ebooks-esamhita-evagbhata-ehrudayam-sutrasthana-doshadivijnaneeya-adhyaya

Devanagari Version

श्रीमद्वाग्भटविरचितम्

अष्टाङ्गहृदयम्

श्रीमदरुणदत्तविरचितया 'सर्वाङ्गसुन्दराख्या' व्याख्यया हेमाद्रिप्रणीतया 'आयुर्वेदरसायनाह्वया' टीकया च समुल्लसितम्

सूत्रस्थानम् - ११. दोषादिविज्ञानीयाध्यायः

रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते| यतो “दोषभेषजवशादुपयोज्याः” इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते-


रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते|
यतो “दोषभेषजवशादुपयोज्याः” इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते – – – –

अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे||२||


स०-दोषा आदयो येषां ते-दोषादयः, तेषां विज्ञानं-प्राकृतेन वैकृतेन च स्वरूपेणा ९ वगमः, तस्मै हितो यः, तमध्यायं व्याख्यास्यामः| आदिशब्देन धातवो मलाश्च सङ्ग्रह्यन्ते| तत्स्वरू १० पावगमेन च त एव दोषाः सम्यग्ज्ञाता भवन्ति| धातूनां मलानां च दोषाधारभूतत्वात्|


आ० र०-हेतुस्कन्धानन्तरं लक्षणस्कन्धमारभते| तत्र दोषादिविज्ञानीयमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| दोषादिविज्ञानाधीनत्वाल्लक्षणस्य| दोषदूष्यवैषम्यं च रोगलक्षणम्| वैषम्यज्ञानं च साम्यज्ञानाधीनम्| अत एवादौ साम्यज्ञानम्|

दोषधातुमला मूलं सदा देहस्य–|
———————————-|१|


स०-दोषाः-वातादयः, धातवो-रसादयः, मलाः-मूत्रादयः, ते देहस्य मूलमिव मूलम्| यथा,-वृक्षस्य स्कन्धशाखादियुक्तस्य मूलं प्रधानम्, तदारब्धत्वात्| तथा,-देहस्य दोषधातुमलाः|


आ० र०-तत्र साम्यफलमाह-दोषधातुमला इति| दोषा-वातादयः| धातवो-रसादयः| मलाः-पुरीषादयः| मूलं-कारणम्| सदा-सर्वासु जन्माद्यवस्थासु| समा इति प्रकरणाल्लभ्यते|

——————————–तं चलः|
उत्साहोच्छ्वासनिश्वासचेष्टावेगप्रवर्तनैः||१||
सम्यग्गत्या च धातूनामक्षाणां पाटवेन च|
अनुगृह्णात्यविकृतः, पित्तं पक्त्यूष्मदर्शनैः||२||
क्षुत्तृड्रुचिप्रभामेधाधीशौर्यतनुमार्दवैः|
श्लेष्मा स्थिरत्वस्निग्धत्वसन्धिबन्धक्षमादिभिः||३||


स०-तं च-देहं, चलो-वायुः, उत्साहादिभिरनुगृह्णाति-उपकुरुते| उत्साहः-सर्वचेष्टासूद्योगः, उच्छ्वासः-ऊर्ध्वं श्वसनं श्वासमुक्तिः, निश्वासः-श्वासस्य शरीरान्तः प्रवेशनम्, चेष्टनं-चेष्टा वाक्कायमनोव्यापारः, वेगानां प्रवर्तनं-वातविण्मूत्रादीनां बहिर्निरसनम्, एतैश्च मारुतो देहमनुगृह्णाति| पित्तं पक्त्यादिभिरनुगृह्णाति| पक्तिः-पाकः| ऊष्मा-औष्ण्यम्| दर्शनं-दृष्टिः| मेधा-बुद्धिविशेषः| धीः-प्रज्ञा| शौर्यं-पौरुषम्| तनुमार्दवं-शरीरमृदुत्वम्| श्लेष्मा स्थिरत्वादिभिरनुगृह्णाति| क्षमा-क्षान्तिः|


आ० र०-वायोः साम्यं लक्षयति-तं चल इति| तं-देहम्| चलो-वायुः| उत्साहः-अध्यवसायः| उच्छ्वासः-श्वासनिर्गमः| निश्वासः-श्वासप्रवेशः| चेष्टा-गमनादिक्रिया| वेगप्रवर्तनं-विण्मूत्रादिप्रवृत्तिः| धातूनां सम्यग्गतिः-मार्गेणाद्रुतविलम्बितसञ्चारः| अक्षाणां पाटवं-इन्द्रियाणां विषयग्रहणसामर्थ्यम्| अनुगृह्णाति-उपकरोति| अविकृतः-समः|

पित्तस्य साम्यं लक्षयति-पित्तमिति| पक्तिः-पाकः| ऊष्मा-औष्ण्यम्| दर्शनं-चाक्षुषज्ञानम्| क्षत्-बुभुक्षा| तृट्-पिपासा| रुचिः-प्रीतिः| प्रभा-कान्तिः| मेधा-ज्ञानधारणम्| धीः-ज्ञानम्| शौर्यं-बलम्| तनुत्वं-अस्थूलत्वम्| मार्दवं-सौकुमार्यम्|

श्लेष्मणः साम्यं लक्षयति-श्लेष्मेति| स्थिरत्वं-दृढाङ्गत्वम्| स्निग्धत्वं-स्नेहाक्तत्वमिव| सन्धिबन्धः-सुश्लिष्टसन्धित्वम्| क्षमा-सहिष्णुत्वम्| आदिशब्दादलौल्यादयः| “तमनुगृह्णात्यविकृतः” इति वाक्यद्वयेऽनुवर्तते|

इदानीं धातूनां कर्माण्याह – – – –

प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे|
गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम्||४||


स०-प्रीणनादीनि कर्माणि रसादीनां क्रमात्-क्रमेण श्रेष्ठानि स्मृतानि, मुनिभिरिति शेषः| सङ्ग्रहोक्तानि मध्यमान्यपराणि कर्माण्येषां सन्त्येव| यथा,-रसस्य तुष्टिरक्तपुष्ट्यादिकं कर्म, रक्तस्य च वर्णप्रसादो मांसपोषणम्, मांसस्य बलं मेदःपुष्टी च मेदसः स्वेददार्ढ्यास्थिपुष्टयश्च, अस्थ्नो मज्जपोषणम्, मज्ज्ञो बलमस्थिपूरणं शुक्रपुष्टिश्च, शुक्रस्य हर्षो बलं च, एतैर्धातवो देहमनुगृह्णन्तीत्यर्थः| प्रीणनं-आप्यायनम्| रसो हि सम्यगभ्यवहरतः स्रोतांसि प्रविश्येन्द्रियप्रसादमभिनिर्वर्तयन् मनसः प्रीतिमादधाति| जीवनं-ओजोवृद्धिकरम्, रक्तकर्म| लेपः-उपदेहो, मांसस्य कर्म| तदुपलिप्तान्यस्थीनि चेष्टां क्षमन्ते| स्नेहो-नेत्रादिषु स्निग्धता, मेदसः कर्म| धारणं-ऊर्ध्वधारणम्, अस्थिकर्म| पूरणं-स्नेहेनास्थ्नाम्, मज्ज्ञः कर्म| शुक्रस्य गर्भोत्पत्तिः, श्रेष्ठं कर्मेति योज्यम्|


आ० र०-धातूनां साम्यं लक्षयति-प्रीणनमिति| प्रीणनं-तृप्तिः, अविकृतस्य रसस्य श्रेष्ठं कर्म| जीवनं-प्राणधारणम्, रक्तस्य| लेपो-भित्तेर्मृत्तिकयेव, मांसस्य| स्नेहः स्निग्धत्वम्, मेदसः| धारणं-अवलम्बनम्, अस्थ्नः| पूरणं-अस्थिपूरणम्, मज्ज्ञः| गर्भोत्पादः शुक्रस्य| श्रेष्ठग्रहणादन्यान्यप्युत्तरधातुपुष्ट्यादीनि सन्तीति ज्ञापयति|

इदानीं मलानां कर्माण्याह – – – –

अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्|
स्वेदस्य क्लेदविधृतिः———————|५|


स०-अवष्टम्भो-देहधारणशक्तिः, श्रेष्ठं कर्म पुरीषस्य स्मृतम्| मूत्रस्य क्लेदवाहनं श्रेष्ठं कर्म, मूत्रं क्लेदं निर्वाहयति| स्वेदस्य क्लेदविधारणं श्रेष्ठं कर्म, क्लेदाभावे हि शोषः स्यात्, मध्यमत्वक्ऽऽस्नेहकचरोमधारणमपि|


आ० र०-पुरीषस्य साम्यं लक्षयति-अवष्टम्भ इति| अवष्टम्भो-धारणम्|

मूत्रस्य साम्यं लक्षयति-मूत्रस्येति| क्लेदवाहनं-क्लेदस्य बहिर्निर्गमनम्|

स्वेदस्य साम्यं लक्षयति-स्वेदस्येति| केशविधृतिः-रोम्णामवलम्बनम्| “श्रेष्ठं कर्म” इति वाक्यत्रयेऽनुवर्तते| तेन अनिलानलधारणबस्तिपूरणक्लेदधारणादीन्यन्यान्यपि कर्माणि ज्ञेयानि|

———————————————-|
——————वृद्धस्तु कुरुतेऽनिलः||५||
कार्श्यकार्ष्ण्योष्णकामत्वकम्पानाहशकृद्ग्रहान्|
बलनिद्रेन्द्रियभ्रंशप्रलापभ्रमदीनताः||६||


स०-वृद्धः पुनर्वायुः कार्श्यादीन् करोति| बलादीनां भ्रंशेन सम्बन्धः| बलस्य प्राणोपघातो भ्रंशः| निद्रायास्तु नाशो भ्रंशः|


आ० र०-अथ वैषम्यज्ञानम्| तत्तु पञ्चधा| वक्ष्यति-हि (हृ. नि. अ. १/२)- “निदानं पूर्वरूपाणिरूपाण्युपशयस्तथा| सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम्||” इति| तत्रादौ रूपम्, तस्यान्तरङ्गत्वात्| पूर्वरूपं तु रूपमेवाव्यक्तम्| वक्ष्यति हि (हृ. नि. अ. १/६)- “लिङ्गमव्यक्तमल्पत्वाव्द्याधीनां तद्यथायथम्| तदेव व्यक्ततां यातं रूपमित्यभिधीयते||” इति| वैषम्यं च द्विधा,-वृद्धिक्षयभेदात्| तत्रादौ वृद्धिलक्षणम्| तत्र वायोराः-वृद्ध इति| कार्श्यं-कृशत्वम्| कार्ष्ण्यं-कृष्णवर्णत्वम्| उष्णकामत्वं-उष्णाभिलाषः| कम्पो-वेपथुः| आनाहः-बद्धोदरता| शकृद्ग्रहः-पुरीषरोधः| बलादीनां भ्रंशो-नाशः| प्रलापः-असम्बद्धप्रलापः| भ्रमः-चक्ररूढस्येव| दीनता- म्लानत्वम्|

पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्पनिद्रताः|
पित्तम्——————————–|७|


स०-पीतस्य विडादिभिस्त्वगन्तैः सम्बन्धः, ततः क्षुदादिभिर्द्वन्द्वः, ततस्तलप्रत्ययः| पित्तं वृद्धं पीतविण्मूत्रादीन् करोति|


आ० र०-पित्तस्याह-पीतविण्मूत्रेति| विण्मूत्रनेत्रत्वचां पीतत्वम्| क्षुत्तृषाविह तीव्रे ज्ञेये, समयोः स-लक्षणत्वात्| दाहः-सन्तापः| अल्पनिद्रता-निद्राल्पत्वम्|

———————————————–|
——-श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम्||७||
श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः|
———————————————–|८|


स०-श्लेष्मा वृद्धोऽग्निसादादीन् करोति| श्वैत्यं- गात्रशुक्लता| शैत्यं-अङ्गानां शिशिरत्वम्|


आ० र०-श्लेष्मण आह-श्लेष्मेति| अग्निसदनं-अग्निमान्द्यम्| प्रसेको-लालास्रावः| आलस्यं-अनुत्साहः| गौरवं-दुर्वहाङ्गत्वम्| श्वैत्यं-शुक्लत्वम्| शैत्यं-शीतस्पर्शत्वम्| श्लथाङ्गत्वं-अवयवशैथिल्यम्| श्वासकासौ-रोगौ| अतिनिद्रता-निद्राधिक्यम्|

————————————————–|
रसोऽपि श्लेष्मवत्—————————–|८|


स०-रसश्च श्लेष्मवत्, रसोऽपि वृद्धोऽग्निसादादीन् विदधातीत्यर्थः|


आ० र०-रसस्याह-रसोऽपीति| श्लेषमवदग्निसादादीन् करोति| अपिशब्दोऽन्यानष्यतिदेशान् सूचयति| तेन रक्तं पित्तवत्, मांसमेदसी श्लेष्मवत्|

———————————————-|
————–रक्तं विसर्पप्लीहविद्रधीन्||८||
कुष्ठवातास्रपित्तास्रगुल्मोपकुशकामलाः|
व्यङ्गाग्निनाशसम्मोहरक्तत्वङ्नेत्रमूत्रताः||९||


स०-रक्तं वृद्धं विसर्पादीन् करोति| उपकुशो नाम दन्तरोगजातिः, उत्तरतन्त्रे (अ. २१|२१) वक्ष्यमाणलक्षणा|


आ० र०-रक्तस्याह-रक्तमिति| वीसर्पादयो व्यङ्गान्ताः रोगाः| तत्रोपकुशो-दन्तमांसजरोगः| व्यङ्गं-क्षुद्ररोगविशेषः| सम्मोहो-मूर्च्छा| त्वङ्नेत्रमूत्राणां रक्तत्वम्|

मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः|
कण्ठादिष्वधिमांसं च——————–|१०|


स०-मांसं वृद्धं गण्डादीन् रोगान् करोति| गण्डशब्देन गण्डमाला गलगण्डश्च गृहीतौ, आद्यन्तलोपात्| इतरश्च गण्डो गण्डमांसाढ्यात्| गण्डश्चार्बुदं च ग्रन्थिश्च गण्डार्बुदग्रन्थयः| गण्डौ च ऊरू चोदरं च तेषां वृद्धिता| ततो द्वन्द्वः| ताः करोति| वृद्धिता-वृद्धित्वम्| कण्ठादिष्वधिकं मांसं च कुरुते| आदिशब्देन तालुजिह्वादिपरिग्रहः|


आ० र०-मांसस्याह-मांसमिति| गण्डादयो रोगाः| गण्डो-गलगण्डादिः| गण्डयोरूर्वोरुदरे च वृद्धता-स्थौल्यम्| कण्ठादिषु-कण्ठतालुजिह्वादिषु| अधिमांसं-मांसस्योपरि मांसम्|

————————-तद्वन्मेदस्तथा श्रमम्||१०||
अल्पेऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम्|
—————————————————|११|


स०- मेदोऽपि वृद्धं गण्डादीन् कुरुते| तथाल्पेऽपि चेष्टिते श्रमं कुरुते, श्वासं च| तथा, स्फिजोः स्तनयोरुदरस्य च लम्बनं कुरुते|


आ० र०-मेदस आह-तद्वदिति| तद्वत्-मांसवत्| तथा, अल्पेऽपि चेष्टिते श्रमश्वासौ| स्फिगादीनां लम्बनम्| स्फिजौ-कटिप्रोथौ|

—————————————————–|
अस्थ्यध्यस्थ्यधिदन्तांश्च————————|११|


स०-अस्थि वृद्धमध्यस्थ्यधिहन्तांश्च कुरुते|


आ० र०-अस्थ्न आह-अस्थीति| अध्यस्थि-अधिकमस्थि| अधिदन्ताः-अधिका दन्ताः|

————————–मज्जा नेत्राङ्गगौरवम्||११||
पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च|
————————————————–|१२|


स०-मज्जा वृद्धो नेत्रयोरङ्गानां च गौरवं कुर्यात्| कुरुत इति प्रकृते कुर्यादित्युक्तं स्पष्टार्थम्| पर्वसु-अङ्गुल्यादिसन्धिषु, अरूंषि-पिटिकाविशेषान्, कुर्यात्| कीदृशानि ? स्थूलमूलानि,-स्थूलानि मूलानि येषां तानि| तथा, कृच्छ्राणि-कृच्छ्रसाध्यानि|


आ० र०-मज्ज्ञ आह-मज्जेति| अङ्गगौरवेणैवाक्ते नेत्रगौरवे नेत्रग्रहणमतिशयार्थम्| पर्वसु-सन्धिषु| स्थूलमूलानि-मूलप्रदेशे स्थूलानि| कृच्छ्राणि-कष्टसाध्यानि| अरूंषि-व्रणान्|

