तदेकमेव स्वास्थ्यकारणम्| कर्मादिमिथ्यादियोगेऽप्यसति सात्म्यीभावे दोषकोपः| कर्म पुनः कायवाङ्मनोभेदेन त्रिविधम्| रसरूपगन्धस्पर्शशब्दाः पुनरिन्द्रियार्थाः| कालः पुनः षडृतुको वर्षसञ्ज्ञः| तस्य शीतोष्णवर्षगुणेन मिथ्यादियोगाः| स एव हेतुः पुनः प्रथमाध्याये विहाराहारपार्थिवकालभेदेन चतुष्प्रकारो दर्शितः| तस्यैव पुनर्विहाराहारौ व्रणप्रश्ने दोषप्रकोपगणेषु हि मिश्रीकृत्य विनिर्दिष्टौ| कालस्तु “स शीताभ्रप्रवातेषु” (सू. २१) इत्यादिभिः पृथक्कृतः| गन्धादिविशेष इन्द्रियार्थस्तु पुष्पादिसम्भवो दोषाणां व्याधीनां च हेतुत्वेन दोषप्रकोपगणे न पठितः; दोषप्रकोपगणेषु केवलं दोषप्रकोपहेतवः पठ्यन्ते, न पुनरुभयहेतव इति| भवन्ति चात्र “विषमा विषमैरेव दोषा रोगस्य हेतवः| कर्मेन्द्रियार्थकालैः स्युस्ते स्वास्थाय समाः समैः|| समयोगात् समाः स्वास्थ्ये, मिथ्याहीनातियोगतः| दोषाः स्युर्विषमा रोगे तत्र साम्यं सुखावहम्|| कायवाङ्मनसां भेदाद्विहारस्त्रिविधो मतः| रसादयस्तु पञ्चार्थाः, कालः षडृतुकः स्मृतः|| प्रकोपे प्रशमे पूर्वं विहाराहारपार्थिवाः| कालश्चैषु चतुर्थोक्तो हेतुरत्र पुनस्त्रिधा|| क्रियाहारश्च वर्गेषु दोषाणां कोपहेतुषु|”- इति| अन्ये पुनश्चतुर्विधं हेतुमिच्छन्ति; तत्र सन्निकृष्टविप्रकृष्टौ द्वौ, अधर्मप्रागुत्पत्ती च द्वे इति| तत्राधर्मस्त्रेतायुगादौ प्रवृत्तः; प्रागुत्पत्तिस्तु दक्षापमानसम्भूतरुद्रकोपात् सन्तापो (सम्भवो) ज्वरादीनामिति| लक्ष्यते अनेनेति लक्षणं ज्ञापकं लिङ्गम्| तदपि द्विविधं- दोषाणां व्याधीनां च| तत्र सञ्चयप्रकोपप्रसराणां लिङ्गं दोषलिङ्गम्| तत्र सञ्चयस्य तावद्दोषाणां लिङ्गं सञ्चितानां खलु दोषाणां स्तब्धपूर्णकोष्ठतादयो वातादीनां; प्रकुपितानां तु कोष्ठतोदादयः; प्रसृतानां विमार्गगमनादयः| स्थानसंश्रयादिलिङ्गं तु द्विविधं- पूर्वरूपं, रूपं चेति| स्थानसंश्रये सम्प्राप्त्याख्ये पूर्वरूपं, व्यक्त्या तु रूपं, तद्व्यक्तस्य व्याधेर्लिङ्गम्| तदपि द्विविधं- सामान्यं, विशिष्टं च| तत्र सामान्यं “वायुः प्रवृद्धो वृद्धेन रक्तेनावारितः पथि| क्रुद्धः सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्” (च. चि. २९) इति| तथा वृणोतीति व्रणः, विकृतसन्तापो ज्वरस्य लिङ्गम्, अतिसरणमतिसारस्य| विशिष्टं पुनरेषामेव वातादिभेदेन लक्षणम्| ‘त्रिविधं लिङ्गम्’ इत्यन्ये| तत्र पूर्वोदितं दोषव्याधिलिङ्गद्वयं, तृतीयं पूर्वरूपमिति| तत् पुनर्दोषव्याधिलिङ्गाभ्यामन्यदेव| तत् सम्मूर्च्छितदोषदूष्यव्यापारेण व्याधिजननसमर्थस्य कार्यलिङ्गमिति| भवतश्चात्र- “किञ्चिद्दोषचयादीनां लिङ्गं व्याधेस्तथाऽपरम्| तेन लिङ्गं द्विधैवोक्तं दोषरोगसमाश्रयम्| ततस्तृतीयमप्याहुः पूर्वरूपं तदुच्यते| तत्तु ह्येकीभवद्दोषदूष्यरागिकृतं स्मृतम्” इति| अन्ये पुनरन्यथा द्विविधं लिङ्गमाहुः; तद्यथा- साध्यरोगस्यैकम्, अपरं पुनरसाध्यस्य| तत्रासाध्यरोगलिङ्गमपि त्रिविधम्| तद्यथा- रोगाणां स्थैर्यमहत्वधात्वनुक्रमैरेकम्| तदुक्तं- “स स्थिरत्वान्महत्वाच्च धात्वनुक्रमणेन च| निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा”- (सू. २३) इति| तदिहैवोक्तम्- “आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत्”- इत्यादि| तथाऽन्यदवारणीये निर्दिष्टमुपद्रवकृतमेव| तथैवापरमनिमित्तं शरीरमनसोः प्रकृतेर्विकृतिलक्षणमरिष्टाख्यं क्रियापथातिवृत्तदोषाणां कार्यभूतमसाध्यव्याधिलिङ्गम्| भवति चात्र- “असाध्यं द्विविधं याप्यमपि यच्चानुपक्रमम्| तस्यापि त्रिविधं लिङ्गं निदानारिष्टवारणैः” इति| निदानमिति निपूर्वाद्दिशेर्लुडन्तात् पृषोदरादित्वेन सिद्धिः| वातव्याधिनिदानं यस्मिन् यस्य वा विद्यते इति मत्वर्थे समुत्पन्नस्य कस्य ‘अध्यायानुवाकयोर्लुक्’ (पा. अ. ५/२/६०) इति लुक्||१-२||

धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम् |
चरणावुपसङ्गृह्य सुश्रुतः परिपृच्छति ||३||
वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः |
स्थानं कर्म च रोगांश्च वद मे वदतां वर ||४||


कः पुनरेवं प्रतिज्ञातवानिति तमेव प्रकारेण दर्शयन्नाह- धन्वन्तरिमित्यादि| धर्मभृतां धार्मिकाणां, वरिष्ठं श्रेष्ठम्| अमृतेन सह उद्भव उत्पतिर्यस्य तम्| चरणावुपसङ्गृह्येति पादपतनं कृत्वेत्यर्थः| किं परिपृच्छतीत्याह- वायोरित्यादि| प्रकृतिभूतस्य स्वभावावस्थितस्य, व्यापन्नस्य विकृतस्य| कोपनैः द्रव्यगुणकर्मभिर्वायुसमानैः| स्थानं श्रोणिगुदादि, तच्च प्रकृतिभूतस्य वायोः; विकृतस्य तु सर्वशरीरम्| कर्म सामान्यं विशिष्टं च; सामान्यम् ‘इन्द्रियार्थोपसम्प्राप्तिं’ इत्यादि, विशिष्टं ‘स प्राणो नाम देहधृक्’ इत्यादि| रोगांश्चेति हिक्काश्वासादिकान्| यदाह- “प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्” इति| चकारान्नाम च| वदतां वर व्याख्यातॄणां मध्ये श्रेष्ठ! ‘कोपनैः’ इत्यत्र ‘भूपते’ इति केचित् पठन्ति; ‘वद मे’ इत्यत्र च ‘वदस्व’ इति पठन्ति; तत्र भूपते इति धन्वन्तरिसम्बोधनं; वदस्व वदेति चैक एवार्थः| मे मम| कर्मग्रहणं केचिन्नाधीयते; तन्मते, ‘स्थानं रोगविभागं च’ इति
पाठः||३-४||


कः पुनरेवमुक्तवान् ‘वातव्याधिनिदानं व्याख्यास्यामः’ इति, तमेव प्रकरणं दर्शयन्नाह- धन्वन्तरिं धर्मभृतामित्यादि| धर्मभृतांवरिष्ठमिति स्थितौ धार्मिकता| अमृतोद्भवमिति उत्पत्तौ विशुद्धता| चरणावुपसङ्गृह्येति गुरुपूजाप्रतिपादनम्| प्रकृतिभूतस्येति भूतशब्दोऽयमुपमार्थे, ‘काष्ठीभूतो मृतोपमः’ (च. सू. २४) इति| एतेनाह्निकार्तवदोषावैषम्यसद्भावमपरिहारार्थं दर्शयति| केचित् ‘विपन्नस्य च कोपनैः’ इति पठन्ति| अन्ये त्वपठित्वा व्यापन्नताया अन्यथाऽनुपपत्त्यैव कोपनैरित्यस्य सामर्थ्यं लम्भयन्ति| स्थानं श्रोणिगुदादि; एतद्धि प्रकृतिभूतस्यैव न पुनर्विकृतस्य, विकृतानां हि दोषाणां सर्वशरीर एव विकृतिकार्यदर्शनात् सर्वशरीरे एवावस्थानमनुमन्तव्यम्| कर्म सामान्यं विशिष्टं च| तत्र सामान्यं ‘इन्द्रियार्थोपसम्प्राप्तिं’ इत्यादि, विशिष्टं ‘स प्राणो नाम देहधृक्’ इति प्रतिस्थानस्थितमारुतानां क्रिया| रोगांश्चेति स्थानोदितहिक्काश्वासादिकान्| यदाह- “कुरुते चापि हिक्काश्वासादिकान् गदान्” इति| गदान् विकारान् स्थानाश्रयान्| नाम च वदस्वेति भाषणेऽर्थे आत्मनेपदम्| ‘वद मे’ इति केचित् पठन्ति| कर्मग्रहणं केचिन्नाधीयते| तन्मते प्रकृतिव्यापत्तेः प्राकृतवैकृतकर्मानुमीयते| तदसूत्रितमपि कर्म प्राकृतं वैकृतं चान्यथानुपपत्त्या लभ्यते| व्यापन्नत्वं तु वायोर्वृद्धिक्षयाभ्यामेव| ननु कथं वायोरसंहतत्वादनवस्थितत्वाच्च चलस्य समासमैर्द्रव्यगुणकर्मभिर्वृद्धिक्षयौ? नैतदस्ति, नह्यनिलमौषधद्रव्याणि समेत्य वर्धनानि वर्धयन्ति क्षपणानि क्षपयन्ति; किं तर्हि समीरणसमानि समगुणभूयिष्ठानि वा द्रव्यगुणकर्माणि संयोगमेत्य शरीरस्य शुषिरकराणि सावकाशे च शरीरे वायुरवकाशं लभमानः स्वयमेवाप्यायते; यानि वातगुणविपरीतानि विपरीतगुणभूयिष्ठानि वा तानि शुषिरत्वाकराणि निरन्तरे च शरीरे वायुरवकाशमलभमानः स्वयमेव प्रशान्तिमापद्यते| भवन्ति चात्र- “स्वगुणान् स्वगुणैर्द्रव्यैर्लब्ध्वा रुद्धाश्रयोऽनिलः| स्वयं कोपशमौ देहेयात्यप्राप्तेऽपि भेषजे”- इति||३-४||

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां [३] वरः |
स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः ||५||
स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च |
सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ||६||
स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् |
अव्यक्तो व्यक्तकर्मा च रूक्षः [४] शीतो लघुः खरः ||७||
तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च |
अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ||८||
आशुकारी मुहुश्चारी पक्वाधानगुदालयः |९|


तस्येत्यादि| तस्य सुश्रुतस्य| तत् पूर्वोक्तम्| भिषजां वरो धन्वन्तरिः| ‘भिषजां गुरुः’ इति केचित् पठन्ति| प्राब्रवीत् जगाद| एष वायुरिति सम्बन्धः| भगवान् समस्तैश्वर्यगुणयुक्तः, अणिमादिगुणयुक्त इत्यर्थः| अभिशब्दितः कीर्त्तितः| स्वयम्भूत्वे हेतुत्रितयमाह- स्वातन्त्र्यादित्यादि| स्वातन्त्र्यादिति स्वकर्मविषये नान्येन प्रेर्यत इत्यर्थः| नित्यभावात् नित्यस्य हि कारणरहितत्वेन स्वतन्त्रत्वं, ततश्च स्वयम्भूत्वमित्यर्थः; सर्वगत्वाच्चेति यो हि सर्वगतः स स्वयम्भूः, आकाशवत्| चकारात् सूक्ष्मत्वमपि परमाणोरिव स्वयम्भूत्वे हेतुः समुच्चीयते| कथं पुनरस्य सर्वगत्वं यावता पार्थिवद्रव्यमूर्त्तिषु वायुर्नास्तीत्याह- सर्वेषामित्यादि| सर्वेषां स्थावरजङ्गमानां, सर्वात्मा कारणकार्यात्मकत्वेन सर्वस्वरूपः, ‘सर्वप्रयोजनहेतुः’ इति केचित्| सर्वलोकनमस्कृत इति कुत इत्याह- स्थित्युत्पत्तिविनाशेष्वित्यादि| स्थितिः जीवनम्| अव्यक्तोऽदृश्यमूर्तिः| व्यक्तकर्मा प्रकटक्रियः| शीत इति असंयुक्तस्य वायोर्गुणोऽयं संयुक्तस्तूष्णोऽपि| खरः खरस्पर्शः, कर्कोटकफलवत्| तिर्यग्गः तिर्यग्गामी| द्विगुणः शब्दस्पर्शगुणः| रजोबहुल इति त्रिगुणत्वेऽप्युत्कर्षविशेषाद्रजः प्रबलत्वमस्य| अचिन्त्यवीर्योऽचिन्त्यशक्तिः, सा चास्य शक्तिः
शरीरदोषमूत्रपुरीषादिविभागोऽवयवादिसंस्थानका(क)रणं [५] दोषधातुमलसंवहनादिश्च, शरीराद्बहिस्तु सञ्चरतो धरणीधारणादिः| दोषाणां नेता दोषधातुमलानां प्रेरक इत्यर्थः, अन्ये तु वायोरपि वायुरेव नेतेति बहुवचनं समर्थयन्ति| रोगसमूहराडिति रोगसमूहे रोगहेतुवृन्दे पित्तकफरक्तादौ राजते शोभते इति रोगसमूहराट्; न तु राट्शब्दो राजपर्यायः, ‘स रोगानीकराट् स्मृत’ इत्यग्रेतनेन सह विरोधापत्तेः| आशुकारी शीघ्रमत्ययकारित्वात्| मुहुर्मुहुः प्रकृतिभूतोऽपि चरतीति मुहुश्चारी| पक्वाधानगुदालय इति पक्वाशयगुदौ स्थानमस्येत्यर्थः||५-८||-


अत एवायं स्वयम्भूः| सम्पदादित्वाद् भावे क्विप्| स्वयमात्मना, भू सत्तायाम्| सोऽयं वायुरित्यभिशब्दितः कीर्तितः| स एव भगवान् समस्तैश्वर्यगुणयुक्तः| अत एवास्य स्वयमाविर्भावो महत्त्वायोगात्, स्वयमेव तिरोभावोऽणुत्वायोगात्| कुतः पुनरयं लब्धसत्ताक इत्याह- नित्यभावेन स्वातन्त्र्यात्; नित्यस्य हि लक्षणं- ‘सदकारणवत्त्वं’; सन्नयं वायुः, प्रत्यक्षस्पर्शोपलभ्यत्वात्| व्यक्तः कम्पादिकर्मवत्त्वात्| कारणानुपलब्धेर्नित्यः| नित्यश्च स्वतन्त्रो भवति, कारणानपेक्षत्वात्; यो हि कारणमपेक्षते स सापेक्षत्वादस्वतन्त्राः, नायं तथा, तस्मादयं स्वतन्त्रः| स्वयम्भूत्वे तृतीयमपि हेतुं दर्शयन्नाह- सर्वगत्वादिति| यः सर्वगतः स स्वयम्भूः, आकाशवत्| चकारात् सूक्ष्मत्वमपि परमाणोरिव स्वयम्भूत्वे हेतुः| कथं पुनस्य सर्वगत्वं?
यावता पार्थिवद्रव्यमूर्तिषु वायुर्नास्तीत्याह- सर्वेषामेव सर्वात्मेति| सर्वेषामेवेति स्थावराणां जङ्गमानां वा; अथवा कारणात्मनां वा सर्वरूपाणाम्| यदाह चरकः- “विश्वरूपः” (च. सू. १२) इति| एतेन पार्थिवादीनामात्मवायुरेव स्वभावः| अत एव नाम सर्वं द्रव्यं पाञ्चभौतिकमिति, वायुगुणकर्मणां सर्वत्र विद्यमानत्वात्| यद्येवमेवम्भूतस्य वायोः कथं विहाराहारफलादिभिरैश्वर्यहानिः? नैतदस्ति, वायोरैश्वर्यस्य दैवानुगमेन कालविहाराहारादिभिरुपाधिभिर्निरुपाधेरग्नेरिव ह्रासादयो विशेषाः| तत्राग्नेरुपाधयः “औदर्यो भगवानग्निः” (सू. ३५) इत्यादि| अत्र यथा दैवबलेन निरुपाधेरप्यनलस्य विहाराद्याभिरुपाधिभिर्वैषम्यादयो विशेषाः, तथा वायोरपि निरुपाधेराहारादिभिरुपाधिभिः क्षयादयो विशेषा भवन्ति| भवति चात्र- “स्वतन्त्रस्यापि नित्यस्य सर्वगस्य स्वयम्भुवः| दृष्टा दैवानुगाः सर्वविशेषास्तु नभस्वतः”- इति| सर्वभूतैर्नमस्कृत इति प्रत्यक्षफलदेवतारूपत्वात्| कुतो भूतानां नमस्कृत इत्याह- स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणमित्यादि| उत्पत्तौ कारणं रजोबहुलत्वात्| अत्रार्थे चरकः- “प्रभवश्चाव्ययश्च” (च. सू. १२) इति| अव्यापन्नतया स्वकर्मणि व्याप्रियमाणः स्थितिहेतुः| स्वां क्रियामकुर्वन् व्यापन्नरूपतया विनाशहेतुः| अत्रार्थे चरकः- “भूतानां भावाभावकरः” (च. सू. १२) इति| भूतानां प्राणिनां, महाभूतानां वा चतुर्णाम्| व्यक्तसंयोगक्रियत्वाद् भावकरः, पृथक्क्रियया व्यक्तविभागकारित्वादभावकरः| तदुक्तं- “सर्वा हि चेष्टा वातेन स प्राणः प्राणिनां मतः (च. सू. १७) इति| तथा स्वतन्त्रेऽपि “पञ्चधा चेष्टयत्यपि” इति| ननु च भूतानां भावाभावौ व्यक्तौ, न च तत्र वायुर्व्यक्तं कारणमुपलभ्यत इत्याह- अव्यक्त इति, व्यक्तो न भवति| प्रसह्ये नञ्, क्रियया तस्य सम्बन्धात्, तत्रापि गमकत्वात् समासो भवति, ‘असूर्यललाटयोर्दृशितपोः’ (पा. अ. ३/२/३६) इत्यत्र यथा| तेन व्यक्तस्यापि पुष्पस्योत्पत्ताविवासत्त्वं पिशाचादीनामिव वा संशयितं सत्त्वं निराकृतम्| व्यक्तकर्मोत्पादनेन हि कालदेशपुरुषेषु त्रिष्वभिव्यक्तिरव्यक्तस्यापि व्यक्तकर्मणः परमाणोरिव भवत्येव| तस्येदानीं चिकित्सोपयोगिनः स्वाभाविकान् गुणान्निर्दिशन्नाह- रूक्षः शीत इत्यादि| शीतत्वमसंयुक्तस्य| तथा हि चरकः- “रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः (च. सू. १)” इति| शास्त्रान्तरेऽस्यानुष्णाशीतस्पर्शत्वमेवोक्तम्| तत्र यद्युष्णशीतयोर्युगपत्सम्भवोऽनेन वचनेनोच्यते, तदयुक्तं; शीतोष्णयोः सहावस्थानविरोधात्| शीतोष्णवर्जितस्पर्शत्वं विधीयतेति चेत्? तदप्यसत्, तृतीयस्य स्पर्शराशेरसम्भवात्| शीतोष्णस्पर्शविरोधेन स्पर्शमात्रनिषेध इति चेत्, तदप्यसङ्गतं, वायोः स्पर्शगुणस्य प्रत्यक्षत्वात्| तस्मादसंयुक्तः शीत एव; संयुक्तः पुनरनुष्णाशीतः, वायोर्येगवाहित्वात्| यदाह चरकः- “योगवाहः परं वायुः संयोगादुभयार्थकृत्| दाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात्” (च. चि. ३) इति| लघुत्वं चापरिमेयमप्यस्य तिर्यग्गमनादनुमीयते, अन्यथा गुरुत्वादधो गच्छेत| खरः कर्कोटफलवत्| रूक्षत्वं विनाऽपि खरत्वेन भवति, सूक्ष्ममसृणरजसीव| तिर्यग्गत्वेन वायुत्वेन च तन्त्रान्तरोदितं चलत्वमप्युक्तम्| द्विगुण इति शब्दस्पर्शगुणः| रजोबहुल इति सर्वकार्यकारणद्रव्याणां त्रिगुणत्वेऽप्युत्कर्षविशेषाद्रजः प्रबलत्वमस्य| अचिन्त्यवीर्यः चिन्तयितुमशक्यकृत्यः, वीर्यशब्दः शक्तिवाची; सा चास्य शक्तिः अन्तःशरीरे चरतो रसदोषमूत्रपुरीषादिविभागोऽवयवादिसंस्थानकरणं दोषधातुमलसंवहनादि, बहिः शरीरेभ्यस्तु चरतो धरणीधारणादि तथा भावाभावकरणादि| दोषाणां नेतेति कफपित्तयोर्द्वित्वेऽपि बहुवचनं सामर्थ्यादायातं; तेन दोषधातुमलानां नेतेति प्रतिपत्तव्यः| ‘वायोरपि वायुरेव नेतेति बहुवचनमुपपन्नम्’ इत्यन्ये| तन्न, तस्य स्वयमेव गतिमत्त्वात्; मलादिनेतृत्वस्य च प्रत्यक्षोपलब्धेः| वायोर्गतिमत्त्वाद्बहिरपि तस्य तृणादौ नेतृत्वोपलब्धेः| एतेन रोगिणि रोगारम्भकसर्वकारणानां स्वस्थे च दोषधातुमलानां नेतृत्वमनिलाधीनमित्युक्तम्| रोगसमूहराडिति रोगसमूहे राजतीति, तेन कार्यभूतव्याधिकरत्वं युक्तम्| नायं राट्शब्दो राजपर्यायः किं तर्हि रोगसमूहे रोगहेतुवृन्दे पित्तकफरक्तादौ शक्तिविशेषयोगाद्दीप्ततामाचष्टे| अन्यथा परेण सह पूर्वस्य विरोधः स्यात्| यदुक्तं ‘स रोगानीकराट् स्मृतः’ (उ. तं. ३९) इति| किं च रूक्षादिवातविशेषाणां प्रकृतिभूतस्य कथं हेतुत्वमिति चेत्, कुशूलस्य बीजस्याङ्कुरेष्वपि भविष्णुयोग्यतया हेतुव्यपदेशः| कथमनेन दोषधात्वन्तरस्रोतोविचरणाक्षमेण सञ्चरणमित्याह- आशुकारीति| आशुकरणशीलत्वमेव कथमित्याह- मुहुश्चारीति| यस्मादयं मुहुश्चारी तस्मादाशुकारीत्यर्थः| एवन्नामायं त्वरितगतिः, यत् सर्वधातुषु मुहुरेव सञ्चरति; अत एवास्य स्वस्थे रोगिणि च समानां प्रकुपितानां च दोषधातुमलानां क्रियाकारित्वमाश्वेव निष्पन्नम्| कः पुनरस्याधारो यत्र मुहुश्चरतीत्याह- पक्वाधानगुदालय इति| पक्वस्याधानमाधारो गुद आलयः स्थानं यस्य| तथा निजमस्य तत् स्थानं, तत्रैव स्थाने दोषादिसंवहनार्थं पुनरन्यत्र मुहुश्चरतीति| एतेन तत्रैवायमवजेतव्यो बस्त्यादिभिर्नान्यत्र; अन्यत्रावजयेऽप्यस्य न मूलोच्छेदः; तेन मूलोच्छेदाच्छारवादीनामिव वातविकाराणां नियतो विनाश इति| भवति चात्र- “स्वे स्वे स्थानेऽनिलादीनां सर्वेषां मूलमिष्यते| जितेऽत्र जायते तेषां कृत्स्ननाशो यथा रुहाम्”||५-८||-

देहे विचरतस्तस्य लक्षणानि निबोध मे ||९||
दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च |
क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः ||१०||
(इन्द्रियार्थोपसम्प्राप्तिं दोषधात्वग्न्यवैकृतम्|
क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः [६] ||१०||) |


निबोध मे इति निबोध जानीहि, मे मत्सकाशात्| धातुशब्दानन्तरमादिशब्दो लुप्तो द्रष्टव्यः| तेन मलोपधातूनामपि ग्रहणम्; अथवा धातुशब्देन मलोपधातव उच्यन्ते, शरीरधारणकारणात्| विषयेषु शब्दस्पर्शरूपरसगन्धेषु| क्रियाणां कायवाङ्मानसीनाम्| आनुलोम्यं प्रवर्त्तकत्वम्| गयदासाचार्यस्तु इमं श्लोकम् ‘इन्द्रियार्थोपसम्प्राप्तिं’ इत्यादि कृत्वा पठति, स च विस्तरभयान्न लिखितः||९-१०||


किं पुनरस्य पक्वाधानगुदालयस्याखिलदेहविचरणलक्षणमित्याह- देहे विचरतस्तस्येत्यादि| निबोध मे इति मे शब्दस्याव्ययत्वात् ‘मत्तः’ इत्यर्थो द्रष्टव्यः| तत्र स्वस्थस्यैव प्रथमं देहविचरणलक्षणं दर्शयन्नाह- इन्द्रियार्थोपसम्प्राप्तिमित्यादि| इन्द्रियाणां चक्षुरादीनामर्थानां
रूपादीनामुपगमनपूर्विकां प्राप्तिं करोति वायुरदूषितः, सर्वक्रियाणामनिलकृतत्वात्| भूतात्मनां मनःपुरःसरमिन्द्रियेणेन्द्रियार्थानां ग्रहणात्, अपगतमनसां पुनरग्रहणात्| यद्येवं न स्यात् तदा सर्वेन्द्रियाणामेव सकृदर्थग्राहित्वं स्यात्| तस्मादिन्द्रियाणामर्थग्रहणार्थं मनस उपगमे हेतुता च वातकृता, सर्वक्रियाणामनिलमूलत्वात्| दोषधात्वग्न्यवैकृतं ‘कुर्यात्’ इति शेषः| अविकृतशब्दो दोषादिभिः प्रत्येकमभिसम्बध्यते| विकारो वैकृतं, न वैकृतमवैकृतं, विरुद्धस्ताब्ध्यात्; अथवा अल्पार्थे नञ्, ‘अनुदरा कन्या’ इति यथा| तेनाह्निकतयैवापरिहार्यो नित्यं दोषाणां सञ्चयाद्यनुबन्धोऽनेन सूचितो भवति| धातुशब्दानन्तरमादिशब्दो मध्ये लुप्तनिर्दिष्टो दृष्टव्यः, तेन मलोपधातूनामपि ग्रहणम्| अथवा दधतीति धातवः; तेन मलोपधातूनामपि ग्रहणं, शरीरधारणकारणत्वात्| क्रियाणां कायवाङ्मानसीनाम्, आनुलोम्यमनुकल्पता; एतेन “समदोषः समाग्निश्च” (सू. १५) इत्यादिश्लोकस्यैवार्थोऽत्रापि प्रक्रमदर्शितः||९-१०||

यथाऽग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः |
भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ||११||


तदेवं सर्वानिलस्य सामान्येन स्वास्थ्यहेतुत्वं प्रदर्श्य स्थानोपाधिभेदेन भिन्नस्य नामान्तरविशिष्टस्य प्रतिस्थानं विशिष्टस्वस्थक्रिया रोगांश्च दर्शयन्नाह- यथाऽग्निरित्यादि| यथाऽग्निः पित्तग [७] एक एव पाचकरञ्जकालोचकभ्राजकसाधकेति नाम्ना, स्थानेनामपक्वाशयादिना, क्रियया अन्नपाचनादिकया, आमयेनाम्लपाकादिना पञ्चविधः; एवमनिलोऽप्येक एव नामादिभिः पञ्चविधः| अन्ये तु पुनरत्र बाह्याग्नेर्गार्हपत्याहवनीयदक्षिणाग्न्यावसथ्यसभ्यलक्षणान् पञ्च भेदानाहुः, तन्नेच्छति गयदासाचार्यः||११||


तदेवं सर्वानिलानामेव सामान्येन स्वास्थ्यहेतुत्वं प्रदर्श्य, स्थानोपाधिभेदेन भिन्नस्य वायोर्नामान्तरविशिष्टस्य प्रतिस्थानं विशिष्टस्वस्थक्रिया रोगांश्च दर्शयन्नाह- यथाऽग्निरित्यादि| यथाऽग्निः पित्तमेकमेव नामादिभिः पञ्चधा भिन्नः, तद्यथा- पाचकरञ्जकालोचकभ्राजकसाधकनाम्ना पञ्चविधः, स्थानेन आमपक्वाशयमध्यादिना, क्रियया अन्नपचनादिकया, आमयेनाम्लपाकादिना; एवमनिलोऽप्येक एव नामादिभिः पञ्चविधः| अन्ये पुनरत्र बाह्यस्याग्नेर्गार्हपत्यादिपञ्चनामभेदेन भिन्नत्वात् तमपि दृष्टान्ते दर्शयन्ति; तत्तु न सम्यक्, तस्याप्रस्तुतत्वात्||११||

प्राणोदानौ समानश्च व्यानश्चापान एव च |
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ||१२||


तत्र वायोर्नामान्याह- प्राणोदानावित्यादि| स्थानस्थाः स्थानशब्देनात्र साम्यमुच्यते| यापयन्ति धारयन्ति||१२||


तत्र प्रथमं नाम्नैव भेदं दर्शयन्नाह- प्राणोदानावित्यादि| प्राणोदानावित्यादि निर्देशः||१२||

यो वायुर्वक्त्रसञ्चारी [८] स प्राणो नाम देहधृक् |
सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ||१३||
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् |१४|


