Table of Contents
ToggleDevanagari Version
श्रीमद्वाग्भटविरचितम्
अष्टाङ्गहृदयम्
श्रीमदरुणदत्तविरचितया 'सर्वाङ्गसुन्दराख्या' व्याख्यया हेमाद्रिप्रणीतया 'आयुर्वेदरसायनाह्वया' टीकया च समुल्लसितम्
शारीरस्थानम् - १. गर्भावक्रान्तिरध्यायः
श्रीगणेशाय नमः| अथ सूत्रस्थानादनन्तरं शारीरस्थानमिदमारभ्यते| तत्रायं सम्बन्धः,-पूर्वस्मिन्स्थाने कायादीन्यष्टावङ्गानि चिकित्साधारभूतानि सकलतन्त्रसारभूतानि सूत्रितानि “कायबाल” (हृ. सू. अ. १/५) इत्यादिना ग्रन्थेन| कायश्च निजागन्तूनां व्याधीनामधिष्ठानम्| तस्य च कायस्य चतुर्वर्गसाधनस्य पालनार्थं हेतुलिङ्गौषधस्कन्धभेदेन त्रिस्कन्धोऽयं ग्रन्थो ग्रन्थकृता प्रणीतः| ततश्च शरीरस्य प्रथमं सूत्रितत्वात्प्राधान्याच्च प्राक् सूत्रस्थानमनन्तरं शारीरस्थानमिदमारभ्यत इत्याह-
अथातो गर्भावक्रान्ति शारीरं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)||२||
शरीरमधिकृत्य कृतो ग्रन्थः शारीरः| गर्भस्यावक्रान्तिः-अवक्रमणं सम्प्राप्तिः, यथाऽगर्भो गर्भतां सम्पद्यत इत्यर्थः| गर्भावक्रान्तिर्विद्यते यस्मिन्नध्याय इति मत्वर्थे कप्रत्ययः| तस्य “अध्यायानुवाकयोर्लुक्” इति लुक्| अथादिशब्दानामर्था आयुष्कामीयाध्याये (हृ.सू. अ.१) व्याख्याता एव|
शुद्धे शुक्रार्तवे सत्वः स्वकर्मक्लेशचोदितः|
गर्भः सम्पद्यते युक्तिवशादग्निरिवारणौ||१||
शुक्रं-अन्त्यो धातुः| ऋतौ भवमार्तवम्, स्त्रीणां यदपत्यमार्गात् शुद्धमीषत्कृष्णं विगन्धं च वायुप्रेरितं लोहितं प्रवर्तते तदार्तवमुच्यते| शुक्रं चार्तवं च शुक्रार्तवम्, पिण्डे पित्रोः सम्बन्धि गर्भबीजम्, तस्मिन् शुक्रार्तवे, शुद्धे-वातादिभिरदूषितेऽधिष्ठानभूते, सत्वो-जीवः, गर्भः सम्पद्यते| किल नासौ गर्भः, अथ च गर्भतामासादयति| कीदृशः सत्वः ? स्वकर्मेत्यादि| कर्माणि-पूर्वजन्मार्जितानि शुभाशुभानि, स्वानि च तानि कर्माणि च स्वकर्माणि| क्लेशयन्ति-लोकान् दुःखयन्तीति, क्लेशाः| ते च-अविद्यास्मितारागद्वेषाभिनिवेशाः| अतथावस्तुनि तथेति (“अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्म) ख्यातिः-अविद्या| दृग्दर्शनशक्त्योरेकात्मताअस्मिता| सुखानुशयी-रागः| दुःखानुशयी-द्वेषः| स्वरसवाही विदुषोऽपि तथा रूढः-अभिनिवेशः” (पात.यो.सू २/५-६-७-८-९)| स्वकर्माणि च क्लेशाश्च, स्वकर्मक्लेशाः, तैश्चोदितः-प्रेरितो गर्भः सम्पद्यते, न तु कर्मक्लेशवियुक्तः| अत एव वीतरागाणां जन्मासम्भवः, कर्मक्लेशरहितत्वात्| तथा चोक्तम्-“चित्तमेव हि संसारि रागादिक्लेशदूषितम्| तदेव तैर्विनिर्मुक्तं मुक्तमित्यभिधीयते||” इति| अथ किं शुद्धे शुक्रार्तवे एव स्वकर्मक्लेशचोदित एव गर्भः सम्पद्यतेऽथवाऽन्यदपि किञ्चिदपेक्षते ? इत्याह-युक्तिवशादिति| योजनं युक्तिः, उपादेयस्यार्थस्येतिकर्तव्यतासाधनोपायार्थम्| युक्तेर्वशः-सामर्थ्यं प्रभावो, युक्तिवशः| ततः शुद्धे शुक्रार्तवे स्वकर्मक्लेशचोदित एव स सत्वो गर्भः सम्पद्यते, नान्यथा| कथम् ? इत्याह-युक्तिवशादग्निरिवारणौ| तथा हि,- मथ्यमन्थनमथकादिसामग्रीमन्तरेणारणावग्निर्यथा न जायते, तथा गर्भोऽपि यथोक्तसामग्रीवैकल्यात् न भवति| सकलसामग्रीसद्भावत एव भवतीति भावः|
तदेवं गर्भस्य सम्पत्तिमभिधाय यथा तस्य कुक्षौ वृद्धिः स्यात्तथा वक्ति—-बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्वानुगैश्च सः|
मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्द्धते||२||
बीजात्मकैः-गर्भजरायुस्वभावैः शुक्रार्तवरूपतां परिणतैः| कैः ? महाभूतैः, -आकाशादिभिः सत्वरजस्तमोमयैः, “तत्र सत्वबहुलमाकाशम्, रजोबहुलो वायुः, सत्वरजोबहुलोऽग्निः, सत्वतमोबहुला आपः, तमोबहुला पृथ्वी चेति|” (सु.शा. अ.१/२०) इत्येवंरूपैः| सः-गर्भः, कुक्षौ विवर्द्धते-विशेषेण वृद्धिं याति| किम्भूतैः ? सूक्ष्मैः,-अतीन्द्रियैर्योगिदृश्यैः| तथा, सत्वं-चेतोऽनुगच्छन्तीति सत्वानुगानि, तैः| यत्र सत्वं तिष्ठति तत्रावश्यं तान्यपि तिष्ठन्ति, सात्वानुशायित्वात्तेषाम्| तथा चोक्तम् (चरके शा. अ.२/३७)-“अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तपूर्वः|” इत्यादि| चशब्दो हेतुसमुच्चयार्थः| [ न केवलं महाभूतैर्हेतुभूतैर्गर्भो विवर्द्धते यावन्मातुश्चाहाररसजैरित्यतो वक्ष्यमाणाद्धेतोरपि वर्द्धत इत्यर्थः| मातुरित्यादि| मातुः सम्बन्धिभिराहाररसजैश्च कुक्षौ विवर्द्धते| चशब्दोऽत्रानुक्तसमुच्चयार्थः| ] न केवलं पूर्वोक्ताद्यथानिर्दिष्ठाद्धेतोर्गर्भः कुक्षौ विवर्द्धते, यावदनिर्दिष्ठादपि मातुः सौमनस्यादेः कललार्बुद पेश्याद्यवस्थाभावेन विशेषतो वृद्धिं यातीति| कथं विवर्द्धते ? इत्याह-क्रमात्,-न झटित्येव| ननु, “मातुश्चाहाररसजैः” इति कथमुक्तम् ? यतः पञ्चभूतात्मक एवाहाररसः| न च यदात्मकोऽसौ स तस्यैव जन्मकारणं भवितुमर्हति, अव्यतिरिक्तत्वात्| तस्मादेवमयं व्याख्यातव्यः,-आहाररसे जातैराहाररसजैः| सप्तम्यन्तादुपपदाज्जनेर्डः| मातुराहाररसात्मना परिणतैरिति|
ननु, सत्वः कुक्षौ प्रविष्टो गर्भस्य वर्द्धने हेतुरुक्तः, न चास्य प्रवेश उपलभ्यते, इत्याह—- तेजो यथाऽर्करश्मीनां स्फटिकेन तिरस्कृतम्|
नेन्धनं दृश्यते गच्छत्सत्वो गर्भाशयं तथा||३||
न केवलं दृश्यत्वादृश्यत्वाभ्यां वस्तुसद्भावासद्भावौ व्यवस्थाऽप्येते, येनादृश्यत्वात्सत्वस्य कुक्षौ प्रवेशासम्भवः| किन्तर्हि ? तत्कार्यान्यथानुपपत्त्याऽपि वस्तुसद्भावो व्यवस्थाप्यत एव| तथा च,- यथाऽर्करश्मीनां सम्बन्धि तेजः स्फटिकेन-सूर्यकान्ताख्येन, तिरस्कृतं-व्यवहितं, स्फटिकस्याधस्तात् स्थितमिन्धनं गच्छत्-व्रजत्, न दृश्यते| अथ च तेजःकार्यमिन्धनं गतं [दृश्यते नान्यसम्बन्धि कार्यम्| तदेवं तेजःकार्यान्यथानुपपत्त्या तेजस इन्धनगमनं ], तथा तत्र तस्य सद्भावोऽप्यधिगम्यते| एवं सत्वो गर्भाशयं गच्छन्-व्रजन्, न दृश्यत एव| वस्तुप्रभावाद्गच्छति च| सत्वशब्द उपलक्षणार्थः, महाभूतान्यपि तदन्तर्गतानि न दृश्यन्त एव, अथ च कार्येणोपलभ्यन्त एव| तदेवं सत्वानुयायिभिर्महाभूतैर्गर्भः कुक्षौ विवर्द्धते, न तु केवलैः सत्वानधिष्ठितैः| चेतोवक्रान्त्या हि क्रमात्कललादिना वस्तुजातं विवृद्धिविमलतामापद्यते, नान्यथा मृतशरीरवत्|
ननु, सत्वो भूतानुग एकरूप एव|
तत्कथमनेकजात्याकृत्या नरतुरगोरगगजगवयादिमत्याऽऽलिङ्गितः सम्पद्यते ? इत्यस्मिन् पर्यनुयोग इदमाह —-
कारणानुविधायित्वात्कार्याणां तत्स्वभावता|
नानायोन्याकृतीः सत्वो धत्तेऽतो द्रुतलोहवत्||४||
कारणं-हेतुं, अवश्यमनुविदधतीति कारणानुविधायीनि| आवश्यके णिनिः| कारणस्वभावानि कार्याणि भवन्ति सर्वाण्येव, तस्माद्धेतोः कार्याणां तत्स्वभावता| स्वभावशब्दः सदृशार्थः| तच्छब्देन कारणं परामृश्यते, तस्य-कारणस्य स्वभावता, तत्सादृश्यम्| तस्मात्कार्यकारणसादृश्याद्धेतोः सत्वोमहाभूतानुग एकरूप एव, अनेकरूपा नानायोन्याकृतीः- जातिबिम्बविशेषान्, धत्ते-धारयति| कथमिव ? द्रुतलोहवत्| यथा रूप्यादिवस्तुजातमग्निना द्रुतरूपतां गतमेकरूपमेव सिक्थादिकल्पितायां नानारूपायां मनुष्याद्याकृतौ तन्निषिक्तं तां तामाकृतिं यथाकल्पितां धत्ते, एवं स सत्वो नानायोनौ गच्छति, तां तां यथास्वमाकृतिं धारयति|
तथा —-
अत एव च शुक्रस्य बाहुल्याज्जायते पुमान्|
रक्तस्य स्त्री, तयोः साम्ये क्लीबः- ———-|५|
अत एव च – पूर्वोक्तात्कार्यकारणसादृश्याख्याद्धेतोः, शुक्रस्यपुंरेतसो, बाहुल्यात्- बहुत्वात्, सामर्थ्यलभ्याच्च स्त्रीरेतोरजोल्पत्वात् पुमान् जायते न स्त्री, तथाविधस्य कारणस्याभावात्| [“तथा, अत एव-पूर्वोक्तात्कार्यकारणसादृश्यात् स्त्रीरेतसो” रक्तस्य, बाहुल्यात्-बाहुत्वात्, सामर्थ्यलभ्याच्च पुंरेतोल्पत्वात् स्त्री जायते न पुमान्, तथाविधस्य कारणस्याभावात्| ] पुंरेतो हि बलवत्, अल्पं स्त्रीरजोऽभिभूय पुंगर्भस्य कारणतां याति| यदा तु स्त्रीरजसो बलवत्वमल्पत्वं च पुंरेतसः, तदाऽल्पं तु पुंरेतोऽभिभूय स्त्रीरजः स्त्र्याख्यस्य गर्भस्य कारणतामापद्यते| यदा तु शुक्रार्तवयोः साम्यं-तुल्यत्वं भवति, तदा न स्त्री न पुमान् जायते, अपि तु लिङ्गद्वयालिङ्गितः क्लीबः-षण्ढो, जायते| एवं पितुः सम्बन्धि शुक्रं स्त्रीरक्तमिश्रितं गर्भकारणम्| न केवलंपितृसम्बन्ध्येव मातुर्वा| दारुवाहिना तूक्तम्-“स्त्रीपुंसयोस्तु संयोगे यद्यादौ विसृजेत्पुमान्| शुक्रं, ततः पुमान् वीरो जायते बलवान् दृढः|| अथ चेद्वनिता पूर्वं विसृजेद्रक्तसंयुतम्| ततो रूपान्विता कन्या जायते दृढसंहता||” इति| अत एव च पुंगर्भाः केचित्किञ्चिन्मातृसदृशा दृश्यन्ते, स्त्रीगर्भाश्च केचित्किञ्चित्पितृसदृशा दृश्यन्ते| ननु, “रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रजायते||” (हृ. शा. अ. ३/६२) इत्यविशिष्य निर्दिष्टम्, न तु पुंशुक्राद्गर्भः प्रजायत इत्येवं निर्दिष्टम्| उभयोरपि च स्त्रीपुंसयोरवश्यं सप्तधातुकत्वमभ्युपगन्तव्यम्, न पुंस एव| तदेवं तरुणीनां कुसुमशराक्रान्तमानसानां तथाविधेन पुरुषसंयोगेन विना केवलात् स्मृतिसंस्पर्शदर्शनाच्चलितप्रस्त्रुत (रक्त)रेतसां किमिति गर्भो न जायते ? शुक्रार्तवं हि गर्भकारणम्| तच्च सन्निहितमेवेति केचित्| तान् ब्रूमहे| पुंशुक्राभावात्| पुंशुक्रं हि स्त्रीरेतोरक्तयुक्तं गर्भकारणम्| न च तदत्रास्ति| तदभावाद्गर्भस्यानुत्पत्तिः| तथा सङ्ग्रहेऽप्यध्यगीष्ट (शा. अ. १)-“योषितोऽपि स्त्रवन्त्येव शुक्रं पुंसः समागमे| गर्भस्य तु न तत्किञ्चित्कतोतीति न चिन्त्यते||” इति|
साम्प्रतं यथाऽनेकगर्भत्वं तुल्यकालं स्यात्तथा प्रतिपादयितुमाह—-
शुक्रार्तवे पुनः||५||
वायुना बहुशो भिन्ने यथास्वं बह्वपत्यता|
———————————————-|६|
वातेन यथास्वं शुक्रार्तवे बहुशो भिन्ने-बहुधा कृते सति, बह्वपत्यता भवति| यथास्वमिति यदा शुक्रमाधिक्येन वर्तमानं वातेन बहुधा भिद्यते तदा पुंगर्भानेकत्वम्, यदा तु स्त्रीरज आधिक्येन वर्तमानं वायुना बहुधा भिद्यते तदा स्त्रीगर्भानेकत्वम्, इति बह्वपत्यता भवति| सूकरसारमेयादिजातिषु त्वनेनैव हेतुना सदाऽवेकापत्यता|
ननु, कथं वियोनयो विकृताकाराश्च गर्भाः स्युः ? —-
वियोनिविकृताकारा जायन्ते विकृतैर्मलैः||६||
वियोनयश्च विकृताकाराश्च वियोनिविकृताकाराः, ते तथाविधा गर्भा जायन्ते| कथम् ? इत्याह-विकृतैर्मलैः| वातादिभिर्दुष्टैरुन्मार्गगामिभिः|
मासि मासि रजः स्त्रीणां रसजं स्त्रवति त्र्यहम्|
वत्सराद्वादशादूर्ध्वं याति पञ्चाशतः क्षयम्||७||
स्त्रीणां मासि मासि-प्रतिमासं, रजो-रक्तं, त्र्यहं स्त्रवति-त्रीणि दिनानि प्रवर्तते| ननु, “शुद्धे शुक्रार्तवे” इति पूर्वं शुक्रमेवोद्दिष्टम्, ततस्तस्यैव निर्देशो न्याय्य इति शुक्रमानुपूर्वीप्राप्तमुल्लङ्घ्य कस्माद्रक्तं निर्दिष्टम्? उच्यते| बहुवक्तव्यत्वात्| रक्ते हि बहुवक्तव्यमस्ति, अतस्तदेव प्राग्वक्तुं युक्तम्| त्र्यहमिति “कालाध्वनोः” इति द्वितीया| किम्भूतं रजः ? रसाज्जातंरसजम्| ननु, रक्तं रसजमेव| वक्ष्यति हि (हृ. शा. अ. ३/६२)- “रसाद्रक्तं ततो मांसं” इत्यादि| तत्किमर्थं रसजमित्युक्तम् ? ब्रूमहे| रसात्-आहाररसात् परिणमतो जातं रसजमित्यत्र निर्दिष्टम्, न तु रसधातोः, इत्यचोद्यमेतत्| कुतःप्रभृति तद्रजः प्रवर्तते ? इत्याह-वत्सरादित्यादि| द्वादशाद्वर्षादूर्ध्वं-अनन्तरं, स्त्रवति| पञ्चाशतो वर्षादूर्ध्वं-परेण, क्षयं याति| द्वादशानां पूरणं वर्षमिति “तस्य पूरणो डट्” इति डट्| द्वादशादिति प्रायिकमेतत्, एकादशवार्षिकाणामपि स्त्रीणां रक्तप्रवृत्तिदर्शनात्| पञ्चाशतः क्षयमित्यत्राप्येवमेव चिन्त्यम्|
पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता|
शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि||८||
वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः|
रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा||९||
पूर्णानि षोडशवर्षाणि यस्याः सा, एवंविधा स्त्री पूर्णविंशेन नरेण सङ्गता-मिथुनतां याता सती, गर्भाशयादिषु शुद्धेषु वीर्यवन्तं-सामर्थ्ययुक्तं, पुत्रं सूते-जनयति| प्रायिकं चैतत्, अर्वागपि साधुगर्भदर्शनात्| अत एवायमेव तन्त्रकारोऽन्यथा सङ्ग्रहे जगाद (शा. अ. १)- “षोडशवर्षायां पञ्चविंशतिवर्षः पुत्रार्थं प्रयतेत|” इति| विंशतेः पूरण इति डटिति “विंशतेः” इति तिलोपे विंशशब्दः| पूर्णो विंशो यस्येति पूर्णविंशः| गर्भस्याशयो गर्भाशयः, तस्मिन्| शुद्धे-निर्मले, वातादिभिरदुष्टे| तथा, मार्गे-प्रकृतत्वादपत्यमार्गे, वातादिभिरदुष्टे| तथा, रक्तेस्त्रीरजसि, शुद्धे| तथा, शुक्रे-पुंबीजे, शुद्धे| तथा, अनिले शुद्धेपित्तादिभिरनावृते| तथा, हृदि-शुद्धे-दोषानधिष्ठितेऽसन्तप्ते|
ततः-पूर्वोक्ताद्वयःपरिमाणात्, न्यूनाब्दयोः-हीनवर्षयोः स्त्रीपुरुषयोः पञ्चदशाष्टादशवर्षयोः, रोगी भवति| रोगीत्यतिशय इनिर्मत्वर्थीयः| तथोत्पन्नोऽल्पायुरधन्यश्च-अप्रशस्तो, गर्भो भवति| न भवत्येव वा|
ननु, दम्पत्योः शुक्रार्तवसंयोगेऽपि सति क्वचिद्गर्भसम्भूतिर्न दृश्यते|
तत्कथमेतत् ? इत्याशङ्क्येदमाह —-
वातादिकुणपग्रन्थिपूयक्षीणमलाह्वयम्|
बीजासमर्थं रेतोस्रम्——————|१०|
आदिशब्देन पित्तश्लेष्मणोः परिग्रहः| वातादयश्च कुणपं च ग्रन्थिश्च पूयश्च क्षीणं च मलं चेति द्वन्द्वः| एत आह्वयः- संज्ञाः, यस्य रेतोस्त्रस्य तदेवम्| आह्वयशब्दः प्रत्येकं वातादिषु योज्यः| रेतश्चास्त्रं च रेतोस्त्रं वाताद्याह्वयम्| वातसंज्ञं शुक्रं वातशुक्रम्| एवं पित्तशुक्रं कफशुक्रम्| कुणपगन्धित्वात्कुणपं नाम शुक्रं कुणपशुक्रम्, तद्रक्तेन दुष्टेन भवति| एवं ग्रन्थिशुक्रं पूयशुक्रं क्षीणशुक्रम्| मलाह्वयं तु द्विधा,-मूत्रपुरीषभेदात्| मूत्रसदृशं शुक्रं मूत्रशुक्रम्| एवं पुरीषशुक्रम्| आर्तवमपि शुक्रवद्दोषदूषितमबीजमेव| तस्य लिङ्गं नाम च शुक्रवद्वेद्यम्| यथा,-वातार्तवं पित्तार्तवमित्यादि, यावत्पुरीषार्तवमिति| साध्यासाध्यविभागश्च तद्वदेव| शुक्रार्तवदोषेषु च चिकित्सामपि तुल्यां ब्रूते| यत्र तु विशेषं द्रक्ष्यति, तत्र विशेषमभिधास्यति| यथा (श्लो.१५)-“पिबेद्ग्रन्थ्यार्तवे पाठा” इत्यादि|
———————————————-|
———————-स्वलिङ्गैर्दोषजं वदेत्||१०||
रक्तेन कुणपं, श्लेष्मवाताभ्यां ग्रन्थिसन्निभम्|
पूयाभं रक्तपित्ताभ्यां, क्षीणं मारुतपित्ततः||११||
कृच्छ्राण्येतान्यसाध्यं तु त्रिदोषं मूत्रविट्प्रभम्|
———————————————-|१२|
स्वानि च तानि लिङ्गानि-लक्षणानि च, स्वलिङ्गानि,-यथास्वं वातादीनां रूपाणि| यथा,-रूक्षश्यावारुणादीनि वायोः, विस्त्रगन्ध्यौष्ण्यादीनि पित्तस्य, स्निग्धपाण्डुपिच्छिलादीनि कफस्य तैः स्वलिङ्गैर्वातादिदोषजं वदेत्- जानीयात्,वैद्यः |इति शेषः| रक्तेन दुष्टेन कुणपं-कुणपगन्धित्वात्कुणपसंज्ञं, अन्वर्थं रेतोस्त्रं भवति| एवं ग्रन्थ्यादीनामप्यन्वर्थसंज्ञता बोध्या| श्लेष्मवाताभ्यां दुष्टाभ्यां ग्रन्थिसन्निभं-ग्रन्थ्याकारम्| पूयाभं-पूयसदृशम्, रक्तपित्ताभ्यां रेतोस्त्रं पूयाह्वयं भवति| क्षीणं नाम रेतोस्त्रं मारुतपित्ततो भवति, मारुतपित्ताभ्यां दुष्टाभ्यां दुष्टं तद्दूषाणात् क्षीणतां नीतमित्यर्थः|
पूर्वोक्तानीमानि वातादिशुक्रार्तवानि क्षीणशुक्रार्तवान्तानि कृच्छ्रसाध्यत्वात् कृच्छ्राणि| असाध्यं त्विति| मूत्रं च विट् च मूत्रविशौ, तयोरिव प्रभा यस्य तदेवम्| रेतोस्त्रमुभयमपि मलसंज्ञम्| त्रिदोषं-त्रिदोषदुष्टम्| असाध्यं-साधयितुमशक्यम्|
इदानीमुपक्रममाह—-
——————————————|
कुर्याद्वातादिभिर्दुष्टे स्वौषधम्—————|१२|
स्वं-आत्मीयं, च तदौषधं च स्वौषधम्, वाताद्यौषधमित्यर्थः| तेन वायोः कुपितस्य यदौषधं-प्रशमोपायः स्निग्धोष्णाम्ललवणादि, पित्तस्य मधुरशीतकषायादि, श्लेष्मणः कटुकरूक्षकषायादि, तत्तस्य भेषजमित्यवतिष्ठते| विशेषतस्तु-“वातजेशुक्रदोषे वसुकसैन्धवफलाम्लसिद्धं यवक्षारप्रतीवापं सर्पिष्पानम्, बिल्वविदारीसिद्धं क्षीरयुक्तमास्थापनम्, मधुभद्रदारुसिद्धं तैलमनुवासनम्, क्षीरकुलीररससिद्धं तैलमनुवासनमुत्तरबस्तिश्च| पैत्तिके काण्डेक्षुश्वदंष्ट्रागुडूचीक्वाथसिद्धं मूर्वामधूकप्रतीवापं सर्पिष्पानम्, त्रिवृच्चूर्णः सघृतो विरेकः पयस्याश्रीपर्णीसिद्धं क्षीरयुक्तमास्थापनम्, मधुकमुद्गपर्णीसिद्धं तैलमनुवासनमुत्तरवस्तिश्च| श्लैष्मिके पाषाणभेदाश्मन्तकामलकक्वाथसिद्धं पिप्पलीमधुकचूर्णप्रतीवापं सर्पिष्पानम्, मदनफलकषायो वमनम्, दन्तीविडङ्गचूर्णस्तैललीढो विरेकः, राजवृक्षमदनफलकषायप्रगाढमास्थापनम्, मधुकपिप्लीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च| वातजे पुष्पदोषे भार्गीभद्रदारुसिद्धं सर्पिष्पानम्, काश्मर्यक्षुद्रसहासिद्धं वा क्षीरम्, मधुकशृगालविन्नाकल्कं पयःसर्पिःसहितं प्रियङ्गुतिलकल्कं वा योनौ धारयेत्, सरलमुद्गपर्णीकषायः प्रक्षलनम्| पित्तजे काकोलीद्वयविदारीमूलक्वाथमुत्पलपद्मकक्वाथं मधुकपुष्पकाश्मर्यफलक्वाथं वा सशर्करं पिबेत्, श्वेतचन्दनक्वाथं वा सक्षौद्रम्|” इत्यादिकं सङ्ग्रहात् (शा. अ. १) बोध्यम्|
इदानीं कुणपचिकित्सामाह—-
———————————————-|
———————————-कुणपे पुनः||१२||
धातकीपुष्पखदिरदाडिमार्जुनसाधितम्|
पाययेत्सर्पिरथवा विपक्वमसनादिभिः||१३||
