ebooks-esamhita-esushruta-sutrasthana-shonitavarnaneeya-adhyaya

Devanagari Version

काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता

सुश्रुतसंहिता

श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता

सूत्रस्थानम् - १४. शोणितवर्णनीयाध्यायः

अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||


अथात इत्यादि||१-२||

तत्र [१] पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य [२] द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगादश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति [३] यापयति चादृष्टहेतुकेन कर्मणा |
तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः |
तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा- किमयं सौम्यस्तैजस? इति |
अत्रोच्यते- स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ||३||


शोणितोत्पत्ते रसाधीनत्वाद्रसमेव दर्शयन्नाह- तत्रेत्यादि| इत्थम्भूतस्याहारस्य यः सारः स `रस’ इत्युच्यत इति पिण्डार्थः| पाञ्चभौतिकस्येति पृथिव्यादिभूतद्रव्यभेदेन, चतुर्विधस्येति पेयलेह्यभोज्यभक्ष्यभेदेन, षड्रसस्येति मधुरादिरसभेदेन, द्विविधवीर्यस्येति शीतोष्णवीर्यभेदेन, पक्षान्तरमाह- अष्टविधवीर्यस्य वेति शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णभेदेन, अनेकगुणस्येति शीतादिद्रवादिगुणभेदेन विंशतिगुणस्य, उपयुक्तस्येति सम्यक्परिणतस्येत्यनेनैवोपयुक्तपदार्थस्य लब्धत्वाद्यदुपयुक्तग्रहणं करोति तत् सम्यग्योगं स्वास्थ्यवृत्तीयद्वादशविधाशनप्रविचारमपेक्ष्योपयोगं प्रापयति| तेजोभूत इति तेजसा भूतस्तेजोभूतो वह्निसम्भूत इत्यर्थः; अन्ये तु तेजःशब्देन घृतमाहुः, तत्र तेजोभूतो घृतवदुत्पन्न इत्यर्थः; अन्ये तु वदन्ति- भूतशब्दोऽत्रोपमानार्थः, तत्र तेजोभूतो घृताकार इत्यर्थः| सार इति विडादिमलरहित इत्यर्थः| परमसूक्ष्म इति अतिशयेनास्थूलावयवः, सूक्ष्मस्रोतोऽनुसारीत्यर्थः| रसस्य स्थानमाह- तस्येत्यादि| तस्य रसस्य सर्वदेहानुसारित्वेऽपि हृदयं स्थानं [४] ; हृदयशब्देनात्र हृदयोपलक्षितः प्रदेश उच्यते, न तु साक्षाद्धृदयं; कुतः? हृदयस्यौजःस्थानत्वात्| रसस्य क्रियां निर्दिशन्नाह- स हृदयादित्यादि| तर्पयतीति बालमध्यस्थविरान् सर्वानेव प्रीणयति; अन्ये गर्भं तर्पयतीति मन्यन्ते, तस्याहारासम्भवात्; वर्धयतीति बालं; धारयतीति मध्यं सम्पूर्णधातुत्वात्, केचित् `धारयति’ इत्यत्र `जीवयति’ इति पठन्ति, अत्रापि स एवार्थः; यापयतीति वृद्धं क्षीयमाणदेहत्वात्| केचिदत्र `हृदयात्’ इत्यादि पाठं `चतस्रश्च तिर्यग्गाः’ इत्यन्तं न पठन्ति, `कृत्स्नं शरीरं’ इत्यादि च पठन्ति| कुतः पुनरयं तर्पणादि करोतीत्याह- अदृष्टहेतुकेन कर्मणा; प्राक्तनकर्मणेत्यर्थः| अन्ये तु केषाञ्चिदेव मर्तुमिच्छूनां कुतो न तर्पणादि करोतीति पृष्ट आह- अदृष्टहेतुकेन कर्मणेति| तस्य शरीरमित्यादि तस्येति रसस्य| अनुसरतः अनुगच्छतः| क्षयवृद्धिवैकृतैरिति वैकृतं विकारः; क्षयविकारैः `रसक्षये हृत्पीडा कम्प’ इत्यादिभिः, वृद्धिविकारैः `हृदयोत्क्लेदं’ इत्यादिभिः| तत्र क्षयवृद्धिविकारैर्विकृतस्य; क्षयवृद्धिवैकृतैश्चेत्यत्र चकारो द्रष्टव्यः, तेन सर्वशरीरतर्पणादिभिश्चाविकृतस्य गतिरनुमन्तव्येत्यर्थः| रसस्वभावं विनिर्देष्टुमाह- तस्मिन्नित्यादि| तस्मिन्निति पूर्वोक्ते रसे| जिज्ञासा ज्ञातुमिच्छा| किमयं सौम्यः कफवत्, अथवा तैजसः पित्तवत्? इति संशयः| अत्रोच्यत इत्यादि| अनुसारी अनुसरणशीलः, स्नेहनः स्नेहयतीति, जीवनो जीवयतीति, तर्पणः प्रीणनः शरीरस्य, आदिशब्दादवष्टम्भनादयः| विशेषैः भेदैः| अवगम्यते अवबुध्यते||३||

स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ||४||


इदानीं क्रमनिष्पत्त्या शोणितं दर्शयन्नाह- स खल्वित्यादि| खलुशब्दोऽप्यर्थः| आप्योऽपि रसो रागमुपैति लोहितत्वं गच्छति||४||

श्लोकौ चात्र भवतः-
रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् |
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ||५||


तमेवार्थं श्लोकेन स्पष्टीकुर्वन्नाह- भवतश्चात्रेत्यादि| शरीरस्थेन यकृत्लीहस्थेनैव, प्रसन्नेन प्रकृतिस्थेन, इर्त्थभूतेन तेजसा रञ्जकनाम्ना, अव्यापन्ना एवङ्गुणविशिष्टा आपो रञ्जिता लोहितीकृताः सत्यो रक्तमित्युच्यते| आपोऽत्र रसः||५||

रसादेव स्त्रिया रक्तं रजःसञ्ज्ञं प्रवर्तते |
तद्वर्षाद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ||६||


रक्तार्तवयोरभेदं दर्शयन्नाह- रसादेवेत्यादि| रजःसञ्ज्ञमिति सञ्ज्ञान्तरमेतत् स्त्रीयोनिप्रवृत्तस्य रक्तस्य, ऋतुकालजं रक्तमेव रजःसञ्ज्ञमुच्यत इत्यर्थः| तद्वर्षाद्द्वादशादूर्ध्वमिति तद्रजःसञ्ज्ञं शोणितं द्वादशवर्षादनन्तरं प्रवर्तत इति सम्बन्धः| तस्य निवृत्ति कालमाह- याति पञ्चाशतः क्षयमिति| `रसादेव रजः स्त्रीणां मासि मासि त्र्यहं स्रवेत्| तद्वर्षाद्द्वादशादूर्ध्वं यावत् पञ्चाशतं समाः’- इत्यन्ये पठन्ति| समाः वर्षाणि||६||

आर्तवं शोणितं त्वाग्नेयम्, अग्नीषोमीयत्वाद्गर्भस्य ||७||


रक्तार्तवयोः सौम्यरससम्भूतयोरपि स्वभावभेदं दर्शयन्नाह- आर्तवमित्यादि| तुशब्दोऽत्र भेदे, तेन रसात् सौम्याज्जातमप्यार्तवं शोणितं चाग्नेयम्| कुतः कारणादित्याह- अग्नीषोमीयत्वाद्गर्भस्येति|- आर्तवमाग्नेयं, शुक्रं सौम्यं, ताभ्यामग्नीषोमीयो गर्भो भवति| ननु यद्यार्तवमपि सौम्यं भवति, तदा सौम्यारब्धः सौम्य एव गर्भो भवति; न चैवम्, अग्नीषोमीयत्वाद्गर्भस्येत्यत्रार्तवस्याग्नेयत्वमुच्यते, आर्तवशोणितयोः स्वभावाभेदादार्तवस्याग्नेयत्वे उक्ते शोणितस्याप्याग्नेयत्वमुक्तमेवेति| `आर्तवशोणितं त्वाग्नेयम्’- इत्यन्ये पठन्ति; `आर्तवं च तच्छोणितं चेत्यार्तवशोणितं; तुशब्दोऽत्रावधारणे, तेनार्तवस्याग्नेयत्वमवधारयति’ इति व्याख्यानयन्ति| रक्तं पुनरनुष्णशीतमेवमाचार्या मन्यन्ते||७||

पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ||८||


शोणितस्वभावे मतान्तरमाह- पाञ्चभौतिकमित्यादि| जीवरक्तमिति जीवतुल्यं रक्तम्| कुतः? जीवच्छरीरे रक्तदर्शनात्, मृतशरीरे चादर्शनात्; नतु जीवरक्तमोज इति, एवं प्रस्तुतस्यैव रक्तस्य लक्षणमनुक्तं स्यात्||८||

विस्रता द्रवता रागः स्पन्दनं लघुता [५] तथा |
भूम्यादीनां [६] गुणा ह्येते दृश्यन्ते चात्र शोणिते ||९||


तदेव पाञ्चभौतिकत्वं सुखबोधार्थं स्पष्टयितुमाह- विस्रतेत्यादि| विस्रता आमगन्धता, भूमिगुणः; द्रवता द्रवभावः, अयमम्बुगुणः; रागो रक्तता, तेजोगुणः; स्पन्दनं किञ्चिच्चलनं, वातगुणः; लघुता अगुरुत्वम्, आकाशगुणः| भूम्यादीनामित्यत्रादिशब्देनाप्तेजोवाय्वाकाशा गृह्यन्ते| हि यस्मादर्थे, यस्मादेते विस्रतादयः पृथिव्यादीनां गुणा अत्र शोणिते दृश्यन्ते, तस्माद्रक्तं पाञ्चभौतिकमिति||९||

रसाद्रक्तं [७] ततो मांसं मांसान्मेदः प्रजायते |
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते ||१०||


शोणितप्रसङ्गेनान्येषामपि धातूनां क्रमेणोत्पत्तिं दर्शयन्नाह- रसाद्रक्तमित्यादि| स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैतीत्यनेनैव रसादेव रक्तस्य भवने उक्ते रसात् पुनः शोणितसम्भवनवचनं नियमार्थम्| तेन रसात् क्रमोत्पत्त्या शोणितमेव भवति न परे धातव इति| एतेन युगपदेव सर्वधातुषु रससञ्चाराद्रसेनैव सर्वधातुपोषणमिति तन्त्रान्तरीयं वचो निरस्तम्| ननु, यदि परिणमन्ति रसादयो रक्तादिभावेन, तर्हि सर्वेषामुत्सादः स्यात्? सन्तत्या परिणाम इति चेत्तर्हि सर्वेषां पूर्वेषामल्पता स्यादुत्तरेषां बाहुल्यमिति? नैतदस्ति| तेषां [८] रसादीनां मलस्थूलाणुभागविशेषेण त्रिविधः परिणामो भवति; तद्यथा- अन्नात् पच्यमानाद्विण्मूत्रं मलः, सारो रसः; रसादग्निपक्वान्मलः कफः, स्थूलो भागो रसः, अणुभागो रक्तं; रक्तादग्निपक्वान्मलः पित्तं, स्थूलभागः शोणितम्, अणुभागस्तु मांसमिति; ततोऽप्यात्मपावकपच्यमानान्मलः [९] श्रोत्रनासाकर्णाक्षिप्रजननादिस्रोतोमलः, स्थूलभागो मांसं, सूक्ष्मो मेदः; ततोऽपि निजवह्निपच्यमानान्मलः स्वेदः, स्थूलोंऽशो मेद एव, सूक्ष्मभागोऽस्थि; ततोऽपि पच्यमानान्मलः केशलोमश्मश्रूणि, स्थूलोऽस्थि, सूक्ष्मस्तु मज्जा; ततोऽपि मज्ज्ञः पावकपच्यमानान्मलो नयनपुरीषत्वचां स्नेहः, स्थूलो भागो मज्जा, सूक्ष्मः शुक्रं; ततः पुनः पच्यमानादुपमलो नोत्पद्यते सहस्रधाध्मातसुवर्णवत्, स्थूलो भागः शुक्रमेव, स्नेहभागः सूक्ष्मस्तेजोभूतमोजः| पूर्वोक्त एवार्थः श्लोकाभ्यां कथ्यते- “स्थूलाण्वंशमलैः सर्वे भिद्यन्ते धातवस्त्रिधा| स्वः स्थूलोंऽशः परं सूक्ष्मस्तन्मलं याति तन्मलः|| स्वाग्निभिः पच्यमानेषु मलः षट्सु रसादिषु| न शुक्रे पच्यमानेऽपि हेमनीवाक्षये मलः [१०] – इति| आकृष्टाण्डकोषस्य पुंसः श्मश्रुपाताच्छ्मश्रु शुक्रमल इत्येके| तन्न, श्मश्रुहीनस्यापि शुक्रदर्शनात्| ननु, मांसान्मेदः प्रजायत इत्यनर्थकं, ‘मज्ज्ञः शुक्रं तु जायते’ इत्येकेनैव क्रियापदेन प्रजायत इत्यस्यार्थस्य लब्धत्वात्| सत्यं, प्रजायत इति क्रियापदं रसादीनां मेदःपर्यन्तानां विशिष्टकार्यान्तरोत्पाददर्शनार्थम्, एभ्य एवोपधातवः स्वभावादुत्पद्यन्ते न पुनरस्थ्यादिभ्य इति| तथाहि [११] – रसात् स्तन्यमार्तवं च, रक्तात् कण्डराः सिराश्च, मांसाद्वसात्वचौ, मेदसः स्नायुसन्धी इति| शुक्रं तु जायत इति द्वितीयजायतेग्रहणेन शुक्रे विशिष्टधर्मवत्ता उक्ता; शुक्रं हि स्वाग्निपच्यमानमपि नाणुभागमुत्पादयति| अन्ये तु ‘मेदः प्रजायते’ इत्यत्र `प्रवर्तते’ इति पठन्ति, `शुक्रं तु जायते’ इत्यत्र `शुक्रस्य सम्भव’ इति पठन्ति, व्याख्यानयन्ति च- सम्भवाशब्दोऽत्र पोषणे न त्वपूर्वोत्पादने, यतो रसादीनां शुक्रान्तानामागर्भादेवोत्पत्तिरिति||१०||

तत्रैतेषां धातूनामन्नपानरसः [१२] प्रीणयिता ||११||
रसजं पुरुषं विद्याद्रसं रक्षेत् प्रयत्नतः |
अन्नात्पानाञ्च मतिमानाचाराञ्चाप्यतन्द्रितः ||१२||


रसस्य निर्दिष्टस्य प्राधान्यं दर्शयितुमाह- तत्रैषामित्यादि| तत्र तेषु धातुषु मध्ये| एतेषां धातूनां प्रागुक्तानां रक्तादीनाम्| अन्नपानरसः अन्नपानस्य सारः| प्रीणयिता तर्पयितेत्यर्थः| अतन्द्रितोऽनलस इत्यर्थः||११-१२||

तत्र ‘रस’ गतौ धातुः, अहरहर्गच्छतीत्यतो रसः ||१३||


रसस्यैव निरुक्तिमाह- तत्र रसगतावित्यादि||१३||

स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते; एवं मासेन रसः शुक्रं [१३] स्त्रीणां चार्तवं भवति ||१४||
भवति चात्र-
अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये |
कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः ||१५||


रसधातुर्धात्वन्तराणां स्वभावं जनयन्नेकैकस्मिन् धातौ कियन्तं कालमवतिष्ठत इत्याह- स खल्वित्यादि| अवतिष्ठते अवस्थितिं करोतीत्यर्थः, परिणामं गच्छन्नेव तिष्ठति पच्यमानस्थालीतण्डुलवत्, न पुनरस्य गमननिवृत्तिः| त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला इत्यस्यार्थः- रसः किलैकाहेनैव सम्पद्यते, तदनन्तरं ये षट्धातवस्ते प्रत्येकं पञ्चभिः पञ्चभिरहोभिः सम्पद्यन्ते| यावता कालेन रसः शुक्रतां याति तावन्तं वक्तुमाह- एवं मासेनेत्यादि| अत्रार्तवशब्दोऽयं शुक्रे वर्तते न तु रजसि, रजो हि रसाद्रक्तवत् सप्तमेऽहनि जायते; अथवा यद्ययमार्तवशब्दः शुक्रे न वर्तते तदाऽत्र शुक्रोत्पत्त्यधिकारे स्त्रीणां शुक्रस्यानुक्तत्वात् षड्धातुत्वं स्यात्, तस्मादार्तवशब्दः शुक्रे वर्तते; अन्ये तु पुनरत्रार्तवशब्दं रजस्येव वर्तयन्ति, चकारेण स्त्रीशुक्रं समुच्चिन्वन्ति शुक्रेऽपि गर्भजननशक्तिद्योतनार्थम्| तथा चोक्तं- `यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन| मुञ्चतः शुक्रमन्योऽन्यमनस्थिस्तत्र जायते’ (शा. अ. २)- इति| अस्मिन् पक्षे मासेनार्तवस्य भवनमुपचयोऽभिप्रेतः प्रकाशश्च; यस्मादार्तवस्य रक्तवत् सप्ताहेनैवोत्पत्तिरिति| इदानीं समुदायसङ्ख्यामाह- अष्टादशेत्यादि| अष्टादशसहस्राणीत्यादिना त्रिंशद्दिनानि कथितानि| स्वतन्त्रपरतन्त्रयोरिति समानतन्त्रासमानतन्त्रयोरित्यर्थः||१४-१५||

