Table of Contents
ToggleDevanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
सूत्रस्थानम् - १५. दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः
अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथात इत्यादि| दोषा वातादयः, धातवो रसादय उपधातवश्च, मलाः पुरीषादयः; तेषां क्षयवृद्धिविज्ञानं यस्मिन्नस्ति स तथा| अन्ये तु ‘मलशब्दाग्रे आदिशब्दो लुप्तो द्रष्टव्यः, तेन स्तन्यार्तवगर्भादयोऽपि धातवो गृह्यन्ते’ इति वदन्ति||१-२||
दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां लक्षणमुच्यमानमुपधारय ||३||
कुतः पुनरेषां क्षयवृद्धी वक्तव्ये इत्याह- दोषेत्यादि| हि यस्मादर्थे, यस्माच्छरीरं दोषादिमूलं; यथा वृक्षादीनां सम्भवस्थितिप्रलयेषु मूलं प्रधानं, तथा शरीरस्य वातादय इत्यर्थः||३||
तत्र [१] प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति (१) |४|
दोषधातुमलादीनां साम्यक्षयवृद्धयः स्वभावाख्यलिङ्गेन कर्माख्यलिङ्गेन च ज्ञेयाः, तस्मात् साम्यादिज्ञाने एतल्लिङ्गद्वयं वाच्यं; तथाहि [२] – वातस्य स्वभावाख्यं लिङ्गं ‘रूक्षः शीत’(नि. अ. १) इत्यादि वातव्याधौ वक्ष्यते; पित्तस्य तु ‘पित्तं तीक्ष्णं द्रवं’(सू. अ. २१) इत्यादि व्रणप्रश्ने; तथा कफस्य ‘श्लेष्मा शीतो गुरुः’(सू. अ. २१) इत्यादि; एवं धातुमलयोरपि स्वभावाख्यं लिङ्गं दर्शनीयम्;
इह तु दोषादीनां कर्माख्यं लिङ्गं दर्शयन्नाह- तत्र प्रस्पन्दनेत्यादि| प्रस्पन्दनं शरीरस्य चलनम्, इदं व्यानस्य कर्म; उद्वहनमिन्द्रियार्थानां धारणम्, उदानस्य कर्म; पूरणमाहारेण, प्राणस्य कर्म; विवेको रसमूत्रपुरीषाणां पृथक्करणं, समानस्य कर्म; शुक्रमूत्रादीनां वेगकाले कर्षणमवेगकाले धारणम् [३] , अपानस्य| पञ्चधा प्रविभक्त इति प्राणोदानसमानव्यानापानभेदेन| अन्ये तु सामान्यं सर्ववायूनां प्रस्पन्दनादिकर्म आहुः; प्रस्पन्दनं श्वासप्रश्वासादिभावेन चलनम्, उद्वहनं दोषधातुमलानामित इतो नयनं, पूरणम् आहाररसादीनां स्वेषु स्वेष्वाशयेषु नयनं, विवेकः पूर्ववदत्रापि, धारणं शरीरयन्त्रस्य [४] | कथमित्याह- पञ्चधा प्रविभक्त इत्यादि||४(१)||
रागपक्त्योजस्तेजोमेधोष्मकृत् पित्तं पञ्चधा प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति;
(२) |४|
प्रकृतिस्थस्य पित्तस्य कर्म निर्देष्टुमाह- रागेत्यादि| कृच्छब्दो रागादिभिः प्रत्येकं सम्बध्यते| रागकृत् रसस्य रञ्जकाग्निसञ्ज्ञं पित्तं; पक्तिकृत् आहारस्य पाचकाग्निसञ्ज्ञं पित्तं; ओजःकृत् साधकाग्निसञ्ज्ञं पित्तम्, ओजो हृदिस्थं सोमात्मकं; तेजःकृत् आलोचकाग्निसञ्ज्ञं पित्तं, तेजो दृष्टिः, तदुक्तं- “तेजो दृष्टिरिति ख्यातं तेजः शुक्रं प्रकीर्तितम्”- इति; मेधाकृत् मेधा ग्रन्थाकर्षणसामर्थ्यं, तस्या अपि साधकाग्निसञ्ज्ञमेव पित्तं कारकम्; ऊष्मकृत् त्वक्स्थं पित्तं भ्राजकाग्निसञ्ज्ञम्, ऊष्मा शरीरस्यौष्ण्यम्| पञ्चधा प्रविभक्तमिति पाचकरञ्जकसाधकालोचकभ्राजकभेदेन| अग्निकर्मणेति रागादि यदग्निकर्म तेन कृत्वेत्यर्थः| अनुग्रहम् उपकारं करोति, ‘शरीरस्य’ इत्यनुवर्तते| अन्ये तु तेजःशब्देन वर्णप्रकाशिनीं त्वक्स्थां दीप्तिमाहुः; “इदं च रागादिकर्म सामान्यं सर्वपित्तानाम्” इति वदन्ति||४(२)||-
सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा [५] पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ||४||
प्रकृतिस्थस्य कफस्य कर्म निर्दिशन्नाह- सन्धीत्यादि| कृच्छब्दः सन्धिसंश्लेषणादिभिः प्रत्येकं सम्बध्यते| सन्धिसंश्लेषणकृत् सन्धिबन्धनं करोति; यद्यपि सन्धिसंश्लेषणं श्लेष्मकर्म व्रणप्रश्नेऽप्युक्तं, तथाऽपीह तद्वचनं व्यानस्य सन्धिचारित्वात्तस्यापि सन्धिश्लेषणं कर्मेति शङ्कानिरासार्थम्| स्नेहनकृदिति शरीरस्य स्नैग्ध्यं करोति, स्निग्धत्वात्| रोपणकृत् व्रणस्य, सौम्यत्वात्| पूरणकृत् शरीरस्य, बहुत्वान्मूर्तत्वाच्च| बलकृत् पुष्टिकृत्| स्थैर्यकृत् त्रिकसन्धिदार्ढ्यकृत्, कफस्थानानां स्वकार्यसामर्थ्यं वा| पञ्चधा प्रविभक्त आशयभेदेन आमाशयोरःशिरःकण्ठसन्धिभेदेनेत्यर्थः| अन्ये तु तस्यैव कफस्याशयभेदेन पञ्चधाभिन्नस्य श्लेषकक्लेदकबोधकतर्पकावलम्बकनामान्याहुः [६] | केचिदत्र कफकर्मसु बृंहणं तर्पणं च पठन्ति, व्याख्यानयन्ति च- “बृंहणः शरीरस्य, द्रवत्वमूर्तिमत्त्वाभ्यां; तर्पणः तृप्तिजनको धातूनाम्”||४||
रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति, रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च, मांसं शरीरपुष्टिं मेदसश्च, मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नां च, अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च, मज्जा स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति, शुक्रं धैर्यं च्यवनं [७] प्रीतिं देहबलं हर्षं बीजार्थं च; (१) |५|
इदानीं धातूनां प्रकृतिस्थानां प्राकृतं कर्म निर्दिशन्नाह- रसस्तुष्टिमित्यादि| धैर्यं शौर्यं शूरत्वम्, अत एव क्लीबा अधीराः; च्यवनं शीघ्रत्वेनावस्रंसनं, प्रीतिं स्नेहं प्रमदासु; देहबलमुत्साहोपचयलक्षणं; हर्षं पुनरुत्कण्ठाजननं प्रमदास्वेव; बीजार्थं चेति बीजप्रयोजनं, यथा- ऋतुक्षेत्रादिसम्पत्तौ बीजमङ्कुरजननं स्यात्, एवं शुक्रमपि गर्भजनकमित्यर्थः| अन्ये त्वन्यथा पठन्ति- “रसः प्रीणयति, रक्तं जीवयति, मांसं लेपयति, मेदः स्नेहयति, अस्थि धारयति, मज्जा [८] अस्थीनि पूरयति, शुक्रं धैर्यच्यवनं प्रीतिदेहबलहर्षबीजार्थकृत्”- इति; व्याख्यानयन्ति च- “रसः प्रीणयति धातूंस्तर्पयतीत्यर्थः, रक्तं जीवयति प्राणानुवर्तनं करोति, मांसं लेपयति अस्थ्यादीन्, मेदः स्नेहयति स्नेहात्, अस्थि धारयति शरीरमित्यर्थः, धैर्यच्यवनमिति धैर्यस्य च्यवनं धैर्यच्यवनं च्युतिः प्रमदासु विषय इत्यर्थः”| अयं पाठो निबन्धकारैः सादरं पठितः||५(१)||
पुरीषमुपस्तम्भं [९] वाय्वग्निधारणं च, बस्तिपूरणविक्लेदकृन्मूत्रं, स्वेदः क्लेदत्वक्सौकुमार्यकृत्; (२) |५|
अत ऊर्ध्वं मलानां प्राकृतं कर्मोच्यते- पुरीषमित्यादि| ‘करोति’ इत्यनुवर्तते| उपस्तम्भः अवष्टम्भः शरीरधारणमित्यर्थः| केचित् पुरीषकर्मसु प्रीणनं पठन्ति, न त्वाचार्याः| कश्चिदाचार्योऽत्रोपस्तम्भं न पठति| बस्तिर्मूत्राशयः, तस्य पूरणं, विक्लेदमार्द्रत्वं च, मूत्रं करोतीत्यर्थः| अन्ये तु ‘क्लेदविवेकजं बस्तिपूरणकृन्मूत्रं’ इति पठन्ति, क्लेदविवेकजमिति क्लेद आर्द्रत्वं स चाहारस्य, तस्य विवेकात् [१०] पृथक्त्वाज्जातं मूत्रम्| केचित् ‘स्वेदः क्लेदयति’ इति पठन्ति||५(२)||-
रक्तलक्षणमार्तवं [११] गर्भकृच्च, गर्भो गर्भलक्षणं, स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ||५||
अत उपधातूनां प्राकृतं कर्माह- रक्तलक्षणमित्यादि| रक्तलक्षणमार्तवमिति रक्तस्य यानि लक्षणानि तान्यस्य सम्भवन्तीति स्वभावकथनम्| गर्भकृच्चेति प्राकृतकर्मकथनम्| चकाराद्रक्तकर्मापि जीवनसञ्ज्ञं करोति| केचिदाचार्या “रक्तलक्षणमार्तवं यथोक्तमकृत्रिमं गर्भकृच्च” इति पठन्ति, व्याख्यानयन्ति च- “यथोक्तमिति ‘शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्’- (शा. अ. २) इत्याद्युक्तलक्षणम्, अकृत्रिममिति वातपित्तकफैरधःप्रसृतैरष्टधाऽऽर्तवदूषकैरसृग्दररूपतया वा कृतं कृत्रिमं, न कृत्रिममकृत्रिमं शुद्धं, गर्भकृद्भवतीत्यर्थः”| गर्भो गर्भलक्षणमिति ‘स्तनयोः श्यावमुखता’ (शा. अ. ३) इत्यादिकं ‘करोति’ इत्यध्याहारः| स्तन्यमित्यादि आपीनत्वजननं मांसलत्वजननम्| जीवनं बालानां, तेषामेव स्त्रीक्षीरसात्म्यत्वात्||५||
तत्र [१२] विधिवत् परिरक्षणं कुर्वीत ||६||
प्रकृतिस्थानां रक्षणमाह- तत्रेत्यादि| तत्रेति तेषु वातादिषु प्रकृतिस्थेषु| विधिवत् विधिनोपपन्नं; विधिरत्र स्वास्थ्यवृत्तिकः [१३] | परिरक्षणं सर्वतो रक्षणम्||६||
अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः |
तत्र, वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसञ्ज्ञता च, पित्तक्षये मन्दोष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता [१४] सन्धिशैथिल्यं (तृष्णा [१५] दौर्बल्यं प्रजागरणं) च ||७||
अत ऊर्ध्वमित्यादि| केचिदत्र “क्षयः पुनरेषामतिसंशोधनातिसंशमनवेगविधारणासात्म्यान्नमनस्तापव्यायामानशनातिमैथुनैर्भवति”- इति क्षयकारणानि पठन्ति| “एतानि प्रायो वायोर्वृद्धिं कुर्वन्ति, पित्तकफयोस्तु क्षयमिति; तस्माद्यथासम्भवं कारणं ज्ञेयं; नास्मिन् पाठे प्रयोजनम्” इत्याचार्या वदन्ति| तत्रेत्यादि| मन्दचेष्टता [१६] मन्दकायव्यापारता| अप्रहर्षः अतुष्टिः| मूढसञ्ज्ञता नष्टसम्यग्ज्ञानता| चकारात् प्राकृतकर्महानिस्तद्विरोधिनश्च श्लेष्मणः प्राकृतकर्मवृद्धिरिति चकारः समुच्चिनोति| एवं पित्तादिक्षयेष्वपि चकारप्रयोजनं ज्ञेयम्| पित्तक्षय इत्यादि निष्प्रभता प्रभाहानिः| श्लेष्मक्षय इत्यादि आमाशयो यत्राशितादि पच्यते, इतराशया उरःकण्ठशिरःसन्धय इति; श्लेष्माशयशून्यतेति कृते सति आमाशयो लब्धः, यदामाशयस्य पृथगुपादानं तद्विशेषेण शून्यताख्यापनार्थम्| केचिच्छिरःशब्दं सूत्रे पठन्ति, शिरसोऽपि सर्वेन्द्रियाधिष्ठानत्वेन प्राधान्यात् पृथगभिधानम्||७||
तत्र स्वयोनिवर्धनान्येव [१७] प्रतीकारः ||८||
दोषक्षये चिकित्सामाह- तत्रेत्यादि| स्वयोनिवर्धनान्येवेति शीतरूक्षादीनि| प्रतीकारश्चिकित्सितम्| न पुनः स्वयोनिवर्धनान्यपि कटुकादीनि, कुतः? भूयस्त्वेनान्यदोषप्रकोपणत्वात्| तथाचोक्तं- “वातक्षये शीतरूक्षैर्न त्वन्यैः कटुकादिभिः| पित्तक्षयेऽपि कटुकैरुष्णैर्न लवणादिभिः|| क्षीरादिभिः स्निग्धशीतैः प्रतिकुर्यात् कफक्षये”- इति| अन्ये तु व्याख्यानयन्ति- “स्वयोनिवर्धनानीति स्वयोनिरात्महेतुः; तत्र वायोर्वायुरेव हेतुः, पित्तस्याग्निर्हेतुः, कफस्य हेतुरापः; वातक्षये वातवर्धनानि, पित्तक्षये पित्तवर्धनानि, कफक्षये कफवर्धनानि” इति| “कफस्य योनी रसः, पित्तस्य रक्तम्” इत्यपरे; रसरक्तयोरपि वर्धनान्याप्यतैजसद्रव्याणीति स एवार्थः||८||
रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च, शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च, मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं [१८] च, मेदःक्षये प्लीहाभिवृद्धिः [१९] सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च, अस्थिक्षयेऽस्थिशूलं [२०] दन्तनखभङ्गो [२१] रौक्ष्यं च, मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च, शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्परक्तशुक्रदर्शनम् [२२] ||९||
इदानीं धातुक्षयं दर्शयति- रसक्षय इत्यादि| हृच्छब्दः पीडादिभिः [२३] शून्यतान्तैः प्रत्येकं सम्बध्यते| तृष्णा उदकपानाभिलाषः| चकारप्रयोजनं [२४] दोषक्षयप्रस्तावे दर्शितम्| अन्ये तु “रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णा च” इति पठन्ति, व्याख्यानयन्ति च- “शोषः शरीरस्य, शून्यता आमाशयस्य मनसो वा इति,” शेषं समम्| शोणितक्षय इत्यादि| अम्लशीतप्रार्थनेति [२५] शोणितक्षये सति वातवृद्धौ तत्प्रत्यनीकाम्लरसेच्छा, तथा रक्तस्य द्रवत्वात्तत्क्षये तेजोवृद्धौ शीतप्रार्थनाऽपि; केचित् “अग्नीषोमीयत्वाद्रक्तस्य तत्तुल्यगुणयोरम्लशीतयोः प्रार्थना [२६] ” इति वदन्ति| चकाराद्वह्निमान्द्यादिकं च शोणितवर्णनीयोक्तमप्यत्र द्रष्टव्यम्| मांसक्षय इत्यादि| स्फिचौ कटिप्रोथौ, गण्डौ गल्लौ, उपस्थो योनिः, ऊरुः लोके ‘जङ्घा’ इति व्याख्याता, वक्षः उरः, पिण्डिका जानुगुल्फयोरन्तरं; शुष्कशब्दः स्फिगादिभिः प्रत्येकं सम्बध्यते| मेदःक्षय इत्यादि रौक्ष्यं त्वचः| मेदुरमांसप्रार्थनेति मेदुरं स्निग्धतमं; प्रार्थना अभिलाषः| अस्थिक्षय इत्यादि| रौक्ष्यं देहस्य दन्तनखानां च; दन्तादीनामस्थिमयत्वाद्भङ्गः [२७] | मज्जक्षय इत्यादि| पर्वभेदो ग्रन्थिपीडा; अस्थिशून्यता रिक्तता, पूरणाभावात्| शुक्रक्षय इत्यादि| चिराद्वा प्रसेक इति कथञ्चित् प्रवृत्तावपि चिरकालेन क्षरणम्; अल्परक्तशुक्रदर्शनं शुक्रं क्षीणं मज्जमिश्रमल्परक्तत्वमृच्छति; अन्ये तु “अल्पशुक्ररक्तदर्शनमिति धातुक्षयात् कुपितो वायुः शोणितमल्पशुक्रमिश्रं निःस्रावयति” इति; मेढ्रवृषणवेदनेति शुक्रस्य सर्वशरीरव्यापिनोऽपि विशेषाधारत्वान्मेढ्रवृषणनिर्देशः||९||
तत्रापि स्वयोनिवर्धनद्रव्योपयोगः (प्रतीकारः [२८] ) ||१०||
चिकित्सासूत्रं निर्दिशन्नाह- तत्रापीत्यादि| स्वयोनिवर्धनमपि समानेन द्रव्येण समानगुणेन समानगुणभूयिष्ठेन वा| समानेन द्रव्येण यथा- रक्तं रक्तेन वर्धते, मांसं मांसेन, मेदो मेदसा, अस्थि तरुणसञ्ज्ञकेनास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण; समानगुणेन यथा- रक्तक्षये तैजसद्रव्योपयोगः, तेजोगुणभूयिष्ठद्रव्योपयोगो वेत्यादि बोद्धव्यम्| द्रव्यग्रहणमुपलक्षणं, तेन कर्मापि यद्यस्य धातोरभिवृद्धिकरं तत्क्षये तत् सेव्यम्| तत्र स्वयोनिद्रव्याणामवबोधार्थं धातुमलोपधातुषु श्लोकाः कथ्यन्ते- “यद्यपि पञ्चभूतानां वाच्यः पाको द्विधा पुनः| तथाऽप्यपां प्रधानत्वाद्रसः सौम्योऽभिधीयते|| अतिरिक्ता गुणा रक्ते वह्नेर्मांसे तु पार्थिवाः| मेदस्यम्बुभुवोरस्थ्नि पृथिव्यनिलतेजसाम्|| मज्ज्ञि शुक्रे च सोमस्य [२९] मूत्रेऽम्बुशिखिनोर्गुणाः| भुवो विश्यार्तवे त्वग्नेः प्रस्वेदस्तन्ययोरपाम्|| इति धातुमलेषूक्ता गुणाः प्राधान्यतः स्थिताः| प्रायेण भूगुणा गर्भे स्तोका ह्यन्यगुणा [३०] अपि”- इति||१०||
पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ सञ्चरणं च, मूत्रक्षये बस्तितोदोऽल्पमूत्रता च; अत्रापि स्वयोनिवर्धनद्रव्योपयोगः |
स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं [३१] स्वेदनाशश्च; तत्राभ्यङ्गः स्वेदोपयोगश्च ||११||
मलक्षयं दर्शयन्नाह- पुरीषक्षय इत्यादि| कुक्षिरत्र जठरम्| अत्र चिकित्सासूत्रं निर्दिशन्नाह- अत्रापीत्यादि| पुरीषक्षये माषकुल्माषादीनां, मूत्रक्षये इक्षुत्रपुसादीनामुपयोगः| स्वेदक्षय इत्यादि| स्पर्शवैगुण्यं स्पर्शहानिः| चिकित्सामाह- तत्राभ्यङ्ग इत्यादि| चकारात् स्वेदजननकुक्कुटवराहादिमांसोपयोगश्चाभ्यन्तरो लभ्यते||११||
आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च; तत्र संशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोगः |
स्तनक्षये स्तनयोर्म्लानता स्तन्यासम्भवोऽल्पता वा; तत्र श्लेष्मवर्धनद्रव्योपयोगः |
गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च; तत्र प्राप्तबस्तिकालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति ||१२||
उपधातुक्षयमाह- आर्तवक्षय इत्यादि| यथोचितकालो मासि मासि त्र्यहस्रवणम्| चिकित्सामाह- तत्र संशोधनमित्यादि| “संशोधनमिह [३२] सामान्यम्” इति केचित्; “संशोधनमिह वमनं न विरेकः” इत्यपरे, कुतः? विरेचनेन हि पित्तक्षयादार्तवस्य क्षय एव स्यादिति, वमनेन तु सौम्यधातौ निर्हृते आग्नेयधातौ वृद्धे आर्तवमाप्याय्यते| आग्नेयानां च द्रव्याणामिति तिलमाषसुराशुक्तादीनाम्| स्तन्यक्षय इत्यादि| म्लानता अनुन्नतिः| चिकित्सामाह- तत्र श्लेष्मवर्धनेत्यादि| स्तन्यस्य रसजत्वात्| गर्भक्षय इत्यादि| अत्र चिकित्सामाह- तत्रेत्यादि| प्राप्तबस्तिकालाया इति प्राप्ताष्टममासाया इत्यर्थः| मेद्यान्नोपयोग इति स्निग्धान्नोपयोगः; “मेध्याण्डोपयोग” इत्यन्ये पठन्ति, “मेध्याण्डानि वृष्याण्डानि, बस्तमत्स्याण्डादीनि” इति च व्याख्यानयन्ति||१२||
अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः |
वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति |
तत्र, वातवृद्धौ वाक्पारुष्यं [३३] कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामि(म)ता निद्रानाशोऽल्पबलत्वं [३४] गाढवर्चस्त्वं च; पित्तवृद्धौ पीतावभासता सन्तापः शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च; श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्धिविश्लेषश्च ||१३||
अत ऊर्ध्वमित्यादि| गाढवर्चस्त्वं चेति चकारोऽयं वातस्य प्रकृतिकर्मणोऽतिशयत्वं समुच्चिनोति, एवं पित्तकफरसादिष्वपि चकारप्रयोजनम्| वाक्पारुष्यं वचनकार्कश्यं, केचिद्वाक्पारुष्यं न पठन्ति| कार्श्यं मांसक्षयः| कार्ष्ण्यं कृष्णत्वं शरीरे| अल्पबलत्वम् उत्साहहानिः| पित्तवृद्धावित्यादि| अल्पनिद्रता किञ्चित् स्निग्धत्वात् पित्तस्य| मूर्च्छा सर्वेन्द्रियशक्तेस्तिरस्कारः| बलहानिरिह ओजोहानिः, सन्तापात्तत्क्षयोपपत्तेः| श्लेष्मवृद्धावित्यादि| शौक्ल्यशैत्ये त्वगादीनाम्| स्थैर्यं गात्राणां स्तम्भः| अवसादः चित्तदेहयोर्ग्लानिः| तन्द्रा निद्राभेदः| सन्धिविश्लेषः अत्यन्तवृद्धेन विष(घ)टनम्| ‘सन्ध्यस्थिश्लिष्टता [३५] ’ इति केचित् पठन्ति, व्याख्यानयन्ति च- ‘कफोपचितत्वात् सुष्ठु सङ्घट्टनं सन्ध्यस्थ्नोर्भवति’ इति| ‘अध्यस्थिश्लिष्टता’ इति क्वचित् पाठः||१३||
रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति; रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च; मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च; मेदःस्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासादीन् दौर्गन्ध्यं च; अस्थ्यध्यस्थीन्यधिदन्तांश्च; मज्जा सर्वाङ्गनेत्रगौरवं च; शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च ||१४||
धातूनामतिवृद्धिं दर्शयन्नाह- रसोऽतिवृद्ध इत्यादि| हृदयोत्क्लेदं हृल्लासम्, अन्ये छर्दिमाहुः| प्रसेकं लालास्रावमित्यर्थः| आपादयतीति क्रियापदं गर्भो जठराभिवृद्धिं स्वेदं चेत्यन्तं यावदनुवर्तते| अध्यस्थीनि अधिकास्थीनि| अधिदन्तानिति अधिकान् दन्तान्; चकारात् केशनखयोरप्यतिवृद्धिर्ज्ञेया| शुक्रमित्यादि|- अतिप्रादुर्भावमिति अतिप्रवृत्तिं शुक्रस्येत्यर्थः||१४||
पुरीषमाटोपं [३६] कुक्षौ शूलं च; मूत्रं मूत्रवृद्धिं [३७] मुहुर्मुहुः प्रवृत्तिं बस्तितोदमाध्मानं च; स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च ||१५||
मलानामतिवृद्धिं दर्शयन्नाह- पुरीषमित्यादि| आटोपम् आध्मानं, क्षोभमित्यन्ये| मूत्रमित्यादि| आध्मानमिह बस्तेरेव||१५||
आर्तवमङ्गमर्दमतिप्रवृत्तिं [३८] दौर्गन्ध्यं च; स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः प्रवृत्तिं तोदं च; गर्भो जठराभिवृद्धिं स्वेदं च ||१६||
उपधातूनामतिवृद्धिं निर्देष्टुमाह- आर्तवमित्यादि| अङ्गमर्दो वेदनाविशेषः| दौर्गन्ध्यं पित्तधर्मत्वादार्तवस्य, तदुक्तं- “ईषत्कृष्णं विगन्धं च” (शा. अ. ३) इत्यादि; “दौर्बल्यम्” इत्यन्ये पठन्ति| चकाराद्रक्तगुल्मादीनपि||१६||
तेषां यथास्वं संशोधनं क्षपणं च क्षयादविरुद्धैः [३९] क्रियाविशेषैः प्रकुर्वीत ||१७||
चिकित्सासूत्रं निर्दिशन्नाह- तेषामित्यादि| यथास्वं यद्यदस्यात्मीयम्| क्षपणमत्र संशमनम्| क्षयादविरुद्धैः क्रियाविशेषैरिति तन्त्रान्तरोक्तैः| तथाहि- “छिन्नाविश्वादिभिर्वायुं, पित्तं क्षौद्रफलत्रिकैः| कफं गुडार्द्रकाद्यैश्च जयेद्दोषाविरोधिभिः”- इति| अन्ये त्वेवं पठन्ति- “तेषां क्षपणमविरुद्धैः क्रियाविशेषैः कुर्वीत”| क्रियाविशेषैरिति क्रियाः संशोधनसंशमनाहाराचाराख्याः||१७||
पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम् |
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ||१८||
स्वयं तावदेते वृद्धा अनर्थकराः, परम्परया वर्धिताः पूर्वपरधातुभिरपि महानर्थकारिण इति दर्शयन्नाह- पूर्व इत्यादि| हि यस्मादर्थे| ह्रासनमिति ह्रासोऽत्र वृद्धेर्हानिः| पूर्वः पूर्व इत्याद्युपलक्षणम्| तेन परोऽपि वृद्धः प्रतिस्रोतःसरिद्बन्धः(ध)स्थलाप्लावनन्यायेन पूर्वं वर्धयति, तथा परोऽपि क्षीणः पूर्वं क्षपयति, तथा पूर्वः क्षीणः परं क्षपयति| केचिदमुं श्लोकं ‘यस्य धातुक्षयाद्वायुः’ इत्यादिश्लोकस्याग्रे पठन्ति||१८||
बललक्षणं [४०] बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः |
तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते, स्वशास्त्रसिद्धान्तात् ||१९||
बललक्षणमित्यादि| परम् उत्कृष्टं, तेज इव तेजः, तेजो घृतं वा, घृतं यथा कृत्स्नक्षीरस्नेहस्तथैवौजोऽपि कृत्स्नधातुस्नेह इत्यर्थः; “यत् परं तेज इति यदुत्कृष्टं सारः” इत्यन्ये व्याख्यानयन्ति| तत् खल्वोजस्तदेव बलमित्युच्यत इति, इयं चाभेदोक्तिश्चिकित्सैक्यार्था, परमार्थस्तु बलौजसोर्भेद एव; यथा भेदस्तदुच्यते- सर्वधातुस्नेहभूतस्योपचयलक्षणस्यौजसो रूपरसौ वीर्यादि च विद्यते, बलस्य तु भारहरणादिशक्तिगम्यस्य रसवीर्यवर्णादिगुणा न विद्यन्ते, अतोऽनयोर्भेदोऽस्त्येवेति; तथाच बलौजसोर्भेदो वेदोत्पत्तावध्याये उक्तः- “प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च”(सू. अ. १)- इति| तन्त्रान्तरे तु ओजःशब्देन रसोऽप्युच्यते, जीवशोणितमप्योजःशब्देनामनन्ति केचित्, ऊष्माणमप्योजःशब्देनापरे वदन्ति||१९||
तत्र बलेन स्थिरोपचितमांसता [४१] सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति ||२०||
बलस्य प्राकृतं कर्म निर्देष्टुमाह- तत्र बलेनेत्यादि| स्थिरोपचितमांसतेति एतत्सर्वधातुसारोपचयलक्षणेन बलेन; सर्वचेष्टास्विति कायवाङ्मनोव्यापारेषु, अप्रतिघातोऽप्रतिहतशक्तित्वम्, एतद्भारहरणादिशक्तिलक्षणेन बलेन; स्वरवर्णप्रसाद इति प्रसादो नैर्मल्यम्; एतदुभयात्मकेन बलेन| बाह्यानामित्यादि|- बाह्यानां करणानां कर्मेन्द्रियाणाम्, आभ्यन्तराणां बुद्धीन्द्रियाणाम्| आत्मकार्यप्रतिपत्तिः स्वकीयकार्यावबोधो भवति; ‘प्रतिपत्तिरत्रानुष्ठानम्’ इत्यन्ये| तत्र बाह्यानां वाक्पाणिपादपायूपस्थानामात्मकार्याणि वचनादानगमनविसर्गानन्दनानि, आभ्यन्तराणां करणानां श्रोत्रत्वक्चक्षुर्जिह्वानासिकानामात्मकार्याणि शब्दस्पर्शरूपरसगन्धग्रहणानि; एतदप्युभयात्मकेन बलेन| केचिदन्यथा व्याख्यानयन्ति- “बाह्यानां श्रोत्रत्वक्चक्षुर्जिह्वानासिकावाक्पाणिपादपायूपस्थानाम्, आभ्यन्तराणां मनोबुद्धिप्रभृतीनां, बलकारणभूतमोजः” इति||२०||
भवन्ति चात्र-
ओजः [४२] सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् |
विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् ||२१||
देहः सावयवस्तेन व्याप्तो भवति देहिनः |
तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् ||२२||
बलचिकित्सार्थं स्वचिकित्सार्थमपि च प्राकृतैर्गुणैर्निर्दिशन्नाह- ओज इत्यादि| सोमात्मकं सौम्यम्| स्निग्धं स्नेहगुणयुक्तम्| शुक्लम् अतिश्वेतम्| यत्तु चरके- “हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम्” (सू. अ. १७)- इत्यादिश्लोकेनौजस्त्रिवर्णं पठितं; तत्र हि शुद्धग्रहणेन शुक्लमुक्तम्, अतः शुक्लपीतरक्तवर्णास्त्रय उक्ताः; अत्राप्योजसस्त्रय एव वर्णाः, येनात्र ‘शुक्रमोजः’ इति पठितं, शुक्रौजसोरभेदादपरं तैलक्षौद्रवर्णद्वयं प्राप्तं; तेनात्रापि शुक्लरक्तपीतवर्णास्त्रय एवौजस उक्ताः; न चात्र शुक्रौजसोर्भेदोऽङ्गीकर्तव्यः, तस्मिन् सत्यष्टधातुत्वं स्यात्, तस्माद्रसादिधातुस्नेहपरम्पराहैतुकः स्नेहः शुक्रं, क्षीरस्थघृतमिवाभिन्नमोजः शुक्रेण| अपरे शुक्लस्थाने शुक्रं पठन्ति; युक्तं चैतत् शुक्रवर्णेनैवौजोवर्णानां निर्दिष्टत्वात्| शीतं शीतवीर्यम्| स्थिरं शरीरावयवस्थैर्यकारि| सरं प्रसरणशीलम्| अन्ये त्वत्र ‘रसं’ इति पठन्ति, ‘प्रधानरसकल्पनया मधुरम्’ इति व्याख्यानयन्ति च| विविक्तं श्रेष्ठैर्गुणैर्युक्तम्; अन्ये पुनर्विविक्तं प्रत्यग्रमाहुः, ततः प्रत्यग्रैरेवान्नादिभिराप्यायनम्| मृदु कोमलम्| मृत्स्नं चेति पिच्छिलम्| चकाराद्गुर्वादयो गुणा अनुक्ताः समुच्चीयन्ते| प्राणानाम् अग्नीषोमादीनाम्, आयतनं स्थानम्| उत्तमं श्रेष्ठम्| तत्र बलेनेत्यादिवाक्येन स्थितौ हेतुत्वं प्रतिपादयति| देह इत्यादि| तेन ओजसा| भवति उत्पद्यते| इदानीं प्रलये तस्यैव हेतुत्वं दर्शयन्नाह- तदभावादित्यादि| शीर्यन्ते विनश्यन्ति| अयं पाठोऽभावात् समग्रो न लिखितः||२१-२२||
अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रमात्क्षुधः [४३] |
ओजः सङ्क्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् |
तेजः समीरितं तस्माद्विस्रंसयति देहिनः ||२३||
इदानीमभिघातादिभिर्हेतुभिरोजसः क्षयं निर्दिशन्नाह- अभिघातादित्यादि| एभ्योऽभिघातादिहेतुभ्यः| धातुग्रहणमिति धातवो गृह्यन्ते यैस्तानि धातुग्रहणानि धातुवाहीनि स्रोतांसि, तेभ्यो निःसृतं निर्गतं सर्वधातुस्नेहपरम्परारूपेण; अथवा धातुग्रहणं हृदयं धातुवहस्रोतसां स्थानत्वात्, तस्माद्धृदयान्निःसृतं, स्रोतसो मुखैरेव| अन्यैस्तु हृदयमेव धातून् गृह्णातीति धातुग्रहणशब्देनैव हृदयमुच्यते| तेजः पित्तं, समीरितं सम्यक्प्रेरितं ‘वातेन’ इति शेषः| तस्मात् हृदयात्; विस्रंसयति च्यावयति||२३||
तस्य [४४] विस्रंसो व्यापत् क्षय इति (त्रयो दोषाः;) लिङ्गानि [४५] भवन्ति सन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे, स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने, मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति च क्षये ||२४||
तस्यौजसः क्षयभेदान् साध्यासाध्यज्ञानार्थं स्वलक्षणैर्निर्दिशन्नाह- तस्येत्यादि| विस्रंसः स्थानाच्च्युतिरभिघातादिभिरेव| व्यापदन्यथापत्तिः, सा दुष्टदोषदूष्यसंसर्गात्| क्षयः स्वप्रमाणात् शोकध्यानक्षयादिभिः| ‘लिङ्गानि व्यापन्नस्य भवन्ति’ इति केचित् पठन्ति; व्यापन्नस्य दोषदूषितस्य| विस्रंसादीनामोजःक्षयभेदानां किं लिङ्गमित्याह- सन्धिविश्लेष इत्यादि| सन्धिविश्लेषः सन्धीनां विषटनम्| दोषच्यवनं स्वस्थानाद्वातादीनां भ्रंशः, अन्ये “दोषैः कृत्वा च्यवनमोजसः” इति वदन्ति, “दोषच्यवनं मलानां च्यवनम्” इति केचित्| क्रियाणां कायवाङ्मानसीनां सन्निरोधः; “क्रियाशब्दाग्रे नञ् लुप्तो द्रष्टव्यः; नञ् ईषदर्थे, तेन क्रियाणामीषत्सन्निरोधः” इत्यन्ये व्याचक्षते| चकाराद्बलस्य प्राकृतकर्महानिः| एवं व्यापत्तौ क्षये च चकारप्रयोजनम्| एतानि विस्रंसे लिङ्गानि भवन्तीति योज्यम्| स्तब्धगुरुगात्रतेति स्तब्धगुरुभ्यां गात्रतेति सम्बध्यते; स्तब्धगात्रता जान्वादेरनमनसामर्थ्यम्| वर्णभेदो गौरादिवर्णान्यत्वम्| ग्लानिः अप्रहर्षः| तन्द्रा इन्द्रियार्थेऽकर्मण्यता| व्यापन्ने ‘लिङ्गानि भवन्ति’ इत्यनुवर्तते| मूर्च्छेत्यादि मूर्च्छा विज्ञानेन्द्रियनिरोधः| मोहः वैचित्त्यम्| प्रलापः असम्बद्धभाषणम्| क्षये ‘लिङ्गानि भवन्ति’ इत्यनुवर्तते||२४||
भवन्ति चात्र-
त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः |
विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः ||२५||
अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम् [४६] |
गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् ||२६||
तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम् |
मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च ||२७||
पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये |२८|
गद्योक्तमेवार्थं श्लोकैराह- भवन्ति चात्रेत्यादि| त्रयो दोषाः तिस्रो विकृतयः| विश्लेषसादावित्यादि| पूर्वोक्तानि विस्रंसव्यापदोर्लिङ्गानीत्यर्थः||२५-२७||
तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् [४७] ; इतरं [४८] तु मूढसञ्ज्ञं वर्जयेत् ||२८||
चिकित्सासूत्रं निर्दिशन्नाह- तत्रेत्यादि| क्रियाविशेषै रसायनवाजीकरणादिभिः| अविरुद्धैरग्न्याद्यविरुद्धैः| बलं शक्त्युपचयलक्षणम्| आप्याययेत् वर्धयेत्| क्षीणस्यावस्थायां वर्जनमाह- इतरं त्वित्यादि|- इतरं क्षीणं वर्जयेत्| किम्भूतं वर्जयेदित्याह- मूढसञ्ज्ञं नष्टसञ्ज्ञं, पूर्वं मोहस्योक्तत्वात्| मूढसञ्ज्ञं वर्जयेदित्येतस्याग्रे केचित् सुश्रुताध्यायिनः “तेजोऽप्याग्नेयं क्रमशः पच्यमानानां धातूनामभिनिर्वृत्तमन्तरस्थं स्नेहजातं वसाख्यं स्त्रीणां विशेषतो
भवति; तेन मार्दवसौकुमार्यमृद्वल्परोमतोत्साहदृष्टिस्थितिपक्तिकान्तिदीप्तयो भवन्ति; तत् कषायतिक्तगुरुशीतरूक्षविष्टम्भिवेगविघातव्यवायव्यायामव्याधिकर्षणै(र्शनै)श्च विक्रियते; तस्यापि पारुष्यवर्णभेदतोदनिष्प्रभत्वानि विस्रंसने भवन्ति, कार्श्यं मन्दाग्निताऽधस्तिर्यक्च प्रच्युतिर्व्यापत्तौ, दृष्ट्यग्निबलहान्यनिलप्रकोपमरणानि क्षये| तत्र स्नेहपानाभ्यङ्गप्रदेहपरिषेकस्निग्धलघ्वन्नानि क्षयादृते विदधीत” इत्यमुं पठन्ति| अयं तु पाठो न पठनीयः, कुतः? निबन्धकारैरनार्षीकृतत्वात् [४९] ||२८||
दोषधातुमलक्षीणो बलक्षीणोऽपि वा नरः |
स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति ||२९||
यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः |
तस्य तस्य स लाभे तु तं तं क्षयमपोहति ||३०||
यस्य [५०] धातुक्षयाद्वायुः सञ्ज्ञां कर्म च नाशयेत् |
प्रक्षीणं च बलं यस्य नासौ शक्यश्चिकित्सितुम् ||३१||
दोषेत्यादि| स्वयोनिवर्धनम् आत्मकारणवर्धनं यदन्नपानं तदभिलषति| यद्यदित्यादि| आहारजातमाहारसमूहम्| केचिदाचार्या अमुं श्लोकं न पठन्ति| केचित् सुश्रुताध्यायिनोऽत्र दोषधात्वादिक्षयविनाशार्थं देयमन्नादिकं पठन्ति- “यवान् मुद्गान् हरेणूंश्च रूक्षं च लघुभोजनम्| कषायकटुतिक्तं च वातक्षीणोऽभिकाङ्क्षति|| तिलमाषकुलत्थादि पिष्टान्नविकृतिं तथा| मस्तुशुक्ताम्लतक्राणि पित्तक्षीणस्तथा दधि|| मांसं माहिषवाराहमाजं गुडगुरूणि च| श्लेष्मक्षीणोऽभिलषति क्षीरस्वप्नदधीनि च|| इक्षुं मांसरसं मन्थं मधु सर्पिर्गुडोदकम्| असृङ्मांसं यवागूं च रसक्षीणोऽभिवाञ्छति|| द्राक्षादाडिमयुक्तानि सस्नेहलवणानि च| रक्तसिद्धानि मांसानि रक्तक्षीणोऽभिकाङ्क्षति||अम्लानि दधिसिद्धानि तथा षाडवकानि च| स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्क्षति|| मेदःसिद्धानि मांसानि ग्राम्यानूपौदकानि च| सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति|| रसान् सुसिद्धान् सास्थीनि मांसानीहाभिकाङ्क्षति|| अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम्| स्वाद्वम्लसंयुतं द्रव्यं मज्जक्षीणोऽभिकाङ्क्षति|| मयूरकुक्कुटाण्डानि हंससारसयोस्तथा| ग्राम्यानूपौदकानां च शुक्रक्षीणोऽभिकाङ्क्षति|| यवानि यवकान्नानि शाकानि विविधानि च| मायूरं माषयूषं च वर्चःक्षीणोऽभिकाङ्क्षति|| पेयामिक्षुरसं क्षीरं सगुडं बदरोदकम्| मूत्रक्षीणोऽभिलषति त्रपुसैर्वारुकाणि च|| अभ्यङ्गं मर्दनं मद्यं निवातशयनासनम्| गुरुप्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्षति|| कट्वम्ललवणाम्लानि विदाहीनि गुरूणि च| फलशाकानुपानानि स्त्री वाञ्छत्यार्तवक्षये|| मृगाजाविवराहाणां गर्भान् वाञ्छति संस्कृतान्| वसाशूल्यप्रकारादीन् भोक्तुं गर्भपरिक्षये|| सुराशाल्यन्नमांसानि गोक्षीरं शर्करां तथा| आसवं दधि हृद्यानि क्षये स्तन्यस्य वाञ्छति” इति| यस्येत्यादि ‘इतरं तु मूढसञ्ज्ञं वर्जयेत्’ इत्यनेनैवास्योक्तार्थत्वात् केचिदमुं न पठन्ति, “सर्वधातुक्षयव्यापकत्वाद्भिन्नविषयोऽयं श्लोकः,तस्मात् पठनीयः” इत्यन्ये||२९-३१||
रसनिमित्तमेव स्थौल्यं कार्श्यं च |
तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो [५१] मधुरतरश्च शरीरमनुक्रामन्नतिस्नेहान्मेदो जनयति, तदतिस्थौल्यमापादयति [५२] ; तमतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति, सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः, कफमेदोनिरुद्धमार्गत्वाच्चाल्पव्यवायो भवति, आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति, प्रमेहपिडकाज्वरभगन्दरविद्रधिवातविकाराणामन्यतमं प्राप्य पञ्चत्वमुपयाति, सर्व एव चास्य रोगा बलवन्तो [५३] भवन्त्यावृतमार्गत्वात् स्रोतसाम्; अतस्तस्योत्पत्तिहेतुं परिहरेत् |
उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफलालोहरजोरसाञ्जनमधुयवमुद्गकोरदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां च द्रव्याणां विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति [५४] ||३२||
रसनिमित्तमित्यादि| चकारान्मध्यशरीरत्वं च| ननु, कथमेक एव रसः परस्परविरुद्धयोः स्थौल्यकार्श्ययोर्हेतुरित्यत आह- तत्रेत्यादि| अध्यशनशीलस्येति अजीर्णभोजनाभ्यासिन इत्यर्थः| ननु, मेदस्विनो दीप्ताग्नित्वे कथमामरससम्भवः? नैष दोषः, दीप्ताग्नित्वेऽप्यध्यशनशीलत्वादामरसो भवति| तर्हि कथं रसश्चापक्वश्चेति विरोधनीयवचनं? न ह्यपक्वो रसव्यपदेशं लभते| सत्यं, जाठरेणाग्निना रसः कद्भावेन [५५] कृत एव, किन्तु धात्वग्निभिरपाकादाम इत्युच्यते| शरीरमनुक्रामन्निति तं तं शरीरदेशं गच्छन्नित्यर्थः| मेदो जनयति विशिष्टाहारवशाददृष्टवशान्मेदसाऽऽवृतमार्गत्वाच्च धातुद्वयमतिक्रम्य मेद एव वर्धयति| तदतिस्थौल्यमापादयतीति तत् मेदः, आपादयति करोति| क्रथनं स्वपतः कण्ठे घुर्घुरारवः, अन्ये त्वकस्माच्छ्वासावरोधं क्रथनं कथयन्ति| गद्गदत्वम् अव्यक्तवचनत्वम्| क्षिप्रमेवाविशन्तीति एते क्षुद्रश्वासादयस्तं स्थूलं शीघ्रमेव प्रविशन्ति, स्थूले भवन्तीत्यर्थः| शेषधातवो नाप्यायन्तेऽत्यर्थमिति शेषधातवोऽस्थ्यादयः| वातविकाराणामिति अत्र वातविकारा मेदःकृतमार्गावरणनिमित्तवातकोपविकारा इत्यर्थः| अन्यतममिति एषामेकम्| पञ्चत्वमुपयातीति मरणमुपगच्छतीत्यर्थः| तस्य चिकित्सामाह- अत इत्यादि| तस्योत्पत्तिहेतुं परिहरेदित्यनेन निदानपरिवर्जनेनानागताबाधचिकित्सोक्ता| उत्पन्ने जाते पुनरित्यर्थः| उद्दालकादीनामिति उद्दालक आरण्यकोद्रवः, आदिशब्दाद्गवेधुकादीनां ग्रहणम्| विरूक्षणच्छेदनीयानामिति विरूक्षणं मेदोघ्नं, छेदनीयं स्रोतोविशोधनीयम्| विधिवदुपयोग इति पुरुषाग्निबलमात्राविधानवानुपयोग इत्यर्थः| लेखनबस्त्युपयोगश्च लेखनबस्तयश्चिकित्सितोक्ताः, “त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमन्विताः| ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः” (चि. अ. ३८) इति| चकाराद्व्यायामादयो मृदवः काङ्कायनसक्तवश्च||३२||
तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रिजागरणपिपासाक्षु त्कषायाल्पाशनप्रभृतिभिरुपशोषितो रसधातुः शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति, तस्मादतिकार्श्यं भवति; सोऽतिकृशः क्षुत्पिपासाशीतोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति, श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्तानामन्यतममासाद्य मरणमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात्; अतस्तस्योत्पत्तिहेतुं परिहरेत् |
उत्पन्ने तु पयस्याश्वगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां मधुराणामन्यासां चौषधीनामुपयोगः, क्षीरदधिघृतमांसशालिषष्टिकयवगोधूमानां च, दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ||३३||
कार्श्यनिमित्तं दर्शयन्नाह- तत्र पुनरित्यादि| वातलाहारसेविन इति अतिरूक्षाहारसेविनः| अतिव्यायामेत्यादि अतिशब्दो व्यायामादिभिः प्रत्येकं सम्बध्यते| क्षयो धातुक्षयः| उपशोषितो रसधातुरिति अतिरूक्षीकृतोऽल्पीकृतश्च| न प्रीणाति ईषत्प्रीणातीत्यर्थः| सोऽतिकृश इत्यनेनोपचयलक्षणबलाभावो दर्शितः| वातरोगप्राय इति वातरोगबहुल इत्यर्थः| अल्पप्राणश्च क्रियासु भवतीति कायवाङ्मानसीषु क्रियासु विषयेऽल्पशक्तिर्भवति; एतेन शक्तिलक्षणबलाभाव उक्तः| शोषो राजयक्ष्मा| उत्पन्ने त्विति ‘कार्श्ये’ इति शेषः| पयस्या अर्कपुष्पी, क्षीरकाकोलीत्यन्ये| विदारिगन्धा शालिपर्णी| मधुराणामित्यादि ऋद्धिवृद्धिजीवकादीनाम्| बृंहणबस्त्युपयोगश्चेति बृंहणबस्तिर्यथा- “बृंहणद्रव्यनिःक्वाथास्तत्कल्कस्नेहसैन्धवैः| युक्ताः खजप्रमथिता बस्तयो बृंहणा मताः” (चि. अ. ३८) इति| चकारात् सन्तर्पणमपि लघु कर्तव्यम्||३३||
यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातूनुपचिनोति, समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च, स सततमनुपालयितव्य इति ||३४||
मध्यशरीरस्य हेतुं गुणं च दर्शयन्नाह- यः पुनरित्यादि| उभयसाधारणानि नातिस्निग्धरूक्षाणि स्वास्थ्यवृत्तिकानि द्रव्याणि षष्टिकरक्तशालिलावकदाडिमतण्डुलीयकादीनि, अदिवास्वप्नादींश्च विहारविशेषान्| सर्वक्रियासु समर्थ इत्यनेनैव बलवत्त्वे लब्धे
यद्बलवांश्चेति करोति तन्नियमार्थम्; एवम्भूताहारविहारसेवी बलवानेव भवतीत्यर्थः| मध्यशरीरस्य चिकित्सामाह- स सततमनुपालयितव्य इति ‘स्वस्थवृत्तानुवर्तनेन’ इति शेषः||३४||
भवन्ति चात्र-
अत्यन्तगर्हितावेतौ [५६] सदा स्थूलकृशौ नरौ |
श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ||३५||
तयोर्द्वयोः कृशस्थूलयोर्दोषवत्त्वेऽपि स्थूलस्यातिशयदोषवत्त्वं मध्यशरीरस्य च गुणवत्त्वं निर्देष्टुमाह- अत्यन्तेत्यादि| कुतः स्थूलात् कृशः पूजितः? उच्यते- स्थूलस्य क्रियाऽक्षमत्वात्, अतिशयेन व्याधिपीडनाच्च||३५||
दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा |
इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ||३६||
दोषादीनां क्षयवृद्ध्योरेकत्र निर्देशेऽपि दोषा एव धातुमलक्षयहेतव इति दर्शयन्नाह- दोष इत्यादि| दोषो वातपित्तकफसञ्ज्ञकः| धातूनिति धातुशब्दोऽत्र समेषु मलेष्वपि वर्तते, देहधारणसामर्थ्यात्; अथवा धातुशब्द उपलक्षणम्, तेन मला अपि प्राप्यन्ते| क्षपयतीति क्षपणं वृद्धिसाम्ययोः ह्रासः| आत्मतेजसेति आत्मशक्त्या| तत्र पित्तं कटुकोष्णत्वाद्धातून् क्षपयति, वायुश्च शोषणहेतुत्वात्, कफो मार्गावरोधकत्वात्| इद्धो दीप्तः| उखागतं स्थालीस्थम्||३६||
वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव [५७] च |
दोषधातुमलानां तु परिमाणं न विद्यते ||३७||
कुतः पुनः पलादिमानेन दोषादीनां प्रमाणं न निर्दिष्टमित्याह- वैलक्षण्यादित्यादि|- वैलक्षण्यात् विसदृशत्वात्, विसदृशत्वं चात्र वातादिप्रकृति-रसरक्तादिसार-संहनन-दीर्घह्रस्वादिकायभेदेन| अस्थायित्वात्तथैव चेति अनवस्थितत्वात्, अस्थायित्वं च द्विविधेऽपि काले नित्यग आवस्थिकेऽपि च; तत्र नित्यगे प्रातः श्लेष्मोपचीयते मध्याह्ने पित्तमित्यादि प्रत्यहमाह्निकचयादिभेदेन, तथा हेमन्ते श्लेष्मोपचीयते ग्रीष्मे वायुरित्याद्यार्तवचयादिभेदेन; तथाऽऽवस्थिकेऽपि बाल्ये श्लेष्माऽभिवर्धते, तथा बाल्ये शुक्राल्पत्वं कन्यानामार्तवस्तन्याभावः, युवसु पित्तमुपचीयते, वृद्धेषु वायुरित्यादिना| परिमाणमिति स्वं सर्वतो मानं न विद्यते; तेन [५८] कस्यचिदेव क्वचिदेव मानं कर्तुं शक्यते, न सर्वत इत्यर्थः||३७||
एषां समत्वं यच्चापि भिषग्भिरवधार्यते [५९] |
न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ||३८||
ननु, दोषादीनां पलादिमानं विना साम्यं कथं ज्ञेयमित्याह- एषामित्यादि| एषामिति दोषधातुमलानाम्| न तदित्यादि तदपि साम्यं; स्वास्थ्यादृते स्वास्थ्यं विना||३८||
दोषादीनां त्वसमतामनुमानेन लक्षयेत् |
अप्रसन्नेन्द्रियं [६०] वीक्ष्य पुरुषं कुशलो भिषक् ||३९||
क्षयवृद्धिभेदात्मकमसाम्यमनुमानेन दर्शयन्नाह- दोषादीनामित्यादि| दोषादीनामिति आदिशब्देन धातुमलानां ग्रहणम्| तुशब्दः पुनरर्थे| असमतां क्षयवृद्धिलक्षणाम्| ‘अप्रसन्नेन्द्रियं’ इत्यत्र ‘अप्रसन्नतनुं’ इति यन्न कृतं तदिन्द्रियाधिष्ठानानामिन्द्रियशक्तीनां च प्रसन्नत्वं बोधयति| वीक्ष्येत्यनेन वर्णादि सर्वमुक्तं भवति| ‘वीक्ष्य’ इत्यत्र ‘ज्ञात्वा’ इत्येके पठन्ति||३९||
(स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्) |
क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् |
तावद्यावदरोगः स्यादेतत्साम्यस्य [६१] लक्षणम् ||४०||
असाम्यं वृद्धिक्षयात्मकमित्यनुमानेन प्रतिपाद्य किं कुर्यादित्याह- क्षपयेदित्यादि|- क्षपयेदिति वृद्धान् दोषधातुमलान् ह्रासयेदित्यर्थः| बृंहयेदिति तानेव क्षीणान् वर्धयेत्| क्षपणबृंहणयोर्मात्रावधिं दर्शयन्नाह- तावदित्यादि| कुतः पुनरारोग्यमवधिरित्याह- एतत् साम्यस्य लक्षणमित्यादि| अयं पाठः समग्रोऽभावान्न लिखितः||४०||
समदोषः [६२] समाग्निश्च समधातुमलक्रियः |
प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ||४१||
दोषादिसाम्यं स्वास्थ्यं, तद्दर्शयितुमाह- समदोष इत्यादि| ननु, द्विविधेऽपि काले नित्यं दोषचयाद्यनुबन्धात् कथं समदोषत्वं? तथाहि नित्यगे- आह्निके तावत् प्रातः कफः कुप्यति, मध्याह्ने पित्तमित्यादि; तथाऽऽर्तवेऽपि हेमन्ते कफश्चीयते वसन्ते स एव कुप्यतीति; तथाऽऽवस्थिके च काले ‘बाले(ल्ये)विवर्धते श्लेष्मा’(सू. अ. ३५) इत्याद्युक्तत्वात्| उच्यते- दोषचयादेरल्पत्वादतद्व्यपदेश इति, एकतण्डुलाभ्यवहारेऽनशनव्यपदेशवत्| अन्ये त्वेवं वदन्ति- “आर्तवे चयादौ स्वस्थवृत्तोक्तविधिभिराहोरात्रिके पुनरनागताबाधोक्तदन्तधावनादिविधानेन दोषाणां साम्यमुपपन्नमेव” इति| समधातुमलक्रिय इति समा धातुमलानां क्रिया यस्य स तथा| क्रिया स्वप्नजागरणादिकेति केचिद्भिन्नं क्रियाशब्दं व्याख्यानयन्ति| प्रसन्नात्मेन्द्रियमना इति आत्मा देहः, अन्ये कर्मात्मा बद्धपुरुषः; तस्य निर्विकारस्यापि शरीरगुणदोषाभ्यां बद्धत्वमाचार्यैर्बहुधोक्तम् [६३] , अस्माभिर्ग्रन्थगौरवभयान्नोच्यते| इन्द्रियाणि भौतिकाधिष्ठानशक्तिरूपाणि, मनस्त्विन्द्रियानुग्राहकमन्तःकरणम्| एवम्भूतः पुरुषः स्वस्थ इत्यभिधीयते ‘पूर्वाचार्यैः’ इति शेषः| दोषसाम्येनैवाग्न्यादिसाम्यं लब्धं तत् किं पृथगाचार्यः प्राह? उच्यते, न दोषैः समा अग्न्यादयो भवितुमर्हन्तीति; कुतः? पृथक्चिकित्सितत्वात्; पित्तहरणमपि सर्पिरजापयश्चाग्निं वर्धयति| अत्र श्रीमाधवः प्राह- “लब्धाश्चेत् समदोषत्वे समाग्नित्वादयस्तदा| पृथगुक्ताः किमर्थं ते भक्तिरेषा [६४] निरर्थका”- इति; समाधानमाह- “दोषेऽभ्यस्ते यतो भिन्नाः पृथगुक्ता अतस्तु ते| प्रकृत्या तादृशाः केचिदत्यर्थं वा न दूषणम्”- इति| ‘दोषादीनां त्वसमताम्’ इत्यादिश्लोकं ‘वैलक्षण्याच्छरीराणाम्’ इत्यादिश्लोकाग्रे केचिदन्यथा पठन्ति| तथाहि, “पलादिमानाभावात् कथमेषां साम्यं ज्ञेयमित्याह- ‘दोषादीनां तु समतामनुमानेन लक्षयेत्’ इति श्लोकार्धमेव दोषसाम्यज्ञानार्थं पठन्ति| येनानुमानेन समता ज्ञेया तदेव दर्शयन्नाह- एषां समत्वं यच्चापीत्यादि| एतेन साम्यकार्येण स्वास्थ्येन दोषाणां समता ज्ञातव्येत्यर्थः| अतोऽनन्तरं ‘समदोषः समाग्निश्च’ इत्यादि पठन्ति| व्याख्यानं चास्य पूर्वमेवोक्तम्| इदानीं स्वस्थप्रतिपालनायास्वस्थस्य च स्वास्थ्यकरणायाह- ‘स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्| क्षपयेद्बृंहयेच्चापि’ इत्यादि;” ईदृशं कृत्वा केचित् पाठक्रमं पठन्ति||४१||
इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम पञ्चदशोऽध्यायः ||१५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने
दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम पञ्चदशोऽध्यायः||१५||
१. ‘स्वरूपं हि वातादीनां कार्यगम्यमेव, तेन कार्यमेवात्र प्राधान्यादुच्यते- तत्रेत्यादि|’ इति चक्रः|
२. ‘तदाह’ इति पा.