कुणपाह्वये तु रेतसि धातक्यादिद्रव्यसाधितं घृतं पाययेत्, वैद्य इति शेषः| अथवा, असनादिभिः-असनादिगुणोद्दिष्टैर्भेषजैः (हृ.सू.अ.१५/१९) विपक्वं घृतं पाययेत्| ननु, कुणप इति सामान्योक्तावपि कथं रेतसीति विषेषो लभ्यते| ब्रूमः| रेतःप्रकरणात्| अपि च कुणपास्त्रस्य पुरस्तादुपक्रमं वक्ष्यति (श्लो.१६)-“पेयं कुणपपूयास्रे” इति| तस्माद्रेतस एवेह ग्रहणं युक्तम्| पुनर्ग्रहणमत्र वातादिदुष्टे रेतस्यस्रोक्तां क्रियां कुर्यादिति द्यातयति|
साम्प्रतं ग्रन्थिसंज्ञे रेतस्युपक्रमं ब्रूते—- पलाशभस्माश्मभिदा ग्रन्थ्याभे———————|
———————————————-|१४|
पलाशस्य भस्म पलाशभस्म| अश्मभित्-पाषाणभेदः| पलाशभस्म चाश्मभिच्च, तेन विपक्वं घृतं ग्रन्थ्याभे-ग्रन्थिनाम्नि रेतसि, पाययेत्|
—————————————-पूयरेतसि|
परुषकवटादिभ्याम्——————————–|१४|
पूयाख्ये रेतसि परूषकवटादिभ्यां विपक्वं घृतं पाययेत्| परुषकश्च वटश्च परूषकवटौ, तावादी ययोर्गणयोस्तौ परुषकवटादी, ताभ्याम्| “परुषकं वरा द्राक्षा” (हृ.सू. अ.१५/१३) इति परुषकादिः| तथा, “न्यग्रोधपिप्पल” (हृ.सू. अ. १५/४१) इति वटादिः|
———————————————-|
————————क्षीणे शुक्रकरी क्रिया||१४||
क्षीणे-क्षीणत्वात् क्षीणाह्वये रेतसि, शुक्रकरी क्रिया| कार्येति शेषः| शुक्रलमतिशयेन सेव्यमित्यर्थः|
संशुद्धो विट्प्रभे सर्पिर्हिङ्गुसेव्यादि(ग्नि)साधितम्|
पिबेत्———————————————–|१५|
संशुद्धः-कृतवमनविरेचनः, विट्प्रभे-विण्मलसद्दशे रेतसि, आतुरो घृतं पिबेत्| किम्भूतम् ? हिङ्गुसेव्यादिसाधितम्| अत्रादिशब्दो व्यवस्थावाची| तेन सङ्ग्रहोक्तस्य (शा. अ. १)- “हिङ्गूशीर[चित्रकैरथवा] चित्रक[वितुन्नक] प्रियङ्गु[हिङ्गु]समङ्गामृणालसिद्धमेलाचोचचूर्णप्रतीवापम्|” इत्यस्य पाठस्य सूचना भवति| हिङ्गुसेव्याग्निसाधितमित्यपरे पेठुः| ननु, “असाध्यं तु त्रिदोषं मूत्रविट्प्रभम्|” (श्लो.१२) इत्युवाच तन्त्रकृत्| तत्किमित्यस्य चिकित्सोपदिष्टा ? ब्रूमः| किञ्चित्साध्यताऽप्यस्यास्तीति प्रतिपादयितुं चिकित्सामुपदिदेश शास्त्रकारः| अत एव मूत्रप्रभस्यासाध्यत्वाच्चिकित्सां नोपादिशत्| मूत्रप्रभार्तवविट्प्रभार्तवयोरप्यसाध्यत्वादेवोपक्रमं नाभ्यधात्|
वातद्यार्तवेषु
“स्वौषधं कुर्यात्” (श्लो.१२) इत्युक्तम्|
कुणपग्रन्थ्यद्यार्तवेषु विशेषेण चिकित्सां वक्ष्यति —-
————————————————–|
———ग्रन्थ्यार्तवे पाठाव्योषवृक्षकजं जलम्||१५||
ग्रन्थ्यार्तवे-ग्रन्थिनाम्र्यार्तवे स्त्रीरजसि, जलं पिबेत्| किम्भूतम् ? पाठादिजातम्| पाठा-प्राचीना| व्योषं-त्रिकटुकम्| वृक्षकः-कुटजः|
पेयं कुणपपूयास्त्रे चन्दनं वक्ष्यते तु यत्|
गुह्यरोगे च तत्सर्वं कार्यं सोत्तरबस्तिकम्||१६||
कुणपाख्ये रजसि पूयाख्ये चापि चन्दनं पेयम्| अत्र ‘द्रवानुक्तौ जलं देयम्’ (हृ. क. अ. ६/२३) इति परिभाषया जलेन पातव्यमिति बोध्यम्| क्षीणार्तव इह चिकित्सितं नोक्तम्, तच्च स्वधियोह्यम्| यथा क्षीणरेतसि शुक्रकरी क्रिया कार्येत्युक्तम्, तथा क्षीणे रक्ते रक्तकरी क्रिया कार्येति| न च केवलमेतत्पूर्वोक्तमेव चिकित्सितं कार्यम्, यावद्गुह्यरोगप्रतिषेधे यद्वक्ष्यते-भणिष्यते, तदपि सर्वं साधनं यथायोगं वमनादि योनौ पिचुकधारणादिकं च कार्यम्| किम्भूतम् ? सोत्तरबस्तिकम्| सहोत्तरबस्तिना वर्तत इति सोत्तरवस्तिकम्| उत्तरबस्तिरपि तत्र कार्य इत्यर्थः| सोत्तरबस्तिकमिति “तेन सहेति तुल्ययोगे” इति वहुव्रीहिः, “शेषाद्विभाषा” इति कप्, ‘वोपसर्जनस्य” इति सभावः| उत्तरबस्तिरपि तत्रौषधमित्यर्थः|
बीजासमर्थं रेतोस्त्रमभिधाय साम्प्रतं शुद्धं यच्छुक्रार्तवं बीजसमर्थं तल्लक्षाणार्थमाह—- शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु|
घृतमाक्षिकतैलाभं सद्गर्भाय आर्तवं पुनः||१७||
लाक्षारसशशास्त्राभं धौतं यच्च विरज्यते|
———————————————-|१८|
शुद्धे शुक्रार्तव इति पूर्वं शुक्रस्योपदेशात्प्राधान्याच्च शुक्रस्य पूर्वमुपन्यासः| “तत्राहाररसस्य सम्यक्परिणतस्य क्रमान्मज्जानमनुप्राप्तस्य सारः शुक्रसंज्ञां लभते| तच्च क्षीर इव सर्पिरिक्षुरस इव गुडः शरीरे शुक्रधारां कलामाश्रित्य सर्वाङ्गव्यापितया स्थितम्| विशेषतश्च मज्जमुष्कस्तनेषु| हर्षोदीरितं तु सङ्घट्टनेन हृदयावेशात् पिण्डीभूतमङ्गादङ्गात्प्रवर्तते (सङ्ग्रहे शा. अ.१)|” तच्च शुक्लादिगुणयुक्तं शुक्रम्| तथा, घृताभं माक्षिकाभं तैलाभं वा सद्गर्भाय-शोभनगर्भार्थं, भवति| तव घृताभेन गौरवर्णत्वं गर्भस्य, माक्षिकाभेन श्यामवर्णत्वं, तैलाभेन कृष्णवर्णत्वं, भवति|
“रक्तमेव स्त्रीणां मासि मासि गर्भकोष्ठमनुप्राप्य त्र्यहं प्रवर्तमानमार्तवमाचक्षते| अतिप्रसङ्गेनानृतौ वा प्रवर्तमानं तदेवासृग्दरादिसंज्ञां लभते” (सं.शा.अ.१)| यदार्तवं लाक्षा रसाभं-अलक्तकरससदृशम् , तथा शशरुधिरसदृशम्, तथा यच्च धौतं सद्विरज्यते-वस्त्रादिलग्नं धौतं सल्लौहित्यं जहातीत्यर्थः| तदीदृशमार्तवं तु सद्गर्भाय सम्पद्यते|
शुद्धशुक्रार्तवलक्षणमुक्त्वा, इदानीं गर्भसम्भवात्पूर्वमिति कर्तव्यतामाह—-
——————————————————-|
शुद्धशुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः||१८||
स्नेहैः पुंसवनैः स्निग्धं शुद्धं शीलितबस्तिकम्|
—————————————————–|१९|
शुक्रं चार्तवं च शुक्रार्तवे, शुद्धे शुक्रार्तवे यस्य मिथुनस्य तच्छुद्धशुक्रार्तवम्,-स्त्रीपुरुषयुगलं, समुपाचरेदिति सम्बन्धः| तथा, स्वस्थं-अरोगं, रोगलेशेनाप्यनाक्रान्तम्| तथा, मिथः परस्परं, संरक्तं-अनुरागयुक्तमन्योन्यदर्शनेन कुसुमचापाविष्टमेवंविधम्| स्नेहैः पुंसवनैः-यथाभिमतगर्भग्रहणप्रभावैः फलसर्पिर्महाकल्याणकादिभिः, स्निग्धम्| तथा, शुद्धं-कृतवमनविरेचनम्| तथा शीलितबस्तिकम्, शीलिताः-अभ्यासेनानुष्ठिताः, बस्तयो येन-मिथुनेन, तच्चीलितबस्तिकम्| न सकृदेवानुष्ठितबस्तिकमित्यर्थः|
——————————————————-|
नरं विशेषात्क्षीराज्यैर्मधुरौषधसंस्कृतैः||१९||
विशेषात्-विशेषेणातिशयेन, नरं क्षीरैर्घृतैश्च समुपाचरेदिति सम्बन्धः| विशेषादित्यनेनैतत् द्योतयति| विशेषेण नरं क्षीराज्यैः समुपाचरेत्, न पुनर्नारीमपि तैर्न समुपाचरेदिति| किम्भूतैः ? मधुरौषधसंस्कृतैः मधुराणि-मधुरप्रायाणि मधुरप्रभावानि च तान्यौषधानि-जीवनियादीनी, [च]तैर्मधुरौषधैः, संस्कृतैः-सिद्धैः|
नारीं तैलेन माषैश्च पित्तलैः समुपाचरेत्|
——————————————————-|२०|
नारीं तैलेन माषैश्च समुपाचरेत्| चशब्दोऽत्र भिन्नक्रमः| पित्तलैश्च समुपाचरेदित्यर्थः| पित्तलानि हि रक्तवृद्धिहेतवः| उक्तं हि (हृ. सू. अ. ११/२६)-“आश्रयाश्रयिणां मिथः| यदेकस्य तदन्यस्य वर्द्धनक्षपणौषधम्||” इति| एवं च तैलं पित्तकृत्त्वादेवोपन्यस्तम्| विशेषादित्यत्राप्यनुवर्तते| क्षीराज्येभ्योऽपि विशेषेण नारिं तैलदिभिः समुपाचरेदित्यर्थः| पुरुषस्य तु रजसोऽभावात्तद्वृद्धिहेतवस्तैलादयो नोपयुज्यन्त एव|
ऊर्वोक्तसकलसामग्रीयुक्तादपि मिथुनाद्विशिष्टकालमन्तरेण गर्भस्यासम्भव इति स्त्रीमधिकृत्य तद्गर्भग्रहणयोग्यं कालं दर्शयितुमाह—-
—————————————————-|
क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम्||२०||
स्वस्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम्|
——————————————————-|२१|
कार्श्यहेतुं विना क्षामं, तथा प्रसन्नं-निर्मलं, वदनं-मुखं, यस्याः सैवंभूता, ताम्| श्रोणिश्च पयोधरौ च श्रोणिपयोधरम्, स्फुरत्-कम्पमानं, श्रोणिपयोधरं यस्याः सा, ताम्| श्रोणिः-कटिः| स्त्रस्ते-च(ग)लिते, इवाक्षिणी कुक्षिश्च यस्याः सा ताम्| तथा, पुंसि कामः-अभिलाषो, यस्याः सा, ताम्| एवंविधां स्त्रियमृतुमतीं-ऋतुयुक्तां, विद्यात्| तस्याः स गर्भग्रहणकाल इत्यर्थः| पुंस्कामामिति “संपुंकानां सो वक्तत्र्यः” इति मकारस्य सकारदेशाद्रुत्वाभावः|
“सर्वं च हेतुमद्ब्रूयात्” इत्यागमः, अत आह—-
—————————————————-|
पद्मं सङ्कोचमायाति दिनेऽतीते यथा, तथा||२१||
ऋतावतीते योनिः, सा शुक्रं नातः प्रतीच्छति|
——————————————————-|२२|
यथा दिवा प्रफुल्लं पद्ममनन्तरं दिवसातिक्रान्तौ सङ्कोचमायाति-मुकुलभावं प्राप्नोति, तत्स्वभावत्वात्तस्य| तथा-तेनैव प्रकारेण, ऋतावतीते-अतिक्रान्ते द्वादशरात्रस्वभावे योनिः सङ्कोचमायति| सा च-योनिः, [अतः] सङ्कुचितत्वात् शुक्रं न प्रतीच्छतीति|
विवृताविवृतमुखत्वं हि योनेर्गर्भग्रहणाग्रहणहेतुः|
तच्च वायोः क्रियावतः कालसहायस्यायत्तमित्याह —- ——————————————————-|
मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः||२२||
ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत्|
——————————————————-|२३|
मासेन यदुपचितमाहाररसतो वृद्धिं प्राप्तं रक्तं तत्पुनर्मासेनोपचितं रक्तमृतौ वायुर्योनिमुखान्नुदेत्-प्रेरयेत्| विधौ लिङ्| तदा योनिमुखं विवृतं सम्पद्यते| केन नुदेत् ? धमनीभ्यांस्रोतोविशेषाभ्यां| किम्भूतं रक्तम् ? ईषात्कृष्णं, तथा विगन्धंविस्रगन्धरहितम्| प्रकृतिस्थप्रेरकपवनसम्पर्कादीषत्कृष्णता, न तु कुपितसमीरणप्रेरणसंश्लेषवशादिवात्यन्तं कृष्णता| नापि पित्तेन तथाभूतेन युक्तम्, येन विस्त्रगन्धि स्यात्| नापि श्लेष्मणा तथाभूतेन युक्तम्, येन तद्वर्णयुक्तं स्यात्| तस्माच्छुद्धं विशिष्टे काले योनिमुखात्प्रवर्तमानं रक्तमार्तवसंज्ञां लभते| तदेव चान्यदा योनिमुखात्प्रवर्तमानमसृग्दरसंज्ञामासादयति|
शुद्धं च रक्तं पुष्पसंज्ञम्, गर्भाख्यस्य फलस्य भविष्यतोऽभिव्यञ्जकत्वात्|
अत एवाह—-
—————————————————-|
ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्यहम्||२३||
मृजालङ्काररहिता दर्भसंस्तरशायिनी|
क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम्||२४||
पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी|
चतुर्थेऽह्नि ततः स्नाता शुक्लमाल्याम्बरा शुचिः||२५||
इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम्|
——————————————————-|२६|
पुष्पेक्षणात्-पुष्पस्य दर्शनादेवानन्तरं, स्त्री त्र्यहं-त्रीणि दिनानि, कल्याणं-शुभं, अवश्यं ध्यायति-चिन्तयतीति कल्याणध्यायिनी स्यात्| आवश्यके णिनिः| तथा, मृजा-स्नानक्रिया, अलङ्कारः-कटकादिः पुष्पादिर्वा, अलङ्क्रियते-भूष्यते शरीरमेभिरिति कृत्वा, एवं गन्धमाल्यस्याप्यलङ्कारत्वम्| तथा च वक्ष्यति (हृ. चि. अ. ५/८२)- “गन्धमाल्यादिकां भूषाम्” इति| मृजालङ्काराभ्यां रहिता-वर्जिता| तथा दर्भाणां संस्तरः-शय्या, तत्र शेते सा दर्भसंस्तरशायिनी| “व्रते” इति णिनिः| तथा, क्षैरेयं-क्षीरसिद्धं, यावकं-यवान्नविशेषं, पर्णे शरावे हस्ते वा भुञ्जीत-भक्षयेत्| कियन्मात्रम् ? स्तोकं-अल्पमात्रम्| तत्क्षैरेयमुपयुक्तं कीदृशं स्यात् ? इत्याह-कोष्ठशोधनकर्षणमिति| शोधनं च कर्षणं च शोधनकर्षणम्| कोष्ठस्य शोधनकर्षणमिति षष्ठीसमासः| शरीरस्य महास्त्रोतो मध्यमो भाग आमपक्वस्याशयः कोष्ठशब्दवाच्यः| स एव गर्भाधिष्ठानम्, अतस्तस्यैव शोधनम्| तथा, तदङ्गानां कर्षणमिति व्याख्येयम्| न पुनः कोष्ठस्य शोधनमन्येषां चाङ्गानां कर्षणम्| तथा हि-त्रिवृदादिना विरिच्यते, नैवमनेन यावकेन| वस्तुस्वाभाव्यात् कोष्ठशोधनकर्षणमात्रमेव क्रियते| क्षैरेयमिति “क्षीराड्ढञ्” इति ढञ्| याव एव यावक इति “यावादिभ्यः कन्” इति कन्| तथा, ब्रह्मचारिणी-त्यक्तव्यवाया, स्यात्| ततः-त्र्यहादूर्ध्वं,चतुर्थे वासरे स्नाता, तथा शुक्लानि माल्यान्यम्बराणि च यस्याः सैवम्, तथा शुचिः-अन्तर्बहिश्च पवित्रा सती, पुरः-पूर्वं, पतिं पश्येत्| सङ्ग्रहेऽप्युक्तम् (शा. अ. १)- चतुर्थे त्वहन्युद्वर्तिता शीतसलिलस्नाताऽनुलिप्ताऽलङ्कृता शुक्लमाल्याम्बरा कृतमङ्गलस्वस्त्ययनैवंविधमेव भर्तारं पश्येदनन्यमनाः| तदा हि यादृशं पश्यति चिन्तयति वा तादृशमेव प्रसूत इति|” इति|
तत्किं त्र्यहमेव ऋतुः, अत्रैव पुष्पदर्शनात्|
अथोत्तरकालमपि ? इत्याशङ्क्याह—-
————————————————-|
ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रोऽत्र निन्दिताः||२६||
एकादशी च, युग्मासु स्यात्पुत्रोऽन्यासु कन्यका|
—————————————————-|२७|
पुष्पदर्शनात्प्रभृति यावद्वादशरात्रयस्तावदृतुर्योषितः, न पुनरत्र्यहमेव, यत्र पुष्पं प्रवर्तते, इति ऋतुशब्देन दर्शयति| अत्र-अस्मिन् द्वादशनिशावधावृतुकाले, याः पूर्वास्तिस्त्रो निशाः, यासु प्रायः पुष्पं प्रवर्तते, ता निन्द्याः-गर्ह्याः सद्भिः| न तत्र सन्मतिः स्त्रियं सङ्गच्छेत्| अत एवात्र ब्रह्मचारित्वोपदेशः| तथा, एकादशी निशा निन्द्या-अप्रशस्ता| चशब्दोऽत्रानुक्तायास्त्रयोदश्याः समुच्चयार्थः| त्रयोदश्यां हि मिथुनीभावे नपुंसकस्योत्पत्तिरिति केचिदाहुः| युग्मासु-चतुर्थषष्ठाष्टमदशमद्वादशलक्षणासु निशासु, सङ्गमे पुत्रः स्यात्, अचिन्त्यत्वादृतुभावस्य| तासु हि रात्रिष्वार्तवमल्पीभवति| अन्यासुअयुग्मासु निशासु पञ्चमीसप्तमीनवमीषु, कन्या जायते| तदा हि शुक्रमल्पीभवति, पूर्वोक्ताद्धेतोः| यदि पुनराहारादिवशात् शुक्रस्याधिकत्वमयुग्मासु, युग्मासु चार्तवपूर्णता स्यात्, तदा पुमान् स्त्र्याकृतिर्दुर्बलो हीनाङ्गो वा जायते, स्त्री च पुरुषाकृतिर्दुर्बला हीनाङ्गा वा| एकादशीत्रयोदश्योस्तु नपुंसकमिति| तदेवं दम्पती पुंगर्भमिच्छन्तौ युग्मासु निशासु पुंसवनादिकं कर्माचरेताम्, स्त्रीगर्भमिच्छन्तौ त्वयुग्मासु रात्रिषु|
—————————————————-|
उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम्||२७||
नमस्कारपरायास्तु शूद्राया मन्त्रवर्जितम्|
—————————————————-|२८|
अथेत्यानन्तर्ये मङ्गलसूचको निर्दिष्टः| अत एवायमात्रार्थः-ऋतुकालादनन्तरं मङ्गलपूर्विकां सर्वामिमां वक्ष्यमाणामितिकर्तव्यतां कुर्यादिति| उपाध्यायः-पुरोहितोऽथर्ववेदवित्, पुत्रीयं-पुत्राय हितं, विधिमित्थं कुर्वीत| कथम् ? विधिवत् न यथाकथञ्चित्| विधिवदिति प्रशंसायां मतुप्| क्रियाविशेषणं चैतत्, तेन प्रशस्तं वेदोक्तमन्यूनातिरिक्तविधानं यथा भवति तथाविधं कुर्वीतेत्यवतिष्ठते| ब्रह्माणदिवर्णत्रयस्येमंविधिं कुर्वीत| शूद्रायाः पुनर्नमस्कारपरायाः-नमस्कारप्रधानायाः, यथोक्तं सर्वं विधिं मन्त्रवर्जितं कुर्यात्| पुत्रीयमिति “पुत्राच्छ च” इति च्छः|
—————————————————-|
अवन्ध्य एवं संयोगः स्यादपत्यं च कामतः||२८||
एवं-यथोक्तविध्यनुष्ठाने, दम्पत्योर्यः संयोगो-मिथुनीभावः, स न वन्ध्यः स्यात्| अपि तु सफलो गर्भसम्भवहेतुर्भवेदित्यर्थः| न केवलं दम्पत्योःसंयोग एवं निष्फलो न भवेत्, अपत्यं च कामतः-यथाभिमतं पुंगर्भरूपं स्त्रीगर्भरूपं वा, स्यात्|
अत एवाह—-
सन्तो ह्याहुरपत्यार्थं दम्पत्योः सङ्गतिं रहः|
—————————————————-|२९|
रहःशब्देन ग्राम्यवचसाऽत्र ग्राम्यधर्मं सूचयति| हियस्मात्, सन्तः-साधवः, अपत्यार्थं-अपत्यजननाय, दम्पत्योः स्त्रीपुरुषयोः, रहः-एकान्ते, विशिष्टकालोचितं विशिष्टसंयोगं सङ्गतिमाहुः, न ग्राम्यसुखलिप्सायै|
न चापत्यमात्रायेत्याह —-
————————————————-|
दुरपत्यं कुलाङ्गारो गोत्रे जातं महत्यपि||२९||
दुष्टापत्यं स्त्रीगर्भः पुंगर्भो वा, महत्यपि गोत्रे जातं-उत्कृष्टेऽपि कुल उत्पन्नं, आङ्गारकार्यकरणसामर्थ्यात्समस्तत्कुलविनाशहेतुत्वात्कुलाङ्गार इत्युच्यते|
इच्छेतां यादृशं पुत्रं तद्रूपचरितांश्च तौ|
चिन्तयेतां जनपदांस्तदाचारपरिच्छदौ||३०||
तौ-दम्पती, यादृशं पुत्रमिच्छेतां-कामयेतां, तद्रूपचरितान् रूपं-वर्णसंस्थानप्रमाणाशाकृत्यादि| तथा चरितं-श्रद्धाश्रुतसत्यार्जवानृशंस्यदानदयादाक्षिण्यस्वभावादि| तस्य-मनीषितस्य, सदृशे रूपचरिते येषां तान् जनपदान् चिन्तयेतां-ध्यायेतां| पुत्रशब्दोऽपत्यमात्रोपलक्षणार्थोऽत्र| तथा हि दुहितरमपि कश्चिदिच्छत्येव| किम्भूतौ तौ पितरौ ? तदाचारपरिच्छदौ| आचरणं-आचारः, कुलानुरूपस्य देशानुरूपस्य चेतिकर्तव्यतालक्षणस्य कर्मणोऽनुष्ठानम्| परिच्छदो-मनुजगवाश्वधनधान्यवस्त्रालङ्काररत्नरथायुधगृहोद्यानवीणापणवगायनशय्यास्तरणादिः| आचारश्च परिच्छदश्चाचारपरिच्छदौ| तदित्यनेनाभिलषितापत्यं परामृश्यते| तस्यैवाचारपरिच्चदौ ययोस्तौ दम्पती इच्छा सदृशरूपचरितान् जनपदान् ध्यायेताम्|
कर्मान्ते च पुमान् सर्पिःक्षीरशाल्योदनाशितः|
प्राग्दक्षिणेन पादेन शययां मौहूर्तिकाज्ञया||३१||
आरोहेत् स्त्री तु वामेन तस्य दक्षिणपार्श्वतः|
तैलमाषोत्तराहारा तत्र मन्त्रं प्रयोजयेत्||३२||
कर्मान्ते च-पुत्रीयविध्यनुष्ठानावसाने च, पुमान् स्त्रीतः प्राक्-पूर्वं, शय्यामारोहेत्-आक्रमेत्| किम्भूतः ? सर्पिःक्षीरशाल्योदनाशितः,-सर्पिर्मिश्रक्षीरशाल्योदनेनाशितो-भोजितः| कथमारोहेत् ? दक्षिणेन पादेन, मौहूर्तिकाज्ञया-ज्योतिः शास्त्रविदादिष्टः| स्त्री तु वामेन पादेन तस्य दक्षिणपार्श्वतः शय्यामारोहेत्, मौहूर्तिकाज्ञयेति योज्यम्| तुरवधारणे, उभयत्रापि| पुमान् दक्षिणेनैव पादेन प्रागेव, स्त्री पश्चादेव वामेनैव पादेन पुंसो दक्षिणपार्श्वत एव, शय्यामारोहेत्, नान्यथा कृत्वेति|”पुमान् सर्पिःक्षीरशाल्योदनाशितः” इत्युक्तम्| स्त्रियास्तु तत्कालोचितमाहारं निरूपयन्नाह-तैलेत्यादि| तैलं च माषश्च, ताभ्यामुत्तरः-अधिकः, आहारो यस्याः सैवम्| उत्तरशब्दोऽत्र तैलमाषौ पित्तलौ रक्तवृद्धिहेतू तयाऽत्यन्तं सेवितव्यौ, न पुनस्तथा शुक्रवृद्धिकराण्यन्यान्यपि क्षीरादीनि द्रव्याणिति प्रतिपादयति| तत्र च मन्त्रं वक्ष्यमाणं प्रयोजयेत्-पठेत्|
तदेव मन्त्रमाह….