————————————————|
अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि||१२||


स०-शुक्रं वृद्धमतिस्त्रीकामतां कुर्यात्, शुक्राश्मरीं च| अपिशब्दाद्बलस्नेहाद्यपि|


आ० र०-शुक्रस्याह-अतीति| अतिस्त्रीकामता-पुनः पुनः स्त्रीसङ्गेच्छा| शुक्राश्मरी-रोगः|

कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्|
———————————————-|१३|


स०-शकृत्-पुरीषं, वृद्धं कुक्षावाध्मानादीन् कुर्यात्| कुर्यादिति सम्भावनायां लिङ्| आध्मानं-आनाहः| आटोपः-अन्त्रकूजनादि| [गौरवं-गुरुत्वम्, वेदनां च कुक्षौ|]


आ० र०-शकृत आह-कुक्षाविति| कुक्षौ-उदरे, आध्मानादीनि| आध्मानं-वातेनोदरपूरणम्| आटोपो-गुडगुडाशब्दः| गौरवं-दुर्वहत्वम्| वेदनां-शूलम्| शकृत्-पुरीषम्|

—————————————————|
मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्||१३||


स०-मूत्रं वृद्धं बस्तेर्निस्तोदं-अतिव्यथां कुर्यात्| तथा कृतेऽपि मूत्रेऽकृतसंज्ञतां-अकृताभासत्वमिव कुर्यात्|


आ० र०-मूत्रस्याह-मूत्रमिति| बस्तिनिस्तोदो-बस्तिदेशे व्यथा| कृतमपि मूत्रोत्सर्गमकृतमिव मन्यते|

स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः——————|
————————————————-|१४|


स०-स्वेदो वृद्धोऽतिस्वेदादीन् कुर्यात्|


आ० र०-स्वेदस्याह-स्वेद इति| अतिस्वेदः-स्वेदाधिक्यम्| दौर्गन्ध्यं-दुर्गन्धता| कण्डूः-कच्छूः|

—————————एवं च लक्षयेत्|
दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः||१४||


स०-एवं-अनेन प्रकारेण, दूषिकादीनपि मलान् लक्षयेत्-अनुमिनुयात्| दूषिका-अक्षिमलः| आदिशब्दात् घ्राणकर्णनासामलादीनां ग्रहणम्| कथं लक्षयेत् ? इत्याह-बाहुल्येत्यादि| मलबाहुल्येन तत्स्थानगौरवेण च| आदिग्रहणात्कण्डूक्लेदादयो गृह्यन्ते|


आ० र०-दूषिकादीनाह-एवं चेति| दूषिका-नेत्रमलः| आदिशब्दात् कर्णमलादयः| एवमिति यथा| स्वाधिक्यस्वाशयगौरवादिभिः पुरीषादयो वृद्धा लक्ष्यन्ते| आदिशब्दात् स्वाशयव्यथादयः|

वृद्धानां वातादीनां लिङ्गान्यभिधाय, क्षीणानां वातादीनां लिङ्गान्याह – – – –

लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम्|
संज्ञामोहस्तथा श्लेष्मवृद्धयुक्तामयसम्भवः||१५||


स०-अनिले क्षीणे-स्वप्रमाणापचिते, वक्ष्यमाणानि लिङ्गानि| वायोस्तु सर्वक्षये देह एव न स्यात्, कस्य तल्लिङ्गं स्यात्| किं पुनस्तल्लिङ्गम् ? इत्याह-अङ्गस्येत्यादि| अङ्गस्य सादः-क्रियास्वसामर्थ्यम्| ईहितं-चेष्टितम्, कायिकं कर्म| भाषितं चेहितं च भाषितेहितम्,-अल्पवचनाऽल्पचेष्टितत्वं च स्यात्| तथा, संज्ञामोहः-संविदोऽभावः| तथा, श्लेष्मवृद्धौ य उक्ताः-अग्निसादप्रसेकादयः, तेषामामयानां सम्भवो भवति|


आ० र०-अथ क्षयलक्षणम्| तत्र वायोराह-लिङ्गमिति| अङ्गस्य सादः-श्रान्तत्वमिव| भाषितेहितमल्पम्| भाषितं-वाचिकं कर्म| ईहितं-कायिकम्| संज्ञा-बुद्धिः, तस्या मोहोविवेचनाक्षमत्वम्| श्लेष्मवृद्धयुक्तमयाः-अग्निसदनादयः|

पित्ते मन्दोऽनलः शीतं प्रभाहानिः————|
———————————————-|१६|


स०-लिङ्गं क्षीणे इत्यनुवर्तते| पित्ते क्षीणे लिङ्गमेतत्| अग्निर्मन्दः शीतं कान्तिहानिश्च स्यात्|


आ० र०-पित्तस्याह-पित्त इति| मन्दोऽनलः-अग्निमान्द्यम्| शीतं-हिमस्पर्शेनेव दुःखम्| प्रभाहानिः-कान्तिनाशः|

——————————————कफे भ्रमः|
श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसन्धिता||१६||


स०-कफे क्षीणे भ्रमो भवति| तथा, श्लेष्माशयानां शून्यत्वं भवति| श्लेष्माशयाः-उरःशिरःसन्ध्याद्याः| [तथा, हृद्द्रावादयः स्युः| हृद्द्रवः-हृदि कम्प इत्यर्थः|]


आ० र०-कफस्याह-कफ इति| भ्रमः-चक्रारूढस्येव| श्लेष्माशयानां-उरःप्रभृतीनाम्| शून्यत्वं-रिक्तत्वम्| हृद्द्रवः-अनुकम्पयेव पीडा हृदयस्य| श्लथसन्धिता-सन्धिशैथिल्यम्|

रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुता|
—————————————————–|१७|


स०-रसे क्षीणे रौक्ष्यादयः स्युः|


आ० र०-रसस्याह-रस इति| रौक्ष्यं-स्नेहाभावः| श्रमः-श्रान्तत्वम्| शोषो-मुखादीनाम्| ग्लानिः-क्लमः| शब्दासहिष्णुता-शब्दश्रवणद्वेषः|

———————————————–|
रक्तेऽम्लशिशिरप्रीतिशिराशैथिल्यरूक्षताः||१७||


स०-रक्ते क्षीणेऽम्लाद्यभिलाषादयः स्युः|


आ० र०-रक्तस्याह-रक्त इति| अम्लशीतयोरभिलाषः| शिराणां शैथिल्यम्| रूक्षता_शरीरस्य|

मांसेऽक्षग्लानिगण्डस्फिक्ऽऽशुष्कतासन्धिवेदनाः|
————————————————–|१८|


स०-मांसे क्षीणेऽक्षग्लानिः, गल्लयोः स्फिजोश्च शुष्कत्वम्, सन्धीनां वेदनाः स्युः, स्फुटन्तीव सन्धय इत्यर्थः|


आ० र०-मांसस्याह-मांस इति| अक्षग्लानिः-इन्द्रियदौर्बल्यम्| गण्डयोः स्फिजोश्च शुष्कता| सन्धीनां व्यथा|

—————————————————|
मेदसि क्षीणे कट्याः प्लीह्नो वृद्धिः कृशाङ्गता||१८||


स०-मेदसि क्षीणे कट्याः स्वापः प्लीहवृधिः कृशाङ्गत्वं च|


आ० र०-मेदस आह-मेदसीति| कठ्याः स्वपनंस्पर्शाज्ञत्वम्| प्लीह्नो वृद्धिः| इतरेषामङ्गानां कार्श्यम्|

अस्थ्न्यस्थितोदः शदनं दन्तकेशनखादिषु|
———————————————-|१९|


स०-अस्थ्नि क्षीणेऽस्थ्नां तोदो भवति| शदनं-शातः, पात इत्यर्थः| केषाम् ? दन्तादीनाम्|


आ० र०-अस्थ्न आह-अस्थ्नीति| अस्थितोदः-अस्थ्नां व्यथा| दन्तादीनां शदनं-शातः| आदिशब्दाद्रोमादयः|

————————————————-|
अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्||१९||


स०-मज्जनि क्षीणेऽस्थ्नां सौषिर्यं भ्रमादिश्च|


आ० र०-मज्ज्ञ आह-अस्थ्नमिति| अस्थ्नां सौषिर्यं सरन्ध्रत्वम्| भ्रमः-चक्रारूढस्येव| तिमिरदर्शनं-सर्वस्यैव वस्तुनस्तमोरूपत्वेनावभासः|

शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा|
तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूमायतीव च||२०||


स०-शुक्रे क्षीणे शुक्रं चिरात् प्रसिच्येत, रक्तं वा| प्रसिच्येतेति कर्मकर्तरि| वृषणयोरतिशयेन तोदो-व्यथा स्यात्| मेढ्रं-शिश्नं, धूमायतीव च| धूमायतीति लोहितादेराकृतिगणत्वात् क्विप्, अकृत्सार्वधातुकेत्यादिना दीर्घः|


आ० र०-शुक्रस्याह-शुक्र इति| शुक्रं सम्भोगे चिरात् प्रसिच्येत, शोणितमेव वा| प्रसिच्येत-स्रवेत्| वृषणयोरत्यर्थं वेदना| मेढ्रं धूमायति| लोहितादिक्यषन्तात् परस्मैपदम्|

पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव|
कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम्||२१||


स०-पुरीषे क्षीणे वायुः कुक्षौ भ्रमति| अन्त्राणि वेष्टयन्निव शब्दं जनयन् यात्यूर्ध्वम्| किं कुर्वन् ? हृत्पार्श्वे भृशं पीडयन्|


आ० र०-पुरीषस्याह-पुरीष इति| अन्त्राणि वेष्टयन्निव सशब्दो वायुः कुक्षौ भ्रमति, कदाचित् हृदयपार्श्वे पीडयन्नूर्ध्वं याति|

मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा|
—————————————————|२२|


स०- मूत्रे क्षीणेऽल्पं मूत्रयेत्, कृच्छ्राद्विवर्णं सरक्तमेव वा|


आ० र०-मूत्रस्याह-मूत्र इति| अल्पं मूत्रं कृच्छ्रान्मूत्रयेत्| तच्च विवर्णं-रक्तमिश्रवर्णाभं, रक्तमिश्रमेव वा| एवकारेण रक्तवर्णाभासत्वं व्यावर्त्यते| अत एव विवर्णशब्देन तल्लभ्यते|

—————————————————|
स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः||२२||


स०-स्वेदे क्षीणे रोम्णां च्युतिः-शातः, रोम्णां च स्तब्धत्वम्| त्वचः-चर्मणः, स्फुटनं-दरणम्|


आ० र०-स्वेदस्याह-स्वेद इति| केषांचिद्रोम्णां च्युतिः, केषांचित् स्तब्धता| त्वचः स्फुटनं-विदारणम्|

इदानीं घ्राणादिमलानामपि सामान्येनक्षयलिङ्गमाह – – – –

मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्|
स्वमलायनसंशोषतोदशून्यत्वलाघवैः||२३||


स०-मलानामतिसूक्ष्माणां-सुस्वल्पानां दूषिकादीनां, दुःखेन बोद्धुं शक्यं-दुर्लक्ष्यम्, क्षयं लक्षयेत्-जानीयात्| कैः ? मलानां स्थानानि-मलायनानि, स्वानि च तानि मलायनानि च-स्वमलायनानि, तेषाम् संशोषतोदशून्यत्वलाघवानि-स्वमलायनसंशोषतोदशून्यत्वलाघवानि, तैः|


आ० र०-दूषिकादीनामाह-मलानामिति| अतिसूक्ष्माणां-अत्यल्पानाम्| अतिसूक्ष्मत्वादेव दुर्लक्ष्यम्| मलायनं-मलमार्गो नेत्रादिः, तस्य संशोषादयः|

एवं व्यासेन दोषधातुमलानां वृद्धिक्षयावभिधाय समासतोऽभिधातुमिदमाह-

दोषादीनां यथास्वं च विद्याद्दृद्धिक्षयौ भिषक्|
क्षयेण विपरीतानां गुणानां वर्धनेन च||२४||
वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः|
—————————————————|२५|


स०-दोषधातुमलानां वृद्धिक्षयौ जानीयात्| कथम् ? यथास्वं दोषादीनां गुणेभ्यो विपरीता ये गुणास्तेषां गुणानां क्षयेण वर्धनेन च देहगतेन दोषादीनां यथाक्रमं वृद्धिं क्षयं च विद्यात्| यथा,-वायोर्गुणा रूक्षलघुशीतादयः, तेषां विपरीताः-स्निग्धगुरूष्णादयः, तेषां स्निग्धादीनां देहे यदा क्षयो दृश्यते तदा वायोर्वृद्धिं विद्यात्| यदा तु तेषां स्निग्धादीनां देहे वृद्धिर्दृश्यते तदा वायोः क्षयो ज्ञेयः| एवं स्वबुध्द्या विकल्प्य मलानां धातूनां च वाच्यम्| वृद्धिं मलानामित्यादि| न केवलं मलानां पूर्वोक्तेन प्रकारेण वृद्धिक्षयौ ज्ञेयौ, यावदमुनाऽपि वक्ष्यमाणेन लक्षणेन तेषां वृद्धिक्षयौ ज्ञेयौ, [इति चशब्देन द्योतयति]| एवं स्वबुध्द्या विकल्प्य, मलानां सङ्गात्-बहिरनिःसरणलक्षणाच्च वृद्धिं विद्यात्| तेषामेव मलानामतिविसर्गात्-अतिप्रवर्तनात् क्षयं विद्यात्|


आ० र०- निदानमाह- दोषादीनामिति| यथास्वं विपरीतानां गुणानां क्षयेण निदानेन दोषादीनां वृद्धिं, वर्धनेन क्षयं, जानीयात्| तौ च रूक्षादीनां गुणानां बहुत्वाल्पत्वाभ्यां क्रमाद्भवतः| तत्र क्षयेणोत्पन्नं विकारं वायोर्वृद्धिरिति व्यवस्येत्, वर्धनेनोत्पन्नं क्षय इति| एवं पित्तादिष्वपि| तथा, मलानामप्यतिसङ्गान्निदानाद्दोषादीनां वृद्धिं विद्यात्, अतिविसर्गात् क्षयम्| तत्रातिसङ्गो-यथाकालमशोधनाद्वेगविधारणाद्विष्टम्भकाहारविहारशीलनाच्च| अतिविसर्गो-अतिशोधनाद्वेगोदीरणात्स्रंसनाहारविहारसेवनाच्च|

—————————————————|
मलोचितत्वाद्देहस्य क्षयो वृद्धेस्तु पीडनः||२५||


स०-द्वावपि मलानां वृद्धिक्षयौ पीडाकरौ देहस्य| तत्रापि य एषां क्षयः स वृद्धितोऽप्यतिशयेन पीडाकरः, अनौचित्यात्| देहिनां हि प्रायेण मलक्षयोऽनुचितो-अनभ्यस्तः, वृद्धिस्तूचितैवेति न तथा पीडां करोति|


आ० र०-क्षयवृ- पीडाकरत्वे तारत्म्यमाह-मलोचितत्वादिति| दोषादीनां वृद्धिर्देहपीडनी| क्षयस्तु ततोऽपि देहपीडनः| कुतः? मलोचितत्वात्| देहो हि मलसात्म्यः| सात्म्यं च बह्नपि नातिबाधते| वक्ष्यति(?)-“सात्मयं ह्याशु बलं धत्ते नातिदोषं च बह्नपि|” इति| मलशब्देन दोषधातुमलानां ग्रहणम्| वक्ष्यति हि (हृ. सू.अ. १९/८६) – “विट्श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः स यस्मात्|” इति|

अथ दोषादीनामाश्रयाश्रयिभावं दर्शयति – – – –

तत्रास्थनि स्थितो वायुः, पित्तं तु स्वेदरक्तयोः|
श्लेष्मा शेषेषु, तेनैषामाश्रयाश्रयिणां मिथः||२६||
यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्|
अस्थिमारुतयोर्नैवं, प्रायो वृद्धिर्हि तर्पणात्||२७||
श्लेष्मणाऽनुगता तस्मात् सङ्क्षयस्तद्विपर्यात्|
वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान्||२८||
विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः|
—————————————————|२९|