वक्त्रसञ्चारित्वं चास्योपलक्षणं, तेन मूर्धोरःकण्ठनासिका अपि प्राणस्य स्थानम्| अन्तः अभ्यन्तरमन्नं प्रवेशयति देहधारणाय [९] | प्राणांश्चाप्यवलम्बत इति प्राणानग्न्यादीन्, अवलम्बते स्वक्रियासु योजयति| गयदासाचार्यस्त्वेवं मन्यते- प्राणानामग्नीषोमादीनामवलम्बनवचनेनाधारभूतहृदयावलम्बनमेवोच्यते, एतेन प्राणाधारहृदयधारणेन प्राणधारणमेवोक्तम्| अत एव प्राणानामवलम्बनेन मरणमूलत्वमुच्यते| यदुक्तं श्रुतौ- “यथा हि सैन्धवोऽश्वः शङ्कुमुत्पाट्य धावति, तद्वत् प्राणो रुद्धः सर्वान् वायूनुत्पाट्य प्रयाणकाले धावति”- इति| श्वासादिकानित्यादिशब्दात् प्रतिश्यायस्वरभेदकासादयः||१३||-


प्राणो नामेति नामशब्दः प्रसिद्धौ; प्राण इति प्रसिद्धः| देहधृगिति| देहधारणविशेषणगर्भं हेतुं दर्शयन्नाह- अन्नमित्यादि| अन्नं देहधारणाय प्रवेशयति| अन्तः अभ्यन्तरम्| प्राणान् अग्नीषोमादीन् अनिलवर्जितान् द्वादश; अथवा त्रयोदशैव, वातोऽपि वातान्तरमवलम्बत एव| ननु च तन्त्रान्तरे हि हृदयाश्रयः प्राण उक्तः “हृदि प्राणो गुदेऽपानः समानो नाभिमध्यगः| उदानः कण्ठदेशस्थो व्यानः सर्वाङ्गसन्धिगः||” इति; तथा च चरकेऽपि- “स्थानं प्राणस्य कण्ठोरः” (च. चि. २८) इति उरःस्थानमस्योक्तम्| उच्यते- वक्रे सञ्चरणमस्योक्तं वक्रचरत्वाद्वायोः; प्राणावलम्बनवचनेन तु हृदयावलम्बनमुक्तं, प्राणानां विशेषेण हृदयमर्मस्थितत्वात्| निपुणोऽयमाचार्यः स्थाष्णोः स्थानं भवति, न सदागतेरनिलस्य; तथा चायमाह- ‘उदानो नाम यस्तूर्ध्वमुपैति’ इति; ‘आमपक्वाशयचरः समानः’ इति; ‘पक्वाधानालयोऽपानः’ इति, आलीयते आश्लिष्यति अस्मिन्निति आलयः, श्लेषणमात्रं तु चलतोऽपि भवति; तथा ‘सर्वदेहचरो व्यानः’ इति| अत्रापि च प्रारम्भे यत् पुनरुक्तं ‘स्थानं कर्म च रोगांश्च’ इति, तच्छिष्यवचनत्वादुपपन्नं, शिष्यस्य हि सर्वविभागाज्ञत्वात्| यत् पुनरेतदुक्तं ‘स्थानस्था मारुताः पञ्च’ इति, तत्र स्थानं साम्यमुच्यते| तदुक्तं चरके- “क्षयः स्थानं च वृद्धिश्च त्रिविधा गतिरुच्यते|” (च. सू. १७) इति, तथाऽत्रापि “स्थानवृद्धिक्षयास्तस्माद्देहिनां द्रव्यहेतुकाः” (सू. ४१) इति| यत् पुनरेतदभिहितं ‘पक्वाशयस्थोऽन्त्रकूजं’ इति, तदुपमयैव बोद्धव्यम्| एवमनया दिशाऽन्येऽप्येवञ्जातीयका दोषाः प्रतिसन्धेया इति| भवति चात्र- “वायोः सदागतित्वेन स्थानं नास्त्येव शाश्वतम्| प्रायः शश्वच्चरत्वेऽपि साधर्म्यात् स्थानमुच्यते” इति| वक्रचारित्वं चास्योपलक्षणं; तेन मूर्धोरःकण्ठनासिका अपि प्राणस्थानं; तदुक्तं चरके- “स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः| ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च” (च. चि. २८) इति| तत्र प्राणावलम्बनेनान्तःप्रवेशनकृतेन प्रकृतिकृतमेवास्य निश्वासादिकर्मोक्तम्| प्राणानामग्नीषोमादीनामाधेयानामवलम्बनवचनेन आधारभूतहृदयावलम्बनमेवोच्यते, तत्रैव तेषां समस्तानामवस्थितेः| तदुक्तं चरके- “षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्| आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्” (च. सू. ३०) इति| प्राणानामवलम्बनेन तु मरणमूलत्वमुच्यते| तदुक्तं श्रुतौ- “यथा हि सैन्धवोऽश्वः शङ्कुमुत्पाट्य धावति, तद्वत् प्राणोऽनिलो रुद्धः प्राणानुत्पाट्य प्रयाणकाले धावति” इति| श्वासादिकानित्यादिग्रहणात् प्रतिश्यायादयः||१३||-

उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः ||१४||
तेन भाषितगीतादिविशेषोऽभिप्रवर्तते |
ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः ||१५||


उदानस्य प्रकृतिभूतस्य नामादि व्यापन्नस्य च रोगान्निर्दिशन्नाह- उदान इत्यादि| उपैति गच्छति| स्थानं पुनरनुक्तमप्यस्य नाभ्युरःकण्ठादि [१०] | भाषितगीतादिरिति आदिशब्दादुच्छ्वासादि| ‘विशेषोऽभिप्रवर्तते’ इत्यत्र केचित् ‘विषयोऽभिप्रवर्तते’ इति पठन्ति| ऊर्ध्वजत्रुगतानिति नयनवदनघ्राणश्रवणशिरःसंश्रयान्| चकारादन्यानपि कासादीन् करोति||१४-१५||


उदानस्य प्रकृतिभूतस्य नामादि, व्यापन्नस्य च रोगान्निर्दिशन्नाह- उदानो नामेत्यादि| भाषितगीतादीति आदिशब्दादुच्छ्वासादि; अनेन वाक्चेष्टितमुक्तं; विषयोऽभिप्रवर्तते इत्यनेन मनश्चेष्टितं; मनश्चेष्टापुरःसरमेव विषयप्रवृत्तेः| मनसोऽपि वातप्रयत्नाद्विनाऽभाविनी प्रवृत्तिरिति कण्ठान्नोक्ताऽपि सामर्थ्यादाक्षिप्ता| अत एव चरके “वाक्प्रवृत्तिः प्रयत्नोर्जौ बलवर्णादि कर्म च” (च. चि. २८) इति प्रयत्नोऽपि कर्मोक्तं वायोः| तत्र प्रयत्नस्य मनसो द्विधा प्रवृत्तिः; तद्यथा- स्वार्था, बाह्यविषयार्था च| तत्र स्वार्था नामाध्यात्मसुखदुःखचिन्ताध्येयादौ, बाह्या रूपादिग्रहणे पुनर्विषयार्था| तेन विषयप्रवृत्तिग्रहणमुपलक्षितम्| अतो विषयाप्रवृत्तिलक्षणमनसोऽध्यात्मसुखदुःखादौ प्रवृत्तिमुपलक्षयन्ति| अत एव चरके- “वाक्प्रवृत्तिः प्रयत्नोर्जौ” इति प्रयत्नमात्रग्रहणं कृतं, प्रयत्नस्य मनःप्रवृत्तेः; मनःपुरःसराणामिन्द्रियाणां विषयप्रवृत्तौ हेतुत्वात्| अभिप्रवर्तत इति अभिमुखं प्रथमं रूपाद्यर्थग्रहणाय प्रवर्तते, विषयाभिमुखीभावमात्रे हि प्रथमं विशेषाणामग्रहात्| अथवा अभिव्याप्य प्रकर्षेण रूपाद्यर्थविशेषोपलम्भे प्रवर्तते, विशेषेणाभिव्याप्तौ हि विशेषाणामेव ग्रहणात्| तदेवं वातप्रयत्नादात्ममनःपुरस्सराणीन्द्रियाणि अर्थोपादानायाभिप्रवर्तन्ते; वातप्रयत्नविकृत्या तु निर्मनस्कतया न मनसा स्वार्थेन मनःपुरस्सराणामिन्द्रियाणां च रूपादिसामान्यविशेषग्रहणं प्रवर्तत इति| भवति चात्र- “प्रत्येति प्रागनुद्भिन्नोपाधिवस्त्वेव केवलम्| पश्चादभ्येति तद्भेदान् विशेषान्वेषणोत्सुकः” इति| स्थानं पुनरस्यानुक्तमपि नाभ्युरःकण्ठानि, भाषितगीतादीनां नाभ्यादिस्थानत्रय एव सम्भवात्| तथा हि शब्दिकाः- “त्रिधा बद्धो वृषभो रोरवीति” (पातञ्जलमहाभाष्य अ. १, प्र. आ.) इति; तथा हि चरकेऽपि- “उदानस्य पुनः स्थानं नाभ्युरःकण्ठ एव च| वाक्प्रवृत्तिः प्रयत्नोर्जौ बलवर्णादि कर्म च” (च. चि. २८)| क्रुद्धस्तु ऊर्ध्वजत्रुगतान् गदान् करोति| ते पुनः शालाक्यतन्त्रोदिताश्चक्षुरादिविषयगता एव नयनवदनघ्राणश्रवणशिरःसंश्रयाः| अत एव ‘विषयोऽभिप्रवर्तते’ इत्ययमेव पाठो, न पुनः ‘भाषितगीतादिविशेषः’ इति, अनन्तरोक्तविषयविषयत्वाद्विशेषेणोदानस्य; अत एवोर्ध्वजत्रुण्येव विशेषेण व्याधिकरणम्||१४-१५||

आमपक्वाशयचरः समानो वह्निसङ्गतः [११] |
सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति [१२] हि ||१६||
गुल्माग्निसादातीसारप्रभृतीन् [१३] कुरुते गदान् |१७|


पाकः पक्वं, नपुंसके भावे क्तः; आमस्य पक्वमामपक्वं, तस्याशयः पच्यमानाहाराशय इत्यर्थः; तत्र चरतीति आमपक्वाशयचरः| ‘वह्निसङ्गत’ इत्यत्र ‘अग्निसहायवान्’ इति केचित् पठन्ति, तत्रापि स एवार्थः| सोऽन्नं पचतीति अग्निसन्धुक्षणाद्भक्तकार इव| तज्जान् अन्नपाकजान्| विशेषान् रसदोषमूत्रपुरीषाणि| विविनक्ति पृथक् करोति||१६||-


समानस्य स्थानादि दर्शयन्नाह- आमपक्वाशयचर इत्यादि| अग्निश्चासौ सहायश्चाग्निसहायः; सोऽस्यास्तीति मतुप्| बहुव्रीहिप्राप्तावपि मत्वर्थीयो भवत्येव, एकदेशिनेति [१४] निर्देशात्| तज्जांश्चेति अन्नपाकजातरसदोषमूत्रपुरीषाणि विभजति||१६||-

कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः ||१७||
स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि |
क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् ||१८||


रससंवहनोद्यत इत्यत्रादिशब्दो द्रष्टव्यः, तेन रसादिसंवहनोद्यत इत्यर्थः; संवहनं प्रेरणम्| पञ्चधा चेष्टयत्यपीति प्रसारणाकुञ्चनविनमनोन्नमनतिर्यग्गमनानि पञ्च चेष्टाः; अन्ये तु ‘गतिप्रसारणोत्क्षेपणनिमेषोन्मेषैः पञ्चभिः प्रकारैः पञ्चधा’ इति व्याख्यानयन्ति| सर्वदेहगान् ज्वरातीसाररक्तपित्तप्रभृतीन्||१७-१८||


व्यानस्य नामादि दर्शयन्नाह- कृत्स्नदेहचर इत्यादि| रससंवहनोद्यत इत्यत्र आदिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन रसादिसंवहनोद्यत इत्यर्थः| पञ्चधा चेष्टयत्यपीति प्रसारणाकुञ्चनविमनोन्नमनतिर्यग्गमनानीति पञ्च चेष्टाः| क्रुद्धश्च व्यापन्नश्च| सर्वदेहगान् ज्वरातीसाररक्तपित्तयक्ष्मप्रभृतीन्||१७-१८||

पक्वाधानालयोऽपानः काले कर्षति चाप्यधः |
समीरणः [१५] शकृन्मूत्रं शुक्रगर्भार्तवानि च ||१९||
क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान् |२०|


पक्वाधानालयः पक्वाशयस्थान इत्यर्थः| बस्त्याश्रयान् अश्मर्यादीन्, गुदाश्रयान् भगन्दरादीन्||१९||-


अपानस्य नामादि दर्शयन्नाह- पक्वाधानालय इत्यादि| बस्तिगुदाश्रयानिति बस्त्याश्रया अश्मरीप्रमेहमूत्रकृच्छ्रशुक्रदोषादयः, तान्; गुदाश्रयाः अर्शोभगन्दराहिपूतनबद्धगुदगुदभ्रंशादयः, तान्||१९||-

शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ||२०||


इदानीमुपलक्षणार्थं विकृतवातद्वयादिकर्म दर्शयन्नाह- शुक्रदोषेत्यादि| शुक्रस्य सर्वाङ्गगतत्वात् प्रमेहस्य सर्वदेहगतरसादिदूष्यप्रभवत्वाद्व्यानकृतत्वं, मेढ्रद्वारसंश्रितत्वादपानकृतत्वं च||२०||


इदानीमुपलक्षणार्थं विकृतवातद्वयादिकर्म दर्शयन्नाह- शुक्रदोषेत्यादि| शुक्रस्य सर्वाङ्गगत्वात्, प्रमेहस्य सर्वदेहरसादिदूष्यप्रभवत्वाद् व्यानकृतत्वं, मेढ्रद्वारसंश्रितत्वादपानकृतत्वं च||२०||

युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम् |२१|


तेषां पञ्चानां युगपत् प्रकोपे नियमेन देहनाशं दर्शयन्नाह- युगपदित्यादि| युगपत् एककालमित्यर्थः| भिन्द्युरिति भेदोऽत्र देहविनाशोऽभिप्रेतः|२१|-


तेषां पञ्चानां युगपत्प्रकोपे नियमेन देहनाशं दर्शयन्नाह- युगपदित्यादि|२१|-

अत ऊर्ध्वं [१६] प्रवक्ष्यामि नानास्थानान्तराश्रितः ||२१||
बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् |
वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान् ||२२||
मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम् |
पक्वाशयस्थोऽन्त्रकूजं शूलं [१७] नाभौ करोति च ||२३||
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् |
श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः ||२४||


अत इत्यादि| नानास्थानान्तराश्रितः कुपितः सन् वायुर्बहुशो यान् विकारान् कुरुते तान् प्रवक्ष्यामीति सम्बन्धः| छर्द्यादीनिति आदिशब्दाद्रुजः पार्श्वोदरहृत्स्तम्भतोदादिका ग्राह्याः, अथवा ऊर्ध्वगरक्तपित्तादिकाः| मोहो नैवात्यन्तं चित्तनाशः| मूर्च्छा चेतनाच्युतिः| पक्वेत्यादि अन्त्रकूजं अन्त्रेऽव्यक्तशब्दम्| चकाराद्वातविण्मूत्रसङ्गं जङ्घोरुत्रिकपार्श्वपृष्ठादीन् प्रति शूलं च कुरुते| ‘शूलं नाभौ’ इत्यत्र ‘शूलानाहौ’ इति केचित् पठन्ति, व्याख्यानयन्ति च- पक्वाशय आनह्यते समन्ताद्विबध्यत इवेति वेदनाप्रकार एक [१८] आनाहः, द्वितीयस्तु विसूचिकाप्रतिषेधे प्रोक्तलक्षण एव| श्रोत्रादिषु क्रुद्धः सन् समीरण इन्द्रियवधं कुर्यादिति सम्बन्धः| श्रोत्रादिषु श्रोत्रघ्राणदर्शनरसनत्वक्षु| इन्द्रियवधमित्यनेनाश्रुत्यघ्राणादर्शनारसनास्पर्शानि वेदितव्यानि||२१-२४||


इदानीं प्रतिस्थानरोगान्निर्दिश्य प्रसरेण स्थानान्तराश्रितानां तेषामेव स्थानचिकित्सार्थं रोगान्निर्दिशन्नाह- अत ऊर्ध्वं प्रवक्ष्यामीत्यादि| नानास्थानान्तराश्रित इति पृथग्विधदेशावकाशान् गत इत्यर्थः| बहुशब्दाद् वीप्सायां शस्; तत्र विपुलान् विपुलानित्यर्थः; सङ्ख्यावाचिनि अनेकान् अनेकानित्यर्थः; निदानस्य वा विशेषणं बहुश इति| छर्द्यादिकानिति आदिशब्दादूर्ध्वगतरक्तपित्ताद्युपग्रहः| मोहं मूर्च्छामिति आमाशयस्थितत्वाच्चेतनाधारस्य तदुपघातान्मोहो मूर्च्छा| पिपासामिति क्लोम्नो ह्यामाशयस्थत्वात् वातकृतक्लोमशोषेण पिपासा| श्रोत्रादिष्विन्द्रियवधमिति श्रोत्रघ्राणदर्शनरसनत्वगिन्द्रियाणां च वातेनाश्रुत्यघ्राणादर्शनारसवेदित्वान्यस्पर्शज्ञता चेति||२१-२४||

वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम् |
त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् ||२५||
व्रणांश्च रक्तगो, ग्रन्थीन् सशूलान् [१९] मांससंश्रितः |
तथा मेदःश्रितः कुर्याद्ग्रन्थीन्मन्दरुजोऽव्रणान् ||२६||
कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् |
स्नायुप्राप्तः स्तम्भकम्पौ [२०] शूलमाक्षेपणं तथा ||२७||
हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च |
अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः ||२८||
तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति |
अप्रवृत्तिः प्रवृत्तिर्वा विकृता [२१] शुक्रगेऽनिले ||२९||


त्वक्स्थो रसस्थः समीरणो वैवर्ण्यादि कुर्यादिति सम्बन्धः| सुप्तिं स्पर्शाज्ञानम्| चुमुचुमायनं सर्षपकल्कावलिप्तानामिवाङ्गानां वेदनाम्| त्वग्भेदं त्वचो भेदमेव| परिपोटनं सर्वतः पुटनं त्वच एव| व्रणांश्च रक्तगः ‘कुर्यात्’ इति शेषः| अमुं पाठं केचिन्न पठन्ति; तन्न, गयदासाचार्यस्य सम्मतत्वात्| ग्रन्थीन् सशूलान् मांससमाश्रितः समीरण इति सम्बन्धः| अव्रणान् व्रणरहितान्| सिराकुञ्चनं ‘कुटिला सिरा’ इति लोके वदन्ति [२२] | स्तम्भो निश्चलीकरणम्| आक्षेपणं चालनम्| हन्तीत्यादि एतेनाकुञ्चनप्रसारणयोरभाव उक्तः| तच्छ्रित इति अस्थ्याश्रित इत्यर्थः| तथा मज्जगते यथा अस्थ्याश्रितोऽस्थिशोषं, तथा मज्जाश्रितो मज्जशोषं कुर्यादित्यर्थः| किंविशिष्टा प्रवृत्तिरित्याह- विकृता;
अतिशीघ्रातिमन्दग्रथितविवर्णादियुक्तेत्यर्थः||२५-२९||


त्वक्स्थो रसस्थः समीरणो वैवर्ण्यादि करोति, रसस्य त्वक्स्थानत्वात्; आधेयस्याधारव्यपदेशो लक्षणया, गङ्गायां घोष इतिवत्| सुप्तिः स्पर्शाज्ञानम्| चिमिचिमायनं सर्षपकल्कावलिप्तानामिवाङ्गानां वेदना| त्वक्भेदः त्वचो भेदनमिव| परिपोटनं सर्वत उच्चटनं त्वच एव| एतेन त्वक्स्थस्य वायोर्विकारा उक्ताः| ‘व्रणांश्च रक्तगः’ इति केचिन्न पठन्ति, पश्चाद्वातरक्तस्य पठितत्वात्| तन्न, पठनीय एवायं ग्रन्थः, येन वातरक्तं वातस्य रक्तस्य च दुष्ट्या जायते; तदुक्तं चरके- “वायुर्विवृद्धो वृद्धेन रक्तेन” (च. चि. २९) इत्यादि; अत्र तु वायुरेव परं दुष्टो रक्तमदुष्टिगमिति| मेदःस्थस्तु ग्रन्थीन् मन्दरुज इति मन्दा रुक् येषां ते तथा| कुर्यात् सिरागतः शूलमिति अप्रस्तुतं, धातुस्थवाताधिकारात् अस्थिगतवाताधिकारात् [२३] | नैतदस्ति; व्याख्यातमेवैतद्दोषधातुमलक्षयवृद्धिविज्ञातीये “रसाद्रक्तं तथा स्तन्यमसृजः कण्डराः सिराः| मांसाद्वसा त्वचः षट् च मेदसः स्नायुसन्धयः” (सू. १५) इत्यत्र| तत्र स्तन्यार्तवयो रक्ताभिन्नत्वात् त्वचां च रसरक्तमांसैरभिन्नत्वात् तत्रस्थवायोः सैव क्रिया रोगाश्च| अत एव य एव त्वक्स्थस्य वातस्य रोगास्त एव रसस्थस्य वातस्योक्ताः| अतस्तेभ्यः शेषाणां सिरास्नायुसन्धीनामाश्रयभूतानामाश्रितवातरोगावसरः| स्नायुकण्डरयोश्चाभेद एव; यदाह- “स्थूला स्नायुश्च कण्डरा” इति| चरकादयस्तु ‘स्थूला सिरा कण्डरा’ इत्यामनन्ति| स्नायुजालं समूहम्| स्तम्भयति निश्चलीकरोति| आक्षिपति चालयति| सन्धिगतः सन्धीन् हन्ति प्रसारणकुञ्चनयोरसामर्ध्यं करोति| प्रवृत्तिं विकृतामतिशीघ्रातिमन्दग्रथितविवर्णादियुक्तामित्यर्थः||२५-२९||

हस्तपादशिरोधातूंस्तथा सञ्चरति क्रमात् |
व्याप्नुयाद्वाऽखिलं देहं वायुः सर्वगतो नृणाम् ||३०||


एकाङ्गगत एकधातुगतो वाऽप्युपेक्षितः सर्वाङ्गगतः सर्वधातुगतो वा भवतीति दर्शयन्नाह- हस्तेत्यादि| वायुस्तथा हस्तपादशिरः क्रमात् सञ्चरति यथा उपेक्षितः सन्नखिलं देहं व्याप्नुयात्, तथा धातून् क्रमात् सञ्चरति यथा सर्वगतो वा भवति सर्वधातुगतो वा भवतीत्यर्थः| व्याप्नुयाद्वेति वाशब्दो भिन्नक्रमे, सर्वगतो वेत्यत्र द्रष्टव्यः||३०||


एकाङ्गगत एकधातुगतो वाऽप्युपेक्षितः सर्वाङ्गगतः सर्वधातुगतो वा भवतीति दर्शयन्नाह- हस्तपादेत्यादि| अखिलमपि देहं व्याप्नुयात् सर्वधातुगतो वा भवतीति||३०||

स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः [२४] |३१|


तस्येदानीं सर्वाङ्गगतस्य लिङ्गं दर्शयन्नाह- स्तम्भनेत्यादि| सर्वगो वायुः सर्वस्मिञ् शरीरे स्तम्भनादिकं करोति|३१|-


तस्येदानीं सर्वाङ्गगतस्य लिङ्गं दर्शयन्नाह- स्तम्भनाक्षेपकेत्यादि| सर्वाङ्गगतो वायुः स्तम्भनादीनि सर्वत्र करोति| सर्वशः सर्वस्मिन्नित्यर्थः| ततश्च स्तम्भनादिना वातकार्येण सर्वाङ्गगेन सर्वाङ्गगतो वायुरनुमेयः, हस्तावस्तम्भनादिभिरेकाङ्गगतैरेकाङ्गगत एवानुमेयः|३१|-

स्थानेषूक्तेषु सम्मिश्रः सम्मिश्राः कुरुते रुजः ||३१||


तस्य वायोः प्रसरणे पित्तादिसंयुक्तस्य पित्ताद्यावरणप्रतिपत्तिहेतुं दर्शयन्नाह- स्थानेष्वित्यादि| मिश्रः पित्तादिभिः| पित्तादीनामौष्ण्यादिस्वभावलिङ्गदर्शनाद्दाहादिकार्यलिङ्गदर्शनाच्च पित्ताद्यावरणं ज्ञेयं; केवलस्य वायोः शीतस्वभावत्वाद्दाहः पित्तं विना नोत्पद्यत इति||३१||


तस्य वायोः प्रसारणविपन्नत्वादिसंयुक्तस्य पित्ताद्यावरणप्रतिपत्तिहेतुं दर्शयन्नाह- स्थानेषूक्तेष्वेत्यादि| सम्मिश्रः सम्मिश्राः कुरुते रुजः| पित्तादीनामौष्ण्यादिस्वभावलिङ्गदर्शनात्, दाहादिकार्यलिङ्गदर्शनाच्च पित्ताद्यावरणं ज्ञेयं; केवलस्य वायोः शीतस्वभावात्| दाहः पित्तं विना नोपपद्यत इति सामर्थ्यात् पित्तादिकार्यदर्शनात् पित्ताद्यावरणं ज्ञेयमिति||३१||

कुर्यादवयवप्राप्तो [२५] मारुतस्त्वमितान् गदान् |३२|


तस्येदानीमवयवगतस्यानेकरोगकारणत्वं दर्शयन्नाह- कुर्यादित्यादि|३२|-


तस्येदानीमवयवगतस्यानेकरोगकारित्वं दर्शयन्नाह- कुर्यादवयवस्थश्च मातरिश्वा बहून् गदानिति| बहून् गदानिति आविष्कृतमान् अशीतिः| अत्र चरकः- “नखभेदश्च, विपादिका च, पादशूलं च” (च. सू. २०) इत्यादयः| ‘मातरिक्षा अमितान् गदान्’ इत्यन्ये न पठन्ति| तत्रा(थाऽ)प्यमिता एव वातविकाराः| तदुक्तं- “वातविकाराणामपरिसङ्ख्येयनामाविष्कृततमा एव व्याख्याताः” (च. सू. २०) इति|३२|-

दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ||३२||
शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते |
सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ||३३||
शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते |
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते ||३४||
दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं [२६] च कफावृते |
उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ||३५||
अस्वेदहर्षौ मन्दोऽग्निः शीतस्तम्भौ कफावृते |
समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ||३६||
कफाधिकं [२७] च विण्मूत्रं रोमहर्षः कफावृते |
अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः [२८] ||३७||
अधःकायगुरुत्वं च तस्मिन्नेव [२९] कफावृते |
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः ||३८||
गुरूणि [३०] सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम् |
लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च ||३९||


इदानीं सम्मिश्राः कुरुते रुज इति सूत्रितमावरणं विवृण्वन्नाह- दाहेत्यादि| दाहोऽग्निदग्धस्येव, सन्तापो घर्मादिसंस्थितस्येव| शैत्यशोफेत्यादि| तस्मिन्नेव वायौ| सूचीभिरित्यादि| सदनम् अङ्गग्लानिः| क्लमोऽनायासश्रमः| हर्षो रोमहर्षः| कफाधिकं श्लेष्मबहुलं विष्ठामूत्रम्| असृग्दरः स्त्रीणामेव| अस्थिपर्वणाम् अस्थिसन्धीनाम्| चेष्टा गमनादिकाः||३२-३९||


तत्र ‘सम्मिश्राः कुरुते रुजः’ इति सूत्रितमावरणं विवृण्वन्नाह- प्राणे पित्तावृते दाह इत्यादि| सुबोधम्| केचिदत्र स्थाने प्राणादीनां पित्ताद्यावरणपाठं विहाय पक्षाघातपठनीयं श्लोकं पठन्ति| तद्यथा- ‘दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते’ इत्यादि| ‘शोणितचतुर्थैः’ (सू. २१) इति दर्शनादन्ये रक्तावृतवायुदर्शनपरं श्लोकं पठन्ति- “सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता| शेषाः पैत्तिकरोगाः स्युर्मारुते शोणितावृते” इति| अशेषवातावृतिशेषश्चायं ग्रन्थः| अनुक्ताशेषावरणं तु चिकित्सितप्रसङ्गेन वक्ष्यति| यथा,- “केवलो दोषयुक्तो वा धातुभिर्वाऽऽवृतोऽनिलः| विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः” (चि. ४) इति| अनेनानुक्तानि सर्वाण्येवावरणान्युक्तानि| कथं? दधतीति धातव इति प्रकृतिस्थाः सर्वे एव शारीरा भावा देहधारणकारणाद्गृहीताः; तेनात्र रसरक्तादिधात्वावरणं, मूत्रादिमलावरणं, मारुतानां पञ्चानां परस्परावरणं चोपगृहीतं; दोषग्रहणं तु विशेषार्थमिति||३२-३९||

(प्रायशः सुकुमाराणां मिथ्याऽऽहारविहारिणाम् |
रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात् [३१] ||४०||
ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् |
अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति [३२] ) ||४१||


सूचीभिरिव निस्तोद इत्यादिवाक्येनाप्रकुपितशोणितावृतवातस्य लक्षणमुक्त्वा, इदानीं प्रकुपितशोणितावृतवातजन्यस्य वातरक्तस्य प्रकोपकारणं दर्शयन्नाह- प्रायश इत्यादि| सुकुमाराणां वातरक्तं प्रकुप्यतीति सम्बन्धः| मिथ्याहारविहारिणामिति मिथ्या अनुचितः, विहारः कायवाङ्मनोव्यापारः| अध्वा मार्गः, व्यायामः शरीरायासजननं कर्म| विभ्रमः अन्यथाकरणम्| अव्यवाये मैथुनवर्जिते| केचित् ‘प्रायशः सुकुमाराणां’ इत्यादिग्रन्थं ‘वातरक्तं प्रकुप्यति’ इति यावन्न पठन्ति, चिकित्सिते पठिष्यमाणत्वात्||४०-४१||

हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणै सेवितैः स्वैः |
तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः सन्तापाद्यैर्भूयसा सेवितैश्च ||४२||
क्षिप्रं रक्तं दुष्टिमायाति [३३] तच्च वायोर्मार्गं संरुणद्ध्याशु यातः |
क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं [३४] दूषयेद्रक्तमाशु [३५] ||४३||
तत् सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् |
तद्वत् पित्तं दूषितेनासृजाऽऽक्तं श्लेष्मा दुष्टो दूषितेनासृजाऽऽक्तः ||४४||