औम् आहिरसि आयुरसि सर्वतः प्रतिष्ठासि धाता त्वां
दधातु विधाता त्वां दधातु ब्रह्मवर्चसा भवेति|
ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्यस्तथाऽश्विनौ|
भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम्||३३||
आहिरसीत्यादि [ वीरं ददतु मे सुतमित्यन्तं मन्त्रं पठेत् ]
सान्त्वयित्वा ततोऽन्योन्यं संविशेतां मुदान्वितौ|
उत्ताना तन्मना योषित्तिष्ठेदङ्गैः सुसंस्थितैः||३४||
ततो-मन्त्रपाठादनन्तरं, परस्परं सान्त्वयित्वा-प्रियवचनादिना प्रीतिमुत्पाद्य, सम्वशेतां-मिथुनीभावं गच्छेताम्| किम्भूतौ? मुदा-हर्षेण, अन्वितौ-युतौ| तत्र च संवेशने योषिदुत्ताना तच्चित्ता चावयवैः सुसंस्थितैस्तिष्ठेत्|
किमेवंसति भवति ? इत्याह—-
तथा हि बीजं गृह्णाति दोषैः स्वस्थानमास्थितैः|
—————————————————-|३५|
हि-यस्मात्, तथा-तेन प्रकरेण, सा बीजं गृह्णाति, दोषैः-वातादिभिः स्वस्थानावस्थितैः सद्भिः| सङ्ग्रहे तूक्तम् (शा. अ. १)- “न चासावधस्तिष्ठेत्| तथा हि स्त्रीचेष्टः पुमान् जायते पुंचेष्टा वा स्त्री| न च न्युब्जां पार्श्वगतां वा सेवेत| न्युब्जाया वातो बलवान् स योनिं पीडयति| दक्षिणपार्श्वगायाः श्लेष्मा पीडितश्च्युतोऽपिदधाति गर्भाशयम्| वामपार्श्वगायास्तद्वत्पित्तं विदहति रक्तशुक्रे| तस्मादुत्ताना बीजं गृह्णीयात्|” इति|
—————————————————-|
लिङ्गं तु सद्योगर्भाया योन्या बीजस्य सङ्ग्रहः||३५||
तृप्तिर्गुरुत्वं स्फुरणं शुक्रास्राननुबन्धनम्|
हृदयस्पन्दनं तन्द्रा त्ऱ्ड्ग्लानिर्लोमहर्षणम्||३६||
सद्यः-तत्क्षणात्, गर्भो यस्याः सैवम्, तस्याः सद्योगर्भाया लक्षणं बीजस्य-गर्भाख्यस्य, योन्या-करणभूतया, सङ्ग्रहः सम्यग्ग्रहणम्| तथा, तृप्तिरिव तृप्तिः गुरुत्वं स्फुरणं च कुक्षेर्भवति| तथा, शुक्रं चास्रं च-शुक्रास्रे, अनुबन्धनं-प्रवर्तनम्, नानुबन्धनं-अननुबन्धनम्, शुक्रास्रयोरप्रवर्तनं-शुक्रास्राननुबन्धनम्,-शुक्रास्रयोर्योनिमुखादवमनं बहिरनिःसरणम्, अत्र च योन्या गृहीतबीजत्वं हेतुः| तथा, हृदयस्पन्दनादयः पञ्च सद्योगर्भाया लक्षणानि भवन्ति| लोमहर्षणं हर्षवशाद्भवति| तथा च सङ्ग्रहे (शा. अ. २)- “प्रहर्षो हृल्लासः” इत्यादि|
इदानीं गर्भस्यावस्थाः प्रदर्शयितुमाह—-
अव्यक्तः प्रथमे मासि सप्ताहात्कललीभवेत्|
गर्भः पुंसवनान्यत्र पूर्वं व्यक्तेः प्रयोजयेत्||३७||
सप्ताहादर्वाग्गर्भगोलकः श्लेष्मपिण्डीभुतो भवेत्| सप्ताहादनन्तरं यावन्मासस्तावदव्यक्ताकृतिः कललीभवेत्| अत्र कललीभूते यावत्स्त्रीपुरुषाद्युत्पत्तिलक्षणा व्यक्तिर्न भवति तावद्व्यक्तेः प्राक् प्रथमे मासि पुंसवनानि प्रयोजयेत्|
ननु, “शुद्धेशुक्रार्तवे सत्वः स्वकर्मक्लेशचोदितः|
गर्भः सम्पद्यते”(श्लो.१) इत्युक्तम्|
तत्र यदि प्राक्कृतेन कर्मणा स्त्रीगर्भः कुक्षिमाक्षिप्तस्तदा पुरुषप्रयत्ने सत्यपि पुंगर्भः कर्तुं न शक्यते|
तस्मात्पुंसवनमनर्थकमेवेत्याशङ्क्याह—- बली पुरुषकारो हि दैवमप्यतिवर्तते|
—————————————————-|३८|
हि-यस्मात्, पुरुषकारो बलवान् दुर्बलं दैवमतिवर्ततेअतिक्रम्य वर्तते| अपिशब्दात् पुरुषकारमपि दुर्बलं दिष्टं बलीयोऽतिक्रम्य वर्तत इति प्रतिपादयति| अत एव प्राक्कृतेन कर्माणा बलीयसाऽऽक्षिप्तस्य स्त्रीगर्भस्य पुंसवनादिदानेन पौरुषेण कर्मणा शतशोऽपि प्रयोजितेन न कथञ्चित्पुंगर्भता कर्तुं पार्यत इति| उक्तं च (चरके वि.अ. ३/३६)-“दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते| दैवेन चेतरत्कर्म प्रकृष्टनोपहन्यते||” इति| अत्र पुंसवनादि सम्यक् प्रयोजितं सिध्यसिध्यनुमीयमानं प्राक्कृतस्य कर्मणो हीनबलत्वप्रबलत्वमवगमयति|
अधुना पुंसवनादिप्रयोगमाह —-
—————————————————-|
पुष्ये पुरुषकं हैमं राजतं वाऽथवाऽऽयसम्||३८||
कृत्वाऽग्निवर्णं निर्वाप्य क्षीरे तस्यञ्जलिं पिबेत्|
—————————————————-|३९|
पुष्ये-पुष्यनक्षत्रयुक्ते काले, पुरुषकं-पुत्तलकं, हेमादिकृतमग्निवर्णं कृत्वा सुध्माततया, ततः क्षीरे निर्वाप्य-निवेश्य, तस्य-क्षीरस्य, अञ्जलिं-पलचतुष्टयाख्यं, पिबेत्| पुरुषकमिति पुरुष इवेत्यस्मिन्नर्थे “इवे प्रतिकृतौ” इति कन्| हैममिति हेम्तोविकारार्थेऽण् “नस्तद्धिते” इति टिलोपः| राजतमिति “प्राणिरजतादिभ्योऽञ् इत्यञ्| आयसमिति “तस्येदम्” इत्यण्|
—————————————————-|
गौरदण्डमपामार्गं जीवकर्षभसैर्यकान्||३९||
पिबेत्पुष्ये जले पिष्टानेकद्वित्रिसमस्तशः|
—————————————————-|४०|
गौरदण्डादींश्चतुरो द्रव्यविशेषान् पिबेत्| किम्भूतान् ? जले पिष्टान्-कल्कीकृतान्| कथं कृत्वा ? एकद्वित्रिसमस्तशः एकादिषु प्रत्येकं शस्प्रत्ययार्थयोगः| तेनैकमेकं कृत्वा, द्वौ द्वौ कृत्वा, त्रींस्त्रीन्कृत्वा, चतुरश्चतुरः कृत्वा, एतान् पिबेदित्यर्थोऽवतिष्ठते| कदा प्राश्यम् ? पुष्ये-पुष्ययुक्ते काले|
—————————————————-|
क्षीरेण श्वेतबृहतीमूलं नासापुटे स्वयम्||४०||
पुत्रार्थं दक्षिणे सिञ्चेद्वामे दुहितृवाञ्छया|
—————————————————-|४१|
शुक्लपुष्पकण्टकारिकाया मूलं क्षीरेण कल्कीकृत्य स्वयं-स्त्री, दक्षिणे नासापुटे पुत्रार्थं-पुत्रसम्पत्तये, सिञ्चेत्| दुहितृवाच्छया-सुताकाम्यया, वामे नासापुटे सिञ्चेत्|
—————————————————-|
पयसा लक्ष्मणामूलं पुत्रोत्पादस्थितिप्रदम्||४१||
नासयाऽऽस्येन वा पीतं वटशुङ्गाष्टकं तथा|
ओषधीर्जीवनीयाश्च बाह्यान्तरुपयोजयेत्||४२||
पयसा-क्षीरेण, लक्ष्मणामूलं कल्कीकृत्य पीतं पुत्रोत्पादप्रदं पुत्रस्थितिप्रदं च भवति| कथं पीतम् ? नासयाऽऽस्येन वा, कदाचिन्नासिकया कदाचिदास्येन| यस्याः पुत्रो नोत्पद्यते तथोत्पन्नो वा स्थितिं न लभते-चिरं न जीवति, तयैवं पातव्यमित्यर्थः| वटशुङ्गाष्टकं तथा-तेनैव प्रकारेण नासया आस्येन वा पीतं पुत्रोत्पादस्थितिप्रदं भवति| न्यग्रोधस्य प्रथमोद्भिन्नः प्ररोहो-वटशुङ्गः, तस्याष्टकमिति| प्रभावस्याचिन्त्यत्वादेतत्सङ्ख्यावच्छिन्नत्वम्| जीवनीया या ओषध्यो-जीवन्तीकाकोल्याद्या दश, याः शोधनादिगणसङ्ग्रहोक्ताः (हृ.सू.अ.१५/८), ता बाह्यान्तरुपयोजयेत्| तत्र स्नानोद्वर्तनादिना बाह्य उपयोगः, आहारपानादिनाऽन्तरुपयोगः|
उपचारः प्रियहितैर्भर्त्रा भृत्यैश्च गर्भधृक्|
नवनीतघृतक्षीरैः सदा चैनामुपाचरेत्||४३||
उपचारः-उपचरणम्| प्रियाः-इष्टाः, हिताः-पथ्याः, आहारविहाराः, तैः प्रियहितैर्य उपचारो भर्त्रा-पत्या कृतो, भृत्यैश्च य एवंभूतः कृतः, स गर्भधृक्-तदनुष्ठानाद्गर्भः स्थितिं दधातीत्यर्थः| एनां च स्त्रियं नवनीतादिभिर्यथासात्म्यं सदोपाचरेत्|
अतिव्यवायमायासं भारं प्रावरणं गुरु|
अकालजागरस्वप्नं कठिनोत्कटकासनम्||४४||
शोकक्रोधभयोद्वेगवेगश्रद्धाविधारणम्|
उपवासाध्वतीक्ष्णोष्णगुरुविष्टम्भिभोजनम्||४५||
रक्तं निवसनं श्वभ्रकूपेक्षां मद्यमामिषम्|
उत्तानशयनं यच्च स्त्रियो नेच्छन्ति तत्त्यजेत्||४६||
तथा रक्तस्त्रुतिं शुद्धिं बस्तिमामासतोऽष्टमात्|
एभिर्गर्भः स्त्रवेदामः कुक्षौ शुष्येन्म्रियेत वा||४७||
गर्भिणी स्त्री अतिव्यवायादीनुत्तानशयनान्तांस्त्यजेत्| न केवलमेतान् अन्यद्यच्चाहारविहारादिवस्तुजातं स्त्रियो-बहुशः प्रसूतास्तत्कालव्यापारनिपुणा वा याः काश्चन स्त्रियो, नेच्छन्ति तदपि वर्जयेत्| तथा रक्तस्त्रुतिं, शुद्धिं च-वमनविरेचनरूपां, वर्जयेत्| बस्तिं-अनुवासनं, अष्टमं मासं मर्यादीकृत्य वर्जयेत्| अष्टमे तु मासे बस्तिं प्रयोजयेदेवेत्यर्थः| एभिः-वर्ज्यैर्वस्तुभिरासेव्यमानैः, गर्भ आमः-असम्पूर्णः, स्त्रवेत्-पतेत्, कुक्षौ वा शुष्येत्, म्रियेत वा-मृत्युं वा गर्भः प्राप्नुयात्|
वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः|
पित्तलैः ख़लतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः||४८||
वातलैश्चाहारैर्मात्रा सेवितैः कुब्जोऽन्धो जडो वामनो वा गर्भो भवति| पित्तलैराहारैर्मात्रा सेवितैः खलतिः-खल्वाटः, पिङ्गो वा स्यात्| कफकृद्भिराहारैर्मात्रा सेवितैः श्वित्रवान् पाण्डुर्वा स्यात्|
व्याधींश्चास्या मृदुसुख़ैरतीक्ष्णैरौषधैर्जयेत्|
—————————————————-|४९|
अस्याश्च-गर्भिण्याः, ये व्याधयो जायन्ते, तान् व्याधीन् मृदुसुखैरौषधैस्तथाऽतीक्ष्णैर्जयेत्| मृदूनि च तानि सुखानि च-मृदुसुखानि| मृदूनि-अकर्कशानि वीर्यादिभिर्नोत्कृष्टसामर्थ्यानि सुकुमारोचितानि| सुखानि-सुखोपभोग्यानि, प्रियाणीति यावत्| ननु, मृदूनि परिहृत्यातीक्ष्णानि चेति निर्देष्टव्यम्| किमुभयोरुपादानेन ? यतो मृदूनि-अकर्कशानि, अतीक्ष्णान्यपि-अकर्कशानि, इत्यनर्थान्तरत्वमेतयोः| अत्रोच्यते| मृदूनि-अकर्कशानि शर्करादीनि, उत्कृष्टशक्तीनि मरिचादीनि-अतीक्ष्णानि, तीक्ष्णानि पुनस्तीक्ष्णगुणयुक्तानि राजिकादीनि दोषोत्क्लेशकराणि भेषजानि भवन्ति, इति द्वयोरुपादानं युक्तम्| तन्त्रान्तरे (सङ्ग्रहे) त्वेवमुक्तम् (शा.अ.२)-“इत्यनात्ययिके व्याधौ विधिरात्ययिके पुनः| तीक्ष्णैरपि क्रियायोगैः स्त्रियं यत्नेन पालयेत्||” इति| यच्च व्यवायादि गर्भिण्याः परिहार्यत्वेन निर्दिष्टम्, तथा “व्याधींश्चास्या मृदुसुखैरतीक्ष्णैरौषधैर्जयेत्|” इति| तदस्मिन् काले विशेषेणेति द्रष्टव्यम्, न तथाऽन्यदा| तथा चान्यदाऽतिव्यवायादिसेवनान्न तथा प्रत्यवायभयम्, तथा तीक्ष्णौषधप्रयोगाच्च| अत एव “तथा रक्तस्त्रुतिं शुद्धिं बस्तिमामासतोऽष्टमात्|” इत्येतत्पृथङ्निर्दिशत्यतिव्यवायादिपरिहार्यगणमध्ये|
प्रथमे मास्यव्यक्तलिङ्गः कललावस्थो गर्भो भवेत्| द्वितीये तु मासि गर्भः कीदृशः स्यात् ? इत्याह-
प्रथमे मास्यव्यक्तलिङ्गः कललावस्थो गर्भो भवेत्|
द्वितीये तु मासि गर्भः कीदृशः स्यात् ? इत्याह—-
—————————————————–|
द्वितीये मासि कललाद्धनः पेश्यथवाऽर्बुदम्||४९||
पुंस्त्रीक्लीबाः क्रमात्तेभ्यः————————-|
—————————————————-|५०|
द्वितीये मासि कललाद्धनः पेश्यथवाऽर्बुदं गर्भः स्यादिति योज्यम्| तेभ्यो-घनादिरूपेभ्यः, क्रमात्-परिपाठ्या, पुंस्त्रीक्लीबाः सम्पद्यन्ते| घनात् पुमान्| पेश्याः स्त्री| अर्बुदात् क्लीबः-षण्ढो, न स्त्री न पुमानिति|
————————तत्र व्यक्तस्य लक्षणम्|
क्षामता गरिमा कुक्षेर्मूर्च्छा च्छर्दिररोचकः||५०||
जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्|
अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुकौ||५१||
पादशोफो विदाहोऽन्ये श्रद्धाश्च विविधात्मिकाः|
—————————————————-|५२|
तत्र-व्यक्ताव्यक्तयोर्मध्यात्, व्यक्तो निर्धार्यते| व्यक्तस्य गर्भस्य वक्ष्यमाणं लक्षणं क्षामतेत्यादिकम्| गरिमेति गुरोर्भाव इति “पृथ्वादिभ्य इमनिज्वा” इतीमनिच्, “प्रियस्थिर” इत्यादिना गरादेशः| विदाहोऽन्य इति| अन्ये आचार्या विदाहो देहे भवतीत्याहुः| नानाप्रकाराश्च श्रद्धाः-पथ्यापथ्यविषया अभिलाषाः, व्यक्तस्य गर्भस्य लक्षणम्| सङ्ग्रहे तूक्तम् (शा.अ.२)-“तस्याश्च रजोवाहिनां स्रोतसां वर्त्मान्युपरुध्यन्ते गर्भेण| तस्मात्ततः परमार्तवं न दृश्यते| ततस्तदधः प्रतिहतमपरमपरं चोपचीयमानमपरेत्याहुः|” इति|
गर्भिण्याश्च श्रद्धासूत्पन्नासु किमपथ्यं तस्यै देयं न वा ? इत्येवं संदेहे तद्युदासार्थमाह—-
—————————————————–|
मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत्||५२||
सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम्|
—————————————————-|५३|
हि-यस्मात्, अस्य-गर्भस्य, यद्धृदयं-चेतनाधिष्ठानं, तन्मातृजम्| तथा चोक्तम् (हृ. शा. अ.३/४)-“मृद्वत्र मातृजं रक्त” इत्यादि| तच्च-गर्भहृदयं, मातृहृदयेन सम्बद्धं-संयुक्तं, भवति| ततश्च गर्भिणीहृदयेन सन्तप्तेन गर्भहृदयमपि सन्तप्यते| परस्परं हृदयस्य सम्बद्धत्वात्| अत एव च गर्भिणी द्विहृदया दौर्हृदिनीत्युच्यते| अत एव च परायत्तहृदयत्वात्तत्कालेस्वस्वभावोचितमभिलाषं विहाय नानाभिलाषो जायते| यतश्चैवं तेन कारणेन गर्भिण्याः श्रद्धाविमाननं-आभिलाषाप्रतिपूरणं, नेष्टम्|
तदर्थमाह—-
————————————————-|
देयमप्यहितं तस्यै हितोपहितमल्पकम्||५३||
तस्यै-गर्भिण्यै, हितेन-पथ्येन, युक्तमहितं-अपथ्यमपि विदाहिविष्टम्भ्यादि पूर्वनिषिद्धं यत्तदपि, देयम्| अपिशब्देनकिमु तस्यै प्रार्थ्यमानायै हितं देयमिति गमयति| किं मात्रामनपेक्ष्यैवाहितं देयम् ? नेत्याह| अल्पकं-अतिशयेनाल्पम्|
ननु, यद्यहितं तत्कस्माद्दीयते ? इत्याह —-
श्रद्धाविघाताद्गर्भस्य विकृतिश्च्युतिरेव वा|
—————————————————-|५४|
यदि चिरकालोषितः कुक्षौ गर्भस्तदा तस्य गर्भस्य विकृतिःवैरूप्यं भवेत्, श्रद्धाविमाननचिन्तानिदानकुपितसमीरत्वात्| तथाऽचिरोषितो गर्भस्तदा तस्य गर्भस्य च्युतिः-विनाशो भवेत्, अत एव श्रद्धाविमाननचिन्तानिदानकुपितपवनत्वाद्धेतोः| लब्धदौर्हृदा तु वीर्यवन्तं चिरायुषं च सुतं सूते|
—————————————————-|
व्यक्तीभवति मासेऽस्य तृतीये गात्रपञ्चकम्||५४||
मूर्द्धा द्वे सक्थिनी बाहू सर्वसूक्ष्माङ्गजन्म च|
सममेव हि मूर्द्धाद्यैर्ज्ञानं च सुख़दुःख़योः||५५||
अस्य-गर्भस्य, तृतीये मासि गात्रपञ्चकं व्यक्तीभवति,-अव्यक्तरूपं व्यक्तं तदानीं सम्पद्यत इत्यर्थः| तदेव पञ्चाङ्गमाह मूर्द्धा द्वे सक्थिनी बाहू इति| सर्वेषां सूक्ष्माणां चाङ्गानां चेतनाधिष्ठानानां जन्म-उत्पतिः, अन्यत्र जन्मोत्तरकालजेभ्यो दन्तादिभ्यः| तथा, सममेव-तुल्यकालमेव, मूर्द्धाद्यैः सुखदुःखयोर्ज्ञानं भवति,-तदानीं सुखसंविद्दुःखसंविच्च गर्भस्य जायत इत्यर्थः| चः समुच्चये| हिर्यस्मादर्थे|
अत्र मात्राऽभ्यवहृताभ्यामन्नपानाभ्यां कथं गर्भो वर्द्धते ? इत्याह —-
गर्भस्य नाभौ मातुश्च हृदि नाडी निबध्यते|
यया स पुष्टिमाप्नोति केदार इव कुल्यया||५६||
एकैव नाडी गर्भस्य नाभौ मातुश्च हृदये निबध्यते-अदृष्टवशात्संश्लिष्यते| यया-नाड्या, सः-गर्भः पुष्टिमाप्नोति आवहति| क इव ? केदार इव कुल्यया,-लघुनद्या जलं वहन्त्या केदारस्थः शाल्यादिर्यथाऽमिवर्द्धते, तथैव मातृहृदया श्रितया नाड्या मात्राऽभ्यवहृतादाहाराज्जाठराग्निना पच्यमानात् प्रसादाख्येन रसेन| यस्मात् “व्यक्तीभवदङ्गप्रत्यङ्गस्य [अस्य] नाभ्यां प्रतिबद्धा नाडी, नाड्यामपरा, तस्यां मातृहृदयम्| ततो मातृहृदयादाहाररससारो धमनीभिः स्यन्दमानोऽपरामुपैति| ततः क्रमान्नाभिं च| ततश्च स पुनर्गर्भस्य पक्काशये [स्व] कायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादि पुष्टिकरः सम्पद्यते| तथा रोमकूपैरुपस्नेह एव प्रविशति| (स्नेहो रस एव च पयोभूतः| अजातस्य) साक्षादन्नपानाननुप्रवेशात् रसस्य वा समलत्वाभावात् (अमलत्वाच्च रसस्य) गर्भस्य स्थूलमूत्रपुरीषाद्यसम्भवः|” (सं.शा. अ.२)|
चतुर्थे व्यक्तताऽङ्गानां, चेतनायाश्च पञ्चमे|
—————————————————-|५७|
गर्भस्येत्यनुवर्तते| चतुर्थे मासि गर्भस्य सर्वेषामङ्गानां सूक्ष्मत्वादव्यक्तरूपाणां व्यक्तता भवति| चेतनायाः पुनर्मनोद्वितीयनामिकाया अव्यक्तरूपायाः पञ्चमे मासि व्यक्तता जायते|
—————————————————-|
षष्ठे स्नायुसिरारोमबलवर्णनख़त्वचाम्||५७||
षष्ठे मास्यव्यक्तरूपाणां स्नाय्वादीनां व्यक्तता जायते|
सर्वैः सर्वाङ्गसम्पूर्णो भावैः पुष्यति सप्तमे|
—————————————————-|५८|
सप्तमे मासि सर्वैः-सकलैः, भावैः-वस्तुभिः, सर्वाङ्गसम्पूर्णो गर्भः पुष्यति-पोषं याति| अङ्गसम्पूर्णः पुष्यतीत्येतावतैव प्रकृतार्थावगतेः सर्वग्रहणमधिकार्थद्योतनाय| तेन सर्वेण जन्मजीवनलक्षणेनार्थेनाङ्गैश्च सम्पूर्णो भवतीत्यवतिष्ठते| अकालप्रसवत्वात्तु न तथा गर्भस्य जन्मजीवनलक्षणो योऽसावर्थः सोऽप्यस्मिन् भवतीति ज्ञाप्यते| तथा चास्मिन् मासि गर्भो जातो जीवति, किन्त्वकालप्रसवत्वान्न तथा दीर्घजीवितत्वादिकं स्यात्| वक्ष्यति हि (श्लो.६६)-“कालः सूतेरतः परम्” इति| अमुमेव च न्यायं चेतसि विधायाष्टमे मास्योजःस्वरूपनिगदनप्रस्तावे “जातो न जीवति शिशुः” इति वक्ष्यति (श्लो. ६३)| अन्यथाऽकालप्रसवत्वादेवास्मिन् गर्भस्य जीवनं न सम्भाव्यत एव| “जातो न जीवति” इत्येतद्वाक्यमनर्थकमिव स्यात्| तस्मात्सप्तमे मासि जातो जीवतीति सुप्रतिपादितमेतत्|
गर्भेणोत्पीडिता दोषास्तस्मिन् हृदयमाश्रिताः|
कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च||५८||
गर्भेणोत्पीडिताः-ऊर्ध्वं पीडिताः, दोषाः-वातादयः, तस्मिन् काले हृदयमाश्रिता गर्भिण्याः कण्डूं विदाहं [ च ] कुर्वन्ति| तथा, किक्विसानि कुर्वन्ति| ऊरुस्तनोदरे वलिविशेषा रेखाकारास्तत्काले प्रायो ये जायन्ते ते-किक्विससंज्ञाः| कैश्चित् ‘शूकैरिव पूर्णता-किक्विसानि’ इति व्याख्यायि| पाणिपादां समूलेषु विविधः सन्तापो-विदाह उच्यते|
नवनीतं हितं तत्र कोलाम्बुमधुरौषधैः|
सिद्धमल्पपटुस्नेहं लघु स्वादु च भोजनम्||५९||
चन्दनोशीरकल्केन लिम्पेदूरुस्तनोदरम्|
श्रेष्ठया वैणहरिणशशशोणितयुक्तया||६०||
अश्वघ्नपत्रसिद्धेन तैलेनाभ्यज्य मर्दयेत्|
पटोलनिम्बमञ्जिष्ठासुरसैः सेचयेत्पुनः||६१||
दार्वीमधुकतोयेन मृजां च परिशीलयेत्|
—————————————————-|६२|
तत्र-तेषु कण्ड्वादिषु, उपशमार्थं नवनीतं हितम्, अन्तर्बहिश्चोपयोगितया| कीदृशम् ? कोलाम्बुना मधुरौषधैः द्राक्षादिभिश्च कल्कीकृतैः, सिद्धं-पक्वम्| तथा, तत्र भोजनं हितम्| किम्भूतम् ? अल्पं पटु-लवणं, स्नेहश्च यत्र तदेवम्| तथा, लघु-मात्रास्वभावाभ्याम्| तथा, स्वादु-मधुरम्| तथा, चन्दनोशीरयोर्यः कल्कः-पिष्टो जलेनालोडितः, तेमोरुस्तनोदरं लिम्पेत्| श्रेष्ठया वा-त्रिफलया वा, ऊरुस्तनोदरं लिम्पेत्| किम्भूतया ? एणादिरुधिरपिष्टया| तथा, अश्वघ्नपत्रसिद्धेन तैलेनाभ्यज्य-अभ्यक्तमङ्गं कृत्वा, अनन्तरं पटोलनिम्बमञ्जिष्ठासुरसैर्मर्दयेत्| अश्वघ्नः-करवीरः| सेचयेत्पुनः-परिषेकं च कुर्यात्| दार्वीमधुकतोयेन-दारुहरिद्रामधुयष्टिकाभ्यां क्वथितेन जलेन, मृजां-शुद्धिं स्नानादिकां, शीलयेत्| सङ्ग्रहे तूक्तम् (शा.अ.३)-“परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा| कण्डूयनं वर्जयेत् त्वग्भेदवैरूप्यपरिहारार्थम्| स्नानोद्वर्तनं च शीलयेत्| मधुरं चाहारमल्पमल्पस्नेहलवणमल्पोदकानुपानं भुञ्जीत|” इति|
इदानीमष्टमे मासि गर्भस्वरूपं तत्रेतिकर्तव्यतां चाचष्टे—-
————————————————-|
ओजोऽष्टमे सञ्चरति मातापुत्रौ मुहुः क्रमात्||६२||
तेन तौ म्लानमुदितौ तत्र जातो न जीवति|
शिशुरोजोनवस्थानान्नारी संशयिता भवेत्||६३||
ओजः-सर्वधातूनां तेजः कर्तृ, मातापुत्रौ कर्मभूतौ, सञ्चरति| माता च पुत्रश्चेति द्वन्द्वः| “आनङृतो द्वन्द्वे” इत्यानङादेशः| कथं सञ्चरति ? मुहुर्मुहुः| क्रमात्-क्रमेण, कदाचिद्गर्भिणीमोजः सञ्चरति कदाचित्पुत्रमिति| एवं [ तेन-] कदाचित्केनौजःसञ्चरणेन, तौ-मातापुत्रौ, म्लानमुदितौस्याताम्| तया पूर्वनिरूपितया गर्भगर्भिण्युभयसम्बद्धया नाड्योभयत्र सञ्चरत्तदोज उभयसम्बद्धं यदा गर्भं सञ्चरति तदा गर्भो मुदितो-हृषितो, भवेदोजःसम्पत्त्या, गर्भिणी च म्लाना भवेत्| यदा च तदोजो गर्भिणीं सञ्चरति तदा तयैवोजः सम्पत्त्या गर्भिणी मुदिता भवेत्, शिशुर्म्लानो भवेदोजः सम्पत्त्यभावात्| [ तत्र-] तस्मिन् काले, शिशुः-बालो, जातः-उत्पन्नो, न जीवति| कुतः ? ओजोनवस्थानात्| ओजसस्तदानीं शिशावनवस्थितत्वात्,-अचिरकालप्ररूढत्वादोजसः| गर्भिण्यां तु न सर्वमचिरकालमनवस्थितमोजः, यथा गर्भे| तस्मान्न तस्या निरोजस्त्वम्| अत एवाह-नारीसंशयिता भवेत्,-कदाचिज्जीवति कदाचिन्न जीवतीति संशयितार्थः|
क्षीरपेया च पेयाऽत्र सघृताऽन्वासनं घृतम्|
मधुरैः साधितं शुद्ध्यै पुराणशकृतस्तथा||६४||
शुष्कमूलककोलाम्लकषायेण प्रशस्यते|
शताह्वाकल्कितो बस्तिः सतैलघृतसैन्धवः||६५||
अत्र-अष्टमे मासि, क्षीरसंस्कृता पेया पातव्या| किम्भूता? सघृता| तथा, अन्वासनं घृतं शस्यते| कीदृक्? मधुरैः-द्राक्षादिभिः, साधितं-पक्वम्| तथा-तेनैव प्रकारेण, पुराणशकृतः शुद्ध्यर्थं, बस्तिः-निरूहः , प्रशस्यते-युज्यते| तत्र च बस्तौ कः कषायः ? कः कल्कः? इत्याह-शुष्कमूलकेति| शुष्कमूलकादीनां कषायेण, तथा शताह्वाकल्कितः, तथा सह तैलेन घृतेन सैन्धवेन च|