स०-तत्र-तेषु वातादिषु मध्ये, अस्थ्नि वायुः स्थितः-आश्रितः| पित्तं तु स्वेदरक्तयोः स्थितम्| श्लेष्मा शेषेषु-रसमांसमेदोमज्जशुक्रमूत्रपुरीषादिषु स्थितः| यतश्चैवमाश्रयाश्रयिभावोदोषधातूनां, तेन हेतुना, आश्रयाश्रयिणां मिथः-परस्परं, यदेकस्य-आश्रयस्य वर्धनं, तदन्यस्य-आश्रयिणोऽपि वर्धनम्, यदाश्रयस्य क्षपणं तदाश्रयिणोऽपि क्षपणम्| ननु, एवमस्थ्नो वाताश्रयस्य यद्वर्धनं तदस्याश्रयिणो वातस्यापि वर्धनं, यदस्य क्षपणं तदपि वातस्य क्षपणं प्राप्नोतीत्यत आह-अस्थीत्यादि| अस्थिमारुतयोर्नैवं वर्धनक्षपणौषधम्, सम्भवतीत्यध्याहार्यम्| हि-यस्मात्, प्रायो-बाहुल्येन, या वृद्धिः-वर्धनं दोषधातूनाम्, सा तर्पणात्-बृंहणाद्भवति| प्रायोग्रहणं वायुपरिहारार्थम्| सा च श्लेष्मणाऽनुगता-अनुबद्धा| यत एवं या वृद्धिः सा सन्तर्पणात्, तस्माद्धेतोर्य एषां दोषादीनां क्षयः स प्रायो-भूयिष्ठम्, अपतर्पणात्-लङ्घनरूपाद्भवति| स च सङ्क्षयो वायुनाऽनुगतः| एवं यदस्थ्नो वर्धनमौषधम्, तत् स्निग्धमधुरादि बृंहणरूपं वातस्य क्षपणम्| यच्च वातस्य वर्धमौषधम्, तत् रूक्षतिक्ताद्यपतर्पणं लङ्घनरूपमस्थ्नः क्षपणम्| तदर्थमेतदुक्तम्-अस्माच्चेत्यादि| यत एवं वृद्धेः सन्तर्पणरूपत्वं क्षयस्यापतर्पणरूपत्वम्, अतो वृद्धिक्षयसम्भवान् विकारान् दोषधातूनां सम्बन्धिनः क्रमाल्लङ्घनबृंहणैः साधयेत्-उपक्रमेत्| कथम् ? शीघ्रं चिरोत्थिता हि ते दुश्चिकित्स्याः स्युः| वृद्ध्युत्थान् विकारान् लङ्घनैः, क्षयोत्थान् बृंहणैरिति क्रमार्थः|


आ० र०-दूष्याणां वृद्धिक्षयहेत्वादिविज्ञानार्थं दोषदूष्ययोराश्रयाश्रयिभावमाह-तत्रेति| तत्र-तेषु दोषादिषु मध्ये| शेषेषु-रसमांसमेदोमज्जशुक्रमूत्रपुरीषादिषु|

आश्रयायिभावस्य फलमाह तेनेति| तेन-आश्रयाश्रयिभावेन हेतुना| एषां-दोषादीनाम्| आश्रयाश्रयिणां आधाराधेयभावेन स्थितानाम्| यदेकस्य वर्धनक्षपणौषधं तदेवान्यस्य| कथम्? मिथः,-परस्परम्| यदाश्रयस्य तदाश्रयिणः, यदाश्रयिणस्तदाश्रयस्येत्यर्थः| वर्धनं-वृद्धि हेतुः| क्षपणं-क्षयहेतुः| औषधं-वैषम्यनिवर्तकम्, साम्यहेतुरित्यर्थः|

अपवादमाह-अस्थिमारुतयोरिति| अस्थिमारुतयोराश्रयाश्रयिभावेऽप्येवं न ज्ञेयम्| यद्धि वायोर्वर्धनं रूक्षादि, तदस्थ्नः क्षपणम्| यदस्थ्नो वर्धनं स्निग्धादि, तद्वायोः क्षपणम्| अस्थ्नो वृद्धौ लङ्घनमौषधम्| वायोर्वृद्धौ बृंहणम्| अस्थिक्षये बृंहणमौषधम्, वातक्षये लङ्घनमिति|

अथोपशयं विवक्षुश्छिकित्सामाह| चिकित्सैव हि प्रयुज्यमाना उपशय उच्यते| वक्ष्यति हि (हृ. नि. अ. १/६) -“हेतुव्याधिवपर्यस्तविपर्यस्तार्थकारिणाम्| औषधान्नविहाराणामुपयोगं सुखावहम्|| विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः|” इति| चिकित्सा च द्विविधा,-बृंहणलङ्घनभेदात्| तत्र बृंहणलङ्घने विभजति-प्रायो वृद्धिरिति| वृद्धिजान् विकारान् लङ्घनेन साधयेत्, क्षयजान् बृंहणेन| कुतोऽयं विभागः? हि-यस्मात्, वृद्धिस्तर्प्रणात्बृंहणाद्भवति| सा च श्लेष्मणाऽनुगता,-यत्र यत्र वृद्धिस्तत्र तत्र श्लेष्मा, पित्तादिवृद्धावपि श्लेष्मानुगमोऽस्तीत्यर्थः| तस्मात्सर्वेषु वृद्धिविकारेषु लङ्घनमौषधम्, हेतुविपरीतत्वात् श्लेष्मानुगमेन व्याधिविपरीतत्वाच्च| तथा, सङ्क्षयस्तद्विपर्ययात्-तर्पणविपर्ययाल्लङ्घनाद्भवति| स च वायुनाऽनुगतः,-यत्र यत्र क्षयस्तत्र तत्र वायुः, कफादिक्षयेऽपि वायोरनुगमोऽस्तीत्यर्थः| तस्मात्सर्वेषु क्षयविकारेषु बृंहणमौषधम्, हेतुविपरीतत्वाद्वातानुगमेन व्याधिविपरीतत्वाच्च|

ननु, एवं वातवृद्ध्युत्थान् विकारान् लङ्घनैस्तत्क्षयोत्थान् बृंहणैरिति स्यात्|
अत इदमाह – – – –

—————————————————|
वायोरन्यत्र, तज्जांस्तु तैरेवोत्क्रमयोजितैः||२९||


स०-वायुं हित्वा वृद्ध्युत्थान् विकारान् लङ्घनैः, क्षयोत्थान् बृंहणैः साधयेत्| तज्जान्-वायुसम्भवान् विकारान्, पुनस्तैरेव-लङ्घनबृंहणैरुत्क्रमयोजितैरुपक्रमेत्| यथानिर्दिष्टक्रमाद्विपरीतः क्रमः-उत्क्रमः| यथा,-वातवृद्ध्युत्थान् विकारान् बृंहणैः तत्क्षयोत्थांश्च लङ्घनैरिति|


आ० र०-एतच्च सर्वं वायोरन्यत्र| वायुवृद्धौ तर्पणं न हेतुः, न वा लङ्घनमौषधमित्यर्थः| तर्हि तत्र किम्? इत्यत आह-तज्जानिति| तज्जान्-वायुवृद्धिक्षयजान्| वृद्धिजान् बृंहणेन साधयेत्, क्षयजान् लङ्घनेन, इत्युत्क्रमयोजना| वायुवृद्धिर्लङ्घनात्, क्षयो बृंहणादित्यत एव ज्ञेयम्| प्रायोग्रहणाव्द्यभिचारोऽपि| यथा (सङ्ग्रहे सू. अ. ७) -“कफे लङ्घनसाध्येऽपि कर्तरि ज्वरगुल्मयोः| तुल्येऽपि देशकालादौ लङ्घनं न समं मतम्||” इति|

दोषाणां विशेषचिकित्सेह नोक्ता, दोषोपक्रमणीये वक्ष्यमाणत्वात्|
रसचिकित्सा च “रसोऽपि श्लेष्मवत्” इत्युक्तेर्नेह पुनर्निर्दिष्टा|
अतो रक्तादीनां चिकित्सामाह – – – –

विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैः|
मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः||३०||
स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्|
जातान् क्षीरघृतैस्तिक्तसंयुतर्बस्तिभिस्तथा||३१||
विड्वृद्धिजानतीसारक्रियया, विट्क्षयोद्भवान्|
मेषाजमध्यकुल्माषयवमाषद्वयादिभिः||३२||
मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया|
व्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान्||३३||


स०-वृद्धिक्षयोपक्रमे एवं स्थितेऽपि विशेषेण रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैरुपक्रमेत| मांसवृद्धिजान् शस्त्रक्षाराग्निकर्मभिः| मेदोवृद्धिक्षयाभ्यां जातान्-मेदोजानिति मध्यमपदलोपोऽत्र द्रष्टव्यः| मेदोवृद्धिजान् विकारान् स्थौल्योपचारेण द्विविधोपक्रमणीयोक्त्या स्थौल्यचिकित्सया, मेदःक्षयजान् कार्श्योपचारेणोपाचरेत्| अस्थिक्षयजान् क्षीरघृतैस्तिक्तसंयुतैः, बस्तिभिस्तथा-तथारूपैस्तिक्तसंयुतैरित्यर्थः| ननु, यानि वातकृन्ति द्रव्याणि तान्यस्थिक्षयोद्भवविकाराणां वृद्धिकरणानीति तद्द्रव्योपयोगोऽत्र न युक्तः, तिक्तस्य वातकृतत्वात्| अत्रोच्यते| यद्द्रव्यं स्निग्धं शोषणं खरत्वमुत्पादयति तदस्थ्नो वर्धनं युक्तम्, खरस्वभावत्वादस्थ्नाम्| न चैवंविधमेकं द्रव्यमस्ति, यत् स्निग्धं शोषणं च| तस्मात् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिश्च तिक्तसंयुतैश्चेत्युपदिष्टम्| क्षीरघृतस्य तिक्तयुक्तस्य खरस्वभावत्वात्| विड्वृद्धिजान्-पुरीषवृद्धिजान्, अतीसारचिकित्सया साधयेत्| विट्क्षयोद्भवान् मेषाजमध्यादिभिः साधयेत्| मेष-उरभ्रः, अजः-च्छागः, तयोर्मध्यं-अन्तराधिः| कुल्माषः-अर्धस्विन्नो माषादिर्हिङ्गुघृतादिसंस्कृतः| माषद्वयं-माषो राजमाषश्च| आदिशब्देन काकाण्डोलात्मगुप्तादीनां ग्रहणम्| मूत्रवृद्ध्युत्थान् मेहचिकित्सया, मूत्रक्षयोत्थान् मूत्रकृच्छ्रचिकित्सया, स्वेदक्षयजान् व्याधीन् व्यायामादिभिः साधयेत्|


आ० र०-अथ केषांचिद्विशेषः| तत्र रक्तवृद्धिजानाहविशेषादिति| रक्तस्रुतिः-शिराव्यधादिः|

मांसवृद्धिजानाह-मांसवृद्धिभवानिति|

मेदोजानाह-स्थौल्येति| मेदोवृद्धिजान् स्थौल्योपचारेण-द्विविधोपक्रमणीयाध्यायोक्तेन| मेदःक्षयनान् कार्श्योपचारेण|

अस्थिक्षयजानाह-अस्थिसङ्क्षयादिति| तथेति तिक्तसंयुतैः| तथा च खारणादिः-“पञ्चकर्माणि सर्पीषि सतिक्ता बस्तयस्तथा| पयः” इति| न चैवं तिक्तसंयुतैरिति बस्तीनामेव विशेषणं वक्तुं युक्तम्, “बस्तयः क्षीरसर्पीषि तिक्तकोपहिताश्छ ये|” इति चरकवचनात् (सू. अ. २८/२४)|

विड्वृद्धिजानाह-विड्वृद्धिजानिति| अतीसारक्रियया अतीसारचिकित्सितेन|

विट्क्षयजानाह-विट्क्षयोद्भवानिति| मेषाजयोर्मध्यं-अन्तराधिः| माषद्वयं-माषो राजमाषश्छ| आदिशब्दान्मत्स्यमांसादयः|

मूत्रवृद्धिक्षयजानाह-मूत्रेति| मूत्रवृद्धिजान् प्रमेहचिकित्सया| मूत्रक्षयजान् कृच्छ्रचिकित्सया|

स्वेदक्षयजानाह-व्यायामेति|

स्वस्थानस्थस्य कायग्नेरंशा धातुषु संश्रिताः|
तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः||३४||
पूर्वो धातुः परं कुर्याद्दृद्धः क्षीणश्च तद्विधम्|
—————————————————|३५|


स०-स्वस्थानं कायाग्नेः-पक्वामाशययोर्मध्यम्| यथा च वक्ष्यति (हृ. सू. अ. १२|१०) – “पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्|” इत्यादि यावत् “पाचकं नाम तत् स्मृतम्|” इति| तत्र पक्वामाशयमध्ये तिष्ठतीति स्वस्थानस्थः, तस्यैवंविधस्य कायाग्नेः-जाठरानलस्य, अंशाः-भागाः, धातुषु-रसादिषु संश्रिताः| तेषां-अग्न्यंशानाम्, सादेन-मान्द्येन, धातूनां वृद्ध्युद्भवः| तथा तेषामंशानामतिदीप्त्या-अतितैक्ष्ण्यात्, धातुक्षयोद्भवः| पूर्वो-रसाख्यो, धातुर्वृद्धो भूत्वा परं-रक्ताख्यं, धातुं वृद्धं कुर्यात्| पूर्वश्च क्षीणो धातुः परं धातुं तद्विधं-क्षीणमेव कुर्यात्|


आ० र०-धातुजानामुपक्रमान्तरमाह-स्वस्थानस्थस्येति| स्वस्थानस्थत्य-ग्रहणीस्थस्य| कायाग्नेः-अन्नपक्तुः| अंशाः-क्षुद्राणि रूपान्तराणि| धातुषु-धात्वाशयेषु, सर्वधात्वग्नय इत्यर्थः| तेषां सादेन-मान्द्येन धातुवृद्धयुद्भवः, अतिदीप्त्या धातुक्षयश्छ| धातुवृद्धौ मान्द्योपक्रमः, धातुक्षये तैक्ष्ण्योपक्रमः कार्य इत्यर्थः| तथा, पूर्वो धातुर्वृद्धः परं वृद्धं कुर्यात्, क्षीणः क्षीणम्| परधातोर्वृद्धौ पूर्वस्य क्षयः कार्यः, क्षये व्रुद्धिरित्यर्थः| इत्युपशयप्रकरणम्|

—————————————————|
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्||३५||
अधो द्वे, सप्त शिरसि, खानि स्वेदवहानि च|
मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः||३६||


स०-दोषा दुष्टा रसैः-मधुरादिभिर्मिथ्यायोगातियोगसेवितैः कुपिताः, धातून् दूषयन्ति| उभये-दोषा धातवश्च, मलान् दूषयन्ति| मला मलायनानि दूषयन्तीति सम्बन्धः| तथा च मुनिः (च. सू. अ. ७|४२) – “मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः|” इति| कानि मलायनानि ? इत्याह-अधो द्वे इत्यादि| अधो द्वे-गुदमेढ्राख्ये, सप्त शिरसि खानि-द्वे अक्षिणी द्वौ कर्णौ द्वौ नासापुटावास्यं चेति, तथा स्वेदवहानि-रोमकूपाख्यानि छिद्राणि सर्वशरीरगतानि, मलायनानि स्युः| अतो-दूषणात्कारणात्, तेषु-मलायनेषु दुष्टेषु, यथास्वं गदाः-रोगाः स्युः| यो यस्य स्वो- यथास्वम्|


आ० र०-वृद्धिक्षयविकारसम्प्राप्तिमाह-दोषा दुष्टा इति| रसैः-मधुरादिभिः, दुष्टा दोषाः-वातादयो,धातून्-रसादीन्, दूषयन्ति| रसग्रहणं वीर्यादीनामुपलक्षणम्| उभये-दोषा धातवश्छ, मलान्-पुरीषादीन्, दूषयन्ति| ते मला मलायनानि-स्रोतांसि, दूषयन्ति| कानि पुनस्तानि? अधो द्वे-गुह्यं गुदश्छ| सप्त शिरसि-कर्णौ नेत्रे नासिके मुखं च| स्वेदवहानि खानि-रोमकूपाः, तेषामसङ्ख्यत्वात्सङ्ख्यानुक्तिः| अतो-दुष्टेरनन्तरम्, तेषु-दुष्टेषु दोषधातुमलमलायनेषु, गदाः स्युः| कथम्? यथास्वम्,- स्वस्थानानतिक्रमेण| स्थानविभाग उक्तः सङ्ग्रहे (सू.अ. १९)-“वक्ष्यन्ते वातजास्तत्र निदाने वातरोगिके| पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः|| रक्ते विसर्पं दाहं च मांसे मांसपाककोथनम्| सदाहान् मेदसि ग्रन्थीन् स्वेदात्युद्वमनं तृषम्|| अस्थ्नि दाहं भृशं मञ्ज्ञि हारिद्रनखनेत्रताम्| पूति पीतावभासं च शुक्रं शुक्रसमाश्रितम्|| शिरागतं क्रोधनतां प्रलापं स्रायुगं तृषम्| कोष्ठगं मदतृट्दाहान् व्यापिनोऽन्यांश्छ यक्ष्मणः| श्लेष्मा त्वचि स्थितः कुर्यात्स्तम्भंश्वेतावभासताम्| पाण्ड्वामयं शोणितगो मांससंस्थोऽर्बुदापची|| आर्द्रचर्मावनद्धाभगात्रतां चातिगौरवम्| मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः|| मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम्| विबन्धं गौरवं चाति शिरास्थः स्तब्धगात्रताम्|| स्रायुगः सन्धिशून्यत्वं कोष्ठगो जठरोन्नतिम्| अरोचकाविपाकौ च तांस्तांश्छ कफजान् गदान्|| विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते| उपतापोपघातौ च स्वाश्रयेन्द्रियगैर्मलैः||” इति|