स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् ||१६||


दृष्टान्तत्रयेण शरीरे रसगतिं त्रिधा दर्शयन्नाह- स शब्दार्चिर्जलसन्तानवदित्यादि| सःरसः, सन्तानशब्दः शब्दादिभिः सह प्रत्येकं सम्बध्यते| अणुना विशेषेण सूक्ष्मप्रकारेण| अनुधावति सञ्चरति| एवंशब्दो नियमार्थः| शरीरं केवलं सकलनित्यर्थः| तत्र शब्दसन्तानवदित्यनेन तिर्यग्गामित्वं रसस्योक्तम्, अर्चिःसन्तानवदित्यनेनोर्ध्वगामित्वं, जलसन्तानवदित्यनेनाधोगामित्वमिति| केचिदन्यथा व्याख्यानयन्ति- `शब्दादिदृष्टान्तत्रयेण तीक्ष्णमध्यमन्दाग्नयो निर्दिष्टाः| शब्दसन्तानवत्तीक्ष्णाग्नीनां रसः सञ्चरति, अर्चिःसन्तानवन्मध्याग्नीनां, जलसन्तानवन्मन्दाग्नीनाम्’ इति| तेन तीक्ष्णाग्नीनामष्टाहेनैव रसः शुक्रीभवति, मन्दाग्नेर्मासेनैव [१४] | अयमर्थो गयदासाचार्येण बहुधा दूषितः| दीप्ताग्नेस्तु किञ्चिन्यूनेन मासेन शुक्रं भवति, मन्दाग्नेस्तु किञ्चिदधिकेन मासेनेत्ययमर्थो न्याय्य इति||१६||

वाजीकरण्यस्त्वोषधयः [१५] स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं शीघ्रं विरेचयन्ति ||१७||


यदि मासेन रसः शुक्रीभवति तर्हि वाजीकरीणां महौषधीनां प्रयोगो निष्फलः स्यादित्याह- वाजीकरण्य इत्यादि| वाजीकरण्यस्त्वोषधय इति याभिरोषधिभिः स्त्रीषु नरो वाजीव समर्थो भवति [१६] ता वाजीकरण्यः| स्वबलगुणोत्कर्षादिति [१७] स्वशब्दो बलगुणाभ्यां सह प्रत्येकं संवध्यते, उत्कर्षशब्दोऽपि| अत्र काश्चिदोषधयः स्वबलोत्कर्षात्, काश्चित् स्वगुणोत्कर्षात्, काश्चित् स्वबलगुणोत्कर्षात्, तत्र सङ्कल्पपादलेपविशिष्टकान्तास्पर्शादयः स्वबलोत्कर्षात्, स्वप्रभावोत्कर्षादित्यर्थः; घृतक्षीरादयः स्वगुणोत्कर्षात्, स्वस्नेहाद्युत्कर्षादित्यर्थः; माषादयः स्वबलगुणोत्कर्षात्, स्वप्रभावस्नेहाद्युत्कर्षादित्यर्थः; उत्कर्ष आधिक्यम्| वाजीकरण्य इति बहुवचनमाद्यर्थे, तेन बल्यबृंहणीयजीवनसङ्ग्रहणादयोऽपि तद्वद्वाच्या इति||१७||

यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं, नैव नास्तीति; अथ [१८] चास्ति, सतां भावानामभिव्यक्तिरिति ज्ञात्वा [१९] , केवलं सौक्ष्म्यान्नाभिव्यज्यते; स एव विवृतपत्रकेशरे पुष्पे कालान्तरेणाभिव्यक्तिं गच्छति; एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो भवति, रोमराज्यादयश्च विशेषा नारीणाम् ||१८||


ननु, यदि मासेन रसः शुक्रीभवति तर्हि बालानामश्नतामपि तत् कथं न दृश्यत इति दृष्टान्तमाह- यथेत्यादि| यथाहीत्यव्ययं [२०] यथादृष्टान्तताप्रतिपादनार्थम्| पुष्पमुकुलस्थ इति कुसुमकलिकामध्यस्थः| इहेति पुष्पमुकुले, गन्धोऽस्त्येवेति [२१] नास्त्येवेति च वक्तुं न शक्यम्| पारमार्थिकं रूपमाह- अथ चास्तीति|- अथशब्दः सम्बोधने [२२] ; चशब्द एवार्थे, अस्त्येवेत्यर्थः| युक्तिमाह- सतां भावानामभिव्यक्तिरिति ज्ञात्वेति; पूर्वं सन्त एव भावाः पश्चाद्धेतुमासाद्याभिव्यज्यन्ते, यथा- तिलेषु तैलमित्यादि| यद्यस्त्येविति तर्हि मुकुलावस्थायामेव कथं नाभिव्यज्यत इत्याह- केवलं सौक्ष्म्यान्नाभिव्यज्यत इति| स एवेत्यादि| स एव गन्धो विवृतपत्रकेशरे कुसुमे कालान्तरेणोपचितोऽभिव्यक्तिं गच्छति| एवं बालानामित्यादि इत्थं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो व्यक्तीभावो भवति| रोमराज्यादयश्च विशेषा भावा वयःपरिणामान्नारीणामपि प्रादुर्भवन्ति, आदिशब्दात् स्तन्यार्तवादयः; रोमराज्यादयश्चेति चकारो नारीणां चेत्यत्र द्रष्टव्यः; तेन पुरुषाणामपि श्मश्रुप्रभृतयो गृह्यन्ते| अत्र केचित् `रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिर्भवति’- इति पठन्ति, न तु निबन्धकाराः, कुतः? आदिशब्दात्तदर्थस्य लब्धत्वादिति||१८||

स एवान्नरसो वृद्धानां (जरा) परिपक्वशरीरत्वादप्रीणनो भवति ||१९||


ननु रसस्योपचयकरत्वाद्वृद्धेनापि वर्धितव्यमित्याह- स एवान्नरस इत्यादि| स एवान्नरस इति अशेषधातुपोषकोऽपि वृद्धानामप्रीणन ईषत्प्रीणनो भवति, जीवनमात्रं करोतीत्यर्थः| कुत इत्याह- परिपक्वशरीरत्वात्||१९||

त एते शरीरधारणाद्धातव [२३] इत्युच्यन्ते ||२०||


रसादिधातूनां निरुक्तिं कुर्वन्नाह- त एते शरीरधारणादित्यादि| यद्यपि क्वचिददुष्टा दोषा अपि देहधारणाद्धातुशब्देनोच्यन्ते, तथाऽप्यत्र रसादीनामधिकृतत्वात् एव धातवः कथ्यन्ते||२०||

तेषां क्षयवृद्धी शोणितनिमित्ते, तस्मात्तदधिकृत्य वक्ष्यामः |
तत्र, फेनिलमरुणं कृष्णं परुषं तनु शीघ्रगमस्कन्दि च वातेन दुष्टं; नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तेन दुष्टं; गैरिकोदकप्रतीकाशं [२४] स्निग्धं शीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टं; सर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टं; द्विदोषलिङ्गं संसृष्टम् ||२१||


प्रस्तुतं शोणितमेवाधिकर्तुमाह- तेषामित्यादि| तेषामिति धातूनाम्| तदधिकृत्येति शोणितमधिकृतं कृत्वेत्यर्थः| तत्र फेनिलमित्यादि| फेनिलं फेनसहितम्| अरुणम् ईषद्रक्तम्; तदेव [२५] पाकाभिमुखं कृष्णम्| परुषम् अपिच्छिलं, रूक्षमित्यन्ये| तनु अच्छम्| शीघ्रगम् आशुप्रसृति| अस्कन्दि चेति स्त्यानत्वरहितम्| नीलमित्यादि|- नीलं हरितं, श्यावं सामपित्तदुष्टं, पीतं निरामपित्तदुष्टं, श्यावं हरितकृष्णम्| विस्रम् आमगन्धि| अनिष्टं पिपीलिकादीनामननुसरणादवगन्तव्यम्| अस्कन्दि चेति स्त्यानत्वरहितम्| गैरिकेत्यादि|- गैरिकोदकप्रतीकाशं पाण्डुलोहितम्| बहलं घनम्| मांसपेशीप्रभं स्त्यानत्वात्| सर्वेत्यादि|- सर्वलक्षणयुक्तं वातादिलक्षणयुक्तम्| अत्र केचित् पित्तवद्रक्तेनातिकृष्णं [२६] ’ इति पठन्ति, न तु निबन्धकाराः| द्विदोषलिङ्गमित्यादि|- संसृष्टं दोषद्वययुक्तमित्यर्थः| अत्र क्वचित् ‘जीवशोणितमन्यत्रोपदेक्ष्यामः’ इति पाठः, न तु निबन्धेषु||२१||

इन्द्रगोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् ||२२||


रक्तविकृतीरभिधाय प्रकृतिं वक्तुमाह- इन्द्रगोपकप्रतीकाशमित्यादि| इन्द्रगोपकः प्रावृट्कालज उद्भिज्जः `इन्द्रवधूः’ इति लोके, स चानेकप्रकारवर्णः, अत्र तु रक्त एव गृह्यते| असंहतं नात्यच्छं नातिघनं, न स्त्यायतीत्यन्ये| अविवर्णमिति इन्द्रगोपकवर्णमपीषद्विविधवर्णम्, एतेन पद्मालक्तकगुञ्जाफलवर्णमित्युक्तम्; अथवा वस्त्रादिलग्नं सत् प्रक्षाल्यमानमपि न विवर्णतां यातीत्यविवर्णम्||२२||

विस्राव्याण्यन्यत्र वक्ष्यामः ||२३||


शोणितस्य स्रावणविषयमतिदेशेन दर्शयन्नाह- विस्राव्याणीत्यादि| अन्यत्रेति अष्टविधशस्त्रकर्मीये||२३||

अथाविस्राव्याः- सर्वाङ्गशोफः, क्षीणस्य चाम्लभोजननिमित्तः, पाण्डुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः ||२४||


विस्राव्यनिषेधविषयं दर्शयन्नाह- अथाविस्राव्या इत्यादि| क्षीणस्य पुंसोऽम्लभोजननिमित्तो यः सोऽविस्राव्य इत्यर्थः| तथा पाण्डुरोग्यादीनां शोथा अविस्राव्याः; एतेषां व्रणशोथा एकाङ्गजा अपि न स्राव्याः||२४||

शस्त्रविस्रावणं द्विविधं- प्रच्छानं [२७] , सिराव्यधनं च ||२५||


शस्त्रविस्रावणस्य द्वैविध्यमाह- शस्त्रेत्यादि||२५||

तत्र, ऋज्वसङ्कीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु [२८] च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति ||२६||


अत्र प्रच्छानमधिकृत्याह [२९] – तत्रेत्यादि| ऋजु प्राञ्जलम्| असङ्कीर्णं [३०] न सङ्कटं, विशालमित्यर्थः; अन्ये परस्परासंसृष्टमित्याहुः| सूक्ष्मं नातिमहामुखशस्त्रकृतम्| समं तुल्यरेखम्| अनवगाढम् अदूरगतिकम्| अनुत्तानं [३१] किञ्चिन्मांसस्पृगित्यर्थः| आशु अविलम्बितं यथा भवत्येवं शस्त्रं पातयेत्||२६||

तत्र, दुर्दिने दुर्विद्धे [३२] शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति ||२७||
मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसङ्गिनाम् |
निद्राभिभूतभीतानां नृणां नासृक् प्रवर्तते ||२८||


रक्तस्यायोगं चिकित्सार्थमाह- तत्र दुर्दिन इत्यादि| दुर्दिन इति नित्यगकालदोषः| केचिद् ‘दुर्दिने’ इति न पठन्ति| दुर्विद्धे इति वैद्यक्रियादोषः| शीतवातयोरिति कालकृतो दोषः| भुक्तमात्र इति आवस्थिककालदोषः; ‘अभुक्तवत’ इत्यन्ये पठन्ति| स्कन्दत्वात् स्त्यानत्वात्| मदो विषमद्यजो विकारः, आर्तानां पीडितानाम्| वातविण्मूत्रसङ्गिनामिति सङ्गोऽप्रवर्तनम्||२७-२८||

तद्दुष्टं शोणितमनिर्ह्रियमाणं शोफदाहरागपाकवेदना जनयेत् ||२९||


दुष्टरक्तस्यास्रुतिदोषमुपदिशन्नाह- तद्दुष्टमित्यादि||२९||

अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञैर्विस्रावितमतिप्रवर्तते [३३] ; तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघातमेकाङ्गविकारं हिक्कां श्वासकासौ पाण्डुरोगं मरणं चापादयति ||३०||


अतियोगं व्यापदश्चोपदिशन्नाह- अत्युष्ण इत्यादि| अत्युष्णे अत्युष्णकाले| अतिस्विन्ने अतिस्वेदिते| अतिविद्धेऽज्ञैरिति आज्ञा अदृष्टकर्माणः| शिरोऽभितापं शिरःशूलम्| आन्ध्यम् अन्धताम्| अधिमन्थः चक्षूरोगोऽभिष्यन्दपूर्वकः, तिमिरं लिङ्गनाशः, प्रादुर्भावशब्दोऽधिमन्थतिमिराभ्यां सम्बध्यते| शिरोभितापादीन् शिरस्यतिहृतं रक्तं करोति, धातुक्षयं सर्वत्रैवातिहृतम्| एकाङ्गविकारमिति एकस्मिन्नङ्गे य उत्पद्यते स एकाङ्गविकारः, स चात्र वातजनितः||३०||

तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते |
यवागूं प्रति पीतस्य शोणितं मोक्षयेद्भिषक् ||३१||


अयोगातियोगौ सहेतुकौ निर्दिश्य सम्यग्योगं सहेतुकं निर्दिशन्नाह- तस्मादित्यादि| न शीते नात्युष्णे साधारणे काले| नास्विन्ने नातिस्वेदिते| नातितापिते सूर्यतापादिभिः| यवागूरत्र तिलयवागूः, तस्याः सद्यःस्नेहनीयत्वाद्रक्तोत्क्लेशकरत्वाच्च| प्रतिपीतस्येति प्रतिशब्दोऽत्र पानान्तरं सूचयति; तेन यवाग्वा द्वितीयपानानन्तरं तृतीयपानानन्तरं वेत्यर्थः; अन्ये तु ‘यवागूर्विरलद्रवा बहुसिक्था, तां प्रतिपीतस्य, सा हि प्रायशः प्रक्लेदनात्मिका स्वेदलत्वाद्द्रवोष्णत्वाच्च शोणितं विलाययति; प्रतिशब्दोऽत्र मात्रार्थः, तेन यवागूं मात्रया पीतवत इत्यर्थः’||३१||

सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते |
शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ||३२||


इदानीं सम्यग्योगस्य सुविशुद्धस्य चैकेनैव वाक्येन लक्षणं वक्तुमाह- सम्यगित्यादि| सम्यग्गत्वा यदा रक्तमिति गत्वा निःसृत्य, यदा सम्यग्रक्तं रक्तवर्णं शोणितं भवति तदा शुद्धं विजानीयात्; सम्यग्विस्रावितपक्षे त्वयमर्थः- सम्यग्गत्वेति सम्यक् प्रवर्तनं कृत्वा, यदा रक्तं रुधिरं, स्वयमेवावतिष्ठते अवस्थितिं करोति, तदा सम्यग्विस्रावितं च तद्रक्तं विजानीयात्| चकारेणैतल्लक्षणद्वयं लभ्यते| अन्ये तु सम्यग्गत्वेत्यादिश्लोकस्य व्याख्यानमन्यथा कृत्वा सार्धश्लोकेन व्याख्यानयन्ति- “न चातिवेगं नावेगं सम्यग्युक्त्या विनिःसृतम्| विहाय दुष्टतां स्वेन रूपेण ह्यवतिष्ठते|| प्रयत्नमनपेक्ष्यासृक् तदा शुद्धं विनिर्दिशेत्”- इति||३२||

लाघवं वेदनाशान्तिर्व्याघेर्वेगपरिक्षयः |
सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ||३३||


आभ्यन्तरमपरमपि रक्तशुद्धिस्रावणस्य लक्षणं दर्शयन्नाह- लाघवमित्यादि| एतच्छारीरं सम्यग्विस्राविते लिङ्गं; प्रसादो मनसस्तथेति पुनर्मानसम्||३३||

त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये |
रक्तमोक्षणशीलानां न भवन्ति कदाचन ||३४||


शोणितस्रावणफलं दर्शयन्नाह- त्वग्दोषा इत्यादि| त्वग्दोषा अष्टादश कुष्ठानि न्यच्छनीलिकादयश्च, ग्रन्थयो वातादिनिमित्ता सिराग्रन्थिश्च| शोणितजा रोगा रक्तगुल्मविद्रधिविसर्पादयः| रक्तमोक्षणशीलानां रक्तस्रावणाभ्यासकारिणाम्||३४||

अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्वा चूर्णीकृतैर्लवणतैलप्रगाढैर्व्रणमुखमवघर्षयेत्, एवं सम्यक् प्रवर्तते ||३५||


इदानीमप्रवृत्तरक्तस्य प्रवर्तनायाह- अथ खल्वियादि| शीताशिवं कर्पूरं, नक्तमालो बृहत्करञ्जः| त्रिभिश्चतुर्भिरिति एतेनैकद्विद्रव्यनिषेधः कृतः| लवणतैलप्रगाढैरिति सैन्धवतिलतैलोत्कटैरित्यर्थः||३५||

अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैः शनैर्व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत् सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भि र्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्रफेनलाक्षाचूर्णैर्वा, यथोक्तर्व्रणबन्धनद्रव्यैर्गाढं बध्नीयात्, शीताच्छादनभोजनागारैः शीतैः प्रदेहपरिषेकैश्चोपचरेत्, क्षारेणाग्निना वा दहेद्यथोक्तं, व्यधादनन्तरं [३४] तामेवातिप्रवृत्तां सिरां विध्येत्; काकोल्यादिक्वाथं वा शर्करामधुमधुरं पाययेत्, एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं; क्षीरयूषरसैः सुस्निग्धैश्चाश्नीयात्; उपद्रवांश्च यथास्वमुपचरेत् ||३६||
भवन्ति चात्र-
धातुक्षयात् स्रुते रक्ते मन्दः सञ्जायतेऽनलः |
पवनश्च परं कोपं याति तस्मात् प्रयत्नतः ||३७||
तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः |
ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ||३८||