तस्य सम्प्राप्तिं दर्शयन्नाह- हस्तीत्यादि| अन्यैश्चेति अपरैर्भारहरणादिभिः कारणैरित्यर्थः| कोपं यातः कोपं गत इत्यर्थः| कारणैः सेवितैः स्वैर्विदाह्यादिभिः| तच्च रक्तं वायोर्मार्गं संरुणद्धि| कथम्भूतस्य वायोरित्याह- आशु यातः, शीघ्रं गच्छत इत्यर्थः| अत्युद्रिक्तम् अतिशयेन वृद्धिङ्गतं रक्तम्| तत् सम्पृक्तमिति तद्रक्तं, सम्पृक्तं संसृष्टम्| वायुना दूषितेनेति दूषितेन वायुना सह| तत्प्राबल्यात् वातप्राबल्याच्छोणितस्याप्राबल्यात्, तयोर्वातरक्तयोः प्राबल्यादिति केचित्| तद्वत् पित्तमिति दुष्टं पित्तमित्यर्थः, दूषितेनासृजाऽऽक्तमिति दूषितेन रक्तेन मिश्रम्||४२-४४||


इदानीं कुपितस्य वायोः कुपितशोणितावरणप्रसङ्गेन ‘प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्’ इति पठिष्यमाणत्वात् तस्य सम्प्राप्तिं दर्शयन्नाह- हस्त्यश्वोष्ट्रैरित्यादि| विदाह्यन्नमश्नतः शोणितं विदग्धं हस्त्यादियानैस्तद्द्रवत्वादधोगतं पादयोश्चीयते| विशेषेण हस्त्यादिगमनं हेतुः, सामान्यतः पुनः पादगमनमपि| निरुक्तिं कुर्वन्नाह- तत्प्राबल्यादुच्यते वातरक्तमिति| वातप्राबल्यादित्यर्थः| यद्यप्यत्र वातस्य शोणितस्य चोभयोरपि दुष्टिरस्ति, तथाऽपि वातस्य प्राबल्याद् दोषत्वेनापि तस्यैव प्राधान्याद् वातव्याधिव्यपदेशः, शोणितस्याप्राबल्याद्दूष्यत्वाच्च न तद्व्यपदेश इति| तदुक्तं चरके- “वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि| क्रुद्धः सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्” (च. चि. २९) इति||४२-४४||

स्पर्शोद्विग्नौ [३६] तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ |
पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ||४५||
कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते |
सर्वैर्दुष्टे [३७] शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ||४६||


तस्येदानीं वातादिविशेषेण विशिष्टलिङ्गं दर्शयन्नाह- स्पर्शोद्विग्नावित्यादि| स्पर्शोद्विग्नौ स्पर्शासहौ पादाविति सम्बन्धः| प्रशोषः शुष्कता, स्वापः स्पर्शाज्ञानम्| एतेन वातप्रबलवातरक्तलक्षणमुक्तम्| पित्तासृग्भ्यामिति वातशोणित एव यदा पित्तमसृक् च बलवत्तरं भवति तदेत्यर्थः| रक्तशोफौ रक्तवर्णशोफौ| कण्डूमन्तौ पादाविति सम्बन्धः| पीनौ स्थूलौ||४५-४६||


तस्येदानीं सामान्यलिङ्गमभिधाय वातादिदोषविशेषेण विशिष्टं लिङ्गं दर्शयन्नाह- स्पर्शोद्विग्नावित्यादि| उष्णादिस्पर्शनं न सहेते रक्तदुष्ट्या रोगरुजोऽतियोगात्| तोदभेदान्वितप्रकृष्टशोषणं वातप्राबल्यादेव; तोदभेदयोः शोषणस्य च वातकृतत्वात्| स्वापः स्पर्शाज्ञानम्| पित्तासृग्भ्यामिति वातशोणित एव यदा पित्तमसृक् च बलवत्तरं भवति, तदेत्यर्थः| रक्तशोफौ रक्तवर्णशोफौ| एवं श्वेतौ पादौ श्लेष्मदुष्टे तु रक्ते| प्रत्येकं दोषनिर्दिष्टलक्षणस्यातिदेशेन संसर्गसन्निपाते निर्दिशन्नाह- सर्वे दुष्टा इत्यादि||४५-४६||

प्राग्रूपे शिथिलौ स्विन्नौ शीतलौ [३८] सविपर्ययौ |
वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ ||४७||


तस्य पूर्वरूपमाह- प्राग्रूपे इत्यादि| सविपर्ययाविति कठिनास्विन्नोष्णौ, ‘पादौ’ इत्यध्याहारः| ओषो दाहः| केचिदत्र पूर्वरूपं न पठन्ति, चिकित्सायां पठिष्यमाणत्वात्||४७||

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि |
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति ||४८||


तस्येदानीं पादमात्रेऽभिजातस्य कालेनावयवान्तरानुसरणं निर्दिशन्नाह- पादयोरित्यादि| मूलमास्थाय तलं प्राप्य| आखोरित्यादि उन्दुरस्य विषं मूलमास्थाय पश्चात् कुपितं सद्देहं सकलमेवानुयाति||४८||


तस्येदानीं पादमात्रेऽपि जातस्य कालेनावयवान्तरानुसरणं निर्दिशन्नाह- पादयोर्मूलमित्यादि| मूलमास्थाय कन्दं सम्प्राप्य पश्चाद्देहमनुधावति अनुयातीत्यर्थः| आखोर्विषमिवेत्यादि| आखोरुन्दुरस्येव विषं दंशमूलमास्थाय पश्चात् कुपितं सद्देहं सकलमनुयाति||४८||

आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् |
उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ||४९||
शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम् |५०|


तस्येदानीमसाध्यादिलक्षणं दर्शयन्नाह- आजानुस्फुटितमित्यादि| आजानुस्फुटितं जानुपर्यन्तमुच्चटितम्| प्रभिन्नं विदीर्णम्| प्रस्रुतं स्रावयुक्तम्| उपद्रवैः प्राणमांसक्षयादिभिरवारणीयोक्तैः [३९] | आदिग्रहणादङ्गुलिवक्रतार्बुदादयोऽपि ग्राह्याः| जुष्टं सहितम्| यज्जानुपर्यन्तं स्फुटितं वातप्राबल्यात्, यच्च जानुपर्यन्तं प्रभिन्नं प्रस्रुतं च पित्तरक्तप्राबल्यात्, तदप्यसाध्यमेव||४९||-


तस्येदानीमसाध्यादिलक्षणं निर्दिशन्नाह- आजानुस्फुटितमित्यादि| तत्र यद्वातप्राबल्याज्जानुपर्यन्तं स्फुटितं, यच्च पित्तकफप्राबल्याज्जानुपर्यन्तं प्रस्रुतं भवति, तदप्यसाध्यमेव||४९||-

यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ||५०||
तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः |
मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ||५१||


इदानीं वातरक्तमभिधायाक्षेपकमाह- यदेत्यादि| धमन्यो नाड्यः| अभ्येति व्याप्नोति| आक्षिपति चालयति| मुहुश्चर इति वारंवारं चलनशीलो वायुः, मुहुश्चरत्वेनैव मुहुर्मुहुराक्षेपणं युक्तम्; अन्ये तु ‘बहिश्चर’ इति पठन्ति, तन्नेच्छति गयदासाचार्यः| तदाक्षेपात् देहाक्षेपात्| इदमाक्षेपकस्य सामान्यलक्षणमुक्तम्||५०-५१||


वातरक्ताख्यरक्तावृतवातव्याधिं दर्शयित्वा रक्तोपधातुधमनीप्राप्तस्याक्षेपकाहेतुकस्य वातस्य व्याधिं दर्शयन्नाह- यदा तु धमनीः सर्वा इत्यादि| सर्वा ऊर्ध्वाधस्तिर्यगाः| मुहुरेव देहमाक्षिपति स आक्षेपणादाक्षेपक इति निरुक्तिः| मुहुश्चर इति मुहुश्चरत्वेनैव मुहुर्मुहुराक्षेपणम्| अन्ये तु ‘बहिश्चरः’ इति पठन्ति| तन्न, स्थानगाम्भीर्यादाक्षेपकस्यान्तराक्षेपणकर्मारम्भकस्य बहिश्चरत्वं न युज्यते||५०-५१||

सोऽपतानकसञ्ज्ञो यः पातयत्यन्तराऽन्तरा |
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ||५२||
स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः |
हनुग्रहस्तदाऽत्यर्थं सोऽन्नं कृच्छ्रान्निषेवते ||५३||
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसञ्ज्ञकः |
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः ||५४||
स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् |
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ||५५||
अभ्यन्तरं धनुरिव यदा नमति मानवः |
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली ||५६||
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च |
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् ||५७||
कफपित्तान्वितो वायुर्वायुरेव च केवलः |
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ||५८||


आक्षेपकविशेषानाह- सोऽपतानक इत्यादि| य आक्षेपकोऽन्तराऽन्तरा पातयति सोऽपतानक इत्यर्थः| इदं सामान्यापतानकलक्षणमुक्तं; गयदासेनापतानकलक्षणं ‘येनापताम्यते’ इत्यादिवाक्येनाभिधाय व्याख्यातं, यथा- “येन वायुना कर्तृभूतेन हेतुभूतेन वा पुमानपताम्यते तमो दृश्यते मोह्यते इति यावत् सोऽपतानक इति; सोऽयं हृदिस्थमनोऽधिष्ठानेन सकफेन वायुना जन्यते” इति| स एवापतानकस्त्रिधा- दण्डापतानकः, अन्तरायामः, बहिरायामश्च; तत्र दण्डापतानकलक्षणमाह- कफान्वित इत्यादि| तास्वेव सर्वासु धमनीषु, भृशं तिष्ठतीति सम्बन्धः| कृच्छ्रः कष्टसाध्यः| हनुग्रहस्तु दण्डापतानकेऽन्यत्रापि वायौ [४०] स्यात्| स दण्डापतानकवान् पुरुषः| धनुःस्तम्भसञ्ज्ञकमन्तरायामं दर्शयन्नाह- धनुस्तुल्यमित्यादि| तस्यैव भाष्यं वक्तुमाह- अङ्गुलीत्यादि| अङ्गुल्योऽत्र पादगताः, गुल्फः पार्ष्णेरुपरि ग्रन्थिः, जठरमुदरं, हृत् हृदयं, वक्षः स्तनयोरन्तरालं, गलः कण्ठः; एतेषु स्थानेषु संश्रित आश्रितो वायुः| स्नायुप्रतानं स्नायुविस्तारम्| बहिरायामं निर्दिशन्नाह- बाह्यस्नायुप्रतानस्थ इत्यादि| बाह्यस्नायुप्रतानस्थो बाह्यस्नायुविस्तारस्थः, बाह्यस्नायवः पादमूलपिण्डिकाकटीपृष्ठग्रीवापश्चिमभागाश्रयाः| वक्षःकट्यूरुभञ्जनमिति वक्षःकट्यूरुभञ्जनत्वे सत्येवासाध्यत्वम्, अभग्नवक्षःकट्यादिकस्तु नव उपक्रम्य एव| तस्याक्षेपकस्येतरदोषसंसर्गेण निदानविशेषाच्च सङ्ख्याभेदं दर्शयन्नाह- कफपित्तान्वित इत्यादि| एकः कफान्वितः, द्वितीयः पित्तान्वितः, तृतीयः केवलवातकृतः, चतुर्थोऽभिघातजः| चतुर्थमभिघातजमिति निदानविशेषात्| दण्डापतानकादयस्त्रयश्चतुर्थः पुनरभिघातज इति श्रीजेज्झटः; तन्नेच्छति गयी, गर्भपातादिनिमित्तभेदेन सङ्ख्यातिरेकात्| श्रीबह्मदेवस्तु “आक्षेपकश्चतुर्धा- अपतानकः, संसृष्टाक्षेपकः, केवलाक्षेपकः, अभिघातजश्च; तत्रापतानकः ‘सोऽपतानक’ इत्यादिना ‘वक्षःकट्यूरुभञ्जनम्’ इति पर्यन्तेनोक्तः, ‘कफान्वितो वायुः’ इति संसृष्टाक्षेपकः, ‘वायुरेव च केवलः’ इति केवलाक्षेपकः, चतुर्थः पुनरभिघातजः” इत्याह||५२-५८||


तस्यैवाक्षेपकस्यावस्थाविशेषेण निरुक्त्या नाम्ना च विशेषं दर्शयन्नाह- येनापताम्यत इत्यादि| येन वायुना आवृतेन हेतुभूतेन अपताम्यते तमो दृश्यते मोह्यते इति यावत्, सोऽपतानक इति| सोऽयं हृदिस्थमनोऽधिष्ठानेन सकफेन वायुना जन्यते| अत्र त्रिमर्मीयसिद्धौ दृढबलः- “क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते| पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन्|| धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा| कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽप्यनिमीलनः [४१] || कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रिकः”- इति (च. सि. ९)| अस्यैव चावस्थायाः स्थितस्य(?) दृष्टिस्तम्भसञ्ज्ञाप्रणाशाभ्यामपतानकत्वं दृढबलोऽपि दर्शयति- “दृष्टिं संस्तभ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति| हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः|| वायुना दारुणं प्राहुरेके तमपतानकम्” (च. सि. ९) इति| अन्ये तु सौश्रुतमपतानकलक्षणमन्यथा पठन्ति- “यः प्राङ्मन्ये तु संश्रित्य धमनीः प्रतिपद्यते| अपतानकसञ्ज्ञोऽसौ पातयत्यन्तराऽन्तरा”- इति| अपरे तु पठन्ति- “आकृष्यते तु हृङ्मूर्धसञ्ज्ञे(?) यः सोऽपतानकः” इति| एतत्पाठद्वयमपि न पठनीयम्, आक्षेपकलक्षणेनाविशेषात्| तन्त्रान्तरानुग्रहत्वे स एवापतानकस्त्रिधा; तद्यथा- दण्डापतानकः, अन्तर्बहिर्वाऽऽयामः| दण्डवत् स्तम्भनाद्दण्डापतानकः, अभ्यन्तरं धनुःकोटिवन्नमनाद् धनुस्तम्भः, स एवान्तरायामाविशिष्टः| अन्ये तु कुब्जखञ्जापतानकास्त्रयः, चतुर्थः पुनरभिघातजः; तन्न, गर्भपातादिनिमित्तभेदेन सञ्ज्ञातिरेकात्| अत्राक्षेपक एवापतानयोगादपतानकः| स तु शुद्धवातकफपित्तावृताभिघातभेदाच्चतुर्विधः| गर्भपातजस्य शोणितातिस्रावजत्वादसाध्यत्वं, मर्माभिघातजस्य रुजाबाहुल्यादसाध्यत्वमिति| दण्डापतानकं दर्शयन्नाह- कफान्वितो भृशमित्यादि| तास्विति सर्वासु धमनीषु| सुश्रुते साधारणादेव वाताद्दण्डापतानकः, चरके तु क्षयनिमित्तवातादसाध्यश्च; तथा हि चरकः “पाणिपादं च संशोष्य सिराः स्नायुश्च कण्डराः| पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः|| दण्डवत् स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः” (च. चि. २८) इति| सुश्रुते कफपित्तसंसर्गाद्गर्भपातादिनिमित्तस्यासाध्यवचनान्नोपक्रम्यः| धनुःस्तम्भसञ्ज्ञकमन्तरायामं दर्शयन्नाह- धनुस्तुल्यमित्यादि| तस्यैव भाष्यं दर्शयन्नाह- अङ्गुलीत्यादि| अङ्गुल्योऽत्र पादगताः; गुल्फसाहचर्यात्| पादाङ्गुल्यादिगलपर्यन्तसकलदेहगतस्नायुप्रतानाक्षेपकहेतुधनुःक्रोडवन्नमनादन्तरायामः| स्नायुप्रतानमिति स्नायुसङ्घातविस्तारमाक्षिपति; तेनात्राप्याक्षेपकलक्षणमेव| बहिरायामं निर्दिशन्नाह- बाह्यस्नायुप्रतानस्थ इत्यादि| बाह्याः स्नायवः पादमूलपिण्डिकाकटीपृष्ठग्रीवापश्चिमभागाश्रयाः| वक्षःकट्यूरुभञ्जनं वक्षःकुब्जीकरणम्| अस्य वक्षोभङ्गेऽसाध्यत्वम्, अभग्नवक्षसो नरस्योपक्रम्यता; जातवेगस्य शरीरपिनाककर्तृत्वमेव चरके; एतेनात्राप्याक्षेपकधर्मानुवृत्तिः, वेगागमेनाक्षेपणात्| तथा च चरकः- “जातवेगो निहन्त्येष वैकल्यं वा नियच्छति” (च. चि. २८); अजातवेगो मानव उपक्रम्यः| तत्र यद्यपि चरके सिरागतो वायुर्बाह्यायामे कथितः- “पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली” (च. चि. २८) इति; तथाऽप्यत्र सिराशब्दः सादृश्यात् स्नायुसु वर्तते| यदाह पुनः स एव- “बाह्याभ्यन्तरमायामं खल्लीं कुब्जत्वमेव च| सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः” (च. चि. २८) इति| अन्यत्रापि बाह्याभ्यन्तरायामेण द्विविधं कुब्जत्वमभिप्रेतं, “खल्लीं कुब्जत्वमर्दितम्” (च. चि. २८) इति तत्रैव वचनात्| न च कुब्जत्वमन्यत् पृथक् शास्त्रे निर्दिष्टमस्ति| बहिरायामलक्षणं चरके “पृष्ठमन्याश्रितो [४२] वायुः शोषयित्वा सिरा बली| ततः [४३] कुर्याद्धनुःस्तम्भं बहिरायामसञ्ज्ञकम्|| चापवन्नाम्यमानस्य पृष्ठतो ह्रियते शिरः| उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते|| दन्तानां दशनं [४४] जृम्भा लालास्रावः सवाग्ग्रहः| जातवेगो निहन्त्येष वैकल्यं वा नियच्छति” (च. चि. २८) इति| तस्येदानीमितरगौणदोषसंसर्गेण निदानविशेषत्वेन च सञ्ज्ञाभेदं दर्शयन्नाह- कफपित्तान्वित इत्यादि||५२-५८||

गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः |
अभिघातनिमित्तश्च न सिध्यत्यपतानकः ||५९||


तस्यैवाक्षेपकस्यापतानकसञ्ज्ञां प्राप्तस्यासाध्यत्वं दर्शयन्नाह- गर्भपातनिमित्तश्चेत्यादि| गर्भपातादिनिमित्तास्त्रयोऽप्यागन्तवोऽसाध्याः; यदि कथञ्चिद्दैवयोगात् सिध्यन्ति तदा वैकल्यं जनयन्ति||५९||


निदानविशेषादस्यैवाक्षेपकस्य पतनस्वभावादपतानकसञ्ज्ञां प्राप्तस्यापरमसाध्यत्वं दर्शयन्नाह- गर्भपातनिमित्त इत्यादि| तत्र गर्भपाते गर्भिण्याः पूर्वमेवारुचिच्छर्दिमत्यास्तथा गर्भाधारपोषणेन विभक्तरसत्वेनापि दुर्बलाया गर्भपातेनापि स्रुतातिशोणिताया अन्यहेतुस्रुतशोणिताया वाऽतिधातुक्षयनिमित्तेनापेक्षकस्यासाध्यत्वमिति| गर्भपातादिनिमित्तास्त्रयोऽप्यागन्तवोऽसाध्याः||५९||

अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः |
यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते ||६०||
तदाऽन्यतरपक्षस्य सन्धिबन्धान् विमोक्षयन् |
हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः ||६१||
यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम् |
ततः [४५] पतत्यसून् वाऽपि त्यजत्यनिलपीडितः [४६] ||६२||


पक्षाघातमाह- अधोगमा इत्यादि| एकतरशरीरार्धधमनीरूर्ध्वाधस्तिर्यग्गता यदा स मातरिश्वा वायुः, प्रपद्यते आश्रयतीत्यर्थः, तदाऽन्यतरपक्षस्यैकतरशरीरार्धस्य, सन्धिबन्धान् विमोक्षयन् विमोचयन्, पक्षं शरीरार्धं हन्ति| यस्य कृत्स्नमित्यादि| अकर्मण्यम् ईषत्कर्मक्षमम्, अचेतनम् अल्पचेतनम्; यदा अकर्मण्यं भवति तदा पतति; यदा अचेतनं भवति तदा असून् प्राणान् परित्यजति||६०-६२||


दण्डस्तम्भादिसर्वाङ्गवातानुद्दिश्य कृत्स्नदेहवातं दर्शयन्नाह- अधोगमा इत्यादि| एकतरशरीरार्धधमनीरूर्ध्वाधस्तिर्यगा आश्रित्य सन्धिबन्धान् कफसंहिताभिर्धमनीभिः कृतान् मोक्षयन् पक्षाघातं कुर्यात्| तत्र शरीरशब्दः शरीरावयवेऽपि वर्तते| समुदायेषु प्रवृत्ता शब्दा अवयवेष्वपि वर्तन्त इति कृत्स्नग्रहणम्| धमन्योऽत्र स्नायवः सादृश्येनाभिहिताः, स्नायूनामेव सन्धिबन्धनेष्वधिकृतत्वात्| तदुक्तं शारीरे- “एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः| स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः” (शा. ५) इति| अन्ये तु सिरास्नायुगतत्वेन गुरुत्वमस्य प्रतिपादयितुं धमनीति ग्रहणमित्याहुः| उभयाश्रयो हि वायुश्चरके पक्षवधे पठ्यते, तदुक्तं- “हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा| करोति चेष्टाविरतिं रुजां वाक्सङ्गमेव च|| गृहीत्वाऽर्धं शरीरस्य सिराः स्नायूर्विशोष्य च” (च. चि. २८) इति| न चेतनम् अचेतनम्| शुद्धवातजं कृच्छ्रं, ततः पतति| यदा पुनश्चेतनं न भवतीति क्रियया सम्बन्धः| धातुक्षयकृतवातजं तदसाध्यं, तत्रासून् जहाति; अपरदोषसंसृष्टवातं पुनः साध्यम्||६०-६२||

शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः |
साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् ||६३||


पक्षाघातस्य साध्यासाध्यत्वं दर्शयन्नाह- शुद्धवातहतमित्यादि| शुद्धः कफाद्यसंसृष्टः| अन्येन संसृष्टम् इतरदोषसम्बद्धम्||६३||


पक्षाघातस्य साध्यासाध्यत्वं दर्शयन्नाह- शुद्धवातहतमित्यादि| शुद्धवातहतं कृच्छ्रसाध्यम्, अन्यदोषसंसृष्टं साध्यं, क्षयहेतुकेवलवातजं पुनरसाध्यं साक्षादेव, शोणितातिस्रुतिकृतधातुक्षयजमेवासाध्यं, बलवद्विग्रहादितो धातुक्षयकरहेतुकृतं तु कृच्छ्रसाध्यमिति भेदाः||६३||

वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः |
शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः ||६४||
निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वाऽपि कूजति |
निरुच्छ्वासोऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः ||६५||
स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति |
कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रकः ||६६||


अपतन्त्रकमाह- वायुरूर्ध्वमित्यादि| हृदयं शिरः शङ्खौ च पीडयतीति हृदयं कमलमुकुलाकारमधोमुखं, भ्रुवोरन्तोपरि कर्णललाटयोर्मध्ये शङ्खौ, अङ्गानि हस्तपादादीनि| आक्षिपेत् पातयेत् [४७] | कूजति कपोत इव शब्दं करोति; अथवा कृच्छ्रादुच्छ्वस्यादिति कष्टेनोच्छ्वासं कुर्यात्| केचिदपतन्त्रकममुं न पठन्ति, अपतन्त्रकापतानकयोरैक्यात्||६४-६६||


अपतानकस्थाने केचिदपतन्त्रकमधीयते- वायुरूर्ध्वं व्रजेत् स्थानादित्यादि| अन्ये त्वपतानकलक्षणेनैव तदवरोधादिति नाधीयते| चरके पुनराक्षेपकस्यापतानकत्वं न पठितमित्यपतन्त्रकः पठ्यते||६४-६६||

दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः [४८] |
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽऽवृतः ||६७||


मन्यास्तम्भमाह- दिवास्वप्नेत्यादि| आसनम् उपवेशनं, स्थानम् ऊर्ध्वीभवनं| विवृताध्वनिरीक्षणैः वक्रमार्गावलोकनैः| स एव वायुः| मन्यास्तम्भं केचिदपतानकपूर्वरूपं मन्यन्ते||६७||


मन्यास्तम्भं दर्शयन्नाह- दिवास्वप्नेत्यादि| कैश्चिन्मन्यास्तम्भो न पठ्यते, अन्तरायामबहिरायामलक्षणत्वान्मन्यास्तम्भस्य; तन्न, स्वातन्त्र्येणाप्युपलम्भान्मन्यास्तम्भस्य||६७||

(गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये [४९] |)
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा |
हसतो जृम्भतो [५०] भाराद्विषमाच्छयनादपि ||६८||
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः |
अर्दयित्वाऽनिलो वक्त्रमर्दितं जनयत्यतः ||६९||
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते |
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ||७०||
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना |
यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् ||७१||
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः |
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ||७२||


अर्दितमाह- गर्भिणीत्यादि| सूतिका प्रसूता स्त्री| व्याहरतः शब्दं कुर्वतः| भाराद्विषमाच्छयनादपीति विषमाद्भारात्, विषमाच्छयनाच्चेत्यर्थः| अन्ये तु ‘विषमोच्छ्वसनात्’ इति पठन्ति| अर्दयित्वा व्यथयित्वा| अपवर्तते वक्रीभवति| वाक्सङ्गो वाचोऽनिर्गमः| नेत्रादीनामित्यादिशब्दाद् भ्रूगण्डाद्युपसङ्ग्रहः| तस्मिन् पार्श्वे इति यस्मिन् पार्श्वेऽर्दितं भवति तस्मिन् पार्श्वे ग्रीवादयो वक्रीभवन्ति| चिबुकं मुखकुहरस्याधोभागः| तस्य (पूर्व)रूपमाह- यस्येत्यादि| अग्रजः पूर्वभावी| आविलं समलम्| वायुरूर्ध्वं ‘प्रसर्पति’ इति शेषः| त्वचि स्वापः त्वचः स्पर्शाज्ञानम्||६८-७२||


अर्दितवातं निर्दिशन्नाह- उच्चैर्व्याहरतोऽत्यर्थमित्यादि| जृम्भया हेतुभूतया| भाराद् विषमात्; शयनाशनाच्च ‘विषमात्’ इत्यनुवर्तते| वाक्सङ्गो वाचोऽनिर्गमः| नेत्रादीनामित्यादिशब्दाद् भ्रूगण्डाद्युपग्रहः| केचिच्छरीरार्धमपीच्छन्ति [५१] ; तदुक्तं चरके- “अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम् (च. चि. २८) इति; तत्तु न सम्यक्| उच्चैर्व्याहारादीनां मुखगतवायोरेव कोपकत्वात्||६८-७२||

क्षीणस्यानिमिषाक्षस्य प्रसक्तं [५२] सक्तभाषिणः |
न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च ||७३||


तस्यासाध्यत्वमाह- क्षीणस्येत्यादि| अनिमिषाक्षस्य स्तब्धाक्षस्य| प्रसक्तं सततं, सक्तभाषिणः पीडिताव्यक्तपदभाषिणः; अन्ये तु ‘प्रसक्ताव्यक्तभाषिणः’ इति पठन्ति, प्रसक्तं प्रकर्षेण लग्नमिति तत्रार्थः| बाढमतिशयेन न सिध्यतीति सम्बन्धः| त्रिवर्षमिति संवत्सरत्रयातीतम्; अन्ये तु नासाक्षिमुखस्राविणं त्रिवर्षमाहुः| वेपनस्य कम्पनशीलस्य| “गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये” इत्यमुं पाठं जेज्झटादय आचार्या न पठन्ति| ‘उच्चैर्व्याहरतोऽत्यर्थं’ इत्यादौ कृत्वा पठन्ति, बहुवैद्यपठितत्वादस्माभिः पठितः||७३||


तस्येदानीमसाध्यत्वं दर्शयन्नाह- क्षीणस्येत्यादि| प्रसक्तं प्रकर्षेण सक्तं लग्नं [५३] कण्ठताल्वादिवर्णोच्चारणस्थानेषु, अव्यक्तमस्फुटं भावितं यस्य स तथा| तथैव चरकः “ली(दी)ना जिह्वा समुत्क्षिप्ता तथा सज्जति चास्य वाक्” (च. चि. २८) इति| त्रिवर्षमिति त्रयो वर्षाः संवत्सरा अस्येति अत्यन्तसंयोगे द्वितीया| अन्ये तु नासाक्षिमुखस्राविणं त्रिवर्षमाहुः, वर्षसामान्यात् स्रावस्य||७३||

पार्ष्णिप्रत्यङ्गुलीनां [५४] तु कण्डरा याऽनिलार्दिता |
सक्थ्नः [५५] क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता ||७४||


गृध्रसीमाह- पार्ष्णीत्यादि| या कण्डरा सक्थ्नः क्षेपं निगृह्णीयात् सा गृध्रसीति स्मृतेति सम्बन्धः| पार्ष्णिर्गुल्फस्य पाश्चात्याधोभागः, प्रत्यङ्गुल्योऽङ्गुल्य एव; एतेनोपर्यधोभागगतं कण्डराद्वयं गृह्यते| कण्डरा महास्नायुः| गुल्फादिविटपान्तं सक्थि, तस्य क्षेपः प्रसारणं, तं निगृह्णीयादवरुन्ध्यादित्यर्थः| गृध्रसी ‘रङ्घिणी’ इति लोके| सा च वाताद् वातकफाच्च| खञ्जनवाते न सातिशया व्यथा यथा गृध्रस्याम्| केचित् ‘पार्ष्णिं प्रत्यङ्गुलीनाम्’ इति द्वितीयान्तं पठन्ति; तत्रापि पार्ष्णिं लक्षीकृत्य या कण्डरा, अङ्गुलीनां च या कण्डरेति कण्डराद्वयम्||७४||


एकसक्थिगतस्नायुगतं दर्शयन्नाह- पार्ष्णिं प्रतीत्यादि| पार्ष्णिः पादग्रन्थिः पादकनिष्ठाङ्गुलेरधःस्नायुदाहं कुरुते(?)| लक्षणे कर्मप्रवचनीयसञ्ज्ञा, तेन पार्ष्णिमति द्वितीया| ‘कण्डरे ये’ इति द्विवचनं केचित् पठन्ति| क्षेपं प्रसारं, सक्थिक्षेपं निगृह्णीत इति||७४||

तलप्रत्यङ्गुलीनां [५६] तु कण्डरा बाहुपृष्ठतः |
बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता ||७५||