तस्मिंस्त्वेकाहयातेऽपि कालः सूतेरतः परम्|
—————————————————-|६६|
एकं च तदहश्चैकाहम्| “राजाहःसखिभ्यष्टच्” इति टच्| “अह्नष्टखोरेव” इति टिलोपः| एकाहेन यातोऽतिक्रान्तोऽन्तरितोऽष्टमो मासः-एकाहयातः, [ तस्मिन्| ] तस्मिन्-अष्टमेमासि, पुनरेकदिवसातिक्रान्तेऽप्यतः परं सूतेः-प्रसवस्य, कालो यावद्वर्षम्| अपिशब्दाद्याते त्वष्टमे मास्यतः परं सूतेः काल इति गम्यते| अष्टमान्मासादनन्तरं नवमदशमैकादशद्वादशमासान् यावत्| एषु मासेषु गर्भो जातो दीर्घायुष्ट्वादियुक्तो जीवति|
—————————————————-|
वर्षाद्विकारकारी स्यात्कुक्षौ वातेन धारितः||६६||
वर्षादित्यानन्तर्ये पञ्चमी| वर्षात्-द्वादशमासादनन्तरं, गर्भः कुक्षौ वातेन धारितो-रुद्धनिष्क्रमणो, विकारकारी भवेत् विकारमवश्यं करोति| गर्भस्य सन्निवेशोऽपि सङ्ग्रहे प्रोक्तः, यथा (शा. अ. २)-“गर्भस्तु मातृपृष्ठाभिमुखो ललाटे कृताञ्जलिः सङ्कुचिताङ्गो गर्भकोष्ठे दक्षिणम् पार्श्वमाश्रित्यावतिष्ठते पुमान्, वामं स्त्री, मध्यं नपुंसकम्| तत्र स्थितश्च गर्भो मातरि स्वपत्यां स्वपिति प्रतिबुद्धायां प्रतिबुध्यते|” इति|
शस्तश्च नवमे मासि स्निग्धो मांसरसौदनः|
बहुस्नेहा यवागूर्वा पूर्वोक्तं चानुवासनम्||६७||
नवमे मासि स्निग्धो मांसरसयुक्त ओदनः शस्तो-हितः| अथवा, पेया बहुस्नेहा शस्तेति लिङ्गविपरिणामेन सम्बन्धः| पूर्वोक्तमनुवासनं-“घृतं मधुरैः साधितं” इत्यादि, तच्च शस्तम्|
तत एव पिचुं चास्या योनौ नित्यं निधापयेत्|
वातघ्नपत्रभङ्गाम्भः शीतं स्नानेऽन्वहं हितम्||६८||
तत एव-अन्वासनघृतात्, पिचुं-नक्तकं, अस्याः-गर्भिण्याः, योनौ नित्यं-सदा, निधापयेत्-तत्र स्थापयेत्, वातविजयार्थम्| पवनेनानाक्रान्तयोनिर्हि सुखं गर्भं सूते| तथा, वातघ्नानां द्रव्याणां पत्राणि, तेषां भङ्गः-समूहः, तेन क्वथितमम्भः शीतं कृत्वा स्नानेऽन्वहं-अहरहः, गर्भिण्यै हितम्| अन्वहमित्यनश्चेति टच्|
निःस्नेहाङ्गी न नवमान्मासात्प्रभृति वासयेत्|
—————————————————-|६९|
निःस्नेहगात्रां गर्भिणीं न वासयेत्, अपि तु सस्नेहाङ्गीं स्थापयेत्| निःशेषेण निरस्तः स्नेहो यस्मादङ्गात्तदेवं निःस्नेहमङ्गं यस्याः सा निःस्नेहाङ्गी, ताम्| अङ्गगात्रकण्ठेभ्यो वक्तव्यमितिङीप्| कुतः कालादारभ्य ? नवमान्मासात्प्रभृति| यद्यपि कालोऽत्र न निर्दिष्टः, तथाऽपि नवमान्मासादारभ्य सामर्थ्याद्यावन्मुक्तगर्भशल्या स्यात्, तावन्निःस्नेहाङ्गीं गर्भिणीं न स्थापयेदिति लभ्यते| सस्नेहाङ्गधारणं च तस्याः कुपितवायोर्नित्यं सन्निहितत्वात्|
इदानीं गर्भिण्या यैर्लक्षणैरव्यभिचारिभिः पुत्रदुहितृनपुंसकयमकप्रसवोऽनुमीयते, तान्याह —-
————————————————|
प्राग्दक्षिणस्तनस्तन्या पूर्वं तत्पार्श्वचेष्टिनी||६९||
पुन्नामदौर्हृदप्रश्नरता पुंस्वप्नदर्शिनी|
उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले||७०||
पुत्रं सूतेऽन्यथा कन्यां या चेच्छति नृसङ्गतिम्|
नृत्यवादित्रगान्धर्वगन्धमाल्यप्रिया च या||७१||
प्राक्-पूर्वं, दक्षिणे स्तने स्तन्यं-क्षीरं, यस्याः प्रादुर्भवति सा पुत्रं सूत इति सम्बन्धः| तथा, पूर्वं तत्पार्श्वचेष्टिनी| तच्चब्देन दक्षिणपार्श्वं परामृश्यते| तेन-दक्षिणेन पार्श्वेन, चेष्टितं-गमनस्वपनादिकं, यस्याः सा-तत्पार्श्वचेष्टिनी, पुत्रं सूत इति सर्वत्र योज्यम्| तथा गच्छन्त्याः पूर्वं दक्षिणपादोत्क्षेपः, हस्तकरणीये च पूर्वं दक्षिणेन पाणिना चेष्टते, इति तत्पार्श्वचेष्टा बोध्या`| पुन्नामेत्यादि| पुंलिङ्गोपलक्षितं नाम-पुन्नाम, दौर्हृदं च प्रश्नश्च दौर्हृदप्रश्नौ| पुन्नाम्नोर्दौर्हृदप्रश्नयो रताभियुक्ता, पुन्नाम्नि दौर्हृदे रता| दौर्हृदकाले योऽभिलाषविशेषो गर्भिण्याः स दौर्हृदशब्दवाच्यः| तथा, पुन्नाम्नि प्रश्नेऽभिरता-पुनः पुनः पुन्नामप्रश्नं करोति| तथा, पुन्नामधेयान् स्वप्नान्-पुरुषगजवाजिवराहादीन् आम्रदाडिमाशोकवृक्षादीन् वा, द्रष्टुं शीलं यस्याः सैवम्| तथा, उन्नते दक्षिणे गर्भकोष्ठाख्ये कुक्षौ| तथा, गर्भे-गर्भसंस्थाने, परिमण्डले-वर्तुले सति, पुत्रं सूते| अन्यथा-पुत्रप्रसवसूचकाद्धेतोर्वैपरीत्ये च, कान्यां सूते| यथा-प्राग्दक्षिणस्तनस्तन्येत्यादि पुत्रप्रसवसूचकं लक्षणम्, अतोऽन्यथा प्राग्वामस्तनस्तन्येत्यादि लक्षणं गर्भिण्याः कन्याप्रसवसूचकम्| न केवलं पुत्रप्रसवलक्षणाद्विपर्ययेण कन्यां सूते, यावत् या चेच्छति नृसङ्गतिम्| या च-गर्भिणी पुरुषेण सह सङ्गतिमिच्छति-कामयते, सा कन्यां सूते| तथा या च नृत्यादिप्रिया सा कन्यां सूते|
इदानीम् षण्ढप्रसवलक्षणमाह—-
क्लीबं तत्सङ्करे, तत्र मध्यं कुक्षेः समुन्नतम्|
—————————————————-|७२|
तदित्यनेनात्र पुत्रप्रसूतिलक्षणं दुहितृप्रसूतिलक्षणं च द्वयमपि परामृश्यते| द्वयस्यैतस्य लक्षणस्य सङ्करे-सङ्कीर्णलक्षण तायां, क्लीबं-नपुंसकं गर्भं, सूते| तत्र-तस्मिन् क्लीबे गर्भे कुक्षिस्थिते, कुक्षेर्मध्यं समुन्नतं भवति|
—————————————————-|
यमौ पार्श्वद्वयोन्नामात्कुक्षौ द्रोण्यामिव स्थिते||७२||
यमौ द्वौ गर्भौ, गर्भिणी सूते| कथमिति तल्लक्षणार्थमाह पार्श्वद्वयोन्नामात्,- पार्श्वद्वयोत्सेधात्| अत एव कुक्षौ-उदरे, द्रोण्यामिव स्थिते| द्रोणी-मध्यनिम्ना, कुक्षिरपि पार्श्वद्वयोन्नत्या मध्यनिम्ना भवति|
प्राक् चैव नवमान्मासात् सा सूतिगृहमाश्रयेत्|
देशे प्रशस्ते सम्भारैः सम्पन्नं साधकेऽहनि||७३||
सा-गर्भिणी, सूतिगृहं-सूतिकागारं, नवमान्मासात्पूर्वमेवाश्रयेत्| कुत्र देशे कृतम् ? इत्याह-देशे प्रशस्ते,-प्राक्प्रवण उदक्प्रवणे वा, वास्तुविद्याविद्भिः परीक्ष्य कल्पितम्| कीदृशम् ? सम्भारैः सम्पन्नं,-सकलैरुपकरणैर्युक्तम्| तथा, साधकेऽहनिशुभपुंनक्षत्रे दिवसे सति|
तत्रोदीक्षेत सा सूतिं सूतिकापरिवारिता|
—————————————————-|७४|
तत्र-सूतिकागृहे, स्थिता सूतिमुदीक्षेत,-अहमत्र प्रसविष्य इति चेतसि निधाय सा-गर्भिणी, तत्रासीतेत्यर्थः| किम्भूता ? सूतिकापरिवारिता,-अनेकवारप्रसवानुभूततत्कालोचितव्यवहारकुशलाभिः स्त्रीभिः परिवारिता| सङ्ग्रहे तूक्तम् (शा. अ. ३) “बहुशः प्रसूताभिरनुरक्ताभिरविषादिनीभिरविसंवादिनीभिःक्लेशसहाभिः परिवृता स्वस्त्ययनपराऽनुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीषा प्रसवकालमुदीक्षेत| स्वल्पेऽपि च विण्मूत्रविबन्धे फलवर्तीः प्रयोजयेत्|” इति|
इदानीमासन्नप्रसवाया लक्षणमाह —-
————————————————-|
अद्यश्वःप्रसवे ग्लानिः कुक्ष्यक्षिश्लथता क्लमः||७४||
अधोगुरुत्वमरुचिः प्रसेको बहुमूत्रता|
वेदनोरूदरकटीपृष्ठहृद्वस्तिवङ्क्षणे||७५||
योनिभेदरुजातोदस्फुरणस्रवणानि च|
आवीनामनु जन्मातस्ततो गर्भोदकस्त्रुतिः||७६||
अद्य वा श्वो वा आसन्नः प्रसवः, तस्मिन् आसन्न (अद्यश्वः)-प्रसवे ग्लान्यादयो भवेयुः, गर्भिण्या इति सम्बन्धः| ग्लानिः-हर्षक्षयः| तथा, कुक्षी चाक्षिणी च कुक्ष्यक्षि, तस्य श्लथता शिथिलत्वं, स्वस्थानाच्चलितत्वमिव| तथा, क्लमः-उपतापः| तथा, अधोगुरुत्वादीनि भवन्ति| तथा,ऊर्वादिषु वेदनापीडा भवति| तथा, योनिभेदादयः स्युः|
अतः-अस्माद्योनिभेदादेः, अनु-पश्चात्, आवीनां-गर्भनिष्क्रमणकालशूलविशेषाणां, जन्म-उत्पादः| ततः-अनन्तरं, गर्भोदकस्त्रुतिः-तत्कालं योनितो जलस्त्रावः, स्त्रावमात्रः स गर्भोदकसंज्ञः|
अथोपस्थितगर्भां तां कृतकौतुकमङ्गलाम्|
हस्तस्थपुन्नामफलां स्वभ्यक्तोष्णाम्बुसेचिताम्||७७||
पाययेत्सघृतां पेयां—————————–|
—————————————————-|७८|
अथ-गर्भोदकस्त्रुतेरनन्तरं, तां-गर्भिणीं, उपस्थितगर्भांअभिमुखीभूतगर्भामाविजन्मोदकस्रावादिना ज्ञात्वा, सघृतां पेयां पाययेत्| किम्भूताम् ? कृतकौतुकमङ्गलाम्| विशिष्टकाल एव यो रक्षाबन्धो बाह्वादौ बध्यते स कौतुकवाच्यः| कौतुकाख्यं मङ्गलं कौतुकमङ्गलम्| कृतं कौतुकमङ्गलं यस्याः, ताम्| तथा, हस्तस्थं पुन्नाम-दाडिमादि, फलं यस्याः, ताम्| तथा, सुष्ठु अक्तां-अभ्यक्ताम्| तथा, उष्णाम्बुसेचिताम्| इत्यस्यानन्तरं “पाययेत्पेयां” इति पाठेनोष्णाम्बुसेचनादनन्तरं पेयापानं कार्यमिति बोधयति
————————-तनौ भूशयने स्थिताम्|
आभुग्नसक्थिमुत्तानामभ्यक्ताङ्गीं पुनः पुनः||७८||
अधो नाभेर्विमृद्नीयात्कारयेज्जृम्भचङ्क्रमम्|
—————————————————-|७९|
तनौ-मृदुनि, भूशयने स्थितां मृद्नीयात्,-न खट्वादिशयने स्थिताम्| तथा चोक्तं सङ्ग्रहे (शा. अ. ३)- “सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूशयने शयानां” इत्यादि| कुतोऽङ्गात्प्रभृति विशेषेण मृद्नीयात् ? नाभेरधः,-नोर्ध्वं नाभेः| किम्भूतां ताम् ? आभुग्नसक्थिम्, आसमन्ताद्भुग्ने-कुटिले, सक्थ्नी यस्याः साऽऽभुग्नसक्थः, तां तथाविधां मृद्नीयात्| तथा, पुनःपुनरभ्यक्ताङ्गीं वातकोपभयात्| तथा, जृम्भो चङ्क्रमं च तां कारयेत्| जृम्भो- जृम्भणम्| चङ्क्रमः-चङ्क्रमणं द्रुतगमनम्|
किमेवमनुष्ठिते सति भवति ? इत्याह—-
————————————————-|
गर्भः प्रयात्यवागेवं, तल्लिङ्गं हृद्विमोक्षतः||७९||
आविश्य जठरं गर्भो बस्तेरुपरि तिष्ठति|
—————————————————-|८०|
एवं-अनयेतिकर्तव्यतयाऽनुष्ठितया, गर्भोऽवाक् प्रयातिऊर्ध्वादधो गच्छति, हृत्स्थानं परित्यज्याधोऽवस्थितिं करोतीत्यर्थः| सङ्ग्रहे तूक्तम् (शा. अ. ३)- “दद्यात् कुष्ठलाङ्गलिकीवचाचव्यचित्रकचिरिबिल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः| तथा भूर्जपत्रशिंशिपासर्जरसानामन्यतमधूममन्तरान्तरा च| पार्श्वपृष्ठकटीसक्थिदेशान् कोष्णेन तैलेनाभ्यज्यानुसुखमस्या विमृद्गीयात्| एवमवाक् परिवर्तते गर्भः|” इति| मुसलेनोलूखलं धान्यपूर्णमाहननीयं गर्भस्यावाक्स्थितय इति केचिदाहुः| तदयुक्तम्| यतो गर्भिण्यास्तावह्यायामवर्जनं सततमुपदिष्टम्| विशेषतश्च प्रसवकाले प्रचलितसर्वधातुदोषायाः सुकुमारायानार्याः, मुसलव्यायामप्रेरितो हि वायुः प्राणान् हिंस्यादिति| विमर्दनादिक्रियां च गर्भिण्यास्तावत्कारयेत् यावद्गर्भनिष्क्रमणं न भवति| अथ मातृहृदयान्मुक्तो गर्भः केन लक्षणेन ज्ञायते ? इत्याह-तल्लिङ्गमित्यादि| तदित्यनेन गर्भः परामृश्यते| तस्य गर्भस्य, लिङ्गं-लक्षणं, तल्लिङ्गम्| गर्भस्यैतल्लिङ्गं यद्धृद्विमोक्षतो हृदयमोचनादनन्तरं स गर्भो जठरमाविश्य बस्तेरुपरि तिष्ठति|
आव्योऽभित्वरयन्त्येनां खट्वामारोपयेत्ततः|
—————————————————-||८०||
आव्यः-प्रसवकालशूलविशेषाः, यस्मादेनां-गर्भिणीं, अभित्वरयन्ति, अनवरतमुत्पद्यमानत्वात्| ततःतस्मात्, एनां गर्भिणीं, खट्वामारोपयेत्-आरोहयेत्|
अथ सम्पीडिते गर्भे योनिमस्याः प्रसारयेत्|
मृदु पूर्वं प्रवाहेत बाढमाप्रसवाच्च सा||८१||
अथ-खट्वारोहणादनन्तरं खट्वास्थिताया गर्भे सम्पीडिते समन्तात्पीडिते, वायुना योनिमुखाक्रान्ततया, अस्या गर्भिण्या योनिं प्रसारयेत्-आभ्यङ्गादिदानेन विकासयेत्|
ततः सा-गर्भिणी, गर्भं मृदु कृत्वा पूर्वं प्रवाहेत, यावद्योनिमुखे नागतो गर्भः| गर्भं योनिद्वारमागतं तु ज्ञात्वा बाढंभृशं प्रवाहेत, आप्रसवात्-प्रसवं यावत्| तथा चोक्तं सङ्ग्रहे (शा. अ. ३)- “शनैः शनैश्च पूर्वं प्रवाहिष्ठाः, निर्गमे बाढं गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाप्रसवादिति|” इति| आङ्मर्यादा वचन इत्याडः कर्मप्रवचनीयत्वे पञ्चम्यपाङ्परिभिरिति पञ्चमी|
हर्षयेत्तां मुहुः पुत्रजन्मशब्दजलानिलैः|
—————————————————-|८२|
तां-गर्भिणीं, अनन्तरं [मुहुः] हर्षयेत्-सुमनसं मुहुः कारयेत्| केन? पुत्रजन्मशब्देन,-प्रसूता प्रसूताऽसि सुभगे धन्यं पुत्रमित्येवंरूपेणासकृत् स्त्रीभिरुच्चारितेन, तथा जलेन शीतलेन, तथाऽनिलेन| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- “एनां ब्रूयाच्च सुभगे शनैः शनैः प्रवाहयस्व शोभनस्ते मुखवर्णः पुत्रं जनयिष्यसीति| तथाऽन्या तु वामकर्णेऽस्या मन्त्रमिमं जपेत्| ‘क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः| सगर्भां त्वां सदा पातु वैशल्यं चादधात्विति|| प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने| कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्||’ इति| तथा, ‘इहामृतं च सोमश्च चित्रभानुश्च भामिनि| उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते|| इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि| तदनलपवनार्कवासवास्ते सह लवणाम्बुधरौर्दिशन्तु शान्तिम्||’ इति| अथापरा स्त्री गर्भिणीमनुशिष्यात्| अनागतायां वेदनायां मा प्रवाहिष्ठाः| अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थकरमहितं च| गर्भस्य श्वासकासशोफकुब्जतादिकरत्वात्|’ इति|
अथ किं हर्षाद्युत्पादनेन स्यात् ? इत्याह—-
————————————————|
प्रत्यायान्ति तथा प्राणाः सूतिक्लेशावसादिताः||८२||
तथा-तेन प्रकारेण हर्षादिजननेन, प्राणाः सूतेः क्लेशाः-आधयः, तत्कृतानि दुःखानि, तैरवसादिताः-ग्लानिं नीताः, गर्भिण्याः प्रत्यायान्ति-पुनर्नवीभवन्ति|
धूपयेद्गर्भसङ्गे तु योनिं कृष्णाहिकञ्चुकैः|
हिरण्यपुष्पीमूलं च पाणिपादेन धारयेत्||८३||
सुवर्चलां विशल्यां वा जराय्वपतनेऽपि च|
कार्यमेतत्तथोत्क्षिप्य बाह्वोरेनां विकम्पयेत्||८४||
कटीमाकोटयेत्पार्ष्ण्या स्फिजौ गाढं निपीडयेत्|
तालुकण्ठं स्पृशेद्वेण्या मूर्ध्नि दद्यात्स्नुहीपयः||८५||
भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः|
पृथग्द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम्||८६||
कुष्ठतालीसकल्कं वा सुरामण्डेन पाययेत्|
यूषेण वा कुलत्थानां बाल्वजेनासवेन वा||८७||
गर्भस्य सङ्गे-सक्तौ, योनिं कृष्णसर्पनिर्मोकेन धूपयेत्-धूपनं योनौ कुर्यात्| धूपयेदिति “गुपूधूप” इत्यादिना आयप्रत्ययः, ततो विधौ लिङ्| तथा, हिरण्यपुष्पीमूलं पाणिना पादेन च सा गर्भिणी धारयेत्| अथवा, सुवर्चलां विशल्यां वा धारयेत्| एतत्-गर्भसङ्गोक्तं, जरायोः-अपराख्यस्य, अपतने-अनिष्क्रान्तौ, कार्यं-विधातव्यम्| न केवलं गर्भसङ्गोक्तं कार्यं यावदेनां-अपतितजरायुं, बाह्वोर्द्वयोरुत्क्षिप्य विकम्पयेत्-विधुनीत| सङ्ग्रहे तूक्तम् (शा. अ. ३)- “न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुत्पीड्यान्येन पृष्ठत उपसङ्गृह्य विधुनुयात्|” इति| तथा, पार्ष्ण्या कटीमाकोटयेदिति पुनः पुनः कट्यां पार्ष्णिघातं कुर्यादित्यर्थः| तथा, स्फिजौ युतौ सुष्ठु निपीडयेत्| तथा, वेण्या-केशरचनाविशेषाख्यया, तालुकण्ठं स्पृशेत्| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- “वेण्याऽङ्गुल्या वा केशवेष्टितया वा तालुकण्ठं परामृशेत्|” इति| तथा, मूर्ध्नि-मस्तके, स्नुहीपयः-सुधादुग्धं दद्यात्| तथा भूर्जादिभिर्द्रव्यैः पृथक्-प्रत्येकं, अथवा द्वाभ्यां कृत्वा, समस्तैर्वा, योन्या लेपनं धूपनं च कार्यमिति शेषः| कुष्ठतालीसपत्रयोः कल्कं वा सुरामण्डेन-सुराभागेनोपरिस्थितेन, तां पाययेत्| अथवा, कुलत्थानां यूषेण-क्वाथेन, पाययेत्| बाल्वजेनासवेन वा| बल्वजं वारिणा आसुत्य रात्रौ धारितं तच्छीतकषायो बाल्वज आसव उच्यते| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- “भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत्| भूर्जगुग्गुलुभ्यां वा| शालिमूलसिद्धेन वा सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत्| अनभ्यक्तां वा कटुतैलमिश्रैः कल्कीकृतैर्वा तैलाक्तैरालिम्पेत्| गुडनागरकल्केन वा| तदेव वा भक्षयेत्| लाङ्गलीमूलकल्केन वा पाणिपादमुदरं च लिम्पेत्|” इति| तथोक्तम् (सं. शा. अ. ३)-“कुष्ठैलाकल्कं वा सुरया पाययेत्| अर्कालर्ककषायं वा सुरोन्मिश्रम्| कुष्ठलाङ्गलिकीमूलकल्कं वा मद्यमूत्रान्यतरेण| [ वत्सकादिचूर्णं वा मद्येन| ] शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्|” इति|
शताह्वासर्षपाजाजीशिग्रुतीक्ष्णकचित्रकैः|
सहिङ्गुकुष्ठमदनैर्मूत्रे क्षीरे च सार्षपम्||८८||
तैलं सिद्धं हितं पायौ योन्यां वाऽप्यनुवासनम्|
शतपुष्पावचाकुष्ठकणासर्षकल्कितः||८९||
निरूहः पातयत्याशु सस्नेहलवणोऽपराम्|
तत्सङ्गे ह्यनिलो हेतुः सा निर्यात्याशु तज्जयात्||९०||
शताह्वादिभिर्द्रव्यैः सार्षपं तैलं मूत्रे क्षीरे चोभयस्मिन् सिद्धं पक्वं, अनुवासनं हितम्| क्व? पायौ-गुदे| अथवा योन्यां गर्भनिष्क्रमणद्वारे| तथा, शताह्वादिभिर्द्रव्यैः कल्कितो निरूहोबस्तिकल्पोक्तौ यौगिकः, सह स्नेहेन लवणेन च वर्तमानः, आशु शीघ्रमेव, अपरां-जरायुसंज्ञां, पातयति| यस्मात्तत्सङ्गेऽनिलो हेतुः-वायुः, कारणम्| तज्जयात्-वातजयात्, सा-अपरा, निर्याति-कुक्षितो बहिर्निष्क्रामति| पवनविजये च बस्तिः प्रधानम्| तथा चोक्तम् (हृ. सू. अ. १९/१)-” वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते|” इत्यादि| सङ्ग्रहे तु गर्भिण्या आस्थापनेऽनुवासने च सन्निवेशविशेष उक्तः| यथा (शा. अ. ३)- “गर्भिणीं तु न्युब्जामास्थापयेदनुवासयेच्च| तथाऽस्या विवृतमार्गतया सम्यगौषधमनुप्रविशति|” इति|
कुशला पाणिनाऽक्तेन हरेत्क्लृप्तनख़ेन वा|
—————————————————-|९१|
अथवा कुशला-तद्व्यापारनिपुणा योषित्, पाणिना सर्पिषाऽभ्यक्तेन तां हरेत्| किम्भूतेन पाणिना ? क्लृप्तनखेन, क्लृप्ताः-कल्पिताः शस्त्रेण, नखा यस्य तेन, तथाविधेन पाणिना नालानुसारत आकर्षेत्| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- “[ उमा ] शाल्मलीपिच्छया वा सघृतया योनिं पूरयित्वा विधुनुयात्|” इति|
—————————————————-|
मुक्तगर्भापरां योनिं तैलेनाङ्गं च मर्दयेत्||९१||
गर्भश्चापारा च गर्भापरम्, मुक्तं गर्भापरं यया योन्या, तां योनिं तैलेन मर्दयेत्| अङ्गं-शरीरं च, मर्दयेत्|
मक्कल्लाख्ये शिरोबस्तिकोष्ठशूले तु पाययेत्|
सुचूर्णितं यवक्षारं घृतेनोष्णजलेन वा||९२||
धान्याम्बु वा गुडव्योषत्रिजातकरजोन्वितम्|
—————————————————-|९३|
मक्कल्लाख्ये रोग उत्पन्ने शिरोबस्तिकोष्ठशूललक्षणे सति यवक्षारं सूक्ष्मचूर्णितं घृतेनाथवोष्णजलेन तां सूतां पाययेत्| धान्याम्बु वा तां पाययेत्| किम्भूतम् ? गुडव्योषत्रिजातकरजोन्वितम्| गुड इति सामान्योक्तावपि पुराणोऽत्र गुडो ग्राह्यः, पथ्यत्वात्| मक्कल्लाख्यो-रोगः| शिरोबस्तिकोष्ठशूल इति लाघवेन तन्त्रकृताऽस्य लक्षणमुक्तम्|
—————————————————-|
अथ बालोपचारेण बालं योषिदुपाचरेत्||९३||
अथ बालं-जातमात्रमेव, उपाचरेत्-उपपादयेत्| का ? योषित्,-बहुकृत्वः प्रसूता, न पुमान्| केन ? बालोपचारेण, बालोपचरणीयोक्तेनाहारविहारादिना|
सूतिका क्षुद्वती तैलाद्धृताद्वा महतीं पिबेत्|
पञ्चकोलकिनीं मात्रामनु चोष्णं गुडोदकम्||९४||
वातघ्नौषधतोयं वा, तथा वायुर्न कुप्यति|
विशुध्यति च दुष्टास्रं द्वित्रिरात्रमयं क्रमः||९५||
सूतिका क्षुद्वती-बुभुक्षिता सती, तैलादथवा घृतान्महतीं मात्रां पिबेत्| किम्भूताम् ? पञ्चकोलकं विद्यते यस्या मात्रायास्तां पञ्चकोलकिनीम्| सूक्ष्मचूर्णीकृतपञ्चकोलकयुक्तां तां मात्रां पिबेदित्यर्थः| अष्टाभिर्यामैर्या जरां गच्छति सा स्नेह मात्रा महती| अनु चोष्णं गुडोदकं पिबेदिति योज्यम्| वातहरद्रव्यक्वाथं वा पश्चात्पिबेत्| तथा-एवं कृते सति, वार्युन कुप्यति-न कोपं याति शून्यं कोष्ठं प्राप्य| दुष्टं रक्तं च विशुध्यति| अयं-एषः, क्रमो द्विरात्रं त्रिरात्रं वा यथायोगं कार्यः|
स्नेहायोग्या तु निःस्नेहममुमेव विधिं भजेत्|
पीतवत्याश्च जठरं यमकाक्तं विवेष्टयेत्||९६||
स्नेहपानायोग्या तु स्त्री-या स्नेहं नार्हति सा, निःस्नेहं-स्नेहं विना, अमुमेव-पूर्वोक्तं विधिं, भजेत्| पीतवत्याश्च तस्या जठरं यमकाक्तं-तैलघृताभ्यामभ्यक्तं, विवेष्टयेद्वाससेति शेषः| पीतवत्या इत्यविशेषनिर्देशः कदाचित् स्नेहयोग्या स्नेहं पीतवती, स्नेहायोग्या तूष्णं गुडोदकं पीतवती, अथवा वातघ्नौषधतोयं पीतवती, इति सामान्येन यो निर्देशस्तस्यार्थः|
जीर्णे स्नाता पिबेत्पेयां पूर्वोक्तौषधसाधिताम्|