३. ‘धारणमिति अर्थादपानस्य’ इति पा.|
४. ‘… शरीरमात्रस्य’ इति पा.|
५. ‘…पूरणबृंहणतर्पणबलस्थैर्यकृत्’ इति चक्रसम्मतः पाठः| “बृंहणं सौम्यस्नेहनत्वाभ्यां शरीरस्य, तर्पणत्वमपि सौम्यत्वाद्बलकारित्वं| चरकेऽप्युक्तं- “प्राकृतस्तु बलं श्लेष्मा” (च. सू. अ. १७) इति चक्रः|
६. ‘…स्थानान्याहुः’ इति पा.|
७. ‘धैर्यच्यवनं मैथुनप्रयोजकतया’ इति चक्रः|
८. ‘मज्जा पूरयति, बीजार्थहर्षकृच्छुक्रम्’ इति ताडपत्रपुस्तके पाठः|
९. पुरीषं निःसारमप्याशयबलकारितया वाय्वग्निधारणमुपस्तम्भं च करोति| तदुक्तं- ‘सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्’ (च. चि. अ. ८) इति चक्रः| ‘प्राणवाय्वग्निधारणावष्टम्भकृत् पुरीषम्’ इति ताडपत्रपुस्तके पाठः|
१०. ‘विवेकत्वात्’ इति पा.|
११. चक्रस्तु ‘यथोक्तरक्तलक्षणं’ इति पठति, व्याख्याति च- ‘यथोक्तरक्तलक्षणमिति आर्तवरूपरक्तस्य यल्लक्षणमुक्तं ‘मासि मासि त्र्यहं स्रवेत’ इत्यादि, तदेवास्य प्रकृतिस्थस्य लक्षणम्’ इति|
१२. ‘तेषां’ इति पा.|
१३. ‘स्वास्थ्यप्रवर्तकः’ इति, ‘स्वास्थ्यप्रवृत्तिकः’ इति च पा.|
१४. आमाशयेतराशयानां शून्यता’ इति हाराणचन्द्रसम्मतः पाठः| ‘आमाशयेतराशयशून्यता शिरसश्च’ इति ताडपत्रपुस्तके पाठः|
१५. ‘तृष्णा दौर्बल्यं प्रजागरणं’ इति क्वचिद्धस्तलिखितपुस्तके न पठ्यते|
१६. ‘मन्दचेष्टता सकलप्राकृतवातक्रियाणामल्पता, मूढसञ्ज्ञता असम्यग्ज्ञानम्, एतच्च प्राकृतवायोरिन्द्रियार्थसम्प्राप्तिकरस्य वैगुण्यादुपपन्नम्’ इति चक्रः|
१७. ‘स्वयोनिवर्धनद्रव्याणि’ इति पा.| ‘स्वयोनीतिवक्तव्ये यद्वर्धनमित्यधिकं करोति, तेन स्वयोनिश्च यद्वातादीनां कषायादि तथाऽऽमलकादि प्रतिभाति तन्निरासार्थं, तद्धि स्वयोनिरपि पथ्यत्वप्रभावबाधितत्वान्न वर्धनं, तथा प्रभावादपि यत्कफादिवर्धनं मत्स्यादि तदपि गृह्यते …… तत्र वायोर्वायुरेव योनिः, पित्तस्याग्निः, कफस्यापः, रक्तं तेजोजलात्मकं, मांसं पार्थिवं, मेदो जलपृथिव्यात्मकम्, अस्थि पृथिव्यनिलात्मकं, मज्जा शुक्रं चाप्यं, मूत्रं जलानलात्मकं, पुरीषं पार्थिवम्, आर्तवमाग्नेयं, स्वेदः स्तन्यं चाप्यम्’ इति चक्रः|
१८. ‘धमनीशैथिल्यं मांसक्षये शुषिराधारतया’ इति चक्रः|
१९. ‘प्लीहाभिवृद्धिरुदरे मेदःक्षये वृद्धवातेनोदरशून्यतया च प्लीहास्थानाद्भ्रष्टो वर्धते’ इति चक्रः|
२०. ‘अस्थितोदः’ इति हाराणचन्द्रसम्मतः पाठः|
२१. ‘दन्तभङ्गोऽपि तत्प्रभवास्थिक्षयादेव’ इति चक्रः|
२२. ‘अल्पशुक्ररक्तदर्शनं च शुक्रक्षये कुपितेन वायुना हर्षोदीरितेन च रक्तानयनाद्भवति’ इति चक्रः|
२३. ‘हृच्छब्दः पीडाकम्पशोषशून्यताभिर्योज्यः| एते च रसक्षये वृद्धवाताद्धि भवन्ति’ इति चक्रः|
२४. ‘चकारादिहान्यत्र च स्वकर्महानिः, परधात्वपचयश्च ज्ञेयः’ इति चक्रः|
२५. ‘अम्लशीतप्रार्थना सौम्याग्नेयत्वाद्रक्तस्य स्वयोनितया भवति, सिराशैथिल्यं पूरकरक्ताल्पतया’ इति चक्रः|
२६. ‘अभिलाषः’ इति पा.|
२७. ‘अस्थिबलत्वात्’ इति पा.|
२८. ‘प्रतीकारः’ इति हस्तलिखितपुस्तके न पठ्यते|
२९. ‘सौम्यस्य’ इति पा.
३०. ‘स्तोकस्तोकाद्यनुग्रहः’ इति पा.|
३१. ‘स्पर्शवैगुण्यमिति स्वेदक्षये वृद्धवातेन ज्ञेयम्, स्तब्धरोमकूपता स्वेदक्षयेण तेषां शुष्कत्वात्’ इति चक्रः|
३२. ‘तत्र संशोधनमित्यनेन स्रोतःशुद्ध्यर्थं शोधनं, तच्च वमनं विरेचनमूर्ध्वाधो वा स्रोतःशुद्धिकरतया’ इति चक्रः|
३३. ‘त्वक्पारुष्यं’ इति पा.|
३४. ‘निद्रा मनसो निवृत्त्या भवति, यदुक्तं- ‘यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः| विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः” (च. सू. अ. २१) इति| तत्र वायुना मनोभ्रमणान्निद्रा न भवति, पित्तस्याप्युष्णतया मनोविक्षेपान्निद्रा स्वल्पा भवति’ चक्रः|
३५. ‘सन्ध्यस्थिश्लिष्टता सन्धिश्लेषणकफवृद्ध्या युक्तैव’ इति चक्रः|
३६. ‘आटोपमीषत्सशब्दमाध्मानम्’ इति चक्रः|
३७. ‘मूत्रवृद्धिं प्रचुरमूत्रनिर्गमम्’ इति चक्रः| ‘मूत्रवृद्धिं’ इति हस्तलिखितपुस्तके न पठ्यते|
३८. ‘आर्तवं वृद्धतया वातरोधादङ्गमर्दं करोति’ इति चक्रः|
३९. ‘अविरुद्धैरिति वृद्धस्य तथा क्षपणं कर्तव्यं यथाऽन्यदोषस्य धातोर्वा वृद्धिः क्षयो वा न भवतीति भावः, प्रतिकर्तव्यमिति प्रतिक्षणं च बहुदोषे संशोधनेनाल्पे च संशमनेन कर्तव्यम्| यद्यपि वृद्धिर्व्याधिरूपतया दोषकृतैव, तथाऽपि रसाद्याश्रयवशादपि तद्गतदोषाणां चिकित्साविशेषो भवतीति ज्ञेयम्’ इति चक्रः|
४०. ‘सम्प्रति धातुसारभूतत्वेन धात्वभिन्नस्यौजसस्तथा तत्कार्यस्यबलस्य च प्रयोजनवशादभेदेन स्वरूपं क्षयं च चिकित्सार्थमाह बलेत्यादि| यत्परं तेजः सारं घृतमधुस्थानीयं प्रत्येकमेव रसादीनां यदुत्कृष्टोऽशः सारभागः स मिलित्वा हृदयप्रधानस्थानत्वात्तत्रस्थ एव च धमनीभिर्हृदयमूलाभिः कृत्स्नं शरीरं तर्पयति बलहेतुश्च धातूनां भवति, शुक्रशोणितसंसर्गात्प्रभृति शरीरमधितिष्ठते स्वकर्मणा तदोजः’ इति चक्रः|
४१. मांसं चेह बहिर्दृश्यमानकार्यतयोक्तं, तेनेतरेषामपि धातूनां स्थिरत्वमुपचितत्वमनेनैवोक्तं ज्ञेयम्| . . . सर्वचेष्टास्वप्रतीघात इति अत्र बलरूपतयौजसो बलसम्पाद्यक्रियास्वप्रतिघातो ज्ञेयः| बाह्यानां पाय्वादीनां कर्मेन्द्रियरूपकरणानाम्, आभ्यन्तराणां चक्षुरादीनां मनःसहितानाम्, आत्मकार्यमेषां विसर्गादि तथा बुद्ध्यादि तथा चिन्तनादि च| प्रतिपत्तिरत्रानुष्ठानं, तेन सर्वेन्द्रियाणां स्वकार्यप्रतिपत्तिरोजोनुग्रहाद्भवतीति वाक्यार्थः| तत्रेन्द्रियाणि यदि भौतिकानि तदा विशिष्टभूतमयेनौजसा तद्वलबृंहणं युक्तमेव| यदुक्तं चरके “शरीरं ह्यपि सत्त्वमनुविधीयते सत्त्वं च शरीरम्” (च. शा. अ. ४) इति चक्रः|
४२. ‘शुक्लमिति प्राधान्येन शुक्लं, तेन तन्त्रान्तरोक्तरक्ताद्यनुगमोऽप्यविरुद्धः| अन्ये शुक्लस्थाने ‘स्वच्छम्’ इति पठन्ति, तच्च चरके ‘प्रसन्नम्’ इति पाठाद्युक्तम्| स्थिरमिति स्थायि| सरमिति देहव्यापकतया’ इति चक्रः| ‘स्थिरं सुखदुःखयोरचञ्चलं करोतीति स्थिरं, णिचि पचाद्यच्| विविक्तं पूतं निर्मलमिति यावत्’ इति हाराणचन्द्रः|
४३. ‘कुतः खल्विदं क्षीयते येन शरीराणि शीर्यन्त इत्याह- अभिघातादित्यादि| क्षयादतिरमणादिना धात्वपचयात्| नन्वेवं चेत्तत्वं कथं तर्ह्येभिर्हेतुभिरुपतप्ता सर्वक्रियास्वसमर्था अप्यातुराः सद्यो न म्रियन्त इत्याशङ्क्याह- हीत्यादि| सर्वं वाक्यं सावधारणमिति न्यायात्| एभ्योऽभिघातादिभ्य एवेत्यर्थः| हि यस्मात्| तेजः सर्वधातूनां दीप्तोंऽशः| ‘ओज’ इति निष्कर्षः, वायुना चालितं सत् धातुग्रहणनिःसृतं धातवो गृह्यन्त एभिरिति धातुग्रहणानि वक्ष्यमाणानि स्रोतांसि, तेभ्यो निःसृतं निर्गतं भवति, तस्माद्देहिनो विस्रंसयति सर्वेभ्य एव कर्मभ्यो बहिष्करोति नतु सद्यो मारयतीति तात्पर्यम्| एतेनौजसः क्षये म्रियते, मूलस्थानात्प्रच्याविते तु सर्वकर्मणामतिपतितो भवतीत्युक्तं भवति| वक्ष्यति च ‘क्रियासन्निरोधश्च विस्रंसे” इति हाराणचन्द्रः| ‘धातवो गृह्यन्ते यैस्तानि धातुग्रहणानि स्रोतांसि ओजोवाहीनि’| यदुक्तं- ‘ओजोवहाविधम्यन्ते शरीरेऽस्मिन् समन्ततः’ (च. सू. अ. ३०) इति | किंवा धातुग्रहणस्रोतःस्थानतया धातुग्रहणं हृदयं, ततो निःसृतं धमनीभिरेव| किंवा ‘निष्ठितम्’ इति पाठः| तदा ओजोवाहिस्रोतःसु हृदि स्थितमित्यर्थः’ इति चक्रः|
४४. ‘व्यापद्दोषदुष्टत्वे गुणहीनत्वं, लिङ्गानि भवन्तीत्युत्तरेण सन्धिविश्लेषादिना योज्यम्’ चक्रः| ‘विस्रंसो व्यापच्च क्षयभेदौ दोषदुष्टतया गुणापचयेनोत्पत्तेरित्यप्रस्तुतप्रस्तावापत्तिर्नाशङ्कनीया, क्षयो हि नाम यथाकथञ्चिदपचय इत्यवोचाम| दोषाणां वातादीनां स्वस्थानादपगमो दोषच्यवनं, क्रिया वाङ्मनःशरीरचेष्टाः, तासामसम्यङ्गाशः क्रियाऽसन्निरोधः, ‘न निरोधो न् चोत्पत्तिः’ इत्यादौ नाशार्थे निरोधप्रयोगदर्शनात्| वक्ष्यति- ‘अप्राचुर्यं क्रियाणां च’ इति हाराणचन्द्रः|
४५. ‘लिङ्गानि सन्धिविश्लेषः’ इत्यादिस्ताडपत्रपुस्तके पाठः|
४६. ‘मतं विस्रंसलक्षणम्’ इति पा.|
४७. ‘अविरुद्धैरोजोनुकूलैः, अत्र मूढसञ्ज्ञमिति विशेषणं तदवस्थायामेव वर्जनार्थम्’ इति हाराणचन्द्रः| ‘क्रियाविशेषैरिति ओजोवर्धकैस्तद्विशोधकैश्च, अविरुद्धैरिति अग्न्याद्यविरुद्धैः, बलमिति ओजः’ इति चक्रः|
४८. नष्टसञ्ज्ञमितरं तु’ इति पा.|
४९. अस्याग्रे ‘इतरं त्वित्यादिपाठाग्रेऽसौ पठितव्यः’ इत्यधिकः पाठ उपलभ्यते क्वचित्पुस्तके|
५०. ‘धातुक्षयादिति ओजः क्षयात्| सञ्ज्ञा ज्ञानं, कर्म व्यापारः, एतयोरुपरम एव मूर्च्छा| बलं शक्तिः| अत्र दोषादिक्षयवृद्धिप्रकरणे प्रतिकर्तव्या ओजसो वृद्धिर्नाभिहिता, तस्यायुर्वृद्धिवन्निर्विकारत्वेनाभिमतत्वादेव’ इति चक्रः|
५१. ‘आम एवेति इवार्थोऽयमेवशब्दः, रक्तादिरूपेणापरिणततया अपक्व इवेत्यर्थः| न तु ‘आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः’ इत्यादिनोक्तः, तस्य रोगहेतुतयाऽऽमाशयस्थत्वेन च मेदोजनकत्वायोगात्’ इति चक्रः|
५२. मेदसोऽतिप्रवृद्धत्वाज्जाठर्यमापादयति| तमतिजाठरं क्षुद्रश्वास…’ इत्यादिस्ताडपत्रपुस्तके पाठः| ‘जाठर्यमिति बृहज्जठरत्वं इति चक्रः|
५३. ‘बलवत्तराः’ इति पा.|
५४. ‘चकारात् ‘गुरु चातर्पणं श्रेष्ठं स्थूलानां कर्शनं प्रति’ (च. सू. अ. २१) इति समुच्चिनोति’ इति चक्रः|
५५. अत्र ‘कटुभावेन’ इति, ‘क्लेदभावेन’ इति, ‘किट्टभावेन’ इति च पाठान्तरत्रयमुपलभ्यते|
५६. ‘द्वावपि गर्हितावेतौ’ इति चक्रसम्मतः पाठः|
५७. ‘अथ क्षयवृद्धी प्राकृतमानापेक्षे, तच्चेह नोक्तं, कुत इत्याह- वैलक्षण्यादित्यादि| दीर्घह्रस्वस्थूलकृशबालवृद्धादीनां शरीरवैलक्षण्यात्, शरीरवैलक्षण्ये च तद्दोषादिमानवैलक्षण्यमित्यर्थः| अस्थायित्वादिति दोषादिभिः सम्बध्यते| तेन पूर्वाह्णे वसन्ते च कफो वृद्धः, ग्रीष्मे सायं च क्षीणः, इत्यादिना तत्तद्वृद्धिक्षयहेतुप्राप्त्याऽपि दोषधातुमलानामनियतमानत्वादित्यर्थः| न विद्यते इति नियतं मानं न विद्यते यत् शास्त्रकारेण निर्देश्येतेति भावः| अथ कथं तर्हि दोषादिसाम्यव्यवहार इत्याह- एषामित्यादि|’ इति चक्रः|
५८. ‘येन’ इति पा.|
५९. ‘अभिधीयते’ इति पा.|
६०. अप्रसन्नेन्द्रियत्वं सर्वदोषादिविकारमानागतत्वेनोक्तं, यतोऽवश्यं विकारे दुःखकारिणि मनोवाक्स्पर्शादिषु वाऽन्यतममिन्द्रियं विकृततया अप्रसन्नं भवति’ इति चक्रः|
६१. ‘स्यान्नरो रोगसमन्वितः’ इति पा.| ‘एतदरोगत्वं दोषधातुमलसाम्यस्वास्थ्यस्य लक्षणं, स्वास्थ्यार्था च चिकित्सेति भावः’ इति चक्रः|
६२. ‘समधातुमलक्रिय इति समा प्राकृतधातूनां मलानां च क्रिया प्राकृतकर्मरूपा यस्य स तथा, अत्र क्रियाग्रहणं समक्रिययैव धातुमलानां परोक्षाणां प्रायः साम्यावगतिरिति सूचनार्थम्| धातुग्रहणेन उपधात्वादीनां धारकाणां ग्रहणम्| अग्न्यादिसमतयैव दोषाः समा लक्ष्यन्ते| अथ समाग्नित्वाद्यप्यन्तर्वर्तितया दुर्विज्ञेयं कथं ज्ञेयमित्याह- प्रसन्नात्मेन्द्रियमना इति| आत्मादिप्रसन्नता हि दुःखरूपाग्न्यादिवैषम्यात्मकविकारविरहितत्वेन भवति, नहि दुःखयोगे सत्यात्मादिप्रसन्नता सम्भवति| … आत्मादित्रयाभिधानं च त्रिभिरेव मिलितैर्निर्दुःखताज्ञानरूपप्रसन्नतानुभवात्| यदुक्तम् ‘आत्माज्ञः करणैर्योगात् ज्ञानमस्य प्रवर्तते’ (च. शा. अ. १) इति| करणानि ज्ञाने मनःसमाहितानीन्द्रियाणि| तेन प्रसन्नात्मेन्द्रियमनस्त्वमेव स्वास्थ्यलक्षणमव्यभिचारि व्यक्तं च| तत्परिकरतया वैद्यकसिद्धान्तोपयुक्ततया च समदोषाद्यभिधानमिति युक्तं पश्यामः’ इति चक्रः|
६३. ‘पट्वपटुत्वमाचार्यैर्बहुधोक्तं’ इति पा.|
६४. ‘न किमेतन्निरर्थकम्’ इति पा.|
Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
sūtrasthānam - 15. dōṣadhātumalakṣayavr̥ddhivijñānīyādhyāyaḥ
athātō dōṣadhātumalakṣayavr̥ddhivijñānīyamadhyāyaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
athāta ityādi| dōṣā vātādayaḥ, dhātavō rasādaya upadhātavaśca, malāḥ purīṣādayaḥ; tēṣāṁ kṣayavr̥ddhivijñānaṁ yasminnasti sa tathā| anyē tu ‘malaśabdāgrē ādiśabdō luptō draṣṭavyaḥ, tēna stanyārtavagarbhādayō’pi dhātavō gr̥hyantē’ iti vadanti||1-2||
dōṣadhātumalamūlaṁ hi śarīraṁ, tasmādētēṣāṁ lakṣaṇamucyamānamupadhāraya ||3||
kutaḥ punarēṣāṁ kṣayavr̥ddhī vaktavyē ityāha- dōṣētyādi| hi yasmādarthē, yasmāccharīraṁ dōṣādimūlaṁ; yathā vr̥kṣādīnāṁ sambhavasthitipralayēṣu mūlaṁ pradhānaṁ, tathā śarīrasya vātādaya ityarthaḥ||3||
tatra [1] praspandanōdvahanapūraṇavivēkadhāraṇalakṣaṇō vāyuḥ pañcadhā pravibhaktaḥ śarīraṁ dhārayati (1) |4|
dōṣadhātumalādīnāṁ sāmyakṣayavr̥ddhayaḥ svabhāvākhyaliṅgēna karmākhyaliṅgēna ca jñēyāḥ, tasmāt sāmyādijñānē ētalliṅgadvayaṁ vācyaṁ; tathāhi [2] – vātasya svabhāvākhyaṁ liṅgaṁ ‘rūkṣaḥ śīta’(ni. a. 1) ityādi vātavyādhau vakṣyatē; pittasya tu ‘pittaṁ tīkṣṇaṁ dravaṁ’(sū. a. 21) ityādi vraṇapraśnē; tathā kaphasya ‘ślēṣmā śītō guruḥ’(sū. a. 21) ityādi; ēvaṁ dhātumalayōrapi svabhāvākhyaṁ liṅgaṁ darśanīyam;
iha tu dōṣādīnāṁ karmākhyaṁ liṅgaṁ darśayannāha- tatra praspandanētyādi| praspandanaṁ śarīrasya calanam, idaṁ vyānasya karma; udvahanamindriyārthānāṁ dhāraṇam, udānasya karma; pūraṇamāhārēṇa, prāṇasya karma; vivēkō rasamūtrapurīṣāṇāṁ pr̥thakkaraṇaṁ, samānasya karma; śukramūtrādīnāṁ vēgakālē karṣaṇamavēgakālē dhāraṇam [3] , apānasya| pañcadhā pravibhakta iti prāṇōdānasamānavyānāpānabhēdēna| anyē tu sāmānyaṁ sarvavāyūnāṁ praspandanādikarma āhuḥ; praspandanaṁ śvāsapraśvāsādibhāvēna calanam, udvahanaṁ dōṣadhātumalānāmita itō nayanaṁ, pūraṇam āhārarasādīnāṁ svēṣu svēṣvāśayēṣu nayanaṁ, vivēkaḥ pūrvavadatrāpi, dhāraṇaṁ śarīrayantrasya [4] | kathamityāha- pañcadhā pravibhakta ityādi||4(1)||
rāgapaktyōjastējōmēdhōṣmakr̥t pittaṁ pañcadhā pravibhaktamagnikarmaṇā’nugrahaṁ karōti;
(2) |4|