गृध्रसीसदृशीमेकबाहुगतां विश्वाचीमाह- तलेत्यादि| तलशब्दोऽयमुपरि वर्तते, तेन करस्याभ्यन्तरकण्डरा गृहीता, बाहुपृष्ठत इत्यनेन बाह्यकण्डरा गृहीता| बाह्वोरिति द्विवचनं सामान्यापेक्षया [५७] , कदाचित् कस्मिंश्चिद्बाहौ भवति| ‘अनिलार्दिता’ इत्यत्रापि सम्बध्यते| चकारोऽत्र गृध्रसीविश्वाच्योर्नामान्तरमनुक्तं खल्ल्यभिधानं समुच्चिनोति| अन्ये त्वत्रापि ‘तलं प्रत्यङ्गुलीनाम्’ इति पूर्ववद्द्वितीयान्तं पठन्ति, तेन तलं लक्षीकृत्य या कण्डरा बाहुपृष्ठतश्च या कण्डरेति कण्डराद्वयं गृह्यते||७५||


सक्थिसामान्यादेकबाहुगतसदृशविकारं दर्शयन्नाह- तलं प्रत्यङ्गुलानामित्यादि| ‘अनिलार्दिता’ इति पूर्ववाक्यतः शेषः| तलशब्दोऽयमुपरि वर्तते, यथा- भूतलमिति; तेन बाहुपृष्ठत इति सङ्गतार्थः| इयमपि वाताद्वातकफाच्च; गृध्रसीसामान्यात्| विश्वाचीति चकारोऽत्र गृध्रसीविश्वाच्योर्नामान्तरमनुक्तं खल्ल्यभिविधानं समुच्चिनोति| उभे अप्येते शूलावमोटनादिवातरुगर्दिते खल्लीसञ्ज्ञे, “खल्ली तु पादजङ्घोरुकटीशूलावमोटिनी [५८] (च. चि. २८) इति चरके समार्थेन गृध्रसीविश्वाचीविषयेयमिति प्रतीयते| हारीते तु गृध्रसीविश्वाच्योः प्रतिपदमेव खल्लीसञ्ज्ञा कृता [५९] ||७५||

वातशोणितजः शोफो जानुमध्ये महारुजः |
शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत् ||७६||


क्रोष्टुकशिर आह- वातेत्यादि| यो जानुमध्ये वातशोणितजो महारुजः [६०] क्रोष्टुकमूर्धवत् स्थूलः शोफो भवति स क्रोष्टुकशिर इति ज्ञेयः| वातशोणितज इति वातशोणिताभ्यां जातो वातशोणितजः, न पुनर्वातरक्तेन व्याधिना जनितः; अन्ये तु वातेन शोणितेन च जात इति नेच्छन्ति, किं तर्हि वातरक्तज इति रोगकारणमेव रोगमिच्छन्ति| शिरः क्रोष्टुकपूर्वमिति क्रोष्टुकशब्दपूर्वं शिरः, तस्य रोगस्य ‘क्रोष्टुकशिर’ इति नामेत्यर्थः| क्रोष्टुकमूर्धवत् शृगालमस्तकवत्||७६||


पूर्वाभिहितसक्थिदेशाश्रयं विकारं दर्शयन्नाह- वातशोणितज इत्यादि| रोगकारणमेव रोगमिच्छन्ति; तेन वातशोणितरोगहितं च चिकित्सितमिति विशेषः [६१] | स तु शृगालशीर्षतुल्यत्वात् क्रोष्टुकशिर इति व्याधिरुच्यते||७६||

वायुः कट्यां [६२] स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा |
खञ्जस्तदा भवेज्जन्तुः, पङ्गुः सक्थ्नोर्द्वयोर्वधात् ||७७||


खञ्जपङ्गुलवातावाह- वायुरित्यादि| आक्षिपेदिति ईषत् क्षिपेत्, खञ्जे विकलगतेर्दर्शनात्| सक्थ्नोर्द्वयोर्वधादिति सर्वथा गतिविघातात् पङ्गुरित्यर्थः| द्वयोरिति पुनरुक्तिप्रसङ्गाद्युगपत् [६३] सक्थिद्वयवधादित्यर्थः||७७||

प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति |
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ||७८||


कलायखञ्जमाह- प्रक्रामन्नित्यादि| प्रक्रामन् पादविक्रमं कुर्वन्, गमनारम्भ एव वेपते कलायखञ्ज इत्ययं खञ्जाद्विशेषः| मुक्तसन्धिप्रबन्धनमिति शिथिलसन्धिबन्धनमित्यर्थः||७८||


सक्थिश्रितमेवापरं विकारं दर्शयन्नाह- वायुः कट्याश्रित इत्यादि| आक्षिपेत् ईषत् क्षिपेत्; आङ् ईषदर्थे, खञ्जे विकलगतेर्दर्शनात् [६४] | सक्थ्नोर्द्वयोर्वधात् सर्वथा गतिविघाते तु पङ्गुः| खञ्जतः कलायखञ्जे कण्डराद्वयसन्धिबन्धमुक्तत्वात् प्रक्रामन् नरो वेपते इति विशेषः, अन्यत् सर्वं तुल्यमेव| यदाह- खञ्जन्निव च गच्छतीति||७७-७८||

न्यस्ते तु विषमं(मे) पादे रुजः कुर्यात् समीरणः |
वातकण्टक इत्येष विज्ञेयः खडु(ल)काश्रितः ||७९||


वातकण्टकमाह- न्यस्त इत्यादि| न्यस्ते तु विषमं पाद इति विषमस्थाने निक्षिप्ते पादे इत्यर्थः| खुडु(ल)काश्रित इति पादजङ्घासन्धिसंश्रय इत्यर्थः, ‘पार्ष्ण्याश्रयः’ इत्यन्ये||७९||


अपरं सक्थिरोगं दर्शयन्नाह- न्यस्ते त्वित्यादि| खुडकाश्रयः पादजङ्घासन्धिसंश्रयः; ‘पार्ष्ण्याश्रयः’ इत्यन्ये||७९||

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः |
विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत् ||८०||


पाददाहमाह- पादयोरित्यादि| विशेषतश्चङ्क्रमणादिति विशेषेण गच्छतः, तिष्ठतस्तु सामान्येन||८०||


विशेषतश्चङ्क्रमतः विशेषेण गच्छतः; तिष्ठतस्तु सामान्येन||८०||

हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत् [६५] |
पादहर्षः स विज्ञेयः कफवातप्रकोपजः ||८१||


पादहर्षमाह- हृष्यत इत्यादि| हृषत इति हर्षो रोमाञ्चप्रायो वेदनाविशेषोऽन्तःशीतकरः| भवतश्च प्रसुप्तवदिति स्पर्शाज्ञानात् सुप्ताविव भवत इत्यर्थः||८१||


पादहर्षः कफान्वितेन वातेन| हर्षो रोमाञ्चप्रायोऽन्तःशीतकरो वेदनाविशेषः| सुप्तकौ स्पर्शस्यावेदनात् सुप्ताविव| अयं पाददाहविपरीतः पादहर्षो वातकफाभ्यां चिरविषमपादन्यासादिना; परः पाददाहः खलु सिरामुखपीडनावृतेन वायुना, सोऽस्माद् भिन्नः; सिरामुखावृतत्वेन तद्विवृतौ स्वयमेव प्रशमते||८१||

अंसदेशस्थितो वायुः शोषयित्वांऽसबन्धनम् |
सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ||८२||


अंसशोषावबाहुकावाह- अंसदेशेत्यादि| अंससमीपोपलक्षितो देशोंऽसदेशः; अंसो बाहुशिरः| अंसबन्धनं श्लेष्माणमित्यर्थः| अंसबन्धनं शोषयित्वा ‘अंसशोषं रोगं करोति’ इति वाक्यशेषो ज्ञेयः| तत्रस्थः अंसदेशस्थित इत्यर्थः||८२||


अंसे पूर्वोक्तविश्वाचीशेषं रोगं दर्शयन्नाह- अंसदेशस्थितो वायुरित्यादि| धातुक्षयकृत एव वायुः, शोषयेदंसबन्धनमिति शोषस्य वातकृतत्वात्; कफावृतस्य शोषासामर्थ्यात्| अंसबन्धनं श्लेष्मा, बध्नातीति बन्धनं; कथं पुनरंसबन्धनं कफादुच्यते? तस्यैव बन्धनेऽधिकारात्; तदुक्तं- “सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा”; (शा. ४), तथा- “गुणाः कालात् परं श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः” (उ. त. १) इति| तत्रस्थ एव आकुञ्च्य सिरा अवबाहुकं जनयतीति| चकारो भिन्नक्रमे| अवबाहुकः सन्धिगतेन कफस्नेहेन वातेन च, सन्धिगतत्वात्; अंससन्धेश्च कफस्थानत्वात्| द्वावेतौ व्याधी| यदाह- “अंसशोषावबाहुकयोरंसमध्यतः” (शा. ८) इति| यथा चैतयोर्वातरोगयोरपि सिराव्यधस्तथा तत्रैव वक्ष्यामः||८२||

यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति |
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ||८३||


बाधिर्यमाह- यदेत्यादि| शुद्धः केवलः| अपिशब्दाद्रक्तपित्तावरणयोरुपसङ्ग्रहः| यद्यप्ययं व्याधिः शालाक्येऽपि पठ्यते, तथाऽप्यत्रापि पठनीयः, वृद्धसम्मतत्वात्||८३||

हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः |
कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते ||८४||


कर्णशूलमाह- हनुशङ्खेत्यादि||८४||


बाधिर्यकर्णशूलौ वातव्याधौ शालाक्येऽपि च पठ्यते, अत्र वातव्याधिचिकित्सार्थत्वात्| रोगेषु यदुक्तं- “बलातैलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं च यत् स्यात्” इति| वातस्य वातेतरदोषावरणादाधिक्यार्थमितरदोषस्य शालाक्ये| तदुक्तं शालाक्ये- “करोति दोषैश्च यथास्वमावृतः” (उ. त. १८) इति| तेनोभयत्र उभयकर्मापेक्षिणी चिकित्सा| बाधिर्यकर्णशूले उभयलक्षणार्थमत्र पठिते; तेन घ्राणनाशादीनामपि वातव्याधावरोधः| शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते इति अपिशब्दाद्रक्तपित्तावरणयोरुपग्रहः||८३-८४||

आवृत्य सकफो वायुर्धमनीः शब्दवाहिनीः |
नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान् ||८५||


जिह्वागतवातरोगं दर्शयन्नाह- आवृत्येत्यादि| आवृत्य अवरुन्ध्येत्यर्थः| मूको वचनरहितः, मिन्मिणः सानुनासिकवाक्, गद्गदोऽव्यक्तवाक्||८५||


ऊर्ध्वगतरोगसामान्यादिन्द्रियोपतापसामान्याद्वा जिह्वागतवातरोगं दर्शयन्नाह- आवृत्य वायुः सकफ इत्यादि| अयमेव हि धमनीवातरोगादिचिकित्सिते वातव्याधावुक्तः| अक्रियकानिति अविद्यमानक्रियकान्| मूकोऽवचनः; तदभावे नञ्, अमक्षिकवत्; मिन्मिनगद्गदयोरीषदर्थे, अनुदराकन्यावत्| मिन्मिणः सानुनासिकवाक्, गद्गदो लुप्तपदव्यञ्जनाभिधायी| शब्दवाहिनीरावृत्येति अभिविधावाङ्, सम्पूर्णार्धेषदर्थेषु मूकमिन्मिणगद्गदेषु||८५||

अधो या वेदना याति वर्चोमूत्राशयोत्थिता |
भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते ||८६||
गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी |
वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता ||८७||


तूनीवातमाह- अधो येत्यादि| भिन्दतीव गुदोपस्थमिति भेदं कुर्वतीव गुदोपस्थस्येत्यर्थः| प्रतिलोमविसर्पिणी अध-उत्थितोर्ध्वगामिनी| वेगैरिति वेदनावेगैर्मुहुर्मुहुः स्वभावोपशमोपलक्षितैः, ‘प्रतिलोमं प्रधाविता [६६] ’ इति केचित्||८६-८७||


अधःस्रोतोऽभिघातव्याधिं निर्दिशन्नाह- अधो या वेदना यातीत्यादि| वेदना शूलम्| वर्चोमूत्राशयोत्थितेति विण्मूत्राधाराभ्यां व्यस्तसमस्ताभ्यामुत्थिता जाता| भिन्दतीव विदारयतीव; स्वव्याप्य यथासङ्ख्यं व्यस्तसमस्तगुदोपस्थं याति| गुदोपस्थमिति प्राण्यङ्गत्वादेकवद्भावः| उपस्थो मूत्रमार्गः| भिन्दतीवेति भेदमिव कुर्वती गुदोपस्थस्य| गुदोपस्थोपत्थिता सैव प्रतिलोमं प्रधावितेति पक्वाशयं वेगैः प्रधाविता ‘भिन्दतीव’ इति पूर्ववाक्याच्छेषः||८६-८७||

साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् |
आध्मानमिति जानीयाद्घोरं वातनिरोधजम् ||८८||


आध्मानमाह- साटोपमित्यादि| आटोपं सञ्चलनं, तेन सह वर्तत इति साटोपम्| उदरमत्र पक्वाशयः| घोरं कष्टकारि||८८||

विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् |
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ||८९||


प्रत्याध्मानमाह- विमुक्तेत्यादि| तदेव आध्मानमेव| आमाशयोत्थितं नाभिस्तनान्तरोत्थितम्| अत एव हृदयपार्श्वयोरप्यधिष्ठानमस्य प्राप्तं निरसन्नाह- विमुक्तपार्श्वहृदयमिति| व्याकुलित आवृतः||८९||


प्रतिशब्दविशेषितमपरमपि रोगं दर्शयन्नाह- साटोपमत्युग्ररुजमित्यादि| आटोपः सञ्चलनं, तेन सह वर्तते| घोरं कृच्छ्रं, कष्टकारित्वात्| उदरमत्र पक्वाशय एव, प्रत्याध्मानस्यामाशयसमुत्थितत्वात्| तदेव आध्मानमेव| साटोपमामाशयसमुत्थितम्| आमाशयस्य नाभिस्तनान्तरावधित्वाद्धृदयपार्श्वयोरप्यधिष्ठानत्वमस्य प्राप्तं निरसन्नाह-
विमुक्तपार्श्वेत्यादि| विमुक्तं पार्श्वद्वयं हृदयं मर्म येन तत्तथा||८८-८९||

अष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम् |
वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् [६७] ||९०||
एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम् |
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ||९१||


वाताष्ठीलामाह- अष्ठीलावदित्यादि| “अष्ठीला उत्तरापथे दीर्घवर्तुलपाषाणविशेषः” इत्येके, “चर्मकाराणां वर्तुलदीर्घा लौही भाण्डिः” इत्यपरे| घनः संहतावयवः| आयतो दीर्घः| बहिर्मार्गाणि वातविण्मूत्राणि| अन्येऽत्र ‘नाभेरधस्तात् सञ्जातं चलं वा यदि वाऽचलम्’ इति पठन्ति| प्रत्यष्ठीलामाह- एनामेवेत्यादि| एनामेव अष्ठीलाम्| तिर्यगुत्थितत्वेनाष्ठीलायाः सकाशात् प्रत्यष्ठीलाया भेदः| अस्याग्रे केचिदूरुस्तम्भं पठन्ति, तन्न, चिकित्सायां पठिष्यमाणत्वान्निबन्धकाराणामसम्मतत्वाच्च||९०-९१||


प्रतिशब्दविशेषणसामान्यादुदरगतसामान्याच्चापरमपि वातरोगं निर्दिशन्नाह- अष्ठीलावद्घनं ग्रन्थिमित्यादि| ‘अष्ठीला उत्तरापथे वर्तुलपाषाणः’ इत्येके; ‘चर्मकाराणां वर्तनीया लौही भाण्डिः’ इत्यपरे| बहिर्मार्गावरोधिनी बहिर्मार्गाणि वातविण्मूत्राणि, तेषां नियमेन रोधिनी या; तामेव तिर्यगुत्थितां वातविण्मूत्ररोधनशीलां प्रत्यष्ठीलां निर्दिशेत्| उभे अप्येते पक्वाशयोत्थिते; अत्रैव वाताद्यवरोधेन क्रियोपलम्भात्| अन्ये त्वत्र ‘नाभेरधस्तात् सञ्जातं चलं वा यदि वाऽचलाम्’ इति पठन्ति||९०-९१||

इति सुश्रुतसंहितायां निदानस्थाने वातव्याधिनिदानं नाम प्रथमोऽध्यायः ||१||


इति श्रीडल्हणविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने प्रथमोऽध्यायः||१||


इति सौश्रुते शल्यतन्त्रे श्रीगयदासाचार्यविरचितायां न्यायचन्द्रिकायां पञ्जिकायां वातव्याधिनिदानं समाप्तम्||१||

१. ‘पृथङ्मानः’ इति मधुकोषे पाठः|
२. ‘दूष्यनिरपेक्षाः’ इति मधुकोषे पाठः|
३. ‘जगाद भगवानृषिः’ इति ताडपत्रपुस्तके पाठः|
४. ‘शीतो रूक्षो लघुश्चरः(लः)’ इति ताडपत्रपुस्तके पाठः|
५. ‘शरीरे रसदोषमूत्र…’ इति पा.
६. गयदाससम्मतोऽयं पाठः|
७. ‘पित्तमेकमेव’ इति पा.|
८. ‘योऽनिलो वक्त्रसञ्चारी’ इति पा.|
९. ‘देहधारणात्’ इति पा.|
१०. ‘नाभ्युरःकण्ठानि’ इति पा.|
११. ‘ऽग्निसहायवान्’ इति गयदाससम्मतः पाठः|
१२. ‘भावान्’ इति पा.|
१३. ‘गुल्माग्निसङ्गातीसारप्रभृतीन्’ इति पा.| ‘गुल्माग्निसादातीसारान् प्रायशश्च करोति हि’ इति ताडपत्रपुस्तके पाठः|
१४. ‘पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे’ (पा. अ. २/२/१)|
१५. ‘वातमूत्रपुरीषाणि’ इति ताडपत्रपुस्तके पाठः|
१६. ‘सर्वान् प्रवक्ष्यामि नानास्थानान्तराश्रितान्’ इति पा.|
१७. ‘शूलाध्मानौ’ इति पा.|
१८. ‘एव एकः’ इति पा.|
१९. ‘सरुजान्’ इति पा.|
२०. स्नायुजालं स्तम्भयत्याक्षिपत्यपि’ इति ताडपत्रपुस्तके पाठः| गयदासाचार्यसम्मतोऽयं पाठः|
२१. ‘अप्रवृत्तिं प्रवृत्तिं वा विकृतां शुक्रगोऽनिलः’ इति ता.प.पु.पाठः|
२२. ‘लोको वदति’ इति पा.|
२३. ‘सिरागतवातानधिकारात्’ इति वा पाठः|
२४. ‘सर्वशः’ इति गयदाससम्मतः पाठः|
२५. ‘कुर्यादवयवस्थश्च मातरिश्वा बहून् गदान्’ इति गयदाससम्मतः पाठः
२६. ‘वैश्वर्यं’ इति ता. प. पु. पा.|
२७. ‘कफेन सज्जे विण्मूत्रे गात्रहर्षश्च जायते’ इति ता. प.पु.पा.|
२८. ‘रक्तमूत्रता’ इति ता. प.पु.पा.|
२९. ‘शीतता च’ इति ता.प.पु.पा.|
३०. ‘स्तम्भनं दण्डकश्चापि शोथः शूलं कफावृते’ इति ता.प.पु.पा|
३१. ‘शोकाच्च प्रमदा…’ इति पा.|
३२. गयदासासम्मतोऽयं पाठः|
३३. ‘शीघ्रं रक्तं विद्रवत्याशु’ इति ता.प.पु. पाठः|
३४. ‘अत्युद्वृत्तं’ इति पा.|
३५. ‘हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं स विदाहोऽशनस्य| कृत्स्नं रक्तं विदहत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु’ इति गयदाससम्मतः पाठः| माधवनिदानेऽप्ययमेव पाठ उद्धृतः|
३६. ‘अस्पर्शेच्छा’ इति ता. प. पु. पाठः|
३७. ‘सर्वे दुष्टाः शोणितं चापि’ इति गयदाससम्मतः पाठः|
३८. ‘शिथिलस्विन्नशीतलौ’ इति पा.|
३९. ‘महावातव्याधिचिकित्सितोक्तैः’ इति पा.
४०. ‘वायोः’ इति पा.|
४१. ‘स्तब्धाक्षोऽथ निमीलनः’ इति चरके पाठः|
४२. ‘पृष्ठमन्याश्रिताः बाह्याः’ इति चरके पाठः|
४३. ‘वायुः’ इति चरके पाठः|
४४. ‘दर्शनं’ इति वा पाठः|
४५. ‘तदा’ इति पा.|
४६. ‘जहात्यनिलपीडितः’ इति गयदाससम्मतः पाठः|
४७. ‘चालयेत्’ इति पा.|
४८. दिवास्वप्नासमस्थानविवृ(कृ)तोर्ध्वनिरीक्षणैः’ इति पा.|
४९. अयमर्धश्लोको गयदासेन न पठ्यते|
५०. ‘जृम्भया’ इति गयदाससम्मतः पाठः|
५१. “ननु यदा देहार्धव्यापित्वमर्दितस्य तदाऽर्दितेनार्धाङ्गस्य को भेदः? ब्रूमः- अर्दितो वेगितया न सर्वकालं भवति, अर्धाङ्गस्तु व्याप्तं भवति| उक्तं हि ‘स्वस्थः स्यादर्दितादीनां मुहुर्वेगागमे गते’ इति| किंवा यथोक्तविशिष्टलक्षणोऽर्दितः, अर्धाङ्गे तु नैतानि सर्वाणि भवन्ति” इति चरकव्याख्यायां चक्रपाणिः|
५२. ‘प्रसक्ताव्यक्तभाषिणः’ इति गयदाससम्मतः पाठः|
५३. ‘लग्नमप्रवृत्तं’ इत्यातङ्कदर्पणकारः|
५४. ‘पार्ष्णिं प्रत्यङ्गुलीनां’ इति पा.|
५५. ‘सक्थ्नोः’ इति पा.|
५६. ‘तलं प्रत्यङ्गुलीनां’ इति पा.|
५७. ‘कण्डरापेक्षया’ इति पा.|
५८. ‘करमूलावमोटनी’ इति चरके पाठः|
५९. ‘विश्वाची चेति चकारेण गृध्रसीविश्वाच्योः खल्लीसञ्ज्ञां दर्शयति, तयोरपि करमूलावमोटनकारित्वात्| यदुक्तं हारीते- “विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विता” इति गयदासः’ इति मधुकोशव्याख्यायाम्|
६०. ‘महारुजः शोफो भवति तत् क्रोष्टुकपूर्वं क्रोष्टुकमूर्धवत् स्थूलं शिरो ज्ञेयम्’ इति पा.|
६१. ‘चिकित्साभेदार्थं पृथक् पठितः’ इति गयदासः|’ इति मधुकोशव्याख्यायाम्|
६२. ‘कट्याश्रितः’ इति गयदाससम्मतः पाठः|
६३. ‘पौनरुक्त्यप्रसङ्गात्’ इति पा.|
६४. ‘किञ्चिद्गतिमत्त्वादिति गयदासः’ इति मधुकोशव्याख्यायाम्|
६५. ‘प्रसुप्तकौ’ इति गयदाससम्मतः पाठः|
६६. ‘प्रधावति’ इति पा.|
६७. ‘बर्हिर्मार्गनिरोधिनीं’ इति पा.

Diacritic Version

kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā

Suśrutasaṁhitā

śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā

nidānasthānam - 1. vātavyādhinidānam


athātō vātavyādhinidānaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||


hētuliṅgauṣadhajñānabījabhūtēna sūtrasthānēna saṅkṣēpōddiṣṭasya hētuliṅgauṣadhasya vivaraṇē sarvāṇyēva sthānāni prastutāni, tēṣu ca prastutēṣu svādhikāriṇāṁ śalyatantravyādhīnāṁ hētulakṣaṇapratipādakatayā nidānasthānasyārambhaḥ, tatrāpi dōṣāṇāṁ vātasya pradhānatvāttadvyādhīnāṁ hētulakṣaṇābhyāṁ prāk pratipādanaṁ yujyata ityāha- athāta ityādi| vātavyādhērākṣēpakādērnidānaṁ hētulakṣaṇanirdēśaḥ| athātō vātavyādhinidānamityādi yadyapi prathamamēva sūtramasti tathā’pi ‘prābravīdbhiṣajāṁvaraḥ’ ityanantaraṁ draṣṭavyam, anupāsitāprārthitagurōḥ śiṣyāṇāṁ vyākhyānē’nadhikārāt||1-2||


hētuliṅgauṣadhajñānabījabhūtaṁ saṅkṣiptārthasūtraṇaṁ sūtrasthānam| tēnaiva saṅkṣēpēṇōddiṣṭasya hētuliṅgauṣadhajñānasya vivaraṇē sarvēṣvēva sthānēṣu pūrvaṁ nidānamēva prastūyatē; atra hi svādhikāriṇāṁ śalyatantravyādhīnāṁ sāmānyaviśēṣarūpēṇa hētulakṣaṇanirdēśa iti| bhavati cātra- “sarvasthānaprapañcānāṁ sūtramēvārthasūtraṇam| sarvaśākhāprabandhānāṁ mūlaṁ skandhastarōriva|| sthitaḥ sthānēṣu śēṣēṣu svasthānārthaśca kēvalaḥ| prasavānāmivaitēṣāmupaśākhāsu śākhinaḥ” iti| nanu cikitsāyā vidhēyatvēna prādhānyāt sūtrasthānānantaraṁ tannirdēśasthānamēva yujyatē| naitadasti, cikitsā kārakajñāpakahētubhiḥ sarvabhāvēna jñātasya vyādhērupapannā nānyathēti kārakajñāpakahētunirdēśārthaṁ nidānasthānamēva kr̥tam| tatrāpi sarvaśalyatantravyādhīnāṁ hētuliṅganirdēśē prastutē prathamaṁ vātavyādhihētuliṅganirdēśaḥ, pittakaphayōstadvyādhīnāṁ ca śēṣāṇāṁ vātasyaiva samīraṇatvēna hētubhūtatvāt| sarvahētūnāṁ ca prāgbhāvādvātavyādhinidānamēva prathamam| yadyēvaṁ pittakaphavyādhinidānamapi nirdēṣṭavyaṁ; naitadasti, pittakaphayōrhi rūparasagandhādiyōgādrasādidūṣyadravyasaṁyōgaviśēṣēṇa samudāyibhyō’nyaḥ samudāya ityataścūrṇaharidrāsaṁyōgavadatyantavisadr̥śā ēvāvyaktarūparasagandhādisamanvitāḥ pr̥thak sāmānyajā [1] vraṇajvarādayō jāyantē; vātasya punardravyanirapēkṣā [2] vātaraktākṣēpakādayō'(nati)bhinnarūpā nānātmajāḥ, vātaikakr̥tatvāt; ya ihaivōpadēkṣyantē; anyē punarasya sāmānyajā vraṇajvarādayaḥ, sarvairēvārabdhatvāditi| bhavati cātra- “vyaktō’nyōrasarūpādirvātavyādhau na dr̥śyatē| tēna nānātmajā ēva kāścinmārutajā rujaḥ||” iti| athātō vātavyādhinidānamiti yadyapi prathamamēva sūtramasti tathā’pi ‘prābravīdbhiṣajāṁvaraḥ’ ityanantaramēva draṣṭavyam, anupāsitāprārthitagurōḥ śiṣyāṇāṁ vyākhyānē’nadhikārāt| vātīti vātaḥ sadāgatiḥ, tasya vyādhayaḥ vividhaṁ duḥkhamādadhatīti vyādhayaḥ, tē punarākṣēpakādayaḥ, tēṣāṁ nidānaṁ hētulakṣaṇanirdēśaḥ| yadāha “hētulakṣaṇanirdēśānnidānānīti ṣōḍaśa” (sū. 3); kārakajñāpakanirdēśādityarthaḥ| tatra hinvanti utpattau udganti gacchantīti hētavaḥ kārakahētavaḥ| sthānasaṁśrayāṇāṁ hētavō vyādhihētavaḥ| tatra dōṣasañcayasya r̥tucaryābhihitaḥ śītōṣṇavarṣādibhiḥ kālānuvartibhiḥ sōmasūryānilakr̥tairōṣadhiṣvāhitaḥ snēharūkṣaguṇō hētuḥ, prakōpasya punarbalavadvigrahakrōdhadivāsvapnādayaḥ| prasarahētavastu bhinnā na santi, prasarasya prakōpaviśēṣatvādēva| vyādhihētavastu viruddhāśanaṁ kuṣṭhasya, viṣamāśanaṁ yakṣmaṇaḥ, atyaśanamajīrṇasya, mr̥dbhakṣaṇaṁ pāṇḍurōgasya| ubhayahētavastu ‘hastyaśvōṣṭrairgacchataścāśnataśca’ ityādi, tathāca ‘stanyāvataraṇāccaiva jvarō dōṣaiḥ prakupyati (u. taṁ. 39) iti vacanāddōṣarōgōbhayahētavaḥ| anyē tvanyathā dvividhaṁ hētumicchanti- viprakr̥ṣṭaṁ, sannikr̥ṣṭaṁ cēti| tatra viprakr̥ṣṭā anantarōktā dōṣarōgōbhayahētavaḥ;sannikr̥ṣṭāḥ punaḥ karmēndriyārthakālairviṣamā vātādayaḥ| karmādīnāṁ tu vaiṣamyaṁ trividhēna mithyāhīnātiyōgēna, karmādisamyagyōgēna punarēkēna dōṣasāmyaṁ, tadēkamēva svāsthyakāraṇam| karmādimithyādiyōgē’pyasati sātmyībhāvē dōṣakōpaḥ| karma punaḥ kāyavāṅmanōbhēdēna trividham| rasarūpagandhasparśaśabdāḥ punarindriyārthāḥ| kālaḥ punaḥ ṣaḍr̥tukō varṣasañjñaḥ| tasya śītōṣṇavarṣaguṇēna mithyādiyōgāḥ| sa ēva hētuḥ punaḥ prathamādhyāyē vihārāhārapārthivakālabhēdēna catuṣprakārō darśitaḥ| tasyaiva punarvihārāhārau vraṇapraśnē dōṣaprakōpagaṇēṣu hi miśrīkr̥tya vinirdiṣṭau| kālastu “sa śītābhrapravātēṣu” (sū. 21) ityādibhiḥ pr̥thakkr̥taḥ| gandhādiviśēṣa indriyārthastu puṣpādisambhavō dōṣāṇāṁ vyādhīnāṁ ca hētutvēna dōṣaprakōpagaṇē na paṭhitaḥ; dōṣaprakōpagaṇēṣu kēvalaṁ dōṣaprakōpahētavaḥ paṭhyantē, na punarubhayahētava iti| bhavanti cātra “viṣamā viṣamairēva dōṣā rōgasya hētavaḥ| karmēndriyārthakālaiḥ syustē svāsthāya samāḥ samaiḥ|| samayōgāt samāḥ svāsthyē, mithyāhīnātiyōgataḥ| dōṣāḥ syurviṣamā rōgē tatra sāmyaṁ sukhāvaham|| kāyavāṅmanasāṁ bhēdādvihārastrividhō mataḥ| rasādayastu pañcārthāḥ, kālaḥ ṣaḍr̥tukaḥ smr̥taḥ|| prakōpē praśamē pūrvaṁ vihārāhārapārthivāḥ| kālaścaiṣu caturthōktō hēturatra punastridhā|| kriyāhāraśca vargēṣu dōṣāṇāṁ kōpahētuṣu|”- iti| anyē punaścaturvidhaṁ hētumicchanti; tatra sannikr̥ṣṭaviprakr̥ṣṭau dvau, adharmaprāgutpattī ca dvē iti| tatrādharmastrētāyugādau pravr̥ttaḥ; prāgutpattistu dakṣāpamānasambhūtarudrakōpāt santāpō (sambhavō) jvarādīnāmiti| lakṣyatē anēnēti lakṣaṇaṁ jñāpakaṁ liṅgam| tadapi dvividhaṁ- dōṣāṇāṁ vyādhīnāṁ ca| tatra sañcayaprakōpaprasarāṇāṁ liṅgaṁ dōṣaliṅgam| tatra sañcayasya tāvaddōṣāṇāṁ liṅgaṁ sañcitānāṁ khalu dōṣāṇāṁ stabdhapūrṇakōṣṭhatādayō vātādīnāṁ; prakupitānāṁ tu kōṣṭhatōdādayaḥ; prasr̥tānāṁ vimārgagamanādayaḥ| sthānasaṁśrayādiliṅgaṁ tu dvividhaṁ- pūrvarūpaṁ, rūpaṁ cēti| sthānasaṁśrayē samprāptyākhyē pūrvarūpaṁ, vyaktyā tu rūpaṁ, tadvyaktasya vyādhērliṅgam| tadapi dvividhaṁ- sāmānyaṁ, viśiṣṭaṁ ca| tatra sāmānyaṁ “vāyuḥ pravr̥ddhō vr̥ddhēna raktēnāvāritaḥ pathi| kruddhaḥ sandūṣayēdraktaṁ tajjñēyaṁ vātaśōṇitam” (ca. ci. 29) iti| tathā vr̥ṇōtīti vraṇaḥ, vikr̥tasantāpō jvarasya liṅgam, atisaraṇamatisārasya| viśiṣṭaṁ punarēṣāmēva vātādibhēdēna lakṣaṇam| ‘trividhaṁ liṅgam’ ityanyē| tatra pūrvōditaṁ dōṣavyādhiliṅgadvayaṁ, tr̥tīyaṁ pūrvarūpamiti| tat punardōṣavyādhiliṅgābhyāmanyadēva| tat sammūrcchitadōṣadūṣyavyāpārēṇa vyādhijananasamarthasya kāryaliṅgamiti| bhavataścātra- “kiñciddōṣacayādīnāṁ liṅgaṁ vyādhēstathā’param| tēna liṅgaṁ dvidhaivōktaṁ dōṣarōgasamāśrayam| tatastr̥tīyamapyāhuḥ pūrvarūpaṁ taducyatē| tattu hyēkībhavaddōṣadūṣyarāgikr̥taṁ smr̥tam” iti| anyē punaranyathā dvividhaṁ liṅgamāhuḥ; tadyathā- sādhyarōgasyaikam, aparaṁ punarasādhyasya| tatrāsādhyarōgaliṅgamapi trividham| tadyathā- rōgāṇāṁ sthairyamahatvadhātvanukramairēkam| taduktaṁ- “sa sthiratvānmahatvācca dhātvanukramaṇēna ca| nihantyauṣadhavīryāṇi mantrān duṣṭagrahō yathā”- (sū. 23) iti| tadihaivōktam- “ājānu sphuṭitaṁ yacca prabhinnaṁ prasrutaṁ ca yat”- ityādi| tathā’nyadavāraṇīyē nirdiṣṭamupadravakr̥tamēva| tathaivāparamanimittaṁ śarīramanasōḥ prakr̥tērvikr̥tilakṣaṇamariṣṭākhyaṁ kriyāpathātivr̥ttadōṣāṇāṁ kāryabhūtamasādhyavyādhiliṅgam| bhavati cātra- “asādhyaṁ dvividhaṁ yāpyamapi yaccānupakramam| tasyāpi trividhaṁ liṅgaṁ nidānāriṣṭavāraṇaiḥ” iti| nidānamiti nipūrvāddiśērluḍantāt pr̥ṣōdarāditvēna siddhiḥ| vātavyādhinidānaṁ yasmin yasya vā vidyatē iti matvarthē samutpannasya kasya ‘adhyāyānuvākayōrluk’ (pā. a. 5/2/60) iti luk||1-2||