अतिप्रवृत्तौ रक्तास्थापनाय चिकित्सां दर्शयन्नाह- अथेत्यादि| पत्तङ्गं रक्तचन्दनं, सर्जरसो राला, शुक्तिर्जलशुक्तिः| सालः शङ्कुः, सर्जः शालभेदः, अर्जुनः ककुभः, अरिमेदः ‘अरिमञ्ज’ इति लोके प्रसिद्धः, मेषशृङ्गः कर्कटशृङ्गः, धन्वनः ‘धम्मण’ इति प्रसिद्धः; सालादित्वग्भिश्चूर्णीकृताभिः ‘व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत्’ इत्यत्रापि सम्बध्यते| क्षौमेण वा ध्मापितेन अतसीवस्त्रेण दग्धेन ‘व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत्’ इत्यत्रापि सम्बध्यते| यथोक्तैर्वा व्रणबन्धनद्रव्यैरिति क्षौमकार्पासवस्त्रादिभिः| आच्छादनं वस्त्रादि, प्रदेहो लेपः, परिषेको धारासेकः| यथोक्तं वलयबिन्द्वादि भेदेनेत्यर्थः| व्यधादनन्तरं प्राक्कृतव्यधनादधःस्थाने [३५] , तामेव पूर्वविद्धां सिरां विध्येत्, रक्तगतिच्छेदनार्थम्| रक्तातिस्रुतावाभ्यन्तरं भेषजं दर्शयन्नाह- काकोल्यादीत्यादि| एणः कृष्णहरिणः, हरिणस्ताम्रवर्णः; एणादिरक्तं पाययेदिति सम्बन्धः, रक्ताप्यायनार्थं; तच्चादुष्टमसंस्कृतं च| रक्तातिप्रवृत्तौ भोजनं नियमयन्नाह- क्षीरेत्यादि| यूषो मुद्गयूषः, रसो मांसरसः| सुस्निग्धैरिति शोभनं कृत्वा घृतेन स्निग्धीकृतैः| अश्नीयादिति क्षीरादिसिक्तमोदनं भुञ्जीत| पित्तदुष्टरक्तस्यैवातिप्रवृत्तावतिप्रवृत्तरक्तस्य क्षीरभोजनम्, अथवा पित्तप्रकृतिकस्यैव रक्तातिप्रवृत्तौ क्षीरभोजनं, कफदुष्टरक्तस्यैवातिप्रवृत्तावतिप्रवृत्तरक्तस्य यूषभोजनं, श्लेष्मप्रकृतिकस्यैव वा; वातदुष्टरक्तस्यैवातिप्रवृत्तावतिप्रवृत्तरक्तस्य रसभोजनं, वातप्रकृतिकस्यैव वा; अन्ये तु दीप्तमध्यमन्दाग्नीनां यथासङ्ख्यं क्षीरादिसिक्तमोदनं भोजनमाहुः; सात्म्यापेक्षयेत्येके| अतिस्रुतरक्तस्योपद्रवान् चिकित्सितुमाह- उपद्रवांश्चेत्यादि| उपद्रवान् शिरोऽभितापादीन्| यथास्वमिति स्वकीयेन स्वकीयेनोपचारेणेत्यर्थः| धातुक्षयादित्यादि| तस्मादनतिशीतादिभोजनैः प्रयत्नतस्तं पुरुषमुपाचरेदिति सम्बन्धः, अग्निसन्धुक्षणार्थं शोणिताप्यायनार्थमुपद्रवपरिहारार्थं च| ईषदम्लैर्दाडिमामलकैः, तेषामेवाम्लेषु प्रधानत्वात्||३६-३८||

चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् |
सन्धानं स्कन्दनं चैव पाचनं दहनं तथा ||३९||
व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् |
तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् सिराः ||४०||


चतुर्विधमित्यादि| सन्धानं शस्त्रपदस्य, स्कन्दनं शोणितस्य स्त्यानीकरणं, पाचनं दहनं च शस्त्रपदस्य| कषायः कषायरसद्रव्यं, तच्च लोध्रादिकम्; अन्ये तु हरीतक्यादिकं पञ्चवल्कलादिकं चाहुः| हिमं शीतम्| भस्म क्षौमादिजनितम्| दहनं शलाकाप्रभृतिभिः||३९-४०||

अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् |
सन्धाने भ्रश्यमाने तु पाचनैः समुपाचरेत् ||४१||
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि |
असिद्धिमत्सु चैतेषु दाहः परम इष्यते ||४२||


इदानीं पूर्वपूर्वासिद्धावुत्तरोत्तरं विध्यवसरं प्रतिपादयन्नाह- अस्कन्दमाने इत्यादि| तत्र प्रथमं शीतोपचारादि कर्तव्यं, तेन यदा स्त्यानीभूय रक्तं न तिष्ठति तदा हरीतक्यादि पञ्चवल्कलादि वा प्रयोजयेत्; सन्धानेन चेन्न तिष्ठति रसं तदा पाचनं भस्म प्रयोजयेत्; एभिस्त्रीभिर्विधानैर्यदि न तिष्ठति रक्तं तदा दहनं शोणितस्थापनार्थं कर्तव्यमित्यर्थः||४१-४२||

शेषदोषे [३६] यतो रक्ते न व्याधिरतिवर्तते |
सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ||४३||


इदानीं रक्तातिस्रावदोषं दर्शयन्नाह- शेषेत्यादि| न व्याधिरतिवर्तते न वृद्धिं याति| सावशेषे ततः स्थेयमिति सावशेषे दोषे रक्तं पुनः संशमनादिभिर्जयेत्||४३||

देहस्य रुधिरं मूलं रुधिरेणैव धार्यते |
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ||४४||


कुतः पुनः शोणितस्रावणेऽतिक्रमो न करणीय इत्याह- देहस्येत्यादि| मूलमिति उत्पत्तिस्थितिप्रलयेषु शोणितमेव हेतुः, अनेनैव धार्यते स्थाप्यते||४४||

स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले |
शोफं सतोदं कोष्णेन सर्पिषा परिषेचत् ||४५||