prakr̥tisthasya pittasya karma nirdēṣṭumāha- rāgētyādi| kr̥cchabdō rāgādibhiḥ pratyēkaṁ sambadhyatē| rāgakr̥t rasasya rañjakāgnisañjñaṁ pittaṁ; paktikr̥t āhārasya pācakāgnisañjñaṁ pittaṁ; ōjaḥkr̥t sādhakāgnisañjñaṁ pittam, ōjō hr̥disthaṁ sōmātmakaṁ; tējaḥkr̥t ālōcakāgnisañjñaṁ pittaṁ, tējō dr̥ṣṭiḥ, taduktaṁ- “tējō dr̥ṣṭiriti khyātaṁ tējaḥ śukraṁ prakīrtitam”- iti; mēdhākr̥t mēdhā granthākarṣaṇasāmarthyaṁ, tasyā api sādhakāgnisañjñamēva pittaṁ kārakam; ūṣmakr̥t tvaksthaṁ pittaṁ bhrājakāgnisañjñam, ūṣmā śarīrasyauṣṇyam| pañcadhā pravibhaktamiti pācakarañjakasādhakālōcakabhrājakabhēdēna| agnikarmaṇēti rāgādi yadagnikarma tēna kr̥tvētyarthaḥ| anugraham upakāraṁ karōti, ‘śarīrasya’ ityanuvartatē| anyē tu tējaḥśabdēna varṇaprakāśinīṁ tvaksthāṁ dīptimāhuḥ; “idaṁ ca rāgādikarma sāmānyaṁ sarvapittānām” iti vadanti||4(2)||-
sandhisaṁślēṣaṇasnēhanarōpaṇapūraṇabalasthairyakr̥cchlēṣmā [5] pañcadhā pravibhakta udakakarmaṇā’nugrahaṁ karōti ||4||
prakr̥tisthasya kaphasya karma nirdiśannāha- sandhītyādi| kr̥cchabdaḥ sandhisaṁślēṣaṇādibhiḥ pratyēkaṁ sambadhyatē| sandhisaṁślēṣaṇakr̥t sandhibandhanaṁ karōti; yadyapi sandhisaṁślēṣaṇaṁ ślēṣmakarma vraṇapraśnē’pyuktaṁ, tathā’pīha tadvacanaṁ vyānasya sandhicāritvāttasyāpi sandhiślēṣaṇaṁ karmēti śaṅkānirāsārtham| snēhanakr̥diti śarīrasya snaigdhyaṁ karōti, snigdhatvāt| rōpaṇakr̥t vraṇasya, saumyatvāt| pūraṇakr̥t śarīrasya, bahutvānmūrtatvācca| balakr̥t puṣṭikr̥t| sthairyakr̥t trikasandhidārḍhyakr̥t, kaphasthānānāṁ svakāryasāmarthyaṁ vā| pañcadhā pravibhakta āśayabhēdēna āmāśayōraḥśiraḥkaṇṭhasandhibhēdēnētyarthaḥ| anyē tu tasyaiva kaphasyāśayabhēdēna pañcadhābhinnasya ślēṣakaklēdakabōdhakatarpakāvalambakanāmānyāhuḥ [6] | kēcidatra kaphakarmasu br̥ṁhaṇaṁ tarpaṇaṁ ca paṭhanti, vyākhyānayanti ca- “br̥ṁhaṇaḥ śarīrasya, dravatvamūrtimattvābhyāṁ; tarpaṇaḥ tr̥ptijanakō dhātūnām”||4||
rasastuṣṭiṁ prīṇanaṁ raktapuṣṭiṁ ca karōti, raktaṁ varṇaprasādaṁ māṁsapuṣṭiṁ jīvayati ca, māṁsaṁ śarīrapuṣṭiṁ mēdasaśca, mēdaḥ snēhasvēdau dr̥ḍhatvaṁ puṣṭimasthnāṁ ca, asthīni dēhadhāraṇaṁ majjñaḥ puṣṭiṁ ca, majjā snēhaṁ balaṁ śukrapuṣṭiṁ pūraṇamasthnāṁ ca karōti, śukraṁ dhairyaṁ cyavanaṁ [7] prītiṁ dēhabalaṁ harṣaṁ bījārthaṁ ca; (1) |5|
idānīṁ dhātūnāṁ prakr̥tisthānāṁ prākr̥taṁ karma nirdiśannāha- rasastuṣṭimityādi| dhairyaṁ śauryaṁ śūratvam, ata ēva klībā adhīrāḥ; cyavanaṁ śīghratvēnāvasraṁsanaṁ, prītiṁ snēhaṁ pramadāsu; dēhabalamutsāhōpacayalakṣaṇaṁ; harṣaṁ punarutkaṇṭhājananaṁ pramadāsvēva; bījārthaṁ cēti bījaprayōjanaṁ, yathā- r̥tukṣētrādisampattau bījamaṅkurajananaṁ syāt, ēvaṁ śukramapi garbhajanakamityarthaḥ| anyē tvanyathā paṭhanti- “rasaḥ prīṇayati, raktaṁ jīvayati, māṁsaṁ lēpayati, mēdaḥ snēhayati, asthi dhārayati, majjā [8] asthīni pūrayati, śukraṁ dhairyacyavanaṁ prītidēhabalaharṣabījārthakr̥t”- iti; vyākhyānayanti ca- “rasaḥ prīṇayati dhātūṁstarpayatītyarthaḥ, raktaṁ jīvayati prāṇānuvartanaṁ karōti, māṁsaṁ lēpayati asthyādīn, mēdaḥ snēhayati snēhāt, asthi dhārayati śarīramityarthaḥ, dhairyacyavanamiti dhairyasya cyavanaṁ dhairyacyavanaṁ cyutiḥ pramadāsu viṣaya ityarthaḥ”| ayaṁ pāṭhō nibandhakāraiḥ sādaraṁ paṭhitaḥ||5(1)||
purīṣamupastambhaṁ [9] vāyvagnidhāraṇaṁ ca, bastipūraṇaviklēdakr̥nmūtraṁ, svēdaḥ klēdatvaksaukumāryakr̥t; (2) |5|
ata ūrdhvaṁ malānāṁ prākr̥taṁ karmōcyatē- purīṣamityādi| ‘karōti’ ityanuvartatē| upastambhaḥ avaṣṭambhaḥ śarīradhāraṇamityarthaḥ| kēcit purīṣakarmasu prīṇanaṁ paṭhanti, na tvācāryāḥ| kaścidācāryō’trōpastambhaṁ na paṭhati| bastirmūtrāśayaḥ, tasya pūraṇaṁ, viklēdamārdratvaṁ ca, mūtraṁ karōtītyarthaḥ| anyē tu ‘klēdavivēkajaṁ bastipūraṇakr̥nmūtraṁ’ iti paṭhanti, klēdavivēkajamiti klēda ārdratvaṁ sa cāhārasya, tasya vivēkāt [10] pr̥thaktvājjātaṁ mūtram| kēcit ‘svēdaḥ klēdayati’ iti paṭhanti||5(2)||-
raktalakṣaṇamārtavaṁ [11] garbhakr̥cca, garbhō garbhalakṣaṇaṁ, stanyaṁ stanayōrāpīnatvajananaṁ jīvanaṁ cēti ||5||
ata upadhātūnāṁ prākr̥taṁ karmāha- raktalakṣaṇamityādi| raktalakṣaṇamārtavamiti raktasya yāni lakṣaṇāni tānyasya sambhavantīti svabhāvakathanam| garbhakr̥ccēti prākr̥takarmakathanam| cakārādraktakarmāpi jīvanasañjñaṁ karōti| kēcidācāryā “raktalakṣaṇamārtavaṁ yathōktamakr̥trimaṁ garbhakr̥cca” iti paṭhanti, vyākhyānayanti ca- “yathōktamiti ‘śaśāsr̥kpratimaṁ yacca yadvā lākṣārasōpamam’- (śā. a. 2) ityādyuktalakṣaṇam, akr̥trimamiti vātapittakaphairadhaḥprasr̥tairaṣṭadhā”rtavadūṣakairasr̥gdararūpatayā vā kr̥taṁ kr̥trimaṁ, na kr̥trimamakr̥trimaṁ śuddhaṁ, garbhakr̥dbhavatītyarthaḥ”| garbhō garbhalakṣaṇamiti ‘stanayōḥ śyāvamukhatā’ (śā. a. 3) ityādikaṁ ‘karōti’ ityadhyāhāraḥ| stanyamityādi āpīnatvajananaṁ māṁsalatvajananam| jīvanaṁ bālānāṁ, tēṣāmēva strīkṣīrasātmyatvāt||5||
tatra [12] vidhivat parirakṣaṇaṁ kurvīta ||6||
prakr̥tisthānāṁ rakṣaṇamāha- tatrētyādi| tatrēti tēṣu vātādiṣu prakr̥tisthēṣu| vidhivat vidhinōpapannaṁ; vidhiratra svāsthyavr̥ttikaḥ [13] | parirakṣaṇaṁ sarvatō rakṣaṇam||6||
ata ūrdhvamēṣāṁ kṣīṇalakṣaṇaṁ vakṣyāmaḥ |
tatra, vātakṣayē mandacēṣṭatā’lpavāktvamapraharṣō mūḍhasañjñatā ca, pittakṣayē mandōṣmāgnitā niṣprabhatā ca, ślēṣmakṣayē rūkṣatā’ntardāha āmāśayētaraślēṣmāśayaśūnyatā [14] sandhiśaithilyaṁ (tr̥ṣṇā [15] daurbalyaṁ prajāgaraṇaṁ) ca ||7||
ata ūrdhvamityādi| kēcidatra “kṣayaḥ punarēṣāmatisaṁśōdhanātisaṁśamanavēgavidhāraṇāsātmyānnamanastāpavyāyāmānaśanātimaithunairbhavati”- iti kṣayakāraṇāni paṭhanti| “ētāni prāyō vāyōrvr̥ddhiṁ kurvanti, pittakaphayōstu kṣayamiti; tasmādyathāsambhavaṁ kāraṇaṁ jñēyaṁ; nāsmin pāṭhē prayōjanam” ityācāryā vadanti| tatrētyādi| mandacēṣṭatā [16] mandakāyavyāpāratā| apraharṣaḥ atuṣṭiḥ| mūḍhasañjñatā naṣṭasamyagjñānatā| cakārāt prākr̥takarmahānistadvirōdhinaśca ślēṣmaṇaḥ prākr̥takarmavr̥ddhiriti cakāraḥ samuccinōti| ēvaṁ pittādikṣayēṣvapi cakāraprayōjanaṁ jñēyam| pittakṣaya ityādi niṣprabhatā prabhāhāniḥ| ślēṣmakṣaya ityādi āmāśayō yatrāśitādi pacyatē, itarāśayā uraḥkaṇṭhaśiraḥsandhaya iti; ślēṣmāśayaśūnyatēti kr̥tē sati āmāśayō labdhaḥ, yadāmāśayasya pr̥thagupādānaṁ tadviśēṣēṇa śūnyatākhyāpanārtham| kēcicchiraḥśabdaṁ sūtrē paṭhanti, śirasō’pi sarvēndriyādhiṣṭhānatvēna prādhānyāt pr̥thagabhidhānam||7||
tatra svayōnivardhanānyēva [17] pratīkāraḥ ||8||
dōṣakṣayē cikitsāmāha- tatrētyādi| svayōnivardhanānyēvēti śītarūkṣādīni| pratīkāraścikitsitam| na punaḥ svayōnivardhanānyapi kaṭukādīni, kutaḥ? bhūyastvēnānyadōṣaprakōpaṇatvāt| tathācōktaṁ- “vātakṣayē śītarūkṣairna tvanyaiḥ kaṭukādibhiḥ| pittakṣayē’pi kaṭukairuṣṇairna lavaṇādibhiḥ|| kṣīrādibhiḥ snigdhaśītaiḥ pratikuryāt kaphakṣayē”- iti| anyē tu vyākhyānayanti- “svayōnivardhanānīti svayōnirātmahētuḥ; tatra vāyōrvāyurēva hētuḥ, pittasyāgnirhētuḥ, kaphasya hēturāpaḥ; vātakṣayē vātavardhanāni, pittakṣayē pittavardhanāni, kaphakṣayē kaphavardhanāni” iti| “kaphasya yōnī rasaḥ, pittasya raktam” ityaparē; rasaraktayōrapi vardhanānyāpyataijasadravyāṇīti sa ēvārthaḥ||8||
rasakṣayē hr̥tpīḍākampaśūnyatāstr̥ṣṇā ca, śōṇitakṣayē tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṁ ca, māṁsakṣayē sphiggaṇḍauṣṭhōpasthōruvakṣaḥkakṣāpiṇḍikōdaragrīvāśuṣkatā raukṣyatōdau gātrāṇāṁ sadanaṁ dhamanīśaithilyaṁ [18] ca, mēdaḥkṣayē plīhābhivr̥ddhiḥ [19] sandhiśūnyatā raukṣyaṁ mēduramāṁsaprārthanā ca, asthikṣayē’sthiśūlaṁ [20] dantanakhabhaṅgō [21] raukṣyaṁ ca, majjakṣayē’lpaśukratā parvabhēdō’sthinistōdō’sthiśūnyatā ca, śukrakṣayē mēḍhravr̥ṣaṇavēdanā’śaktirmaithunē cirādvā prasēkaḥ prasēkē cālparaktaśukradarśanam [22] ||9||
idānīṁ dhātukṣayaṁ darśayati- rasakṣaya ityādi| hr̥cchabdaḥ pīḍādibhiḥ [23] śūnyatāntaiḥ pratyēkaṁ sambadhyatē| tr̥ṣṇā udakapānābhilāṣaḥ| cakāraprayōjanaṁ [24] dōṣakṣayaprastāvē darśitam| anyē tu “rasakṣayē hr̥tpīḍā kampaḥ śōṣaḥ śūnyatā tr̥ṣṇā ca” iti paṭhanti, vyākhyānayanti ca- “śōṣaḥ śarīrasya, śūnyatā āmāśayasya manasō vā iti,” śēṣaṁ samam| śōṇitakṣaya ityādi| amlaśītaprārthanēti [25] śōṇitakṣayē sati vātavr̥ddhau tatpratyanīkāmlarasēcchā, tathā raktasya dravatvāttatkṣayē tējōvr̥ddhau śītaprārthanā’pi; kēcit “agnīṣōmīyatvādraktasya tattulyaguṇayōramlaśītayōḥ prārthanā [26] ” iti vadanti| cakārādvahnimāndyādikaṁ ca śōṇitavarṇanīyōktamapyatra draṣṭavyam| māṁsakṣaya ityādi| sphicau kaṭiprōthau, gaṇḍau gallau, upasthō yōniḥ, ūruḥ lōkē ‘jaṅghā’ iti vyākhyātā, vakṣaḥ uraḥ, piṇḍikā jānugulphayōrantaraṁ; śuṣkaśabdaḥ sphigādibhiḥ pratyēkaṁ sambadhyatē| mēdaḥkṣaya ityādi raukṣyaṁ tvacaḥ| mēduramāṁsaprārthanēti mēduraṁ snigdhatamaṁ; prārthanā abhilāṣaḥ| asthikṣaya ityādi| raukṣyaṁ dēhasya dantanakhānāṁ ca; dantādīnāmasthimayatvādbhaṅgaḥ [27] | majjakṣaya ityādi| parvabhēdō granthipīḍā; asthiśūnyatā riktatā, pūraṇābhāvāt| śukrakṣaya ityādi| cirādvā prasēka iti kathañcit pravr̥ttāvapi cirakālēna kṣaraṇam; alparaktaśukradarśanaṁ śukraṁ kṣīṇaṁ majjamiśramalparaktatvamr̥cchati; anyē tu “alpaśukraraktadarśanamiti dhātukṣayāt kupitō vāyuḥ śōṇitamalpaśukramiśraṁ niḥsrāvayati” iti; mēḍhravr̥ṣaṇavēdanēti śukrasya sarvaśarīravyāpinō’pi viśēṣādhāratvānmēḍhravr̥ṣaṇanirdēśaḥ||9||
tatrāpi svayōnivardhanadravyōpayōgaḥ (pratīkāraḥ [28] ) ||10||
cikitsāsūtraṁ nirdiśannāha- tatrāpītyādi| svayōnivardhanamapi samānēna dravyēṇa samānaguṇēna samānaguṇabhūyiṣṭhēna vā| samānēna dravyēṇa yathā- raktaṁ raktēna vardhatē, māṁsaṁ māṁsēna, mēdō mēdasā, asthi taruṇasañjñakēnāsthnā, majjā majjñā, śukraṁ śukrēṇa; samānaguṇēna yathā- raktakṣayē taijasadravyōpayōgaḥ, tējōguṇabhūyiṣṭhadravyōpayōgō vētyādi bōddhavyam| dravyagrahaṇamupalakṣaṇaṁ, tēna karmāpi yadyasya dhātōrabhivr̥ddhikaraṁ tatkṣayē tat sēvyam| tatra svayōnidravyāṇāmavabōdhārthaṁ dhātumalōpadhātuṣu ślōkāḥ kathyantē- “yadyapi pañcabhūtānāṁ vācyaḥ pākō dvidhā punaḥ| tathā’pyapāṁ pradhānatvādrasaḥ saumyō’bhidhīyatē|| atiriktā guṇā raktē vahnērmāṁsē tu pārthivāḥ| mēdasyambubhuvōrasthni pr̥thivyanilatējasām|| majjñi śukrē ca sōmasya [29] mūtrē’mbuśikhinōrguṇāḥ| bhuvō viśyārtavē tvagnēḥ prasvēdastanyayōrapām|| iti dhātumalēṣūktā guṇāḥ prādhānyataḥ sthitāḥ| prāyēṇa bhūguṇā garbhē stōkā hyanyaguṇā [30] api”- iti||10||
purīṣakṣayē hr̥dayapārśvapīḍā saśabdasya ca vāyōrūrdhvagamanaṁ kukṣau sañcaraṇaṁ ca, mūtrakṣayē bastitōdō’lpamūtratā ca; atrāpi svayōnivardhanadravyōpayōgaḥ |
svēdakṣayē stabdharōmakūpatā tvakśōṣaḥ sparśavaiguṇyaṁ [31] svēdanāśaśca; tatrābhyaṅgaḥ svēdōpayōgaśca ||11||
malakṣayaṁ darśayannāha- purīṣakṣaya ityādi| kukṣiratra jaṭharam| atra cikitsāsūtraṁ nirdiśannāha- atrāpītyādi| purīṣakṣayē māṣakulmāṣādīnāṁ, mūtrakṣayē ikṣutrapusādīnāmupayōgaḥ| svēdakṣaya ityādi| sparśavaiguṇyaṁ sparśahāniḥ| cikitsāmāha- tatrābhyaṅga ityādi| cakārāt svēdajananakukkuṭavarāhādimāṁsōpayōgaścābhyantarō labhyatē||11||
ārtavakṣayē yathōcitakālādarśanamalpatā vā yōnivēdanā ca; tatra saṁśōdhanamāgnēyānāṁ ca dravyāṇāṁ vidhivadupayōgaḥ |
stanakṣayē stanayōrmlānatā stanyāsambhavō’lpatā vā; tatra ślēṣmavardhanadravyōpayōgaḥ |
garbhakṣayē garbhāspandanamanunnatakukṣitā ca; tatra prāptabastikālāyāḥ kṣīrabastiprayōgō mēdyānnōpayōgaścēti ||12||
upadhātukṣayamāha- ārtavakṣaya ityādi| yathōcitakālō māsi māsi tryahasravaṇam| cikitsāmāha- tatra saṁśōdhanamityādi| “saṁśōdhanamiha [32] sāmānyam” iti kēcit; “saṁśōdhanamiha vamanaṁ na virēkaḥ” ityaparē, kutaḥ? virēcanēna hi pittakṣayādārtavasya kṣaya ēva syāditi, vamanēna tu saumyadhātau nirhr̥tē āgnēyadhātau vr̥ddhē ārtavamāpyāyyatē| āgnēyānāṁ ca dravyāṇāmiti tilamāṣasurāśuktādīnām| stanyakṣaya ityādi| mlānatā anunnatiḥ| cikitsāmāha- tatra ślēṣmavardhanētyādi| stanyasya rasajatvāt| garbhakṣaya ityādi| atra cikitsāmāha- tatrētyādi| prāptabastikālāyā iti prāptāṣṭamamāsāyā ityarthaḥ| mēdyānnōpayōga iti snigdhānnōpayōgaḥ; “mēdhyāṇḍōpayōga” ityanyē paṭhanti, “mēdhyāṇḍāni vr̥ṣyāṇḍāni, bastamatsyāṇḍādīni” iti ca vyākhyānayanti||12||
ata ūrdhvamativr̥ddhānāṁ dōṣadhātumalānāṁ lakṣaṇaṁ vakṣyāmaḥ |
vr̥ddhiḥ punarēṣāṁ svayōnivardhanātyupasēvanādbhavati |
tatra, vātavr̥ddhau vākpāruṣyaṁ [33] kārśyaṁ kārṣṇyaṁ gātrasphuraṇamuṣṇakāmi(ma)tā nidrānāśō’lpabalatvaṁ [34] gāḍhavarcastvaṁ ca; pittavr̥ddhau pītāvabhāsatā santāpaḥ śītakāmitvamalpanidratā mūrcchā balahānirindriyadaurbalyaṁ pītaviṇmūtranētratvaṁ ca; ślēṣmavr̥ddhau śauklyaṁ śaityaṁ sthairyaṁ gauravamavasādastandrā nidrā sandhiviślēṣaśca ||13||