दोषधातुमलानां समविषमावस्था गदिता|
ओजसस्तु निरूपयन्नाह – – – –

ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्|
हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्||३७||
स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्|
यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति||३८||
निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः|
—————————————————|३९|


स०-रसादीनां धातूनां शुक्रान्तानां यत्परं-उत्कृष्टं, तेजस्तदोजः स्मृतम्, [न तु शुक्रस्यैव मलः|] तथा,हृदयस्थमपि व्यापि| सकलशरीरव्यापिनस्तस्य षड्बिन्दुकस्य विशेषेण हृदयं स्थानम्| तथा, देहस्य स्थितिर्देहस्थितिस्तस्या निबन्धनं-जीविताधिष्ठानमित्यर्थः| अन्ये त्वाहुः, परशब्देनैतत् द्योतयति,-अन्यदप्योजोऽस्ति न तद्धातूनां शुक्रान्तानां तेजः, श्लेष्माख्यमिति| तथा चोक्तं सङ्ग्रहे (सू. अ. १९) – “तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते| मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम्||” इत्यादि| यन्नाशे-यस्यौजसोऽभावे, नियतं-निश्चितं, प्राणिनो नाशः-अभावः| यस्मिन्नोजसि तिष्ठति-विद्यमाने, तिष्ठति-प्राणिति, देहीति शेषः| यतो-यस्मात्, भावाः-पदार्थाः, निष्पद्यन्ते-जायन्ते| किम्भूताः ? विविधाः-अनेकप्रकाराः| तथा, देहः संश्रयो येषां ते देहसंश्रयाः| लक्षणमोजसो मुनिनाऽभ्यधायि (च. सू. अ. १७|७४) – “हृदि तिष्ठति यच्छुद्धं स्निग्धमीषत्सपीतकम्| ओजः शरीरे सङ्ख्यातं तन्नाशे ना विनश्यति||” इत्यादि|


आ० र०-अथौजोविज्ञानम्, तस्यापि मलत्वात्| वक्ष्यति हि (हृ. शा. अ. ३/६३) -“कफः पित्तं मलाः खेषु प्रस्वेदो नखरोम च| स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः||” इति| यत्तुक्तं सङ्ग्रहे (शा. अ. ६) -“शुक्रस्य सार ओजः| अत्यन्तषुद्धतया चास्मिन् मलत्वाभावः| अन्ये पुनरत एव तस्य नेच्छन्ति पाकम्|” इति| तन्नरशरीरचरशुक्रविषयम्| यत्तु सम्भोगादङ्गनागर्भाशयगतमार्तवेनैकत्र लोलीभूतं जीवाधिष्ठितं शुक्रं, तस्य पाकाद्रसादिवन्मलसारौ स्तः| तत्र मल ओजः, सारो गर्भः| वक्ष्यति हि (हृ. शा. अ. ३/६३) -“रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रजायते||” इति| मलत्वं च गर्भापेक्षया, रसाद्यपेक्षया तु साआत्वमेवेति| अत एवाह चरकः (सू. अ. ३०/९, सङ्ग्रहे च सू. अ. १९) -“यत्सारमादौ गर्भस्य यच्च गर्भरसाद्रसः| संवर्तमानं हृदयं समाविशति यत्पुरा|| यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः|” इति| न चैवमोजोनेकत्वं वाच्यम्| यदेव हि शुक्रमलरूपमोजः, तदेव गर्भहृदयमनुप्रविष्टमष्टबिन्दुप्रमाणमार्तवानुविद्धत्वादीषद्रक्तपीतं जीवानुविद्धं जीवशोणितमुच्यते| उक्तं च तन्त्रान्तरे-“प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रिताः|” इति| तथा चरकोऽपि (सू. अ. १७/७४) -“हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्| ओजः शरीरे व्याख्यातं तन्नाशान्म्रियते नरः||” इति| तदेवाहाररसेन समानगुणत्वादाप्यायितमर्धाञ्जलिपरिमाणं सर्वदेहव्यापि रसात्मकमुच्यते| यद्वक्ष्यति (हृ. शा. अ. ३/१८) -“दशमूलशिरा हृत्स्थास्ताः सर्वं सर्वतो वपुः| रसात्मकं वहन्त्योजस्तन्निबद्धं हि चेष्टितम्||’ इति| खारणादिरप्याह-“रसधातोः परं धाम पच्यमानात्प्रसीदति| सौम्यस्वभावं रक्ताग्रे यत्तदोजः प्रकीर्तितम्||” इति| तदेव सर्वान् धातूननुप्रविष्टं तेषां प्रभावातिशयमादधानं तत्तेज उच्यते| यदाह सुश्रुतः (सू. अ. १५/२३) -“रसादीनां शुक्रान्तानां धातूनां यत्परंतेजः तदोजस्तद्बलमित्युच्यते|” इति| तदेव पुनः पाकाच्चामीकरमिवापेतोपाधिमलमत्यन्तं शुक्रसार उच्यते| तस्माच्छुक्रमलरूपं मूलभूतमेवाज इति स्थितम्| यत्तूक्तं चरकेणा (सू. अ. १७/११५) -“प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते| स चैवोजः स्मृतः काये” इति| तदोजो हेतुत्वात् श्लेष्मण ओजस्त्वम्, आयुर्घृतमितिवत्| एतेनैतदुपपन्नम्, “धातूनां तेजसि रसे तथा जीवितशोणिते| श्लेष्मणि प्राकृते वैद्यैरोजःशब्दः प्रकीर्तितः||” इति| ओजसो मलत्वेऽपि पृथक्वथनं प्राधान्यख्यापनार्थम्| प्राधान्ये हेतुमाह-ओजस्त्विति| ओजः पुनः परं-प्रधानं स्मृतम्| तद्धि शुक्रान्तानां धातूनां परं तेजः| शुक्रान्तानां ग्रहणं सर्वधातुप्राप्त्यर्थम्| तथा, हृदयस्थम्| न केवलं तत्स्थं व्याप्यपि| देहस्थितिनिबन्धन,- देहस्य स्थितयो-नानावस्थाः, तासां निबन्धनं-कारणम्|

कारणत्वमेव विवृणोति-यन्नाश इति|

—————————————————|
ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः||३९||
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः|
दुःच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये||४०||
जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्|
—————————————————|४१|


स०-ओजः कोपादिभिः क्षीयेत| तत्क्षये-तस्यौजसः क्षये, बिभेति दुर्बल इत्यादिलक्षणम्| जीवनीयौषधाद्यास्तत्र भेषजम्| जीवनीयौषधानि-जीवन्त्यादीनि दश जीवनसंज्ञानि (हृ. सू. अ. १५|८) तथाऽन्यानि यानि मधुराणि क्षीरादीनि द्रव्याणि| क्षीरस्य जीवनीयत्वेनैव ग्रहणे सिद्धे पृथक्पाठोऽतिशयार्थः, अतिशयेनात्र क्षीरमौषधमिति| रसो-मांसरसः| आदि (द्य)-ग्रहणेन काकाण्डोलात्मगुप्ताघृतादिपरिग्रहः|


आ० र०-क्षयहेतूनाह-ओजः क्षीयेतेति| क्षुत्-बुभुक्षा| ध्यानं-चिन्ता| आदिशब्दात्-भ्रमोन्त्रासकटुरूक्षभोजनादयः|

ओजःक्षयं लक्षयति-बिभेतीति| बिभेति-त्रस्यति| दुर्बलो-हीनबलो भवति| अभीक्ष्णं-पुनःपुनरकस्मात्| ध्यायति-चिन्तयति| व्यथितेन्द्रियः-हृदयादिस्थानेषु व्याथावान्| दुःच्छायो-मलिनकान्तिः| दुर्मनाः-गतोत्साहः| रूक्षो-निस्नेहाङ्गः| क्षामः-कृशाङ्गः|

क्षयौषधभङ्ग्या वृद्धिहेतूनाह-जीवनीयेति| जीवनीयाः-जीवन्त्यादयः| रसो-मांसरसः| आदि(द्य) शब्देन शर्करादयः|

—————————————————|
ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः||४१||


स०-ओजोविवृद्धौ सत्यां देहस्य तुष्टिः-प्रहर्षः, पुष्टिः-वृद्धिः, बलं-सामर्थ्यम्, एषामुदयः-सम्यग्वृद्धिर्भवति|


आ० र०-ओजोवृद्धिं लक्षयति-ओजोवृद्धाविति| तुष्टिः सन्तोषः| पुष्टिः-स्थौल्यम्| बलोदयः-शक्त्युत्कर्षः| ओजोवृद्धेस्तुष्ट्यादिहेतुत्वान्न वातादिवृद्धिकारकारित्वम्| व्रूद्धमपि यदा त्वोजो व्यापद्यते स्वस्थानाद्विस्रंसते वा, तदा वातादिवद्विकारकारित्वम्| तथा च सुश्रुतः (सू. अ. १५/३०) -“त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः|” इति| बलं-ओजः|

इदानीं सङ्क्षेपेण वृद्धिक्षयभेषजं कथयन्नाह – – – –

यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु|
तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्||४२||


स०-यदन्नं पुरुषो द्वेष्टि-नाभिनन्दति, यदप्यन्नं प्रार्थयेत, तत्तदन्नं द्विष्टं त्यजन्-परिहरन्, इष्टमन्नं समश्नन्-भक्षयन्, दोषाणां सम्बन्धिनौ वृद्धिक्षयौ तौ तौ-यौ यस्य दोषस्यात्मीयौ वृद्धिक्षयौ, तौ तौ जयेत्| ननु, किमविशेषेणैतत् प्रार्थितमश्नन् दोषक्षयं जयेत् ? नेत्याह-अविरोधि तु| तुरवधारणे| अविरोध्येव| तत्तथाविधमन्नमश्नन् दोषाणां क्षयं जयेत्, न तु विरोध्यन्नमश्नन्|


आ० र०-वृद्धिक्षयौ ज्ञात्वा यदनुष्ठेयं तत्सङ्क्षेपेणाह-यदन्नमिति| यद्यदन्न द्वेष्टि तत्तत्त्यजन् तथा यद्यत्प्रार्थयेत तत्तत्समश्नन् तौ तौ वृद्धिक्षयौ जयेत्| किं तत्सर्वम् ? नेत्याह-अविरोधि त्विति| यत्प्रार्थयेत् तच्चेदविरोधि-अपथ्यं न भवति, तत्समश्नीयादित्यर्थः| तच्छब्देऽपि वीप्साकरणात् यच्छब्देऽपि वीप्सा ज्ञेया|

ननु, द्वेष्यान्नत्यागेनेष्टान्नभक्षणेन | च ] कुतो हेतोर्दोषाणां वृद्धिक्षयौ जयेत् ? इत्याह – – – –

कुर्वते हि रुचिं दोषा विपरीतसमानयोः|
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न||४३||


स०-हि-यस्मात्, दोषाः-वातादयो, विपरीतसमानयोः रुचिं कुर्वन्ति| किम्भूताः सन्तः ? वृद्धाः क्षीणाश्च, यथाक्रमम्| वृद्धाः-प्रमाणाधिकाः सन्तः, स्वगुणेभ्यो यद्विपरीतगुणमन्नं तेषां क्षपणहेतुः, तद्विषयां रुचिं-प्रीतिमुत्पादयन्ति| भूयिष्ठं-बाहुल्येन| क्षीणाः-स्वप्रमाणापचिताः सन्तो, यत्स्वसमानगुणमाहारजातं तेषां वर्धनहेतुः, तद्विषयां प्रीतिमुत्पादयन्ति| यथा,-वातो वृद्धः स्निग्धाम्लमधुरमन्नमभिलषति|पित्तं वृद्धं शीतमधुररुक्षतिक्तकशायमन्नभिलषति| श्लेष्मा वृद्धो रूक्षोष्णकटुतिक्तकषायमन्नमभिलषति| वातः क्षीणो रूक्षकषायाद्यन्नमभिलषति| पित्तं क्षीणमम्ललवणकटुकमन्नमभिलषति| श्लेष्मा क्षीणः स्निग्धमधुराम्ललवणमन्नमभिलषति| भूयिष्ठमित्यनेन प्रायिकत्वमस्या व्यवस्थाया दर्शयति| तेन दोषगतिवैचित्र्यादन्यथाऽपि क्वचिद्भवति| यथा,-कस्यचिन्नरस्य वातोऽपि क्षीणः स्निग्धमधुराद्यन्नमभिलषति, पित्तमपि वृद्धमम्ललवणाद्यन्नमभिलषति, श्लेष्माऽपि वृद्धो मधुराम्लाद्यन्नमभिलषतीति व्यभिचारात्| अत एवाबुधाः-अपण्डिताः, न लक्षयन्ति-न विदन्ति, यथा-किमय दोषः क्षीण उत वृद्ध इति|


आ० र०-न च यथारुच्युपचारस्यानुचितत्वमाशङ्कनीयमित्याह-कुर्वते हीति| हि-यस्मात्, वृद्धा दोषाः विपरीते रुचिं कुर्वते, क्षीणाः समाने| चकाराद्दृद्धा दोषाः समाने द्वेषं कुर्वते, क्षीणास्तु विपरीते, इत्यपि ज्ञेयम्| अयमर्थः,-यदा वायोर्वृद्धिस्तदा तद्विपरीतानां स्निग्धादिगुणानां रुचिस्तत्समानानां रूक्षादिगुणानां द्वेष उत्पद्यते, अत इष्टसेवनाद्द्विष्टत्यागाद्वायोर्वृद्धिं जयेत्| यदा तु वायोः क्षयस्तदा तत्समानानां रूक्षादिगुणानां रुचिस्तद्विपरीतानां स्निग्धादिगुणानां द्वेष उत्पद्यते, अत इष्टसेवनाद्द्विष्टत्यागाद्वायोः क्षयं जयेत्| एवं पित्तादिष्वपि| दोषशब्दो दोषधातुमलानामुपलक्षणम्| भूयिष्ठं-प्रायेण, कदाचिदन्यथाऽपि रुचिद्वेषौ भवतः| यथा वक्ष्यति (हृ. नि. अ. १६/३०) सामे वायौ-“कटुरूक्षाभिलाषेण तद्विधोपशयेन च|” इति| एवं सत्यप्येतादृशीं स्थितिमबुधा न लक्षयन्ति| एतेन बुद्धिमता भिषजा परीक्ष्यायमुपचारः कार्यः| मन्दबुद्धीनां तु यथोपदेशमित्युक्तं भवति| उक्तं च सङ्ग्रहे (सू. अ. १५) -“यथोक्तनुसरणमेव तु श्रेयो मन्दबुद्धेः|” इति|

न चानेनैव लक्षणेन वृद्धाः क्षीणाश्च लक्षणीयाः|
किं तर्हि ? अन्यदपि लक्षणमस्तीत्याह – – – –

यथाबलं यथास्वं च दोषा वृद्धा वितन्वते|
रूपाणि, जहति क्षीणाः, समाः स्वं कर्म कुर्वते||४४||


स०-यथाबलं-बलानतिक्रमेण, यथास्वं च-यद्यदात्मीयं यथा, रूपाणि-गुणकर्मलक्षणानि, दोषा वृद्धा वितन्वते-विस्तारयन्ति| क्षीणाश्च बलानतिक्रमेण यथास्वं रूपाणि जहति-त्यजन्ति| यथा,-वायुर्वृद्धो रौक्ष्यशैत्यपारुष्यस्रंसव्यासादीनि विस्तारयति| क्षीणस्तु वायुः पूर्वोक्तानि रौक्ष्यादीनि जहाति, अत एव न व्यञ्जयति|
अथ समा दोषाः किं विदधति ? इत्याह-समा इत्यादि| यदा न वृद्धा न च क्षीणाः-समा दोषाः,-स्वप्रमाणस्थाः, तदा स्वं कर्म-उत्साहोच्छ्वासादिकं यथोक्तं कुर्वते| तल्लक्षणत्ते लक्षणीयाः| तदेवं वृद्धक्षीणसमा दोषा वेद्याः|