dhanvantariṁ dharmabhr̥tāṁ variṣṭhamamr̥tōdbhavam |
caraṇāvupasaṅgr̥hya suśrutaḥ paripr̥cchati ||3||
vāyōḥ prakr̥tibhūtasya vyāpannasya ca kōpanaiḥ |
sthānaṁ karma ca rōgāṁśca vada mē vadatāṁ vara ||4||


kaḥ punarēvaṁ pratijñātavāniti tamēva prakārēṇa darśayannāha- dhanvantarimityādi| dharmabhr̥tāṁ dhārmikāṇāṁ, variṣṭhaṁ śrēṣṭham| amr̥tēna saha udbhava utpatiryasya tam| caraṇāvupasaṅgr̥hyēti pādapatanaṁ kr̥tvētyarthaḥ| kiṁ paripr̥cchatītyāha- vāyōrityādi| prakr̥tibhūtasya svabhāvāvasthitasya, vyāpannasya vikr̥tasya| kōpanaiḥ dravyaguṇakarmabhirvāyusamānaiḥ| sthānaṁ śrōṇigudādi, tacca prakr̥tibhūtasya vāyōḥ; vikr̥tasya tu sarvaśarīram| karma sāmānyaṁ viśiṣṭaṁ ca; sāmānyam ‘indriyārthōpasamprāptiṁ’ ityādi, viśiṣṭaṁ ‘sa prāṇō nāma dēhadhr̥k’ ityādi| rōgāṁścēti hikkāśvāsādikān| yadāha- “prāyaśaḥ kurutē duṣṭō hikkāśvāsādikān gadān” iti| cakārānnāma ca| vadatāṁ vara vyākhyātr̥̄ṇāṁ madhyē śrēṣṭha! ‘kōpanaiḥ’ ityatra ‘bhūpatē’ iti kēcit paṭhanti; ‘vada mē’ ityatra ca ‘vadasva’ iti paṭhanti; tatra bhūpatē iti dhanvantarisambōdhanaṁ; vadasva vadēti caika ēvārthaḥ| mē mama| karmagrahaṇaṁ kēcinnādhīyatē; tanmatē, ‘sthānaṁ rōgavibhāgaṁ ca’ iti
pāṭhaḥ||3-4||


kaḥ punarēvamuktavān ‘vātavyādhinidānaṁ vyākhyāsyāmaḥ’ iti, tamēva prakaraṇaṁ darśayannāha- dhanvantariṁ dharmabhr̥tāmityādi| dharmabhr̥tāṁvariṣṭhamiti sthitau dhārmikatā| amr̥tōdbhavamiti utpattau viśuddhatā| caraṇāvupasaṅgr̥hyēti gurupūjāpratipādanam| prakr̥tibhūtasyēti bhūtaśabdō’yamupamārthē, ‘kāṣṭhībhūtō mr̥tōpamaḥ’ (ca. sū. 24) iti| ētēnāhnikārtavadōṣāvaiṣamyasadbhāvamaparihārārthaṁ darśayati| kēcit ‘vipannasya ca kōpanaiḥ’ iti paṭhanti| anyē tvapaṭhitvā vyāpannatāyā anyathā’nupapattyaiva kōpanairityasya sāmarthyaṁ lambhayanti| sthānaṁ śrōṇigudādi; ētaddhi prakr̥tibhūtasyaiva na punarvikr̥tasya, vikr̥tānāṁ hi dōṣāṇāṁ sarvaśarīra ēva vikr̥tikāryadarśanāt sarvaśarīrē ēvāvasthānamanumantavyam| karma sāmānyaṁ viśiṣṭaṁ ca| tatra sāmānyaṁ ‘indriyārthōpasamprāptiṁ’ ityādi, viśiṣṭaṁ ‘sa prāṇō nāma dēhadhr̥k’ iti pratisthānasthitamārutānāṁ kriyā| rōgāṁścēti sthānōditahikkāśvāsādikān| yadāha- “kurutē cāpi hikkāśvāsādikān gadān” iti| gadān vikārān sthānāśrayān| nāma ca vadasvēti bhāṣaṇē’rthē ātmanēpadam| ‘vada mē’ iti kēcit paṭhanti| karmagrahaṇaṁ kēcinnādhīyatē| tanmatē prakr̥tivyāpattēḥ prākr̥tavaikr̥takarmānumīyatē| tadasūtritamapi karma prākr̥taṁ vaikr̥taṁ cānyathānupapattyā labhyatē| vyāpannatvaṁ tu vāyōrvr̥ddhikṣayābhyāmēva| nanu kathaṁ vāyōrasaṁhatatvādanavasthitatvācca calasya samāsamairdravyaguṇakarmabhirvr̥ddhikṣayau? naitadasti, nahyanilamauṣadhadravyāṇi samētya vardhanāni vardhayanti kṣapaṇāni kṣapayanti; kiṁ tarhi samīraṇasamāni samaguṇabhūyiṣṭhāni vā dravyaguṇakarmāṇi saṁyōgamētya śarīrasya śuṣirakarāṇi sāvakāśē ca śarīrē vāyuravakāśaṁ labhamānaḥ svayamēvāpyāyatē; yāni vātaguṇaviparītāni viparītaguṇabhūyiṣṭhāni vā tāni śuṣiratvākarāṇi nirantarē ca śarīrē vāyuravakāśamalabhamānaḥ svayamēva praśāntimāpadyatē| bhavanti cātra- “svaguṇān svaguṇairdravyairlabdhvā ruddhāśrayō’nilaḥ| svayaṁ kōpaśamau dēhēyātyaprāptē’pi bhēṣajē”- iti||3-4||

tasya tadvacanaṁ śrutvā prābravīdbhiṣajāṁ [3] varaḥ |
svayambhūrēṣa bhagavān vāyurityabhiśabditaḥ ||5||
svātantryānnityabhāvācca sarvagatvāttathaiva ca |
sarvēṣāmēva sarvātmā sarvalōkanamaskr̥taḥ ||6||
sthityutpattivināśēṣu bhūtānāmēṣa kāraṇam |
avyaktō vyaktakarmā ca rūkṣaḥ [4] śītō laghuḥ kharaḥ ||7||
tiryaggō dviguṇaścaiva rajōbahula ēva ca |
acintyavīryō dōṣāṇāṁ nētā rōgasamūharāṭ ||8||
āśukārī muhuścārī pakvādhānagudālayaḥ |9|


tasyētyādi| tasya suśrutasya| tat pūrvōktam| bhiṣajāṁ varō dhanvantariḥ| ‘bhiṣajāṁ guruḥ’ iti kēcit paṭhanti| prābravīt jagāda| ēṣa vāyuriti sambandhaḥ| bhagavān samastaiśvaryaguṇayuktaḥ, aṇimādiguṇayukta ityarthaḥ| abhiśabditaḥ kīrttitaḥ| svayambhūtvē hētutritayamāha- svātantryādityādi| svātantryāditi svakarmaviṣayē nānyēna prēryata ityarthaḥ| nityabhāvāt nityasya hi kāraṇarahitatvēna svatantratvaṁ, tataśca svayambhūtvamityarthaḥ; sarvagatvāccēti yō hi sarvagataḥ sa svayambhūḥ, ākāśavat| cakārāt sūkṣmatvamapi paramāṇōriva svayambhūtvē hētuḥ samuccīyatē| kathaṁ punarasya sarvagatvaṁ yāvatā pārthivadravyamūrttiṣu vāyurnāstītyāha- sarvēṣāmityādi| sarvēṣāṁ sthāvarajaṅgamānāṁ, sarvātmā kāraṇakāryātmakatvēna sarvasvarūpaḥ, ‘sarvaprayōjanahētuḥ’ iti kēcit| sarvalōkanamaskr̥ta iti kuta ityāha- sthityutpattivināśēṣvityādi| sthitiḥ jīvanam| avyaktō’dr̥śyamūrtiḥ| vyaktakarmā prakaṭakriyaḥ| śīta iti asaṁyuktasya vāyōrguṇō’yaṁ saṁyuktastūṣṇō’pi| kharaḥ kharasparśaḥ, karkōṭakaphalavat| tiryaggaḥ tiryaggāmī| dviguṇaḥ śabdasparśaguṇaḥ| rajōbahula iti triguṇatvē’pyutkarṣaviśēṣādrajaḥ prabalatvamasya| acintyavīryō’cintyaśaktiḥ, sā cāsya śaktiḥ
śarīradōṣamūtrapurīṣādivibhāgō’vayavādisaṁsthānakā(ka)raṇaṁ [5] dōṣadhātumalasaṁvahanādiśca, śarīrādbahistu sañcaratō dharaṇīdhāraṇādiḥ| dōṣāṇāṁ nētā dōṣadhātumalānāṁ prēraka ityarthaḥ, anyē tu vāyōrapi vāyurēva nētēti bahuvacanaṁ samarthayanti| rōgasamūharāḍiti rōgasamūhē rōgahētuvr̥ndē pittakapharaktādau rājatē śōbhatē iti rōgasamūharāṭ; na tu rāṭśabdō rājaparyāyaḥ, ‘sa rōgānīkarāṭ smr̥ta’ ityagrētanēna saha virōdhāpattēḥ| āśukārī śīghramatyayakāritvāt| muhurmuhuḥ prakr̥tibhūtō’pi caratīti muhuścārī| pakvādhānagudālaya iti pakvāśayagudau sthānamasyētyarthaḥ||5-8||-


ata ēvāyaṁ svayambhūḥ| sampadāditvād bhāvē kvip| svayamātmanā, bhū sattāyām| sō’yaṁ vāyurityabhiśabditaḥ kīrtitaḥ| sa ēva bhagavān samastaiśvaryaguṇayuktaḥ| ata ēvāsya svayamāvirbhāvō mahattvāyōgāt, svayamēva tirōbhāvō’ṇutvāyōgāt| kutaḥ punarayaṁ labdhasattāka ityāha- nityabhāvēna svātantryāt; nityasya hi lakṣaṇaṁ- ‘sadakāraṇavattvaṁ’; sannayaṁ vāyuḥ, pratyakṣasparśōpalabhyatvāt| vyaktaḥ kampādikarmavattvāt| kāraṇānupalabdhērnityaḥ| nityaśca svatantrō bhavati, kāraṇānapēkṣatvāt; yō hi kāraṇamapēkṣatē sa sāpēkṣatvādasvatantrāḥ, nāyaṁ tathā, tasmādayaṁ svatantraḥ| svayambhūtvē tr̥tīyamapi hētuṁ darśayannāha- sarvagatvāditi| yaḥ sarvagataḥ sa svayambhūḥ, ākāśavat| cakārāt sūkṣmatvamapi paramāṇōriva svayambhūtvē hētuḥ| kathaṁ punasya sarvagatvaṁ?
yāvatā pārthivadravyamūrtiṣu vāyurnāstītyāha- sarvēṣāmēva sarvātmēti| sarvēṣāmēvēti sthāvarāṇāṁ jaṅgamānāṁ vā; athavā kāraṇātmanāṁ vā sarvarūpāṇām| yadāha carakaḥ- “viśvarūpaḥ” (ca. sū. 12) iti| ētēna pārthivādīnāmātmavāyurēva svabhāvaḥ| ata ēva nāma sarvaṁ dravyaṁ pāñcabhautikamiti, vāyuguṇakarmaṇāṁ sarvatra vidyamānatvāt| yadyēvamēvambhūtasya vāyōḥ kathaṁ vihārāhāraphalādibhiraiśvaryahāniḥ? naitadasti, vāyōraiśvaryasya daivānugamēna kālavihārāhārādibhirupādhibhirnirupādhēragnēriva hrāsādayō viśēṣāḥ| tatrāgnērupādhayaḥ “audaryō bhagavānagniḥ” (sū. 35) ityādi| atra yathā daivabalēna nirupādhērapyanalasya vihārādyābhirupādhibhirvaiṣamyādayō viśēṣāḥ, tathā vāyōrapi nirupādhērāhārādibhirupādhibhiḥ kṣayādayō viśēṣā bhavanti| bhavati cātra- “svatantrasyāpi nityasya sarvagasya svayambhuvaḥ| dr̥ṣṭā daivānugāḥ sarvaviśēṣāstu nabhasvataḥ”- iti| sarvabhūtairnamaskr̥ta iti pratyakṣaphaladēvatārūpatvāt| kutō bhūtānāṁ namaskr̥ta ityāha- sthityutpattivināśēṣu bhūtānāmēṣa kāraṇamityādi| utpattau kāraṇaṁ rajōbahulatvāt| atrārthē carakaḥ- “prabhavaścāvyayaśca” (ca. sū. 12) iti| avyāpannatayā svakarmaṇi vyāpriyamāṇaḥ sthitihētuḥ| svāṁ kriyāmakurvan vyāpannarūpatayā vināśahētuḥ| atrārthē carakaḥ- “bhūtānāṁ bhāvābhāvakaraḥ” (ca. sū. 12) iti| bhūtānāṁ prāṇināṁ, mahābhūtānāṁ vā caturṇām| vyaktasaṁyōgakriyatvād bhāvakaraḥ, pr̥thakkriyayā vyaktavibhāgakāritvādabhāvakaraḥ| taduktaṁ- “sarvā hi cēṣṭā vātēna sa prāṇaḥ prāṇināṁ mataḥ (ca. sū. 17) iti| tathā svatantrē’pi “pañcadhā cēṣṭayatyapi” iti| nanu ca bhūtānāṁ bhāvābhāvau vyaktau, na ca tatra vāyurvyaktaṁ kāraṇamupalabhyata ityāha- avyakta iti, vyaktō na bhavati| prasahyē nañ, kriyayā tasya sambandhāt, tatrāpi gamakatvāt samāsō bhavati, ‘asūryalalāṭayōrdr̥śitapōḥ’ (pā. a. 3/2/36) ityatra yathā| tēna vyaktasyāpi puṣpasyōtpattāvivāsattvaṁ piśācādīnāmiva vā saṁśayitaṁ sattvaṁ nirākr̥tam| vyaktakarmōtpādanēna hi kāladēśapuruṣēṣu triṣvabhivyaktiravyaktasyāpi vyaktakarmaṇaḥ paramāṇōriva bhavatyēva| tasyēdānīṁ cikitsōpayōginaḥ svābhāvikān guṇānnirdiśannāha- rūkṣaḥ śīta ityādi| śītatvamasaṁyuktasya| tathā hi carakaḥ- “rūkṣaḥ śītō laghuḥ sūkṣmaścalō’tha viśadaḥ kharaḥ (ca. sū. 1)” iti| śāstrāntarē’syānuṣṇāśītasparśatvamēvōktam| tatra yadyuṣṇaśītayōryugapatsambhavō’nēna vacanēnōcyatē, tadayuktaṁ; śītōṣṇayōḥ sahāvasthānavirōdhāt| śītōṣṇavarjitasparśatvaṁ vidhīyatēti cēt? tadapyasat, tr̥tīyasya sparśarāśērasambhavāt| śītōṣṇasparśavirōdhēna sparśamātraniṣēdha iti cēt, tadapyasaṅgataṁ, vāyōḥ sparśaguṇasya pratyakṣatvāt| tasmādasaṁyuktaḥ śīta ēva; saṁyuktaḥ punaranuṣṇāśītaḥ, vāyōryēgavāhitvāt| yadāha carakaḥ- “yōgavāhaḥ paraṁ vāyuḥ saṁyōgādubhayārthakr̥t| dāhakr̥ttējasā yuktaḥ śītakr̥t sōmasaṁśrayāt” (ca. ci. 3) iti| laghutvaṁ cāparimēyamapyasya tiryaggamanādanumīyatē, anyathā gurutvādadhō gacchēta| kharaḥ karkōṭaphalavat| rūkṣatvaṁ vinā’pi kharatvēna bhavati, sūkṣmamasr̥ṇarajasīva| tiryaggatvēna vāyutvēna ca tantrāntarōditaṁ calatvamapyuktam| dviguṇa iti śabdasparśaguṇaḥ| rajōbahula iti sarvakāryakāraṇadravyāṇāṁ triguṇatvē’pyutkarṣaviśēṣādrajaḥ prabalatvamasya| acintyavīryaḥ cintayitumaśakyakr̥tyaḥ, vīryaśabdaḥ śaktivācī; sā cāsya śaktiḥ antaḥśarīrē caratō rasadōṣamūtrapurīṣādivibhāgō’vayavādisaṁsthānakaraṇaṁ dōṣadhātumalasaṁvahanādi, bahiḥ śarīrēbhyastu caratō dharaṇīdhāraṇādi tathā bhāvābhāvakaraṇādi| dōṣāṇāṁ nētēti kaphapittayōrdvitvē’pi bahuvacanaṁ sāmarthyādāyātaṁ; tēna dōṣadhātumalānāṁ nētēti pratipattavyaḥ| ‘vāyōrapi vāyurēva nētēti bahuvacanamupapannam’ ityanyē| tanna, tasya svayamēva gatimattvāt; malādinētr̥tvasya ca pratyakṣōpalabdhēḥ| vāyōrgatimattvādbahirapi tasya tr̥ṇādau nētr̥tvōpalabdhēḥ| ētēna rōgiṇi rōgārambhakasarvakāraṇānāṁ svasthē ca dōṣadhātumalānāṁ nētr̥tvamanilādhīnamityuktam| rōgasamūharāḍiti rōgasamūhē rājatīti, tēna kāryabhūtavyādhikaratvaṁ yuktam| nāyaṁ rāṭśabdō rājaparyāyaḥ kiṁ tarhi rōgasamūhē rōgahētuvr̥ndē pittakapharaktādau śaktiviśēṣayōgāddīptatāmācaṣṭē| anyathā parēṇa saha pūrvasya virōdhaḥ syāt| yaduktaṁ ‘sa rōgānīkarāṭ smr̥taḥ’ (u. taṁ. 39) iti| kiṁ ca rūkṣādivātaviśēṣāṇāṁ prakr̥tibhūtasya kathaṁ hētutvamiti cēt, kuśūlasya bījasyāṅkurēṣvapi bhaviṣṇuyōgyatayā hētuvyapadēśaḥ| kathamanēna dōṣadhātvantarasrōtōvicaraṇākṣamēṇa sañcaraṇamityāha- āśukārīti| āśukaraṇaśīlatvamēva kathamityāha- muhuścārīti| yasmādayaṁ muhuścārī tasmādāśukārītyarthaḥ| ēvannāmāyaṁ tvaritagatiḥ, yat sarvadhātuṣu muhurēva sañcarati; ata ēvāsya svasthē rōgiṇi ca samānāṁ prakupitānāṁ ca dōṣadhātumalānāṁ kriyākāritvamāśvēva niṣpannam| kaḥ punarasyādhārō yatra muhuścaratītyāha- pakvādhānagudālaya iti| pakvasyādhānamādhārō guda ālayaḥ sthānaṁ yasya| tathā nijamasya tat sthānaṁ, tatraiva sthānē dōṣādisaṁvahanārthaṁ punaranyatra muhuścaratīti| ētēna tatraivāyamavajētavyō bastyādibhirnānyatra; anyatrāvajayē’pyasya na mūlōcchēdaḥ; tēna mūlōcchēdācchāravādīnāmiva vātavikārāṇāṁ niyatō vināśa iti| bhavati cātra- “svē svē sthānē’nilādīnāṁ sarvēṣāṁ mūlamiṣyatē| jitē’tra jāyatē tēṣāṁ kr̥tsnanāśō yathā ruhām”||5-8||-

dēhē vicaratastasya lakṣaṇāni nibōdha mē ||9||
dōṣadhātvagnisamatāṁ samprāptiṁ viṣayēṣu ca |
kriyāṇāmānulōmyaṁ ca karōtyakupitō’nilaḥ ||10||
(indriyārthōpasamprāptiṁ dōṣadhātvagnyavaikr̥tam|
kriyāṇāmānulōmyaṁ ca kuryādvāyuradūṣitaḥ [6] ||10||) |


nibōdha mē iti nibōdha jānīhi, mē matsakāśāt| dhātuśabdānantaramādiśabdō luptō draṣṭavyaḥ| tēna malōpadhātūnāmapi grahaṇam; athavā dhātuśabdēna malōpadhātava ucyantē, śarīradhāraṇakāraṇāt| viṣayēṣu śabdasparśarūparasagandhēṣu| kriyāṇāṁ kāyavāṅmānasīnām| ānulōmyaṁ pravarttakatvam| gayadāsācāryastu imaṁ ślōkam ‘indriyārthōpasamprāptiṁ’ ityādi kr̥tvā paṭhati, sa ca vistarabhayānna likhitaḥ||9-10||


kiṁ punarasya pakvādhānagudālayasyākhiladēhavicaraṇalakṣaṇamityāha- dēhē vicaratastasyētyādi| nibōdha mē iti mē śabdasyāvyayatvāt ‘mattaḥ’ ityarthō draṣṭavyaḥ| tatra svasthasyaiva prathamaṁ dēhavicaraṇalakṣaṇaṁ darśayannāha- indriyārthōpasamprāptimityādi| indriyāṇāṁ cakṣurādīnāmarthānāṁ
rūpādīnāmupagamanapūrvikāṁ prāptiṁ karōti vāyuradūṣitaḥ, sarvakriyāṇāmanilakr̥tatvāt| bhūtātmanāṁ manaḥpuraḥsaramindriyēṇēndriyārthānāṁ grahaṇāt, apagatamanasāṁ punaragrahaṇāt| yadyēvaṁ na syāt tadā sarvēndriyāṇāmēva sakr̥darthagrāhitvaṁ syāt| tasmādindriyāṇāmarthagrahaṇārthaṁ manasa upagamē hētutā ca vātakr̥tā, sarvakriyāṇāmanilamūlatvāt| dōṣadhātvagnyavaikr̥taṁ ‘kuryāt’ iti śēṣaḥ| avikr̥taśabdō dōṣādibhiḥ pratyēkamabhisambadhyatē| vikārō vaikr̥taṁ, na vaikr̥tamavaikr̥taṁ, viruddhastābdhyāt; athavā alpārthē nañ, ‘anudarā kanyā’ iti yathā| tēnāhnikatayaivāparihāryō nityaṁ dōṣāṇāṁ sañcayādyanubandhō’nēna sūcitō bhavati| dhātuśabdānantaramādiśabdō madhyē luptanirdiṣṭō dr̥ṣṭavyaḥ, tēna malōpadhātūnāmapi grahaṇam| athavā dadhatīti dhātavaḥ; tēna malōpadhātūnāmapi grahaṇaṁ, śarīradhāraṇakāraṇatvāt| kriyāṇāṁ kāyavāṅmānasīnām, ānulōmyamanukalpatā; ētēna “samadōṣaḥ samāgniśca” (sū. 15) ityādiślōkasyaivārthō’trāpi prakramadarśitaḥ||9-10||

yathā’gniḥ pañcadhā bhinnō nāmasthānakriyāmayaiḥ |
bhinnō’nilastasthā hyēkō nāmasthānakriyāmayaiḥ ||11||


tadēvaṁ sarvānilasya sāmānyēna svāsthyahētutvaṁ pradarśya sthānōpādhibhēdēna bhinnasya nāmāntaraviśiṣṭasya pratisthānaṁ viśiṣṭasvasthakriyā rōgāṁśca darśayannāha- yathā’gnirityādi| yathā’gniḥ pittaga [7] ēka ēva pācakarañjakālōcakabhrājakasādhakēti nāmnā, sthānēnāmapakvāśayādinā, kriyayā annapācanādikayā, āmayēnāmlapākādinā pañcavidhaḥ; ēvamanilō’pyēka ēva nāmādibhiḥ pañcavidhaḥ| anyē tu punaratra bāhyāgnērgārhapatyāhavanīyadakṣiṇāgnyāvasathyasabhyalakṣaṇān pañca bhēdānāhuḥ, tannēcchati gayadāsācāryaḥ||11||


tadēvaṁ sarvānilānāmēva sāmānyēna svāsthyahētutvaṁ pradarśya, sthānōpādhibhēdēna bhinnasya vāyōrnāmāntaraviśiṣṭasya pratisthānaṁ viśiṣṭasvasthakriyā rōgāṁśca darśayannāha- yathā’gnirityādi| yathā’gniḥ pittamēkamēva nāmādibhiḥ pañcadhā bhinnaḥ, tadyathā- pācakarañjakālōcakabhrājakasādhakanāmnā pañcavidhaḥ, sthānēna āmapakvāśayamadhyādinā, kriyayā annapacanādikayā, āmayēnāmlapākādinā; ēvamanilō’pyēka ēva nāmādibhiḥ pañcavidhaḥ| anyē punaratra bāhyasyāgnērgārhapatyādipañcanāmabhēdēna bhinnatvāt tamapi dr̥ṣṭāntē darśayanti; tattu na samyak, tasyāprastutatvāt||11||

prāṇōdānau samānaśca vyānaścāpāna ēva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇam ||12||


tatra vāyōrnāmānyāha- prāṇōdānāvityādi| sthānasthāḥ sthānaśabdēnātra sāmyamucyatē| yāpayanti dhārayanti||12||


tatra prathamaṁ nāmnaiva bhēdaṁ darśayannāha- prāṇōdānāvityādi| prāṇōdānāvityādi nirdēśaḥ||12||

yō vāyurvaktrasañcārī [8] sa prāṇō nāma dēhadhr̥k |
sō’nnaṁ pravēśayatyantaḥ prāṇāṁścāpyavalambatē ||13||
prāyaśaḥ kurutē duṣṭō hikkāśvāsādikān gadān |14|


vaktrasañcāritvaṁ cāsyōpalakṣaṇaṁ, tēna mūrdhōraḥkaṇṭhanāsikā api prāṇasya sthānam| antaḥ abhyantaramannaṁ pravēśayati dēhadhāraṇāya [9] | prāṇāṁścāpyavalambata iti prāṇānagnyādīn, avalambatē svakriyāsu yōjayati| gayadāsācāryastvēvaṁ manyatē- prāṇānāmagnīṣōmādīnāmavalambanavacanēnādhārabhūtahr̥dayāvalambanamēvōcyatē, ētēna prāṇādhārahr̥dayadhāraṇēna prāṇadhāraṇamēvōktam| ata ēva prāṇānāmavalambanēna maraṇamūlatvamucyatē| yaduktaṁ śrutau- “yathā hi saindhavō’śvaḥ śaṅkumutpāṭya dhāvati, tadvat prāṇō ruddhaḥ sarvān vāyūnutpāṭya prayāṇakālē dhāvati”- iti| śvāsādikānityādiśabdāt pratiśyāyasvarabhēdakāsādayaḥ||13||-