ata ūrdhvamityādi| gāḍhavarcastvaṁ cēti cakārō’yaṁ vātasya prakr̥tikarmaṇō’tiśayatvaṁ samuccinōti, ēvaṁ pittakapharasādiṣvapi cakāraprayōjanam| vākpāruṣyaṁ vacanakārkaśyaṁ, kēcidvākpāruṣyaṁ na paṭhanti| kārśyaṁ māṁsakṣayaḥ| kārṣṇyaṁ kr̥ṣṇatvaṁ śarīrē| alpabalatvam utsāhahāniḥ| pittavr̥ddhāvityādi| alpanidratā kiñcit snigdhatvāt pittasya| mūrcchā sarvēndriyaśaktēstiraskāraḥ| balahāniriha ōjōhāniḥ, santāpāttatkṣayōpapattēḥ| ślēṣmavr̥ddhāvityādi| śauklyaśaityē tvagādīnām| sthairyaṁ gātrāṇāṁ stambhaḥ| avasādaḥ cittadēhayōrglāniḥ| tandrā nidrābhēdaḥ| sandhiviślēṣaḥ atyantavr̥ddhēna viṣa(gha)ṭanam| ‘sandhyasthiśliṣṭatā [35] ’ iti kēcit paṭhanti, vyākhyānayanti ca- ‘kaphōpacitatvāt suṣṭhu saṅghaṭṭanaṁ sandhyasthnōrbhavati’ iti| ‘adhyasthiśliṣṭatā’ iti kvacit pāṭhaḥ||13||
rasō’tivr̥ddhō hr̥dayōtklēdaṁ prasēkaṁ cāpādayati; raktaṁ raktāṅgākṣitāṁ sirāpūrṇatvaṁ ca; māṁsaṁ sphiggaṇḍauṣṭhōpasthōrubāhujaṅghāsu vr̥ddhiṁ gurugātratāṁ ca; mēdaḥsnigdhāṅgatāmudarapārśvavr̥ddhiṁ kāsaśvāsādīn daurgandhyaṁ ca; asthyadhyasthīnyadhidantāṁśca; majjā sarvāṅganētragauravaṁ ca; śukraṁ śukrāśmarīmatiprādurbhāvaṁ ca ||14||
dhātūnāmativr̥ddhiṁ darśayannāha- rasō’tivr̥ddha ityādi| hr̥dayōtklēdaṁ hr̥llāsam, anyē chardimāhuḥ| prasēkaṁ lālāsrāvamityarthaḥ| āpādayatīti kriyāpadaṁ garbhō jaṭharābhivr̥ddhiṁ svēdaṁ cētyantaṁ yāvadanuvartatē| adhyasthīni adhikāsthīni| adhidantāniti adhikān dantān; cakārāt kēśanakhayōrapyativr̥ddhirjñēyā| śukramityādi|- atiprādurbhāvamiti atipravr̥ttiṁ śukrasyētyarthaḥ||14||
purīṣamāṭōpaṁ [36] kukṣau śūlaṁ ca; mūtraṁ mūtravr̥ddhiṁ [37] muhurmuhuḥ pravr̥ttiṁ bastitōdamādhmānaṁ ca; svēdastvacō daurgandhyaṁ kaṇḍūṁ ca ||15||
malānāmativr̥ddhiṁ darśayannāha- purīṣamityādi| āṭōpam ādhmānaṁ, kṣōbhamityanyē| mūtramityādi| ādhmānamiha bastērēva||15||
ārtavamaṅgamardamatipravr̥ttiṁ [38] daurgandhyaṁ ca; stanyaṁ stanayōrāpīnatvaṁ muhurmuhuḥ pravr̥ttiṁ tōdaṁ ca; garbhō jaṭharābhivr̥ddhiṁ svēdaṁ ca ||16||
upadhātūnāmativr̥ddhiṁ nirdēṣṭumāha- ārtavamityādi| aṅgamardō vēdanāviśēṣaḥ| daurgandhyaṁ pittadharmatvādārtavasya, taduktaṁ- “īṣatkr̥ṣṇaṁ vigandhaṁ ca” (śā. a. 3) ityādi; “daurbalyam” ityanyē paṭhanti| cakārādraktagulmādīnapi||16||
tēṣāṁ yathāsvaṁ saṁśōdhanaṁ kṣapaṇaṁ ca kṣayādaviruddhaiḥ [39] kriyāviśēṣaiḥ prakurvīta ||17||
cikitsāsūtraṁ nirdiśannāha- tēṣāmityādi| yathāsvaṁ yadyadasyātmīyam| kṣapaṇamatra saṁśamanam| kṣayādaviruddhaiḥ kriyāviśēṣairiti tantrāntarōktaiḥ| tathāhi- “chinnāviśvādibhirvāyuṁ, pittaṁ kṣaudraphalatrikaiḥ| kaphaṁ guḍārdrakādyaiśca jayēddōṣāvirōdhibhiḥ”- iti| anyē tvēvaṁ paṭhanti- “tēṣāṁ kṣapaṇamaviruddhaiḥ kriyāviśēṣaiḥ kurvīta”| kriyāviśēṣairiti kriyāḥ saṁśōdhanasaṁśamanāhārācārākhyāḥ||17||
pūrvaḥ pūrvō’tivr̥ddhatvādvardhayēddhi paraṁ param |
tasmādatipravr̥ddhānāṁ dhātūnāṁ hrāsanaṁ hitam ||18||
svayaṁ tāvadētē vr̥ddhā anarthakarāḥ, paramparayā vardhitāḥ pūrvaparadhātubhirapi mahānarthakāriṇa iti darśayannāha- pūrva ityādi| hi yasmādarthē| hrāsanamiti hrāsō’tra vr̥ddhērhāniḥ| pūrvaḥ pūrva ityādyupalakṣaṇam| tēna parō’pi vr̥ddhaḥ pratisrōtaḥsaridbandhaḥ(dha)sthalāplāvananyāyēna pūrvaṁ vardhayati, tathā parō’pi kṣīṇaḥ pūrvaṁ kṣapayati, tathā pūrvaḥ kṣīṇaḥ paraṁ kṣapayati| kēcidamuṁ ślōkaṁ ‘yasya dhātukṣayādvāyuḥ’ ityādiślōkasyāgrē paṭhanti||18||
balalakṣaṇaṁ [40] balakṣayalakṣaṇaṁ cāta ūrdhvamupadēkṣyāmaḥ |
tatra rasādīnāṁ śukrāntānāṁ dhātūnāṁ yat paraṁ tējastat khalvōjastadēva balamityucyatē, svaśāstrasiddhāntāt ||19||
balalakṣaṇamityādi| param utkr̥ṣṭaṁ, tēja iva tējaḥ, tējō ghr̥taṁ vā, ghr̥taṁ yathā kr̥tsnakṣīrasnēhastathaivaujō’pi kr̥tsnadhātusnēha ityarthaḥ; “yat paraṁ tēja iti yadutkr̥ṣṭaṁ sāraḥ” ityanyē vyākhyānayanti| tat khalvōjastadēva balamityucyata iti, iyaṁ cābhēdōktiścikitsaikyārthā, paramārthastu balaujasōrbhēda ēva; yathā bhēdastaducyatē- sarvadhātusnēhabhūtasyōpacayalakṣaṇasyaujasō rūparasau vīryādi ca vidyatē, balasya tu bhāraharaṇādiśaktigamyasya rasavīryavarṇādiguṇā na vidyantē, atō’nayōrbhēdō’styēvēti; tathāca balaujasōrbhēdō vēdōtpattāvadhyāyē uktaḥ- “prāṇināṁ punarmūlamāhārō balavarṇaujasāṁ ca”(sū. a. 1)- iti| tantrāntarē tu ōjaḥśabdēna rasō’pyucyatē, jīvaśōṇitamapyōjaḥśabdēnāmananti kēcit, ūṣmāṇamapyōjaḥśabdēnāparē vadanti||19||
tatra balēna sthirōpacitamāṁsatā [41] sarvacēṣṭāsvapratighātaḥ svaravarṇaprasādō bāhyānāmābhyantarāṇāṁ ca karaṇānāmātmakāryapratipattirbhavati ||20||
balasya prākr̥taṁ karma nirdēṣṭumāha- tatra balēnētyādi| sthirōpacitamāṁsatēti ētatsarvadhātusārōpacayalakṣaṇēna balēna; sarvacēṣṭāsviti kāyavāṅmanōvyāpārēṣu, apratighātō’pratihataśaktitvam, ētadbhāraharaṇādiśaktilakṣaṇēna balēna; svaravarṇaprasāda iti prasādō nairmalyam; ētadubhayātmakēna balēna| bāhyānāmityādi|- bāhyānāṁ karaṇānāṁ karmēndriyāṇām, ābhyantarāṇāṁ buddhīndriyāṇām| ātmakāryapratipattiḥ svakīyakāryāvabōdhō bhavati; ‘pratipattiratrānuṣṭhānam’ ityanyē| tatra bāhyānāṁ vākpāṇipādapāyūpasthānāmātmakāryāṇi vacanādānagamanavisargānandanāni, ābhyantarāṇāṁ karaṇānāṁ śrōtratvakcakṣurjihvānāsikānāmātmakāryāṇi śabdasparśarūparasagandhagrahaṇāni; ētadapyubhayātmakēna balēna| kēcidanyathā vyākhyānayanti- “bāhyānāṁ śrōtratvakcakṣurjihvānāsikāvākpāṇipādapāyūpasthānām, ābhyantarāṇāṁ manōbuddhiprabhr̥tīnāṁ, balakāraṇabhūtamōjaḥ” iti||20||
bhavanti cātra-
ōjaḥ [42] sōmātmakaṁ snigdhaṁ śuklaṁ śītaṁ sthiraṁ saram |
viviktaṁ mr̥du mr̥tsnaṁ ca prāṇāyatanamuttamam ||21||
dēhaḥ sāvayavastēna vyāptō bhavati dēhinaḥ |
tadabhāvācca śīryantē śarīrāṇi śarīriṇām ||22||
balacikitsārthaṁ svacikitsārthamapi ca prākr̥tairguṇairnirdiśannāha- ōja ityādi| sōmātmakaṁ saumyam| snigdhaṁ snēhaguṇayuktam| śuklam atiśvētam| yattu carakē- “hr̥di tiṣṭhati yacchuddhaṁ raktamīṣat sapītakam” (sū. a. 17)- ityādiślōkēnaujastrivarṇaṁ paṭhitaṁ; tatra hi śuddhagrahaṇēna śuklamuktam, ataḥ śuklapītaraktavarṇāstraya uktāḥ; atrāpyōjasastraya ēva varṇāḥ, yēnātra ‘śukramōjaḥ’ iti paṭhitaṁ, śukraujasōrabhēdādaparaṁ tailakṣaudravarṇadvayaṁ prāptaṁ; tēnātrāpi śuklaraktapītavarṇāstraya ēvaujasa uktāḥ; na cātra śukraujasōrbhēdō’ṅgīkartavyaḥ, tasmin satyaṣṭadhātutvaṁ syāt, tasmādrasādidhātusnēhaparamparāhaitukaḥ snēhaḥ śukraṁ, kṣīrasthaghr̥tamivābhinnamōjaḥ śukrēṇa| aparē śuklasthānē śukraṁ paṭhanti; yuktaṁ caitat śukravarṇēnaivaujōvarṇānāṁ nirdiṣṭatvāt| śītaṁ śītavīryam| sthiraṁ śarīrāvayavasthairyakāri| saraṁ prasaraṇaśīlam| anyē tvatra ‘rasaṁ’ iti paṭhanti, ‘pradhānarasakalpanayā madhuram’ iti vyākhyānayanti ca| viviktaṁ śrēṣṭhairguṇairyuktam; anyē punarviviktaṁ pratyagramāhuḥ, tataḥ pratyagrairēvānnādibhirāpyāyanam| mr̥du kōmalam| mr̥tsnaṁ cēti picchilam| cakārādgurvādayō guṇā anuktāḥ samuccīyantē| prāṇānām agnīṣōmādīnām, āyatanaṁ sthānam| uttamaṁ śrēṣṭham| tatra balēnētyādivākyēna sthitau hētutvaṁ pratipādayati| dēha ityādi| tēna ōjasā| bhavati utpadyatē| idānīṁ pralayē tasyaiva hētutvaṁ darśayannāha- tadabhāvādityādi| śīryantē vinaśyanti| ayaṁ pāṭhō’bhāvāt samagrō na likhitaḥ||21-22||
abhighātātkṣayātkōpācchōkāddhyānācchramātkṣudhaḥ [43] |
ōjaḥ saṅkṣīyatē hyēbhyō dhātugrahaṇaniḥsr̥tam |
tējaḥ samīritaṁ tasmādvisraṁsayati dēhinaḥ ||23||
idānīmabhighātādibhirhētubhirōjasaḥ kṣayaṁ nirdiśannāha- abhighātādityādi| ēbhyō’bhighātādihētubhyaḥ| dhātugrahaṇamiti dhātavō gr̥hyantē yaistāni dhātugrahaṇāni dhātuvāhīni srōtāṁsi, tēbhyō niḥsr̥taṁ nirgataṁ sarvadhātusnēhaparamparārūpēṇa; athavā dhātugrahaṇaṁ hr̥dayaṁ dhātuvahasrōtasāṁ sthānatvāt, tasmāddhr̥dayānniḥsr̥taṁ, srōtasō mukhairēva| anyaistu hr̥dayamēva dhātūn gr̥hṇātīti dhātugrahaṇaśabdēnaiva hr̥dayamucyatē| tējaḥ pittaṁ, samīritaṁ samyakprēritaṁ ‘vātēna’ iti śēṣaḥ| tasmāt hr̥dayāt; visraṁsayati cyāvayati||23||
tasya [44] visraṁsō vyāpat kṣaya iti (trayō dōṣāḥ;) liṅgāni [45] bhavanti sandhiviślēṣō gātrāṇāṁ sadanaṁ dōṣacyavanaṁ kriyāsannirōdhaśca visraṁsē, stabdhagurugātratā vātaśōphō varṇabhēdō glānistandrā nidrā ca vyāpannē, mūrcchā māṁsakṣayō mōhaḥ pralāpō maraṇamiti ca kṣayē ||24||
tasyaujasaḥ kṣayabhēdān sādhyāsādhyajñānārthaṁ svalakṣaṇairnirdiśannāha- tasyētyādi| visraṁsaḥ sthānāccyutirabhighātādibhirēva| vyāpadanyathāpattiḥ, sā duṣṭadōṣadūṣyasaṁsargāt| kṣayaḥ svapramāṇāt śōkadhyānakṣayādibhiḥ| ‘liṅgāni vyāpannasya bhavanti’ iti kēcit paṭhanti; vyāpannasya dōṣadūṣitasya| visraṁsādīnāmōjaḥkṣayabhēdānāṁ kiṁ liṅgamityāha- sandhiviślēṣa ityādi| sandhiviślēṣaḥ sandhīnāṁ viṣaṭanam| dōṣacyavanaṁ svasthānādvātādīnāṁ bhraṁśaḥ, anyē “dōṣaiḥ kr̥tvā cyavanamōjasaḥ” iti vadanti, “dōṣacyavanaṁ malānāṁ cyavanam” iti kēcit| kriyāṇāṁ kāyavāṅmānasīnāṁ sannirōdhaḥ; “kriyāśabdāgrē nañ luptō draṣṭavyaḥ; nañ īṣadarthē, tēna kriyāṇāmīṣatsannirōdhaḥ” ityanyē vyācakṣatē| cakārādbalasya prākr̥takarmahāniḥ| ēvaṁ vyāpattau kṣayē ca cakāraprayōjanam| ētāni visraṁsē liṅgāni bhavantīti yōjyam| stabdhagurugātratēti stabdhagurubhyāṁ gātratēti sambadhyatē; stabdhagātratā jānvādēranamanasāmarthyam| varṇabhēdō gaurādivarṇānyatvam| glāniḥ apraharṣaḥ| tandrā indriyārthē’karmaṇyatā| vyāpannē ‘liṅgāni bhavanti’ ityanuvartatē| mūrcchētyādi mūrcchā vijñānēndriyanirōdhaḥ| mōhaḥ vaicittyam| pralāpaḥ asambaddhabhāṣaṇam| kṣayē ‘liṅgāni bhavanti’ ityanuvartatē||24||
bhavanti cātra-
trayō dōṣā balasyōktā vyāpadvisraṁsanakṣayāḥ |
viślēṣasādau gātrāṇāṁ dōṣavisraṁsanaṁ śramaḥ ||25||
aprācuryaṁ kriyāṇāṁ ca balavisraṁsalakṣaṇam [46] |
gurutvaṁ stabdhatā’ṅgēṣu glānirvarṇasya bhēdanam ||26||
tandrā nidrā vātaśōphō balavyāpadi lakṣaṇam |
mūrcchā māṁsakṣayō mōhaḥ pralāpō’jñānamēva ca ||27||
pūrvōktāni ca liṅgāni maraṇaṁ ca balakṣayē |28|
gadyōktamēvārthaṁ ślōkairāha- bhavanti cātrētyādi| trayō dōṣāḥ tisrō vikr̥tayaḥ| viślēṣasādāvityādi| pūrvōktāni visraṁsavyāpadōrliṅgānītyarthaḥ||25-27||
tatra visraṁsē vyāpannē ca kriyāviśēṣairaviruddhairbalamāpyāyayēt [47] ; itaraṁ [48] tu mūḍhasañjñaṁ varjayēt ||28||
cikitsāsūtraṁ nirdiśannāha- tatrētyādi| kriyāviśēṣai rasāyanavājīkaraṇādibhiḥ| aviruddhairagnyādyaviruddhaiḥ| balaṁ śaktyupacayalakṣaṇam| āpyāyayēt vardhayēt| kṣīṇasyāvasthāyāṁ varjanamāha- itaraṁ tvityādi|- itaraṁ kṣīṇaṁ varjayēt| kimbhūtaṁ varjayēdityāha- mūḍhasañjñaṁ naṣṭasañjñaṁ, pūrvaṁ mōhasyōktatvāt| mūḍhasañjñaṁ varjayēdityētasyāgrē kēcit suśrutādhyāyinaḥ “tējō’pyāgnēyaṁ kramaśaḥ pacyamānānāṁ dhātūnāmabhinirvr̥ttamantarasthaṁ snēhajātaṁ vasākhyaṁ strīṇāṁ viśēṣatō
bhavati; tēna mārdavasaukumāryamr̥dvalparōmatōtsāhadr̥ṣṭisthitipaktikāntidīptayō bhavanti; tat kaṣāyatiktaguruśītarūkṣaviṣṭambhivēgavighātavyavāyavyāyāmavyādhikarṣaṇai(rśanai)śca vikriyatē; tasyāpi pāruṣyavarṇabhēdatōdaniṣprabhatvāni visraṁsanē bhavanti, kārśyaṁ mandāgnitā’dhastiryakca pracyutirvyāpattau, dr̥ṣṭyagnibalahānyanilaprakōpamaraṇāni kṣayē| tatra snēhapānābhyaṅgapradēhapariṣēkasnigdhalaghvannāni kṣayādr̥tē vidadhīta” ityamuṁ paṭhanti| ayaṁ tu pāṭhō na paṭhanīyaḥ, kutaḥ? nibandhakārairanārṣīkr̥tatvāt [49] ||28||
dōṣadhātumalakṣīṇō balakṣīṇō’pi vā naraḥ |
svayōnivardhanaṁ yattadannapānaṁ prakāṅkṣati ||29||
yadyadāhārajātaṁ tu kṣīṇaḥ prārthayatē naraḥ |
tasya tasya sa lābhē tu taṁ taṁ kṣayamapōhati ||30||
yasya [50] dhātukṣayādvāyuḥ sañjñāṁ karma ca nāśayēt |
prakṣīṇaṁ ca balaṁ yasya nāsau śakyaścikitsitum ||31||