आ० र०-उक्तयो रुचिद्वेषयोरुपपत्तिमाह-यथाबलमिति| वृद्धा दोषा रूपाणि-रौक्ष्यादीनि, वितन्वते-विशेषेण प्रकटयन्ति| तान्येव क्षीणा जहति-न्यूनानि दर्शयन्तीत्यर्थः| यथाबलं-वृद्धा अधिकानि, वृद्धतरा अधिकतराणि, वृद्धतमा अधिकतमानीत्यर्थः| एवं क्षीणेष्वपि| यथास्वं-वायू राक्ष्यादीनि, पित्तमौष्ण्यादीनि, श्लेष्मा स्नेहादीनीत्यर्थः| एतदुक्तं भवति,- शरीरे यो यो गुणोऽधिको भवति तस्य तस्य द्वेष उत्पद्यते, यो यो हीनस्तस्य तस्य रुचिः| वायो वृद्धे रूक्षादयः शरीरे अधिका भवन्ति, ततस्तेषां द्वेष उत्पद्यते, क्षीणेऽत एव हीनाः, अतस्तेषां रुचिः| एवं पित्तादिष्वपि|
समेषु पुनर्दोषेष्वपूर्वौ रुचिद्वेषौ नोत्पद्येते इत्याह-समाः स्वमिति| स्वशब्देन जातिवयोदेशकालानुरूपं शारीरं कर्मोच्यते, न दोषकर्म| तस्य यथास्वमित्यनेनैव लब्धत्वात्| तस्माज्जात्यादिवशाद्यस्य यथा रुचिद्वेषौ तस्य तथैवानुवर्तयन्ति समा दोषाः, नान्यथा कुर्वन्तीत्यर्थः|

क्षीणा दोषाः क्षीणत्वादेवाकिञ्चित्करत्वात् कदाचित्पीडां नोत्पादयन्त्येव, इति विचिन्त्याल्पमतयो वैद्याः क्षीणदोषवर्धनार्थं कदाचिदनादरं कुर्युरित्याह – – – –

य एव देहस्य समा विवृद्ध्यै
त एव दोषा विषमा वधाय|
यस्मादतस्ते हितचर्ययैव
क्षयाद्विवृद्धेरिव रक्षणीयाः|४५|
इति श्रीवैद्यपतिसिंहगुप्तसुनूश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादिविज्ञानीयो नामैकादशोऽध्यायः|११|


स०-य एव दोषाः समाः सन्तो देहस्य विवृद्ध्यै-वर्धनाय भवन्ति, त एव दोषा विषमाः-स्वप्रमाणादधिका हीना वा सन्तो, वधाय-देहविघाताय स्युः| यस्मादेवं ततस्ते दोषा हितचर्ययैव क्षयात्-हीनत्वाद्रक्षणीयाः| कुत इव ? विवृधेरिव| यथा विवृद्धेः-विशेषेण वर्धनात्ते रक्ष्यन्ते, तथा क्षयादपि रक्षणीया इति| उपजातिर्वृत्तम्|

इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने दोषादिविज्ञानीयाध्याय एकादशः समाप्तः|| ११||


आ० र०-दोषवैषम्यानुत्पादने यत्नं विधत्ते-य एव देहस्येति| हितचर्यया-पथ्याभ्यामाहारविहाराभ्याम्, चरतेर्गतिभक्षणार्थत्वात्| एवशब्देन हितचर्याया अयोगः, अहितचर्यायाश्छ योगो व्यवच्छिद्यते|

इति हेमाद्रिटीकायामायुर्वेदरसायने|
दोषादीनां प्रकरणं सामस्त्येन निरूपितम्|| ११||

Diacritic Version

śrīmadvāgbhaṭaviracitam

Aṣṭāṅgahr̥dayam

śrīmadaruṇadattaviracitayā 'sarvāṅgasundarākhyā' vyākhyayā hēmādripraṇītayā 'āyurvēdarasāyanāhvayā' ṭīkayā ca samullasitam

sūtrasthānam - 11. dōśādivijñānīyādhyāyaḥ

rasabhēdīyādanantaraṁ dōṣādivijñānīya ārabhyatē| yatō “dōṣabhēṣajavaśādupayōjyāḥ” ityuktam, ata īdr̥ksvarūpāstē dōṣā iti jñāpanārthamadhyāyō’yamucyatē-


0

rasabhēdīyādanantaraṁ dōṣādivijñānīya ārabhyatē|
yatō “dōṣabhēṣajavaśādupayōjyāḥ” ityuktam, ata īdr̥ksvarūpāstē dōṣā iti jñāpanārthamadhyāyō’yamucyatē – – – –

athātō dōṣādivijñānīyamadhyāyaṁ vyākhyāsyāmaḥ|
iti ha smāhurātrēyādayō maharṣayaḥ|
gadyasūtrē||2||


sa0-dōṣā ādayō yēṣāṁ tē-dōṣādayaḥ, tēṣāṁ vijñānaṁ-prākr̥tēna vaikr̥tēna ca svarūpēṇā 9 vagamaḥ, tasmai hitō yaḥ, tamadhyāyaṁ vyākhyāsyāmaḥ| ādiśabdēna dhātavō malāśca saṅgrahyantē| tatsvarū 10 pāvagamēna ca ta ēva dōṣāḥ samyagjñātā bhavanti| dhātūnāṁ malānāṁ ca dōṣādhārabhūtatvāt|


ā0 ra0-hētuskandhānantaraṁ lakṣaṇaskandhamārabhatē| tatra dōṣādivijñānīyamadhyāyaṁ vyākhyātuṁ pratijānītē-athēti| dōṣādivijñānādhīnatvāllakṣaṇasya| dōṣadūṣyavaiṣamyaṁ ca rōgalakṣaṇam| vaiṣamyajñānaṁ ca sāmyajñānādhīnam| ata ēvādau sāmyajñānam|

dōṣadhātumalā mūlaṁ sadā dēhasya–|
———————————-|1|


sa0-dōṣāḥ-vātādayaḥ, dhātavō-rasādayaḥ, malāḥ-mūtrādayaḥ, tē dēhasya mūlamiva mūlam| yathā,-vr̥kṣasya skandhaśākhādiyuktasya mūlaṁ pradhānam, tadārabdhatvāt| tathā,-dēhasya dōṣadhātumalāḥ|


ā0 ra0-tatra sāmyaphalamāha-dōṣadhātumalā iti| dōṣā-vātādayaḥ| dhātavō-rasādayaḥ| malāḥ-purīṣādayaḥ| mūlaṁ-kāraṇam| sadā-sarvāsu janmādyavasthāsu| samā iti prakaraṇāllabhyatē|

——————————–taṁ calaḥ|
utsāhōcchvāsaniśvāsacēṣṭāvēgapravartanaiḥ||1||
samyaggatyā ca dhātūnāmakṣāṇāṁ pāṭavēna ca|
anugr̥hṇātyavikr̥taḥ, pittaṁ paktyūṣmadarśanaiḥ||2||
kṣuttr̥ḍruciprabhāmēdhādhīśauryatanumārdavaiḥ|
ślēṣmā sthiratvasnigdhatvasandhibandhakṣamādibhiḥ||3||


sa0-taṁ ca-dēhaṁ, calō-vāyuḥ, utsāhādibhiranugr̥hṇāti-upakurutē| utsāhaḥ-sarvacēṣṭāsūdyōgaḥ, ucchvāsaḥ-ūrdhvaṁ śvasanaṁ śvāsamuktiḥ, niśvāsaḥ-śvāsasya śarīrāntaḥ pravēśanam, cēṣṭanaṁ-cēṣṭā vākkāyamanōvyāpāraḥ, vēgānāṁ pravartanaṁ-vātaviṇmūtrādīnāṁ bahirnirasanam, ētaiśca mārutō dēhamanugr̥hṇāti| pittaṁ paktyādibhiranugr̥hṇāti| paktiḥ-pākaḥ| ūṣmā-auṣṇyam| darśanaṁ-dr̥ṣṭiḥ| mēdhā-buddhiviśēṣaḥ| dhīḥ-prajñā| śauryaṁ-pauruṣam| tanumārdavaṁ-śarīramr̥dutvam| ślēṣmā sthiratvādibhiranugr̥hṇāti| kṣamā-kṣāntiḥ|


ā0 ra0-vāyōḥ sāmyaṁ lakṣayati-taṁ cala iti| taṁ-dēham| calō-vāyuḥ| utsāhaḥ-adhyavasāyaḥ| ucchvāsaḥ-śvāsanirgamaḥ| niśvāsaḥ-śvāsapravēśaḥ| cēṣṭā-gamanādikriyā| vēgapravartanaṁ-viṇmūtrādipravr̥ttiḥ| dhātūnāṁ samyaggatiḥ-mārgēṇādrutavilambitasañcāraḥ| akṣāṇāṁ pāṭavaṁ-indriyāṇāṁ viṣayagrahaṇasāmarthyam| anugr̥hṇāti-upakarōti| avikr̥taḥ-samaḥ|

pittasya sāmyaṁ lakṣayati-pittamiti| paktiḥ-pākaḥ| ūṣmā-auṣṇyam| darśanaṁ-cākṣuṣajñānam| kṣat-bubhukṣā| tr̥ṭ-pipāsā| ruciḥ-prītiḥ| prabhā-kāntiḥ| mēdhā-jñānadhāraṇam| dhīḥ-jñānam| śauryaṁ-balam| tanutvaṁ-asthūlatvam| mārdavaṁ-saukumāryam|

ślēṣmaṇaḥ sāmyaṁ lakṣayati-ślēṣmēti| sthiratvaṁ-dr̥ḍhāṅgatvam| snigdhatvaṁ-snēhāktatvamiva| sandhibandhaḥ-suśliṣṭasandhitvam| kṣamā-sahiṣṇutvam| ādiśabdādalaulyādayaḥ| “tamanugr̥hṇātyavikr̥taḥ” iti vākyadvayē’nuvartatē|

idānīṁ dhātūnāṁ karmāṇyāha – – – –

prīṇanaṁ jīvanaṁ lēpaḥ snēhō dhāraṇapūraṇē|
garbhōtpādaśca dhātūnāṁ śrēṣṭhaṁ karma kramātsmr̥tam||4||


sa0-prīṇanādīni karmāṇi rasādīnāṁ kramāt-kramēṇa śrēṣṭhāni smr̥tāni, munibhiriti śēṣaḥ| saṅgrahōktāni madhyamānyaparāṇi karmāṇyēṣāṁ santyēva| yathā,-rasasya tuṣṭiraktapuṣṭyādikaṁ karma, raktasya ca varṇaprasādō māṁsapōṣaṇam, māṁsasya balaṁ mēdaḥpuṣṭī ca mēdasaḥ svēdadārḍhyāsthipuṣṭayaśca, asthnō majjapōṣaṇam, majjñō balamasthipūraṇaṁ śukrapuṣṭiśca, śukrasya harṣō balaṁ ca, ētairdhātavō dēhamanugr̥hṇantītyarthaḥ| prīṇanaṁ-āpyāyanam| rasō hi samyagabhyavaharataḥ srōtāṁsi praviśyēndriyaprasādamabhinirvartayan manasaḥ prītimādadhāti| jīvanaṁ-ōjōvr̥ddhikaram, raktakarma| lēpaḥ-upadēhō, māṁsasya karma| tadupaliptānyasthīni cēṣṭāṁ kṣamantē| snēhō-nētrādiṣu snigdhatā, mēdasaḥ karma| dhāraṇaṁ-ūrdhvadhāraṇam, asthikarma| pūraṇaṁ-snēhēnāsthnām, majjñaḥ karma| śukrasya garbhōtpattiḥ, śrēṣṭhaṁ karmēti yōjyam|


ā0 ra0-dhātūnāṁ sāmyaṁ lakṣayati-prīṇanamiti| prīṇanaṁ-tr̥ptiḥ, avikr̥tasya rasasya śrēṣṭhaṁ karma| jīvanaṁ-prāṇadhāraṇam, raktasya| lēpō-bhittērmr̥ttikayēva, māṁsasya| snēhaḥ snigdhatvam, mēdasaḥ| dhāraṇaṁ-avalambanam, asthnaḥ| pūraṇaṁ-asthipūraṇam, majjñaḥ| garbhōtpādaḥ śukrasya| śrēṣṭhagrahaṇādanyānyapyuttaradhātupuṣṭyādīni santīti jñāpayati|

idānīṁ malānāṁ karmāṇyāha – – – –

avaṣṭambhaḥ purīṣasya, mūtrasya klēdavāhanam|
svēdasya klēdavidhr̥tiḥ———————|5|


sa0-avaṣṭambhō-dēhadhāraṇaśaktiḥ, śrēṣṭhaṁ karma purīṣasya smr̥tam| mūtrasya klēdavāhanaṁ śrēṣṭhaṁ karma, mūtraṁ klēdaṁ nirvāhayati| svēdasya klēdavidhāraṇaṁ śrēṣṭhaṁ karma, klēdābhāvē hi śōṣaḥ syāt, madhyamatvak”snēhakacarōmadhāraṇamapi|


ā0 ra0-purīṣasya sāmyaṁ lakṣayati-avaṣṭambha iti| avaṣṭambhō-dhāraṇam|

mūtrasya sāmyaṁ lakṣayati-mūtrasyēti| klēdavāhanaṁ-klēdasya bahirnirgamanam|

svēdasya sāmyaṁ lakṣayati-svēdasyēti| kēśavidhr̥tiḥ-rōmṇāmavalambanam| “śrēṣṭhaṁ karma” iti vākyatrayē’nuvartatē| tēna anilānaladhāraṇabastipūraṇaklēdadhāraṇādīnyanyānyapi karmāṇi jñēyāni|

———————————————-|
——————vr̥ddhastu kurutē’nilaḥ||5||
kārśyakārṣṇyōṣṇakāmatvakampānāhaśakr̥dgrahān|
balanidrēndriyabhraṁśapralāpabhramadīnatāḥ||6||


sa0-vr̥ddhaḥ punarvāyuḥ kārśyādīn karōti| balādīnāṁ bhraṁśēna sambandhaḥ| balasya prāṇōpaghātō bhraṁśaḥ| nidrāyāstu nāśō bhraṁśaḥ|


ā0 ra0-atha vaiṣamyajñānam| tattu pañcadhā| vakṣyati-hi (hr̥. ni. a. 1/2)- “nidānaṁ pūrvarūpāṇirūpāṇyupaśayastathā| samprāptiścēti vijñānaṁ rōgāṇāṁ pañcadhā smr̥tam||” iti| tatrādau rūpam, tasyāntaraṅgatvāt| pūrvarūpaṁ tu rūpamēvāvyaktam| vakṣyati hi (hr̥. ni. a. 1/6)- “liṅgamavyaktamalpatvāvdyādhīnāṁ tadyathāyatham| tadēva vyaktatāṁ yātaṁ rūpamityabhidhīyatē||” iti| vaiṣamyaṁ ca dvidhā,-vr̥ddhikṣayabhēdāt| tatrādau vr̥ddhilakṣaṇam| tatra vāyōrāḥ-vr̥ddha iti| kārśyaṁ-kr̥śatvam| kārṣṇyaṁ-kr̥ṣṇavarṇatvam| uṣṇakāmatvaṁ-uṣṇābhilāṣaḥ| kampō-vēpathuḥ| ānāhaḥ-baddhōdaratā| śakr̥dgrahaḥ-purīṣarōdhaḥ| balādīnāṁ bhraṁśō-nāśaḥ| pralāpaḥ-asambaddhapralāpaḥ| bhramaḥ-cakrarūḍhasyēva| dīnatā- mlānatvam|

pītaviṇmūtranētratvakkṣuttr̥ḍdāhālpanidratāḥ|
pittam——————————–|7|


sa0-pītasya viḍādibhistvagantaiḥ sambandhaḥ, tataḥ kṣudādibhirdvandvaḥ, tatastalapratyayaḥ| pittaṁ vr̥ddhaṁ pītaviṇmūtrādīn karōti|


ā0 ra0-pittasyāha-pītaviṇmūtrēti| viṇmūtranētratvacāṁ pītatvam| kṣuttr̥ṣāviha tīvrē jñēyē, samayōḥ sa-lakṣaṇatvāt| dāhaḥ-santāpaḥ| alpanidratā-nidrālpatvam|