prāṇō nāmēti nāmaśabdaḥ prasiddhau; prāṇa iti prasiddhaḥ| dēhadhr̥giti| dēhadhāraṇaviśēṣaṇagarbhaṁ hētuṁ darśayannāha- annamityādi| annaṁ dēhadhāraṇāya pravēśayati| antaḥ abhyantaram| prāṇān agnīṣōmādīn anilavarjitān dvādaśa; athavā trayōdaśaiva, vātō’pi vātāntaramavalambata ēva| nanu ca tantrāntarē hi hr̥dayāśrayaḥ prāṇa uktaḥ “hr̥di prāṇō gudē’pānaḥ samānō nābhimadhyagaḥ| udānaḥ kaṇṭhadēśasthō vyānaḥ sarvāṅgasandhigaḥ||” iti; tathā ca carakē’pi- “sthānaṁ prāṇasya kaṇṭhōraḥ” (ca. ci. 28) iti uraḥsthānamasyōktam| ucyatē- vakrē sañcaraṇamasyōktaṁ vakracaratvādvāyōḥ; prāṇāvalambanavacanēna tu hr̥dayāvalambanamuktaṁ, prāṇānāṁ viśēṣēṇa hr̥dayamarmasthitatvāt| nipuṇō’yamācāryaḥ sthāṣṇōḥ sthānaṁ bhavati, na sadāgatēranilasya; tathā cāyamāha- ‘udānō nāma yastūrdhvamupaiti’ iti; ‘āmapakvāśayacaraḥ samānaḥ’ iti; ‘pakvādhānālayō’pānaḥ’ iti, ālīyatē āśliṣyati asminniti ālayaḥ, ślēṣaṇamātraṁ tu calatō’pi bhavati; tathā ‘sarvadēhacarō vyānaḥ’ iti| atrāpi ca prārambhē yat punaruktaṁ ‘sthānaṁ karma ca rōgāṁśca’ iti, tacchiṣyavacanatvādupapannaṁ, śiṣyasya hi sarvavibhāgājñatvāt| yat punarētaduktaṁ ‘sthānasthā mārutāḥ pañca’ iti, tatra sthānaṁ sāmyamucyatē| taduktaṁ carakē- “kṣayaḥ sthānaṁ ca vr̥ddhiśca trividhā gatirucyatē|” (ca. sū. 17) iti, tathā’trāpi “sthānavr̥ddhikṣayāstasmāddēhināṁ dravyahētukāḥ” (sū. 41) iti| yat punarētadabhihitaṁ ‘pakvāśayasthō’ntrakūjaṁ’ iti, tadupamayaiva bōddhavyam| ēvamanayā diśā’nyē’pyēvañjātīyakā dōṣāḥ pratisandhēyā iti| bhavati cātra- “vāyōḥ sadāgatitvēna sthānaṁ nāstyēva śāśvatam| prāyaḥ śaśvaccaratvē’pi sādharmyāt sthānamucyatē” iti| vakracāritvaṁ cāsyōpalakṣaṇaṁ; tēna mūrdhōraḥkaṇṭhanāsikā api prāṇasthānaṁ; taduktaṁ carakē- “sthānaṁ prāṇasya mūrdhōraḥkaṇṭhajihvāsyanāsikāḥ| ṣṭhīvanakṣavathūdgāraśvāsāhārādi karma ca” (ca. ci. 28) iti| tatra prāṇāvalambanēnāntaḥpravēśanakr̥tēna prakr̥tikr̥tamēvāsya niśvāsādikarmōktam| prāṇānāmagnīṣōmādīnāmādhēyānāmavalambanavacanēna ādhārabhūtahr̥dayāvalambanamēvōcyatē, tatraiva tēṣāṁ samastānāmavasthitēḥ| taduktaṁ carakē- “ṣaḍaṅgamaṅgaṁ vijñānamindriyāṇyarthapañcakam| ātmā ca saguṇaścētaścintyaṁ ca hr̥di saṁśritam” (ca. sū. 30) iti| prāṇānāmavalambanēna tu maraṇamūlatvamucyatē| taduktaṁ śrutau- “yathā hi saindhavō’śvaḥ śaṅkumutpāṭya dhāvati, tadvat prāṇō’nilō ruddhaḥ prāṇānutpāṭya prayāṇakālē dhāvati” iti| śvāsādikānityādigrahaṇāt pratiśyāyādayaḥ||13||-

udānō nāma yastūrdhvamupaiti pavanōttamaḥ ||14||
tēna bhāṣitagītādiviśēṣō’bhipravartatē |
ūrdhvajatrugatān rōgān karōti ca viśēṣataḥ ||15||


udānasya prakr̥tibhūtasya nāmādi vyāpannasya ca rōgānnirdiśannāha- udāna ityādi| upaiti gacchati| sthānaṁ punaranuktamapyasya nābhyuraḥkaṇṭhādi [10] | bhāṣitagītādiriti ādiśabdāducchvāsādi| ‘viśēṣō’bhipravartatē’ ityatra kēcit ‘viṣayō’bhipravartatē’ iti paṭhanti| ūrdhvajatrugatāniti nayanavadanaghrāṇaśravaṇaśiraḥsaṁśrayān| cakārādanyānapi kāsādīn karōti||14-15||


udānasya prakr̥tibhūtasya nāmādi, vyāpannasya ca rōgānnirdiśannāha- udānō nāmētyādi| bhāṣitagītādīti ādiśabdāducchvāsādi; anēna vākcēṣṭitamuktaṁ; viṣayō’bhipravartatē ityanēna manaścēṣṭitaṁ; manaścēṣṭāpuraḥsaramēva viṣayapravr̥ttēḥ| manasō’pi vātaprayatnādvinā’bhāvinī pravr̥ttiriti kaṇṭhānnōktā’pi sāmarthyādākṣiptā| ata ēva carakē “vākpravr̥ttiḥ prayatnōrjau balavarṇādi karma ca” (ca. ci. 28) iti prayatnō’pi karmōktaṁ vāyōḥ| tatra prayatnasya manasō dvidhā pravr̥ttiḥ; tadyathā- svārthā, bāhyaviṣayārthā ca| tatra svārthā nāmādhyātmasukhaduḥkhacintādhyēyādau, bāhyā rūpādigrahaṇē punarviṣayārthā| tēna viṣayapravr̥ttigrahaṇamupalakṣitam| atō viṣayāpravr̥ttilakṣaṇamanasō’dhyātmasukhaduḥkhādau pravr̥ttimupalakṣayanti| ata ēva carakē- “vākpravr̥ttiḥ prayatnōrjau” iti prayatnamātragrahaṇaṁ kr̥taṁ, prayatnasya manaḥpravr̥ttēḥ; manaḥpuraḥsarāṇāmindriyāṇāṁ viṣayapravr̥ttau hētutvāt| abhipravartata iti abhimukhaṁ prathamaṁ rūpādyarthagrahaṇāya pravartatē, viṣayābhimukhībhāvamātrē hi prathamaṁ viśēṣāṇāmagrahāt| athavā abhivyāpya prakarṣēṇa rūpādyarthaviśēṣōpalambhē pravartatē, viśēṣēṇābhivyāptau hi viśēṣāṇāmēva grahaṇāt| tadēvaṁ vātaprayatnādātmamanaḥpurassarāṇīndriyāṇi arthōpādānāyābhipravartantē; vātaprayatnavikr̥tyā tu nirmanaskatayā na manasā svārthēna manaḥpurassarāṇāmindriyāṇāṁ ca rūpādisāmānyaviśēṣagrahaṇaṁ pravartata iti| bhavati cātra- “pratyēti prāganudbhinnōpādhivastvēva kēvalam| paścādabhyēti tadbhēdān viśēṣānvēṣaṇōtsukaḥ” iti| sthānaṁ punarasyānuktamapi nābhyuraḥkaṇṭhāni, bhāṣitagītādīnāṁ nābhyādisthānatraya ēva sambhavāt| tathā hi śabdikāḥ- “tridhā baddhō vr̥ṣabhō rōravīti” (pātañjalamahābhāṣya a. 1, pra. ā.) iti; tathā hi carakē’pi- “udānasya punaḥ sthānaṁ nābhyuraḥkaṇṭha ēva ca| vākpravr̥ttiḥ prayatnōrjau balavarṇādi karma ca” (ca. ci. 28)| kruddhastu ūrdhvajatrugatān gadān karōti| tē punaḥ śālākyatantrōditāścakṣurādiviṣayagatā ēva nayanavadanaghrāṇaśravaṇaśiraḥsaṁśrayāḥ| ata ēva ‘viṣayō’bhipravartatē’ ityayamēva pāṭhō, na punaḥ ‘bhāṣitagītādiviśēṣaḥ’ iti, anantarōktaviṣayaviṣayatvādviśēṣēṇōdānasya; ata ēvōrdhvajatruṇyēva viśēṣēṇa vyādhikaraṇam||14-15||

āmapakvāśayacaraḥ samānō vahnisaṅgataḥ [11] |
sō’nnaṁ pacati tajjāṁśca viśēṣānvivinakti [12] hi ||16||
gulmāgnisādātīsāraprabhr̥tīn [13] kurutē gadān |17|


pākaḥ pakvaṁ, napuṁsakē bhāvē ktaḥ; āmasya pakvamāmapakvaṁ, tasyāśayaḥ pacyamānāhārāśaya ityarthaḥ; tatra caratīti āmapakvāśayacaraḥ| ‘vahnisaṅgata’ ityatra ‘agnisahāyavān’ iti kēcit paṭhanti, tatrāpi sa ēvārthaḥ| sō’nnaṁ pacatīti agnisandhukṣaṇādbhaktakāra iva| tajjān annapākajān| viśēṣān rasadōṣamūtrapurīṣāṇi| vivinakti pr̥thak karōti||16||-


samānasya sthānādi darśayannāha- āmapakvāśayacara ityādi| agniścāsau sahāyaścāgnisahāyaḥ; sō’syāstīti matup| bahuvrīhiprāptāvapi matvarthīyō bhavatyēva, ēkadēśinēti [14] nirdēśāt| tajjāṁścēti annapākajātarasadōṣamūtrapurīṣāṇi vibhajati||16||-

kr̥tsnadēhacarō vyānō rasasaṁvahanōdyataḥ ||17||
svēdāsr̥ksrāvaṇaścāpi pañcadhā cēṣṭayatyapi |
kruddhaśca kurutē rōgān prāyaśaḥ sarvadēhagān ||18||


rasasaṁvahanōdyata ityatrādiśabdō draṣṭavyaḥ, tēna rasādisaṁvahanōdyata ityarthaḥ; saṁvahanaṁ prēraṇam| pañcadhā cēṣṭayatyapīti prasāraṇākuñcanavinamanōnnamanatiryaggamanāni pañca cēṣṭāḥ; anyē tu ‘gatiprasāraṇōtkṣēpaṇanimēṣōnmēṣaiḥ pañcabhiḥ prakāraiḥ pañcadhā’ iti vyākhyānayanti| sarvadēhagān jvarātīsāraraktapittaprabhr̥tīn||17-18||


vyānasya nāmādi darśayannāha- kr̥tsnadēhacara ityādi| rasasaṁvahanōdyata ityatra ādiśabdō luptanirdiṣṭō draṣṭavyaḥ; tēna rasādisaṁvahanōdyata ityarthaḥ| pañcadhā cēṣṭayatyapīti prasāraṇākuñcanavimanōnnamanatiryaggamanānīti pañca cēṣṭāḥ| kruddhaśca vyāpannaśca| sarvadēhagān jvarātīsāraraktapittayakṣmaprabhr̥tīn||17-18||

pakvādhānālayō’pānaḥ kālē karṣati cāpyadhaḥ |
samīraṇaḥ [15] śakr̥nmūtraṁ śukragarbhārtavāni ca ||19||
kruddhaśca kurutē rōgān ghōrān bastigudāśrayān |20|


pakvādhānālayaḥ pakvāśayasthāna ityarthaḥ| bastyāśrayān aśmaryādīn, gudāśrayān bhagandarādīn||19||-


apānasya nāmādi darśayannāha- pakvādhānālaya ityādi| bastigudāśrayāniti bastyāśrayā aśmarīpramēhamūtrakr̥cchraśukradōṣādayaḥ, tān; gudāśrayāḥ arśōbhagandarāhipūtanabaddhagudagudabhraṁśādayaḥ, tān||19||-

śukradōṣapramēhāstu vyānāpānaprakōpajāḥ ||20||


idānīmupalakṣaṇārthaṁ vikr̥tavātadvayādikarma darśayannāha- śukradōṣētyādi| śukrasya sarvāṅgagatatvāt pramēhasya sarvadēhagatarasādidūṣyaprabhavatvādvyānakr̥tatvaṁ, mēḍhradvārasaṁśritatvādapānakr̥tatvaṁ ca||20||


idānīmupalakṣaṇārthaṁ vikr̥tavātadvayādikarma darśayannāha- śukradōṣētyādi| śukrasya sarvāṅgagatvāt, pramēhasya sarvadēharasādidūṣyaprabhavatvād vyānakr̥tatvaṁ, mēḍhradvārasaṁśritatvādapānakr̥tatvaṁ ca||20||

yugapat kupitāścāpi dēhaṁ bhindyurasaṁśayam |21|


tēṣāṁ pañcānāṁ yugapat prakōpē niyamēna dēhanāśaṁ darśayannāha- yugapadityādi| yugapat ēkakālamityarthaḥ| bhindyuriti bhēdō’tra dēhavināśō’bhiprētaḥ|21|-


tēṣāṁ pañcānāṁ yugapatprakōpē niyamēna dēhanāśaṁ darśayannāha- yugapadityādi|21|-

ata ūrdhvaṁ [16] pravakṣyāmi nānāsthānāntarāśritaḥ ||21||
bahuśaḥ kupitō vāyurvikārān kurutē hi yān |
vāyurāmāśayē kruddhaśchardyādīn kurutē gadān ||22||
mōhaṁ mūrcchāṁ pipāsāṁ ca hr̥dgrahaṁ pārśvavēdanām |
pakvāśayasthō’ntrakūjaṁ śūlaṁ [17] nābhau karōti ca ||23||
kr̥cchramūtrapurīṣatvamānāhaṁ trikavēdanām |
śrōtrādiṣvindriyavadhaṁ kuryāt kruddhaḥ samīraṇaḥ ||24||


ata ityādi| nānāsthānāntarāśritaḥ kupitaḥ san vāyurbahuśō yān vikārān kurutē tān pravakṣyāmīti sambandhaḥ| chardyādīniti ādiśabdādrujaḥ pārśvōdarahr̥tstambhatōdādikā grāhyāḥ, athavā ūrdhvagaraktapittādikāḥ| mōhō naivātyantaṁ cittanāśaḥ| mūrcchā cētanācyutiḥ| pakvētyādi antrakūjaṁ antrē’vyaktaśabdam| cakārādvātaviṇmūtrasaṅgaṁ jaṅghōrutrikapārśvapr̥ṣṭhādīn prati śūlaṁ ca kurutē| ‘śūlaṁ nābhau’ ityatra ‘śūlānāhau’ iti kēcit paṭhanti, vyākhyānayanti ca- pakvāśaya ānahyatē samantādvibadhyata ivēti vēdanāprakāra ēka [18] ānāhaḥ, dvitīyastu visūcikāpratiṣēdhē prōktalakṣaṇa ēva| śrōtrādiṣu kruddhaḥ san samīraṇa indriyavadhaṁ kuryāditi sambandhaḥ| śrōtrādiṣu śrōtraghrāṇadarśanarasanatvakṣu| indriyavadhamityanēnāśrutyaghrāṇādarśanārasanāsparśāni vēditavyāni||21-24||


idānīṁ pratisthānarōgānnirdiśya prasarēṇa sthānāntarāśritānāṁ tēṣāmēva sthānacikitsārthaṁ rōgānnirdiśannāha- ata ūrdhvaṁ pravakṣyāmītyādi| nānāsthānāntarāśrita iti pr̥thagvidhadēśāvakāśān gata ityarthaḥ| bahuśabdād vīpsāyāṁ śas; tatra vipulān vipulānityarthaḥ; saṅkhyāvācini anēkān anēkānityarthaḥ; nidānasya vā viśēṣaṇaṁ bahuśa iti| chardyādikāniti ādiśabdādūrdhvagataraktapittādyupagrahaḥ| mōhaṁ mūrcchāmiti āmāśayasthitatvāccētanādhārasya tadupaghātānmōhō mūrcchā| pipāsāmiti klōmnō hyāmāśayasthatvāt vātakr̥taklōmaśōṣēṇa pipāsā| śrōtrādiṣvindriyavadhamiti śrōtraghrāṇadarśanarasanatvagindriyāṇāṁ ca vātēnāśrutyaghrāṇādarśanārasavēditvānyasparśajñatā cēti||21-24||

vaivarṇyaṁ sphuraṇaṁ raukṣyaṁ suptiṁ cumucumāyanam |
tvaksthō nistōdanaṁ kuryāt tvagbhēdaṁ paripōṭanam ||25||
vraṇāṁśca raktagō, granthīn saśūlān [19] māṁsasaṁśritaḥ |
tathā mēdaḥśritaḥ kuryādgranthīnmandarujō’vraṇān ||26||
kuryāt sirāgataḥ śūlaṁ sirākuñcanapūraṇam |
snāyuprāptaḥ stambhakampau [20] śūlamākṣēpaṇaṁ tathā ||27||
hanti sandhigataḥ sandhīn śūlaśōphau karōti ca |
asthiśōṣaṁ prabhēdaṁ ca kuryācchūlaṁ ca tacchritaḥ ||28||
tathā majjagatē ruk ca na kadācit praśāmyati |
apravr̥ttiḥ pravr̥ttirvā vikr̥tā [21] śukragē’nilē ||29||


tvaksthō rasasthaḥ samīraṇō vaivarṇyādi kuryāditi sambandhaḥ| suptiṁ sparśājñānam| cumucumāyanaṁ sarṣapakalkāvaliptānāmivāṅgānāṁ vēdanām| tvagbhēdaṁ tvacō bhēdamēva| paripōṭanaṁ sarvataḥ puṭanaṁ tvaca ēva| vraṇāṁśca raktagaḥ ‘kuryāt’ iti śēṣaḥ| amuṁ pāṭhaṁ kēcinna paṭhanti; tanna, gayadāsācāryasya sammatatvāt| granthīn saśūlān māṁsasamāśritaḥ samīraṇa iti sambandhaḥ| avraṇān vraṇarahitān| sirākuñcanaṁ ‘kuṭilā sirā’ iti lōkē vadanti [22] | stambhō niścalīkaraṇam| ākṣēpaṇaṁ cālanam| hantītyādi ētēnākuñcanaprasāraṇayōrabhāva uktaḥ| tacchrita iti asthyāśrita ityarthaḥ| tathā majjagatē yathā asthyāśritō’sthiśōṣaṁ, tathā majjāśritō majjaśōṣaṁ kuryādityarthaḥ| kiṁviśiṣṭā pravr̥ttirityāha- vikr̥tā;
atiśīghrātimandagrathitavivarṇādiyuktētyarthaḥ||25-29||


tvaksthō rasasthaḥ samīraṇō vaivarṇyādi karōti, rasasya tvaksthānatvāt; ādhēyasyādhāravyapadēśō lakṣaṇayā, gaṅgāyāṁ ghōṣa itivat| suptiḥ sparśājñānam| cimicimāyanaṁ sarṣapakalkāvaliptānāmivāṅgānāṁ vēdanā| tvakbhēdaḥ tvacō bhēdanamiva| paripōṭanaṁ sarvata uccaṭanaṁ tvaca ēva| ētēna tvaksthasya vāyōrvikārā uktāḥ| ‘vraṇāṁśca raktagaḥ’ iti kēcinna paṭhanti, paścādvātaraktasya paṭhitatvāt| tanna, paṭhanīya ēvāyaṁ granthaḥ, yēna vātaraktaṁ vātasya raktasya ca duṣṭyā jāyatē; taduktaṁ carakē- “vāyurvivr̥ddhō vr̥ddhēna raktēna” (ca. ci. 29) ityādi; atra tu vāyurēva paraṁ duṣṭō raktamaduṣṭigamiti| mēdaḥsthastu granthīn mandaruja iti mandā ruk yēṣāṁ tē tathā| kuryāt sirāgataḥ śūlamiti aprastutaṁ, dhātusthavātādhikārāt asthigatavātādhikārāt [23] | naitadasti; vyākhyātamēvaitaddōṣadhātumalakṣayavr̥ddhivijñātīyē “rasādraktaṁ tathā stanyamasr̥jaḥ kaṇḍarāḥ sirāḥ| māṁsādvasā tvacaḥ ṣaṭ ca mēdasaḥ snāyusandhayaḥ” (sū. 15) ityatra| tatra stanyārtavayō raktābhinnatvāt tvacāṁ ca rasaraktamāṁsairabhinnatvāt tatrasthavāyōḥ saiva kriyā rōgāśca| ata ēva ya ēva tvaksthasya vātasya rōgāsta ēva rasasthasya vātasyōktāḥ| atastēbhyaḥ śēṣāṇāṁ sirāsnāyusandhīnāmāśrayabhūtānāmāśritavātarōgāvasaraḥ| snāyukaṇḍarayōścābhēda ēva; yadāha- “sthūlā snāyuśca kaṇḍarā” iti| carakādayastu ‘sthūlā sirā kaṇḍarā’ ityāmananti| snāyujālaṁ samūham| stambhayati niścalīkarōti| ākṣipati cālayati| sandhigataḥ sandhīn hanti prasāraṇakuñcanayōrasāmardhyaṁ karōti| pravr̥ttiṁ vikr̥tāmatiśīghrātimandagrathitavivarṇādiyuktāmityarthaḥ||25-29||

hastapādaśirōdhātūṁstathā sañcarati kramāt |
vyāpnuyādvā’khilaṁ dēhaṁ vāyuḥ sarvagatō nr̥ṇām ||30||


ēkāṅgagata ēkadhātugatō vā’pyupēkṣitaḥ sarvāṅgagataḥ sarvadhātugatō vā bhavatīti darśayannāha- hastētyādi| vāyustathā hastapādaśiraḥ kramāt sañcarati yathā upēkṣitaḥ sannakhilaṁ dēhaṁ vyāpnuyāt, tathā dhātūn kramāt sañcarati yathā sarvagatō vā bhavati sarvadhātugatō vā bhavatītyarthaḥ| vyāpnuyādvēti vāśabdō bhinnakramē, sarvagatō vētyatra draṣṭavyaḥ||30||


ēkāṅgagata ēkadhātugatō vā’pyupēkṣitaḥ sarvāṅgagataḥ sarvadhātugatō vā bhavatīti darśayannāha- hastapādētyādi| akhilamapi dēhaṁ vyāpnuyāt sarvadhātugatō vā bhavatīti||30||

stambhanākṣēpaṇasvāpaśōphaśūlāni sarvagaḥ [24] |31|


tasyēdānīṁ sarvāṅgagatasya liṅgaṁ darśayannāha- stambhanētyādi| sarvagō vāyuḥ sarvasmiñ śarīrē stambhanādikaṁ karōti|31|-


tasyēdānīṁ sarvāṅgagatasya liṅgaṁ darśayannāha- stambhanākṣēpakētyādi| sarvāṅgagatō vāyuḥ stambhanādīni sarvatra karōti| sarvaśaḥ sarvasminnityarthaḥ| tataśca stambhanādinā vātakāryēṇa sarvāṅgagēna sarvāṅgagatō vāyuranumēyaḥ, hastāvastambhanādibhirēkāṅgagatairēkāṅgagata ēvānumēyaḥ|31|-

sthānēṣūktēṣu sammiśraḥ sammiśrāḥ kurutē rujaḥ ||31||


tasya vāyōḥ prasaraṇē pittādisaṁyuktasya pittādyāvaraṇapratipattihētuṁ darśayannāha- sthānēṣvityādi| miśraḥ pittādibhiḥ| pittādīnāmauṣṇyādisvabhāvaliṅgadarśanāddāhādikāryaliṅgadarśanācca pittādyāvaraṇaṁ jñēyaṁ; kēvalasya vāyōḥ śītasvabhāvatvāddāhaḥ pittaṁ vinā nōtpadyata iti||31||


tasya vāyōḥ prasāraṇavipannatvādisaṁyuktasya pittādyāvaraṇapratipattihētuṁ darśayannāha- sthānēṣūktēṣvētyādi| sammiśraḥ sammiśrāḥ kurutē rujaḥ| pittādīnāmauṣṇyādisvabhāvaliṅgadarśanāt, dāhādikāryaliṅgadarśanācca pittādyāvaraṇaṁ jñēyaṁ; kēvalasya vāyōḥ śītasvabhāvāt| dāhaḥ pittaṁ vinā nōpapadyata iti sāmarthyāt pittādikāryadarśanāt pittādyāvaraṇaṁ jñēyamiti||31||

kuryādavayavaprāptō [25] mārutastvamitān gadān |32|


tasyēdānīmavayavagatasyānēkarōgakāraṇatvaṁ darśayannāha- kuryādityādi|32|-


tasyēdānīmavayavagatasyānēkarōgakāritvaṁ darśayannāha- kuryādavayavasthaśca mātariśvā bahūn gadāniti| bahūn gadāniti āviṣkr̥tamān aśītiḥ| atra carakaḥ- “nakhabhēdaśca, vipādikā ca, pādaśūlaṁ ca” (ca. sū. 20) ityādayaḥ| ‘mātarikṣā amitān gadān’ ityanyē na paṭhanti| tatrā(thā’)pyamitā ēva vātavikārāḥ| taduktaṁ- “vātavikārāṇāmaparisaṅkhyēyanāmāviṣkr̥tatamā ēva vyākhyātāḥ” (ca. sū. 20) iti|32|-

dāhasantāpamūrcchāḥ syurvāyau pittasamanvitē ||32||
śaityaśōphagurutvāni tasminnēva kaphāvr̥tē |
sūcībhiriva nistōdaḥ sparśadvēṣaḥ prasuptatā ||33||
śēṣāḥ pittavikārāḥ syurmārutē śōṇitānvitē |
prāṇē pittāvr̥tē chardirdāhaścaivōpajāyatē ||34||
daurbalyaṁ sadanaṁ tandrā vaivarṇyaṁ [26] ca kaphāvr̥tē |
udānē pittasaṁyuktē mūrcchādāhabhramaklamāḥ ||35||
asvēdaharṣau mandō’gniḥ śītastambhau kaphāvr̥tē |
samānē pittasaṁyuktē svēdadāhauṣṇyamūrcchanam ||36||
kaphādhikaṁ [27] ca viṇmūtraṁ rōmaharṣaḥ kaphāvr̥tē |
apānē pittasaṁyuktē dāhauṣṇyē syādasr̥gdaraḥ [28] ||37||
adhaḥkāyagurutvaṁ ca tasminnēva [29] kaphāvr̥tē |
vyānē pittāvr̥tē dāhō gātravikṣēpaṇaṁ klamaḥ ||38||
gurūṇi [30] sarvagātrāṇi stambhanaṁ cāsthiparvaṇām |
liṅgaṁ kaphāvr̥tē vyānē cēṣṭāstambhastathaiva ca ||39||


idānīṁ sammiśrāḥ kurutē ruja iti sūtritamāvaraṇaṁ vivr̥ṇvannāha- dāhētyādi| dāhō’gnidagdhasyēva, santāpō gharmādisaṁsthitasyēva| śaityaśōphētyādi| tasminnēva vāyau| sūcībhirityādi| sadanam aṅgaglāniḥ| klamō’nāyāsaśramaḥ| harṣō rōmaharṣaḥ| kaphādhikaṁ ślēṣmabahulaṁ viṣṭhāmūtram| asr̥gdaraḥ strīṇāmēva| asthiparvaṇām asthisandhīnām| cēṣṭā gamanādikāḥ||32-39||


tatra ‘sammiśrāḥ kurutē rujaḥ’ iti sūtritamāvaraṇaṁ vivr̥ṇvannāha- prāṇē pittāvr̥tē dāha ityādi| subōdham| kēcidatra sthānē prāṇādīnāṁ pittādyāvaraṇapāṭhaṁ vihāya pakṣāghātapaṭhanīyaṁ ślōkaṁ paṭhanti| tadyathā- ‘dāhasantāpamūrcchāḥ syurvāyau pittasamanvitē’ ityādi| ‘śōṇitacaturthaiḥ’ (sū. 21) iti darśanādanyē raktāvr̥tavāyudarśanaparaṁ ślōkaṁ paṭhanti- “sūcībhiriva nistōdaḥ sparśadvēṣaḥ prasuptatā| śēṣāḥ paittikarōgāḥ syurmārutē śōṇitāvr̥tē” iti| aśēṣavātāvr̥tiśēṣaścāyaṁ granthaḥ| anuktāśēṣāvaraṇaṁ tu cikitsitaprasaṅgēna vakṣyati| yathā,- “kēvalō dōṣayuktō vā dhātubhirvā”vr̥tō’nilaḥ| vijñēyō lakṣaṇōhābhyāṁ cikitsyaścāvirōdhataḥ” (ci. 4) iti| anēnānuktāni sarvāṇyēvāvaraṇānyuktāni| kathaṁ? dadhatīti dhātava iti prakr̥tisthāḥ sarvē ēva śārīrā bhāvā dēhadhāraṇakāraṇādgr̥hītāḥ; tēnātra rasaraktādidhātvāvaraṇaṁ, mūtrādimalāvaraṇaṁ, mārutānāṁ pañcānāṁ parasparāvaraṇaṁ cōpagr̥hītaṁ; dōṣagrahaṇaṁ tu viśēṣārthamiti||32-39||