त्र्यहादूर्ध्वं विदार्यादिवर्गक्वाथेन साधिता||९७||
हिता यवागूः स्नेहाढ्या सात्म्यतः पयसाऽथवा|
सप्तरात्रात्परं चास्यै क्रमशो बृंहणं हितम्||९८||
द्वादशाहेऽनतिक्रान्ते पिशितं नोपयोजयेत्|
—————————————————-|९९|
स्नेहे जीर्णे कवोष्णगुडोदके वातघ्नौषधतोये वा, अनन्तरं स्नाता सती पूर्वोक्तौषसाधितां-पञ्चकोलकृतां, पेयां पिबेत्| त्र्यहादूर्ध्वं-अनन्तरं, विदार्यादिवर्गोक्तौषधैः सिद्धा यवागूः- पेया,स्नेहाढ्या हिता| अथवा सात्म्यतः-सात्म्यवशात्, पयसा-क्षीरेण साधिता, यवागूर्हिता| सप्तरात्रात्परं-अनन्तरं, क्रमशो-न सहसा, तस्यै बृंहणं हितम्| बृंहणं च जीवनीयबृंहणीयमधुरवर्गसिद्धैरभ्यङ्गोद्वर्तनपरिषेकावगाहनैर्हृद्यैश्चान्नपानैर्विधातव्यम्|
द्वादशाहेऽनतिक्रान्ते-अपरिसमाप्ते, पिशितं-मासं, नोपयोजयेत्-नाभ्यवहारयेत्, स्कन्दादिद्वादशग्रहाभिषङ्गपरिहारार्थम्| मांसभोजनेन हि कदाचित्तैरभिषङ्गो भवेत्, तेषां मांसादत्वात्|
—————————————————-|
यत्नेनोपचरेत्सूतां दुःसाध्यो हि तदामयः||९९||
गर्भवृद्धिप्रसवरुक्क्लेदास्रस्रुतिपीडनैः|
—————————————————-|१००|
सूतां स्त्रीं यत्नेन-तात्पर्येण, उपचरेत्-उपक्रमेत्| कुतो हेतोः ? इत्याह-हि-यस्मात्, तस्या आमयो-रोगो दुःसाध्यः-कृच्छ्रेणोपक्रम्यः| किमिति कृच्छ्रसाध्यः ? इत्याह-गर्भेत्यादि| वृद्धिश्च प्रसवश्च वृद्धिप्रसवौ, गर्भस्य वृद्धिप्रसवौ च रुक् च क्लेदास्रस्रुतिश्च पीडनं च गर्भवृद्धिप्रसवरुक्क्लेदास्रस्रुतिपीडनानि, तैर्हेतुभूतैस्तदामयो दुःसाध्यः| रुक्-प्रवाहवेदना|
—————————————————-|
एवं च मासादध्यर्धान्मुक्ताहारादियन्त्रणा|१००|
गतसूताभिधाना स्यात्पुनरार्तवदर्शनात्|
१०० १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने
गर्भावक्रान्तिर्नाम प्रथमोऽध्यायः|१|
एवं-अनेन प्रकारेण, सार्धं मासमुपस्कृता क्रमेण मुक्ताहारविहारयन्त्रणा स्यात्| अध्यर्धमासात्परेण गतसूताभिधानाव्यपेतप्रसूतिव्यपदेशा, पुनरार्तवदर्शनाद्भवेत्| सङ्ग्रहे तूक्तम् (शा. अ. २)- “जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते| वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति||” इति|
इतिश्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय-
टीकायां सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थाने गर्भा-
वक्रान्तिर्नाम प्रथमोऽध्यायः समाप्तः|| १||
Diacritic Version
śrīmadvāgbhaṭaviracitam
Aṣṭāṅgahr̥dayam
śrīmadaruṇadattaviracitayā 'sarvāṅgasundarākhyā' vyākhyayā hēmādripraṇītayā 'āyurvēdarasāyanāhvayā' ṭīkayā ca samullasitam
śārīrasthānam - 1. garbhāvakrāntiradhyāyaḥ
śrīgaṇēśāya namaḥ| atha sūtrasthānādanantaraṁ śārīrasthānamidamārabhyatē| tatrāyaṁ sambandhaḥ,-pūrvasminsthānē kāyādīnyaṣṭāvaṅgāni cikitsādhārabhūtāni sakalatantrasārabhūtāni sūtritāni “kāyabāla” (hr̥. sū. a. 1/5) ityādinā granthēna| kāyaśca nijāgantūnāṁ vyādhīnāmadhiṣṭhānam| tasya ca kāyasya caturvargasādhanasya pālanārthaṁ hētuliṅgauṣadhaskandhabhēdēna triskandhō’yaṁ granthō granthakr̥tā praṇītaḥ| tataśca śarīrasya prathamaṁ sūtritatvātprādhānyācca prāk sūtrasthānamanantaraṁ śārīrasthānamidamārabhyata ityāha-
athātō garbhāvakrānti śārīraṁ vyākhyāsyāmaḥ|
iti ha smāhurātrēyādayō maharṣayaḥ|
(gadyasūtrē)||2||
śarīramadhikr̥tya kr̥tō granthaḥ śārīraḥ| garbhasyāvakrāntiḥ-avakramaṇaṁ samprāptiḥ, yathā’garbhō garbhatāṁ sampadyata ityarthaḥ| garbhāvakrāntirvidyatē yasminnadhyāya iti matvarthē kapratyayaḥ| tasya “adhyāyānuvākayōrluk” iti luk| athādiśabdānāmarthā āyuṣkāmīyādhyāyē (hr̥.sū. a.1) vyākhyātā ēva|
śuddhē śukrārtavē satvaḥ svakarmaklēśacōditaḥ|
garbhaḥ sampadyatē yuktivaśādagnirivāraṇau||1||
śukraṁ-antyō dhātuḥ| r̥tau bhavamārtavam, strīṇāṁ yadapatyamārgāt śuddhamīṣatkr̥ṣṇaṁ vigandhaṁ ca vāyuprēritaṁ lōhitaṁ pravartatē tadārtavamucyatē| śukraṁ cārtavaṁ ca śukrārtavam, piṇḍē pitrōḥ sambandhi garbhabījam, tasmin śukrārtavē, śuddhē-vātādibhiradūṣitē’dhiṣṭhānabhūtē, satvō-jīvaḥ, garbhaḥ sampadyatē| kila nāsau garbhaḥ, atha ca garbhatāmāsādayati| kīdr̥śaḥ satvaḥ ? svakarmētyādi| karmāṇi-pūrvajanmārjitāni śubhāśubhāni, svāni ca tāni karmāṇi ca svakarmāṇi| klēśayanti-lōkān duḥkhayantīti, klēśāḥ| tē ca-avidyāsmitārāgadvēṣābhinivēśāḥ| atathāvastuni tathēti (“anityāśuciduḥkhānātmasu nityaśucisukhātma) khyātiḥ-avidyā| dr̥gdarśanaśaktyōrēkātmatāasmitā| sukhānuśayī-rāgaḥ| duḥkhānuśayī-dvēṣaḥ| svarasavāhī viduṣō’pi tathā rūḍhaḥ-abhinivēśaḥ” (pāta.yō.sū 2/5-6-7-8-9)| svakarmāṇi ca klēśāśca, svakarmaklēśāḥ, taiścōditaḥ-prēritō garbhaḥ sampadyatē, na tu karmaklēśaviyuktaḥ| ata ēva vītarāgāṇāṁ janmāsambhavaḥ, karmaklēśarahitatvāt| tathā cōktam-“cittamēva hi saṁsāri rāgādiklēśadūṣitam| tadēva tairvinirmuktaṁ muktamityabhidhīyatē||” iti| atha kiṁ śuddhē śukrārtavē ēva svakarmaklēśacōdita ēva garbhaḥ sampadyatē’thavā’nyadapi kiñcidapēkṣatē ? ityāha-yuktivaśāditi| yōjanaṁ yuktiḥ, upādēyasyārthasyētikartavyatāsādhanōpāyārtham| yuktērvaśaḥ-sāmarthyaṁ prabhāvō, yuktivaśaḥ| tataḥ śuddhē śukrārtavē svakarmaklēśacōdita ēva sa satvō garbhaḥ sampadyatē, nānyathā| katham ? ityāha-yuktivaśādagnirivāraṇau| tathā hi,- mathyamanthanamathakādisāmagrīmantarēṇāraṇāvagniryathā na jāyatē, tathā garbhō’pi yathōktasāmagrīvaikalyāt na bhavati| sakalasāmagrīsadbhāvata ēva bhavatīti bhāvaḥ|
tadēvaṁ garbhasya sampattimabhidhāya yathā tasya kukṣau vr̥ddhiḥ syāttathā vakti—-bījātmakairmahābhūtaiḥ sūkṣmaiḥ satvānugaiśca saḥ|
mātuścāhārarasajaiḥ kramātkukṣau vivarddhatē||2||
bījātmakaiḥ-garbhajarāyusvabhāvaiḥ śukrārtavarūpatāṁ pariṇataiḥ| kaiḥ ? mahābhūtaiḥ, -ākāśādibhiḥ satvarajastamōmayaiḥ, “tatra satvabahulamākāśam, rajōbahulō vāyuḥ, satvarajōbahulō’gniḥ, satvatamōbahulā āpaḥ, tamōbahulā pr̥thvī cēti|” (su.śā. a.1/20) ityēvaṁrūpaiḥ| saḥ-garbhaḥ, kukṣau vivarddhatē-viśēṣēṇa vr̥ddhiṁ yāti| kimbhūtaiḥ ? sūkṣmaiḥ,-atīndriyairyōgidr̥śyaiḥ| tathā, satvaṁ-cētō’nugacchantīti satvānugāni, taiḥ| yatra satvaṁ tiṣṭhati tatrāvaśyaṁ tānyapi tiṣṭhanti, sātvānuśāyitvāttēṣām| tathā cōktam (carakē śā. a.2/37)-“atīndriyaistairatisūkṣmarūpairātmā kadācinna viyuktapūrvaḥ|” ityādi| caśabdō hētusamuccayārthaḥ| [ na kēvalaṁ mahābhūtairhētubhūtairgarbhō vivarddhatē yāvanmātuścāhārarasajairityatō vakṣyamāṇāddhētōrapi varddhata ityarthaḥ| māturityādi| mātuḥ sambandhibhirāhārarasajaiśca kukṣau vivarddhatē| caśabdō’trānuktasamuccayārthaḥ| ] na kēvalaṁ pūrvōktādyathānirdiṣṭhāddhētōrgarbhaḥ kukṣau vivarddhatē, yāvadanirdiṣṭhādapi mātuḥ saumanasyādēḥ kalalārbuda pēśyādyavasthābhāvēna viśēṣatō vr̥ddhiṁ yātīti| kathaṁ vivarddhatē ? ityāha-kramāt,-na jhaṭityēva| nanu, “mātuścāhārarasajaiḥ” iti kathamuktam ? yataḥ pañcabhūtātmaka ēvāhārarasaḥ| na ca yadātmakō’sau sa tasyaiva janmakāraṇaṁ bhavitumarhati, avyatiriktatvāt| tasmādēvamayaṁ vyākhyātavyaḥ,-āhārarasē jātairāhārarasajaiḥ| saptamyantādupapadājjanērḍaḥ| māturāhārarasātmanā pariṇatairiti|
nanu, satvaḥ kukṣau praviṣṭō garbhasya varddhanē hēturuktaḥ, na cāsya pravēśa upalabhyatē, ityāha—- tējō yathā’rkaraśmīnāṁ sphaṭikēna tiraskr̥tam|
nēndhanaṁ dr̥śyatē gacchatsatvō garbhāśayaṁ tathā||3||
na kēvalaṁ dr̥śyatvādr̥śyatvābhyāṁ vastusadbhāvāsadbhāvau vyavasthā’pyētē, yēnādr̥śyatvātsatvasya kukṣau pravēśāsambhavaḥ| kintarhi ? tatkāryānyathānupapattyā’pi vastusadbhāvō vyavasthāpyata ēva| tathā ca,- yathā’rkaraśmīnāṁ sambandhi tējaḥ sphaṭikēna-sūryakāntākhyēna, tiraskr̥taṁ-vyavahitaṁ, sphaṭikasyādhastāt sthitamindhanaṁ gacchat-vrajat, na dr̥śyatē| atha ca tējaḥkāryamindhanaṁ gataṁ [dr̥śyatē nānyasambandhi kāryam| tadēvaṁ tējaḥkāryānyathānupapattyā tējasa indhanagamanaṁ ], tathā tatra tasya sadbhāvō’pyadhigamyatē| ēvaṁ satvō garbhāśayaṁ gacchan-vrajan, na dr̥śyata ēva| vastuprabhāvādgacchati ca| satvaśabda upalakṣaṇārthaḥ, mahābhūtānyapi tadantargatāni na dr̥śyanta ēva, atha ca kāryēṇōpalabhyanta ēva| tadēvaṁ satvānuyāyibhirmahābhūtairgarbhaḥ kukṣau vivarddhatē, na tu kēvalaiḥ satvānadhiṣṭhitaiḥ| cētōvakrāntyā hi kramātkalalādinā vastujātaṁ vivr̥ddhivimalatāmāpadyatē, nānyathā mr̥taśarīravat|
nanu, satvō bhūtānuga ēkarūpa ēva|
tatkathamanēkajātyākr̥tyā naraturagōragagajagavayādimatyā”liṅgitaḥ sampadyatē ? ityasmin paryanuyōga idamāha —-
kāraṇānuvidhāyitvātkāryāṇāṁ tatsvabhāvatā|
nānāyōnyākr̥tīḥ satvō dhattē’tō drutalōhavat||4||
kāraṇaṁ-hētuṁ, avaśyamanuvidadhatīti kāraṇānuvidhāyīni| āvaśyakē ṇiniḥ| kāraṇasvabhāvāni kāryāṇi bhavanti sarvāṇyēva, tasmāddhētōḥ kāryāṇāṁ tatsvabhāvatā| svabhāvaśabdaḥ sadr̥śārthaḥ| tacchabdēna kāraṇaṁ parāmr̥śyatē, tasya-kāraṇasya svabhāvatā, tatsādr̥śyam| tasmātkāryakāraṇasādr̥śyāddhētōḥ satvōmahābhūtānuga ēkarūpa ēva, anēkarūpā nānāyōnyākr̥tīḥ- jātibimbaviśēṣān, dhattē-dhārayati| kathamiva ? drutalōhavat| yathā rūpyādivastujātamagninā drutarūpatāṁ gatamēkarūpamēva sikthādikalpitāyāṁ nānārūpāyāṁ manuṣyādyākr̥tau tanniṣiktaṁ tāṁ tāmākr̥tiṁ yathākalpitāṁ dhattē, ēvaṁ sa satvō nānāyōnau gacchati, tāṁ tāṁ yathāsvamākr̥tiṁ dhārayati|
tathā —-
ata ēva ca śukrasya bāhulyājjāyatē pumān|
raktasya strī, tayōḥ sāmyē klībaḥ- ———-|5|
ata ēva ca – pūrvōktātkāryakāraṇasādr̥śyākhyāddhētōḥ, śukrasyapuṁrētasō, bāhulyāt- bahutvāt, sāmarthyalabhyācca strīrētōrajōlpatvāt pumān jāyatē na strī, tathāvidhasya kāraṇasyābhāvāt| [“tathā, ata ēva-pūrvōktātkāryakāraṇasādr̥śyāt strīrētasō” raktasya, bāhulyāt-bāhutvāt, sāmarthyalabhyācca puṁrētōlpatvāt strī jāyatē na pumān, tathāvidhasya kāraṇasyābhāvāt| ] puṁrētō hi balavat, alpaṁ strīrajō’bhibhūya puṁgarbhasya kāraṇatāṁ yāti| yadā tu strīrajasō balavatvamalpatvaṁ ca puṁrētasaḥ, tadā’lpaṁ tu puṁrētō’bhibhūya strīrajaḥ stryākhyasya garbhasya kāraṇatāmāpadyatē| yadā tu śukrārtavayōḥ sāmyaṁ-tulyatvaṁ bhavati, tadā na strī na pumān jāyatē, api tu liṅgadvayāliṅgitaḥ klībaḥ-ṣaṇḍhō, jāyatē| ēvaṁ pituḥ sambandhi śukraṁ strīraktamiśritaṁ garbhakāraṇam| na kēvalaṁpitr̥sambandhyēva māturvā| dāruvāhinā tūktam-“strīpuṁsayōstu saṁyōgē yadyādau visr̥jētpumān| śukraṁ, tataḥ pumān vīrō jāyatē balavān dr̥ḍhaḥ|| atha cēdvanitā pūrvaṁ visr̥jēdraktasaṁyutam| tatō rūpānvitā kanyā jāyatē dr̥ḍhasaṁhatā||” iti| ata ēva ca puṁgarbhāḥ kēcitkiñcinmātr̥sadr̥śā dr̥śyantē, strīgarbhāśca kēcitkiñcitpitr̥sadr̥śā dr̥śyantē| nanu, “rasādraktaṁ tatō māṁsaṁ māṁsānmēdastatō’sthi ca| asthnō majjā tataḥ śukraṁ śukrādgarbhaḥ prajāyatē||” (hr̥. śā. a. 3/62) ityaviśiṣya nirdiṣṭam, na tu puṁśukrādgarbhaḥ prajāyata ityēvaṁ nirdiṣṭam| ubhayōrapi ca strīpuṁsayōravaśyaṁ saptadhātukatvamabhyupagantavyam, na puṁsa ēva| tadēvaṁ taruṇīnāṁ kusumaśarākrāntamānasānāṁ tathāvidhēna puruṣasaṁyōgēna vinā kēvalāt smr̥tisaṁsparśadarśanāccalitaprastruta (rakta)rētasāṁ kimiti garbhō na jāyatē ? śukrārtavaṁ hi garbhakāraṇam| tacca sannihitamēvēti kēcit| tān brūmahē| puṁśukrābhāvāt| puṁśukraṁ hi strīrētōraktayuktaṁ garbhakāraṇam| na ca tadatrāsti| tadabhāvādgarbhasyānutpattiḥ| tathā saṅgrahē’pyadhyagīṣṭa (śā. a. 1)-“yōṣitō’pi stravantyēva śukraṁ puṁsaḥ samāgamē| garbhasya tu na tatkiñcitkatōtīti na cintyatē||” iti|
sāmprataṁ yathā’nēkagarbhatvaṁ tulyakālaṁ syāttathā pratipādayitumāha—-
śukrārtavē punaḥ||5||
vāyunā bahuśō bhinnē yathāsvaṁ bahvapatyatā|
———————————————-|6|
vātēna yathāsvaṁ śukrārtavē bahuśō bhinnē-bahudhā kr̥tē sati, bahvapatyatā bhavati| yathāsvamiti yadā śukramādhikyēna vartamānaṁ vātēna bahudhā bhidyatē tadā puṁgarbhānēkatvam, yadā tu strīraja ādhikyēna vartamānaṁ vāyunā bahudhā bhidyatē tadā strīgarbhānēkatvam, iti bahvapatyatā bhavati| sūkarasāramēyādijātiṣu tvanēnaiva hētunā sadā’vēkāpatyatā|
nanu, kathaṁ viyōnayō vikr̥tākārāśca garbhāḥ syuḥ ? —-
viyōnivikr̥tākārā jāyantē vikr̥tairmalaiḥ||6||
viyōnayaśca vikr̥tākārāśca viyōnivikr̥tākārāḥ, tē tathāvidhā garbhā jāyantē| katham ? ityāha-vikr̥tairmalaiḥ| vātādibhirduṣṭairunmārgagāmibhiḥ|
māsi māsi rajaḥ strīṇāṁ rasajaṁ stravati tryaham|
vatsarādvādaśādūrdhvaṁ yāti pañcāśataḥ kṣayam||7||
strīṇāṁ māsi māsi-pratimāsaṁ, rajō-raktaṁ, tryahaṁ stravati-trīṇi dināni pravartatē| nanu, “śuddhē śukrārtavē” iti pūrvaṁ śukramēvōddiṣṭam, tatastasyaiva nirdēśō nyāyya iti śukramānupūrvīprāptamullaṅghya kasmādraktaṁ nirdiṣṭam? ucyatē| bahuvaktavyatvāt| raktē hi bahuvaktavyamasti, atastadēva prāgvaktuṁ yuktam| tryahamiti “kālādhvanōḥ” iti dvitīyā| kimbhūtaṁ rajaḥ ? rasājjātaṁrasajam| nanu, raktaṁ rasajamēva| vakṣyati hi (hr̥. śā. a. 3/62)- “rasādraktaṁ tatō māṁsaṁ” ityādi| tatkimarthaṁ rasajamityuktam ? brūmahē| rasāt-āhārarasāt pariṇamatō jātaṁ rasajamityatra nirdiṣṭam, na tu rasadhātōḥ, ityacōdyamētat| kutaḥprabhr̥ti tadrajaḥ pravartatē ? ityāha-vatsarādityādi| dvādaśādvarṣādūrdhvaṁ-anantaraṁ, stravati| pañcāśatō varṣādūrdhvaṁ-parēṇa, kṣayaṁ yāti| dvādaśānāṁ pūraṇaṁ varṣamiti “tasya pūraṇō ḍaṭ” iti ḍaṭ| dvādaśāditi prāyikamētat, ēkādaśavārṣikāṇāmapi strīṇāṁ raktapravr̥ttidarśanāt| pañcāśataḥ kṣayamityatrāpyēvamēva cintyam|
pūrṇaṣōḍaśavarṣā strī pūrṇaviṁśēna saṅgatā|
śuddhē garbhāśayē mārgē raktē śukrē’nilē hr̥di||8||
vīryavantaṁ sutaṁ sūtē tatō nyūnābdayōḥ punaḥ|
rōgyalpāyuradhanyō vā garbhō bhavati naiva vā||9||
pūrṇāni ṣōḍaśavarṣāṇi yasyāḥ sā, ēvaṁvidhā strī pūrṇaviṁśēna narēṇa saṅgatā-mithunatāṁ yātā satī, garbhāśayādiṣu śuddhēṣu vīryavantaṁ-sāmarthyayuktaṁ, putraṁ sūtē-janayati| prāyikaṁ caitat, arvāgapi sādhugarbhadarśanāt| ata ēvāyamēva tantrakārō’nyathā saṅgrahē jagāda (śā. a. 1)- “ṣōḍaśavarṣāyāṁ pañcaviṁśativarṣaḥ putrārthaṁ prayatēta|” iti| viṁśatēḥ pūraṇa iti ḍaṭiti “viṁśatēḥ” iti tilōpē viṁśaśabdaḥ| pūrṇō viṁśō yasyēti pūrṇaviṁśaḥ| garbhasyāśayō garbhāśayaḥ, tasmin| śuddhē-nirmalē, vātādibhiraduṣṭē| tathā, mārgē-prakr̥tatvādapatyamārgē, vātādibhiraduṣṭē| tathā, raktēstrīrajasi, śuddhē| tathā, śukrē-puṁbījē, śuddhē| tathā, anilē śuddhēpittādibhiranāvr̥tē| tathā, hr̥di-śuddhē-dōṣānadhiṣṭhitē’santaptē|
tataḥ-pūrvōktādvayaḥparimāṇāt, nyūnābdayōḥ-hīnavarṣayōḥ strīpuruṣayōḥ pañcadaśāṣṭādaśavarṣayōḥ, rōgī bhavati| rōgītyatiśaya inirmatvarthīyaḥ| tathōtpannō’lpāyuradhanyaśca-apraśastō, garbhō bhavati| na bhavatyēva vā|
nanu, dampatyōḥ śukrārtavasaṁyōgē’pi sati kvacidgarbhasambhūtirna dr̥śyatē|
tatkathamētat ? ityāśaṅkyēdamāha —-
vātādikuṇapagranthipūyakṣīṇamalāhvayam|
bījāsamarthaṁ rētōsram——————|10|
ādiśabdēna pittaślēṣmaṇōḥ parigrahaḥ| vātādayaśca kuṇapaṁ ca granthiśca pūyaśca kṣīṇaṁ ca malaṁ cēti dvandvaḥ| ēta āhvayaḥ- saṁjñāḥ, yasya rētōstrasya tadēvam| āhvayaśabdaḥ pratyēkaṁ vātādiṣu yōjyaḥ| rētaścāstraṁ ca rētōstraṁ vātādyāhvayam| vātasaṁjñaṁ śukraṁ vātaśukram| ēvaṁ pittaśukraṁ kaphaśukram| kuṇapagandhitvātkuṇapaṁ nāma śukraṁ kuṇapaśukram, tadraktēna duṣṭēna bhavati| ēvaṁ granthiśukraṁ pūyaśukraṁ kṣīṇaśukram| malāhvayaṁ tu dvidhā,-mūtrapurīṣabhēdāt| mūtrasadr̥śaṁ śukraṁ mūtraśukram| ēvaṁ purīṣaśukram| ārtavamapi śukravaddōṣadūṣitamabījamēva| tasya liṅgaṁ nāma ca śukravadvēdyam| yathā,-vātārtavaṁ pittārtavamityādi, yāvatpurīṣārtavamiti| sādhyāsādhyavibhāgaśca tadvadēva| śukrārtavadōṣēṣu ca cikitsāmapi tulyāṁ brūtē| yatra tu viśēṣaṁ drakṣyati, tatra viśēṣamabhidhāsyati| yathā (ślō.15)-“pibēdgranthyārtavē pāṭhā” ityādi|
———————————————-|
———————-svaliṅgairdōṣajaṁ vadēt||10||
raktēna kuṇapaṁ, ślēṣmavātābhyāṁ granthisannibham|
pūyābhaṁ raktapittābhyāṁ, kṣīṇaṁ mārutapittataḥ||11||
kr̥cchrāṇyētānyasādhyaṁ tu tridōṣaṁ mūtraviṭprabham|
———————————————-|12|
svāni ca tāni liṅgāni-lakṣaṇāni ca, svaliṅgāni,-yathāsvaṁ vātādīnāṁ rūpāṇi| yathā,-rūkṣaśyāvāruṇādīni vāyōḥ, vistragandhyauṣṇyādīni pittasya, snigdhapāṇḍupicchilādīni kaphasya taiḥ svaliṅgairvātādidōṣajaṁ vadēt- jānīyāt,vaidyaḥ |iti śēṣaḥ| raktēna duṣṭēna kuṇapaṁ-kuṇapagandhitvātkuṇapasaṁjñaṁ, anvarthaṁ rētōstraṁ bhavati| ēvaṁ granthyādīnāmapyanvarthasaṁjñatā bōdhyā| ślēṣmavātābhyāṁ duṣṭābhyāṁ granthisannibhaṁ-granthyākāram| pūyābhaṁ-pūyasadr̥śam, raktapittābhyāṁ rētōstraṁ pūyāhvayaṁ bhavati| kṣīṇaṁ nāma rētōstraṁ mārutapittatō bhavati, mārutapittābhyāṁ duṣṭābhyāṁ duṣṭaṁ taddūṣāṇāt kṣīṇatāṁ nītamityarthaḥ|
pūrvōktānīmāni vātādiśukrārtavāni kṣīṇaśukrārtavāntāni kr̥cchrasādhyatvāt kr̥cchrāṇi| asādhyaṁ tviti| mūtraṁ ca viṭ ca mūtraviśau, tayōriva prabhā yasya tadēvam| rētōstramubhayamapi malasaṁjñam| tridōṣaṁ-tridōṣaduṣṭam| asādhyaṁ-sādhayitumaśakyam|
idānīmupakramamāha—-
——————————————|
kuryādvātādibhirduṣṭē svauṣadham—————|12|