———————————————–|
——-ślēṣmā’gnisadanaprasēkālasyagauravam||7||
śvaityaśaityaślathāṅgatvaṁ śvāsakāsātinidratāḥ|
———————————————–|8|


sa0-ślēṣmā vr̥ddhō’gnisādādīn karōti| śvaityaṁ- gātraśuklatā| śaityaṁ-aṅgānāṁ śiśiratvam|


ā0 ra0-ślēṣmaṇa āha-ślēṣmēti| agnisadanaṁ-agnimāndyam| prasēkō-lālāsrāvaḥ| ālasyaṁ-anutsāhaḥ| gauravaṁ-durvahāṅgatvam| śvaityaṁ-śuklatvam| śaityaṁ-śītasparśatvam| ślathāṅgatvaṁ-avayavaśaithilyam| śvāsakāsau-rōgau| atinidratā-nidrādhikyam|

————————————————–|
rasō’pi ślēṣmavat—————————–|8|


sa0-rasaśca ślēṣmavat, rasō’pi vr̥ddhō’gnisādādīn vidadhātītyarthaḥ|


ā0 ra0-rasasyāha-rasō’pīti| ślēṣamavadagnisādādīn karōti| apiśabdō’nyānaṣyatidēśān sūcayati| tēna raktaṁ pittavat, māṁsamēdasī ślēṣmavat|

———————————————-|
————–raktaṁ visarpaplīhavidradhīn||8||
kuṣṭhavātāsrapittāsragulmōpakuśakāmalāḥ|
vyaṅgāgnināśasammōharaktatvaṅnētramūtratāḥ||9||


sa0-raktaṁ vr̥ddhaṁ visarpādīn karōti| upakuśō nāma dantarōgajātiḥ, uttaratantrē (a. 21|21) vakṣyamāṇalakṣaṇā|


ā0 ra0-raktasyāha-raktamiti| vīsarpādayō vyaṅgāntāḥ rōgāḥ| tatrōpakuśō-dantamāṁsajarōgaḥ| vyaṅgaṁ-kṣudrarōgaviśēṣaḥ| sammōhō-mūrcchā| tvaṅnētramūtrāṇāṁ raktatvam|

māṁsaṁ gaṇḍārbudagranthigaṇḍōrūdaravr̥ddhitāḥ|
kaṇṭhādiṣvadhimāṁsaṁ ca——————–|10|


sa0-māṁsaṁ vr̥ddhaṁ gaṇḍādīn rōgān karōti| gaṇḍaśabdēna gaṇḍamālā galagaṇḍaśca gr̥hītau, ādyantalōpāt| itaraśca gaṇḍō gaṇḍamāṁsāḍhyāt| gaṇḍaścārbudaṁ ca granthiśca gaṇḍārbudagranthayaḥ| gaṇḍau ca ūrū cōdaraṁ ca tēṣāṁ vr̥ddhitā| tatō dvandvaḥ| tāḥ karōti| vr̥ddhitā-vr̥ddhitvam| kaṇṭhādiṣvadhikaṁ māṁsaṁ ca kurutē| ādiśabdēna tālujihvādiparigrahaḥ|


ā0 ra0-māṁsasyāha-māṁsamiti| gaṇḍādayō rōgāḥ| gaṇḍō-galagaṇḍādiḥ| gaṇḍayōrūrvōrudarē ca vr̥ddhatā-sthaulyam| kaṇṭhādiṣu-kaṇṭhatālujihvādiṣu| adhimāṁsaṁ-māṁsasyōpari māṁsam|

————————-tadvanmēdastathā śramam||10||
alpē’pi cēṣṭitē śvāsaṁ sphikstanōdaralambanam|
—————————————————|11|


sa0- mēdō’pi vr̥ddhaṁ gaṇḍādīn kurutē| tathālpē’pi cēṣṭitē śramaṁ kurutē, śvāsaṁ ca| tathā, sphijōḥ stanayōrudarasya ca lambanaṁ kurutē|


ā0 ra0-mēdasa āha-tadvaditi| tadvat-māṁsavat| tathā, alpē’pi cēṣṭitē śramaśvāsau| sphigādīnāṁ lambanam| sphijau-kaṭiprōthau|

—————————————————–|
asthyadhyasthyadhidantāṁśca————————|11|


sa0-asthi vr̥ddhamadhyasthyadhihantāṁśca kurutē|


ā0 ra0-asthna āha-asthīti| adhyasthi-adhikamasthi| adhidantāḥ-adhikā dantāḥ|

————————–majjā nētrāṅgagauravam||11||
parvasu sthūlamūlāni kuryātkr̥cchrāṇyarūṁṣi ca|
————————————————–|12|


sa0-majjā vr̥ddhō nētrayōraṅgānāṁ ca gauravaṁ kuryāt| kuruta iti prakr̥tē kuryādityuktaṁ spaṣṭārtham| parvasu-aṅgulyādisandhiṣu, arūṁṣi-piṭikāviśēṣān, kuryāt| kīdr̥śāni ? sthūlamūlāni,-sthūlāni mūlāni yēṣāṁ tāni| tathā, kr̥cchrāṇi-kr̥cchrasādhyāni|


ā0 ra0-majjña āha-majjēti| aṅgagauravēṇaivāktē nētragauravē nētragrahaṇamatiśayārtham| parvasu-sandhiṣu| sthūlamūlāni-mūlapradēśē sthūlāni| kr̥cchrāṇi-kaṣṭasādhyāni| arūṁṣi-vraṇān|

————————————————|
atistrīkāmatāṁ vr̥ddhaṁ śukraṁ śukrāśmarīmapi||12||


sa0-śukraṁ vr̥ddhamatistrīkāmatāṁ kuryāt, śukrāśmarīṁ ca| apiśabdādbalasnēhādyapi|


ā0 ra0-śukrasyāha-atīti| atistrīkāmatā-punaḥ punaḥ strīsaṅgēcchā| śukrāśmarī-rōgaḥ|

kukṣāvādhmānamāṭōpaṁ gauravaṁ vēdanāṁ śakr̥t|
———————————————-|13|


sa0-śakr̥t-purīṣaṁ, vr̥ddhaṁ kukṣāvādhmānādīn kuryāt| kuryāditi sambhāvanāyāṁ liṅ| ādhmānaṁ-ānāhaḥ| āṭōpaḥ-antrakūjanādi| [gauravaṁ-gurutvam, vēdanāṁ ca kukṣau|]


ā0 ra0-śakr̥ta āha-kukṣāviti| kukṣau-udarē, ādhmānādīni| ādhmānaṁ-vātēnōdarapūraṇam| āṭōpō-guḍaguḍāśabdaḥ| gauravaṁ-durvahatvam| vēdanāṁ-śūlam| śakr̥t-purīṣam|

—————————————————|
mūtraṁ tu bastinistōdaṁ kr̥tē’pyakr̥tasaṁjñatām||13||


sa0-mūtraṁ vr̥ddhaṁ bastērnistōdaṁ-ativyathāṁ kuryāt| tathā kr̥tē’pi mūtrē’kr̥tasaṁjñatāṁ-akr̥tābhāsatvamiva kuryāt|


ā0 ra0-mūtrasyāha-mūtramiti| bastinistōdō-bastidēśē vyathā| kr̥tamapi mūtrōtsargamakr̥tamiva manyatē|

svēdō’tisvēdadaurgandhyakaṇḍūḥ——————|
————————————————-|14|


sa0-svēdō vr̥ddhō’tisvēdādīn kuryāt|


ā0 ra0-svēdasyāha-svēda iti| atisvēdaḥ-svēdādhikyam| daurgandhyaṁ-durgandhatā| kaṇḍūḥ-kacchūḥ|

—————————ēvaṁ ca lakṣayēt|
dūṣikādīnapi malān bāhulyagurutādibhiḥ||14||


sa0-ēvaṁ-anēna prakārēṇa, dūṣikādīnapi malān lakṣayēt-anuminuyāt| dūṣikā-akṣimalaḥ| ādiśabdāt ghrāṇakarṇanāsāmalādīnāṁ grahaṇam| kathaṁ lakṣayēt ? ityāha-bāhulyētyādi| malabāhulyēna tatsthānagauravēṇa ca| ādigrahaṇātkaṇḍūklēdādayō gr̥hyantē|


ā0 ra0-dūṣikādīnāha-ēvaṁ cēti| dūṣikā-nētramalaḥ| ādiśabdāt karṇamalādayaḥ| ēvamiti yathā| svādhikyasvāśayagauravādibhiḥ purīṣādayō vr̥ddhā lakṣyantē| ādiśabdāt svāśayavyathādayaḥ|

vr̥ddhānāṁ vātādīnāṁ liṅgānyabhidhāya, kṣīṇānāṁ vātādīnāṁ liṅgānyāha – – – –

liṅgaṁ kṣīṇē’nilē’ṅgasya sādō’lpaṁ bhāṣitēhitam|
saṁjñāmōhastathā ślēṣmavr̥ddhayuktāmayasambhavaḥ||15||


sa0-anilē kṣīṇē-svapramāṇāpacitē, vakṣyamāṇāni liṅgāni| vāyōstu sarvakṣayē dēha ēva na syāt, kasya talliṅgaṁ syāt| kiṁ punastalliṅgam ? ityāha-aṅgasyētyādi| aṅgasya sādaḥ-kriyāsvasāmarthyam| īhitaṁ-cēṣṭitam, kāyikaṁ karma| bhāṣitaṁ cēhitaṁ ca bhāṣitēhitam,-alpavacanā’lpacēṣṭitatvaṁ ca syāt| tathā, saṁjñāmōhaḥ-saṁvidō’bhāvaḥ| tathā, ślēṣmavr̥ddhau ya uktāḥ-agnisādaprasēkādayaḥ, tēṣāmāmayānāṁ sambhavō bhavati|


ā0 ra0-atha kṣayalakṣaṇam| tatra vāyōrāha-liṅgamiti| aṅgasya sādaḥ-śrāntatvamiva| bhāṣitēhitamalpam| bhāṣitaṁ-vācikaṁ karma| īhitaṁ-kāyikam| saṁjñā-buddhiḥ, tasyā mōhōvivēcanākṣamatvam| ślēṣmavr̥ddhayuktamayāḥ-agnisadanādayaḥ|

pittē mandō’nalaḥ śītaṁ prabhāhāniḥ————|
———————————————-|16|


sa0-liṅgaṁ kṣīṇē ityanuvartatē| pittē kṣīṇē liṅgamētat| agnirmandaḥ śītaṁ kāntihāniśca syāt|


ā0 ra0-pittasyāha-pitta iti| mandō’nalaḥ-agnimāndyam| śītaṁ-himasparśēnēva duḥkham| prabhāhāniḥ-kāntināśaḥ|

——————————————kaphē bhramaḥ|
ślēṣmāśayānāṁ śūnyatvaṁ hr̥ddravaḥ ślathasandhitā||16||


sa0-kaphē kṣīṇē bhramō bhavati| tathā, ślēṣmāśayānāṁ śūnyatvaṁ bhavati| ślēṣmāśayāḥ-uraḥśiraḥsandhyādyāḥ| [tathā, hr̥ddrāvādayaḥ syuḥ| hr̥ddravaḥ-hr̥di kampa ityarthaḥ|]


ā0 ra0-kaphasyāha-kapha iti| bhramaḥ-cakrārūḍhasyēva| ślēṣmāśayānāṁ-uraḥprabhr̥tīnām| śūnyatvaṁ-riktatvam| hr̥ddravaḥ-anukampayēva pīḍā hr̥dayasya| ślathasandhitā-sandhiśaithilyam|

rasē raukṣyaṁ śramaḥ śōṣō glāniḥ śabdāsahiṣṇutā|
—————————————————–|17|


sa0-rasē kṣīṇē raukṣyādayaḥ syuḥ|


ā0 ra0-rasasyāha-rasa iti| raukṣyaṁ-snēhābhāvaḥ| śramaḥ-śrāntatvam| śōṣō-mukhādīnām| glāniḥ-klamaḥ| śabdāsahiṣṇutā-śabdaśravaṇadvēṣaḥ|

———————————————–|
raktē’mlaśiśiraprītiśirāśaithilyarūkṣatāḥ||17||


sa0-raktē kṣīṇē’mlādyabhilāṣādayaḥ syuḥ|


ā0 ra0-raktasyāha-rakta iti| amlaśītayōrabhilāṣaḥ| śirāṇāṁ śaithilyam| rūkṣatā_śarīrasya|

māṁsē’kṣaglānigaṇḍasphik”śuṣkatāsandhivēdanāḥ|
————————————————–|18|


sa0-māṁsē kṣīṇē’kṣaglāniḥ, gallayōḥ sphijōśca śuṣkatvam, sandhīnāṁ vēdanāḥ syuḥ, sphuṭantīva sandhaya ityarthaḥ|


ā0 ra0-māṁsasyāha-māṁsa iti| akṣaglāniḥ-indriyadaurbalyam| gaṇḍayōḥ sphijōśca śuṣkatā| sandhīnāṁ vyathā|

—————————————————|
mēdasi kṣīṇē kaṭyāḥ plīhnō vr̥ddhiḥ kr̥śāṅgatā||18||


sa0-mēdasi kṣīṇē kaṭyāḥ svāpaḥ plīhavr̥dhiḥ kr̥śāṅgatvaṁ ca|


ā0 ra0-mēdasa āha-mēdasīti| kaṭhyāḥ svapanaṁsparśājñatvam| plīhnō vr̥ddhiḥ| itarēṣāmaṅgānāṁ kārśyam|

asthnyasthitōdaḥ śadanaṁ dantakēśanakhādiṣu|
———————————————-|19|


sa0-asthni kṣīṇē’sthnāṁ tōdō bhavati| śadanaṁ-śātaḥ, pāta ityarthaḥ| kēṣām ? dantādīnām|


ā0 ra0-asthna āha-asthnīti| asthitōdaḥ-asthnāṁ vyathā| dantādīnāṁ śadanaṁ-śātaḥ| ādiśabdādrōmādayaḥ|

————————————————-|
asthnāṁ majjani sauṣiryaṁ bhramastimiradarśanam||19||


sa0-majjani kṣīṇē’sthnāṁ sauṣiryaṁ bhramādiśca|


ā0 ra0-majjña āha-asthnamiti| asthnāṁ sauṣiryaṁ sarandhratvam| bhramaḥ-cakrārūḍhasyēva| timiradarśanaṁ-sarvasyaiva vastunastamōrūpatvēnāvabhāsaḥ|

śukrē cirāt prasicyēta śukraṁ śōṇitamēva vā|
tōdō’tyarthaṁ vr̥ṣaṇayōrmēḍhraṁ dhūmāyatīva ca||20||


sa0-śukrē kṣīṇē śukraṁ cirāt prasicyēta, raktaṁ vā| prasicyētēti karmakartari| vr̥ṣaṇayōratiśayēna tōdō-vyathā syāt| mēḍhraṁ-śiśnaṁ, dhūmāyatīva ca| dhūmāyatīti lōhitādērākr̥tigaṇatvāt kvip, akr̥tsārvadhātukētyādinā dīrghaḥ|


ā0 ra0-śukrasyāha-śukra iti| śukraṁ sambhōgē cirāt prasicyēta, śōṇitamēva vā| prasicyēta-sravēt| vr̥ṣaṇayōratyarthaṁ vēdanā| mēḍhraṁ dhūmāyati| lōhitādikyaṣantāt parasmaipadam|

purīṣē vāyurantrāṇi saśabdō vēṣṭayanniva|
kukṣau bhramati yātyūrdhvaṁ hr̥tpārśvē pīḍayan bhr̥śam||21||


sa0-purīṣē kṣīṇē vāyuḥ kukṣau bhramati| antrāṇi vēṣṭayanniva śabdaṁ janayan yātyūrdhvam| kiṁ kurvan ? hr̥tpārśvē bhr̥śaṁ pīḍayan|


ā0 ra0-purīṣasyāha-purīṣa iti| antrāṇi vēṣṭayanniva saśabdō vāyuḥ kukṣau bhramati, kadācit hr̥dayapārśvē pīḍayannūrdhvaṁ yāti|

mūtrē’lpaṁ mūtrayētkr̥cchrādvivarṇaṁ sāsramēva vā|
—————————————————|22|


sa0- mūtrē kṣīṇē’lpaṁ mūtrayēt, kr̥cchrādvivarṇaṁ saraktamēva vā|


ā0 ra0-mūtrasyāha-mūtra iti| alpaṁ mūtraṁ kr̥cchrānmūtrayēt| tacca vivarṇaṁ-raktamiśravarṇābhaṁ, raktamiśramēva vā| ēvakārēṇa raktavarṇābhāsatvaṁ vyāvartyatē| ata ēva vivarṇaśabdēna tallabhyatē|