(prāyaśaḥ sukumārāṇāṁ mithyā”hāravihāriṇām |
rōgādhvapramadāmadyavyāyāmaiścātipīḍanāt [31] ||40||
r̥tusātmyaviparyāsāt snēhādīnāṁ ca vibhramāt |
avyavāyē tathā sthūlē vātaraktaṁ prakupyati [32] ) ||41||


sūcībhiriva nistōda ityādivākyēnāprakupitaśōṇitāvr̥tavātasya lakṣaṇamuktvā, idānīṁ prakupitaśōṇitāvr̥tavātajanyasya vātaraktasya prakōpakāraṇaṁ darśayannāha- prāyaśa ityādi| sukumārāṇāṁ vātaraktaṁ prakupyatīti sambandhaḥ| mithyāhāravihāriṇāmiti mithyā anucitaḥ, vihāraḥ kāyavāṅmanōvyāpāraḥ| adhvā mārgaḥ, vyāyāmaḥ śarīrāyāsajananaṁ karma| vibhramaḥ anyathākaraṇam| avyavāyē maithunavarjitē| kēcit ‘prāyaśaḥ sukumārāṇāṁ’ ityādigranthaṁ ‘vātaraktaṁ prakupyati’ iti yāvanna paṭhanti, cikitsitē paṭhiṣyamāṇatvāt||40-41||

hastyaśvōṣṭrairgacchatō’nyaiśca vāyuḥ kōpaṁ yātaḥ kāraṇai sēvitaiḥ svaiḥ |
tīkṣṇōṣṇāmlakṣāraśākādibhōjyaiḥ santāpādyairbhūyasā sēvitaiśca ||42||
kṣipraṁ raktaṁ duṣṭimāyāti [33] tacca vāyōrmārgaṁ saṁruṇaddhyāśu yātaḥ |
kruddhō’tyarthaṁ mārgarōdhāt sa vāyuratyudriktaṁ [34] dūṣayēdraktamāśu [35] ||43||
tat sampr̥ktaṁ vāyunā dūṣitēna tatprābalyāducyatē vātaraktam |
tadvat pittaṁ dūṣitēnāsr̥jā”ktaṁ ślēṣmā duṣṭō dūṣitēnāsr̥jā”ktaḥ ||44||


tasya samprāptiṁ darśayannāha- hastītyādi| anyaiścēti aparairbhāraharaṇādibhiḥ kāraṇairityarthaḥ| kōpaṁ yātaḥ kōpaṁ gata ityarthaḥ| kāraṇaiḥ sēvitaiḥ svairvidāhyādibhiḥ| tacca raktaṁ vāyōrmārgaṁ saṁruṇaddhi| kathambhūtasya vāyōrityāha- āśu yātaḥ, śīghraṁ gacchata ityarthaḥ| atyudriktam atiśayēna vr̥ddhiṅgataṁ raktam| tat sampr̥ktamiti tadraktaṁ, sampr̥ktaṁ saṁsr̥ṣṭam| vāyunā dūṣitēnēti dūṣitēna vāyunā saha| tatprābalyāt vātaprābalyācchōṇitasyāprābalyāt, tayōrvātaraktayōḥ prābalyāditi kēcit| tadvat pittamiti duṣṭaṁ pittamityarthaḥ, dūṣitēnāsr̥jā”ktamiti dūṣitēna raktēna miśram||42-44||


idānīṁ kupitasya vāyōḥ kupitaśōṇitāvaraṇaprasaṅgēna ‘prāyaśaḥ sukumārāṇāṁ mithyāhāravihāriṇām’ iti paṭhiṣyamāṇatvāt tasya samprāptiṁ darśayannāha- hastyaśvōṣṭrairityādi| vidāhyannamaśnataḥ śōṇitaṁ vidagdhaṁ hastyādiyānaistaddravatvādadhōgataṁ pādayōścīyatē| viśēṣēṇa hastyādigamanaṁ hētuḥ, sāmānyataḥ punaḥ pādagamanamapi| niruktiṁ kurvannāha- tatprābalyāducyatē vātaraktamiti| vātaprābalyādityarthaḥ| yadyapyatra vātasya śōṇitasya cōbhayōrapi duṣṭirasti, tathā’pi vātasya prābalyād dōṣatvēnāpi tasyaiva prādhānyād vātavyādhivyapadēśaḥ, śōṇitasyāprābalyāddūṣyatvācca na tadvyapadēśa iti| taduktaṁ carakē- “vāyurvivr̥ddhō vr̥ddhēna raktēnāvāritaḥ pathi| kruddhaḥ sandūṣayēdraktaṁ tajjñēyaṁ vātaśōṇitam” (ca. ci. 29) iti||42-44||

sparśōdvignau [36] tōdabhēdapraśōṣasvāpōpētau vātaraktēna pādau |
pittāsr̥gbhyāmugradāhau bhavētāmatyarthōṣṇau raktaśōphau mr̥dū ca ||45||
kaṇḍūmantau śvētaśītau saśōphau pīnastabdhau ślēṣmaduṣṭē tu raktē |
sarvairduṣṭē [37] śōṇitē cāpi dōṣāḥ svaṁ svaṁ rūpaṁ pādayōrdarśayanti ||46||


tasyēdānīṁ vātādiviśēṣēṇa viśiṣṭaliṅgaṁ darśayannāha- sparśōdvignāvityādi| sparśōdvignau sparśāsahau pādāviti sambandhaḥ| praśōṣaḥ śuṣkatā, svāpaḥ sparśājñānam| ētēna vātaprabalavātaraktalakṣaṇamuktam| pittāsr̥gbhyāmiti vātaśōṇita ēva yadā pittamasr̥k ca balavattaraṁ bhavati tadētyarthaḥ| raktaśōphau raktavarṇaśōphau| kaṇḍūmantau pādāviti sambandhaḥ| pīnau sthūlau||45-46||


tasyēdānīṁ sāmānyaliṅgamabhidhāya vātādidōṣaviśēṣēṇa viśiṣṭaṁ liṅgaṁ darśayannāha- sparśōdvignāvityādi| uṣṇādisparśanaṁ na sahētē raktaduṣṭyā rōgarujō’tiyōgāt| tōdabhēdānvitaprakr̥ṣṭaśōṣaṇaṁ vātaprābalyādēva; tōdabhēdayōḥ śōṣaṇasya ca vātakr̥tatvāt| svāpaḥ sparśājñānam| pittāsr̥gbhyāmiti vātaśōṇita ēva yadā pittamasr̥k ca balavattaraṁ bhavati, tadētyarthaḥ| raktaśōphau raktavarṇaśōphau| ēvaṁ śvētau pādau ślēṣmaduṣṭē tu raktē| pratyēkaṁ dōṣanirdiṣṭalakṣaṇasyātidēśēna saṁsargasannipātē nirdiśannāha- sarvē duṣṭā ityādi||45-46||

prāgrūpē śithilau svinnau śītalau [38] saviparyayau |
vaivarṇyatōdasuptatvagurutvauṣasamanvitau ||47||


tasya pūrvarūpamāha- prāgrūpē ityādi| saviparyayāviti kaṭhināsvinnōṣṇau, ‘pādau’ ityadhyāhāraḥ| ōṣō dāhaḥ| kēcidatra pūrvarūpaṁ na paṭhanti, cikitsāyāṁ paṭhiṣyamāṇatvāt||47||

pādayōrmūlamāsthāya kadāciddhastayōrapi |
ākhōrviṣamiva kruddhaṁ taddēhamanusarpati ||48||


tasyēdānīṁ pādamātrē’bhijātasya kālēnāvayavāntarānusaraṇaṁ nirdiśannāha- pādayōrityādi| mūlamāsthāya talaṁ prāpya| ākhōrityādi undurasya viṣaṁ mūlamāsthāya paścāt kupitaṁ saddēhaṁ sakalamēvānuyāti||48||


tasyēdānīṁ pādamātrē’pi jātasya kālēnāvayavāntarānusaraṇaṁ nirdiśannāha- pādayōrmūlamityādi| mūlamāsthāya kandaṁ samprāpya paścāddēhamanudhāvati anuyātītyarthaḥ| ākhōrviṣamivētyādi| ākhōrundurasyēva viṣaṁ daṁśamūlamāsthāya paścāt kupitaṁ saddēhaṁ sakalamanuyāti||48||

ājānusphuṭitaṁ yacca prabhinnaṁ prasrutaṁ ca yat |
upadravaiśca yajjuṣṭaṁ prāṇamāṁsakṣayādibhiḥ ||49||
śōṇitaṁ tadasādhyaṁ syādyāpyaṁ saṁvatsarōtthitam |50|


tasyēdānīmasādhyādilakṣaṇaṁ darśayannāha- ājānusphuṭitamityādi| ājānusphuṭitaṁ jānuparyantamuccaṭitam| prabhinnaṁ vidīrṇam| prasrutaṁ srāvayuktam| upadravaiḥ prāṇamāṁsakṣayādibhiravāraṇīyōktaiḥ [39] | ādigrahaṇādaṅgulivakratārbudādayō’pi grāhyāḥ| juṣṭaṁ sahitam| yajjānuparyantaṁ sphuṭitaṁ vātaprābalyāt, yacca jānuparyantaṁ prabhinnaṁ prasrutaṁ ca pittaraktaprābalyāt, tadapyasādhyamēva||49||-


tasyēdānīmasādhyādilakṣaṇaṁ nirdiśannāha- ājānusphuṭitamityādi| tatra yadvātaprābalyājjānuparyantaṁ sphuṭitaṁ, yacca pittakaphaprābalyājjānuparyantaṁ prasrutaṁ bhavati, tadapyasādhyamēva||49||-

yadā tu dhamanīḥ sarvāḥ kupitō’bhyēti mārutaḥ ||50||
tadākṣipatyāśu muhurmuhurdēhaṁ muhuścaraḥ |
muhurmuhustadākṣēpādākṣēpaka iti smr̥taḥ ||51||


idānīṁ vātaraktamabhidhāyākṣēpakamāha- yadētyādi| dhamanyō nāḍyaḥ| abhyēti vyāpnōti| ākṣipati cālayati| muhuścara iti vāraṁvāraṁ calanaśīlō vāyuḥ, muhuścaratvēnaiva muhurmuhurākṣēpaṇaṁ yuktam; anyē tu ‘bahiścara’ iti paṭhanti, tannēcchati gayadāsācāryaḥ| tadākṣēpāt dēhākṣēpāt| idamākṣēpakasya sāmānyalakṣaṇamuktam||50-51||


vātaraktākhyaraktāvr̥tavātavyādhiṁ darśayitvā raktōpadhātudhamanīprāptasyākṣēpakāhētukasya vātasya vyādhiṁ darśayannāha- yadā tu dhamanīḥ sarvā ityādi| sarvā ūrdhvādhastiryagāḥ| muhurēva dēhamākṣipati sa ākṣēpaṇādākṣēpaka iti niruktiḥ| muhuścara iti muhuścaratvēnaiva muhurmuhurākṣēpaṇam| anyē tu ‘bahiścaraḥ’ iti paṭhanti| tanna, sthānagāmbhīryādākṣēpakasyāntarākṣēpaṇakarmārambhakasya bahiścaratvaṁ na yujyatē||50-51||

sō’patānakasañjñō yaḥ pātayatyantarā’ntarā |
kaphānvitō bhr̥śaṁ vāyustāsvēva yadi tiṣṭhati ||52||
sa daṇḍavat stambhayati kr̥cchrō daṇḍāpatānakaḥ |
hanugrahastadā’tyarthaṁ sō’nnaṁ kr̥cchrānniṣēvatē ||53||
dhanustulyaṁ namēdyastu sa dhanuḥstambhasañjñakaḥ |
aṅgulīgulphajaṭharahr̥dvakṣōgalasaṁśritaḥ ||54||
snāyupratānamanilō yadā”kṣipati vēgavān |
viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṁ vaman ||55||
abhyantaraṁ dhanuriva yadā namati mānavaḥ |
tadā’syābhyantarāyāmaṁ kurutē mārutō balī ||56||
bāhyasnāyupratānasthō bāhyāyāmaṁ karōti ca |
tamasādhyaṁ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam ||57||
kaphapittānvitō vāyurvāyurēva ca kēvalaḥ |
kuryādākṣēpakaṁ tvanyaṁ caturthamabhighātajam ||58||


ākṣēpakaviśēṣānāha- sō’patānaka ityādi| ya ākṣēpakō’ntarā’ntarā pātayati sō’patānaka ityarthaḥ| idaṁ sāmānyāpatānakalakṣaṇamuktaṁ; gayadāsēnāpatānakalakṣaṇaṁ ‘yēnāpatāmyatē’ ityādivākyēnābhidhāya vyākhyātaṁ, yathā- “yēna vāyunā kartr̥bhūtēna hētubhūtēna vā pumānapatāmyatē tamō dr̥śyatē mōhyatē iti yāvat sō’patānaka iti; sō’yaṁ hr̥disthamanō’dhiṣṭhānēna sakaphēna vāyunā janyatē” iti| sa ēvāpatānakastridhā- daṇḍāpatānakaḥ, antarāyāmaḥ, bahirāyāmaśca; tatra daṇḍāpatānakalakṣaṇamāha- kaphānvita ityādi| tāsvēva sarvāsu dhamanīṣu, bhr̥śaṁ tiṣṭhatīti sambandhaḥ| kr̥cchraḥ kaṣṭasādhyaḥ| hanugrahastu daṇḍāpatānakē’nyatrāpi vāyau [40] syāt| sa daṇḍāpatānakavān puruṣaḥ| dhanuḥstambhasañjñakamantarāyāmaṁ darśayannāha- dhanustulyamityādi| tasyaiva bhāṣyaṁ vaktumāha- aṅgulītyādi| aṅgulyō’tra pādagatāḥ, gulphaḥ pārṣṇērupari granthiḥ, jaṭharamudaraṁ, hr̥t hr̥dayaṁ, vakṣaḥ stanayōrantarālaṁ, galaḥ kaṇṭhaḥ; ētēṣu sthānēṣu saṁśrita āśritō vāyuḥ| snāyupratānaṁ snāyuvistāram| bahirāyāmaṁ nirdiśannāha- bāhyasnāyupratānastha ityādi| bāhyasnāyupratānasthō bāhyasnāyuvistārasthaḥ, bāhyasnāyavaḥ pādamūlapiṇḍikākaṭīpr̥ṣṭhagrīvāpaścimabhāgāśrayāḥ| vakṣaḥkaṭyūrubhañjanamiti vakṣaḥkaṭyūrubhañjanatvē satyēvāsādhyatvam, abhagnavakṣaḥkaṭyādikastu nava upakramya ēva| tasyākṣēpakasyētaradōṣasaṁsargēṇa nidānaviśēṣācca saṅkhyābhēdaṁ darśayannāha- kaphapittānvita ityādi| ēkaḥ kaphānvitaḥ, dvitīyaḥ pittānvitaḥ, tr̥tīyaḥ kēvalavātakr̥taḥ, caturthō’bhighātajaḥ| caturthamabhighātajamiti nidānaviśēṣāt| daṇḍāpatānakādayastrayaścaturthaḥ punarabhighātaja iti śrījējjhaṭaḥ; tannēcchati gayī, garbhapātādinimittabhēdēna saṅkhyātirēkāt| śrībahmadēvastu “ākṣēpakaścaturdhā- apatānakaḥ, saṁsr̥ṣṭākṣēpakaḥ, kēvalākṣēpakaḥ, abhighātajaśca; tatrāpatānakaḥ ‘sō’patānaka’ ityādinā ‘vakṣaḥkaṭyūrubhañjanam’ iti paryantēnōktaḥ, ‘kaphānvitō vāyuḥ’ iti saṁsr̥ṣṭākṣēpakaḥ, ‘vāyurēva ca kēvalaḥ’ iti kēvalākṣēpakaḥ, caturthaḥ punarabhighātajaḥ” ityāha||52-58||


tasyaivākṣēpakasyāvasthāviśēṣēṇa niruktyā nāmnā ca viśēṣaṁ darśayannāha- yēnāpatāmyata ityādi| yēna vāyunā āvr̥tēna hētubhūtēna apatāmyatē tamō dr̥śyatē mōhyatē iti yāvat, sō’patānaka iti| sō’yaṁ hr̥disthamanō’dhiṣṭhānēna sakaphēna vāyunā janyatē| atra trimarmīyasiddhau dr̥ḍhabalaḥ- “kruddhaḥ svaiḥ kōpanairvāyuḥ sthānādūrdhvaṁ prapadyatē| pīḍayan hr̥dayaṁ gatvā śiraḥ śaṅkhau ca pīḍayan|| dhanurvannamayēdgātrāṇyākṣipēnmōhayēttathā| kr̥cchrēṇa cāpyucchvasiti stabdhākṣō’pyanimīlanaḥ [41] || kapōta iva kūjēcca niḥsañjñaḥ sō’patantrikaḥ”- iti (ca. si. 9)| asyaiva cāvasthāyāḥ sthitasya(?) dr̥ṣṭistambhasañjñāpraṇāśābhyāmapatānakatvaṁ dr̥ḍhabalō’pi darśayati- “dr̥ṣṭiṁ saṁstabhya sañjñāṁ ca hatvā kaṇṭhēna kūjati| hr̥di muktē naraḥ svāsthyaṁ yāti mōhaṁ vr̥tē punaḥ|| vāyunā dāruṇaṁ prāhurēkē tamapatānakam” (ca. si. 9) iti| anyē tu sauśrutamapatānakalakṣaṇamanyathā paṭhanti- “yaḥ prāṅmanyē tu saṁśritya dhamanīḥ pratipadyatē| apatānakasañjñō’sau pātayatyantarā’ntarā”- iti| aparē tu paṭhanti- “ākr̥ṣyatē tu hr̥ṅmūrdhasañjñē(?) yaḥ sō’patānakaḥ” iti| ētatpāṭhadvayamapi na paṭhanīyam, ākṣēpakalakṣaṇēnāviśēṣāt| tantrāntarānugrahatvē sa ēvāpatānakastridhā; tadyathā- daṇḍāpatānakaḥ, antarbahirvā”yāmaḥ| daṇḍavat stambhanāddaṇḍāpatānakaḥ, abhyantaraṁ dhanuḥkōṭivannamanād dhanustambhaḥ, sa ēvāntarāyāmāviśiṣṭaḥ| anyē tu kubjakhañjāpatānakāstrayaḥ, caturthaḥ punarabhighātajaḥ; tanna, garbhapātādinimittabhēdēna sañjñātirēkāt| atrākṣēpaka ēvāpatānayōgādapatānakaḥ| sa tu śuddhavātakaphapittāvr̥tābhighātabhēdāccaturvidhaḥ| garbhapātajasya śōṇitātisrāvajatvādasādhyatvaṁ, marmābhighātajasya rujābāhulyādasādhyatvamiti| daṇḍāpatānakaṁ darśayannāha- kaphānvitō bhr̥śamityādi| tāsviti sarvāsu dhamanīṣu| suśrutē sādhāraṇādēva vātāddaṇḍāpatānakaḥ, carakē tu kṣayanimittavātādasādhyaśca; tathā hi carakaḥ “pāṇipādaṁ ca saṁśōṣya sirāḥ snāyuśca kaṇḍarāḥ| pāṇipādaśiraḥpr̥ṣṭhaśrōṇīḥ stabhnāti mārutaḥ|| daṇḍavat stabdhagātrasya daṇḍakaḥ sō’nupakramaḥ” (ca. ci. 28) iti| suśrutē kaphapittasaṁsargādgarbhapātādinimittasyāsādhyavacanānnōpakramyaḥ| dhanuḥstambhasañjñakamantarāyāmaṁ darśayannāha- dhanustulyamityādi| tasyaiva bhāṣyaṁ darśayannāha- aṅgulītyādi| aṅgulyō’tra pādagatāḥ; gulphasāhacaryāt| pādāṅgulyādigalaparyantasakaladēhagatasnāyupratānākṣēpakahētudhanuḥkrōḍavannamanādantarāyāmaḥ| snāyupratānamiti snāyusaṅghātavistāramākṣipati; tēnātrāpyākṣēpakalakṣaṇamēva| bahirāyāmaṁ nirdiśannāha- bāhyasnāyupratānastha ityādi| bāhyāḥ snāyavaḥ pādamūlapiṇḍikākaṭīpr̥ṣṭhagrīvāpaścimabhāgāśrayāḥ| vakṣaḥkaṭyūrubhañjanaṁ vakṣaḥkubjīkaraṇam| asya vakṣōbhaṅgē’sādhyatvam, abhagnavakṣasō narasyōpakramyatā; jātavēgasya śarīrapinākakartr̥tvamēva carakē; ētēnātrāpyākṣēpakadharmānuvr̥ttiḥ, vēgāgamēnākṣēpaṇāt| tathā ca carakaḥ- “jātavēgō nihantyēṣa vaikalyaṁ vā niyacchati” (ca. ci. 28); ajātavēgō mānava upakramyaḥ| tatra yadyapi carakē sirāgatō vāyurbāhyāyāmē kathitaḥ- “pr̥ṣṭhamanyāśritā bāhyāḥ śōṣayitvā sirā balī” (ca. ci. 28) iti; tathā’pyatra sirāśabdaḥ sādr̥śyāt snāyusu vartatē| yadāha punaḥ sa ēva- “bāhyābhyantaramāyāmaṁ khallīṁ kubjatvamēva ca| sarvāṅgaikāṅgarōgāṁśca kuryāt snāyugatō’nilaḥ” (ca. ci. 28) iti| anyatrāpi bāhyābhyantarāyāmēṇa dvividhaṁ kubjatvamabhiprētaṁ, “khallīṁ kubjatvamarditam” (ca. ci. 28) iti tatraiva vacanāt| na ca kubjatvamanyat pr̥thak śāstrē nirdiṣṭamasti| bahirāyāmalakṣaṇaṁ carakē “pr̥ṣṭhamanyāśritō [42] vāyuḥ śōṣayitvā sirā balī| tataḥ [43] kuryāddhanuḥstambhaṁ bahirāyāmasañjñakam|| cāpavannāmyamānasya pr̥ṣṭhatō hriyatē śiraḥ| ura utkṣipyatē manyā stabdhā grīvā’vamr̥dyatē|| dantānāṁ daśanaṁ [44] jr̥mbhā lālāsrāvaḥ savāggrahaḥ| jātavēgō nihantyēṣa vaikalyaṁ vā niyacchati” (ca. ci. 28) iti| tasyēdānīmitaragauṇadōṣasaṁsargēṇa nidānaviśēṣatvēna ca sañjñābhēdaṁ darśayannāha- kaphapittānvita ityādi||52-58||

garbhapātanimittaśca śōṇitātisravācca yaḥ |
abhighātanimittaśca na sidhyatyapatānakaḥ ||59||


tasyaivākṣēpakasyāpatānakasañjñāṁ prāptasyāsādhyatvaṁ darśayannāha- garbhapātanimittaścētyādi| garbhapātādinimittāstrayō’pyāgantavō’sādhyāḥ; yadi kathañciddaivayōgāt sidhyanti tadā vaikalyaṁ janayanti||59||


nidānaviśēṣādasyaivākṣēpakasya patanasvabhāvādapatānakasañjñāṁ prāptasyāparamasādhyatvaṁ darśayannāha- garbhapātanimitta ityādi| tatra garbhapātē garbhiṇyāḥ pūrvamēvārucicchardimatyāstathā garbhādhārapōṣaṇēna vibhaktarasatvēnāpi durbalāyā garbhapātēnāpi srutātiśōṇitāyā anyahētusrutaśōṇitāyā vā’tidhātukṣayanimittēnāpēkṣakasyāsādhyatvamiti| garbhapātādinimittāstrayō’pyāgantavō’sādhyāḥ||59||

adhōgamāḥ satiryaggā dhamanīrūrdhvadēhagāḥ |
yadā prakupitō’tyarthaṁ mātariśvā prapadyatē ||60||
tadā’nyatarapakṣasya sandhibandhān vimōkṣayan |
hanti pakṣaṁ tamāhurhi pakṣāghātaṁ bhiṣagvarāḥ ||61||
yasya kr̥tsnaṁ śarīrārdhamakarmaṇyamacētanam |
tataḥ [45] patatyasūn vā’pi tyajatyanilapīḍitaḥ [46] ||62||


pakṣāghātamāha- adhōgamā ityādi| ēkataraśarīrārdhadhamanīrūrdhvādhastiryaggatā yadā sa mātariśvā vāyuḥ, prapadyatē āśrayatītyarthaḥ, tadā’nyatarapakṣasyaikataraśarīrārdhasya, sandhibandhān vimōkṣayan vimōcayan, pakṣaṁ śarīrārdhaṁ hanti| yasya kr̥tsnamityādi| akarmaṇyam īṣatkarmakṣamam, acētanam alpacētanam; yadā akarmaṇyaṁ bhavati tadā patati; yadā acētanaṁ bhavati tadā asūn prāṇān parityajati||60-62||


daṇḍastambhādisarvāṅgavātānuddiśya kr̥tsnadēhavātaṁ darśayannāha- adhōgamā ityādi| ēkataraśarīrārdhadhamanīrūrdhvādhastiryagā āśritya sandhibandhān kaphasaṁhitābhirdhamanībhiḥ kr̥tān mōkṣayan pakṣāghātaṁ kuryāt| tatra śarīraśabdaḥ śarīrāvayavē’pi vartatē| samudāyēṣu pravr̥ttā śabdā avayavēṣvapi vartanta iti kr̥tsnagrahaṇam| dhamanyō’tra snāyavaḥ sādr̥śyēnābhihitāḥ, snāyūnāmēva sandhibandhanēṣvadhikr̥tatvāt| taduktaṁ śārīrē- “ēvamēva śarīrē’smin yāvantaḥ sandhayaḥ smr̥tāḥ| snāyubhirbahubhirbaddhāstēna bhārasahā narāḥ” (śā. 5) iti| anyē tu sirāsnāyugatatvēna gurutvamasya pratipādayituṁ dhamanīti grahaṇamityāhuḥ| ubhayāśrayō hi vāyuścarakē pakṣavadhē paṭhyatē, taduktaṁ- “hatvaikaṁ mārutaḥ pakṣaṁ dakṣiṇaṁ vāmamēva vā| karōti cēṣṭāviratiṁ rujāṁ vāksaṅgamēva ca|| gr̥hītvā’rdhaṁ śarīrasya sirāḥ snāyūrviśōṣya ca” (ca. ci. 28) iti| na cētanam acētanam| śuddhavātajaṁ kr̥cchraṁ, tataḥ patati| yadā punaścētanaṁ na bhavatīti kriyayā sambandhaḥ| dhātukṣayakr̥tavātajaṁ tadasādhyaṁ, tatrāsūn jahāti; aparadōṣasaṁsr̥ṣṭavātaṁ punaḥ sādhyam||60-62||

śuddhavātahataṁ pakṣaṁ kr̥cchrasādhyatamaṁ viduḥ |
sādhyamanyēna saṁsr̥ṣṭamasādhyaṁ kṣayahētukam ||63||


pakṣāghātasya sādhyāsādhyatvaṁ darśayannāha- śuddhavātahatamityādi| śuddhaḥ kaphādyasaṁsr̥ṣṭaḥ| anyēna saṁsr̥ṣṭam itaradōṣasambaddham||63||


pakṣāghātasya sādhyāsādhyatvaṁ darśayannāha- śuddhavātahatamityādi| śuddhavātahataṁ kr̥cchrasādhyam, anyadōṣasaṁsr̥ṣṭaṁ sādhyaṁ, kṣayahētukēvalavātajaṁ punarasādhyaṁ sākṣādēva, śōṇitātisrutikr̥tadhātukṣayajamēvāsādhyaṁ, balavadvigrahāditō dhātukṣayakarahētukr̥taṁ tu kr̥cchrasādhyamiti bhēdāḥ||63||

vāyurūrdhvaṁ vrajēt sthānāt kupitō hr̥dayaṁ śiraḥ |
śaṅkhau ca pīḍayatyaṅgānyākṣipēnnamayēcca saḥ ||64||
nimīlitākṣō niścēṣṭaḥ stabdhākṣō vā’pi kūjati |
nirucchvāsō’thavā kr̥cchrāducchvasyānnaṣṭacētanaḥ ||65||
svasthaḥ syāddhr̥dayē muktē hyāvr̥tē tu pramuhyati |
kaphānvitēna vātēna jñēya ēṣō’patantrakaḥ ||66||


apatantrakamāha- vāyurūrdhvamityādi| hr̥dayaṁ śiraḥ śaṅkhau ca pīḍayatīti hr̥dayaṁ kamalamukulākāramadhōmukhaṁ, bhruvōrantōpari karṇalalāṭayōrmadhyē śaṅkhau, aṅgāni hastapādādīni| ākṣipēt pātayēt [47] | kūjati kapōta iva śabdaṁ karōti; athavā kr̥cchrāducchvasyāditi kaṣṭēnōcchvāsaṁ kuryāt| kēcidapatantrakamamuṁ na paṭhanti, apatantrakāpatānakayōraikyāt||64-66||


apatānakasthānē kēcidapatantrakamadhīyatē- vāyurūrdhvaṁ vrajēt sthānādityādi| anyē tvapatānakalakṣaṇēnaiva tadavarōdhāditi nādhīyatē| carakē punarākṣēpakasyāpatānakatvaṁ na paṭhitamityapatantrakaḥ paṭhyatē||64-66||

divāsvapnāsanasthānavivr̥tādhvanirīkṣaṇaiḥ [48] |
manyāstambhaṁ prakurutē sa ēva ślēṣmaṇā”vr̥taḥ ||67||


manyāstambhamāha- divāsvapnētyādi| āsanam upavēśanaṁ, sthānam ūrdhvībhavanaṁ| vivr̥tādhvanirīkṣaṇaiḥ vakramārgāvalōkanaiḥ| sa ēva vāyuḥ| manyāstambhaṁ kēcidapatānakapūrvarūpaṁ manyantē||67||


manyāstambhaṁ darśayannāha- divāsvapnētyādi| kaiścinmanyāstambhō na paṭhyatē, antarāyāmabahirāyāmalakṣaṇatvānmanyāstambhasya; tanna, svātantryēṇāpyupalambhānmanyāstambhasya||67||