शोणितावसेके पश्चात्कर्म दर्शयन्नाह- स्रुतरक्तस्येत्यादि||४५||

इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्याय ||१४||


इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्यायः||१४||

१. तत्र इति ताडपत्रपुस्तके न पठ्यते|
२. षड्रसोपेतस्य इति ताडपत्रपुस्तके पाठः|
३. जीवयति इति पा. |
४. पोष्यस्य धातुरसस्यैव हृदयं स्थानं नतु पोषकस्याहाररसस्य, तस्य तु धमन्य एव स्थानं, यदाह चक्रः- तत् स्थानं तु धमन्य एव| पोषकाहाररसस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते, रसादिकारणरूपतया रसादिग्रहणेनैव तद्ग्रहणात्- इति|
५. तनुता इति पा.|
६. पृथिव्यादिगुणास्त्वेते दृश्यन्ते शोणिते यतः इति ताडपत्रपुस्तके पाठः|
७. अत्र प्रजायते इति प्रशब्दः प्रकर्षवाची, तेन रसादिगतमलांशात् कफः पित्तं मलाः खेषु (सू. अ. ४६) इत्यादिना वक्ष्यमाणमलोत्पत्तिरप्यपकृष्टांशजन्या सूचिता भवति| यदुक्तं चरके “रसात् स्तन्यं तथा रक्तमसृजः कण्डराः सिराः| मांसाद्वसा त्वचः षट् च मेदसः स्नायुसन्धयः (च. चि. अ. १५) इति| शुक्रं तु जायते इत्यनेन पुनरुत्पादाभिधानेन शुक्रस्य विशिष्टमलांशरहितमुत्पादं दर्शयति| यत्तु श्मश्रु शुक्रमलतया कैश्चिदुच्यते, तन्न, शास्त्रेऽनभिहितत्वात्, तथा स्त्रीणां च सशुक्रतया श्मश्रुप्रसक्तेः| तस्मात् श्मश्रु लोमविशेषतयाऽस्थिमलमेव|” इति भानुमत्यां चक्रः| तत्र पाकजन्यैः प्रसादांशैर्येन क्रमेण ये ये जन्यन्ते तानाह- रसादित्यादि| प्रसादज इत्यस्य लिङ्गविपरिणामेन रक्तमित्यादिषु सर्वत्र सम्बन्धः| प्रसादजश्च सारभागः| तेन रसाद्रक्तं प्रसादजं, ततो रक्तान्मांसं प्रसादजं, मांसाच्च मेदः प्रसादजमित्यादि योज्यम्| रसाद्रक्तं प्रसादजमिति रसात् पाकेन जायते यः प्रसादांशस्तस्माद्रक्तं जायते| एवं रक्तात् पाकेन जायते यः प्रसादांशस्तस्माच्च मांसं जायत इत्यादि व्याख्येयम्| जनिश्चायं पोषण एव वर्तते नापूर्वोत्पादे| यतो रक्तादयो गर्भात् प्रभृत्येवोत्पन्ना रसादिभिः पोष्यन्ते| अन्ये तु ‘गर्भप्रसादजम्’ इति पठित्वा गर्भप्रसादजमिति समस्तपदेन ओज आचक्षते| अस्मिंस्तु पक्षे प्रसादजशब्दस्य न सर्वत्रान्वयः| ननु, ‘पुष्यन्ति त्वाहाररसात्’ (च. सू. अ. २८) इत्यादिना चरके रसेन रसपोषणमुक्तम्, अत्र तु रसाद्रक्तमित्यादिना रसेन रक्तपोषणमुच्यत इति विरोधः| नैवम्, एक एवायमाहाररसो द्विप्रस्थानः पोष्यपोषकभेदेन| तत्रान्नपानादुत्पन्नो रसः पोषकः, रक्तादिवत् स्थायी यः स पोष्यः, तस्यैव हृदयं स्थानमुक्तम् (पोषकाहाररसस्य तु धमन्य एव स्थानम्)| अत एव पोष्य स्थायिरसव्यवच्छेदार्थमाहारेति रसविशेषणमुक्तं चरकेण| यत्तु ‘रसाद्रक्तं’ इत्यादिवचनं तद्रसत्वेनाभेदविवक्षया रसं परित्यज्य रक्तमेव पठितं, न तु पोष्यस्य रसाख्यधातोरभावादिति| न चैवमष्टधातुकत्वं शरीरस्येति वाच्यं| यतः स्थायिरसभागपोषकरसभागयोः स्थानभेदाग्निभेदाद्यभावादेकत्वमेवेति सप्तधातुकमेव शरीरमित्युच्यत इति| अत्र च रसाद्रक्ताद्युत्पादे केचिदिदं वदन्ति- यद्रसोऽग्निपच्यमानः सर्वात्मना रक्ततां याति, रक्तं च मांसतामित्यादि पूर्व पूर्वधातुपरिणामेनोत्तरोत्तरधातूत्पादः, यथा- सर्वात्मना क्षीराद्दधि भवति, दध्नो नवनीतं, नवनीताद्धृतं, घृताच्च घृतमण्डः, इत्येकः पक्षः| किंवा रस एव रक्तं प्रथमं प्लावयति, तत्र रक्तस्थानसम्बन्धाद्रक्तसादृश्यं रक्तव्यपदेशं चानुभवति, रक्तं च रक्तसमानेन स्तोकेनांशेनास्रं पोषयति, ततो रक्तमाप्लाव्य मांसमाप्लावयति, तत्रापि मांससमानेनांशेन मांसपोषणं करोति मांससादृश्यं मांसशब्दाभिधेयतां चानुभवति, एवमुत्तरोत्तरधातून् रस एव प्लावयति, यथा- केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां केदारीमाप्लावयतीति द्वितीयः पक्षः| एतदेवोक्तं हारीते यत्, “रसः सप्ताहादर्वाक् परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्ताद्वर्णपरिवर्तमापद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यते”- इति, तथा सुश्रुतेऽपि- ‘तत्रैषां धातूनाम्’- इत्यादिना तथा ‘स खलु त्रीणि त्रीणि’- (सु. सू. अ. १४) इत्यादिना रसेनैव रक्तादिधातुपोषणमनेन न्यायेनोक्तं| किंवा, आहाररस उत्पन्नो भिन्नैरेव मार्गैः स्थायिरसरुधिरमांसादीन् रसरुधिरादिसमानांशेन तर्पयति, तत्र यः प्रत्यासन्नो धातुस्तत्पोषको भागस्तं शीघ्रं पुष्णाति, यस्तु विदूरधातुस्तस्य सूक्ष्मविदूरमार्गतया चिरेण पोषणं भवति, एवं भिन्नैरेव मार्गैर्धातुपोषणं भवति| तेन रक्तपोषणकालादुत्तरकालं मांसपोषको रसभागो मांसं पोषयति, तथा मांसपोषणकालादुत्तरकालं मेदः पोषको रसभागो मेदः पोषयतीत्यादि| तेन रसाद्रक्तमित्यादिवचनस्यायमर्थो यत्- रसपुष्टिकालादुत्तरकालं रक्तं प्रवर्तते, रक्तपुष्टिकालादुत्तरकालं मांसं प्रवर्तते इत्यादि| अस्मिंस्तु पक्षे- “विण्मूत्रमाहारमलः सारः प्रागीरितो रसः| स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत्” (सु. सू. अ. ४६) इत्यादिवचनं मुख्यार्थमेव घटते (तथा ‘तस्मिन् धातुमलाशयानुसारिणि रसे’ इति च मुख्यार्थं भवति, तथा चरकेऽपि ‘स्रोतसा च यथास्वेन धातुः पुष्यति धातुना’ (च. चि. अ. ८) इति च मुख्यार्थं भवति)| तेन यथा खले उपचितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव गच्छतां गम्यदेशस्य प्रत्यासन्नत्वविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण वा गमनं भवति तद्वत्| इति क्षीरदधिन्यायकेदारीकुल्यान्यायखलेकपोतन्यायात्त्रिधा धातुपोषणक्रमः| तत्र, एतेषु पक्षेषु सर्वात्मपरिणामे त्रिचतुरोपवासेनैव देहस्य नीरसत्वं स्यात्, मासोपवासाच्च शुक्रम(क्ष)यं शरीरं स्यादित्युपेक्षणीय एव प्रथमः पक्षः| केदारीकुल्यान्यायपक्षे तु रसाद्रक्तादिपोषणं मुख्यार्थतया भवति, यदपि रक्तादेर्मांसादिपोषणं तदपि रसादेव रक्तादिधर्मतया रक्तादिव्यपदेशभाजो भवतीति व्युत्पादितमेव, यत्तु रसस्य सर्वधातुपोषकत्वमुक्तं (सर्वधातुदोषमलाशयानुसारित्वमुक्तं) तदपि रक्तादिपोषकतया तथा हृदयस्थस्थायिरसस्य कृत्स्नदेहव्यापकतया चोपपन्नं| एवं चरकेऽप्युक्तम्| – ‘व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा| युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा” – (च. चि. अ. १५) इत्यादि, तदप्युक्तन्यायादेवोपपन्नं| यदपि मांसादिना समानेन मांसादेरेव पोषणं, तदपि धात्वाप्लावनन्यायेन गच्छताऽपि रसेन तद्धातुसमानेनांशेन तद्धातुपोषणादुपपन्नम्| वृष्यं तु प्रभावाद्यथा खलेकपोतन्याये विदूरमपि शुक्रं प्रभावाच्छीघ्रं याति, तथाऽत्रापि शीघ्रमेव वृष्योत्पन्नो रसो रक्तादिधातून् शीघ्रमाप्लावयतीति सुघटम्| एवमनया दिशाऽन्यदप्यत्र दूषणमुद्धार्यम्| तेनायं पक्षस्तावत् साधुः| खलेकपोतपक्षेऽपि यथा रसाद्रक्तमित्यादि गौणतया भवति तद्दर्शितमेव| यत्तु चरके “रक्तं विबद्धमार्गत्वान्मांसादीन् न प्रपद्यते” (च. चि. अ. ८)- इत्युक्तं, तत् कृत्स्नदेहचारिशोणिताभिप्रायेण, न तु पोषकरक्ताभिप्रायेणेति व्यवस्थाप्यते| यत्तु “एकैकस्मिन् धातौ त्रीणि त्रीणि”- इत्यादिना धाताववस्थानकाल उक्तः, स पूर्वपूर्वरक्तादिधातुलङ्घनकालो विदूरगामिरसस्येति व्यवस्थाप्यते| एवमनयोः पक्षयोर्महाजनपरिगृहीतयोर्गतिरूपदर्शिता| स्वरसस्त्वस्माकं केदारीकुल्यान्याये| यत्त्वन्यैः खलेकपोतन्यायस्वीकारेण चरके सन्ततज्वरस्य द्वादशाश्रयत्वं युक्तमित्याद्युक्तं, तन्न बुद्ध्यामहे, सन्ततज्वरस्य द्वादशाश्रयत्वं दोषमहिम्ना कृत्स्नदेहव्यापकतया “यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः”- (च. चि. अ. ३) इत्यादिनोक्तम्| दोषाणां च कुपितानां सम्प्राप्तिविशेषात् किमगम्यमस्ति देहे, येन तावद्रसमेव परं सर्वधात्वादिव्यापकं सर्वधातुदूषणेऽपेक्षन्त इति” इति चक्रदत्तविरचितद्रव्यगुणसङ्ग्रहव्याख्यायां शिवदाससेनः|
८. तेषां रसादीनां इति हस्तलिखितपुस्तके न पठ्यते|
९. आत्मपाचकपच्यमानात् इति पा.|
१०. यदाह चरकः- “किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः| पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः|| स्यात् किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट् त्वचाम्” (च. चि. अ. १५) इति”|
११. रसात् स्तन्यं तथा रक्तमसृजः कण्डराः सिराः| मांसाद्वसा त्वचः षट् च मेदसः स्नायुसन्धयः”- इति| सम्प्रति प्रसादजन्यतां धातूनामभिधायोपधातूनामप्याह- रसादित्यादि| अत्रापि रसात् स्तन्यं प्रसादजमित्यादि योज्यम्| रक्तमिति स्त्रीणां रजः सञ्ज्ञं रक्तमप्युपधातुरूपं रसादेव प्रसादभागजन्यमित्यर्थः| उक्तं च सुश्रुते- “रसादेव स्त्रिया रक्तं रजःसञ्ज्ञं प्रवर्तते” (सु. सू. अ. १४) इति| एतच्च रजोरूपं रक्तं रसजन्यमपि धातुशोणितवन्न शीघ्रं जायते, किन्तु शुक्रवन्मासेनैव| तदुक्तं सुश्रुते- “एवं मासेन रसः शुक्रीभवति स्त्रीणां च चार्तवम्”- इति| अन्ये तु- “घृतकुम्भो यथैवाग्निमाश्रितः प्रविलीयते| विसर्पत्यार्तवं स्त्रीणां तथा पुंसां समागमे” (शा. अ. २) इत्यत्र यथाऽऽर्तवशब्देन शुक्रमुच्यते तथा स्त्रीणां चार्तवमित्यत्राप्यार्तवशब्दः शुक्र एव वर्तते न तु रजसि, रजो हि रसाद्रक्तवच्छीघ्रमेव जायते न तु मासेनेत्याहुः| तन्नेत्यन्ये, विसर्पत्यार्तवमित्यादावपि स्त्रीणामार्तवं पुंसां समागमे सति विसर्पतीति योजनयाऽऽर्तवशब्दस्य रजोवचनत्वेनाप्युपपत्तेः| वस्तुतस्त्वार्तवस्य रक्तरूपता यद्यपि मासादर्वाग्भवति तथाऽपि तस्यार्तवरूपता गर्भाशयप्राप्त्यैव भवति, गर्भाशयप्राप्तिस्तु मासेनैव भवतीति कृत्वा मासेनार्तवं भवतीति सुश्रुतेनोक्तम्| उक्तं हि विश्वामित्रेण- “सूक्ष्माः केशप्रतीकाशा बीजरक्तवहाः सिराः| गर्भाशयं पूरयन्ति मांसाद्बीजाय कल्पते”- इति| तत्र बीजभूतरक्तं बीजरक्तमार्तवमित्यर्थः| असृजः कण्डरा इति स्थूलस्नायवः| मेदसः स्नायुसन्धय इत्यनेन तु मेदसः सूक्ष्मस्नायुपोषणमिति ज्ञेयम्| चरके हि कण्डराशब्दः स्थूलस्नायुवाची, सुश्रुते च स्थूलसिरावाचीति ज्ञेयम्| एते च स्तन्यादयः शरीरधारका अप्युपधातुशब्देनैवोच्यन्ते, नतु धातुशब्देन| धातुशब्दप्रवृत्तेर्धारणपोषणनिमित्तत्वात्| तेन ये शरीरं धारयन्ति धातूंश्च पुष्णन्ति रसादयस्त एव मुख्यतया धातुशब्दवाच्या न स्तन्यादयः, ते हि शरीरं धारयन्त्येव न तु किञ्चित् पुष्णन्ति| उक्तं हि भोजे- “सिरास्नायुरजः स्तन्यत्वचो गतिविवर्जिताः| धातुभ्यश्चोपजायन्ते तस्मात्त उपधातवः”- इति| अत्र गतिविवर्जिता इत्यनेन धात्वन्तरपोषणाद्या गतिर्निषिध्यते| अत एव धातुभ्यश्चोपजायन्त एव न तु परं जनयन्तीत्यर्थः| यत्तु “किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्” (च. सू. अ. १) इत्यत्र धातुशब्देन दोषाणामपि ग्रहणं, तद्गौणधातुशब्दप्रयोगाज्ज्ञेयम्| उक्तं हि- “दोषा ह्यपि धातुसञ्ज्ञां लभन्ते” – इति| शुक्रस्याप्योजःपोषकतया धारणपोषणयोगोऽस्तीति धातुत्वमखण्डितमेव| ओजस्तु यद्यपि न धातुषु नाप्युपधातुषु पठितं, तथाऽपि तत् सप्तधातुसाररूपतया सप्तधात्वन्तर्गतमेवेति ज्ञेयम्| अत एव तस्याग्निरपि पृथङ्नोक्तः” इति चक्रपाणिदत्तकृतद्रव्यगुणसङ्ग्रहव्याख्यायां शिवदाससेनः|
१२. अन्नपानादेकाहेनोत्पन्नो रसोऽन्नपानरसः| सर्वधातूनामित्यत्र सर्वशब्देन स्थायिरसमपि गृह्णाति| यदुक्तं चरके- “पुष्यन्ति त्वाहाररसाद्रसरुधिरमांस … ” (च. सू. अ. २८) इत्यादि| ननु यद्येवं तत् किं रसद्वयं? तथा सत्यष्टधातुत्वं शरीरस्य| मैवम्, एक एवायमाहाररसो द्विप्रस्थानः पोष्यपोषकभेदेन| तत्र पोष्यो रसांशः सर्वशरीरचारी पोषकेण रसांशेन समानेन नित्यं पाकान्तरानपेक्षेणैवाल्पीयसा युज्यते, अवशिष्टस्तु रक्तादिपोषको रक्तं याति, तत्र रक्तस्थेनाग्निना यथावक्ष्यमाणकालजातपाकात् कफं मलं त्यक्त्वा रक्तसमानांशेनाल्पीयसा सर्वथा रक्तीभूतेन रक्तं पोषयति, शेषस्तु मांसादिसमानरसभागो मांसादीन् याति, तत्रापीदृश्येव पाकव्यवस्था, तेन स्थायिरसपोषकरसयोः कर्मभेदाद्भेदोऽभिधीयते, पाकान्तरस्थानान्तरगत्यन्तरामावाच्चैकताऽपि| तेन क्वचिद्भेदविवक्षया पुष्यन्ति त्वाहाररसादित्याद्युक्तं, अभेदविवक्षया तु रसाद्रक्तमित्याद्युक्तमिति युक्तम्’ इति चक्रः|
१३. रसः शुक्रीभवति स्त्रीणां चार्तवं’ इति पा.| स्त्रीणां चार्तवमिति मासेन रसः स्त्रीणामार्तवतां यातीत्यर्थः, यद्यपि रसादार्तवं मासादर्वागेव भवति, तथाऽपि रजसः सूक्ष्मविप्रकृष्टमार्गतया मासेन भवनम्| यदुक्तं विश्वामित्रेण- “सूक्ष्मकेशप्रतीकाशा बीजरक्तवहाः सिराः| गर्भाशयं पूरयन्ति मासाद्बीजाय कल्पते- “इति| अत्र बीजभूतरक्तं बीजरक्तमार्तवमित्यर्थः| अत्र यदि नामार्तवस्य रक्तरूपता स्तोकेनापि कालेन भवति तथाऽपि तस्य गर्भाशयप्राप्तिर्मासेनैव भवति, गर्भाशयगतं च तन्मुख्यार्तवशब्दावाच्यम्, अतो मासेन तद्भवनाभिधानं युक्तम्| अन्ये मासेनोपचयादाविर्भावमार्तवस्य मासेनेति वदन्ति| ये तु आर्तवशब्दं स्त्रीशुक्रे वर्तयन्ति तन्मते अशाब्दीया व्याख्या| यदपि “घृतकुम्भो यथैवाग्निमाश्रितः प्रविलीयते| विसर्पत्यार्तवं स्त्रीणां तथा पुंसां समागमे” (शा. अ. २) इति कैश्चित् पठ्यते, तद्यद्यार्षं तदा तत्रार्तवशब्देन रज एवोच्यते, तद्धि मैथुनसमये पुरुषबीजग्रहणाय विसर्पति| स्त्रीशुक्रं तु शुक्रशब्देन पुरुषस्त्रीसाधारणेन मांसादिवत् प्राप्तमेव | यत्तु स्त्रीशुक्रस्य गर्भानारम्भकत्वं तद्वचनादेव तथा नारीरजसो गर्भारम्भकत्वादेव लब्धम्| उक्तं च तन्त्रान्तरे “स्त्रीणां शुक्रं न गर्भाय भवेद्गर्भाय चार्तवम्” इति| स्त्रीशुक्रं च क्वचिदाश्रयीभूतं गर्भारम्भकं वक्तव्यम्| यथा “मुञ्चतः शुक्रमन्योन्यमनस्थिस्तत्र जायते” इति भानुमत्यां चक्रः|
१४. ननु तन्त्रान्तरे अष्टाहाच्छुक्रोत्पत्तिरुक्ता, यदुक्तं पराशरे- “आहारोऽद्यतनो यः स श्वो रसत्वं नियच्छति| शोणितत्वं तृतीयेऽह्नि चतुर्थे मांसतामपि|| मेदस्त्वं पञ्चमे षष्ठे त्वस्थित्वं सप्तमे त्वियात्| मज्जत्वं शुक्रतां यायान्नियमात्त्वष्टमे नृणाम्” इति| चरकेऽप्युक्तम्- “षड्भिः केचिदहोरात्रैः केचित् सप्तभिरेव च| इच्छन्ति मुनयः प्रायो रसस्य परिवर्तनम्” (च. चि. अ. १५) – इति| तदेतदाशङ्क्याह- स शब्दार्चिर्जलसन्तानवदित्यादि| यदेतन्मासेन रसस्य शुक्रत्वाभिधानं तत् पराकाष्ठया ज्ञेयम्, अर्वागपि त्वग्निप्रकर्षस्रोतःशुद्धिप्रकर्षाद्रसस्य शुक्रतोत्पत्तिर्भवति| यदुक्तं चरके- ‘सन्तत्या पोष्यधातूनां परिवृत्तिस्तु चक्रवत्’ (च. चि. अ. १५) इति| अत्र हि चक्रस्य वाह्यवाहकप्रर्षाप्रकर्षाभ्यां यथा परिवृत्तिः शीघ्रं चिरेण वा भवति, तथा रसस्यापीति वाक्यार्थः| तेनेहापि शब्दवदनुसरतीत्यनेन मध्यः परावृत्तिक्रम उच्यते| अर्चिर्वदित्यनेन शीघ्रः, अर्चिःसन्तानो हि शब्दसन्तानादपि शीघ्रः| जलसन्तानवदित्यनेन चातिमन्दः परो मासेन परावृत्तिरूपः क्रम उच्यते| तथाऽन्यत्राप्युक्तम्- “केचिदाहुरहोरात्रात् षडहादपरे परे| मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमादिति”| अणुना विशेषेणेति सूक्ष्मेण सूक्ष्मबुद्धिगम्येनेति यावत्| यच्छब्दसन्तानवत्तिर्यग्गमनं रसस्य, अर्चिःसन्तानवच्चोर्ध्वगमनं, जलसन्तानवच्चाधोगमनमुच्यते, तच्छब्दस्य सर्वदिग्गामित्वादनुपपन्नम्| ऊर्ध्वाधस्तिर्यग्गमनं च रसस्य “स हृदयाच्चतुर्विंशतिं धमनीः” इत्यादिनोक्तम् इति चक्रः| अर्चिः सन्तानवद्धमनीषु (आर्टरी), शब्दसन्तानवत्सिरासु (वेईन), जलसन्तानवत्स्रोतःसु (केपिलरी) रससञ्चरणमिति केचन नव्याः| चरकेऽप्युक्तं ‘ध्मानाद्धमन्यः स्रोतांसि स्रवणात् सरणात् सिराः’ (च. सू. अ. ३०) इति|
१५. ‘वाजीकारिण्यः’ इति ‘वाजीकरिण्यः’ इति च पा.|
१६. ‘सामर्थ्यं प्राप्नोति’ इति पा.|
१७. स्वबलं द्रव्यस्वभावः, गुणोत्कर्षो गुणस्वभावः, तस्मात् स्वबलगुणोत्कर्षाद् व्यस्तात् समस्ताच्च| यदुक्तं चरके- “द्रव्याणि हि द्रव्यप्रभावाद् गुणप्रभावात् द्रव्यगुणप्रभावाच्च कार्मुकाणि भवन्ति” (च. सू. अ. २६) इति| शुक्रमाशु विरेचयन्तीति विरेचनमिह विरेचनदृष्टान्तानुगुणतया वृष्यकर्मोपलक्षणमुक्तं| तेन शुक्रवृद्धिः, शुक्रस्रुतिः, तथा शुक्रस्रुतिवृद्धी च लक्षयति| यदुक्तं “शुक्रस्रुतिकरं किञ्चित् किञ्चिच्छुक्रविवर्धनम्| स्रुतिवृद्धिकरं किञ्चित्त्रिविधं वृष्यमुच्यते”- इति|
१८. ‘अथ चास्तीति ‘सतामेवाविर्भावः’ इति साङ्ख्यदर्शनेनेत्यर्थः’ इति चक्रः|
१९. ‘कृत्वा’ इति पा.|
२०. ‘यथाहीति दृष्टान्तताप्रतिपादनार्थम्’ इति पा.|
२१. गन्धोऽस्ति न वाऽस्त्येवेति च इति पा.|
२२. सम्बन्धने इति पा.|
२३. धारणादिति धारणप्रकर्षात्, तेन दोषाणां साम्यावस्थितानां देहधारकाणामपि धारकत्वप्रकर्षाभावान्न मुख्यं धातुत्वं| यत्तु “किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्” (च. सू. अ. १) इत्यत्र धातुशब्देन दोषाणामपि ग्रहणं, तद्गौणधातुशब्दप्रयोगाज्ज्ञेयम्| उक्तं हि “दोषा अपि धातुशब्दं लभन्ते” इति| धारणशब्देन धारणं पोषणं चेह विवक्षितं, तेनोपधातूनां किञ्चिद्धारणत्वेऽपि पोषणाभावान्न धातुत्वं, उक्तं च भोजे “सिरास्नायुवसास्तन्यत्वचो गतिविवर्जिताः| धातुभ्यश्चोपजायन्ते तस्मात्ते ह्युपधातवः’ इति| अत्र गतिविवर्जिता इत्यनेन धात्वन्तरपोषणार्था गतिर्निषिध्यते, शुक्रं त्वोजः पोषकतया धारणपोषणयोगाद्धातुरेव’ इति चक्रः|
२४. ‘…प्रकाशं’ इति पा.|
२५. तदेवातिपाकात् कृष्णं इति पा.|
२६. पित्तवद्रक्तेनेति पाठपक्षे प्रदेशान्तरदुष्टेन रक्तेन यदा प्रदेशान्तरे रक्तं दुष्यति तदा लक्षणं ज्ञेयम्’ इति चक्रः|
२७. ‘प्रच्छन्नं’ इति पा.|
२८. ‘नोत्तानं’ इति पा.|
२९. ‘प्रच्छन्नमधिकृत्याह’ इति पा.|
३०. ‘असङ्कीर्णं नातिप्रत्यासन्नम्’ इति चक्रः|
३१. ‘नोत्तानं’ इति पा.|
३२. ‘दुर्विद्धे इति पार्श्वतोऽन्यत्र वा विद्धे’ इति चक्रः|
३३. ‘अत्युष्णातिस्विन्नातिविद्धेषु’ इति पा.|
३४. ‘यथोक्तव्यधादनन्तरं’ इति पा.|
३५. ‘प्राक्कृतव्यधनादपरस्थाने’ इति पा.| ‘तामेव वा सिरां विध्येद् व्यधात्तस्मादनन्तरम्|’,(वा. सू. अ. २७) इत्यष्टाङ्गहृदये| ‘व्यधादनन्तरं व्यधनस्य पश्चिमभागे’ इत्यष्टाङ्गसङ्ग्रहव्याख्यायमिन्दुः|
३६. ‘सशेषदोषे रुधिरे’ इति पा.|

Diacritic Version

kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā

Suśrutasaṁhitā

śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā

sūtrasthānam - 14. śōṇitavarṇanīyādhyāyaḥ


athātaḥ śōṇitavarṇanīyamadhyāyaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||


athāta ityādi||1-2||

tatra [1] pāñcabhautikasya caturvidhasya ṣaḍrasasya [2] dvividhavīryasyāṣṭavidhavīryasya vā’nēkaguṇasyōpayuktasyāhārasya samyakpariṇatasya yastējōbhūtaḥ sāraḥ paramasūkṣmaḥ sa `rasaḥ’ ityucyatē, tasya hr̥dayaṁ sthānaṁ, sa hr̥dayāccaturviṁśatidhamanīranupraviśyōrdhvagādaśa daśādhōgāminyaścatasraśca tiryaggāḥ kr̥tsnaṁ śarīramaharahastarpayati vardhayati dhārayati [3] yāpayati cādr̥ṣṭahētukēna karmaṇā |
tasya śarīramanusaratō’numānādgatirupalakṣayitavyā kṣayavr̥ddhivaikr̥taiḥ |
tasmin sarvaśarīrāvayavadōṣadhātumalāśayānusāriṇi rasē jijñāsā- kimayaṁ saumyastaijasa? iti |
atrōcyatē- sa khalu dravānusārī snēhanajīvanatarpaṇadhāraṇādibhirviśēṣaiḥ saumya ityavagamyatē ||3||