dōṣētyādi| svayōnivardhanam ātmakāraṇavardhanaṁ yadannapānaṁ tadabhilaṣati| yadyadityādi| āhārajātamāhārasamūham| kēcidācāryā amuṁ ślōkaṁ na paṭhanti| kēcit suśrutādhyāyinō’tra dōṣadhātvādikṣayavināśārthaṁ dēyamannādikaṁ paṭhanti- “yavān mudgān harēṇūṁśca rūkṣaṁ ca laghubhōjanam| kaṣāyakaṭutiktaṁ ca vātakṣīṇō’bhikāṅkṣati|| tilamāṣakulatthādi piṣṭānnavikr̥tiṁ tathā| mastuśuktāmlatakrāṇi pittakṣīṇastathā dadhi|| māṁsaṁ māhiṣavārāhamājaṁ guḍagurūṇi ca| ślēṣmakṣīṇō’bhilaṣati kṣīrasvapnadadhīni ca|| ikṣuṁ māṁsarasaṁ manthaṁ madhu sarpirguḍōdakam| asr̥ṅmāṁsaṁ yavāgūṁ ca rasakṣīṇō’bhivāñchati|| drākṣādāḍimayuktāni sasnēhalavaṇāni ca| raktasiddhāni māṁsāni raktakṣīṇō’bhikāṅkṣati||amlāni dadhisiddhāni tathā ṣāḍavakāni ca| sthūlakravyādamāṁsāni māṁsakṣīṇō’bhikāṅkṣati|| mēdaḥsiddhāni māṁsāni grāmyānūpaudakāni ca| sakṣārāṇi viśēṣēṇa mēdaḥkṣīṇō’bhikāṅkṣati|| rasān susiddhān sāsthīni māṁsānīhābhikāṅkṣati|| asthikṣīṇastathā māṁsaṁ majjāsthisnēhasaṁyutam| svādvamlasaṁyutaṁ dravyaṁ majjakṣīṇō’bhikāṅkṣati|| mayūrakukkuṭāṇḍāni haṁsasārasayōstathā| grāmyānūpaudakānāṁ ca śukrakṣīṇō’bhikāṅkṣati|| yavāni yavakānnāni śākāni vividhāni ca| māyūraṁ māṣayūṣaṁ ca varcaḥkṣīṇō’bhikāṅkṣati|| pēyāmikṣurasaṁ kṣīraṁ saguḍaṁ badarōdakam| mūtrakṣīṇō’bhilaṣati trapusairvārukāṇi ca|| abhyaṅgaṁ mardanaṁ madyaṁ nivātaśayanāsanam| guruprāvaraṇaṁ caiva svēdakṣīṇō’bhikāṅkṣati|| kaṭvamlalavaṇāmlāni vidāhīni gurūṇi ca| phalaśākānupānāni strī vāñchatyārtavakṣayē|| mr̥gājāvivarāhāṇāṁ garbhān vāñchati saṁskr̥tān| vasāśūlyaprakārādīn bhōktuṁ garbhaparikṣayē|| surāśālyannamāṁsāni gōkṣīraṁ śarkarāṁ tathā| āsavaṁ dadhi hr̥dyāni kṣayē stanyasya vāñchati” iti| yasyētyādi ‘itaraṁ tu mūḍhasañjñaṁ varjayēt’ ityanēnaivāsyōktārthatvāt kēcidamuṁ na paṭhanti, “sarvadhātukṣayavyāpakatvādbhinnaviṣayō’yaṁ ślōkaḥ,tasmāt paṭhanīyaḥ” ityanyē||29-31||
rasanimittamēva sthaulyaṁ kārśyaṁ ca |
tatra ślēṣmalāhārasēvinō’dhyaśanaśīlasyāvyāyāminō divāsvapnaratasya cāma ēvānnarasō [51] madhurataraśca śarīramanukrāmannatisnēhānmēdō janayati, tadatisthaulyamāpādayati [52] ; tamatisthūlaṁ kṣudraśvāsapipāsākṣutsvapnasvēdagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramēvāviśanti, saukumāryānmēdasaḥ sarvakriyāsvasamarthaḥ, kaphamēdōniruddhamārgatvāccālpavyavāyō bhavati, āvr̥tamārgatvādēva śēṣā dhātavō nāpyāyantē’tyarthamatō’lpaprāṇō bhavati, pramēhapiḍakājvarabhagandaravidradhivātavikārāṇāmanyatamaṁ prāpya pañcatvamupayāti, sarva ēva cāsya rōgā balavantō [53] bhavantyāvr̥tamārgatvāt srōtasām; atastasyōtpattihētuṁ pariharēt |
utpannē tu śilājatuguggulugōmūtratriphalālōharajōrasāñjanamadhuyavamudgakōradūṣakaśyāmākōddālakādīnāṁ virūkṣaṇacchēdanīyānāṁ ca dravyāṇāṁ vidhivadupayōgō vyāyāmō lēkhanabastyupayōgaścēti [54] ||32||
rasanimittamityādi| cakārānmadhyaśarīratvaṁ ca| nanu, kathamēka ēva rasaḥ parasparaviruddhayōḥ sthaulyakārśyayōrhēturityata āha- tatrētyādi| adhyaśanaśīlasyēti ajīrṇabhōjanābhyāsina ityarthaḥ| nanu, mēdasvinō dīptāgnitvē kathamāmarasasambhavaḥ? naiṣa dōṣaḥ, dīptāgnitvē’pyadhyaśanaśīlatvādāmarasō bhavati| tarhi kathaṁ rasaścāpakvaścēti virōdhanīyavacanaṁ? na hyapakvō rasavyapadēśaṁ labhatē| satyaṁ, jāṭharēṇāgninā rasaḥ kadbhāvēna [55] kr̥ta ēva, kintu dhātvagnibhirapākādāma ityucyatē| śarīramanukrāmanniti taṁ taṁ śarīradēśaṁ gacchannityarthaḥ| mēdō janayati viśiṣṭāhāravaśādadr̥ṣṭavaśānmēdasā”vr̥tamārgatvācca dhātudvayamatikramya mēda ēva vardhayati| tadatisthaulyamāpādayatīti tat mēdaḥ, āpādayati karōti| krathanaṁ svapataḥ kaṇṭhē ghurghurāravaḥ, anyē tvakasmācchvāsāvarōdhaṁ krathanaṁ kathayanti| gadgadatvam avyaktavacanatvam| kṣipramēvāviśantīti ētē kṣudraśvāsādayastaṁ sthūlaṁ śīghramēva praviśanti, sthūlē bhavantītyarthaḥ| śēṣadhātavō nāpyāyantē’tyarthamiti śēṣadhātavō’sthyādayaḥ| vātavikārāṇāmiti atra vātavikārā mēdaḥkr̥tamārgāvaraṇanimittavātakōpavikārā ityarthaḥ| anyatamamiti ēṣāmēkam| pañcatvamupayātīti maraṇamupagacchatītyarthaḥ| tasya cikitsāmāha- ata ityādi| tasyōtpattihētuṁ pariharēdityanēna nidānaparivarjanēnānāgatābādhacikitsōktā| utpannē jātē punarityarthaḥ| uddālakādīnāmiti uddālaka āraṇyakōdravaḥ, ādiśabdādgavēdhukādīnāṁ grahaṇam| virūkṣaṇacchēdanīyānāmiti virūkṣaṇaṁ mēdōghnaṁ, chēdanīyaṁ srōtōviśōdhanīyam| vidhivadupayōga iti puruṣāgnibalamātrāvidhānavānupayōga ityarthaḥ| lēkhanabastyupayōgaśca lēkhanabastayaścikitsitōktāḥ, “triphalākvāthagōmūtrakṣaudrakṣārasamanvitāḥ| ūṣakādipratīvāpā bastayō lēkhanāḥ smr̥tāḥ” (ci. a. 38) iti| cakārādvyāyāmādayō mr̥davaḥ kāṅkāyanasaktavaśca||32||
tatra punarvātalāhārasēvinō’tivyāyāmavyavāyādhyayanabhayaśōkadhyānarātrijāgaraṇapipāsākṣu tkaṣāyālpāśanaprabhr̥tibhirupaśōṣitō rasadhātuḥ śarīramananukrāmannalpatvānna prīṇāti, tasmādatikārśyaṁ bhavati; sō’tikr̥śaḥ kṣutpipāsāśītōṣṇavātavarṣabhārādānēṣvasahiṣṇurvātarōgaprāyō’lpaprāṇaśca kriyāsu bhavati, śvāsakāsaśōṣaplīhōdarāgnisādagulmaraktapittānāmanyatamamāsādya maraṇamupayāti, sarva ēva cāsya rōgā balavantō bhavantyalpaprāṇatvāt; atastasyōtpattihētuṁ pariharēt |
utpannē tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṁ madhurāṇāmanyāsāṁ cauṣadhīnāmupayōgaḥ, kṣīradadhighr̥tamāṁsaśāliṣaṣṭikayavagōdhūmānāṁ ca, divāsvapnabrahmacaryāvyāyāmabr̥ṁhaṇabastyupayōgaścēti ||33||
kārśyanimittaṁ darśayannāha- tatra punarityādi| vātalāhārasēvina iti atirūkṣāhārasēvinaḥ| ativyāyāmētyādi atiśabdō vyāyāmādibhiḥ pratyēkaṁ sambadhyatē| kṣayō dhātukṣayaḥ| upaśōṣitō rasadhāturiti atirūkṣīkr̥tō’lpīkr̥taśca| na prīṇāti īṣatprīṇātītyarthaḥ| sō’tikr̥śa ityanēnōpacayalakṣaṇabalābhāvō darśitaḥ| vātarōgaprāya iti vātarōgabahula ityarthaḥ| alpaprāṇaśca kriyāsu bhavatīti kāyavāṅmānasīṣu kriyāsu viṣayē’lpaśaktirbhavati; ētēna śaktilakṣaṇabalābhāva uktaḥ| śōṣō rājayakṣmā| utpannē tviti ‘kārśyē’ iti śēṣaḥ| payasyā arkapuṣpī, kṣīrakākōlītyanyē| vidārigandhā śāliparṇī| madhurāṇāmityādi r̥ddhivr̥ddhijīvakādīnām| br̥ṁhaṇabastyupayōgaścēti br̥ṁhaṇabastiryathā- “br̥ṁhaṇadravyaniḥkvāthāstatkalkasnēhasaindhavaiḥ| yuktāḥ khajapramathitā bastayō br̥ṁhaṇā matāḥ” (ci. a. 38) iti| cakārāt santarpaṇamapi laghu kartavyam||33||
yaḥ punarubhayasādhāraṇānyāsēvēta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinōti, samadhātutvānmadhyaśarīrō bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītōṣṇavātavarṣātapasahō balavāṁśca, sa satatamanupālayitavya iti ||34||
madhyaśarīrasya hētuṁ guṇaṁ ca darśayannāha- yaḥ punarityādi| ubhayasādhāraṇāni nātisnigdharūkṣāṇi svāsthyavr̥ttikāni dravyāṇi ṣaṣṭikaraktaśālilāvakadāḍimataṇḍulīyakādīni, adivāsvapnādīṁśca vihāraviśēṣān| sarvakriyāsu samartha ityanēnaiva balavattvē labdhē
yadbalavāṁścēti karōti tanniyamārtham; ēvambhūtāhāravihārasēvī balavānēva bhavatītyarthaḥ| madhyaśarīrasya cikitsāmāha- sa satatamanupālayitavya iti ‘svasthavr̥ttānuvartanēna’ iti śēṣaḥ||34||
bhavanti cātra-
atyantagarhitāvētau [56] sadā sthūlakr̥śau narau |
śrēṣṭhō madhyaśarīrastu kr̥śaḥ sthūlāttu pūjitaḥ ||35||
tayōrdvayōḥ kr̥śasthūlayōrdōṣavattvē’pi sthūlasyātiśayadōṣavattvaṁ madhyaśarīrasya ca guṇavattvaṁ nirdēṣṭumāha- atyantētyādi| kutaḥ sthūlāt kr̥śaḥ pūjitaḥ? ucyatē- sthūlasya kriyā’kṣamatvāt, atiśayēna vyādhipīḍanācca||35||
dōṣaḥ prakupitō dhātūn kṣapayatyātmatējasā |
iddhaḥ svatējasā vahnirukhāgatamivōdakam ||36||
dōṣādīnāṁ kṣayavr̥ddhyōrēkatra nirdēśē’pi dōṣā ēva dhātumalakṣayahētava iti darśayannāha- dōṣa ityādi| dōṣō vātapittakaphasañjñakaḥ| dhātūniti dhātuśabdō’tra samēṣu malēṣvapi vartatē, dēhadhāraṇasāmarthyāt; athavā dhātuśabda upalakṣaṇam, tēna malā api prāpyantē| kṣapayatīti kṣapaṇaṁ vr̥ddhisāmyayōḥ hrāsaḥ| ātmatējasēti ātmaśaktyā| tatra pittaṁ kaṭukōṣṇatvāddhātūn kṣapayati, vāyuśca śōṣaṇahētutvāt, kaphō mārgāvarōdhakatvāt| iddhō dīptaḥ| ukhāgataṁ sthālīstham||36||
vailakṣaṇyāccharīrāṇāmasthāyitvāttathaiva [57] ca |
dōṣadhātumalānāṁ tu parimāṇaṁ na vidyatē ||37||
kutaḥ punaḥ palādimānēna dōṣādīnāṁ pramāṇaṁ na nirdiṣṭamityāha- vailakṣaṇyādityādi|- vailakṣaṇyāt visadr̥śatvāt, visadr̥śatvaṁ cātra vātādiprakr̥ti-rasaraktādisāra-saṁhanana-dīrghahrasvādikāyabhēdēna| asthāyitvāttathaiva cēti anavasthitatvāt, asthāyitvaṁ ca dvividhē’pi kālē nityaga āvasthikē’pi ca; tatra nityagē prātaḥ ślēṣmōpacīyatē madhyāhnē pittamityādi pratyahamāhnikacayādibhēdēna, tathā hēmantē ślēṣmōpacīyatē grīṣmē vāyurityādyārtavacayādibhēdēna; tathā”vasthikē’pi bālyē ślēṣmā’bhivardhatē, tathā bālyē śukrālpatvaṁ kanyānāmārtavastanyābhāvaḥ, yuvasu pittamupacīyatē, vr̥ddhēṣu vāyurityādinā| parimāṇamiti svaṁ sarvatō mānaṁ na vidyatē; tēna [58] kasyacidēva kvacidēva mānaṁ kartuṁ śakyatē, na sarvata ityarthaḥ||37||
ēṣāṁ samatvaṁ yaccāpi bhiṣagbhiravadhāryatē [59] |
na tat svāsthyādr̥tē śakyaṁ vaktumanyēna hētunā ||38||
nanu, dōṣādīnāṁ palādimānaṁ vinā sāmyaṁ kathaṁ jñēyamityāha- ēṣāmityādi| ēṣāmiti dōṣadhātumalānām| na tadityādi tadapi sāmyaṁ; svāsthyādr̥tē svāsthyaṁ vinā||38||
dōṣādīnāṁ tvasamatāmanumānēna lakṣayēt |
aprasannēndriyaṁ [60] vīkṣya puruṣaṁ kuśalō bhiṣak ||39||
kṣayavr̥ddhibhēdātmakamasāmyamanumānēna darśayannāha- dōṣādīnāmityādi| dōṣādīnāmiti ādiśabdēna dhātumalānāṁ grahaṇam| tuśabdaḥ punararthē| asamatāṁ kṣayavr̥ddhilakṣaṇām| ‘aprasannēndriyaṁ’ ityatra ‘aprasannatanuṁ’ iti yanna kr̥taṁ tadindriyādhiṣṭhānānāmindriyaśaktīnāṁ ca prasannatvaṁ bōdhayati| vīkṣyētyanēna varṇādi sarvamuktaṁ bhavati| ‘vīkṣya’ ityatra ‘jñātvā’ ityēkē paṭhanti||39||
(svasthasya rakṣaṇaṁ kuryādasvasthasya tu buddhimān) |
kṣapayēdbr̥ṁhayēccāpi dōṣadhātumalān bhiṣak |
tāvadyāvadarōgaḥ syādētatsāmyasya [61] lakṣaṇam ||40||
asāmyaṁ vr̥ddhikṣayātmakamityanumānēna pratipādya kiṁ kuryādityāha- kṣapayēdityādi|- kṣapayēditi vr̥ddhān dōṣadhātumalān hrāsayēdityarthaḥ| br̥ṁhayēditi tānēva kṣīṇān vardhayēt| kṣapaṇabr̥ṁhaṇayōrmātrāvadhiṁ darśayannāha- tāvadityādi| kutaḥ punarārōgyamavadhirityāha- ētat sāmyasya lakṣaṇamityādi| ayaṁ pāṭhaḥ samagrō’bhāvānna likhitaḥ||40||
samadōṣaḥ [62] samāgniśca samadhātumalakriyaḥ |
prasannātmēndriyamanāḥ svastha ityabhidhīyatē ||41||
dōṣādisāmyaṁ svāsthyaṁ, taddarśayitumāha- samadōṣa ityādi| nanu, dvividhē’pi kālē nityaṁ dōṣacayādyanubandhāt kathaṁ samadōṣatvaṁ? tathāhi nityagē- āhnikē tāvat prātaḥ kaphaḥ kupyati, madhyāhnē pittamityādi; tathā”rtavē’pi hēmantē kaphaścīyatē vasantē sa ēva kupyatīti; tathā”vasthikē ca kālē ‘bālē(lyē)vivardhatē ślēṣmā’(sū. a. 35) ityādyuktatvāt| ucyatē- dōṣacayādēralpatvādatadvyapadēśa iti, ēkataṇḍulābhyavahārē’naśanavyapadēśavat| anyē tvēvaṁ vadanti- “ārtavē cayādau svasthavr̥ttōktavidhibhirāhōrātrikē punaranāgatābādhōktadantadhāvanādividhānēna dōṣāṇāṁ sāmyamupapannamēva” iti| samadhātumalakriya iti samā dhātumalānāṁ kriyā yasya sa tathā| kriyā svapnajāgaraṇādikēti kēcidbhinnaṁ kriyāśabdaṁ vyākhyānayanti| prasannātmēndriyamanā iti ātmā dēhaḥ, anyē karmātmā baddhapuruṣaḥ; tasya nirvikārasyāpi śarīraguṇadōṣābhyāṁ baddhatvamācāryairbahudhōktam [63] , asmābhirgranthagauravabhayānnōcyatē| indriyāṇi bhautikādhiṣṭhānaśaktirūpāṇi, manastvindriyānugrāhakamantaḥkaraṇam| ēvambhūtaḥ puruṣaḥ svastha ityabhidhīyatē ‘pūrvācāryaiḥ’ iti śēṣaḥ| dōṣasāmyēnaivāgnyādisāmyaṁ labdhaṁ tat kiṁ pr̥thagācāryaḥ prāha? ucyatē, na dōṣaiḥ samā agnyādayō bhavitumarhantīti; kutaḥ? pr̥thakcikitsitatvāt; pittaharaṇamapi sarpirajāpayaścāgniṁ vardhayati| atra śrīmādhavaḥ prāha- “labdhāścēt samadōṣatvē samāgnitvādayastadā| pr̥thaguktāḥ kimarthaṁ tē bhaktirēṣā [64] nirarthakā”- iti; samādhānamāha- “dōṣē’bhyastē yatō bhinnāḥ pr̥thaguktā atastu tē| prakr̥tyā tādr̥śāḥ kēcidatyarthaṁ vā na dūṣaṇam”- iti| ‘dōṣādīnāṁ tvasamatām’ ityādiślōkaṁ ‘vailakṣaṇyāccharīrāṇām’ ityādiślōkāgrē kēcidanyathā paṭhanti| tathāhi, “palādimānābhāvāt kathamēṣāṁ sāmyaṁ jñēyamityāha- ‘dōṣādīnāṁ tu samatāmanumānēna lakṣayēt’ iti ślōkārdhamēva dōṣasāmyajñānārthaṁ paṭhanti| yēnānumānēna samatā jñēyā tadēva darśayannāha- ēṣāṁ samatvaṁ yaccāpītyādi| ētēna sāmyakāryēṇa svāsthyēna dōṣāṇāṁ samatā jñātavyētyarthaḥ| atō’nantaraṁ ‘samadōṣaḥ samāgniśca’ ityādi paṭhanti| vyākhyānaṁ cāsya pūrvamēvōktam| idānīṁ svasthapratipālanāyāsvasthasya ca svāsthyakaraṇāyāha- ‘svasthasya rakṣaṇaṁ kuryādasvasthasya tu buddhimān| kṣapayēdbr̥ṁhayēccāpi’ ityādi;” īdr̥śaṁ kr̥tvā kēcit pāṭhakramaṁ paṭhanti||41||
iti suśrutasaṁhitāyāṁ sūtrasthānē dōṣadhātumalakṣayavr̥ddhivijñānīyō nāma pañcadaśō’dhyāyaḥ ||15||
iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ sūtrasthānē
dōṣadhātumalakṣayavr̥ddhivijñānīyō nāma pañcadaśō’dhyāyaḥ||15||
1. ‘svarūpaṁ hi vātādīnāṁ kāryagamyamēva, tēna kāryamēvātra prādhānyāducyatē- tatrētyādi|’ iti cakraḥ|
2. ‘tadāha’ iti pā.