—————————————————|
svēdē rōmacyutiḥ stabdharōmatā sphuṭanaṁ tvacaḥ||22||


sa0-svēdē kṣīṇē rōmṇāṁ cyutiḥ-śātaḥ, rōmṇāṁ ca stabdhatvam| tvacaḥ-carmaṇaḥ, sphuṭanaṁ-daraṇam|


ā0 ra0-svēdasyāha-svēda iti| kēṣāṁcidrōmṇāṁ cyutiḥ, kēṣāṁcit stabdhatā| tvacaḥ sphuṭanaṁ-vidāraṇam|

idānīṁ ghrāṇādimalānāmapi sāmānyēnakṣayaliṅgamāha – – – –

malānāmatisūkṣmāṇāṁ durlakṣyaṁ lakṣayēt kṣayam|
svamalāyanasaṁśōṣatōdaśūnyatvalāghavaiḥ||23||


sa0-malānāmatisūkṣmāṇāṁ-susvalpānāṁ dūṣikādīnāṁ, duḥkhēna bōddhuṁ śakyaṁ-durlakṣyam, kṣayaṁ lakṣayēt-jānīyāt| kaiḥ ? malānāṁ sthānāni-malāyanāni, svāni ca tāni malāyanāni ca-svamalāyanāni, tēṣām saṁśōṣatōdaśūnyatvalāghavāni-svamalāyanasaṁśōṣatōdaśūnyatvalāghavāni, taiḥ|


ā0 ra0-dūṣikādīnāmāha-malānāmiti| atisūkṣmāṇāṁ-atyalpānām| atisūkṣmatvādēva durlakṣyam| malāyanaṁ-malamārgō nētrādiḥ, tasya saṁśōṣādayaḥ|

ēvaṁ vyāsēna dōṣadhātumalānāṁ vr̥ddhikṣayāvabhidhāya samāsatō’bhidhātumidamāha-

dōṣādīnāṁ yathāsvaṁ ca vidyāddr̥ddhikṣayau bhiṣak|
kṣayēṇa viparītānāṁ guṇānāṁ vardhanēna ca||24||
vr̥ddhiṁ malānāṁ saṅgācca kṣayaṁ cāti visargataḥ|
—————————————————|25|


sa0-dōṣadhātumalānāṁ vr̥ddhikṣayau jānīyāt| katham ? yathāsvaṁ dōṣādīnāṁ guṇēbhyō viparītā yē guṇāstēṣāṁ guṇānāṁ kṣayēṇa vardhanēna ca dēhagatēna dōṣādīnāṁ yathākramaṁ vr̥ddhiṁ kṣayaṁ ca vidyāt| yathā,-vāyōrguṇā rūkṣalaghuśītādayaḥ, tēṣāṁ viparītāḥ-snigdhagurūṣṇādayaḥ, tēṣāṁ snigdhādīnāṁ dēhē yadā kṣayō dr̥śyatē tadā vāyōrvr̥ddhiṁ vidyāt| yadā tu tēṣāṁ snigdhādīnāṁ dēhē vr̥ddhirdr̥śyatē tadā vāyōḥ kṣayō jñēyaḥ| ēvaṁ svabudhdyā vikalpya malānāṁ dhātūnāṁ ca vācyam| vr̥ddhiṁ malānāmityādi| na kēvalaṁ malānāṁ pūrvōktēna prakārēṇa vr̥ddhikṣayau jñēyau, yāvadamunā’pi vakṣyamāṇēna lakṣaṇēna tēṣāṁ vr̥ddhikṣayau jñēyau, [iti caśabdēna dyōtayati]| ēvaṁ svabudhdyā vikalpya, malānāṁ saṅgāt-bahiraniḥsaraṇalakṣaṇācca vr̥ddhiṁ vidyāt| tēṣāmēva malānāmativisargāt-atipravartanāt kṣayaṁ vidyāt|


ā0 ra0- nidānamāha- dōṣādīnāmiti| yathāsvaṁ viparītānāṁ guṇānāṁ kṣayēṇa nidānēna dōṣādīnāṁ vr̥ddhiṁ, vardhanēna kṣayaṁ, jānīyāt| tau ca rūkṣādīnāṁ guṇānāṁ bahutvālpatvābhyāṁ kramādbhavataḥ| tatra kṣayēṇōtpannaṁ vikāraṁ vāyōrvr̥ddhiriti vyavasyēt, vardhanēnōtpannaṁ kṣaya iti| ēvaṁ pittādiṣvapi| tathā, malānāmapyatisaṅgānnidānāddōṣādīnāṁ vr̥ddhiṁ vidyāt, ativisargāt kṣayam| tatrātisaṅgō-yathākālamaśōdhanādvēgavidhāraṇādviṣṭambhakāhāravihāraśīlanācca| ativisargō-atiśōdhanādvēgōdīraṇātsraṁsanāhāravihārasēvanācca|

—————————————————|
malōcitatvāddēhasya kṣayō vr̥ddhēstu pīḍanaḥ||25||


sa0-dvāvapi malānāṁ vr̥ddhikṣayau pīḍākarau dēhasya| tatrāpi ya ēṣāṁ kṣayaḥ sa vr̥ddhitō’pyatiśayēna pīḍākaraḥ, anaucityāt| dēhināṁ hi prāyēṇa malakṣayō’nucitō-anabhyastaḥ, vr̥ddhistūcitaivēti na tathā pīḍāṁ karōti|


ā0 ra0-kṣayavr̥- pīḍākaratvē tāratmyamāha-malōcitatvāditi| dōṣādīnāṁ vr̥ddhirdēhapīḍanī| kṣayastu tatō’pi dēhapīḍanaḥ| kutaḥ? malōcitatvāt| dēhō hi malasātmyaḥ| sātmyaṁ ca bahnapi nātibādhatē| vakṣyati(?)-“sātmayaṁ hyāśu balaṁ dhattē nātidōṣaṁ ca bahnapi|” iti| malaśabdēna dōṣadhātumalānāṁ grahaṇam| vakṣyati hi (hr̥. sū.a. 19/86) – “viṭślēṣmapittādimalōccayānāṁ vikṣēpasaṁhārakaraḥ sa yasmāt|” iti|

atha dōṣādīnāmāśrayāśrayibhāvaṁ darśayati – – – –

tatrāsthani sthitō vāyuḥ, pittaṁ tu svēdaraktayōḥ|
ślēṣmā śēṣēṣu, tēnaiṣāmāśrayāśrayiṇāṁ mithaḥ||26||
yadēkasya tadanyasya vardhanakṣapaṇauṣadham|
asthimārutayōrnaivaṁ, prāyō vr̥ddhirhi tarpaṇāt||27||
ślēṣmaṇā’nugatā tasmāt saṅkṣayastadviparyāt|
vāyunā’nugatō’smācca vr̥ddhikṣayasamudbhavān||28||
vikārān sādhayēcchīghraṁ kramāllaṅghanabr̥ṁhaṇaiḥ|
—————————————————|29|


sa0-tatra-tēṣu vātādiṣu madhyē, asthni vāyuḥ sthitaḥ-āśritaḥ| pittaṁ tu svēdaraktayōḥ sthitam| ślēṣmā śēṣēṣu-rasamāṁsamēdōmajjaśukramūtrapurīṣādiṣu sthitaḥ| yataścaivamāśrayāśrayibhāvōdōṣadhātūnāṁ, tēna hētunā, āśrayāśrayiṇāṁ mithaḥ-parasparaṁ, yadēkasya-āśrayasya vardhanaṁ, tadanyasya-āśrayiṇō’pi vardhanam, yadāśrayasya kṣapaṇaṁ tadāśrayiṇō’pi kṣapaṇam| nanu, ēvamasthnō vātāśrayasya yadvardhanaṁ tadasyāśrayiṇō vātasyāpi vardhanaṁ, yadasya kṣapaṇaṁ tadapi vātasya kṣapaṇaṁ prāpnōtītyata āha-asthītyādi| asthimārutayōrnaivaṁ vardhanakṣapaṇauṣadham, sambhavatītyadhyāhāryam| hi-yasmāt, prāyō-bāhulyēna, yā vr̥ddhiḥ-vardhanaṁ dōṣadhātūnām, sā tarpaṇāt-br̥ṁhaṇādbhavati| prāyōgrahaṇaṁ vāyuparihārārtham| sā ca ślēṣmaṇā’nugatā-anubaddhā| yata ēvaṁ yā vr̥ddhiḥ sā santarpaṇāt, tasmāddhētōrya ēṣāṁ dōṣādīnāṁ kṣayaḥ sa prāyō-bhūyiṣṭham, apatarpaṇāt-laṅghanarūpādbhavati| sa ca saṅkṣayō vāyunā’nugataḥ| ēvaṁ yadasthnō vardhanamauṣadham, tat snigdhamadhurādi br̥ṁhaṇarūpaṁ vātasya kṣapaṇam| yacca vātasya vardhamauṣadham, tat rūkṣatiktādyapatarpaṇaṁ laṅghanarūpamasthnaḥ kṣapaṇam| tadarthamētaduktam-asmāccētyādi| yata ēvaṁ vr̥ddhēḥ santarpaṇarūpatvaṁ kṣayasyāpatarpaṇarūpatvam, atō vr̥ddhikṣayasambhavān vikārān dōṣadhātūnāṁ sambandhinaḥ kramāllaṅghanabr̥ṁhaṇaiḥ sādhayēt-upakramēt| katham ? śīghraṁ cirōtthitā hi tē duścikitsyāḥ syuḥ| vr̥ddhyutthān vikārān laṅghanaiḥ, kṣayōtthān br̥ṁhaṇairiti kramārthaḥ|


ā0 ra0-dūṣyāṇāṁ vr̥ddhikṣayahētvādivijñānārthaṁ dōṣadūṣyayōrāśrayāśrayibhāvamāha-tatrēti| tatra-tēṣu dōṣādiṣu madhyē| śēṣēṣu-rasamāṁsamēdōmajjaśukramūtrapurīṣādiṣu|

āśrayāyibhāvasya phalamāha tēnēti| tēna-āśrayāśrayibhāvēna hētunā| ēṣāṁ-dōṣādīnām| āśrayāśrayiṇāṁ ādhārādhēyabhāvēna sthitānām| yadēkasya vardhanakṣapaṇauṣadhaṁ tadēvānyasya| katham? mithaḥ,-parasparam| yadāśrayasya tadāśrayiṇaḥ, yadāśrayiṇastadāśrayasyētyarthaḥ| vardhanaṁ-vr̥ddhi hētuḥ| kṣapaṇaṁ-kṣayahētuḥ| auṣadhaṁ-vaiṣamyanivartakam, sāmyahēturityarthaḥ|

apavādamāha-asthimārutayōriti| asthimārutayōrāśrayāśrayibhāvē’pyēvaṁ na jñēyam| yaddhi vāyōrvardhanaṁ rūkṣādi, tadasthnaḥ kṣapaṇam| yadasthnō vardhanaṁ snigdhādi, tadvāyōḥ kṣapaṇam| asthnō vr̥ddhau laṅghanamauṣadham| vāyōrvr̥ddhau br̥ṁhaṇam| asthikṣayē br̥ṁhaṇamauṣadham, vātakṣayē laṅghanamiti|

athōpaśayaṁ vivakṣuśchikitsāmāha| cikitsaiva hi prayujyamānā upaśaya ucyatē| vakṣyati hi (hr̥. ni. a. 1/6) -“hētuvyādhivaparyastaviparyastārthakāriṇām| auṣadhānnavihārāṇāmupayōgaṁ sukhāvaham|| vidyādupaśayaṁ vyādhēḥ sa hi sātmyamiti smr̥taḥ|” iti| cikitsā ca dvividhā,-br̥ṁhaṇalaṅghanabhēdāt| tatra br̥ṁhaṇalaṅghanē vibhajati-prāyō vr̥ddhiriti| vr̥ddhijān vikārān laṅghanēna sādhayēt, kṣayajān br̥ṁhaṇēna| kutō’yaṁ vibhāgaḥ? hi-yasmāt, vr̥ddhistarpraṇātbr̥ṁhaṇādbhavati| sā ca ślēṣmaṇā’nugatā,-yatra yatra vr̥ddhistatra tatra ślēṣmā, pittādivr̥ddhāvapi ślēṣmānugamō’stītyarthaḥ| tasmātsarvēṣu vr̥ddhivikārēṣu laṅghanamauṣadham, hētuviparītatvāt ślēṣmānugamēna vyādhiviparītatvācca| tathā, saṅkṣayastadviparyayāt-tarpaṇaviparyayāllaṅghanādbhavati| sa ca vāyunā’nugataḥ,-yatra yatra kṣayastatra tatra vāyuḥ, kaphādikṣayē’pi vāyōranugamō’stītyarthaḥ| tasmātsarvēṣu kṣayavikārēṣu br̥ṁhaṇamauṣadham, hētuviparītatvādvātānugamēna vyādhiviparītatvācca|

nanu, ēvaṁ vātavr̥ddhyutthān vikārān laṅghanaistatkṣayōtthān br̥ṁhaṇairiti syāt|
ata idamāha – – – –

—————————————————|
vāyōranyatra, tajjāṁstu tairēvōtkramayōjitaiḥ||29||


sa0-vāyuṁ hitvā vr̥ddhyutthān vikārān laṅghanaiḥ, kṣayōtthān br̥ṁhaṇaiḥ sādhayēt| tajjān-vāyusambhavān vikārān, punastairēva-laṅghanabr̥ṁhaṇairutkramayōjitairupakramēt| yathānirdiṣṭakramādviparītaḥ kramaḥ-utkramaḥ| yathā,-vātavr̥ddhyutthān vikārān br̥ṁhaṇaiḥ tatkṣayōtthāṁśca laṅghanairiti|


ā0 ra0-ētacca sarvaṁ vāyōranyatra| vāyuvr̥ddhau tarpaṇaṁ na hētuḥ, na vā laṅghanamauṣadhamityarthaḥ| tarhi tatra kim? ityata āha-tajjāniti| tajjān-vāyuvr̥ddhikṣayajān| vr̥ddhijān br̥ṁhaṇēna sādhayēt, kṣayajān laṅghanēna, ityutkramayōjanā| vāyuvr̥ddhirlaṅghanāt, kṣayō br̥ṁhaṇādityata ēva jñēyam| prāyōgrahaṇāvdyabhicārō’pi| yathā (saṅgrahē sū. a. 7) -“kaphē laṅghanasādhyē’pi kartari jvaragulmayōḥ| tulyē’pi dēśakālādau laṅghanaṁ na samaṁ matam||” iti|

dōṣāṇāṁ viśēṣacikitsēha nōktā, dōṣōpakramaṇīyē vakṣyamāṇatvāt|
rasacikitsā ca “rasō’pi ślēṣmavat” ityuktērnēha punarnirdiṣṭā|
atō raktādīnāṁ cikitsāmāha – – – –

viśēṣādraktavr̥ddhyutthān raktasrutivirēcanaiḥ|
māṁsavr̥ddhibhavān rōgān śastrakṣārāgnikarmabhiḥ||30||
sthaulyakārśyōpacārēṇa mēdōjānasthisaṅkṣayāt|
jātān kṣīraghr̥taistiktasaṁyutarbastibhistathā||31||
viḍvr̥ddhijānatīsārakriyayā, viṭkṣayōdbhavān|
mēṣājamadhyakulmāṣayavamāṣadvayādibhiḥ||32||
mūtravr̥ddhikṣayōtthāṁśca mēhakr̥cchracikitsayā|
vyāyāmābhyañjanasvēdamadyaiḥ svēdakṣayōdbhavān||33||


sa0-vr̥ddhikṣayōpakramē ēvaṁ sthitē’pi viśēṣēṇa raktavr̥ddhyutthān raktasrutivirēcanairupakramēta| māṁsavr̥ddhijān śastrakṣārāgnikarmabhiḥ| mēdōvr̥ddhikṣayābhyāṁ jātān-mēdōjāniti madhyamapadalōpō’tra draṣṭavyaḥ| mēdōvr̥ddhijān vikārān sthaulyōpacārēṇa dvividhōpakramaṇīyōktyā sthaulyacikitsayā, mēdaḥkṣayajān kārśyōpacārēṇōpācarēt| asthikṣayajān kṣīraghr̥taistiktasaṁyutaiḥ, bastibhistathā-tathārūpaistiktasaṁyutairityarthaḥ| nanu, yāni vātakr̥nti dravyāṇi tānyasthikṣayōdbhavavikārāṇāṁ vr̥ddhikaraṇānīti taddravyōpayōgō’tra na yuktaḥ, tiktasya vātakr̥tatvāt| atrōcyatē| yaddravyaṁ snigdhaṁ śōṣaṇaṁ kharatvamutpādayati tadasthnō vardhanaṁ yuktam, kharasvabhāvatvādasthnām| na caivaṁvidhamēkaṁ dravyamasti, yat snigdhaṁ śōṣaṇaṁ ca| tasmāt kṣīraghr̥taistiktasaṁyutairbastibhiśca tiktasaṁyutaiścētyupadiṣṭam| kṣīraghr̥tasya tiktayuktasya kharasvabhāvatvāt| viḍvr̥ddhijān-purīṣavr̥ddhijān, atīsāracikitsayā sādhayēt| viṭkṣayōdbhavān mēṣājamadhyādibhiḥ sādhayēt| mēṣa-urabhraḥ, ajaḥ-cchāgaḥ, tayōrmadhyaṁ-antarādhiḥ| kulmāṣaḥ-ardhasvinnō māṣādirhiṅgughr̥tādisaṁskr̥taḥ| māṣadvayaṁ-māṣō rājamāṣaśca| ādiśabdēna kākāṇḍōlātmaguptādīnāṁ grahaṇam| mūtravr̥ddhyutthān mēhacikitsayā, mūtrakṣayōtthān mūtrakr̥cchracikitsayā, svēdakṣayajān vyādhīn vyāyāmādibhiḥ sādhayēt|