śōṇitōtpattē rasādhīnatvādrasamēva darśayannāha- tatrētyādi| itthambhūtasyāhārasya yaḥ sāraḥ sa `rasa’ ityucyata iti piṇḍārthaḥ| pāñcabhautikasyēti pr̥thivyādibhūtadravyabhēdēna, caturvidhasyēti pēyalēhyabhōjyabhakṣyabhēdēna, ṣaḍrasasyēti madhurādirasabhēdēna, dvividhavīryasyēti śītōṣṇavīryabhēdēna, pakṣāntaramāha- aṣṭavidhavīryasya vēti śītōṣṇasnigdharūkṣaviśadapicchilamr̥dutīkṣṇabhēdēna, anēkaguṇasyēti śītādidravādiguṇabhēdēna viṁśatiguṇasya, upayuktasyēti samyakpariṇatasyētyanēnaivōpayuktapadārthasya labdhatvādyadupayuktagrahaṇaṁ karōti tat samyagyōgaṁ svāsthyavr̥ttīyadvādaśavidhāśanapravicāramapēkṣyōpayōgaṁ prāpayati| tējōbhūta iti tējasā bhūtastējōbhūtō vahnisambhūta ityarthaḥ; anyē tu tējaḥśabdēna ghr̥tamāhuḥ, tatra tējōbhūtō ghr̥tavadutpanna ityarthaḥ; anyē tu vadanti- bhūtaśabdō’trōpamānārthaḥ, tatra tējōbhūtō ghr̥tākāra ityarthaḥ| sāra iti viḍādimalarahita ityarthaḥ| paramasūkṣma iti atiśayēnāsthūlāvayavaḥ, sūkṣmasrōtō’nusārītyarthaḥ| rasasya sthānamāha- tasyētyādi| tasya rasasya sarvadēhānusāritvē’pi hr̥dayaṁ sthānaṁ [4] ; hr̥dayaśabdēnātra hr̥dayōpalakṣitaḥ pradēśa ucyatē, na tu sākṣāddhr̥dayaṁ; kutaḥ? hr̥dayasyaujaḥsthānatvāt| rasasya kriyāṁ nirdiśannāha- sa hr̥dayādityādi| tarpayatīti bālamadhyasthavirān sarvānēva prīṇayati; anyē garbhaṁ tarpayatīti manyantē, tasyāhārāsambhavāt; vardhayatīti bālaṁ; dhārayatīti madhyaṁ sampūrṇadhātutvāt, kēcit `dhārayati’ ityatra `jīvayati’ iti paṭhanti, atrāpi sa ēvārthaḥ; yāpayatīti vr̥ddhaṁ kṣīyamāṇadēhatvāt| kēcidatra `hr̥dayāt’ ityādi pāṭhaṁ `catasraśca tiryaggāḥ’ ityantaṁ na paṭhanti, `kr̥tsnaṁ śarīraṁ’ ityādi ca paṭhanti| kutaḥ punarayaṁ tarpaṇādi karōtītyāha- adr̥ṣṭahētukēna karmaṇā; prāktanakarmaṇētyarthaḥ| anyē tu kēṣāñcidēva martumicchūnāṁ kutō na tarpaṇādi karōtīti pr̥ṣṭa āha- adr̥ṣṭahētukēna karmaṇēti| tasya śarīramityādi tasyēti rasasya| anusarataḥ anugacchataḥ| kṣayavr̥ddhivaikr̥tairiti vaikr̥taṁ vikāraḥ; kṣayavikāraiḥ `rasakṣayē hr̥tpīḍā kampa’ ityādibhiḥ, vr̥ddhivikāraiḥ `hr̥dayōtklēdaṁ’ ityādibhiḥ| tatra kṣayavr̥ddhivikārairvikr̥tasya; kṣayavr̥ddhivaikr̥taiścētyatra cakārō draṣṭavyaḥ, tēna sarvaśarīratarpaṇādibhiścāvikr̥tasya gatiranumantavyētyarthaḥ| rasasvabhāvaṁ vinirdēṣṭumāha- tasminnityādi| tasminniti pūrvōktē rasē| jijñāsā jñātumicchā| kimayaṁ saumyaḥ kaphavat, athavā taijasaḥ pittavat? iti saṁśayaḥ| atrōcyata ityādi| anusārī anusaraṇaśīlaḥ, snēhanaḥ snēhayatīti, jīvanō jīvayatīti, tarpaṇaḥ prīṇanaḥ śarīrasya, ādiśabdādavaṣṭambhanādayaḥ| viśēṣaiḥ bhēdaiḥ| avagamyatē avabudhyatē||3||

sa khalvāpyō rasō yakr̥tplīhānau prāpya rāgamupaiti ||4||


idānīṁ kramaniṣpattyā śōṇitaṁ darśayannāha- sa khalvityādi| khaluśabdō’pyarthaḥ| āpyō’pi rasō rāgamupaiti lōhitatvaṁ gacchati||4||

ślōkau cātra bhavataḥ-
rañjitāstējasā tvāpaḥ śarīrasthēna dēhinām |
avyāpannāḥ prasannēna raktamityabhidhīyatē ||5||


tamēvārthaṁ ślōkēna spaṣṭīkurvannāha- bhavataścātrētyādi| śarīrasthēna yakr̥tlīhasthēnaiva, prasannēna prakr̥tisthēna, irtthabhūtēna tējasā rañjakanāmnā, avyāpannā ēvaṅguṇaviśiṣṭā āpō rañjitā lōhitīkr̥tāḥ satyō raktamityucyatē| āpō’tra rasaḥ||5||

rasādēva striyā raktaṁ rajaḥsañjñaṁ pravartatē |
tadvarṣāddvādaśādūrdhvaṁ yāti pañcāśataḥ kṣayam ||6||


raktārtavayōrabhēdaṁ darśayannāha- rasādēvētyādi| rajaḥsañjñamiti sañjñāntaramētat strīyōnipravr̥ttasya raktasya, r̥tukālajaṁ raktamēva rajaḥsañjñamucyata ityarthaḥ| tadvarṣāddvādaśādūrdhvamiti tadrajaḥsañjñaṁ śōṇitaṁ dvādaśavarṣādanantaraṁ pravartata iti sambandhaḥ| tasya nivr̥tti kālamāha- yāti pañcāśataḥ kṣayamiti| `rasādēva rajaḥ strīṇāṁ māsi māsi tryahaṁ sravēt| tadvarṣāddvādaśādūrdhvaṁ yāvat pañcāśataṁ samāḥ’- ityanyē paṭhanti| samāḥ varṣāṇi||6||

ārtavaṁ śōṇitaṁ tvāgnēyam, agnīṣōmīyatvādgarbhasya ||7||


raktārtavayōḥ saumyarasasambhūtayōrapi svabhāvabhēdaṁ darśayannāha- ārtavamityādi| tuśabdō’tra bhēdē, tēna rasāt saumyājjātamapyārtavaṁ śōṇitaṁ cāgnēyam| kutaḥ kāraṇādityāha- agnīṣōmīyatvādgarbhasyēti|- ārtavamāgnēyaṁ, śukraṁ saumyaṁ, tābhyāmagnīṣōmīyō garbhō bhavati| nanu yadyārtavamapi saumyaṁ bhavati, tadā saumyārabdhaḥ saumya ēva garbhō bhavati; na caivam, agnīṣōmīyatvādgarbhasyētyatrārtavasyāgnēyatvamucyatē, ārtavaśōṇitayōḥ svabhāvābhēdādārtavasyāgnēyatvē uktē śōṇitasyāpyāgnēyatvamuktamēvēti| `ārtavaśōṇitaṁ tvāgnēyam’- ityanyē paṭhanti; `ārtavaṁ ca tacchōṇitaṁ cētyārtavaśōṇitaṁ; tuśabdō’trāvadhāraṇē, tēnārtavasyāgnēyatvamavadhārayati’ iti vyākhyānayanti| raktaṁ punaranuṣṇaśītamēvamācāryā manyantē||7||

pāñcabhautikaṁ tvaparē jīvaraktamāhurācāryāḥ ||8||


śōṇitasvabhāvē matāntaramāha- pāñcabhautikamityādi| jīvaraktamiti jīvatulyaṁ raktam| kutaḥ? jīvaccharīrē raktadarśanāt, mr̥taśarīrē cādarśanāt; natu jīvaraktamōja iti, ēvaṁ prastutasyaiva raktasya lakṣaṇamanuktaṁ syāt||8||

visratā dravatā rāgaḥ spandanaṁ laghutā [5] tathā |
bhūmyādīnāṁ [6] guṇā hyētē dr̥śyantē cātra śōṇitē ||9||


tadēva pāñcabhautikatvaṁ sukhabōdhārthaṁ spaṣṭayitumāha- visratētyādi| visratā āmagandhatā, bhūmiguṇaḥ; dravatā dravabhāvaḥ, ayamambuguṇaḥ; rāgō raktatā, tējōguṇaḥ; spandanaṁ kiñciccalanaṁ, vātaguṇaḥ; laghutā agurutvam, ākāśaguṇaḥ| bhūmyādīnāmityatrādiśabdēnāptējōvāyvākāśā gr̥hyantē| hi yasmādarthē, yasmādētē visratādayaḥ pr̥thivyādīnāṁ guṇā atra śōṇitē dr̥śyantē, tasmādraktaṁ pāñcabhautikamiti||9||

rasādraktaṁ [7] tatō māṁsaṁ māṁsānmēdaḥ prajāyatē |
mēdasō’sthi tatō majjā majjñaḥ śukraṁ tu jāyatē ||10||


śōṇitaprasaṅgēnānyēṣāmapi dhātūnāṁ kramēṇōtpattiṁ darśayannāha- rasādraktamityādi| sa khalvāpyō rasō yakr̥tplīhānau prāpya rāgamupaitītyanēnaiva rasādēva raktasya bhavanē uktē rasāt punaḥ śōṇitasambhavanavacanaṁ niyamārtham| tēna rasāt kramōtpattyā śōṇitamēva bhavati na parē dhātava iti| ētēna yugapadēva sarvadhātuṣu rasasañcārādrasēnaiva sarvadhātupōṣaṇamiti tantrāntarīyaṁ vacō nirastam| nanu, yadi pariṇamanti rasādayō raktādibhāvēna, tarhi sarvēṣāmutsādaḥ syāt? santatyā pariṇāma iti cēttarhi sarvēṣāṁ pūrvēṣāmalpatā syāduttarēṣāṁ bāhulyamiti? naitadasti| tēṣāṁ [8] rasādīnāṁ malasthūlāṇubhāgaviśēṣēṇa trividhaḥ pariṇāmō bhavati; tadyathā- annāt pacyamānādviṇmūtraṁ malaḥ, sārō rasaḥ; rasādagnipakvānmalaḥ kaphaḥ, sthūlō bhāgō rasaḥ, aṇubhāgō raktaṁ; raktādagnipakvānmalaḥ pittaṁ, sthūlabhāgaḥ śōṇitam, aṇubhāgastu māṁsamiti; tatō’pyātmapāvakapacyamānānmalaḥ [9] śrōtranāsākarṇākṣiprajananādisrōtōmalaḥ, sthūlabhāgō māṁsaṁ, sūkṣmō mēdaḥ; tatō’pi nijavahnipacyamānānmalaḥ svēdaḥ, sthūlōṁ’śō mēda ēva, sūkṣmabhāgō’sthi; tatō’pi pacyamānānmalaḥ kēśalōmaśmaśrūṇi, sthūlō’sthi, sūkṣmastu majjā; tatō’pi majjñaḥ pāvakapacyamānānmalō nayanapurīṣatvacāṁ snēhaḥ, sthūlō bhāgō majjā, sūkṣmaḥ śukraṁ; tataḥ punaḥ pacyamānādupamalō nōtpadyatē sahasradhādhmātasuvarṇavat, sthūlō bhāgaḥ śukramēva, snēhabhāgaḥ sūkṣmastējōbhūtamōjaḥ| pūrvōkta ēvārthaḥ ślōkābhyāṁ kathyatē- “sthūlāṇvaṁśamalaiḥ sarvē bhidyantē dhātavastridhā| svaḥ sthūlōṁ’śaḥ paraṁ sūkṣmastanmalaṁ yāti tanmalaḥ|| svāgnibhiḥ pacyamānēṣu malaḥ ṣaṭsu rasādiṣu| na śukrē pacyamānē’pi hēmanīvākṣayē malaḥ [10] – iti| ākr̥ṣṭāṇḍakōṣasya puṁsaḥ śmaśrupātācchmaśru śukramala ityēkē| tanna, śmaśruhīnasyāpi śukradarśanāt| nanu, māṁsānmēdaḥ prajāyata ityanarthakaṁ, ‘majjñaḥ śukraṁ tu jāyatē’ ityēkēnaiva kriyāpadēna prajāyata ityasyārthasya labdhatvāt| satyaṁ, prajāyata iti kriyāpadaṁ rasādīnāṁ mēdaḥparyantānāṁ viśiṣṭakāryāntarōtpādadarśanārtham, ēbhya ēvōpadhātavaḥ svabhāvādutpadyantē na punarasthyādibhya iti| tathāhi [11] – rasāt stanyamārtavaṁ ca, raktāt kaṇḍarāḥ sirāśca, māṁsādvasātvacau, mēdasaḥ snāyusandhī iti| śukraṁ tu jāyata iti dvitīyajāyatēgrahaṇēna śukrē viśiṣṭadharmavattā uktā; śukraṁ hi svāgnipacyamānamapi nāṇubhāgamutpādayati| anyē tu ‘mēdaḥ prajāyatē’ ityatra `pravartatē’ iti paṭhanti, `śukraṁ tu jāyatē’ ityatra `śukrasya sambhava’ iti paṭhanti, vyākhyānayanti ca- sambhavāśabdō’tra pōṣaṇē na tvapūrvōtpādanē, yatō rasādīnāṁ śukrāntānāmāgarbhādēvōtpattiriti||10||

tatraitēṣāṁ dhātūnāmannapānarasaḥ [12] prīṇayitā ||11||
rasajaṁ puruṣaṁ vidyādrasaṁ rakṣēt prayatnataḥ |
annātpānāñca matimānācārāñcāpyatandritaḥ ||12||


rasasya nirdiṣṭasya prādhānyaṁ darśayitumāha- tatraiṣāmityādi| tatra tēṣu dhātuṣu madhyē| ētēṣāṁ dhātūnāṁ prāguktānāṁ raktādīnām| annapānarasaḥ annapānasya sāraḥ| prīṇayitā tarpayitētyarthaḥ| atandritō’nalasa ityarthaḥ||11-12||

tatra ‘rasa’ gatau dhātuḥ, aharahargacchatītyatō rasaḥ ||13||


rasasyaiva niruktimāha- tatra rasagatāvityādi||13||

sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ēkaikasmin dhātāvavatiṣṭhatē; ēvaṁ māsēna rasaḥ śukraṁ [13] strīṇāṁ cārtavaṁ bhavati ||14||
bhavati cātra-
aṣṭādaśasahasrāṇi saṅkhyā hyasmin samuccayē |
kalānāṁ navatiḥ prōktā svatantraparatantrayōḥ ||15||


rasadhāturdhātvantarāṇāṁ svabhāvaṁ janayannēkaikasmin dhātau kiyantaṁ kālamavatiṣṭhata ityāha- sa khalvityādi| avatiṣṭhatē avasthitiṁ karōtītyarthaḥ, pariṇāmaṁ gacchannēva tiṣṭhati pacyamānasthālītaṇḍulavat, na punarasya gamananivr̥ttiḥ| trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ityasyārthaḥ- rasaḥ kilaikāhēnaiva sampadyatē, tadanantaraṁ yē ṣaṭdhātavastē pratyēkaṁ pañcabhiḥ pañcabhirahōbhiḥ sampadyantē| yāvatā kālēna rasaḥ śukratāṁ yāti tāvantaṁ vaktumāha- ēvaṁ māsēnētyādi| atrārtavaśabdō’yaṁ śukrē vartatē na tu rajasi, rajō hi rasādraktavat saptamē’hani jāyatē; athavā yadyayamārtavaśabdaḥ śukrē na vartatē tadā’tra śukrōtpattyadhikārē strīṇāṁ śukrasyānuktatvāt ṣaḍdhātutvaṁ syāt, tasmādārtavaśabdaḥ śukrē vartatē; anyē tu punaratrārtavaśabdaṁ rajasyēva vartayanti, cakārēṇa strīśukraṁ samuccinvanti śukrē’pi garbhajananaśaktidyōtanārtham| tathā cōktaṁ- `yadā nāryāvupēyātāṁ vr̥ṣasyantyau kathañcana| muñcataḥ śukramanyō’nyamanasthistatra jāyatē’ (śā. a. 2)- iti| asmin pakṣē māsēnārtavasya bhavanamupacayō’bhiprētaḥ prakāśaśca; yasmādārtavasya raktavat saptāhēnaivōtpattiriti| idānīṁ samudāyasaṅkhyāmāha- aṣṭādaśētyādi| aṣṭādaśasahasrāṇītyādinā triṁśaddināni kathitāni| svatantraparatantrayōriti samānatantrāsamānatantrayōrityarthaḥ||14-15||

sa śabdārcirjalasantānavadaṇunā viśēṣēṇānudhāvatyēvaṁ śarīraṁ kēvalam ||16||


dr̥ṣṭāntatrayēṇa śarīrē rasagatiṁ tridhā darśayannāha- sa śabdārcirjalasantānavadityādi| saḥrasaḥ, santānaśabdaḥ śabdādibhiḥ saha pratyēkaṁ sambadhyatē| aṇunā viśēṣēṇa sūkṣmaprakārēṇa| anudhāvati sañcarati| ēvaṁśabdō niyamārthaḥ| śarīraṁ kēvalaṁ sakalanityarthaḥ| tatra śabdasantānavadityanēna tiryaggāmitvaṁ rasasyōktam, arciḥsantānavadityanēnōrdhvagāmitvaṁ, jalasantānavadityanēnādhōgāmitvamiti| kēcidanyathā vyākhyānayanti- `śabdādidr̥ṣṭāntatrayēṇa tīkṣṇamadhyamandāgnayō nirdiṣṭāḥ| śabdasantānavattīkṣṇāgnīnāṁ rasaḥ sañcarati, arciḥsantānavanmadhyāgnīnāṁ, jalasantānavanmandāgnīnām’ iti| tēna tīkṣṇāgnīnāmaṣṭāhēnaiva rasaḥ śukrībhavati, mandāgnērmāsēnaiva [14] | ayamarthō gayadāsācāryēṇa bahudhā dūṣitaḥ| dīptāgnēstu kiñcinyūnēna māsēna śukraṁ bhavati, mandāgnēstu kiñcidadhikēna māsēnētyayamarthō nyāyya iti||16||