svaṁ-ātmīyaṁ, ca tadauṣadhaṁ ca svauṣadham, vātādyauṣadhamityarthaḥ| tēna vāyōḥ kupitasya yadauṣadhaṁ-praśamōpāyaḥ snigdhōṣṇāmlalavaṇādi, pittasya madhuraśītakaṣāyādi, ślēṣmaṇaḥ kaṭukarūkṣakaṣāyādi, tattasya bhēṣajamityavatiṣṭhatē| viśēṣatastu-“vātajēśukradōṣē vasukasaindhavaphalāmlasiddhaṁ yavakṣārapratīvāpaṁ sarpiṣpānam, bilvavidārīsiddhaṁ kṣīrayuktamāsthāpanam, madhubhadradārusiddhaṁ tailamanuvāsanam, kṣīrakulīrarasasiddhaṁ tailamanuvāsanamuttarabastiśca| paittikē kāṇḍēkṣuśvadaṁṣṭrāguḍūcīkvāthasiddhaṁ mūrvāmadhūkapratīvāpaṁ sarpiṣpānam, trivr̥ccūrṇaḥ saghr̥tō virēkaḥ payasyāśrīparṇīsiddhaṁ kṣīrayuktamāsthāpanam, madhukamudgaparṇīsiddhaṁ tailamanuvāsanamuttaravastiśca| ślaiṣmikē pāṣāṇabhēdāśmantakāmalakakvāthasiddhaṁ pippalīmadhukacūrṇapratīvāpaṁ sarpiṣpānam, madanaphalakaṣāyō vamanam, dantīviḍaṅgacūrṇastailalīḍhō virēkaḥ, rājavr̥kṣamadanaphalakaṣāyapragāḍhamāsthāpanam, madhukapiplīsiddhaṁ tailamanuvāsanamuttarabastiśca| vātajē puṣpadōṣē bhārgībhadradārusiddhaṁ sarpiṣpānam, kāśmaryakṣudrasahāsiddhaṁ vā kṣīram, madhukaśr̥gālavinnākalkaṁ payaḥsarpiḥsahitaṁ priyaṅgutilakalkaṁ vā yōnau dhārayēt, saralamudgaparṇīkaṣāyaḥ prakṣalanam| pittajē kākōlīdvayavidārīmūlakvāthamutpalapadmakakvāthaṁ madhukapuṣpakāśmaryaphalakvāthaṁ vā saśarkaraṁ pibēt, śvētacandanakvāthaṁ vā sakṣaudram|” ityādikaṁ saṅgrahāt (śā. a. 1) bōdhyam|
idānīṁ kuṇapacikitsāmāha—-
———————————————-|
———————————-kuṇapē punaḥ||12||
dhātakīpuṣpakhadiradāḍimārjunasādhitam|
pāyayētsarpirathavā vipakvamasanādibhiḥ||13||
kuṇapāhvayē tu rētasi dhātakyādidravyasādhitaṁ ghr̥taṁ pāyayēt, vaidya iti śēṣaḥ| athavā, asanādibhiḥ-asanādiguṇōddiṣṭairbhēṣajaiḥ (hr̥.sū.a.15/19) vipakvaṁ ghr̥taṁ pāyayēt| nanu, kuṇapa iti sāmānyōktāvapi kathaṁ rētasīti viṣēṣō labhyatē| brūmaḥ| rētaḥprakaraṇāt| api ca kuṇapāstrasya purastādupakramaṁ vakṣyati (ślō.16)-“pēyaṁ kuṇapapūyāsrē” iti| tasmādrētasa ēvēha grahaṇaṁ yuktam| punargrahaṇamatra vātādiduṣṭē rētasyasrōktāṁ kriyāṁ kuryāditi dyātayati|
sāmprataṁ granthisaṁjñē rētasyupakramaṁ brūtē—- palāśabhasmāśmabhidā granthyābhē———————|
———————————————-|14|
palāśasya bhasma palāśabhasma| aśmabhit-pāṣāṇabhēdaḥ| palāśabhasma cāśmabhicca, tēna vipakvaṁ ghr̥taṁ granthyābhē-granthināmni rētasi, pāyayēt|
—————————————-pūyarētasi|
paruṣakavaṭādibhyām——————————–|14|
pūyākhyē rētasi parūṣakavaṭādibhyāṁ vipakvaṁ ghr̥taṁ pāyayēt| paruṣakaśca vaṭaśca parūṣakavaṭau, tāvādī yayōrgaṇayōstau paruṣakavaṭādī, tābhyām| “paruṣakaṁ varā drākṣā” (hr̥.sū. a.15/13) iti paruṣakādiḥ| tathā, “nyagrōdhapippala” (hr̥.sū. a. 15/41) iti vaṭādiḥ|
———————————————-|
————————kṣīṇē śukrakarī kriyā||14||
kṣīṇē-kṣīṇatvāt kṣīṇāhvayē rētasi, śukrakarī kriyā| kāryēti śēṣaḥ| śukralamatiśayēna sēvyamityarthaḥ|
saṁśuddhō viṭprabhē sarpirhiṅgusēvyādi(gni)sādhitam|
pibēt———————————————–|15|
saṁśuddhaḥ-kr̥tavamanavirēcanaḥ, viṭprabhē-viṇmalasaddaśē rētasi, āturō ghr̥taṁ pibēt| kimbhūtam ? hiṅgusēvyādisādhitam| atrādiśabdō vyavasthāvācī| tēna saṅgrahōktasya (śā. a. 1)- “hiṅgūśīra[citrakairathavā] citraka[vitunnaka] priyaṅgu[hiṅgu]samaṅgāmr̥ṇālasiddhamēlācōcacūrṇapratīvāpam|” ityasya pāṭhasya sūcanā bhavati| hiṅgusēvyāgnisādhitamityaparē pēṭhuḥ| nanu, “asādhyaṁ tu tridōṣaṁ mūtraviṭprabham|” (ślō.12) ityuvāca tantrakr̥t| tatkimityasya cikitsōpadiṣṭā ? brūmaḥ| kiñcitsādhyatā’pyasyāstīti pratipādayituṁ cikitsāmupadidēśa śāstrakāraḥ| ata ēva mūtraprabhasyāsādhyatvāccikitsāṁ nōpādiśat| mūtraprabhārtavaviṭprabhārtavayōrapyasādhyatvādēvōpakramaṁ nābhyadhāt|
vātadyārtavēṣu
“svauṣadhaṁ kuryāt” (ślō.12) ityuktam|
kuṇapagranthyadyārtavēṣu viśēṣēṇa cikitsāṁ vakṣyati —-
————————————————–|
———granthyārtavē pāṭhāvyōṣavr̥kṣakajaṁ jalam||15||
granthyārtavē-granthināmryārtavē strīrajasi, jalaṁ pibēt| kimbhūtam ? pāṭhādijātam| pāṭhā-prācīnā| vyōṣaṁ-trikaṭukam| vr̥kṣakaḥ-kuṭajaḥ|
pēyaṁ kuṇapapūyāstrē candanaṁ vakṣyatē tu yat|
guhyarōgē ca tatsarvaṁ kāryaṁ sōttarabastikam||16||
kuṇapākhyē rajasi pūyākhyē cāpi candanaṁ pēyam| atra ‘dravānuktau jalaṁ dēyam’ (hr̥. ka. a. 6/23) iti paribhāṣayā jalēna pātavyamiti bōdhyam| kṣīṇārtava iha cikitsitaṁ nōktam, tacca svadhiyōhyam| yathā kṣīṇarētasi śukrakarī kriyā kāryētyuktam, tathā kṣīṇē raktē raktakarī kriyā kāryēti| na ca kēvalamētatpūrvōktamēva cikitsitaṁ kāryam, yāvadguhyarōgapratiṣēdhē yadvakṣyatē-bhaṇiṣyatē, tadapi sarvaṁ sādhanaṁ yathāyōgaṁ vamanādi yōnau picukadhāraṇādikaṁ ca kāryam| kimbhūtam ? sōttarabastikam| sahōttarabastinā vartata iti sōttaravastikam| uttarabastirapi tatra kārya ityarthaḥ| sōttarabastikamiti “tēna sahēti tulyayōgē” iti vahuvrīhiḥ, “śēṣādvibhāṣā” iti kap, ‘vōpasarjanasya” iti sabhāvaḥ| uttarabastirapi tatrauṣadhamityarthaḥ|
bījāsamarthaṁ rētōstramabhidhāya sāmprataṁ śuddhaṁ yacchukrārtavaṁ bījasamarthaṁ tallakṣāṇārthamāha—- śukraṁ śuklaṁ guru snigdhaṁ madhuraṁ bahalaṁ bahu|
ghr̥tamākṣikatailābhaṁ sadgarbhāya ārtavaṁ punaḥ||17||
lākṣārasaśaśāstrābhaṁ dhautaṁ yacca virajyatē|
———————————————-|18|
śuddhē śukrārtava iti pūrvaṁ śukrasyōpadēśātprādhānyācca śukrasya pūrvamupanyāsaḥ| “tatrāhārarasasya samyakpariṇatasya kramānmajjānamanuprāptasya sāraḥ śukrasaṁjñāṁ labhatē| tacca kṣīra iva sarpirikṣurasa iva guḍaḥ śarīrē śukradhārāṁ kalāmāśritya sarvāṅgavyāpitayā sthitam| viśēṣataśca majjamuṣkastanēṣu| harṣōdīritaṁ tu saṅghaṭṭanēna hr̥dayāvēśāt piṇḍībhūtamaṅgādaṅgātpravartatē (saṅgrahē śā. a.1)|” tacca śuklādiguṇayuktaṁ śukram| tathā, ghr̥tābhaṁ mākṣikābhaṁ tailābhaṁ vā sadgarbhāya-śōbhanagarbhārthaṁ, bhavati| tava ghr̥tābhēna gauravarṇatvaṁ garbhasya, mākṣikābhēna śyāmavarṇatvaṁ, tailābhēna kr̥ṣṇavarṇatvaṁ, bhavati|
“raktamēva strīṇāṁ māsi māsi garbhakōṣṭhamanuprāpya tryahaṁ pravartamānamārtavamācakṣatē| atiprasaṅgēnānr̥tau vā pravartamānaṁ tadēvāsr̥gdarādisaṁjñāṁ labhatē” (saṁ.śā.a.1)| yadārtavaṁ lākṣā rasābhaṁ-alaktakarasasadr̥śam , tathā śaśarudhirasadr̥śam, tathā yacca dhautaṁ sadvirajyatē-vastrādilagnaṁ dhautaṁ sallauhityaṁ jahātītyarthaḥ| tadīdr̥śamārtavaṁ tu sadgarbhāya sampadyatē|
śuddhaśukrārtavalakṣaṇamuktvā, idānīṁ garbhasambhavātpūrvamiti kartavyatāmāha—-
——————————————————-|
śuddhaśukrārtavaṁ svasthaṁ saṁraktaṁ mithunaṁ mithaḥ||18||
snēhaiḥ puṁsavanaiḥ snigdhaṁ śuddhaṁ śīlitabastikam|
—————————————————–|19|
śukraṁ cārtavaṁ ca śukrārtavē, śuddhē śukrārtavē yasya mithunasya tacchuddhaśukrārtavam,-strīpuruṣayugalaṁ, samupācarēditi sambandhaḥ| tathā, svasthaṁ-arōgaṁ, rōgalēśēnāpyanākrāntam| tathā, mithaḥ parasparaṁ, saṁraktaṁ-anurāgayuktamanyōnyadarśanēna kusumacāpāviṣṭamēvaṁvidham| snēhaiḥ puṁsavanaiḥ-yathābhimatagarbhagrahaṇaprabhāvaiḥ phalasarpirmahākalyāṇakādibhiḥ, snigdham| tathā, śuddhaṁ-kr̥tavamanavirēcanam| tathā śīlitabastikam, śīlitāḥ-abhyāsēnānuṣṭhitāḥ, bastayō yēna-mithunēna, taccīlitabastikam| na sakr̥dēvānuṣṭhitabastikamityarthaḥ|
——————————————————-|
naraṁ viśēṣātkṣīrājyairmadhurauṣadhasaṁskr̥taiḥ||19||
viśēṣāt-viśēṣēṇātiśayēna, naraṁ kṣīrairghr̥taiśca samupācarēditi sambandhaḥ| viśēṣādityanēnaitat dyōtayati| viśēṣēṇa naraṁ kṣīrājyaiḥ samupācarēt, na punarnārīmapi tairna samupācarēditi| kimbhūtaiḥ ? madhurauṣadhasaṁskr̥taiḥ madhurāṇi-madhuraprāyāṇi madhuraprabhāvāni ca tānyauṣadhāni-jīvaniyādīnī, [ca]tairmadhurauṣadhaiḥ, saṁskr̥taiḥ-siddhaiḥ|
nārīṁ tailēna māṣaiśca pittalaiḥ samupācarēt|
——————————————————-|20|
nārīṁ tailēna māṣaiśca samupācarēt| caśabdō’tra bhinnakramaḥ| pittalaiśca samupācarēdityarthaḥ| pittalāni hi raktavr̥ddhihētavaḥ| uktaṁ hi (hr̥. sū. a. 11/26)-“āśrayāśrayiṇāṁ mithaḥ| yadēkasya tadanyasya varddhanakṣapaṇauṣadham||” iti| ēvaṁ ca tailaṁ pittakr̥ttvādēvōpanyastam| viśēṣādityatrāpyanuvartatē| kṣīrājyēbhyō’pi viśēṣēṇa nāriṁ tailadibhiḥ samupācarēdityarthaḥ| puruṣasya tu rajasō’bhāvāttadvr̥ddhihētavastailādayō nōpayujyanta ēva|
ūrvōktasakalasāmagrīyuktādapi mithunādviśiṣṭakālamantarēṇa garbhasyāsambhava iti strīmadhikr̥tya tadgarbhagrahaṇayōgyaṁ kālaṁ darśayitumāha—-
—————————————————-|
kṣāmaprasannavadanāṁ sphuracchrōṇipayōdharām||20||
svastākṣikukṣiṁ puṁskāmāṁ vidyādr̥tumatīṁ striyam|
——————————————————-|21|
kārśyahētuṁ vinā kṣāmaṁ, tathā prasannaṁ-nirmalaṁ, vadanaṁ-mukhaṁ, yasyāḥ saivaṁbhūtā, tām| śrōṇiśca payōdharau ca śrōṇipayōdharam, sphurat-kampamānaṁ, śrōṇipayōdharaṁ yasyāḥ sā, tām| śrōṇiḥ-kaṭiḥ| strastē-ca(ga)litē, ivākṣiṇī kukṣiśca yasyāḥ sā tām| tathā, puṁsi kāmaḥ-abhilāṣō, yasyāḥ sā, tām| ēvaṁvidhāṁ striyamr̥tumatīṁ-r̥tuyuktāṁ, vidyāt| tasyāḥ sa garbhagrahaṇakāla ityarthaḥ| puṁskāmāmiti “saṁpuṁkānāṁ sō vaktatryaḥ” iti makārasya sakāradēśādrutvābhāvaḥ|
“sarvaṁ ca hētumadbrūyāt” ityāgamaḥ, ata āha—-
—————————————————-|
padmaṁ saṅkōcamāyāti dinē’tītē yathā, tathā||21||
r̥tāvatītē yōniḥ, sā śukraṁ nātaḥ pratīcchati|
——————————————————-|22|
yathā divā praphullaṁ padmamanantaraṁ divasātikrāntau saṅkōcamāyāti-mukulabhāvaṁ prāpnōti, tatsvabhāvatvāttasya| tathā-tēnaiva prakārēṇa, r̥tāvatītē-atikrāntē dvādaśarātrasvabhāvē yōniḥ saṅkōcamāyati| sā ca-yōniḥ, [ataḥ] saṅkucitatvāt śukraṁ na pratīcchatīti|
vivr̥tāvivr̥tamukhatvaṁ hi yōnērgarbhagrahaṇāgrahaṇahētuḥ|
tacca vāyōḥ kriyāvataḥ kālasahāyasyāyattamityāha —- ——————————————————-|
māsēnōpacitaṁ raktaṁ dhamanībhyāmr̥tau punaḥ||22||
īṣatkr̥ṣṇaṁ vigandhaṁ ca vāyuryōnimukhānnudēt|
——————————————————-|23|
māsēna yadupacitamāhārarasatō vr̥ddhiṁ prāptaṁ raktaṁ tatpunarmāsēnōpacitaṁ raktamr̥tau vāyuryōnimukhānnudēt-prērayēt| vidhau liṅ| tadā yōnimukhaṁ vivr̥taṁ sampadyatē| kēna nudēt ? dhamanībhyāṁsrōtōviśēṣābhyāṁ| kimbhūtaṁ raktam ? īṣātkr̥ṣṇaṁ, tathā vigandhaṁvisragandharahitam| prakr̥tisthaprērakapavanasamparkādīṣatkr̥ṣṇatā, na tu kupitasamīraṇaprēraṇasaṁślēṣavaśādivātyantaṁ kr̥ṣṇatā| nāpi pittēna tathābhūtēna yuktam, yēna vistragandhi syāt| nāpi ślēṣmaṇā tathābhūtēna yuktam, yēna tadvarṇayuktaṁ syāt| tasmācchuddhaṁ viśiṣṭē kālē yōnimukhātpravartamānaṁ raktamārtavasaṁjñāṁ labhatē| tadēva cānyadā yōnimukhātpravartamānamasr̥gdarasaṁjñāmāsādayati|
śuddhaṁ ca raktaṁ puṣpasaṁjñam, garbhākhyasya phalasya bhaviṣyatō’bhivyañjakatvāt|
ata ēvāha—-
—————————————————-|
tataḥ puṣpēkṣaṇādēva kalyāṇadhyāyinī tryaham||23||
mr̥jālaṅkārarahitā darbhasaṁstaraśāyinī|
kṣairēyaṁ yāvakaṁ stōkaṁ kōṣṭhaśōdhanakarṣaṇam||24||
parṇē śarāvē hastē vā bhuñjīta brahmacāriṇī|
caturthē’hni tataḥ snātā śuklamālyāmbarā śuciḥ||25||
icchantī bhartr̥sadr̥śaṁ putraṁ paśyētpuraḥ patim|
——————————————————-|26|
puṣpēkṣaṇāt-puṣpasya darśanādēvānantaraṁ, strī tryahaṁ-trīṇi dināni, kalyāṇaṁ-śubhaṁ, avaśyaṁ dhyāyati-cintayatīti kalyāṇadhyāyinī syāt| āvaśyakē ṇiniḥ| tathā, mr̥jā-snānakriyā, alaṅkāraḥ-kaṭakādiḥ puṣpādirvā, alaṅkriyatē-bhūṣyatē śarīramēbhiriti kr̥tvā, ēvaṁ gandhamālyasyāpyalaṅkāratvam| tathā ca vakṣyati (hr̥. ci. a. 5/82)- “gandhamālyādikāṁ bhūṣām” iti| mr̥jālaṅkārābhyāṁ rahitā-varjitā| tathā darbhāṇāṁ saṁstaraḥ-śayyā, tatra śētē sā darbhasaṁstaraśāyinī| “vratē” iti ṇiniḥ| tathā, kṣairēyaṁ-kṣīrasiddhaṁ, yāvakaṁ-yavānnaviśēṣaṁ, parṇē śarāvē hastē vā bhuñjīta-bhakṣayēt| kiyanmātram ? stōkaṁ-alpamātram| tatkṣairēyamupayuktaṁ kīdr̥śaṁ syāt ? ityāha-kōṣṭhaśōdhanakarṣaṇamiti| śōdhanaṁ ca karṣaṇaṁ ca śōdhanakarṣaṇam| kōṣṭhasya śōdhanakarṣaṇamiti ṣaṣṭhīsamāsaḥ| śarīrasya mahāstrōtō madhyamō bhāga āmapakvasyāśayaḥ kōṣṭhaśabdavācyaḥ| sa ēva garbhādhiṣṭhānam, atastasyaiva śōdhanam| tathā, tadaṅgānāṁ karṣaṇamiti vyākhyēyam| na punaḥ kōṣṭhasya śōdhanamanyēṣāṁ cāṅgānāṁ karṣaṇam| tathā hi-trivr̥dādinā viricyatē, naivamanēna yāvakēna| vastusvābhāvyāt kōṣṭhaśōdhanakarṣaṇamātramēva kriyatē| kṣairēyamiti “kṣīrāḍḍhañ” iti ḍhañ| yāva ēva yāvaka iti “yāvādibhyaḥ kan” iti kan| tathā, brahmacāriṇī-tyaktavyavāyā, syāt| tataḥ-tryahādūrdhvaṁ,caturthē vāsarē snātā, tathā śuklāni mālyānyambarāṇi ca yasyāḥ saivam, tathā śuciḥ-antarbahiśca pavitrā satī, puraḥ-pūrvaṁ, patiṁ paśyēt| saṅgrahē’pyuktam (śā. a. 1)- caturthē tvahanyudvartitā śītasalilasnātā’nuliptā’laṅkr̥tā śuklamālyāmbarā kr̥tamaṅgalasvastyayanaivaṁvidhamēva bhartāraṁ paśyēdananyamanāḥ| tadā hi yādr̥śaṁ paśyati cintayati vā tādr̥śamēva prasūta iti|” iti|
tatkiṁ tryahamēva r̥tuḥ, atraiva puṣpadarśanāt|
athōttarakālamapi ? ityāśaṅkyāha—-
————————————————-|
r̥tustu dvādaśa niśāḥ pūrvāstisrō’tra ninditāḥ||26||
ēkādaśī ca, yugmāsu syātputrō’nyāsu kanyakā|
—————————————————-|27|
puṣpadarśanātprabhr̥ti yāvadvādaśarātrayastāvadr̥turyōṣitaḥ, na punaratryahamēva, yatra puṣpaṁ pravartatē, iti r̥tuśabdēna darśayati| atra-asmin dvādaśaniśāvadhāvr̥tukālē, yāḥ pūrvāstistrō niśāḥ, yāsu prāyaḥ puṣpaṁ pravartatē, tā nindyāḥ-garhyāḥ sadbhiḥ| na tatra sanmatiḥ striyaṁ saṅgacchēt| ata ēvātra brahmacāritvōpadēśaḥ| tathā, ēkādaśī niśā nindyā-apraśastā| caśabdō’trānuktāyāstrayōdaśyāḥ samuccayārthaḥ| trayōdaśyāṁ hi mithunībhāvē napuṁsakasyōtpattiriti kēcidāhuḥ| yugmāsu-caturthaṣaṣṭhāṣṭamadaśamadvādaśalakṣaṇāsu niśāsu, saṅgamē putraḥ syāt, acintyatvādr̥tubhāvasya| tāsu hi rātriṣvārtavamalpībhavati| anyāsuayugmāsu niśāsu pañcamīsaptamīnavamīṣu, kanyā jāyatē| tadā hi śukramalpībhavati, pūrvōktāddhētōḥ| yadi punarāhārādivaśāt śukrasyādhikatvamayugmāsu, yugmāsu cārtavapūrṇatā syāt, tadā pumān stryākr̥tirdurbalō hīnāṅgō vā jāyatē, strī ca puruṣākr̥tirdurbalā hīnāṅgā vā| ēkādaśītrayōdaśyōstu napuṁsakamiti| tadēvaṁ dampatī puṁgarbhamicchantau yugmāsu niśāsu puṁsavanādikaṁ karmācarētām, strīgarbhamicchantau tvayugmāsu rātriṣu|
—————————————————-|
upādhyāyō’tha putrīyaṁ kurvīta vidhivadvidhim||27||
namaskāraparāyāstu śūdrāyā mantravarjitam|
—————————————————-|28|
athētyānantaryē maṅgalasūcakō nirdiṣṭaḥ| ata ēvāyamātrārthaḥ-r̥tukālādanantaraṁ maṅgalapūrvikāṁ sarvāmimāṁ vakṣyamāṇāmitikartavyatāṁ kuryāditi| upādhyāyaḥ-purōhitō’tharvavēdavit, putrīyaṁ-putrāya hitaṁ, vidhimitthaṁ kurvīta| katham ? vidhivat na yathākathañcit| vidhivaditi praśaṁsāyāṁ matup| kriyāviśēṣaṇaṁ caitat, tēna praśastaṁ vēdōktamanyūnātiriktavidhānaṁ yathā bhavati tathāvidhaṁ kurvītētyavatiṣṭhatē| brahmāṇadivarṇatrayasyēmaṁvidhiṁ kurvīta| śūdrāyāḥ punarnamaskāraparāyāḥ-namaskārapradhānāyāḥ, yathōktaṁ sarvaṁ vidhiṁ mantravarjitaṁ kuryāt| putrīyamiti “putrāccha ca” iti cchaḥ|
—————————————————-|
avandhya ēvaṁ saṁyōgaḥ syādapatyaṁ ca kāmataḥ||28||
ēvaṁ-yathōktavidhyanuṣṭhānē, dampatyōryaḥ saṁyōgō-mithunībhāvaḥ, sa na vandhyaḥ syāt| api tu saphalō garbhasambhavahēturbhavēdityarthaḥ| na kēvalaṁ dampatyōḥsaṁyōga ēvaṁ niṣphalō na bhavēt, apatyaṁ ca kāmataḥ-yathābhimataṁ puṁgarbharūpaṁ strīgarbharūpaṁ vā, syāt|
ata ēvāha—-
santō hyāhurapatyārthaṁ dampatyōḥ saṅgatiṁ rahaḥ|
—————————————————-|29|
rahaḥśabdēna grāmyavacasā’tra grāmyadharmaṁ sūcayati| hiyasmāt, santaḥ-sādhavaḥ, apatyārthaṁ-apatyajananāya, dampatyōḥ strīpuruṣayōḥ, rahaḥ-ēkāntē, viśiṣṭakālōcitaṁ viśiṣṭasaṁyōgaṁ saṅgatimāhuḥ, na grāmyasukhalipsāyai|
na cāpatyamātrāyētyāha —-
————————————————-|
durapatyaṁ kulāṅgārō gōtrē jātaṁ mahatyapi||29||
duṣṭāpatyaṁ strīgarbhaḥ puṁgarbhō vā, mahatyapi gōtrē jātaṁ-utkr̥ṣṭē’pi kula utpannaṁ, āṅgārakāryakaraṇasāmarthyātsamastatkulavināśahētutvātkulāṅgāra ityucyatē|
icchētāṁ yādr̥śaṁ putraṁ tadrūpacaritāṁśca tau|
cintayētāṁ janapadāṁstadācāraparicchadau||30||
tau-dampatī, yādr̥śaṁ putramicchētāṁ-kāmayētāṁ, tadrūpacaritān rūpaṁ-varṇasaṁsthānapramāṇāśākr̥tyādi| tathā caritaṁ-śraddhāśrutasatyārjavānr̥śaṁsyadānadayādākṣiṇyasvabhāvādi| tasya-manīṣitasya, sadr̥śē rūpacaritē yēṣāṁ tān janapadān cintayētāṁ-dhyāyētāṁ| putraśabdō’patyamātrōpalakṣaṇārthō’tra| tathā hi duhitaramapi kaścidicchatyēva| kimbhūtau tau pitarau ? tadācāraparicchadau| ācaraṇaṁ-ācāraḥ, kulānurūpasya dēśānurūpasya cētikartavyatālakṣaṇasya karmaṇō’nuṣṭhānam| paricchadō-manujagavāśvadhanadhānyavastrālaṅkāraratnarathāyudhagr̥hōdyānavīṇāpaṇavagāyanaśayyāstaraṇādiḥ| ācāraśca paricchadaścācāraparicchadau| tadityanēnābhilaṣitāpatyaṁ parāmr̥śyatē| tasyaivācārapariccadau yayōstau dampatī icchā sadr̥śarūpacaritān janapadān dhyāyētām|
karmāntē ca pumān sarpiḥkṣīraśālyōdanāśitaḥ|
prāgdakṣiṇēna pādēna śayayāṁ mauhūrtikājñayā||31||
ārōhēt strī tu vāmēna tasya dakṣiṇapārśvataḥ|
tailamāṣōttarāhārā tatra mantraṁ prayōjayēt||32||
karmāntē ca-putrīyavidhyanuṣṭhānāvasānē ca, pumān strītaḥ prāk-pūrvaṁ, śayyāmārōhēt-ākramēt| kimbhūtaḥ ? sarpiḥkṣīraśālyōdanāśitaḥ,-sarpirmiśrakṣīraśālyōdanēnāśitō-bhōjitaḥ| kathamārōhēt ? dakṣiṇēna pādēna, mauhūrtikājñayā-jyōtiḥ śāstravidādiṣṭaḥ| strī tu vāmēna pādēna tasya dakṣiṇapārśvataḥ śayyāmārōhēt, mauhūrtikājñayēti yōjyam| turavadhāraṇē, ubhayatrāpi| pumān dakṣiṇēnaiva pādēna prāgēva, strī paścādēva vāmēnaiva pādēna puṁsō dakṣiṇapārśvata ēva, śayyāmārōhēt, nānyathā kr̥tvēti|”pumān sarpiḥkṣīraśālyōdanāśitaḥ” ityuktam| striyāstu tatkālōcitamāhāraṁ nirūpayannāha-tailētyādi| tailaṁ ca māṣaśca, tābhyāmuttaraḥ-adhikaḥ, āhārō yasyāḥ saivam| uttaraśabdō’tra tailamāṣau pittalau raktavr̥ddhihētū tayā’tyantaṁ sēvitavyau, na punastathā śukravr̥ddhikarāṇyanyānyapi kṣīrādīni dravyāṇiti pratipādayati| tatra ca mantraṁ vakṣyamāṇaṁ prayōjayēt-paṭhēt|
tadēva mantramaaha….