3. ‘dhāraṇamiti arthādapānasya’ iti pā.|
4. ‘… śarīramātrasya’ iti pā.|
5. ‘…pūraṇabr̥ṁhaṇatarpaṇabalasthairyakr̥t’ iti cakrasammataḥ pāṭhaḥ| “br̥ṁhaṇaṁ saumyasnēhanatvābhyāṁ śarīrasya, tarpaṇatvamapi saumyatvādbalakāritvaṁ| carakē’pyuktaṁ- “prākr̥tastu balaṁ ślēṣmā” (ca. sū. a. 17) iti cakraḥ|
6. ‘…sthānānyāhuḥ’ iti pā.|
7. ‘dhairyacyavanaṁ maithunaprayōjakatayā’ iti cakraḥ|
8. ‘majjā pūrayati, bījārthaharṣakr̥cchukram’ iti tāḍapatrapustakē pāṭhaḥ|
9. purīṣaṁ niḥsāramapyāśayabalakāritayā vāyvagnidhāraṇamupastambhaṁ ca karōti| taduktaṁ- ‘sarvadhātukṣayārtasya balaṁ tasya hi viḍbalam’ (ca. ci. a. 8) iti cakraḥ| ‘prāṇavāyvagnidhāraṇāvaṣṭambhakr̥t purīṣam’ iti tāḍapatrapustakē pāṭhaḥ|
10. ‘vivēkatvāt’ iti pā.|
11. cakrastu ‘yathōktaraktalakṣaṇaṁ’ iti paṭhati, vyākhyāti ca- ‘yathōktaraktalakṣaṇamiti ārtavarūparaktasya yallakṣaṇamuktaṁ ‘māsi māsi tryahaṁ sravēta’ ityādi, tadēvāsya prakr̥tisthasya lakṣaṇam’ iti|
12. ‘tēṣāṁ’ iti pā.|
13. ‘svāsthyapravartakaḥ’ iti, ‘svāsthyapravr̥ttikaḥ’ iti ca pā.|
14. āmāśayētarāśayānāṁ śūnyatā’ iti hārāṇacandrasammataḥ pāṭhaḥ| ‘āmāśayētarāśayaśūnyatā śirasaśca’ iti tāḍapatrapustakē pāṭhaḥ|
15. ‘tr̥ṣṇā daurbalyaṁ prajāgaraṇaṁ’ iti kvaciddhastalikhitapustakē na paṭhyatē|
16. ‘mandacēṣṭatā sakalaprākr̥tavātakriyāṇāmalpatā, mūḍhasañjñatā asamyagjñānam, ētacca prākr̥tavāyōrindriyārthasamprāptikarasya vaiguṇyādupapannam’ iti cakraḥ|
17. ‘svayōnivardhanadravyāṇi’ iti pā.| ‘svayōnītivaktavyē yadvardhanamityadhikaṁ karōti, tēna svayōniśca yadvātādīnāṁ kaṣāyādi tathā”malakādi pratibhāti tannirāsārthaṁ, taddhi svayōnirapi pathyatvaprabhāvabādhitatvānna vardhanaṁ, tathā prabhāvādapi yatkaphādivardhanaṁ matsyādi tadapi gr̥hyatē …… tatra vāyōrvāyurēva yōniḥ, pittasyāgniḥ, kaphasyāpaḥ, raktaṁ tējōjalātmakaṁ, māṁsaṁ pārthivaṁ, mēdō jalapr̥thivyātmakam, asthi pr̥thivyanilātmakaṁ, majjā śukraṁ cāpyaṁ, mūtraṁ jalānalātmakaṁ, purīṣaṁ pārthivam, ārtavamāgnēyaṁ, svēdaḥ stanyaṁ cāpyam’ iti cakraḥ|
18. ‘dhamanīśaithilyaṁ māṁsakṣayē śuṣirādhāratayā’ iti cakraḥ|
19. ‘plīhābhivr̥ddhirudarē mēdaḥkṣayē vr̥ddhavātēnōdaraśūnyatayā ca plīhāsthānādbhraṣṭō vardhatē’ iti cakraḥ|
20. ‘asthitōdaḥ’ iti hārāṇacandrasammataḥ pāṭhaḥ|
21. ‘dantabhaṅgō’pi tatprabhavāsthikṣayādēva’ iti cakraḥ|
22. ‘alpaśukraraktadarśanaṁ ca śukrakṣayē kupitēna vāyunā harṣōdīritēna ca raktānayanādbhavati’ iti cakraḥ|
23. ‘hr̥cchabdaḥ pīḍākampaśōṣaśūnyatābhiryōjyaḥ| ētē ca rasakṣayē vr̥ddhavātāddhi bhavanti’ iti cakraḥ|
24. ‘cakārādihānyatra ca svakarmahāniḥ, paradhātvapacayaśca jñēyaḥ’ iti cakraḥ|
25. ‘amlaśītaprārthanā saumyāgnēyatvādraktasya svayōnitayā bhavati, sirāśaithilyaṁ pūrakaraktālpatayā’ iti cakraḥ|
26. ‘abhilāṣaḥ’ iti pā.|
27. ‘asthibalatvāt’ iti pā.|
28. ‘pratīkāraḥ’ iti hastalikhitapustakē na paṭhyatē|
29. ‘saumyasya’ iti pā.
30. ‘stōkastōkādyanugrahaḥ’ iti pā.|
31. ‘sparśavaiguṇyamiti svēdakṣayē vr̥ddhavātēna jñēyam, stabdharōmakūpatā svēdakṣayēṇa tēṣāṁ śuṣkatvāt’ iti cakraḥ|
32. ‘tatra saṁśōdhanamityanēna srōtaḥśuddhyarthaṁ śōdhanaṁ, tacca vamanaṁ virēcanamūrdhvādhō vā srōtaḥśuddhikaratayā’ iti cakraḥ|
33. ‘tvakpāruṣyaṁ’ iti pā.|
34. ‘nidrā manasō nivr̥ttyā bhavati, yaduktaṁ- ‘yadā tu manasi klāntē karmātmānaḥ klamānvitāḥ| viṣayēbhyō nivartantē tadā svapiti mānavaḥ” (ca. sū. a. 21) iti| tatra vāyunā manōbhramaṇānnidrā na bhavati, pittasyāpyuṣṇatayā manōvikṣēpānnidrā svalpā bhavati’ cakraḥ|
35. ‘sandhyasthiśliṣṭatā sandhiślēṣaṇakaphavr̥ddhyā yuktaiva’ iti cakraḥ|
36. ‘āṭōpamīṣatsaśabdamādhmānam’ iti cakraḥ|
37. ‘mūtravr̥ddhiṁ pracuramūtranirgamam’ iti cakraḥ| ‘mūtravr̥ddhiṁ’ iti hastalikhitapustakē na paṭhyatē|
38. ‘ārtavaṁ vr̥ddhatayā vātarōdhādaṅgamardaṁ karōti’ iti cakraḥ|
39. ‘aviruddhairiti vr̥ddhasya tathā kṣapaṇaṁ kartavyaṁ yathā’nyadōṣasya dhātōrvā vr̥ddhiḥ kṣayō vā na bhavatīti bhāvaḥ, pratikartavyamiti pratikṣaṇaṁ ca bahudōṣē saṁśōdhanēnālpē ca saṁśamanēna kartavyam| yadyapi vr̥ddhirvyādhirūpatayā dōṣakr̥taiva, tathā’pi rasādyāśrayavaśādapi tadgatadōṣāṇāṁ cikitsāviśēṣō bhavatīti jñēyam’ iti cakraḥ|
40. ‘samprati dhātusārabhūtatvēna dhātvabhinnasyaujasastathā tatkāryasyabalasya ca prayōjanavaśādabhēdēna svarūpaṁ kṣayaṁ ca cikitsārthamāha balētyādi| yatparaṁ tējaḥ sāraṁ ghr̥tamadhusthānīyaṁ pratyēkamēva rasādīnāṁ yadutkr̥ṣṭō’śaḥ sārabhāgaḥ sa militvā hr̥dayapradhānasthānatvāttatrastha ēva ca dhamanībhirhr̥dayamūlābhiḥ kr̥tsnaṁ śarīraṁ tarpayati balahētuśca dhātūnāṁ bhavati, śukraśōṇitasaṁsargātprabhr̥ti śarīramadhitiṣṭhatē svakarmaṇā tadōjaḥ’ iti cakraḥ|
41. māṁsaṁ cēha bahirdr̥śyamānakāryatayōktaṁ, tēnētarēṣāmapi dhātūnāṁ sthiratvamupacitatvamanēnaivōktaṁ jñēyam| . . . sarvacēṣṭāsvapratīghāta iti atra balarūpatayaujasō balasampādyakriyāsvapratighātō jñēyaḥ| bāhyānāṁ pāyvādīnāṁ karmēndriyarūpakaraṇānām, ābhyantarāṇāṁ cakṣurādīnāṁ manaḥsahitānām, ātmakāryamēṣāṁ visargādi tathā buddhyādi tathā cintanādi ca| pratipattiratrānuṣṭhānaṁ, tēna sarvēndriyāṇāṁ svakāryapratipattirōjōnugrahādbhavatīti vākyārthaḥ| tatrēndriyāṇi yadi bhautikāni tadā viśiṣṭabhūtamayēnaujasā tadvalabr̥ṁhaṇaṁ yuktamēva| yaduktaṁ carakē “śarīraṁ hyapi sattvamanuvidhīyatē sattvaṁ ca śarīram” (ca. śā. a. 4) iti cakraḥ|
42. ‘śuklamiti prādhānyēna śuklaṁ, tēna tantrāntarōktaraktādyanugamō’pyaviruddhaḥ| anyē śuklasthānē ‘svaccham’ iti paṭhanti, tacca carakē ‘prasannam’ iti pāṭhādyuktam| sthiramiti sthāyi| saramiti dēhavyāpakatayā’ iti cakraḥ| ‘sthiraṁ sukhaduḥkhayōracañcalaṁ karōtīti sthiraṁ, ṇici pacādyac| viviktaṁ pūtaṁ nirmalamiti yāvat’ iti hārāṇacandraḥ|
43. ‘kutaḥ khalvidaṁ kṣīyatē yēna śarīrāṇi śīryanta ityāha- abhighātādityādi| kṣayādatiramaṇādinā dhātvapacayāt| nanvēvaṁ cēttatvaṁ kathaṁ tarhyēbhirhētubhirupataptā sarvakriyāsvasamarthā apyāturāḥ sadyō na mriyanta ityāśaṅkyāha- hītyādi| sarvaṁ vākyaṁ sāvadhāraṇamiti nyāyāt| ēbhyō’bhighātādibhya ēvētyarthaḥ| hi yasmāt| tējaḥ sarvadhātūnāṁ dīptōṁ’śaḥ| ‘ōja’ iti niṣkarṣaḥ, vāyunā cālitaṁ sat dhātugrahaṇaniḥsr̥taṁ dhātavō gr̥hyanta ēbhiriti dhātugrahaṇāni vakṣyamāṇāni srōtāṁsi, tēbhyō niḥsr̥taṁ nirgataṁ bhavati, tasmāddēhinō visraṁsayati sarvēbhya ēva karmabhyō bahiṣkarōti natu sadyō mārayatīti tātparyam| ētēnaujasaḥ kṣayē mriyatē, mūlasthānātpracyāvitē tu sarvakarmaṇāmatipatitō bhavatītyuktaṁ bhavati| vakṣyati ca ‘kriyāsannirōdhaśca visraṁsē” iti hārāṇacandraḥ| ‘dhātavō gr̥hyantē yaistāni dhātugrahaṇāni srōtāṁsi ōjōvāhīni’| yaduktaṁ- ‘ōjōvahāvidhamyantē śarīrē’smin samantataḥ’ (ca. sū. a. 30) iti | kiṁvā dhātugrahaṇasrōtaḥsthānatayā dhātugrahaṇaṁ hr̥dayaṁ, tatō niḥsr̥taṁ dhamanībhirēva| kiṁvā ‘niṣṭhitam’ iti pāṭhaḥ| tadā ōjōvāhisrōtaḥsu hr̥di sthitamityarthaḥ’ iti cakraḥ|
44. ‘vyāpaddōṣaduṣṭatvē guṇahīnatvaṁ, liṅgāni bhavantītyuttarēṇa sandhiviślēṣādinā yōjyam’ cakraḥ| ‘visraṁsō vyāpacca kṣayabhēdau dōṣaduṣṭatayā guṇāpacayēnōtpattērityaprastutaprastāvāpattirnāśaṅkanīyā, kṣayō hi nāma yathākathañcidapacaya ityavōcāma| dōṣāṇāṁ vātādīnāṁ svasthānādapagamō dōṣacyavanaṁ, kriyā vāṅmanaḥśarīracēṣṭāḥ, tāsāmasamyaṅgāśaḥ kriyā’sannirōdhaḥ, ‘na nirōdhō n cōtpattiḥ’ ityādau nāśārthē nirōdhaprayōgadarśanāt| vakṣyati- ‘aprācuryaṁ kriyāṇāṁ ca’ iti hārāṇacandraḥ|
45. ‘liṅgāni sandhiviślēṣaḥ’ ityādistāḍapatrapustakē pāṭhaḥ|
46. ‘mataṁ visraṁsalakṣaṇam’ iti pā.|
47. ‘aviruddhairōjōnukūlaiḥ, atra mūḍhasañjñamiti viśēṣaṇaṁ tadavasthāyāmēva varjanārtham’ iti hārāṇacandraḥ| ‘kriyāviśēṣairiti ōjōvardhakaistadviśōdhakaiśca, aviruddhairiti agnyādyaviruddhaiḥ, balamiti ōjaḥ’ iti cakraḥ|
48. naṣṭasañjñamitaraṁ tu’ iti pā.|
49. asyāgrē ‘itaraṁ tvityādipāṭhāgrē’sau paṭhitavyaḥ’ ityadhikaḥ pāṭha upalabhyatē kvacitpustakē|
50. ‘dhātukṣayāditi ōjaḥ kṣayāt| sañjñā jñānaṁ, karma vyāpāraḥ, ētayōruparama ēva mūrcchā| balaṁ śaktiḥ| atra dōṣādikṣayavr̥ddhiprakaraṇē pratikartavyā ōjasō vr̥ddhirnābhihitā, tasyāyurvr̥ddhivannirvikāratvēnābhimatatvādēva’ iti cakraḥ|
51. ‘āma ēvēti ivārthō’yamēvaśabdaḥ, raktādirūpēṇāpariṇatatayā apakva ivētyarthaḥ| na tu ‘āmāśayasthaḥ kāyāgnērdaurbalyādavipācitaḥ’ ityādinōktaḥ, tasya rōgahētutayā”māśayasthatvēna ca mēdōjanakatvāyōgāt’ iti cakraḥ|
52. mēdasō’tipravr̥ddhatvājjāṭharyamāpādayati| tamatijāṭharaṁ kṣudraśvāsa…’ ityādistāḍapatrapustakē pāṭhaḥ| ‘jāṭharyamiti br̥hajjaṭharatvaṁ iti cakraḥ|
53. ‘balavattarāḥ’ iti pā.|
54. ‘cakārāt ‘guru cātarpaṇaṁ śrēṣṭhaṁ sthūlānāṁ karśanaṁ prati’ (ca. sū. a. 21) iti samuccinōti’ iti cakraḥ|
55. atra ‘kaṭubhāvēna’ iti, ‘klēdabhāvēna’ iti, ‘kiṭṭabhāvēna’ iti ca pāṭhāntaratrayamupalabhyatē|
56. ‘dvāvapi garhitāvētau’ iti cakrasammataḥ pāṭhaḥ|
57. ‘atha kṣayavr̥ddhī prākr̥tamānāpēkṣē, taccēha nōktaṁ, kuta ityāha- vailakṣaṇyādityādi| dīrghahrasvasthūlakr̥śabālavr̥ddhādīnāṁ śarīravailakṣaṇyāt, śarīravailakṣaṇyē ca taddōṣādimānavailakṣaṇyamityarthaḥ| asthāyitvāditi dōṣādibhiḥ sambadhyatē| tēna pūrvāhṇē vasantē ca kaphō vr̥ddhaḥ, grīṣmē sāyaṁ ca kṣīṇaḥ, ityādinā tattadvr̥ddhikṣayahētuprāptyā’pi dōṣadhātumalānāmaniyatamānatvādityarthaḥ| na vidyatē iti niyataṁ mānaṁ na vidyatē yat śāstrakārēṇa nirdēśyētēti bhāvaḥ| atha kathaṁ tarhi dōṣādisāmyavyavahāra ityāha- ēṣāmityādi|’ iti cakraḥ|
58. ‘yēna’ iti pā.|
59. ‘abhidhīyatē’ iti pā.|
60. aprasannēndriyatvaṁ sarvadōṣādivikāramānāgatatvēnōktaṁ, yatō’vaśyaṁ vikārē duḥkhakāriṇi manōvāksparśādiṣu vā’nyatamamindriyaṁ vikr̥tatayā aprasannaṁ bhavati’ iti cakraḥ|
61. ‘syānnarō rōgasamanvitaḥ’ iti pā.| ‘ētadarōgatvaṁ dōṣadhātumalasāmyasvāsthyasya lakṣaṇaṁ, svāsthyārthā ca cikitsēti bhāvaḥ’ iti cakraḥ|
62. ‘samadhātumalakriya iti samā prākr̥tadhātūnāṁ malānāṁ ca kriyā prākr̥takarmarūpā yasya sa tathā, atra kriyāgrahaṇaṁ samakriyayaiva dhātumalānāṁ parōkṣāṇāṁ prāyaḥ sāmyāvagatiriti sūcanārtham| dhātugrahaṇēna upadhātvādīnāṁ dhārakāṇāṁ grahaṇam| agnyādisamatayaiva dōṣāḥ samā lakṣyantē| atha samāgnitvādyapyantarvartitayā durvijñēyaṁ kathaṁ jñēyamityāha- prasannātmēndriyamanā iti| ātmādiprasannatā hi duḥkharūpāgnyādivaiṣamyātmakavikāravirahitatvēna bhavati, nahi duḥkhayōgē satyātmādiprasannatā sambhavati| … ātmāditrayābhidhānaṁ ca tribhirēva militairnirduḥkhatājñānarūpaprasannatānubhavāt| yaduktam ‘ātmājñaḥ karaṇairyōgāt jñānamasya pravartatē’ (ca. śā. a. 1) iti| karaṇāni jñānē manaḥsamāhitānīndriyāṇi| tēna prasannātmēndriyamanastvamēva svāsthyalakṣaṇamavyabhicāri vyaktaṁ ca| tatparikaratayā vaidyakasiddhāntōpayuktatayā ca samadōṣādyabhidhānamiti yuktaṁ paśyāmaḥ’ iti cakraḥ|
63. ‘paṭvapaṭutvamācāryairbahudhōktaṁ’ iti pā.|
64. ‘na kimētannirarthakam’ iti pā.|