vājīkaraṇyastvōṣadhayaḥ [15] svabalaguṇōtkarṣādvirēcanavadupayuktāḥ śukraṁ śīghraṁ virēcayanti ||17||


yadi māsēna rasaḥ śukrībhavati tarhi vājīkarīṇāṁ mahauṣadhīnāṁ prayōgō niṣphalaḥ syādityāha- vājīkaraṇya ityādi| vājīkaraṇyastvōṣadhaya iti yābhirōṣadhibhiḥ strīṣu narō vājīva samarthō bhavati [16] tā vājīkaraṇyaḥ| svabalaguṇōtkarṣāditi [17] svaśabdō balaguṇābhyāṁ saha pratyēkaṁ saṁvadhyatē, utkarṣaśabdō’pi| atra kāścidōṣadhayaḥ svabalōtkarṣāt, kāścit svaguṇōtkarṣāt, kāścit svabalaguṇōtkarṣāt, tatra saṅkalpapādalēpaviśiṣṭakāntāsparśādayaḥ svabalōtkarṣāt, svaprabhāvōtkarṣādityarthaḥ; ghr̥takṣīrādayaḥ svaguṇōtkarṣāt, svasnēhādyutkarṣādityarthaḥ; māṣādayaḥ svabalaguṇōtkarṣāt, svaprabhāvasnēhādyutkarṣādityarthaḥ; utkarṣa ādhikyam| vājīkaraṇya iti bahuvacanamādyarthē, tēna balyabr̥ṁhaṇīyajīvanasaṅgrahaṇādayō’pi tadvadvācyā iti||17||

yathāhi puṣpamukulasthō gandhō na śakyamihāstīti vaktuṁ, naiva nāstīti; atha [18] cāsti, satāṁ bhāvānāmabhivyaktiriti jñātvā [19] , kēvalaṁ saukṣmyānnābhivyajyatē; sa ēva vivr̥tapatrakēśarē puṣpē kālāntarēṇābhivyaktiṁ gacchati; ēvaṁ bālānāmapi vayaḥpariṇāmācchukraprādurbhāvō bhavati, rōmarājyādayaśca viśēṣā nārīṇām ||18||


nanu, yadi māsēna rasaḥ śukrībhavati tarhi bālānāmaśnatāmapi tat kathaṁ na dr̥śyata iti dr̥ṣṭāntamāha- yathētyādi| yathāhītyavyayaṁ [20] yathādr̥ṣṭāntatāpratipādanārtham| puṣpamukulastha iti kusumakalikāmadhyasthaḥ| ihēti puṣpamukulē, gandhō’styēvēti [21] nāstyēvēti ca vaktuṁ na śakyam| pāramārthikaṁ rūpamāha- atha cāstīti|- athaśabdaḥ sambōdhanē [22] ; caśabda ēvārthē, astyēvētyarthaḥ| yuktimāha- satāṁ bhāvānāmabhivyaktiriti jñātvēti; pūrvaṁ santa ēva bhāvāḥ paścāddhētumāsādyābhivyajyantē, yathā- tilēṣu tailamityādi| yadyastyēviti tarhi mukulāvasthāyāmēva kathaṁ nābhivyajyata ityāha- kēvalaṁ saukṣmyānnābhivyajyata iti| sa ēvētyādi| sa ēva gandhō vivr̥tapatrakēśarē kusumē kālāntarēṇōpacitō’bhivyaktiṁ gacchati| ēvaṁ bālānāmityādi itthaṁ bālānāmapi vayaḥpariṇāmācchukraprādurbhāvō vyaktībhāvō bhavati| rōmarājyādayaśca viśēṣā bhāvā vayaḥpariṇāmānnārīṇāmapi prādurbhavanti, ādiśabdāt stanyārtavādayaḥ; rōmarājyādayaścēti cakārō nārīṇāṁ cētyatra draṣṭavyaḥ; tēna puruṣāṇāmapi śmaśruprabhr̥tayō gr̥hyantē| atra kēcit `rajasi cōpacīyamānē śanaiḥ śanaiḥ stanagarbhāśayayōnyabhivr̥ddhirbhavati’- iti paṭhanti, na tu nibandhakārāḥ, kutaḥ? ādiśabdāttadarthasya labdhatvāditi||18||

sa ēvānnarasō vr̥ddhānāṁ (jarā) paripakvaśarīratvādaprīṇanō bhavati ||19||


nanu rasasyōpacayakaratvādvr̥ddhēnāpi vardhitavyamityāha- sa ēvānnarasa ityādi| sa ēvānnarasa iti aśēṣadhātupōṣakō’pi vr̥ddhānāmaprīṇana īṣatprīṇanō bhavati, jīvanamātraṁ karōtītyarthaḥ| kuta ityāha- paripakvaśarīratvāt||19||

ta ētē śarīradhāraṇāddhātava [23] ityucyantē ||20||


rasādidhātūnāṁ niruktiṁ kurvannāha- ta ētē śarīradhāraṇādityādi| yadyapi kvacidaduṣṭā dōṣā api dēhadhāraṇāddhātuśabdēnōcyantē, tathā’pyatra rasādīnāmadhikr̥tatvāt ēva dhātavaḥ kathyantē||20||

tēṣāṁ kṣayavr̥ddhī śōṇitanimittē, tasmāttadadhikr̥tya vakṣyāmaḥ |
tatra, phēnilamaruṇaṁ kr̥ṣṇaṁ paruṣaṁ tanu śīghragamaskandi ca vātēna duṣṭaṁ; nīlaṁ pītaṁ haritaṁ śyāvaṁ visramaniṣṭaṁ pipīlikāmakṣikāṇāmaskandi ca pittēna duṣṭaṁ; gairikōdakapratīkāśaṁ [24] snigdhaṁ śītalaṁ bahalaṁ picchilaṁ cirasrāvi māṁsapēśīprabhaṁ ca ślēṣmaduṣṭaṁ; sarvalakṣaṇasaṁyuktaṁ kāñjikābhaṁ viśēṣatō durgandhi ca sannipātaduṣṭaṁ; dvidōṣaliṅgaṁ saṁsr̥ṣṭam ||21||


prastutaṁ śōṇitamēvādhikartumāha- tēṣāmityādi| tēṣāmiti dhātūnām| tadadhikr̥tyēti śōṇitamadhikr̥taṁ kr̥tvētyarthaḥ| tatra phēnilamityādi| phēnilaṁ phēnasahitam| aruṇam īṣadraktam; tadēva [25] pākābhimukhaṁ kr̥ṣṇam| paruṣam apicchilaṁ, rūkṣamityanyē| tanu accham| śīghragam āśuprasr̥ti| askandi cēti styānatvarahitam| nīlamityādi|- nīlaṁ haritaṁ, śyāvaṁ sāmapittaduṣṭaṁ, pītaṁ nirāmapittaduṣṭaṁ, śyāvaṁ haritakr̥ṣṇam| visram āmagandhi| aniṣṭaṁ pipīlikādīnāmananusaraṇādavagantavyam| askandi cēti styānatvarahitam| gairikētyādi|- gairikōdakapratīkāśaṁ pāṇḍulōhitam| bahalaṁ ghanam| māṁsapēśīprabhaṁ styānatvāt| sarvētyādi|- sarvalakṣaṇayuktaṁ vātādilakṣaṇayuktam| atra kēcit pittavadraktēnātikr̥ṣṇaṁ [26] ’ iti paṭhanti, na tu nibandhakārāḥ| dvidōṣaliṅgamityādi|- saṁsr̥ṣṭaṁ dōṣadvayayuktamityarthaḥ| atra kvacit ‘jīvaśōṇitamanyatrōpadēkṣyāmaḥ’ iti pāṭhaḥ, na tu nibandhēṣu||21||

indragōpakapratīkāśamasaṁhatamavivarṇaṁ ca prakr̥tisthaṁ jānīyāt ||22||


raktavikr̥tīrabhidhāya prakr̥tiṁ vaktumāha- indragōpakapratīkāśamityādi| indragōpakaḥ prāvr̥ṭkālaja udbhijjaḥ `indravadhūḥ’ iti lōkē, sa cānēkaprakāravarṇaḥ, atra tu rakta ēva gr̥hyatē| asaṁhataṁ nātyacchaṁ nātighanaṁ, na styāyatītyanyē| avivarṇamiti indragōpakavarṇamapīṣadvividhavarṇam, ētēna padmālaktakaguñjāphalavarṇamityuktam; athavā vastrādilagnaṁ sat prakṣālyamānamapi na vivarṇatāṁ yātītyavivarṇam||22||

visrāvyāṇyanyatra vakṣyāmaḥ ||23||


śōṇitasya srāvaṇaviṣayamatidēśēna darśayannāha- visrāvyāṇītyādi| anyatrēti aṣṭavidhaśastrakarmīyē||23||

athāvisrāvyāḥ- sarvāṅgaśōphaḥ, kṣīṇasya cāmlabhōjananimittaḥ, pāṇḍurōgyarśasōdariśōṣigarbhiṇīnāṁ ca śvayathavaḥ ||24||


visrāvyaniṣēdhaviṣayaṁ darśayannāha- athāvisrāvyā ityādi| kṣīṇasya puṁsō’mlabhōjananimittō yaḥ sō’visrāvya ityarthaḥ| tathā pāṇḍurōgyādīnāṁ śōthā avisrāvyāḥ; ētēṣāṁ vraṇaśōthā ēkāṅgajā api na srāvyāḥ||24||

śastravisrāvaṇaṁ dvividhaṁ- pracchānaṁ [27] , sirāvyadhanaṁ ca ||25||


śastravisrāvaṇasya dvaividhyamāha- śastrētyādi||25||

tatra, r̥jvasaṅkīrṇaṁ sūkṣmaṁ samamanavagāḍhamanuttānamāśu [28] ca śastraṁ pātayēnmarmasirāsnāyusandhīnāṁ cānupaghāti ||26||


atra pracchānamadhikr̥tyāha [29] – tatrētyādi| r̥ju prāñjalam| asaṅkīrṇaṁ [30] na saṅkaṭaṁ, viśālamityarthaḥ; anyē parasparāsaṁsr̥ṣṭamityāhuḥ| sūkṣmaṁ nātimahāmukhaśastrakr̥tam| samaṁ tulyarēkham| anavagāḍham adūragatikam| anuttānaṁ [31] kiñcinmāṁsaspr̥gityarthaḥ| āśu avilambitaṁ yathā bhavatyēvaṁ śastraṁ pātayēt||26||

tatra, durdinē durviddhē [32] śītavātayōrasvinnē bhuktamātrē skandatvācchōṇitaṁ na sravatyalpaṁ vā sravati ||27||
madamūrcchāśramārtānāṁ vātaviṇmūtrasaṅginām |
nidrābhibhūtabhītānāṁ nr̥ṇāṁ nāsr̥k pravartatē ||28||


raktasyāyōgaṁ cikitsārthamāha- tatra durdina ityādi| durdina iti nityagakāladōṣaḥ| kēcid ‘durdinē’ iti na paṭhanti| durviddhē iti vaidyakriyādōṣaḥ| śītavātayōriti kālakr̥tō dōṣaḥ| bhuktamātra iti āvasthikakāladōṣaḥ; ‘abhuktavata’ ityanyē paṭhanti| skandatvāt styānatvāt| madō viṣamadyajō vikāraḥ, ārtānāṁ pīḍitānām| vātaviṇmūtrasaṅgināmiti saṅgō’pravartanam||27-28||

tadduṣṭaṁ śōṇitamanirhriyamāṇaṁ śōphadāharāgapākavēdanā janayēt ||29||


duṣṭaraktasyāsrutidōṣamupadiśannāha- tadduṣṭamityādi||29||

atyuṣṇē’tisvinnē’tividdhē’jñairvisrāvitamatipravartatē [33] ; tadatipravr̥ttaṁ śirō’bhitāpamāndhyamadhimanthatimiraprādurbhāvaṁ dhātukṣayamākṣēpakaṁ dāhaṁ pakṣāghātamēkāṅgavikāraṁ hikkāṁ śvāsakāsau pāṇḍurōgaṁ maraṇaṁ cāpādayati ||30||


atiyōgaṁ vyāpadaścōpadiśannāha- atyuṣṇa ityādi| atyuṣṇē atyuṣṇakālē| atisvinnē atisvēditē| atividdhē’jñairiti ājñā adr̥ṣṭakarmāṇaḥ| śirō’bhitāpaṁ śiraḥśūlam| āndhyam andhatām| adhimanthaḥ cakṣūrōgō’bhiṣyandapūrvakaḥ, timiraṁ liṅganāśaḥ, prādurbhāvaśabdō’dhimanthatimirābhyāṁ sambadhyatē| śirōbhitāpādīn śirasyatihr̥taṁ raktaṁ karōti, dhātukṣayaṁ sarvatraivātihr̥tam| ēkāṅgavikāramiti ēkasminnaṅgē ya utpadyatē sa ēkāṅgavikāraḥ, sa cātra vātajanitaḥ||30||

tasmānna śītē nātyuṣṇē nāsvinnē nātitāpitē |
yavāgūṁ prati pītasya śōṇitaṁ mōkṣayēdbhiṣak ||31||


ayōgātiyōgau sahētukau nirdiśya samyagyōgaṁ sahētukaṁ nirdiśannāha- tasmādityādi| na śītē nātyuṣṇē sādhāraṇē kālē| nāsvinnē nātisvēditē| nātitāpitē sūryatāpādibhiḥ| yavāgūratra tilayavāgūḥ, tasyāḥ sadyaḥsnēhanīyatvādraktōtklēśakaratvācca| pratipītasyēti pratiśabdō’tra pānāntaraṁ sūcayati; tēna yavāgvā dvitīyapānānantaraṁ tr̥tīyapānānantaraṁ vētyarthaḥ; anyē tu ‘yavāgūrviraladravā bahusikthā, tāṁ pratipītasya, sā hi prāyaśaḥ praklēdanātmikā svēdalatvāddravōṣṇatvācca śōṇitaṁ vilāyayati; pratiśabdō’tra mātrārthaḥ, tēna yavāgūṁ mātrayā pītavata ityarthaḥ’||31||

samyaggatvā yadā raktaṁ svayamēvāvatiṣṭhatē |
śuddhaṁ tadā vijānīyāt samyagvisrāvitaṁ ca tat ||32||


idānīṁ samyagyōgasya suviśuddhasya caikēnaiva vākyēna lakṣaṇaṁ vaktumāha- samyagityādi| samyaggatvā yadā raktamiti gatvā niḥsr̥tya, yadā samyagraktaṁ raktavarṇaṁ śōṇitaṁ bhavati tadā śuddhaṁ vijānīyāt; samyagvisrāvitapakṣē tvayamarthaḥ- samyaggatvēti samyak pravartanaṁ kr̥tvā, yadā raktaṁ rudhiraṁ, svayamēvāvatiṣṭhatē avasthitiṁ karōti, tadā samyagvisrāvitaṁ ca tadraktaṁ vijānīyāt| cakārēṇaitallakṣaṇadvayaṁ labhyatē| anyē tu samyaggatvētyādiślōkasya vyākhyānamanyathā kr̥tvā sārdhaślōkēna vyākhyānayanti- “na cātivēgaṁ nāvēgaṁ samyagyuktyā viniḥsr̥tam| vihāya duṣṭatāṁ svēna rūpēṇa hyavatiṣṭhatē|| prayatnamanapēkṣyāsr̥k tadā śuddhaṁ vinirdiśēt”- iti||32||

lāghavaṁ vēdanāśāntirvyāghērvēgaparikṣayaḥ |
samyagvisrāvitē liṅgaṁ prasādō manasastathā ||33||


ābhyantaramaparamapi raktaśuddhisrāvaṇasya lakṣaṇaṁ darśayannāha- lāghavamityādi| ētacchārīraṁ samyagvisrāvitē liṅgaṁ; prasādō manasastathēti punarmānasam||33||

tvagdōṣā granthayaḥ śōphā rōgāḥ śōṇitajāśca yē |
raktamōkṣaṇaśīlānāṁ na bhavanti kadācana ||34||