aum āhirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvāṁ
dadhātu vidhātā tvāṁ dadhātu brahmavarcasā bhavēti|
brahmā br̥haspatirviṣṇuḥ sōmaḥ sūryastathā’śvinau|
bhagō’tha mitrāvaruṇau vīraṁ dadatu mē sutam||33||
āhirasītyādi [ vīraṁ dadatu mē sutamityantaṁ mantraṁ paṭhēt ]
sāntvayitvā tatō’nyōnyaṁ saṁviśētāṁ mudānvitau|
uttānā tanmanā yōṣittiṣṭhēdaṅgaiḥ susaṁsthitaiḥ||34||
tatō-mantrapāṭhādanantaraṁ, parasparaṁ sāntvayitvā-priyavacanādinā prītimutpādya, samvaśētāṁ-mithunībhāvaṁ gacchētām| kimbhūtau? mudā-harṣēṇa, anvitau-yutau| tatra ca saṁvēśanē yōṣiduttānā taccittā cāvayavaiḥ susaṁsthitaistiṣṭhēt|
kimēvaṁsati bhavati ? ityāha—-
tathā hi bījaṁ gr̥hṇāti dōṣaiḥ svasthānamāsthitaiḥ|
—————————————————-|35|
hi-yasmāt, tathā-tēna prakarēṇa, sā bījaṁ gr̥hṇāti, dōṣaiḥ-vātādibhiḥ svasthānāvasthitaiḥ sadbhiḥ| saṅgrahē tūktam (śā. a. 1)- “na cāsāvadhastiṣṭhēt| tathā hi strīcēṣṭaḥ pumān jāyatē puṁcēṣṭā vā strī| na ca nyubjāṁ pārśvagatāṁ vā sēvēta| nyubjāyā vātō balavān sa yōniṁ pīḍayati| dakṣiṇapārśvagāyāḥ ślēṣmā pīḍitaścyutō’pidadhāti garbhāśayam| vāmapārśvagāyāstadvatpittaṁ vidahati raktaśukrē| tasmāduttānā bījaṁ gr̥hṇīyāt|” iti|
—————————————————-|
liṅgaṁ tu sadyōgarbhāyā yōnyā bījasya saṅgrahaḥ||35||
tr̥ptirgurutvaṁ sphuraṇaṁ śukrāsrānanubandhanam|
hr̥dayaspandanaṁ tandrā tRḍglānirlōmaharṣaṇam||36||
sadyaḥ-tatkṣaṇāt, garbhō yasyāḥ saivam, tasyāḥ sadyōgarbhāyā lakṣaṇaṁ bījasya-garbhākhyasya, yōnyā-karaṇabhūtayā, saṅgrahaḥ samyaggrahaṇam| tathā, tr̥ptiriva tr̥ptiḥ gurutvaṁ sphuraṇaṁ ca kukṣērbhavati| tathā, śukraṁ cāsraṁ ca-śukrāsrē, anubandhanaṁ-pravartanam, nānubandhanaṁ-ananubandhanam, śukrāsrayōrapravartanaṁ-śukrāsrānanubandhanam,-śukrāsrayōryōnimukhādavamanaṁ bahiraniḥsaraṇam, atra ca yōnyā gr̥hītabījatvaṁ hētuḥ| tathā, hr̥dayaspandanādayaḥ pañca sadyōgarbhāyā lakṣaṇāni bhavanti| lōmaharṣaṇaṁ harṣavaśādbhavati| tathā ca saṅgrahē (śā. a. 2)- “praharṣō hr̥llāsaḥ” ityādi|
idānīṁ garbhasyāvasthāḥ pradarśayitumāha—-
avyaktaḥ prathamē māsi saptāhātkalalībhavēt|
garbhaḥ puṁsavanānyatra pūrvaṁ vyaktēḥ prayōjayēt||37||
saptāhādarvāggarbhagōlakaḥ ślēṣmapiṇḍībhutō bhavēt| saptāhādanantaraṁ yāvanmāsastāvadavyaktākr̥tiḥ kalalībhavēt| atra kalalībhūtē yāvatstrīpuruṣādyutpattilakṣaṇā vyaktirna bhavati tāvadvyaktēḥ prāk prathamē māsi puṁsavanāni prayōjayēt|
nanu, “śuddhēśukrārtavē satvaḥ svakarmaklēśacōditaḥ|
garbhaḥ sampadyatē”(ślō.1) ityuktam|
tatra yadi prākkr̥tēna karmaṇā strīgarbhaḥ kukṣimākṣiptastadā puruṣaprayatnē satyapi puṁgarbhaḥ kartuṁ na śakyatē|
tasmātpuṁsavanamanarthakamēvētyāśaṅkyāha—- balī puruṣakārō hi daivamapyativartatē|
—————————————————-|38|
hi-yasmāt, puruṣakārō balavān durbalaṁ daivamativartatēatikramya vartatē| apiśabdāt puruṣakāramapi durbalaṁ diṣṭaṁ balīyō’tikramya vartata iti pratipādayati| ata ēva prākkr̥tēna karmāṇā balīyasā”kṣiptasya strīgarbhasya puṁsavanādidānēna pauruṣēṇa karmaṇā śataśō’pi prayōjitēna na kathañcitpuṁgarbhatā kartuṁ pāryata iti| uktaṁ ca (carakē vi.a. 3/36)-“daivaṁ puruṣakārēṇa durbalaṁ hyupahanyatē| daivēna cētaratkarma prakr̥ṣṭanōpahanyatē||” iti| atra puṁsavanādi samyak prayōjitaṁ sidhyasidhyanumīyamānaṁ prākkr̥tasya karmaṇō hīnabalatvaprabalatvamavagamayati|
adhunā puṁsavanādiprayōgamāha —-
—————————————————-|
puṣyē puruṣakaṁ haimaṁ rājataṁ vā’thavā”yasam||38||
kr̥tvā’gnivarṇaṁ nirvāpya kṣīrē tasyañjaliṁ pibēt|
—————————————————-|39|
puṣyē-puṣyanakṣatrayuktē kālē, puruṣakaṁ-puttalakaṁ, hēmādikr̥tamagnivarṇaṁ kr̥tvā sudhmātatayā, tataḥ kṣīrē nirvāpya-nivēśya, tasya-kṣīrasya, añjaliṁ-palacatuṣṭayākhyaṁ, pibēt| puruṣakamiti puruṣa ivētyasminnarthē “ivē pratikr̥tau” iti kan| haimamiti hēmtōvikārārthē’ṇ “nastaddhitē” iti ṭilōpaḥ| rājatamiti “prāṇirajatādibhyō’ñ ityañ| āyasamiti “tasyēdam” ityaṇ|
—————————————————-|
gauradaṇḍamapāmārgaṁ jīvakarṣabhasairyakān||39||
pibētpuṣyē jalē piṣṭānēkadvitrisamastaśaḥ|
—————————————————-|40|
gauradaṇḍādīṁścaturō dravyaviśēṣān pibēt| kimbhūtān ? jalē piṣṭān-kalkīkr̥tān| kathaṁ kr̥tvā ? ēkadvitrisamastaśaḥ ēkādiṣu pratyēkaṁ śaspratyayārthayōgaḥ| tēnaikamēkaṁ kr̥tvā, dvau dvau kr̥tvā, trīṁstrīnkr̥tvā, caturaścaturaḥ kr̥tvā, ētān pibēdityarthō’vatiṣṭhatē| kadā prāśyam ? puṣyē-puṣyayuktē kālē|
—————————————————-|
kṣīrēṇa śvētabr̥hatīmūlaṁ nāsāpuṭē svayam||40||
putrārthaṁ dakṣiṇē siñcēdvāmē duhitr̥vāñchayā|
—————————————————-|41|
śuklapuṣpakaṇṭakārikāyā mūlaṁ kṣīrēṇa kalkīkr̥tya svayaṁ-strī, dakṣiṇē nāsāpuṭē putrārthaṁ-putrasampattayē, siñcēt| duhitr̥vācchayā-sutākāmyayā, vāmē nāsāpuṭē siñcēt|
—————————————————-|
payasā lakṣmaṇāmūlaṁ putrōtpādasthitipradam||41||
nāsayā”syēna vā pītaṁ vaṭaśuṅgāṣṭakaṁ tathā|
ōṣadhīrjīvanīyāśca bāhyāntarupayōjayēt||42||
payasā-kṣīrēṇa, lakṣmaṇāmūlaṁ kalkīkr̥tya pītaṁ putrōtpādapradaṁ putrasthitipradaṁ ca bhavati| kathaṁ pītam ? nāsayā”syēna vā, kadācinnāsikayā kadācidāsyēna| yasyāḥ putrō nōtpadyatē tathōtpannō vā sthitiṁ na labhatē-ciraṁ na jīvati, tayaivaṁ pātavyamityarthaḥ| vaṭaśuṅgāṣṭakaṁ tathā-tēnaiva prakārēṇa nāsayā āsyēna vā pītaṁ putrōtpādasthitipradaṁ bhavati| nyagrōdhasya prathamōdbhinnaḥ prarōhō-vaṭaśuṅgaḥ, tasyāṣṭakamiti| prabhāvasyācintyatvādētatsaṅkhyāvacchinnatvam| jīvanīyā yā ōṣadhyō-jīvantīkākōlyādyā daśa, yāḥ śōdhanādigaṇasaṅgrahōktāḥ (hr̥.sū.a.15/8), tā bāhyāntarupayōjayēt| tatra snānōdvartanādinā bāhya upayōgaḥ, āhārapānādinā’ntarupayōgaḥ|
upacāraḥ priyahitairbhartrā bhr̥tyaiśca garbhadhr̥k|
navanītaghr̥takṣīraiḥ sadā caināmupācarēt||43||
upacāraḥ-upacaraṇam| priyāḥ-iṣṭāḥ, hitāḥ-pathyāḥ, āhāravihārāḥ, taiḥ priyahitairya upacārō bhartrā-patyā kr̥tō, bhr̥tyaiśca ya ēvaṁbhūtaḥ kr̥taḥ, sa garbhadhr̥k-tadanuṣṭhānādgarbhaḥ sthitiṁ dadhātītyarthaḥ| ēnāṁ ca striyaṁ navanītādibhiryathāsātmyaṁ sadōpācarēt|
ativyavāyamāyāsaṁ bhāraṁ prāvaraṇaṁ guru|
akālajāgarasvapnaṁ kaṭhinōtkaṭakāsanam||44||
śōkakrōdhabhayōdvēgavēgaśraddhāvidhāraṇam|
upavāsādhvatīkṣṇōṣṇaguruviṣṭambhibhōjanam||45||
raktaṁ nivasanaṁ śvabhrakūpēkṣāṁ madyamāmiṣam|
uttānaśayanaṁ yacca striyō nēcchanti tattyajēt||46||
tathā raktastrutiṁ śuddhiṁ bastimāmāsatō’ṣṭamāt|
ēbhirgarbhaḥ stravēdāmaḥ kukṣau śuṣyēnmriyēta vā||47||
garbhiṇī strī ativyavāyādīnuttānaśayanāntāṁstyajēt| na kēvalamētān anyadyaccāhāravihārādivastujātaṁ striyō-bahuśaḥ prasūtāstatkālavyāpāranipuṇā vā yāḥ kāścana striyō, nēcchanti tadapi varjayēt| tathā raktastrutiṁ, śuddhiṁ ca-vamanavirēcanarūpāṁ, varjayēt| bastiṁ-anuvāsanaṁ, aṣṭamaṁ māsaṁ maryādīkr̥tya varjayēt| aṣṭamē tu māsē bastiṁ prayōjayēdēvētyarthaḥ| ēbhiḥ-varjyairvastubhirāsēvyamānaiḥ, garbha āmaḥ-asampūrṇaḥ, stravēt-patēt, kukṣau vā śuṣyēt, mriyēta vā-mr̥tyuṁ vā garbhaḥ prāpnuyāt|
vātalaiśca bhavēdgarbhaḥ kubjāndhajaḍavāmanaḥ|
pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ||48||
vātalaiścāhārairmātrā sēvitaiḥ kubjō’ndhō jaḍō vāmanō vā garbhō bhavati| pittalairāhārairmātrā sēvitaiḥ khalatiḥ-khalvāṭaḥ, piṅgō vā syāt| kaphakr̥dbhirāhārairmātrā sēvitaiḥ śvitravān pāṇḍurvā syāt|
vyādhīṁścāsyā mr̥dusukhairatīkṣṇairauṣadhairjayēt|
—————————————————-|49|
asyāśca-garbhiṇyāḥ, yē vyādhayō jāyantē, tān vyādhīn mr̥dusukhairauṣadhaistathā’tīkṣṇairjayēt| mr̥dūni ca tāni sukhāni ca-mr̥dusukhāni| mr̥dūni-akarkaśāni vīryādibhirnōtkr̥ṣṭasāmarthyāni sukumārōcitāni| sukhāni-sukhōpabhōgyāni, priyāṇīti yāvat| nanu, mr̥dūni parihr̥tyātīkṣṇāni cēti nirdēṣṭavyam| kimubhayōrupādānēna ? yatō mr̥dūni-akarkaśāni, atīkṣṇānyapi-akarkaśāni, ityanarthāntaratvamētayōḥ| atrōcyatē| mr̥dūni-akarkaśāni śarkarādīni, utkr̥ṣṭaśaktīni maricādīni-atīkṣṇāni, tīkṣṇāni punastīkṣṇaguṇayuktāni rājikādīni dōṣōtklēśakarāṇi bhēṣajāni bhavanti, iti dvayōrupādānaṁ yuktam| tantrāntarē (saṅgrahē) tvēvamuktam (śā.a.2)-“ityanātyayikē vyādhau vidhirātyayikē punaḥ| tīkṣṇairapi kriyāyōgaiḥ striyaṁ yatnēna pālayēt||” iti| yacca vyavāyādi garbhiṇyāḥ parihāryatvēna nirdiṣṭam, tathā “vyādhīṁścāsyā mr̥dusukhairatīkṣṇairauṣadhairjayēt|” iti| tadasmin kālē viśēṣēṇēti draṣṭavyam, na tathā’nyadā| tathā cānyadā’tivyavāyādisēvanānna tathā pratyavāyabhayam, tathā tīkṣṇauṣadhaprayōgācca| ata ēva “tathā raktastrutiṁ śuddhiṁ bastimāmāsatō’ṣṭamāt|” ityētatpr̥thaṅnirdiśatyativyavāyādiparihāryagaṇamadhyē|
prathamē māsyavyaktaliṅgaḥ kalalāvasthō garbhō bhavēt| dvitīyē tu māsi garbhaḥ kīdr̥śaḥ syāt ? ityāha-
prathamē māsyavyaktaliṅgaḥ kalalāvasthō garbhō bhavēt|
dvitīyē tu māsi garbhaḥ kīdr̥śaḥ syāt ? ityāha—-
—————————————————–|
dvitīyē māsi kalalāddhanaḥ pēśyathavā’rbudam||49||
puṁstrīklībāḥ kramāttēbhyaḥ————————-|
—————————————————-|50|
dvitīyē māsi kalalāddhanaḥ pēśyathavā’rbudaṁ garbhaḥ syāditi yōjyam| tēbhyō-ghanādirūpēbhyaḥ, kramāt-paripāṭhyā, puṁstrīklībāḥ sampadyantē| ghanāt pumān| pēśyāḥ strī| arbudāt klībaḥ-ṣaṇḍhō, na strī na pumāniti|
————————tatra vyaktasya lakṣaṇam|
kṣāmatā garimā kukṣērmūrcchā cchardirarōcakaḥ||50||
jr̥mbhā prasēkaḥ sadanaṁ rōmarājyāḥ prakāśanam|
amlēṣṭatā stanau pīnau sastanyau kr̥ṣṇacūcukau||51||
pādaśōphō vidāhō’nyē śraddhāśca vividhātmikāḥ|
—————————————————-|52|
tatra-vyaktāvyaktayōrmadhyāt, vyaktō nirdhāryatē| vyaktasya garbhasya vakṣyamāṇaṁ lakṣaṇaṁ kṣāmatētyādikam| garimēti gurōrbhāva iti “pr̥thvādibhya imanijvā” itīmanic, “priyasthira” ityādinā garādēśaḥ| vidāhō’nya iti| anyē ācāryā vidāhō dēhē bhavatītyāhuḥ| nānāprakārāśca śraddhāḥ-pathyāpathyaviṣayā abhilāṣāḥ, vyaktasya garbhasya lakṣaṇam| saṅgrahē tūktam (śā.a.2)-“tasyāśca rajōvāhināṁ srōtasāṁ vartmānyuparudhyantē garbhēṇa| tasmāttataḥ paramārtavaṁ na dr̥śyatē| tatastadadhaḥ pratihatamaparamaparaṁ cōpacīyamānamaparētyāhuḥ|” iti|
garbhiṇyāśca śraddhāsūtpannāsu kimapathyaṁ tasyai dēyaṁ na vā ? ityēvaṁ saṁdēhē tadyudāsārthamāha—-
—————————————————–|
mātr̥jaṁ hyasya hr̥dayaṁ mātuśca hr̥dayēna tat||52||
sambaddhaṁ tēna garbhiṇyā nēṣṭaṁ śraddhāvimānanam|
—————————————————-|53|
hi-yasmāt, asya-garbhasya, yaddhr̥dayaṁ-cētanādhiṣṭhānaṁ, tanmātr̥jam| tathā cōktam (hr̥. śā. a.3/4)-“mr̥dvatra mātr̥jaṁ rakta” ityādi| tacca-garbhahr̥dayaṁ, mātr̥hr̥dayēna sambaddhaṁ-saṁyuktaṁ, bhavati| tataśca garbhiṇīhr̥dayēna santaptēna garbhahr̥dayamapi santapyatē| parasparaṁ hr̥dayasya sambaddhatvāt| ata ēva ca garbhiṇī dvihr̥dayā daurhr̥dinītyucyatē| ata ēva ca parāyattahr̥dayatvāttatkālēsvasvabhāvōcitamabhilāṣaṁ vihāya nānābhilāṣō jāyatē| yataścaivaṁ tēna kāraṇēna garbhiṇyāḥ śraddhāvimānanaṁ-ābhilāṣāpratipūraṇaṁ, nēṣṭam|
tadarthamāha—-
————————————————-|
dēyamapyahitaṁ tasyai hitōpahitamalpakam||53||
tasyai-garbhiṇyai, hitēna-pathyēna, yuktamahitaṁ-apathyamapi vidāhiviṣṭambhyādi pūrvaniṣiddhaṁ yattadapi, dēyam| apiśabdēnakimu tasyai prārthyamānāyai hitaṁ dēyamiti gamayati| kiṁ mātrāmanapēkṣyaivāhitaṁ dēyam ? nētyāha| alpakaṁ-atiśayēnālpam|
nanu, yadyahitaṁ tatkasmāddīyatē ? ityāha —-
śraddhāvighātādgarbhasya vikr̥tiścyutirēva vā|
—————————————————-|54|
yadi cirakālōṣitaḥ kukṣau garbhastadā tasya garbhasya vikr̥tiḥvairūpyaṁ bhavēt, śraddhāvimānanacintānidānakupitasamīratvāt| tathā’cirōṣitō garbhastadā tasya garbhasya cyutiḥ-vināśō bhavēt, ata ēva śraddhāvimānanacintānidānakupitapavanatvāddhētōḥ| labdhadaurhr̥dā tu vīryavantaṁ cirāyuṣaṁ ca sutaṁ sūtē|
—————————————————-|
vyaktībhavati māsē’sya tr̥tīyē gātrapañcakam||54||
mūrddhā dvē sakthinī bāhū sarvasūkṣmāṅgajanma ca|
samamēva hi mūrddhādyairjñānaṁ ca sukhaduḥkhayōḥ||55||
asya-garbhasya, tr̥tīyē māsi gātrapañcakaṁ vyaktībhavati,-avyaktarūpaṁ vyaktaṁ tadānīṁ sampadyata ityarthaḥ| tadēva pañcāṅgamāha mūrddhā dvē sakthinī bāhū iti| sarvēṣāṁ sūkṣmāṇāṁ cāṅgānāṁ cētanādhiṣṭhānānāṁ janma-utpatiḥ, anyatra janmōttarakālajēbhyō dantādibhyaḥ| tathā, samamēva-tulyakālamēva, mūrddhādyaiḥ sukhaduḥkhayōrjñānaṁ bhavati,-tadānīṁ sukhasaṁvidduḥkhasaṁvicca garbhasya jāyata ityarthaḥ| caḥ samuccayē| hiryasmādarthē|
atra mātrā’bhyavahr̥tābhyāmannapānābhyāṁ kathaṁ garbhō varddhatē ? ityāha —-
garbhasya nābhau mātuśca hr̥di nāḍī nibadhyatē|
yayā sa puṣṭimāpnōti kēdāra iva kulyayā||56||
ēkaiva nāḍī garbhasya nābhau mātuśca hr̥dayē nibadhyatē-adr̥ṣṭavaśātsaṁśliṣyatē| yayā-nāḍyā, saḥ-garbhaḥ puṣṭimāpnōti āvahati| ka iva ? kēdāra iva kulyayā,-laghunadyā jalaṁ vahantyā kēdārasthaḥ śālyādiryathā’mivarddhatē, tathaiva mātr̥hr̥dayā śritayā nāḍyā mātrā’bhyavahr̥tādāhārājjāṭharāgninā pacyamānāt prasādākhyēna rasēna| yasmāt “vyaktībhavadaṅgapratyaṅgasya [asya] nābhyāṁ pratibaddhā nāḍī, nāḍyāmaparā, tasyāṁ mātr̥hr̥dayam| tatō mātr̥hr̥dayādāhārarasasārō dhamanībhiḥ syandamānō’parāmupaiti| tataḥ kramānnābhiṁ ca| tataśca sa punargarbhasya pakkāśayē [sva] kāyāgninā pacyamānaḥ prasādabāhulyāddhātvādi puṣṭikaraḥ sampadyatē| tathā rōmakūpairupasnēha ēva praviśati| (snēhō rasa ēva ca payōbhūtaḥ| ajātasya) sākṣādannapānānanupravēśāt rasasya vā samalatvābhāvāt (amalatvācca rasasya) garbhasya sthūlamūtrapurīṣādyasambhavaḥ|” (saṁ.śā. a.2)|
caturthē vyaktatā’ṅgānāṁ, cētanāyāśca pañcamē|
—————————————————-|57|
garbhasyētyanuvartatē| caturthē māsi garbhasya sarvēṣāmaṅgānāṁ sūkṣmatvādavyaktarūpāṇāṁ vyaktatā bhavati| cētanāyāḥ punarmanōdvitīyanāmikāyā avyaktarūpāyāḥ pañcamē māsi vyaktatā jāyatē|
—————————————————-|
ṣaṣṭhē snāyusirārōmabalavarṇanakhatvacām||57||
ṣaṣṭhē māsyavyaktarūpāṇāṁ snāyvādīnāṁ vyaktatā jāyatē|
sarvaiḥ sarvāṅgasampūrṇō bhāvaiḥ puṣyati saptamē|
—————————————————-|58|
saptamē māsi sarvaiḥ-sakalaiḥ, bhāvaiḥ-vastubhiḥ, sarvāṅgasampūrṇō garbhaḥ puṣyati-pōṣaṁ yāti| aṅgasampūrṇaḥ puṣyatītyētāvataiva prakr̥tārthāvagatēḥ sarvagrahaṇamadhikārthadyōtanāya| tēna sarvēṇa janmajīvanalakṣaṇēnārthēnāṅgaiśca sampūrṇō bhavatītyavatiṣṭhatē| akālaprasavatvāttu na tathā garbhasya janmajīvanalakṣaṇō yō’sāvarthaḥ sō’pyasmin bhavatīti jñāpyatē| tathā cāsmin māsi garbhō jātō jīvati, kintvakālaprasavatvānna tathā dīrghajīvitatvādikaṁ syāt| vakṣyati hi (ślō.66)-“kālaḥ sūtērataḥ param” iti| amumēva ca nyāyaṁ cētasi vidhāyāṣṭamē māsyōjaḥsvarūpanigadanaprastāvē “jātō na jīvati śiśuḥ” iti vakṣyati (ślō. 63)| anyathā’kālaprasavatvādēvāsmin garbhasya jīvanaṁ na sambhāvyata ēva| “jātō na jīvati” ityētadvākyamanarthakamiva syāt| tasmātsaptamē māsi jātō jīvatīti supratipāditamētat|
garbhēṇōtpīḍitā dōṣāstasmin hr̥dayamāśritāḥ|
kaṇḍūṁ vidāhaṁ kurvanti garbhiṇyāḥ kikkisāni ca||58||
garbhēṇōtpīḍitāḥ-ūrdhvaṁ pīḍitāḥ, dōṣāḥ-vātādayaḥ, tasmin kālē hr̥dayamāśritā garbhiṇyāḥ kaṇḍūṁ vidāhaṁ [ ca ] kurvanti| tathā, kikvisāni kurvanti| ūrustanōdarē valiviśēṣā rēkhākārāstatkālē prāyō yē jāyantē tē-kikvisasaṁjñāḥ| kaiścit ‘śūkairiva pūrṇatā-kikvisāni’ iti vyākhyāyi| pāṇipādāṁ samūlēṣu vividhaḥ santāpō-vidāha ucyatē|
navanītaṁ hitaṁ tatra kōlāmbumadhurauṣadhaiḥ|
siddhamalpapaṭusnēhaṁ laghu svādu ca bhōjanam||59||
candanōśīrakalkēna limpēdūrustanōdaram|
śrēṣṭhayā vaiṇahariṇaśaśaśōṇitayuktayā||60||
aśvaghnapatrasiddhēna tailēnābhyajya mardayēt|
paṭōlanimbamañjiṣṭhāsurasaiḥ sēcayētpunaḥ||61||
dārvīmadhukatōyēna mr̥jāṁ ca pariśīlayēt|
—————————————————-|62|
tatra-tēṣu kaṇḍvādiṣu, upaśamārthaṁ navanītaṁ hitam, antarbahiścōpayōgitayā| kīdr̥śam ? kōlāmbunā madhurauṣadhaiḥ drākṣādibhiśca kalkīkr̥taiḥ, siddhaṁ-pakvam| tathā, tatra bhōjanaṁ hitam| kimbhūtam ? alpaṁ paṭu-lavaṇaṁ, snēhaśca yatra tadēvam| tathā, laghu-mātrāsvabhāvābhyām| tathā, svādu-madhuram| tathā, candanōśīrayōryaḥ kalkaḥ-piṣṭō jalēnālōḍitaḥ, tēmōrustanōdaraṁ limpēt| śrēṣṭhayā vā-triphalayā vā, ūrustanōdaraṁ limpēt| kimbhūtayā ? ēṇādirudhirapiṣṭayā| tathā, aśvaghnapatrasiddhēna tailēnābhyajya-abhyaktamaṅgaṁ kr̥tvā, anantaraṁ paṭōlanimbamañjiṣṭhāsurasairmardayēt| aśvaghnaḥ-karavīraḥ| sēcayētpunaḥ-pariṣēkaṁ ca kuryāt| dārvīmadhukatōyēna-dāruharidrāmadhuyaṣṭikābhyāṁ kvathitēna jalēna, mr̥jāṁ-śuddhiṁ snānādikāṁ, śīlayēt| saṅgrahē tūktam (śā.a.3)-“pariṣēkaḥ punarmālatīmadhukasiddhēnāmbhasā| kaṇḍūyanaṁ varjayēt tvagbhēdavairūpyaparihārārtham| snānōdvartanaṁ ca śīlayēt| madhuraṁ cāhāramalpamalpasnēhalavaṇamalpōdakānupānaṁ bhuñjīta|” iti|
idānīmaṣṭamē māsi garbhasvarūpaṁ tatrētikartavyatāṁ cācaṣṭē—-
————————————————-|
ōjō’ṣṭamē sañcarati mātāputrau muhuḥ kramāt||62||
tēna tau mlānamuditau tatra jātō na jīvati|
śiśurōjōnavasthānānnārī saṁśayitā bhavēt||63||
ōjaḥ-sarvadhātūnāṁ tējaḥ kartr̥, mātāputrau karmabhūtau, sañcarati| mātā ca putraścēti dvandvaḥ| “ānaṅr̥tō dvandvē” ityānaṅādēśaḥ| kathaṁ sañcarati ? muhurmuhuḥ| kramāt-kramēṇa, kadācidgarbhiṇīmōjaḥ sañcarati kadācitputramiti| ēvaṁ [ tēna-] kadācitkēnaujaḥsañcaraṇēna, tau-mātāputrau, mlānamuditausyātām| tayā pūrvanirūpitayā garbhagarbhiṇyubhayasambaddhayā nāḍyōbhayatra sañcarattadōja ubhayasambaddhaṁ yadā garbhaṁ sañcarati tadā garbhō muditō-hr̥ṣitō, bhavēdōjaḥsampattyā, garbhiṇī ca mlānā bhavēt| yadā ca tadōjō garbhiṇīṁ sañcarati tadā tayaivōjaḥ sampattyā garbhiṇī muditā bhavēt, śiśurmlānō bhavēdōjaḥ sampattyabhāvāt| [ tatra-] tasmin kālē, śiśuḥ-bālō, jātaḥ-utpannō, na jīvati| kutaḥ ? ōjōnavasthānāt| ōjasastadānīṁ śiśāvanavasthitatvāt,-acirakālaprarūḍhatvādōjasaḥ| garbhiṇyāṁ tu na sarvamacirakālamanavasthitamōjaḥ, yathā garbhē| tasmānna tasyā nirōjastvam| ata ēvāha-nārīsaṁśayitā bhavēt,-kadācijjīvati kadācinna jīvatīti saṁśayitārthaḥ|
kṣīrapēyā ca pēyā’tra saghr̥tā’nvāsanaṁ ghr̥tam|
madhuraiḥ sādhitaṁ śuddhyai purāṇaśakr̥tastathā||64||
śuṣkamūlakakōlāmlakaṣāyēṇa praśasyatē|
śatāhvākalkitō bastiḥ satailaghr̥tasaindhavaḥ||65||
atra-aṣṭamē māsi, kṣīrasaṁskr̥tā pēyā pātavyā| kimbhūtā? saghr̥tā| tathā, anvāsanaṁ ghr̥taṁ śasyatē| kīdr̥k? madhuraiḥ-drākṣādibhiḥ, sādhitaṁ-pakvam| tathā-tēnaiva prakārēṇa, purāṇaśakr̥taḥ śuddhyarthaṁ, bastiḥ-nirūhaḥ , praśasyatē-yujyatē| tatra ca bastau kaḥ kaṣāyaḥ ? kaḥ kalkaḥ? ityāha-śuṣkamūlakēti| śuṣkamūlakādīnāṁ kaṣāyēṇa, tathā śatāhvākalkitaḥ, tathā saha tailēna ghr̥tēna saindhavēna ca|
tasmiṁstvēkāhayātē’pi kālaḥ sūtērataḥ param|
—————————————————-|66|
ēkaṁ ca tadahaścaikāham| “rājāhaḥsakhibhyaṣṭac” iti ṭac| “ahnaṣṭakhōrēva” iti ṭilōpaḥ| ēkāhēna yātō’tikrāntō’ntaritō’ṣṭamō māsaḥ-ēkāhayātaḥ, [ tasmin| ] tasmin-aṣṭamēmāsi, punarēkadivasātikrāntē’pyataḥ paraṁ sūtēḥ-prasavasya, kālō yāvadvarṣam| apiśabdādyātē tvaṣṭamē māsyataḥ paraṁ sūtēḥ kāla iti gamyatē| aṣṭamānmāsādanantaraṁ navamadaśamaikādaśadvādaśamāsān yāvat| ēṣu māsēṣu garbhō jātō dīrghāyuṣṭvādiyuktō jīvati|
—————————————————-|
varṣādvikārakārī syātkukṣau vātēna dhāritaḥ||66||
varṣādityānantaryē pañcamī| varṣāt-dvādaśamāsādanantaraṁ, garbhaḥ kukṣau vātēna dhāritō-ruddhaniṣkramaṇō, vikārakārī bhavēt vikāramavaśyaṁ karōti| garbhasya sannivēśō’pi saṅgrahē prōktaḥ, yathā (śā. a. 2)-“garbhastu mātr̥pr̥ṣṭhābhimukhō lalāṭē kr̥tāñjaliḥ saṅkucitāṅgō garbhakōṣṭhē dakṣiṇam pārśvamāśrityāvatiṣṭhatē pumān, vāmaṁ strī, madhyaṁ napuṁsakam| tatra sthitaśca garbhō mātari svapatyāṁ svapiti pratibuddhāyāṁ pratibudhyatē|” iti|