(garbhiṇīsūtikābālavr̥ddhakṣīṇēṣvasr̥kkṣayē [49] |)
uccairvyāharatō’tyarthaṁ khādataḥ kaṭhināni vā |
hasatō jr̥mbhatō [50] bhārādviṣamācchayanādapi ||68||
śirōnāsauṣṭhacibukalalāṭēkṣaṇasandhigaḥ |
ardayitvā’nilō vaktramarditaṁ janayatyataḥ ||69||
vakrībhavati vaktrārdhaṁ grīvā cāpyapavartatē |
śiraścalati vāksaṅgō nētrādīnāṁ ca vaikr̥tam ||70||
grīvācibukadantānāṁ tasmin pārśvē tu vēdanā |
yasyāgrajō rōmaharṣō vēpathurnētramāvilam ||71||
vāyurūrdhvaṁ tvaci svāpastōdō manyāhanugrahaḥ |
tamarditamiti prāhurvyādhiṁ vyādhiviśāradāḥ ||72||


arditamāha- garbhiṇītyādi| sūtikā prasūtā strī| vyāharataḥ śabdaṁ kurvataḥ| bhārādviṣamācchayanādapīti viṣamādbhārāt, viṣamācchayanāccētyarthaḥ| anyē tu ‘viṣamōcchvasanāt’ iti paṭhanti| ardayitvā vyathayitvā| apavartatē vakrībhavati| vāksaṅgō vācō’nirgamaḥ| nētrādīnāmityādiśabdād bhrūgaṇḍādyupasaṅgrahaḥ| tasmin pārśvē iti yasmin pārśvē’rditaṁ bhavati tasmin pārśvē grīvādayō vakrībhavanti| cibukaṁ mukhakuharasyādhōbhāgaḥ| tasya (pūrva)rūpamāha- yasyētyādi| agrajaḥ pūrvabhāvī| āvilaṁ samalam| vāyurūrdhvaṁ ‘prasarpati’ iti śēṣaḥ| tvaci svāpaḥ tvacaḥ sparśājñānam||68-72||


arditavātaṁ nirdiśannāha- uccairvyāharatō’tyarthamityādi| jr̥mbhayā hētubhūtayā| bhārād viṣamāt; śayanāśanācca ‘viṣamāt’ ityanuvartatē| vāksaṅgō vācō’nirgamaḥ| nētrādīnāmityādiśabdād bhrūgaṇḍādyupagrahaḥ| kēciccharīrārdhamapīcchanti [51] ; taduktaṁ carakē- “ardhē tasminmukhārdhē vā kēvalē syāttadarditam (ca. ci. 28) iti; tattu na samyak| uccairvyāhārādīnāṁ mukhagatavāyōrēva kōpakatvāt||68-72||

kṣīṇasyānimiṣākṣasya prasaktaṁ [52] saktabhāṣiṇaḥ |
na sidhyatyarditaṁ bāḍhaṁ trivarṣaṁ vēpanasya ca ||73||


tasyāsādhyatvamāha- kṣīṇasyētyādi| animiṣākṣasya stabdhākṣasya| prasaktaṁ satataṁ, saktabhāṣiṇaḥ pīḍitāvyaktapadabhāṣiṇaḥ; anyē tu ‘prasaktāvyaktabhāṣiṇaḥ’ iti paṭhanti, prasaktaṁ prakarṣēṇa lagnamiti tatrārthaḥ| bāḍhamatiśayēna na sidhyatīti sambandhaḥ| trivarṣamiti saṁvatsaratrayātītam; anyē tu nāsākṣimukhasrāviṇaṁ trivarṣamāhuḥ| vēpanasya kampanaśīlasya| “garbhiṇīsūtikābālavr̥ddhakṣīṇēṣvasr̥kkṣayē” ityamuṁ pāṭhaṁ jējjhaṭādaya ācāryā na paṭhanti| ‘uccairvyāharatō’tyarthaṁ’ ityādau kr̥tvā paṭhanti, bahuvaidyapaṭhitatvādasmābhiḥ paṭhitaḥ||73||


tasyēdānīmasādhyatvaṁ darśayannāha- kṣīṇasyētyādi| prasaktaṁ prakarṣēṇa saktaṁ lagnaṁ [53] kaṇṭhatālvādivarṇōccāraṇasthānēṣu, avyaktamasphuṭaṁ bhāvitaṁ yasya sa tathā| tathaiva carakaḥ “lī(dī)nā jihvā samutkṣiptā tathā sajjati cāsya vāk” (ca. ci. 28) iti| trivarṣamiti trayō varṣāḥ saṁvatsarā asyēti atyantasaṁyōgē dvitīyā| anyē tu nāsākṣimukhasrāviṇaṁ trivarṣamāhuḥ, varṣasāmānyāt srāvasya||73||

pārṣṇipratyaṅgulīnāṁ [54] tu kaṇḍarā yā’nilārditā |
sakthnaḥ [55] kṣēpaṁ nigr̥hṇīyādgr̥dhrasīti hi sā smr̥tā ||74||


gr̥dhrasīmāha- pārṣṇītyādi| yā kaṇḍarā sakthnaḥ kṣēpaṁ nigr̥hṇīyāt sā gr̥dhrasīti smr̥tēti sambandhaḥ| pārṣṇirgulphasya pāścātyādhōbhāgaḥ, pratyaṅgulyō’ṅgulya ēva; ētēnōparyadhōbhāgagataṁ kaṇḍarādvayaṁ gr̥hyatē| kaṇḍarā mahāsnāyuḥ| gulphādiviṭapāntaṁ sakthi, tasya kṣēpaḥ prasāraṇaṁ, taṁ nigr̥hṇīyādavarundhyādityarthaḥ| gr̥dhrasī ‘raṅghiṇī’ iti lōkē| sā ca vātād vātakaphācca| khañjanavātē na sātiśayā vyathā yathā gr̥dhrasyām| kēcit ‘pārṣṇiṁ pratyaṅgulīnām’ iti dvitīyāntaṁ paṭhanti; tatrāpi pārṣṇiṁ lakṣīkr̥tya yā kaṇḍarā, aṅgulīnāṁ ca yā kaṇḍarēti kaṇḍarādvayam||74||


ēkasakthigatasnāyugataṁ darśayannāha- pārṣṇiṁ pratītyādi| pārṣṇiḥ pādagranthiḥ pādakaniṣṭhāṅgulēradhaḥsnāyudāhaṁ kurutē(?)| lakṣaṇē karmapravacanīyasañjñā, tēna pārṣṇimati dvitīyā| ‘kaṇḍarē yē’ iti dvivacanaṁ kēcit paṭhanti| kṣēpaṁ prasāraṁ, sakthikṣēpaṁ nigr̥hṇīta iti||74||

talapratyaṅgulīnāṁ [56] tu kaṇḍarā bāhupr̥ṣṭhataḥ |
bāhvōḥ karmakṣayakarī viśvācīti hi sā smr̥tā ||75||


gr̥dhrasīsadr̥śīmēkabāhugatāṁ viśvācīmāha- talētyādi| talaśabdō’yamupari vartatē, tēna karasyābhyantarakaṇḍarā gr̥hītā, bāhupr̥ṣṭhata ityanēna bāhyakaṇḍarā gr̥hītā| bāhvōriti dvivacanaṁ sāmānyāpēkṣayā [57] , kadācit kasmiṁścidbāhau bhavati| ‘anilārditā’ ityatrāpi sambadhyatē| cakārō’tra gr̥dhrasīviśvācyōrnāmāntaramanuktaṁ khallyabhidhānaṁ samuccinōti| anyē tvatrāpi ‘talaṁ pratyaṅgulīnām’ iti pūrvavaddvitīyāntaṁ paṭhanti, tēna talaṁ lakṣīkr̥tya yā kaṇḍarā bāhupr̥ṣṭhataśca yā kaṇḍarēti kaṇḍarādvayaṁ gr̥hyatē||75||


sakthisāmānyādēkabāhugatasadr̥śavikāraṁ darśayannāha- talaṁ pratyaṅgulānāmityādi| ‘anilārditā’ iti pūrvavākyataḥ śēṣaḥ| talaśabdō’yamupari vartatē, yathā- bhūtalamiti; tēna bāhupr̥ṣṭhata iti saṅgatārthaḥ| iyamapi vātādvātakaphācca; gr̥dhrasīsāmānyāt| viśvācīti cakārō’tra gr̥dhrasīviśvācyōrnāmāntaramanuktaṁ khallyabhividhānaṁ samuccinōti| ubhē apyētē śūlāvamōṭanādivātarugarditē khallīsañjñē, “khallī tu pādajaṅghōrukaṭīśūlāvamōṭinī [58] (ca. ci. 28) iti carakē samārthēna gr̥dhrasīviśvācīviṣayēyamiti pratīyatē| hārītē tu gr̥dhrasīviśvācyōḥ pratipadamēva khallīsañjñā kr̥tā [59] ||75||

vātaśōṇitajaḥ śōphō jānumadhyē mahārujaḥ |
śiraḥ krōṣṭukapūrvaṁ tu sthūlaḥ krōṣṭukamūrdhavat ||76||


krōṣṭukaśira āha- vātētyādi| yō jānumadhyē vātaśōṇitajō mahārujaḥ [60] krōṣṭukamūrdhavat sthūlaḥ śōphō bhavati sa krōṣṭukaśira iti jñēyaḥ| vātaśōṇitaja iti vātaśōṇitābhyāṁ jātō vātaśōṇitajaḥ, na punarvātaraktēna vyādhinā janitaḥ; anyē tu vātēna śōṇitēna ca jāta iti nēcchanti, kiṁ tarhi vātaraktaja iti rōgakāraṇamēva rōgamicchanti| śiraḥ krōṣṭukapūrvamiti krōṣṭukaśabdapūrvaṁ śiraḥ, tasya rōgasya ‘krōṣṭukaśira’ iti nāmētyarthaḥ| krōṣṭukamūrdhavat śr̥gālamastakavat||76||


pūrvābhihitasakthidēśāśrayaṁ vikāraṁ darśayannāha- vātaśōṇitaja ityādi| rōgakāraṇamēva rōgamicchanti; tēna vātaśōṇitarōgahitaṁ ca cikitsitamiti viśēṣaḥ [61] | sa tu śr̥gālaśīrṣatulyatvāt krōṣṭukaśira iti vyādhirucyatē||76||

vāyuḥ kaṭyāṁ [62] sthitaḥ sakthnaḥ kaṇḍarāmākṣipēdyadā |
khañjastadā bhavējjantuḥ, paṅguḥ sakthnōrdvayōrvadhāt ||77||


khañjapaṅgulavātāvāha- vāyurityādi| ākṣipēditi īṣat kṣipēt, khañjē vikalagatērdarśanāt| sakthnōrdvayōrvadhāditi sarvathā gativighātāt paṅgurityarthaḥ| dvayōriti punaruktiprasaṅgādyugapat [63] sakthidvayavadhādityarthaḥ||77||

prakrāman vēpatē yastu khañjanniva ca gacchati |
kalāyakhañjaṁ taṁ vidyānmuktasandhiprabandhanam ||78||


kalāyakhañjamāha- prakrāmannityādi| prakrāman pādavikramaṁ kurvan, gamanārambha ēva vēpatē kalāyakhañja ityayaṁ khañjādviśēṣaḥ| muktasandhiprabandhanamiti śithilasandhibandhanamityarthaḥ||78||


sakthiśritamēvāparaṁ vikāraṁ darśayannāha- vāyuḥ kaṭyāśrita ityādi| ākṣipēt īṣat kṣipēt; āṅ īṣadarthē, khañjē vikalagatērdarśanāt [64] | sakthnōrdvayōrvadhāt sarvathā gativighātē tu paṅguḥ| khañjataḥ kalāyakhañjē kaṇḍarādvayasandhibandhamuktatvāt prakrāman narō vēpatē iti viśēṣaḥ, anyat sarvaṁ tulyamēva| yadāha- khañjanniva ca gacchatīti||77-78||

nyastē tu viṣamaṁ(mē) pādē rujaḥ kuryāt samīraṇaḥ |
vātakaṇṭaka ityēṣa vijñēyaḥ khaḍu(la)kāśritaḥ ||79||


vātakaṇṭakamāha- nyasta ityādi| nyastē tu viṣamaṁ pāda iti viṣamasthānē nikṣiptē pādē ityarthaḥ| khuḍu(la)kāśrita iti pādajaṅghāsandhisaṁśraya ityarthaḥ, ‘pārṣṇyāśrayaḥ’ ityanyē||79||


aparaṁ sakthirōgaṁ darśayannāha- nyastē tvityādi| khuḍakāśrayaḥ pādajaṅghāsandhisaṁśrayaḥ; ‘pārṣṇyāśrayaḥ’ ityanyē||79||

pādayōḥ kurutē dāhaṁ pittāsr̥ksahitō’nilaḥ |
viśēṣataścaṅkramaṇāt pādadāhaṁ tamādiśēt ||80||


pādadāhamāha- pādayōrityādi| viśēṣataścaṅkramaṇāditi viśēṣēṇa gacchataḥ, tiṣṭhatastu sāmānyēna||80||


viśēṣataścaṅkramataḥ viśēṣēṇa gacchataḥ; tiṣṭhatastu sāmānyēna||80||

hr̥ṣyataścaraṇau yasya bhavataśca prasuptavat [65] |
pādaharṣaḥ sa vijñēyaḥ kaphavātaprakōpajaḥ ||81||


pādaharṣamāha- hr̥ṣyata ityādi| hr̥ṣata iti harṣō rōmāñcaprāyō vēdanāviśēṣō’ntaḥśītakaraḥ| bhavataśca prasuptavaditi sparśājñānāt suptāviva bhavata ityarthaḥ||81||


pādaharṣaḥ kaphānvitēna vātēna| harṣō rōmāñcaprāyō’ntaḥśītakarō vēdanāviśēṣaḥ| suptakau sparśasyāvēdanāt suptāviva| ayaṁ pādadāhaviparītaḥ pādaharṣō vātakaphābhyāṁ ciraviṣamapādanyāsādinā; paraḥ pādadāhaḥ khalu sirāmukhapīḍanāvr̥tēna vāyunā, sō’smād bhinnaḥ; sirāmukhāvr̥tatvēna tadvivr̥tau svayamēva praśamatē||81||

aṁsadēśasthitō vāyuḥ śōṣayitvāṁ’sabandhanam |
sirāścākuñcya tatrasthō janayatyavabāhukam ||82||


aṁsaśōṣāvabāhukāvāha- aṁsadēśētyādi| aṁsasamīpōpalakṣitō dēśōṁ’sadēśaḥ; aṁsō bāhuśiraḥ| aṁsabandhanaṁ ślēṣmāṇamityarthaḥ| aṁsabandhanaṁ śōṣayitvā ‘aṁsaśōṣaṁ rōgaṁ karōti’ iti vākyaśēṣō jñēyaḥ| tatrasthaḥ aṁsadēśasthita ityarthaḥ||82||


aṁsē pūrvōktaviśvācīśēṣaṁ rōgaṁ darśayannāha- aṁsadēśasthitō vāyurityādi| dhātukṣayakr̥ta ēva vāyuḥ, śōṣayēdaṁsabandhanamiti śōṣasya vātakr̥tatvāt; kaphāvr̥tasya śōṣāsāmarthyāt| aṁsabandhanaṁ ślēṣmā, badhnātīti bandhanaṁ; kathaṁ punaraṁsabandhanaṁ kaphāducyatē? tasyaiva bandhanē’dhikārāt; taduktaṁ- “sandhayaḥ sādhu vartantē saṁśliṣṭāḥ ślēṣmaṇā tathā”; (śā. 4), tathā- “guṇāḥ kālāt paraṁ ślēṣmā bandhanē’kṣṇōḥ sirāyutaḥ” (u. ta. 1) iti| tatrastha ēva ākuñcya sirā avabāhukaṁ janayatīti| cakārō bhinnakramē| avabāhukaḥ sandhigatēna kaphasnēhēna vātēna ca, sandhigatatvāt; aṁsasandhēśca kaphasthānatvāt| dvāvētau vyādhī| yadāha- “aṁsaśōṣāvabāhukayōraṁsamadhyataḥ” (śā. 8) iti| yathā caitayōrvātarōgayōrapi sirāvyadhastathā tatraiva vakṣyāmaḥ||82||

yadā śabdavahaṁ srōtō vāyurāvr̥tya tiṣṭhati |
śuddhaḥ ślēṣmānvitō vā’pi bādhiryaṁ tēna jāyatē ||83||


bādhiryamāha- yadētyādi| śuddhaḥ kēvalaḥ| apiśabdādraktapittāvaraṇayōrupasaṅgrahaḥ| yadyapyayaṁ vyādhiḥ śālākyē’pi paṭhyatē, tathā’pyatrāpi paṭhanīyaḥ, vr̥ddhasammatatvāt||83||

hanuśaṅkhaśirōgrīvaṁ yasya bhindannivānilaḥ |
karṇayōḥ kurutē śūlaṁ karṇaśūlaṁ taducyatē ||84||


karṇaśūlamāha- hanuśaṅkhētyādi||84||


bādhiryakarṇaśūlau vātavyādhau śālākyē’pi ca paṭhyatē, atra vātavyādhicikitsārthatvāt| rōgēṣu yaduktaṁ- “balātailaṁ sarvathaivōpayōjyaṁ vātavyādhāvanyaduktaṁ ca yat syāt” iti| vātasya vātētaradōṣāvaraṇādādhikyārthamitaradōṣasya śālākyē| taduktaṁ śālākyē- “karōti dōṣaiśca yathāsvamāvr̥taḥ” (u. ta. 18) iti| tēnōbhayatra ubhayakarmāpēkṣiṇī cikitsā| bādhiryakarṇaśūlē ubhayalakṣaṇārthamatra paṭhitē; tēna ghrāṇanāśādīnāmapi vātavyādhāvarōdhaḥ| śuddhaḥ ślēṣmānvitō vā’pi bādhiryaṁ tēna jāyatē iti apiśabdādraktapittāvaraṇayōrupagrahaḥ||83-84||

āvr̥tya sakaphō vāyurdhamanīḥ śabdavāhinīḥ |
narān karōtyakriyakānmūkaminmiṇagadgadān ||85||


jihvāgatavātarōgaṁ darśayannāha- āvr̥tyētyādi| āvr̥tya avarundhyētyarthaḥ| mūkō vacanarahitaḥ, minmiṇaḥ sānunāsikavāk, gadgadō’vyaktavāk||85||


ūrdhvagatarōgasāmānyādindriyōpatāpasāmānyādvā jihvāgatavātarōgaṁ darśayannāha- āvr̥tya vāyuḥ sakapha ityādi| ayamēva hi dhamanīvātarōgādicikitsitē vātavyādhāvuktaḥ| akriyakāniti avidyamānakriyakān| mūkō’vacanaḥ; tadabhāvē nañ, amakṣikavat; minminagadgadayōrīṣadarthē, anudarākanyāvat| minmiṇaḥ sānunāsikavāk, gadgadō luptapadavyañjanābhidhāyī| śabdavāhinīrāvr̥tyēti abhividhāvāṅ, sampūrṇārdhēṣadarthēṣu mūkaminmiṇagadgadēṣu||85||

adhō yā vēdanā yāti varcōmūtrāśayōtthitā |
bhindatīva gudōpasthaṁ sā tūnītyabhidhīyatē ||86||
gudōpasthōtthitā saiva pratilōmavisarpiṇī |
vēgaiḥ pakvāśayaṁ yāti pratitūnīti sā smr̥tā ||87||


tūnīvātamāha- adhō yētyādi| bhindatīva gudōpasthamiti bhēdaṁ kurvatīva gudōpasthasyētyarthaḥ| pratilōmavisarpiṇī adha-utthitōrdhvagāminī| vēgairiti vēdanāvēgairmuhurmuhuḥ svabhāvōpaśamōpalakṣitaiḥ, ‘pratilōmaṁ pradhāvitā [66] ’ iti kēcit||86-87||


adhaḥsrōtō’bhighātavyādhiṁ nirdiśannāha- adhō yā vēdanā yātītyādi| vēdanā śūlam| varcōmūtrāśayōtthitēti viṇmūtrādhārābhyāṁ vyastasamastābhyāmutthitā jātā| bhindatīva vidārayatīva; svavyāpya yathāsaṅkhyaṁ vyastasamastagudōpasthaṁ yāti| gudōpasthamiti prāṇyaṅgatvādēkavadbhāvaḥ| upasthō mūtramārgaḥ| bhindatīvēti bhēdamiva kurvatī gudōpasthasya| gudōpasthōpatthitā saiva pratilōmaṁ pradhāvitēti pakvāśayaṁ vēgaiḥ pradhāvitā ‘bhindatīva’ iti pūrvavākyācchēṣaḥ||86-87||

sāṭōpamatyugrarujamādhmātamudaraṁ bhr̥śam |
ādhmānamiti jānīyādghōraṁ vātanirōdhajam ||88||


ādhmānamāha- sāṭōpamityādi| āṭōpaṁ sañcalanaṁ, tēna saha vartata iti sāṭōpam| udaramatra pakvāśayaḥ| ghōraṁ kaṣṭakāri||88||

vimuktapārśvahr̥dayaṁ tadēvāmāśayōtthitam |
pratyādhmānaṁ vijānīyāt kaphavyākulitānilam ||89||


pratyādhmānamāha- vimuktētyādi| tadēva ādhmānamēva| āmāśayōtthitaṁ nābhistanāntarōtthitam| ata ēva hr̥dayapārśvayōrapyadhiṣṭhānamasya prāptaṁ nirasannāha- vimuktapārśvahr̥dayamiti| vyākulita āvr̥taḥ||89||


pratiśabdaviśēṣitamaparamapi rōgaṁ darśayannāha- sāṭōpamatyugrarujamityādi| āṭōpaḥ sañcalanaṁ, tēna saha vartatē| ghōraṁ kr̥cchraṁ, kaṣṭakāritvāt| udaramatra pakvāśaya ēva, pratyādhmānasyāmāśayasamutthitatvāt| tadēva ādhmānamēva| sāṭōpamāmāśayasamutthitam| āmāśayasya nābhistanāntarāvadhitvāddhr̥dayapārśvayōrapyadhiṣṭhānatvamasya prāptaṁ nirasannāha-
vimuktapārśvētyādi| vimuktaṁ pārśvadvayaṁ hr̥dayaṁ marma yēna tattathā||88-89||

aṣṭhīlāvadghanaṁ granthimūrdhvamāyatamunnatam |
vātāṣṭhīlāṁ vijānīyādbahirmārgāvarōdhinīm [67] ||90||
ēnāmēva rujāyuktāṁ vātaviṇmūtrarōdhinīm |
pratyaṣṭhīlāmiti vadējjaṭharē tiryagutthitām ||91||


vātāṣṭhīlāmāha- aṣṭhīlāvadityādi| “aṣṭhīlā uttarāpathē dīrghavartulapāṣāṇaviśēṣaḥ” ityēkē, “carmakārāṇāṁ vartuladīrghā lauhī bhāṇḍiḥ” ityaparē| ghanaḥ saṁhatāvayavaḥ| āyatō dīrghaḥ| bahirmārgāṇi vātaviṇmūtrāṇi| anyē’tra ‘nābhēradhastāt sañjātaṁ calaṁ vā yadi vā’calam’ iti paṭhanti| pratyaṣṭhīlāmāha- ēnāmēvētyādi| ēnāmēva aṣṭhīlām| tiryagutthitatvēnāṣṭhīlāyāḥ sakāśāt pratyaṣṭhīlāyā bhēdaḥ| asyāgrē kēcidūrustambhaṁ paṭhanti, tanna, cikitsāyāṁ paṭhiṣyamāṇatvānnibandhakārāṇāmasammatatvācca||90-91||


pratiśabdaviśēṣaṇasāmānyādudaragatasāmānyāccāparamapi vātarōgaṁ nirdiśannāha- aṣṭhīlāvadghanaṁ granthimityādi| ‘aṣṭhīlā uttarāpathē vartulapāṣāṇaḥ’ ityēkē; ‘carmakārāṇāṁ vartanīyā lauhī bhāṇḍiḥ’ ityaparē| bahirmārgāvarōdhinī bahirmārgāṇi vātaviṇmūtrāṇi, tēṣāṁ niyamēna rōdhinī yā; tāmēva tiryagutthitāṁ vātaviṇmūtrarōdhanaśīlāṁ pratyaṣṭhīlāṁ nirdiśēt| ubhē apyētē pakvāśayōtthitē; atraiva vātādyavarōdhēna kriyōpalambhāt| anyē tvatra ‘nābhēradhastāt sañjātaṁ calaṁ vā yadi vā’calām’ iti paṭhanti||90-91||

iti suśrutasaṁhitāyāṁ nidānasthānē vātavyādhinidānaṁ nāma prathamō’dhyāyaḥ ||1||


iti śrīḍalhaṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ nidānasthānē prathamō’dhyāyaḥ||1||


iti sauśrutē śalyatantrē śrīgayadāsācāryaviracitāyāṁ nyāyacandrikāyāṁ pañjikāyāṁ vātavyādhinidānaṁ samāptam||1||

1. ‘pr̥thaṅmānaḥ’ iti madhukōṣē pāṭhaḥ|
2. ‘dūṣyanirapēkṣāḥ’ iti madhukōṣē pāṭhaḥ|
3. ‘jagāda bhagavānr̥ṣiḥ’ iti tāḍapatrapustakē pāṭhaḥ|
4. ‘śītō rūkṣō laghuścaraḥ(laḥ)’ iti tāḍapatrapustakē pāṭhaḥ|
5. ‘śarīrē rasadōṣamūtra…’ iti pā.
6. gayadāsasammatō’yaṁ pāṭhaḥ|
7. ‘pittamēkamēva’ iti pā.|
8. ‘yō’nilō vaktrasañcārī’ iti pā.|
9. ‘dēhadhāraṇāt’ iti pā.|
10. ‘nābhyuraḥkaṇṭhāni’ iti pā.|
11. ‘’gnisahāyavān’ iti gayadāsasammataḥ pāṭhaḥ|
12. ‘bhāvān’ iti pā.|
13. ‘gulmāgnisaṅgātīsāraprabhr̥tīn’ iti pā.| ‘gulmāgnisādātīsārān prāyaśaśca karōti hi’ iti tāḍapatrapustakē pāṭhaḥ|
14. ‘pūrvāparādharōttaramēkadēśinaikādhikaraṇē’ (pā. a. 2/2/1)|
15. ‘vātamūtrapurīṣāṇi’ iti tāḍapatrapustakē pāṭhaḥ|
16. ‘sarvān pravakṣyāmi nānāsthānāntarāśritān’ iti pā.|
17. ‘śūlādhmānau’ iti pā.|
18. ‘ēva ēkaḥ’ iti pā.|
19. ‘sarujān’ iti pā.|
20. snāyujālaṁ stambhayatyākṣipatyapi’ iti tāḍapatrapustakē pāṭhaḥ| gayadāsācāryasammatō’yaṁ pāṭhaḥ|
21. ‘apravr̥ttiṁ pravr̥ttiṁ vā vikr̥tāṁ śukragō’nilaḥ’ iti tā.pa.pu.pāṭhaḥ|
22. ‘lōkō vadati’ iti pā.|
23. ‘sirāgatavātānadhikārāt’ iti vā pāṭhaḥ|
24. ‘sarvaśaḥ’ iti gayadāsasammataḥ pāṭhaḥ|
25. ‘kuryādavayavasthaśca mātariśvā bahūn gadān’ iti gayadāsasammataḥ pāṭhaḥ
26. ‘vaiśvaryaṁ’ iti tā. pa. pu. pā.|
27. ‘kaphēna sajjē viṇmūtrē gātraharṣaśca jāyatē’ iti tā. pa.pu.pā.|
28. ‘raktamūtratā’ iti tā. pa.pu.pā.|
29. ‘śītatā ca’ iti tā.pa.pu.pā.|
30. ‘stambhanaṁ daṇḍakaścāpi śōthaḥ śūlaṁ kaphāvr̥tē’ iti tā.pa.pu.pā|
31. ‘śōkācca pramadā…’ iti pā.|
32. gayadāsāsammatō’yaṁ pāṭhaḥ|
33. ‘śīghraṁ raktaṁ vidravatyāśu’ iti tā.pa.pu. pāṭhaḥ|
34. ‘atyudvr̥ttaṁ’ iti pā.|
35. ‘hastyaśvōṣṭrairgacchataścāśnataśca vidāhyannaṁ sa vidāhō’śanasya| kr̥tsnaṁ raktaṁ vidahatyāśu tacca srastaṁ duṣṭaṁ pādayōścīyatē tu’ iti gayadāsasammataḥ pāṭhaḥ| mādhavanidānē’pyayamēva pāṭha uddhr̥taḥ|
36. ‘asparśēcchā’ iti tā. pa. pu. pāṭhaḥ|
37. ‘sarvē duṣṭāḥ śōṇitaṁ cāpi’ iti gayadāsasammataḥ pāṭhaḥ|
38. ‘śithilasvinnaśītalau’ iti pā.|
39. ‘mahāvātavyādhicikitsitōktaiḥ’ iti pā.
40. ‘vāyōḥ’ iti pā.|
41. ‘stabdhākṣō’tha nimīlanaḥ’ iti carakē pāṭhaḥ|
42. ‘pr̥ṣṭhamanyāśritāḥ bāhyāḥ’ iti carakē pāṭhaḥ|
43. ‘vāyuḥ’ iti carakē pāṭhaḥ|
44. ‘darśanaṁ’ iti vā pāṭhaḥ|
45. ‘tadā’ iti pā.|
46. ‘jahātyanilapīḍitaḥ’ iti gayadāsasammataḥ pāṭhaḥ|
47. ‘cālayēt’ iti pā.|
48. divāsvapnāsamasthānavivr̥(kr̥)tōrdhvanirīkṣaṇaiḥ’ iti pā.|
49. ayamardhaślōkō gayadāsēna na paṭhyatē|
50. ‘jr̥mbhayā’ iti gayadāsasammataḥ pāṭhaḥ|
51. “nanu yadā dēhārdhavyāpitvamarditasya tadā’rditēnārdhāṅgasya kō bhēdaḥ? brūmaḥ- arditō vēgitayā na sarvakālaṁ bhavati, ardhāṅgastu vyāptaṁ bhavati| uktaṁ hi ‘svasthaḥ syādarditādīnāṁ muhurvēgāgamē gatē’ iti| kiṁvā yathōktaviśiṣṭalakṣaṇō’rditaḥ, ardhāṅgē tu naitāni sarvāṇi bhavanti” iti carakavyākhyāyāṁ cakrapāṇiḥ|
52. ‘prasaktāvyaktabhāṣiṇaḥ’ iti gayadāsasammataḥ pāṭhaḥ|
53. ‘lagnamapravr̥ttaṁ’ ityātaṅkadarpaṇakāraḥ|
54. ‘pārṣṇiṁ pratyaṅgulīnāṁ’ iti pā.|
55. ‘sakthnōḥ’ iti pā.|
56. ‘talaṁ pratyaṅgulīnāṁ’ iti pā.|
57. ‘kaṇḍarāpēkṣayā’ iti pā.|
58. ‘karamūlāvamōṭanī’ iti carakē pāṭhaḥ|
59. ‘viśvācī cēti cakārēṇa gr̥dhrasīviśvācyōḥ khallīsañjñāṁ darśayati, tayōrapi karamūlāvamōṭanakāritvāt| yaduktaṁ hārītē- “viśvācī gr̥dhrasī cōktā khallī tīvrarujānvitā” iti gayadāsaḥ’ iti madhukōśavyākhyāyām|
60. ‘mahārujaḥ śōphō bhavati tat krōṣṭukapūrvaṁ krōṣṭukamūrdhavat sthūlaṁ śirō jñēyam’ iti pā.|
61. ‘cikitsābhēdārthaṁ pr̥thak paṭhitaḥ’ iti gayadāsaḥ|’ iti madhukōśavyākhyāyām|
62. ‘kaṭyāśritaḥ’ iti gayadāsasammataḥ pāṭhaḥ|
63. ‘paunaruktyaprasaṅgāt’ iti pā.|
64. ‘kiñcidgatimattvāditi gayadāsaḥ’ iti madhukōśavyākhyāyām|
65. ‘prasuptakau’ iti gayadāsasammataḥ pāṭhaḥ|
66. ‘pradhāvati’ iti pā.|
67. ‘barhirmārganirōdhinīṁ’ iti pā.