śōṇitasrāvaṇaphalaṁ darśayannāha- tvagdōṣā ityādi| tvagdōṣā aṣṭādaśa kuṣṭhāni nyacchanīlikādayaśca, granthayō vātādinimittā sirāgranthiśca| śōṇitajā rōgā raktagulmavidradhivisarpādayaḥ| raktamōkṣaṇaśīlānāṁ raktasrāvaṇābhyāsakāriṇām||34||

atha khalvapravartamānē raktē ēlāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalairyathālābhaṁ tribhiścaturbhiḥ samastairvā cūrṇīkr̥tairlavaṇatailapragāḍhairvraṇamukhamavagharṣayēt, ēvaṁ samyak pravartatē ||35||


idānīmapravr̥ttaraktasya pravartanāyāha- atha khalviyādi| śītāśivaṁ karpūraṁ, naktamālō br̥hatkarañjaḥ| tribhiścaturbhiriti ētēnaikadvidravyaniṣēdhaḥ kr̥taḥ| lavaṇatailapragāḍhairiti saindhavatilatailōtkaṭairityarthaḥ||35||

athātipravr̥ttē rōdhramadhukapriyaṅgupattaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagōdhūmacūrṇaiḥ śanaiḥ śanairvraṇamukhamavacūrṇyāṅgulyagrēṇāvapīḍayēt sālasarjārjunārimēdamēṣaśr̥ṅgadhavadhanvanatvagbhi rvā cūrṇitābhiḥ kṣaumēṇa vā dhmāpitēna samudraphēnalākṣācūrṇairvā, yathōktarvraṇabandhanadravyairgāḍhaṁ badhnīyāt, śītācchādanabhōjanāgāraiḥ śītaiḥ pradēhapariṣēkaiścōpacarēt, kṣārēṇāgninā vā dahēdyathōktaṁ, vyadhādanantaraṁ [34] tāmēvātipravr̥ttāṁ sirāṁ vidhyēt; kākōlyādikvāthaṁ vā śarkarāmadhumadhuraṁ pāyayēt, ēṇahariṇōrabhraśaśamahiṣavarāhāṇāṁ vā rudhiraṁ; kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt; upadravāṁśca yathāsvamupacarēt ||36||
bhavanti cātra-
dhātukṣayāt srutē raktē mandaḥ sañjāyatē’nalaḥ |
pavanaśca paraṁ kōpaṁ yāti tasmāt prayatnataḥ ||37||
taṁ nātiśītairlaghubhiḥ snigdhaiḥ śōṇitavardhanaiḥ |
īṣadamlairanamlairvā bhōjanaiḥ samupācarēt ||38||


atipravr̥ttau raktāsthāpanāya cikitsāṁ darśayannāha- athētyādi| pattaṅgaṁ raktacandanaṁ, sarjarasō rālā, śuktirjalaśuktiḥ| sālaḥ śaṅkuḥ, sarjaḥ śālabhēdaḥ, arjunaḥ kakubhaḥ, arimēdaḥ ‘arimañja’ iti lōkē prasiddhaḥ, mēṣaśr̥ṅgaḥ karkaṭaśr̥ṅgaḥ, dhanvanaḥ ‘dhammaṇa’ iti prasiddhaḥ; sālāditvagbhiścūrṇīkr̥tābhiḥ ‘vraṇamukhamavacūrṇyāṅgulyagrēṇāvapīḍayēt’ ityatrāpi sambadhyatē| kṣaumēṇa vā dhmāpitēna atasīvastrēṇa dagdhēna ‘vraṇamukhamavacūrṇyāṅgulyagrēṇāvapīḍayēt’ ityatrāpi sambadhyatē| yathōktairvā vraṇabandhanadravyairiti kṣaumakārpāsavastrādibhiḥ| ācchādanaṁ vastrādi, pradēhō lēpaḥ, pariṣēkō dhārāsēkaḥ| yathōktaṁ valayabindvādi bhēdēnētyarthaḥ| vyadhādanantaraṁ prākkr̥tavyadhanādadhaḥsthānē [35] , tāmēva pūrvaviddhāṁ sirāṁ vidhyēt, raktagaticchēdanārtham| raktātisrutāvābhyantaraṁ bhēṣajaṁ darśayannāha- kākōlyādītyādi| ēṇaḥ kr̥ṣṇahariṇaḥ, hariṇastāmravarṇaḥ; ēṇādiraktaṁ pāyayēditi sambandhaḥ, raktāpyāyanārthaṁ; taccāduṣṭamasaṁskr̥taṁ ca| raktātipravr̥ttau bhōjanaṁ niyamayannāha- kṣīrētyādi| yūṣō mudgayūṣaḥ, rasō māṁsarasaḥ| susnigdhairiti śōbhanaṁ kr̥tvā ghr̥tēna snigdhīkr̥taiḥ| aśnīyāditi kṣīrādisiktamōdanaṁ bhuñjīta| pittaduṣṭaraktasyaivātipravr̥ttāvatipravr̥ttaraktasya kṣīrabhōjanam, athavā pittaprakr̥tikasyaiva raktātipravr̥ttau kṣīrabhōjanaṁ, kaphaduṣṭaraktasyaivātipravr̥ttāvatipravr̥ttaraktasya yūṣabhōjanaṁ, ślēṣmaprakr̥tikasyaiva vā; vātaduṣṭaraktasyaivātipravr̥ttāvatipravr̥ttaraktasya rasabhōjanaṁ, vātaprakr̥tikasyaiva vā; anyē tu dīptamadhyamandāgnīnāṁ yathāsaṅkhyaṁ kṣīrādisiktamōdanaṁ bhōjanamāhuḥ; sātmyāpēkṣayētyēkē| atisrutaraktasyōpadravān cikitsitumāha- upadravāṁścētyādi| upadravān śirō’bhitāpādīn| yathāsvamiti svakīyēna svakīyēnōpacārēṇētyarthaḥ| dhātukṣayādityādi| tasmādanatiśītādibhōjanaiḥ prayatnatastaṁ puruṣamupācarēditi sambandhaḥ, agnisandhukṣaṇārthaṁ śōṇitāpyāyanārthamupadravaparihārārthaṁ ca| īṣadamlairdāḍimāmalakaiḥ, tēṣāmēvāmlēṣu pradhānatvāt||36-38||

caturvidhaṁ yadētaddhi rudhirasya nivāraṇam |
sandhānaṁ skandanaṁ caiva pācanaṁ dahanaṁ tathā ||39||
vraṇaṁ kaṣāyaḥ sandhattē raktaṁ skandayatē himam |
tathā sampācayēdbhasma dāhaḥ saṅkōcayēt sirāḥ ||40||


caturvidhamityādi| sandhānaṁ śastrapadasya, skandanaṁ śōṇitasya styānīkaraṇaṁ, pācanaṁ dahanaṁ ca śastrapadasya| kaṣāyaḥ kaṣāyarasadravyaṁ, tacca lōdhrādikam; anyē tu harītakyādikaṁ pañcavalkalādikaṁ cāhuḥ| himaṁ śītam| bhasma kṣaumādijanitam| dahanaṁ śalākāprabhr̥tibhiḥ||39-40||

askandamānē rudhirē sandhānāni prayōjayēt |
sandhānē bhraśyamānē tu pācanaiḥ samupācarēt ||41||
kalpairētaistribhirvaidyaḥ prayatēta yathāvidhi |
asiddhimatsu caitēṣu dāhaḥ parama iṣyatē ||42||


idānīṁ pūrvapūrvāsiddhāvuttarōttaraṁ vidhyavasaraṁ pratipādayannāha- askandamānē ityādi| tatra prathamaṁ śītōpacārādi kartavyaṁ, tēna yadā styānībhūya raktaṁ na tiṣṭhati tadā harītakyādi pañcavalkalādi vā prayōjayēt; sandhānēna cēnna tiṣṭhati rasaṁ tadā pācanaṁ bhasma prayōjayēt; ēbhistrībhirvidhānairyadi na tiṣṭhati raktaṁ tadā dahanaṁ śōṇitasthāpanārthaṁ kartavyamityarthaḥ||41-42||

śēṣadōṣē [36] yatō raktē na vyādhirativartatē |
sāvaśēṣē tataḥ sthēyaṁ na tu kuryādatikramam ||43||


idānīṁ raktātisrāvadōṣaṁ darśayannāha- śēṣētyādi| na vyādhirativartatē na vr̥ddhiṁ yāti| sāvaśēṣē tataḥ sthēyamiti sāvaśēṣē dōṣē raktaṁ punaḥ saṁśamanādibhirjayēt||43||

dēhasya rudhiraṁ mūlaṁ rudhirēṇaiva dhāryatē |
tasmādyatnēna saṁrakṣyaṁ raktaṁ jīva iti sthitiḥ ||44||


kutaḥ punaḥ śōṇitasrāvaṇē’tikramō na karaṇīya ityāha- dēhasyētyādi| mūlamiti utpattisthitipralayēṣu śōṇitamēva hētuḥ, anēnaiva dhāryatē sthāpyatē||44||

srutaraktasya sēkādyaiḥ śītaiḥ prakupitē’nilē |
śōphaṁ satōdaṁ kōṣṇēna sarpiṣā pariṣēcat ||45||


śōṇitāvasēkē paścātkarma darśayannāha- srutaraktasyētyādi||45||

iti suśrutasaṁhitāyāṁ sūtrasthānē śōṇitavarṇanīyō nāma caturdaśō’dhyāya ||14||


iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ sūtrasthānē śōṇitavarṇanīyō nāma caturdaśō’dhyāyaḥ||14||