śastaśca navamē māsi snigdhō māṁsarasaudanaḥ|
bahusnēhā yavāgūrvā pūrvōktaṁ cānuvāsanam||67||
navamē māsi snigdhō māṁsarasayukta ōdanaḥ śastō-hitaḥ| athavā, pēyā bahusnēhā śastēti liṅgavipariṇāmēna sambandhaḥ| pūrvōktamanuvāsanaṁ-“ghr̥taṁ madhuraiḥ sādhitaṁ” ityādi, tacca śastam|
tata ēva picuṁ cāsyā yōnau nityaṁ nidhāpayēt|
vātaghnapatrabhaṅgāmbhaḥ śītaṁ snānē’nvahaṁ hitam||68||
tata ēva-anvāsanaghr̥tāt, picuṁ-naktakaṁ, asyāḥ-garbhiṇyāḥ, yōnau nityaṁ-sadā, nidhāpayēt-tatra sthāpayēt, vātavijayārtham| pavanēnānākrāntayōnirhi sukhaṁ garbhaṁ sūtē| tathā, vātaghnānāṁ dravyāṇāṁ patrāṇi, tēṣāṁ bhaṅgaḥ-samūhaḥ, tēna kvathitamambhaḥ śītaṁ kr̥tvā snānē’nvahaṁ-aharahaḥ, garbhiṇyai hitam| anvahamityanaścēti ṭac|
niḥsnēhāṅgī na navamānmāsātprabhr̥ti vāsayēt|
—————————————————-|69|
niḥsnēhagātrāṁ garbhiṇīṁ na vāsayēt, api tu sasnēhāṅgīṁ sthāpayēt| niḥśēṣēṇa nirastaḥ snēhō yasmādaṅgāttadēvaṁ niḥsnēhamaṅgaṁ yasyāḥ sā niḥsnēhāṅgī, tām| aṅgagātrakaṇṭhēbhyō vaktavyamitiṅīp| kutaḥ kālādārabhya ? navamānmāsātprabhr̥ti| yadyapi kālō’tra na nirdiṣṭaḥ, tathā’pi navamānmāsādārabhya sāmarthyādyāvanmuktagarbhaśalyā syāt, tāvanniḥsnēhāṅgīṁ garbhiṇīṁ na sthāpayēditi labhyatē| sasnēhāṅgadhāraṇaṁ ca tasyāḥ kupitavāyōrnityaṁ sannihitatvāt|
idānīṁ garbhiṇyā yairlakṣaṇairavyabhicāribhiḥ putraduhitr̥napuṁsakayamakaprasavō’numīyatē, tānyāha —-
————————————————|
prāgdakṣiṇastanastanyā pūrvaṁ tatpārśvacēṣṭinī||69||
punnāmadaurhr̥dapraśnaratā puṁsvapnadarśinī|
unnatē dakṣiṇē kukṣau garbhē ca parimaṇḍalē||70||
putraṁ sūtē’nyathā kanyāṁ yā cēcchati nr̥saṅgatim|
nr̥tyavāditragāndharvagandhamālyapriyā ca yā||71||
prāk-pūrvaṁ, dakṣiṇē stanē stanyaṁ-kṣīraṁ, yasyāḥ prādurbhavati sā putraṁ sūta iti sambandhaḥ| tathā, pūrvaṁ tatpārśvacēṣṭinī| taccabdēna dakṣiṇapārśvaṁ parāmr̥śyatē| tēna-dakṣiṇēna pārśvēna, cēṣṭitaṁ-gamanasvapanādikaṁ, yasyāḥ sā-tatpārśvacēṣṭinī, putraṁ sūta iti sarvatra yōjyam| tathā gacchantyāḥ pūrvaṁ dakṣiṇapādōtkṣēpaḥ, hastakaraṇīyē ca pūrvaṁ dakṣiṇēna pāṇinā cēṣṭatē, iti tatpārśvacēṣṭā bōdhyā`| punnāmētyādi| puṁliṅgōpalakṣitaṁ nāma-punnāma, daurhr̥daṁ ca praśnaśca daurhr̥dapraśnau| punnāmnōrdaurhr̥dapraśnayō ratābhiyuktā, punnāmni daurhr̥dē ratā| daurhr̥dakālē yō’bhilāṣaviśēṣō garbhiṇyāḥ sa daurhr̥daśabdavācyaḥ| tathā, punnāmni praśnē’bhiratā-punaḥ punaḥ punnāmapraśnaṁ karōti| tathā, punnāmadhēyān svapnān-puruṣagajavājivarāhādīn āmradāḍimāśōkavr̥kṣādīn vā, draṣṭuṁ śīlaṁ yasyāḥ saivam| tathā, unnatē dakṣiṇē garbhakōṣṭhākhyē kukṣau| tathā, garbhē-garbhasaṁsthānē, parimaṇḍalē-vartulē sati, putraṁ sūtē| anyathā-putraprasavasūcakāddhētōrvaiparītyē ca, kānyāṁ sūtē| yathā-prāgdakṣiṇastanastanyētyādi putraprasavasūcakaṁ lakṣaṇam, atō’nyathā prāgvāmastanastanyētyādi lakṣaṇaṁ garbhiṇyāḥ kanyāprasavasūcakam| na kēvalaṁ putraprasavalakṣaṇādviparyayēṇa kanyāṁ sūtē, yāvat yā cēcchati nr̥saṅgatim| yā ca-garbhiṇī puruṣēṇa saha saṅgatimicchati-kāmayatē, sā kanyāṁ sūtē| tathā yā ca nr̥tyādipriyā sā kanyāṁ sūtē|
idānīm ṣaṇḍhaprasavalakṣaṇamāha—-
klībaṁ tatsaṅkarē, tatra madhyaṁ kukṣēḥ samunnatam|
—————————————————-|72|
tadityanēnātra putraprasūtilakṣaṇaṁ duhitr̥prasūtilakṣaṇaṁ ca dvayamapi parāmr̥śyatē| dvayasyaitasya lakṣaṇasya saṅkarē-saṅkīrṇalakṣaṇa tāyāṁ, klībaṁ-napuṁsakaṁ garbhaṁ, sūtē| tatra-tasmin klībē garbhē kukṣisthitē, kukṣērmadhyaṁ samunnataṁ bhavati|
—————————————————-|
yamau pārśvadvayōnnāmātkukṣau drōṇyāmiva sthitē||72||
yamau dvau garbhau, garbhiṇī sūtē| kathamiti tallakṣaṇārthamāha pārśvadvayōnnāmāt,- pārśvadvayōtsēdhāt| ata ēva kukṣau-udarē, drōṇyāmiva sthitē| drōṇī-madhyanimnā, kukṣirapi pārśvadvayōnnatyā madhyanimnā bhavati|
prāk caiva navamānmāsāt sā sūtigr̥hamāśrayēt|
dēśē praśastē sambhāraiḥ sampannaṁ sādhakē’hani||73||
sā-garbhiṇī, sūtigr̥haṁ-sūtikāgāraṁ, navamānmāsātpūrvamēvāśrayēt| kutra dēśē kr̥tam ? ityāha-dēśē praśastē,-prākpravaṇa udakpravaṇē vā, vāstuvidyāvidbhiḥ parīkṣya kalpitam| kīdr̥śam ? sambhāraiḥ sampannaṁ,-sakalairupakaraṇairyuktam| tathā, sādhakē’haniśubhapuṁnakṣatrē divasē sati|
tatrōdīkṣēta sā sūtiṁ sūtikāparivāritā|
—————————————————-|74|
tatra-sūtikāgr̥hē, sthitā sūtimudīkṣēta,-ahamatra prasaviṣya iti cētasi nidhāya sā-garbhiṇī, tatrāsītētyarthaḥ| kimbhūtā ? sūtikāparivāritā,-anēkavāraprasavānubhūtatatkālōcitavyavahārakuśalābhiḥ strībhiḥ parivāritā| saṅgrahē tūktam (śā. a. 3) “bahuśaḥ prasūtābhiranuraktābhiraviṣādinībhiravisaṁvādinībhiḥklēśasahābhiḥ parivr̥tā svastyayanaparā’nulōmanairāhāravihārairanulōmitavātamūtrapurīṣā prasavakālamudīkṣēta| svalpē’pi ca viṇmūtravibandhē phalavartīḥ prayōjayēt|” iti|
idānīmāsannaprasavāyā lakṣaṇamāha —-
————————————————-|
adyaśvaḥprasavē glāniḥ kukṣyakṣiślathatā klamaḥ||74||
adhōgurutvamaruciḥ prasēkō bahumūtratā|
vēdanōrūdarakaṭīpr̥ṣṭhahr̥dvastivaṅkṣaṇē||75||
yōnibhēdarujātōdasphuraṇasravaṇāni ca|
āvīnāmanu janmātastatō garbhōdakastrutiḥ||76||
adya vā śvō vā āsannaḥ prasavaḥ, tasmin āsanna (adyaśvaḥ)-prasavē glānyādayō bhavēyuḥ, garbhiṇyā iti sambandhaḥ| glāniḥ-harṣakṣayaḥ| tathā, kukṣī cākṣiṇī ca kukṣyakṣi, tasya ślathatā śithilatvaṁ, svasthānāccalitatvamiva| tathā, klamaḥ-upatāpaḥ| tathā, adhōgurutvādīni bhavanti| tathā,ūrvādiṣu vēdanāpīḍā bhavati| tathā, yōnibhēdādayaḥ syuḥ|
ataḥ-asmādyōnibhēdādēḥ, anu-paścāt, āvīnāṁ-garbhaniṣkramaṇakālaśūlaviśēṣāṇāṁ, janma-utpādaḥ| tataḥ-anantaraṁ, garbhōdakastrutiḥ-tatkālaṁ yōnitō jalastrāvaḥ, strāvamātraḥ sa garbhōdakasaṁjñaḥ|
athōpasthitagarbhāṁ tāṁ kr̥takautukamaṅgalām|
hastasthapunnāmaphalāṁ svabhyaktōṣṇāmbusēcitām||77||
pāyayētsaghr̥tāṁ pēyāṁ—————————–|
—————————————————-|78|
atha-garbhōdakastrutēranantaraṁ, tāṁ-garbhiṇīṁ, upasthitagarbhāṁabhimukhībhūtagarbhāmāvijanmōdakasrāvādinā jñātvā, saghr̥tāṁ pēyāṁ pāyayēt| kimbhūtām ? kr̥takautukamaṅgalām| viśiṣṭakāla ēva yō rakṣābandhō bāhvādau badhyatē sa kautukavācyaḥ| kautukākhyaṁ maṅgalaṁ kautukamaṅgalam| kr̥taṁ kautukamaṅgalaṁ yasyāḥ, tām| tathā, hastasthaṁ punnāma-dāḍimādi, phalaṁ yasyāḥ, tām| tathā, suṣṭhu aktāṁ-abhyaktām| tathā, uṣṇāmbusēcitām| ityasyānantaraṁ “pāyayētpēyāṁ” iti pāṭhēnōṣṇāmbusēcanādanantaraṁ pēyāpānaṁ kāryamiti bōdhayati
————————-tanau bhūśayanē sthitām|
ābhugnasakthimuttānāmabhyaktāṅgīṁ punaḥ punaḥ||78||
adhō nābhērvimr̥dnīyātkārayējjr̥mbhacaṅkramam|
—————————————————-|79|
tanau-mr̥duni, bhūśayanē sthitāṁ mr̥dnīyāt,-na khaṭvādiśayanē sthitām| tathā cōktaṁ saṅgrahē (śā. a. 3)- “suraktārṣabhacarmapracchadē mr̥duni bhūśayanē śayānāṁ” ityādi| kutō’ṅgātprabhr̥ti viśēṣēṇa mr̥dnīyāt ? nābhēradhaḥ,-nōrdhvaṁ nābhēḥ| kimbhūtāṁ tām ? ābhugnasakthim, āsamantādbhugnē-kuṭilē, sakthnī yasyāḥ sā”bhugnasakthaḥ, tāṁ tathāvidhāṁ mr̥dnīyāt| tathā, punaḥpunarabhyaktāṅgīṁ vātakōpabhayāt| tathā, jr̥mbhō caṅkramaṁ ca tāṁ kārayēt| jr̥mbhō- jr̥mbhaṇam| caṅkramaḥ-caṅkramaṇaṁ drutagamanam|
kimēvamanuṣṭhitē sati bhavati ? ityāha—-
————————————————-|
garbhaḥ prayātyavāgēvaṁ, talliṅgaṁ hr̥dvimōkṣataḥ||79||
āviśya jaṭharaṁ garbhō bastērupari tiṣṭhati|
—————————————————-|80|
ēvaṁ-anayētikartavyatayā’nuṣṭhitayā, garbhō’vāk prayātiūrdhvādadhō gacchati, hr̥tsthānaṁ parityajyādhō’vasthitiṁ karōtītyarthaḥ| saṅgrahē tūktam (śā. a. 3)- “dadyāt kuṣṭhalāṅgalikīvacācavyacitrakaciribilvacūrṇamupāghrātuṁ muhurmuhuḥ| tathā bhūrjapatraśiṁśipāsarjarasānāmanyatamadhūmamantarāntarā ca| pārśvapr̥ṣṭhakaṭīsakthidēśān kōṣṇēna tailēnābhyajyānusukhamasyā vimr̥dgīyāt| ēvamavāk parivartatē garbhaḥ|” iti| musalēnōlūkhalaṁ dhānyapūrṇamāhananīyaṁ garbhasyāvāksthitaya iti kēcidāhuḥ| tadayuktam| yatō garbhiṇyāstāvahyāyāmavarjanaṁ satatamupadiṣṭam| viśēṣataśca prasavakālē pracalitasarvadhātudōṣāyāḥ sukumārāyānāryāḥ, musalavyāyāmaprēritō hi vāyuḥ prāṇān hiṁsyāditi| vimardanādikriyāṁ ca garbhiṇyāstāvatkārayēt yāvadgarbhaniṣkramaṇaṁ na bhavati| atha mātr̥hr̥dayānmuktō garbhaḥ kēna lakṣaṇēna jñāyatē ? ityāha-talliṅgamityādi| tadityanēna garbhaḥ parāmr̥śyatē| tasya garbhasya, liṅgaṁ-lakṣaṇaṁ, talliṅgam| garbhasyaitalliṅgaṁ yaddhr̥dvimōkṣatō hr̥dayamōcanādanantaraṁ sa garbhō jaṭharamāviśya bastērupari tiṣṭhati|
āvyō’bhitvarayantyēnāṁ khaṭvāmārōpayēttataḥ|
—————————————————-||80||
āvyaḥ-prasavakālaśūlaviśēṣāḥ, yasmādēnāṁ-garbhiṇīṁ, abhitvarayanti, anavaratamutpadyamānatvāt| tataḥtasmāt, ēnāṁ garbhiṇīṁ, khaṭvāmārōpayēt-ārōhayēt|
atha sampīḍitē garbhē yōnimasyāḥ prasārayēt|
mr̥du pūrvaṁ pravāhēta bāḍhamāprasavācca sā||81||
atha-khaṭvārōhaṇādanantaraṁ khaṭvāsthitāyā garbhē sampīḍitē samantātpīḍitē, vāyunā yōnimukhākrāntatayā, asyā garbhiṇyā yōniṁ prasārayēt-ābhyaṅgādidānēna vikāsayēt|
tataḥ sā-garbhiṇī, garbhaṁ mr̥du kr̥tvā pūrvaṁ pravāhēta, yāvadyōnimukhē nāgatō garbhaḥ| garbhaṁ yōnidvāramāgataṁ tu jñātvā bāḍhaṁbhr̥śaṁ pravāhēta, āprasavāt-prasavaṁ yāvat| tathā cōktaṁ saṅgrahē (śā. a. 3)- “śanaiḥ śanaiśca pūrvaṁ pravāhiṣṭhāḥ, nirgamē bāḍhaṁ garbhasya yōnimukhapratipattau bāḍhataramāprasavāditi|” iti| āṅmaryādā vacana ityāḍaḥ karmapravacanīyatvē pañcamyapāṅparibhiriti pañcamī|
harṣayēttāṁ muhuḥ putrajanmaśabdajalānilaiḥ|
—————————————————-|82|
tāṁ-garbhiṇīṁ, anantaraṁ [muhuḥ] harṣayēt-sumanasaṁ muhuḥ kārayēt| kēna? putrajanmaśabdēna,-prasūtā prasūtā’si subhagē dhanyaṁ putramityēvaṁrūpēṇāsakr̥t strībhiruccāritēna, tathā jalēna śītalēna, tathā’nilēna| saṅgrahē’pyuktam (śā. a. 3)- “ēnāṁ brūyācca subhagē śanaiḥ śanaiḥ pravāhayasva śōbhanastē mukhavarṇaḥ putraṁ janayiṣyasīti| tathā’nyā tu vāmakarṇē’syā mantramimaṁ japēt| ‘kṣitirjalaṁ viyattējō vāyurviṣṇuḥ prajāpatiḥ| sagarbhāṁ tvāṁ sadā pātu vaiśalyaṁ cādadhātviti|| prasūṣva tvamavikliṣṭamavikliṣṭā śubhānanē| kārtikēyadyutiṁ putraṁ kārtikēyābhirakṣitam||’ iti| tathā, ‘ihāmr̥taṁ ca sōmaśca citrabhānuśca bhāmini| uccaiḥśravāśca turagō mandirē nivasantu tē|| idamamr̥tamapāṁ samuddhr̥taṁ vai tava laghu garbhamimaṁ pramuñcatu stri| tadanalapavanārkavāsavāstē saha lavaṇāmbudharaurdiśantu śāntim||’ iti| athāparā strī garbhiṇīmanuśiṣyāt| anāgatāyāṁ vēdanāyāṁ mā pravāhiṣṭhāḥ| akālapravāhaṇaṁ hi viṇmūtrādivēgānāmivōdīraṇamanarthakaramahitaṁ ca| garbhasya śvāsakāsaśōphakubjatādikaratvāt|’ iti|
atha kiṁ harṣādyutpādanēna syāt ? ityāha—-
————————————————|
pratyāyānti tathā prāṇāḥ sūtiklēśāvasāditāḥ||82||
tathā-tēna prakārēṇa harṣādijananēna, prāṇāḥ sūtēḥ klēśāḥ-ādhayaḥ, tatkr̥tāni duḥkhāni, tairavasāditāḥ-glāniṁ nītāḥ, garbhiṇyāḥ pratyāyānti-punarnavībhavanti|
dhūpayēdgarbhasaṅgē tu yōniṁ kr̥ṣṇāhikañcukaiḥ|
hiraṇyapuṣpīmūlaṁ ca pāṇipādēna dhārayēt||83||
suvarcalāṁ viśalyāṁ vā jarāyvapatanē’pi ca|
kāryamētattathōtkṣipya bāhvōrēnāṁ vikampayēt||84||
kaṭīmākōṭayētpārṣṇyā sphijau gāḍhaṁ nipīḍayēt|
tālukaṇṭhaṁ spr̥śēdvēṇyā mūrdhni dadyātsnuhīpayaḥ||85||
bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ|
pr̥thagdvābhyāṁ samastairvā yōnilēpanadhūpanam||86||
kuṣṭhatālīsakalkaṁ vā surāmaṇḍēna pāyayēt|
yūṣēṇa vā kulatthānāṁ bālvajēnāsavēna vā||87||
garbhasya saṅgē-saktau, yōniṁ kr̥ṣṇasarpanirmōkēna dhūpayēt-dhūpanaṁ yōnau kuryāt| dhūpayēditi “gupūdhūpa” ityādinā āyapratyayaḥ, tatō vidhau liṅ| tathā, hiraṇyapuṣpīmūlaṁ pāṇinā pādēna ca sā garbhiṇī dhārayēt| athavā, suvarcalāṁ viśalyāṁ vā dhārayēt| ētat-garbhasaṅgōktaṁ, jarāyōḥ-aparākhyasya, apatanē-aniṣkrāntau, kāryaṁ-vidhātavyam| na kēvalaṁ garbhasaṅgōktaṁ kāryaṁ yāvadēnāṁ-apatitajarāyuṁ, bāhvōrdvayōrutkṣipya vikampayēt-vidhunīta| saṅgrahē tūktam (śā. a. 3)- “na cēdaparā patati tatō dakṣiṇēna pāṇinā nābhērupariṣṭādbalavadutpīḍyānyēna pr̥ṣṭhata upasaṅgr̥hya vidhunuyāt|” iti| tathā, pārṣṇyā kaṭīmākōṭayēditi punaḥ punaḥ kaṭyāṁ pārṣṇighātaṁ kuryādityarthaḥ| tathā, sphijau yutau suṣṭhu nipīḍayēt| tathā, vēṇyā-kēśaracanāviśēṣākhyayā, tālukaṇṭhaṁ spr̥śēt| saṅgrahē’pyuktam (śā. a. 3)- “vēṇyā’ṅgulyā vā kēśavēṣṭitayā vā tālukaṇṭhaṁ parāmr̥śēt|” iti| tathā, mūrdhni-mastakē, snuhīpayaḥ-sudhādugdhaṁ dadyāt| tathā bhūrjādibhirdravyaiḥ pr̥thak-pratyēkaṁ, athavā dvābhyāṁ kr̥tvā, samastairvā, yōnyā lēpanaṁ dhūpanaṁ ca kāryamiti śēṣaḥ| kuṣṭhatālīsapatrayōḥ kalkaṁ vā surāmaṇḍēna-surābhāgēnōparisthitēna, tāṁ pāyayēt| athavā, kulatthānāṁ yūṣēṇa-kvāthēna, pāyayēt| bālvajēnāsavēna vā| balvajaṁ vāriṇā āsutya rātrau dhāritaṁ tacchītakaṣāyō bālvaja āsava ucyatē| saṅgrahē’pyuktam (śā. a. 3)- “bhūrjapatrakācamaṇisarpanirmōkaiśca yōniṁ dhūpayēt| bhūrjaguggulubhyāṁ vā| śālimūlasiddhēna vā sarpiṣā yōnimabhyajya kaṭukālābujālinīnimbasarpanirmōkairdhūpayēt| anabhyaktāṁ vā kaṭutailamiśraiḥ kalkīkr̥tairvā tailāktairālimpēt| guḍanāgarakalkēna vā| tadēva vā bhakṣayēt| lāṅgalīmūlakalkēna vā pāṇipādamudaraṁ ca limpēt|” iti| tathōktam (saṁ. śā. a. 3)-“kuṣṭhailākalkaṁ vā surayā pāyayēt| arkālarkakaṣāyaṁ vā surōnmiśram| kuṣṭhalāṅgalikīmūlakalkaṁ vā madyamūtrānyatarēṇa| [ vatsakādicūrṇaṁ vā madyēna| ] śatapuṣpākuṣṭhamadanahiṅgusiddhasya ca tailasya picuṁ grāhayēt|” iti|
śatāhvāsarṣapājājīśigrutīkṣṇakacitrakaiḥ|
sahiṅgukuṣṭhamadanairmūtrē kṣīrē ca sārṣapam||88||
tailaṁ siddhaṁ hitaṁ pāyau yōnyāṁ vā’pyanuvāsanam|
śatapuṣpāvacākuṣṭhakaṇāsarṣakalkitaḥ||89||
nirūhaḥ pātayatyāśu sasnēhalavaṇō’parām|
tatsaṅgē hyanilō hētuḥ sā niryātyāśu tajjayāt||90||
śatāhvādibhirdravyaiḥ sārṣapaṁ tailaṁ mūtrē kṣīrē cōbhayasmin siddhaṁ pakvaṁ, anuvāsanaṁ hitam| kva? pāyau-gudē| athavā yōnyāṁ garbhaniṣkramaṇadvārē| tathā, śatāhvādibhirdravyaiḥ kalkitō nirūhōbastikalpōktau yaugikaḥ, saha snēhēna lavaṇēna ca vartamānaḥ, āśu śīghramēva, aparāṁ-jarāyusaṁjñāṁ, pātayati| yasmāttatsaṅgē’nilō hētuḥ-vāyuḥ, kāraṇam| tajjayāt-vātajayāt, sā-aparā, niryāti-kukṣitō bahirniṣkrāmati| pavanavijayē ca bastiḥ pradhānam| tathā cōktam (hr̥. sū. a. 19/1)-” vātōlbaṇēṣu dōṣēṣu vātē vā bastiriṣyatē|” ityādi| saṅgrahē tu garbhiṇyā āsthāpanē’nuvāsanē ca sannivēśaviśēṣa uktaḥ| yathā (śā. a. 3)- “garbhiṇīṁ tu nyubjāmāsthāpayēdanuvāsayēcca| tathā’syā vivr̥tamārgatayā samyagauṣadhamanupraviśati|” iti|
kuśalā pāṇinā’ktēna harētklr̥ptanakhēna vā|
—————————————————-|91|
athavā kuśalā-tadvyāpāranipuṇā yōṣit, pāṇinā sarpiṣā’bhyaktēna tāṁ harēt| kimbhūtēna pāṇinā ? klr̥ptanakhēna, klr̥ptāḥ-kalpitāḥ śastrēṇa, nakhā yasya tēna, tathāvidhēna pāṇinā nālānusārata ākarṣēt| saṅgrahē’pyuktam (śā. a. 3)- “[ umā ] śālmalīpicchayā vā saghr̥tayā yōniṁ pūrayitvā vidhunuyāt|” iti|
—————————————————-|
muktagarbhāparāṁ yōniṁ tailēnāṅgaṁ ca mardayēt||91||
garbhaścāpārā ca garbhāparam, muktaṁ garbhāparaṁ yayā yōnyā, tāṁ yōniṁ tailēna mardayēt| aṅgaṁ-śarīraṁ ca, mardayēt|
makkallākhyē śirōbastikōṣṭhaśūlē tu pāyayēt|
sucūrṇitaṁ yavakṣāraṁ ghr̥tēnōṣṇajalēna vā||92||
dhānyāmbu vā guḍavyōṣatrijātakarajōnvitam|
—————————————————-|93|
makkallākhyē rōga utpannē śirōbastikōṣṭhaśūlalakṣaṇē sati yavakṣāraṁ sūkṣmacūrṇitaṁ ghr̥tēnāthavōṣṇajalēna tāṁ sūtāṁ pāyayēt| dhānyāmbu vā tāṁ pāyayēt| kimbhūtam ? guḍavyōṣatrijātakarajōnvitam| guḍa iti sāmānyōktāvapi purāṇō’tra guḍō grāhyaḥ, pathyatvāt| makkallākhyō-rōgaḥ| śirōbastikōṣṭhaśūla iti lāghavēna tantrakr̥tā’sya lakṣaṇamuktam|
—————————————————-|
atha bālōpacārēṇa bālaṁ yōṣidupācarēt||93||
atha bālaṁ-jātamātramēva, upācarēt-upapādayēt| kā ? yōṣit,-bahukr̥tvaḥ prasūtā, na pumān| kēna ? bālōpacārēṇa, bālōpacaraṇīyōktēnāhāravihārādinā|
sūtikā kṣudvatī tailāddhr̥tādvā mahatīṁ pibēt|
pañcakōlakinīṁ mātrāmanu cōṣṇaṁ guḍōdakam||94||
vātaghnauṣadhatōyaṁ vā, tathā vāyurna kupyati|
viśudhyati ca duṣṭāsraṁ dvitrirātramayaṁ kramaḥ||95||
sūtikā kṣudvatī-bubhukṣitā satī, tailādathavā ghr̥tānmahatīṁ mātrāṁ pibēt| kimbhūtām ? pañcakōlakaṁ vidyatē yasyā mātrāyāstāṁ pañcakōlakinīm| sūkṣmacūrṇīkr̥tapañcakōlakayuktāṁ tāṁ mātrāṁ pibēdityarthaḥ| aṣṭābhiryāmairyā jarāṁ gacchati sā snēha mātrā mahatī| anu cōṣṇaṁ guḍōdakaṁ pibēditi yōjyam| vātaharadravyakvāthaṁ vā paścātpibēt| tathā-ēvaṁ kr̥tē sati, vāryuna kupyati-na kōpaṁ yāti śūnyaṁ kōṣṭhaṁ prāpya| duṣṭaṁ raktaṁ ca viśudhyati| ayaṁ-ēṣaḥ, kramō dvirātraṁ trirātraṁ vā yathāyōgaṁ kāryaḥ|
snēhāyōgyā tu niḥsnēhamamumēva vidhiṁ bhajēt|
pītavatyāśca jaṭharaṁ yamakāktaṁ vivēṣṭayēt||96||
snēhapānāyōgyā tu strī-yā snēhaṁ nārhati sā, niḥsnēhaṁ-snēhaṁ vinā, amumēva-pūrvōktaṁ vidhiṁ, bhajēt| pītavatyāśca tasyā jaṭharaṁ yamakāktaṁ-tailaghr̥tābhyāmabhyaktaṁ, vivēṣṭayēdvāsasēti śēṣaḥ| pītavatyā ityaviśēṣanirdēśaḥ kadācit snēhayōgyā snēhaṁ pītavatī, snēhāyōgyā tūṣṇaṁ guḍōdakaṁ pītavatī, athavā vātaghnauṣadhatōyaṁ pītavatī, iti sāmānyēna yō nirdēśastasyārthaḥ|
jīrṇē snātā pibētpēyāṁ pūrvōktauṣadhasādhitām|
tryahādūrdhvaṁ vidāryādivargakvāthēna sādhitā||97||
hitā yavāgūḥ snēhāḍhyā sātmyataḥ payasā’thavā|
saptarātrātparaṁ cāsyai kramaśō br̥ṁhaṇaṁ hitam||98||
dvādaśāhē’natikrāntē piśitaṁ nōpayōjayēt|
—————————————————-|99|
snēhē jīrṇē kavōṣṇaguḍōdakē vātaghnauṣadhatōyē vā, anantaraṁ snātā satī pūrvōktauṣasādhitāṁ-pañcakōlakr̥tāṁ, pēyāṁ pibēt| tryahādūrdhvaṁ-anantaraṁ, vidāryādivargōktauṣadhaiḥ siddhā yavāgūḥ- pēyā,snēhāḍhyā hitā| athavā sātmyataḥ-sātmyavaśāt, payasā-kṣīrēṇa sādhitā, yavāgūrhitā| saptarātrātparaṁ-anantaraṁ, kramaśō-na sahasā, tasyai br̥ṁhaṇaṁ hitam| br̥ṁhaṇaṁ ca jīvanīyabr̥ṁhaṇīyamadhuravargasiddhairabhyaṅgōdvartanapariṣēkāvagāhanairhr̥dyaiścānnapānairvidhātavyam|
dvādaśāhē’natikrāntē-aparisamāptē, piśitaṁ-māsaṁ, nōpayōjayēt-nābhyavahārayēt, skandādidvādaśagrahābhiṣaṅgaparihārārtham| māṁsabhōjanēna hi kadācittairabhiṣaṅgō bhavēt, tēṣāṁ māṁsādatvāt|
—————————————————-|
yatnēnōpacarētsūtāṁ duḥsādhyō hi tadāmayaḥ||99||
garbhavr̥ddhiprasavarukklēdāsrasrutipīḍanaiḥ|
—————————————————-|100|
sūtāṁ strīṁ yatnēna-tātparyēṇa, upacarēt-upakramēt| kutō hētōḥ ? ityāha-hi-yasmāt, tasyā āmayō-rōgō duḥsādhyaḥ-kr̥cchrēṇōpakramyaḥ| kimiti kr̥cchrasādhyaḥ ? ityāha-garbhētyādi| vr̥ddhiśca prasavaśca vr̥ddhiprasavau, garbhasya vr̥ddhiprasavau ca ruk ca klēdāsrasrutiśca pīḍanaṁ ca garbhavr̥ddhiprasavarukklēdāsrasrutipīḍanāni, tairhētubhūtaistadāmayō duḥsādhyaḥ| ruk-pravāhavēdanā|
—————————————————-|
ēvaṁ ca māsādadhyardhānmuktāhārādiyantraṇā|100|
gatasūtābhidhānā syātpunarārtavadarśanāt|
100 1/2|
iti śrīvaidyapatisiṁhaguptasūnuśrīmadvāgbhaṭaviracitā-
yāmaṣṭāṅgahr̥dayasaṁhitāyāṁ dvitīyē śārīrasthānē
garbhāvakrāntirnāma prathamō’dhyāyaḥ|1|
ēvaṁ-anēna prakārēṇa, sārdhaṁ māsamupaskr̥tā kramēṇa muktāhāravihārayantraṇā syāt| adhyardhamāsātparēṇa gatasūtābhidhānāvyapētaprasūtivyapadēśā, punarārtavadarśanādbhavēt| saṅgrahē tūktam (śā. a. 2)- “jarāyuṇā mukhē channē kaṇṭhē ca kaphavēṣṭitē| vāyōrmārganirōdhācca na garbhasthaḥ prarōditi||” iti|
itiśrīmr̥gāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahr̥daya-
ṭīkāyāṁ sarvāṅgasundarākhyāyāṁ dvitīyē śārīrasthānē garbhā-
vakrāntirnāma prathamō’dhyāyaḥ samāptaḥ|| 1||