1. tatra iti tāḍapatrapustakē na paṭhyatē|
2. ṣaḍrasōpētasya iti tāḍapatrapustakē pāṭhaḥ|
3. jīvayati iti pā. |
4. pōṣyasya dhāturasasyaiva hr̥dayaṁ sthānaṁ natu pōṣakasyāhārarasasya, tasya tu dhamanya ēva sthānaṁ, yadāha cakraḥ- tat sthānaṁ tu dhamanya ēva| pōṣakāhārarasasya ca pr̥thagrasādidhātubhyaḥ pradēśāntaragrahaṇaṁ na kriyatē, rasādikāraṇarūpatayā rasādigrahaṇēnaiva tadgrahaṇāt- iti|
5. tanutā iti pā.|
6. pr̥thivyādiguṇāstvētē dr̥śyantē śōṇitē yataḥ iti tāḍapatrapustakē pāṭhaḥ|
7. atra prajāyatē iti praśabdaḥ prakarṣavācī, tēna rasādigatamalāṁśāt kaphaḥ pittaṁ malāḥ khēṣu (sū. a. 46) ityādinā vakṣyamāṇamalōtpattirapyapakr̥ṣṭāṁśajanyā sūcitā bhavati| yaduktaṁ carakē “rasāt stanyaṁ tathā raktamasr̥jaḥ kaṇḍarāḥ sirāḥ| māṁsādvasā tvacaḥ ṣaṭ ca mēdasaḥ snāyusandhayaḥ (ca. ci. a. 15) iti| śukraṁ tu jāyatē ityanēna punarutpādābhidhānēna śukrasya viśiṣṭamalāṁśarahitamutpādaṁ darśayati| yattu śmaśru śukramalatayā kaiściducyatē, tanna, śāstrē’nabhihitatvāt, tathā strīṇāṁ ca saśukratayā śmaśruprasaktēḥ| tasmāt śmaśru lōmaviśēṣatayā’sthimalamēva|” iti bhānumatyāṁ cakraḥ| tatra pākajanyaiḥ prasādāṁśairyēna kramēṇa yē yē janyantē tānāha- rasādityādi| prasādaja ityasya liṅgavipariṇāmēna raktamityādiṣu sarvatra sambandhaḥ| prasādajaśca sārabhāgaḥ| tēna rasādraktaṁ prasādajaṁ, tatō raktānmāṁsaṁ prasādajaṁ, māṁsācca mēdaḥ prasādajamityādi yōjyam| rasādraktaṁ prasādajamiti rasāt pākēna jāyatē yaḥ prasādāṁśastasmādraktaṁ jāyatē| ēvaṁ raktāt pākēna jāyatē yaḥ prasādāṁśastasmācca māṁsaṁ jāyata ityādi vyākhyēyam| janiścāyaṁ pōṣaṇa ēva vartatē nāpūrvōtpādē| yatō raktādayō garbhāt prabhr̥tyēvōtpannā rasādibhiḥ pōṣyantē| anyē tu ‘garbhaprasādajam’ iti paṭhitvā garbhaprasādajamiti samastapadēna ōja ācakṣatē| asmiṁstu pakṣē prasādajaśabdasya na sarvatrānvayaḥ| nanu, ‘puṣyanti tvāhārarasāt’ (ca. sū. a. 28) ityādinā carakē rasēna rasapōṣaṇamuktam, atra tu rasādraktamityādinā rasēna raktapōṣaṇamucyata iti virōdhaḥ| naivam, ēka ēvāyamāhārarasō dviprasthānaḥ pōṣyapōṣakabhēdēna| tatrānnapānādutpannō rasaḥ pōṣakaḥ, raktādivat sthāyī yaḥ sa pōṣyaḥ, tasyaiva hr̥dayaṁ sthānamuktam (pōṣakāhārarasasya tu dhamanya ēva sthānam)| ata ēva pōṣya sthāyirasavyavacchēdārthamāhārēti rasaviśēṣaṇamuktaṁ carakēṇa| yattu ‘rasādraktaṁ’ ityādivacanaṁ tadrasatvēnābhēdavivakṣayā rasaṁ parityajya raktamēva paṭhitaṁ, na tu pōṣyasya rasākhyadhātōrabhāvāditi| na caivamaṣṭadhātukatvaṁ śarīrasyēti vācyaṁ| yataḥ sthāyirasabhāgapōṣakarasabhāgayōḥ sthānabhēdāgnibhēdādyabhāvādēkatvamēvēti saptadhātukamēva śarīramityucyata iti| atra ca rasādraktādyutpādē kēcididaṁ vadanti- yadrasō’gnipacyamānaḥ sarvātmanā raktatāṁ yāti, raktaṁ ca māṁsatāmityādi pūrva pūrvadhātupariṇāmēnōttarōttaradhātūtpādaḥ, yathā- sarvātmanā kṣīrāddadhi bhavati, dadhnō navanītaṁ, navanītāddhr̥taṁ, ghr̥tācca ghr̥tamaṇḍaḥ, ityēkaḥ pakṣaḥ| kiṁvā rasa ēva raktaṁ prathamaṁ plāvayati, tatra raktasthānasambandhādraktasādr̥śyaṁ raktavyapadēśaṁ cānubhavati, raktaṁ ca raktasamānēna stōkēnāṁśēnāsraṁ pōṣayati, tatō raktamāplāvya māṁsamāplāvayati, tatrāpi māṁsasamānēnāṁśēna māṁsapōṣaṇaṁ karōti māṁsasādr̥śyaṁ māṁsaśabdābhidhēyatāṁ cānubhavati, ēvamuttarōttaradhātūn rasa ēva plāvayati, yathā- kēdāraniṣiktaṁ kulyājalaṁ pratyāsannāṁ kēdārīmāplāvayatīti dvitīyaḥ pakṣaḥ| ētadēvōktaṁ hārītē yat, “rasaḥ saptāhādarvāk parivartamānaḥ śvētakapōtaharitahāridrapadmakiṁśukālaktakarasaprakhyaścāyaṁ yathākramaṁ divasaparivartādvarṇaparivartamāpadyamānaḥ pittōṣmōparāgācchōṇitatvamāpadyatē”- iti, tathā suśrutē’pi- ‘tatraiṣāṁ dhātūnām’- ityādinā tathā ‘sa khalu trīṇi trīṇi’- (su. sū. a. 14) ityādinā rasēnaiva raktādidhātupōṣaṇamanēna nyāyēnōktaṁ| kiṁvā, āhārarasa utpannō bhinnairēva mārgaiḥ sthāyirasarudhiramāṁsādīn rasarudhirādisamānāṁśēna tarpayati, tatra yaḥ pratyāsannō dhātustatpōṣakō bhāgastaṁ śīghraṁ puṣṇāti, yastu vidūradhātustasya sūkṣmavidūramārgatayā cirēṇa pōṣaṇaṁ bhavati, ēvaṁ bhinnairēva mārgairdhātupōṣaṇaṁ bhavati| tēna raktapōṣaṇakālāduttarakālaṁ māṁsapōṣakō rasabhāgō māṁsaṁ pōṣayati, tathā māṁsapōṣaṇakālāduttarakālaṁ mēdaḥ pōṣakō rasabhāgō mēdaḥ pōṣayatītyādi| tēna rasādraktamityādivacanasyāyamarthō yat- rasapuṣṭikālāduttarakālaṁ raktaṁ pravartatē, raktapuṣṭikālāduttarakālaṁ māṁsaṁ pravartatē ityādi| asmiṁstu pakṣē- “viṇmūtramāhāramalaḥ sāraḥ prāgīritō rasaḥ| sa tu vyānēna vikṣiptaḥ sarvān dhātūn pratarpayēt” (su. sū. a. 46) ityādivacanaṁ mukhyārthamēva ghaṭatē (tathā ‘tasmin dhātumalāśayānusāriṇi rasē’ iti ca mukhyārthaṁ bhavati, tathā carakē’pi ‘srōtasā ca yathāsvēna dhātuḥ puṣyati dhātunā’ (ca. ci. a. 8) iti ca mukhyārthaṁ bhavati)| tēna yathā khalē upacitānāṁ kapōtānāṁ bhinnadiggāmināṁ svīyasvīyamārgēṇaiva gacchatāṁ gamyadēśasya pratyāsannatvaviprakr̥ṣṭatvādibhēdēna śīghraṁ cirēṇa vā gamanaṁ bhavati tadvat| iti kṣīradadhinyāyakēdārīkulyānyāyakhalēkapōtanyāyāttridhā dhātupōṣaṇakramaḥ| tatra, ētēṣu pakṣēṣu sarvātmapariṇāmē tricaturōpavāsēnaiva dēhasya nīrasatvaṁ syāt, māsōpavāsācca śukrama(kṣa)yaṁ śarīraṁ syādityupēkṣaṇīya ēva prathamaḥ pakṣaḥ| kēdārīkulyānyāyapakṣē tu rasādraktādipōṣaṇaṁ mukhyārthatayā bhavati, yadapi raktādērmāṁsādipōṣaṇaṁ tadapi rasādēva raktādidharmatayā raktādivyapadēśabhājō bhavatīti vyutpāditamēva, yattu rasasya sarvadhātupōṣakatvamuktaṁ (sarvadhātudōṣamalāśayānusāritvamuktaṁ) tadapi raktādipōṣakatayā tathā hr̥dayasthasthāyirasasya kr̥tsnadēhavyāpakatayā cōpapannaṁ| ēvaṁ carakē’pyuktam| – ‘vyānēna rasadhāturhi vikṣēpōcitakarmaṇā| yugapat sarvatō’jasraṁ dēhē vikṣipyatē sadā” – (ca. ci. a. 15) ityādi, tadapyuktanyāyādēvōpapannaṁ| yadapi māṁsādinā samānēna māṁsādērēva pōṣaṇaṁ, tadapi dhātvāplāvananyāyēna gacchatā’pi rasēna taddhātusamānēnāṁśēna taddhātupōṣaṇādupapannam| vr̥ṣyaṁ tu prabhāvādyathā khalēkapōtanyāyē vidūramapi śukraṁ prabhāvācchīghraṁ yāti, tathā’trāpi śīghramēva vr̥ṣyōtpannō rasō raktādidhātūn śīghramāplāvayatīti sughaṭam| ēvamanayā diśā’nyadapyatra dūṣaṇamuddhāryam| tēnāyaṁ pakṣastāvat sādhuḥ| khalēkapōtapakṣē’pi yathā rasādraktamityādi gauṇatayā bhavati taddarśitamēva| yattu carakē “raktaṁ vibaddhamārgatvānmāṁsādīn na prapadyatē” (ca. ci. a. 8)- ityuktaṁ, tat kr̥tsnadēhacāriśōṇitābhiprāyēṇa, na tu pōṣakaraktābhiprāyēṇēti vyavasthāpyatē| yattu “ēkaikasmin dhātau trīṇi trīṇi”- ityādinā dhātāvavasthānakāla uktaḥ, sa pūrvapūrvaraktādidhātulaṅghanakālō vidūragāmirasasyēti vyavasthāpyatē| ēvamanayōḥ pakṣayōrmahājanaparigr̥hītayōrgatirūpadarśitā| svarasastvasmākaṁ kēdārīkulyānyāyē| yattvanyaiḥ khalēkapōtanyāyasvīkārēṇa carakē santatajvarasya dvādaśāśrayatvaṁ yuktamityādyuktaṁ, tanna buddhyāmahē, santatajvarasya dvādaśāśrayatvaṁ dōṣamahimnā kr̥tsnadēhavyāpakatayā “yathā dhātūṁstathā mūtraṁ purīṣaṁ cānilādayaḥ”- (ca. ci. a. 3) ityādinōktam| dōṣāṇāṁ ca kupitānāṁ samprāptiviśēṣāt kimagamyamasti dēhē, yēna tāvadrasamēva paraṁ sarvadhātvādivyāpakaṁ sarvadhātudūṣaṇē’pēkṣanta iti” iti cakradattaviracitadravyaguṇasaṅgrahavyākhyāyāṁ śivadāsasēnaḥ|
8. tēṣāṁ rasādīnāṁ iti hastalikhitapustakē na paṭhyatē|
9. ātmapācakapacyamānāt iti pā.|
10. yadāha carakaḥ- “kiṭṭamannasya viṇmūtraṁ, rasasya tu kaphō’sr̥jaḥ| pittaṁ, māṁsasya khamalā, malaḥ svēdastu mēdasaḥ|| syāt kiṭṭaṁ kēśalōmāsthnō, majjñaḥ snēhō’kṣiviṭ tvacām” (ca. ci. a. 15) iti”|
11. rasāt stanyaṁ tathā raktamasr̥jaḥ kaṇḍarāḥ sirāḥ| māṁsādvasā tvacaḥ ṣaṭ ca mēdasaḥ snāyusandhayaḥ”- iti| samprati prasādajanyatāṁ dhātūnāmabhidhāyōpadhātūnāmapyāha- rasādityādi| atrāpi rasāt stanyaṁ prasādajamityādi yōjyam| raktamiti strīṇāṁ rajaḥ sañjñaṁ raktamapyupadhāturūpaṁ rasādēva prasādabhāgajanyamityarthaḥ| uktaṁ ca suśrutē- “rasādēva striyā raktaṁ rajaḥsañjñaṁ pravartatē” (su. sū. a. 14) iti| ētacca rajōrūpaṁ raktaṁ rasajanyamapi dhātuśōṇitavanna śīghraṁ jāyatē, kintu śukravanmāsēnaiva| taduktaṁ suśrutē- “ēvaṁ māsēna rasaḥ śukrībhavati strīṇāṁ ca cārtavam”- iti| anyē tu- “ghr̥takumbhō yathaivāgnimāśritaḥ pravilīyatē| visarpatyārtavaṁ strīṇāṁ tathā puṁsāṁ samāgamē” (śā. a. 2) ityatra yathā”rtavaśabdēna śukramucyatē tathā strīṇāṁ cārtavamityatrāpyārtavaśabdaḥ śukra ēva vartatē na tu rajasi, rajō hi rasādraktavacchīghramēva jāyatē na tu māsēnētyāhuḥ| tannētyanyē, visarpatyārtavamityādāvapi strīṇāmārtavaṁ puṁsāṁ samāgamē sati visarpatīti yōjanayā”rtavaśabdasya rajōvacanatvēnāpyupapattēḥ| vastutastvārtavasya raktarūpatā yadyapi māsādarvāgbhavati tathā’pi tasyārtavarūpatā garbhāśayaprāptyaiva bhavati, garbhāśayaprāptistu māsēnaiva bhavatīti kr̥tvā māsēnārtavaṁ bhavatīti suśrutēnōktam| uktaṁ hi viśvāmitrēṇa- “sūkṣmāḥ kēśapratīkāśā bījaraktavahāḥ sirāḥ| garbhāśayaṁ pūrayanti māṁsādbījāya kalpatē”- iti| tatra bījabhūtaraktaṁ bījaraktamārtavamityarthaḥ| asr̥jaḥ kaṇḍarā iti sthūlasnāyavaḥ| mēdasaḥ snāyusandhaya ityanēna tu mēdasaḥ sūkṣmasnāyupōṣaṇamiti jñēyam| carakē hi kaṇḍarāśabdaḥ sthūlasnāyuvācī, suśrutē ca sthūlasirāvācīti jñēyam| ētē ca stanyādayaḥ śarīradhārakā apyupadhātuśabdēnaivōcyantē, natu dhātuśabdēna| dhātuśabdapravr̥ttērdhāraṇapōṣaṇanimittatvāt| tēna yē śarīraṁ dhārayanti dhātūṁśca puṣṇanti rasādayasta ēva mukhyatayā dhātuśabdavācyā na stanyādayaḥ, tē hi śarīraṁ dhārayantyēva na tu kiñcit puṣṇanti| uktaṁ hi bhōjē- “sirāsnāyurajaḥ stanyatvacō gativivarjitāḥ| dhātubhyaścōpajāyantē tasmātta upadhātavaḥ”- iti| atra gativivarjitā ityanēna dhātvantarapōṣaṇādyā gatirniṣidhyatē| ata ēva dhātubhyaścōpajāyanta ēva na tu paraṁ janayantītyarthaḥ| yattu “kiñciddōṣapraśamanaṁ kiñciddhātupradūṣaṇam” (ca. sū. a. 1) ityatra dhātuśabdēna dōṣāṇāmapi grahaṇaṁ, tadgauṇadhātuśabdaprayōgājjñēyam| uktaṁ hi- “dōṣā hyapi dhātusañjñāṁ labhantē” – iti| śukrasyāpyōjaḥpōṣakatayā dhāraṇapōṣaṇayōgō’stīti dhātutvamakhaṇḍitamēva| ōjastu yadyapi na dhātuṣu nāpyupadhātuṣu paṭhitaṁ, tathā’pi tat saptadhātusārarūpatayā saptadhātvantargatamēvēti jñēyam| ata ēva tasyāgnirapi pr̥thaṅnōktaḥ” iti cakrapāṇidattakr̥tadravyaguṇasaṅgrahavyākhyāyāṁ śivadāsasēnaḥ|
12. annapānādēkāhēnōtpannō rasō’nnapānarasaḥ| sarvadhātūnāmityatra sarvaśabdēna sthāyirasamapi gr̥hṇāti| yaduktaṁ carakē- “puṣyanti tvāhārarasādrasarudhiramāṁsa … ” (ca. sū. a. 28) ityādi| nanu yadyēvaṁ tat kiṁ rasadvayaṁ? tathā satyaṣṭadhātutvaṁ śarīrasya| maivam, ēka ēvāyamāhārarasō dviprasthānaḥ pōṣyapōṣakabhēdēna| tatra pōṣyō rasāṁśaḥ sarvaśarīracārī pōṣakēṇa rasāṁśēna samānēna nityaṁ pākāntarānapēkṣēṇaivālpīyasā yujyatē, avaśiṣṭastu raktādipōṣakō raktaṁ yāti, tatra raktasthēnāgninā yathāvakṣyamāṇakālajātapākāt kaphaṁ malaṁ tyaktvā raktasamānāṁśēnālpīyasā sarvathā raktībhūtēna raktaṁ pōṣayati, śēṣastu māṁsādisamānarasabhāgō māṁsādīn yāti, tatrāpīdr̥śyēva pākavyavasthā, tēna sthāyirasapōṣakarasayōḥ karmabhēdādbhēdō’bhidhīyatē, pākāntarasthānāntaragatyantarāmāvāccaikatā’pi| tēna kvacidbhēdavivakṣayā puṣyanti tvāhārarasādityādyuktaṁ, abhēdavivakṣayā tu rasādraktamityādyuktamiti yuktam’ iti cakraḥ|
13. rasaḥ śukrībhavati strīṇāṁ cārtavaṁ’ iti pā.| strīṇāṁ cārtavamiti māsēna rasaḥ strīṇāmārtavatāṁ yātītyarthaḥ, yadyapi rasādārtavaṁ māsādarvāgēva bhavati, tathā’pi rajasaḥ sūkṣmaviprakr̥ṣṭamārgatayā māsēna bhavanam| yaduktaṁ viśvāmitrēṇa- “sūkṣmakēśapratīkāśā bījaraktavahāḥ sirāḥ| garbhāśayaṁ pūrayanti māsādbījāya kalpatē- “iti| atra bījabhūtaraktaṁ bījaraktamārtavamityarthaḥ| atra yadi nāmārtavasya raktarūpatā stōkēnāpi kālēna bhavati tathā’pi tasya garbhāśayaprāptirmāsēnaiva bhavati, garbhāśayagataṁ ca tanmukhyārtavaśabdāvācyam, atō māsēna tadbhavanābhidhānaṁ yuktam| anyē māsēnōpacayādāvirbhāvamārtavasya māsēnēti vadanti| yē tu ārtavaśabdaṁ strīśukrē vartayanti tanmatē aśābdīyā vyākhyā| yadapi “ghr̥takumbhō yathaivāgnimāśritaḥ pravilīyatē| visarpatyārtavaṁ strīṇāṁ tathā puṁsāṁ samāgamē” (śā. a. 2) iti kaiścit paṭhyatē, tadyadyārṣaṁ tadā tatrārtavaśabdēna raja ēvōcyatē, taddhi maithunasamayē puruṣabījagrahaṇāya visarpati| strīśukraṁ tu śukraśabdēna puruṣastrīsādhāraṇēna māṁsādivat prāptamēva | yattu strīśukrasya garbhānārambhakatvaṁ tadvacanādēva tathā nārīrajasō garbhārambhakatvādēva labdham| uktaṁ ca tantrāntarē “strīṇāṁ śukraṁ na garbhāya bhavēdgarbhāya cārtavam” iti| strīśukraṁ ca kvacidāśrayībhūtaṁ garbhārambhakaṁ vaktavyam| yathā “muñcataḥ śukramanyōnyamanasthistatra jāyatē” iti bhānumatyāṁ cakraḥ|
14. nanu tantrāntarē aṣṭāhācchukrōtpattiruktā, yaduktaṁ parāśarē- “āhārō’dyatanō yaḥ sa śvō rasatvaṁ niyacchati| śōṇitatvaṁ tr̥tīyē’hni caturthē māṁsatāmapi|| mēdastvaṁ pañcamē ṣaṣṭhē tvasthitvaṁ saptamē tviyāt| majjatvaṁ śukratāṁ yāyānniyamāttvaṣṭamē nr̥ṇām” iti| carakē’pyuktam- “ṣaḍbhiḥ kēcidahōrātraiḥ kēcit saptabhirēva ca| icchanti munayaḥ prāyō rasasya parivartanam” (ca. ci. a. 15) – iti| tadētadāśaṅkyāha- sa śabdārcirjalasantānavadityādi| yadētanmāsēna rasasya śukratvābhidhānaṁ tat parākāṣṭhayā jñēyam, arvāgapi tvagniprakarṣasrōtaḥśuddhiprakarṣādrasasya śukratōtpattirbhavati| yaduktaṁ carakē- ‘santatyā pōṣyadhātūnāṁ parivr̥ttistu cakravat’ (ca. ci. a. 15) iti| atra hi cakrasya vāhyavāhakaprarṣāprakarṣābhyāṁ yathā parivr̥ttiḥ śīghraṁ cirēṇa vā bhavati, tathā rasasyāpīti vākyārthaḥ| tēnēhāpi śabdavadanusaratītyanēna madhyaḥ parāvr̥ttikrama ucyatē| arcirvadityanēna śīghraḥ, arciḥsantānō hi śabdasantānādapi śīghraḥ| jalasantānavadityanēna cātimandaḥ parō māsēna parāvr̥ttirūpaḥ krama ucyatē| tathā’nyatrāpyuktam- “kēcidāhurahōrātrāt ṣaḍahādaparē parē| māsāt prayāti śukratvamannaṁ pākakramāditi”| aṇunā viśēṣēṇēti sūkṣmēṇa sūkṣmabuddhigamyēnēti yāvat| yacchabdasantānavattiryaggamanaṁ rasasya, arciḥsantānavaccōrdhvagamanaṁ, jalasantānavaccādhōgamanamucyatē, tacchabdasya sarvadiggāmitvādanupapannam| ūrdhvādhastiryaggamanaṁ ca rasasya “sa hr̥dayāccaturviṁśatiṁ dhamanīḥ” ityādinōktam iti cakraḥ| arciḥ santānavaddhamanīṣu (ārṭarī), śabdasantānavatsirāsu (vēīna), jalasantānavatsrōtaḥsu (kēpilarī) rasasañcaraṇamiti kēcana navyāḥ| carakē’pyuktaṁ ‘dhmānāddhamanyaḥ srōtāṁsi sravaṇāt saraṇāt sirāḥ’ (ca. sū. a. 30) iti|
15. ‘vājīkāriṇyaḥ’ iti ‘vājīkariṇyaḥ’ iti ca pā.|
16. ‘sāmarthyaṁ prāpnōti’ iti pā.|
17. svabalaṁ dravyasvabhāvaḥ, guṇōtkarṣō guṇasvabhāvaḥ, tasmāt svabalaguṇōtkarṣād vyastāt samastācca| yaduktaṁ carakē- “dravyāṇi hi dravyaprabhāvād guṇaprabhāvāt dravyaguṇaprabhāvācca kārmukāṇi bhavanti” (ca. sū. a. 26) iti| śukramāśu virēcayantīti virēcanamiha virēcanadr̥ṣṭāntānuguṇatayā vr̥ṣyakarmōpalakṣaṇamuktaṁ| tēna śukravr̥ddhiḥ, śukrasrutiḥ, tathā śukrasrutivr̥ddhī ca lakṣayati| yaduktaṁ “śukrasrutikaraṁ kiñcit kiñcicchukravivardhanam| srutivr̥ddhikaraṁ kiñcittrividhaṁ vr̥ṣyamucyatē”- iti|
18. ‘atha cāstīti ‘satāmēvāvirbhāvaḥ’ iti sāṅkhyadarśanēnētyarthaḥ’ iti cakraḥ|
19. ‘kr̥tvā’ iti pā.|
20. ‘yathāhīti dr̥ṣṭāntatāpratipādanārtham’ iti pā.|
21. gandhō’sti na vā’styēvēti ca iti pā.|
22. sambandhanē iti pā.|
23. dhāraṇāditi dhāraṇaprakarṣāt, tēna dōṣāṇāṁ sāmyāvasthitānāṁ dēhadhārakāṇāmapi dhārakatvaprakarṣābhāvānna mukhyaṁ dhātutvaṁ| yattu “kiñciddōṣapraśamanaṁ kiñciddhātupradūṣaṇam” (ca. sū. a. 1) ityatra dhātuśabdēna dōṣāṇāmapi grahaṇaṁ, tadgauṇadhātuśabdaprayōgājjñēyam| uktaṁ hi “dōṣā api dhātuśabdaṁ labhantē” iti| dhāraṇaśabdēna dhāraṇaṁ pōṣaṇaṁ cēha vivakṣitaṁ, tēnōpadhātūnāṁ kiñciddhāraṇatvē’pi pōṣaṇābhāvānna dhātutvaṁ, uktaṁ ca bhōjē “sirāsnāyuvasāstanyatvacō gativivarjitāḥ| dhātubhyaścōpajāyantē tasmāttē hyupadhātavaḥ’ iti| atra gativivarjitā ityanēna dhātvantarapōṣaṇārthā gatirniṣidhyatē, śukraṁ tvōjaḥ pōṣakatayā dhāraṇapōṣaṇayōgāddhāturēva’ iti cakraḥ|
24. ‘…prakāśaṁ’ iti pā.|
25. tadēvātipākāt kr̥ṣṇaṁ iti pā.|
26. pittavadraktēnēti pāṭhapakṣē pradēśāntaraduṣṭēna raktēna yadā pradēśāntarē raktaṁ duṣyati tadā lakṣaṇaṁ jñēyam’ iti cakraḥ|
27. ‘pracchannaṁ’ iti pā.|
28. ‘nōttānaṁ’ iti pā.|
29. ‘pracchannamadhikr̥tyāha’ iti pā.|
30. ‘asaṅkīrṇaṁ nātipratyāsannam’ iti cakraḥ|
31. ‘nōttānaṁ’ iti pā.|
32. ‘durviddhē iti pārśvatō’nyatra vā viddhē’ iti cakraḥ|
33. ‘atyuṣṇātisvinnātividdhēṣu’ iti pā.|
34. ‘yathōktavyadhādanantaraṁ’ iti pā.|
35. ‘prākkr̥tavyadhanādaparasthānē’ iti pā.| ‘tāmēva vā sirāṁ vidhyēd vyadhāttasmādanantaram|’,(vā. sū. a. 27) ityaṣṭāṅgahr̥dayē| ‘vyadhādanantaraṁ vyadhanasya paścimabhāgē’ ityaṣṭāṅgasaṅgrahavyākhyāyaminduḥ|
36. ‘saśēṣadōṣē rudhirē’ iti pā.|