ā0 ra0-atha kēṣāṁcidviśēṣaḥ| tatra raktavr̥ddhijānāhaviśēṣāditi| raktasrutiḥ-śirāvyadhādiḥ|

māṁsavr̥ddhijānāha-māṁsavr̥ddhibhavāniti|

mēdōjānāha-sthaulyēti| mēdōvr̥ddhijān sthaulyōpacārēṇa-dvividhōpakramaṇīyādhyāyōktēna| mēdaḥkṣayanān kārśyōpacārēṇa|

asthikṣayajānāha-asthisaṅkṣayāditi| tathēti tiktasaṁyutaiḥ| tathā ca khāraṇādiḥ-“pañcakarmāṇi sarpīṣi satiktā bastayastathā| payaḥ” iti| na caivaṁ tiktasaṁyutairiti bastīnāmēva viśēṣaṇaṁ vaktuṁ yuktam, “bastayaḥ kṣīrasarpīṣi tiktakōpahitāścha yē|” iti carakavacanāt (sū. a. 28/24)|

viḍvr̥ddhijānāha-viḍvr̥ddhijāniti| atīsārakriyayā atīsāracikitsitēna|

viṭkṣayajānāha-viṭkṣayōdbhavāniti| mēṣājayōrmadhyaṁ-antarādhiḥ| māṣadvayaṁ-māṣō rājamāṣaścha| ādiśabdānmatsyamāṁsādayaḥ|

mūtravr̥ddhikṣayajānāha-mūtrēti| mūtravr̥ddhijān pramēhacikitsayā| mūtrakṣayajān kr̥cchracikitsayā|

svēdakṣayajānāha-vyāyāmēti|

svasthānasthasya kāyagnēraṁśā dhātuṣu saṁśritāḥ|
tēṣāṁ sādātidīptibhyāṁ dhātuvr̥ddhikṣayōdbhavaḥ||34||
pūrvō dhātuḥ paraṁ kuryāddr̥ddhaḥ kṣīṇaśca tadvidham|
—————————————————|35|


sa0-svasthānaṁ kāyāgnēḥ-pakvāmāśayayōrmadhyam| yathā ca vakṣyati (hr̥. sū. a. 12|10) – “pittaṁ pañcātmakaṁ tatra pakvāmāśayamadhyagam|” ityādi yāvat “pācakaṁ nāma tat smr̥tam|” iti| tatra pakvāmāśayamadhyē tiṣṭhatīti svasthānasthaḥ, tasyaivaṁvidhasya kāyāgnēḥ-jāṭharānalasya, aṁśāḥ-bhāgāḥ, dhātuṣu-rasādiṣu saṁśritāḥ| tēṣāṁ-agnyaṁśānām, sādēna-māndyēna, dhātūnāṁ vr̥ddhyudbhavaḥ| tathā tēṣāmaṁśānāmatidīptyā-atitaikṣṇyāt, dhātukṣayōdbhavaḥ| pūrvō-rasākhyō, dhāturvr̥ddhō bhūtvā paraṁ-raktākhyaṁ, dhātuṁ vr̥ddhaṁ kuryāt| pūrvaśca kṣīṇō dhātuḥ paraṁ dhātuṁ tadvidhaṁ-kṣīṇamēva kuryāt|


ā0 ra0-dhātujānāmupakramāntaramāha-svasthānasthasyēti| svasthānasthatya-grahaṇīsthasya| kāyāgnēḥ-annapaktuḥ| aṁśāḥ-kṣudrāṇi rūpāntarāṇi| dhātuṣu-dhātvāśayēṣu, sarvadhātvagnaya ityarthaḥ| tēṣāṁ sādēna-māndyēna dhātuvr̥ddhayudbhavaḥ, atidīptyā dhātukṣayaścha| dhātuvr̥ddhau māndyōpakramaḥ, dhātukṣayē taikṣṇyōpakramaḥ kārya ityarthaḥ| tathā, pūrvō dhāturvr̥ddhaḥ paraṁ vr̥ddhaṁ kuryāt, kṣīṇaḥ kṣīṇam| paradhātōrvr̥ddhau pūrvasya kṣayaḥ kāryaḥ, kṣayē vruddhirityarthaḥ| ityupaśayaprakaraṇam|

—————————————————|
dōṣā duṣṭā rasairdhātūn dūṣayantyubhayē malān||35||
adhō dvē, sapta śirasi, khāni svēdavahāni ca|
malā malāyanāni syuryathāsvaṁ tēṣvatō gadāḥ||36||


sa0-dōṣā duṣṭā rasaiḥ-madhurādibhirmithyāyōgātiyōgasēvitaiḥ kupitāḥ, dhātūn dūṣayanti| ubhayē-dōṣā dhātavaśca, malān dūṣayanti| malā malāyanāni dūṣayantīti sambandhaḥ| tathā ca muniḥ (ca. sū. a. 7|42) – “malāyanāni bādhyantē duṣṭairmātrādhikairmalaiḥ|” iti| kāni malāyanāni ? ityāha-adhō dvē ityādi| adhō dvē-gudamēḍhrākhyē, sapta śirasi khāni-dvē akṣiṇī dvau karṇau dvau nāsāpuṭāvāsyaṁ cēti, tathā svēdavahāni-rōmakūpākhyāni chidrāṇi sarvaśarīragatāni, malāyanāni syuḥ| atō-dūṣaṇātkāraṇāt, tēṣu-malāyanēṣu duṣṭēṣu, yathāsvaṁ gadāḥ-rōgāḥ syuḥ| yō yasya svō- yathāsvam|


ā0 ra0-vr̥ddhikṣayavikārasamprāptimāha-dōṣā duṣṭā iti| rasaiḥ-madhurādibhiḥ, duṣṭā dōṣāḥ-vātādayō,dhātūn-rasādīn, dūṣayanti| rasagrahaṇaṁ vīryādīnāmupalakṣaṇam| ubhayē-dōṣā dhātavaścha, malān-purīṣādīn, dūṣayanti| tē malā malāyanāni-srōtāṁsi, dūṣayanti| kāni punastāni? adhō dvē-guhyaṁ gudaścha| sapta śirasi-karṇau nētrē nāsikē mukhaṁ ca| svēdavahāni khāni-rōmakūpāḥ, tēṣāmasaṅkhyatvātsaṅkhyānuktiḥ| atō-duṣṭēranantaram, tēṣu-duṣṭēṣu dōṣadhātumalamalāyanēṣu, gadāḥ syuḥ| katham? yathāsvam,- svasthānānatikramēṇa| sthānavibhāga uktaḥ saṅgrahē (sū.a. 19)-“vakṣyantē vātajāstatra nidānē vātarōgikē| pittaṁ tvaci sthitaṁ kuryādvisphōṭakamasūrikāḥ|| raktē visarpaṁ dāhaṁ ca māṁsē māṁsapākakōthanam| sadāhān mēdasi granthīn svēdātyudvamanaṁ tr̥ṣam|| asthni dāhaṁ bhr̥śaṁ mañjñi hāridranakhanētratām| pūti pītāvabhāsaṁ ca śukraṁ śukrasamāśritam|| śirāgataṁ krōdhanatāṁ pralāpaṁ srāyugaṁ tr̥ṣam| kōṣṭhagaṁ madatr̥ṭdāhān vyāpinō’nyāṁścha yakṣmaṇaḥ| ślēṣmā tvaci sthitaḥ kuryātstambhaṁśvētāvabhāsatām| pāṇḍvāmayaṁ śōṇitagō māṁsasaṁsthō’rbudāpacī|| ārdracarmāvanaddhābhagātratāṁ cātigauravam| mēdōgaḥ sthūlatāṁ mēhamasthnāṁ stabdhatvamasthigaḥ|| majjagaḥ śuklanētratvaṁ śukrasthaḥ śukrasañcayam| vibandhaṁ gauravaṁ cāti śirāsthaḥ stabdhagātratām|| srāyugaḥ sandhiśūnyatvaṁ kōṣṭhagō jaṭharōnnatim| arōcakāvipākau ca tāṁstāṁścha kaphajān gadān|| viṇmūtrayōḥ sāśrayayōstatra tatrōpadēkṣyatē| upatāpōpaghātau ca svāśrayēndriyagairmalaiḥ||” iti|

dōṣadhātumalānāṁ samaviṣamāvasthā gaditā|
ōjasastu nirūpayannāha – – – –

ōjastu tējō dhātūnāṁ śukrāntānāṁ paraṁ smr̥tam|
hr̥dayasthamapi vyāpi dēhasthitinibandhanam||37||
snigdhaṁ sōmātmakaṁ śuddhamīṣallōhitapītakam|
yannāśē niyataṁ nāśō yasmiṁstiṣṭhati tiṣṭhati||38||
niṣpadyantē yatō bhāvā vividhā dēhasaṁśrayāḥ|
—————————————————|39|


sa0-rasādīnāṁ dhātūnāṁ śukrāntānāṁ yatparaṁ-utkr̥ṣṭaṁ, tējastadōjaḥ smr̥tam, [na tu śukrasyaiva malaḥ|] tathā,hr̥dayasthamapi vyāpi| sakalaśarīravyāpinastasya ṣaḍbindukasya viśēṣēṇa hr̥dayaṁ sthānam| tathā, dēhasya sthitirdēhasthitistasyā nibandhanaṁ-jīvitādhiṣṭhānamityarthaḥ| anyē tvāhuḥ, paraśabdēnaitat dyōtayati,-anyadapyōjō’sti na taddhātūnāṁ śukrāntānāṁ tējaḥ, ślēṣmākhyamiti| tathā cōktaṁ saṅgrahē (sū. a. 19) – “tējō yatsarvadhātūnāmōjastat paramucyatē| mr̥du sōmātmakaṁ śuddhaṁ raktamīṣatsapītakam||” ityādi| yannāśē-yasyaujasō’bhāvē, niyataṁ-niścitaṁ, prāṇinō nāśaḥ-abhāvaḥ| yasminnōjasi tiṣṭhati-vidyamānē, tiṣṭhati-prāṇiti, dēhīti śēṣaḥ| yatō-yasmāt, bhāvāḥ-padārthāḥ, niṣpadyantē-jāyantē| kimbhūtāḥ ? vividhāḥ-anēkaprakārāḥ| tathā, dēhaḥ saṁśrayō yēṣāṁ tē dēhasaṁśrayāḥ| lakṣaṇamōjasō muninā’bhyadhāyi (ca. sū. a. 17|74) – “hr̥di tiṣṭhati yacchuddhaṁ snigdhamīṣatsapītakam| ōjaḥ śarīrē saṅkhyātaṁ tannāśē nā vinaśyati||” ityādi|


ā0 ra0-athaujōvijñānam, tasyāpi malatvāt| vakṣyati hi (hr̥. śā. a. 3/63) -“kaphaḥ pittaṁ malāḥ khēṣu prasvēdō nakharōma ca| snēhō’kṣitvagviśāmōjō dhātūnāṁ kramaśō malāḥ||” iti| yattuktaṁ saṅgrahē (śā. a. 6) -“śukrasya sāra ōjaḥ| atyantaṣuddhatayā cāsmin malatvābhāvaḥ| anyē punarata ēva tasya nēcchanti pākam|” iti| tannaraśarīracaraśukraviṣayam| yattu sambhōgādaṅganāgarbhāśayagatamārtavēnaikatra lōlībhūtaṁ jīvādhiṣṭhitaṁ śukraṁ, tasya pākādrasādivanmalasārau staḥ| tatra mala ōjaḥ, sārō garbhaḥ| vakṣyati hi (hr̥. śā. a. 3/63) -“rasādraktaṁ tatō māṁsaṁ māṁsānmēdastatō’sthi ca| asthnō majjā tataḥ śukraṁ śukrādgarbhaḥ prajāyatē||” iti| malatvaṁ ca garbhāpēkṣayā, rasādyapēkṣayā tu sāaatvamēvēti| ata ēvāha carakaḥ (sū. a. 30/9, saṅgrahē ca sū. a. 19) -“yatsāramādau garbhasya yacca garbharasādrasaḥ| saṁvartamānaṁ hr̥dayaṁ samāviśati yatpurā|| yaccharīrarasasnēhaḥ prāṇā yatra pratiṣṭhitāḥ|” iti| na caivamōjōnēkatvaṁ vācyam| yadēva hi śukramalarūpamōjaḥ, tadēva garbhahr̥dayamanupraviṣṭamaṣṭabindupramāṇamārtavānuviddhatvādīṣadraktapītaṁ jīvānuviddhaṁ jīvaśōṇitamucyatē| uktaṁ ca tantrāntarē-“prāṇāśrayasyaujasō’ṣṭau bindavō hr̥dayāśritāḥ|” iti| tathā carakō’pi (sū. a. 17/74) -“hr̥di tiṣṭhati yacchuddhaṁ raktamīṣatsapītakam| ōjaḥ śarīrē vyākhyātaṁ tannāśānmriyatē naraḥ||” iti| tadēvāhārarasēna samānaguṇatvādāpyāyitamardhāñjaliparimāṇaṁ sarvadēhavyāpi rasātmakamucyatē| yadvakṣyati (hr̥. śā. a. 3/18) -“daśamūlaśirā hr̥tsthāstāḥ sarvaṁ sarvatō vapuḥ| rasātmakaṁ vahantyōjastannibaddhaṁ hi cēṣṭitam||’ iti| khāraṇādirapyāha-“rasadhātōḥ paraṁ dhāma pacyamānātprasīdati| saumyasvabhāvaṁ raktāgrē yattadōjaḥ prakīrtitam||” iti| tadēva sarvān dhātūnanupraviṣṭaṁ tēṣāṁ prabhāvātiśayamādadhānaṁ tattēja ucyatē| yadāha suśrutaḥ (sū. a. 15/23) -“rasādīnāṁ śukrāntānāṁ dhātūnāṁ yatparaṁtējaḥ tadōjastadbalamityucyatē|” iti| tadēva punaḥ pākāccāmīkaramivāpētōpādhimalamatyantaṁ śukrasāra ucyatē| tasmācchukramalarūpaṁ mūlabhūtamēvāja iti sthitam| yattūktaṁ carakēṇā (sū. a. 17/115) -“prākr̥tastu balaṁ ślēṣmā vikr̥tō mala ucyatē| sa caivōjaḥ smr̥taḥ kāyē” iti| tadōjō hētutvāt ślēṣmaṇa ōjastvam, āyurghr̥tamitivat| ētēnaitadupapannam, “dhātūnāṁ tējasi rasē tathā jīvitaśōṇitē| ślēṣmaṇi prākr̥tē vaidyairōjaḥśabdaḥ prakīrtitaḥ||” iti| ōjasō malatvē’pi pr̥thakvathanaṁ prādhānyakhyāpanārtham| prādhānyē hētumāha-ōjastviti| ōjaḥ punaḥ paraṁ-pradhānaṁ smr̥tam| taddhi śukrāntānāṁ dhātūnāṁ paraṁ tējaḥ| śukrāntānāṁ grahaṇaṁ sarvadhātuprāptyartham| tathā, hr̥dayastham| na kēvalaṁ tatsthaṁ vyāpyapi| dēhasthitinibandhana,- dēhasya sthitayō-nānāvasthāḥ, tāsāṁ nibandhanaṁ-kāraṇam|

kāraṇatvamēva vivr̥ṇōti-yannāśa iti|

—————————————————|
ōjaḥ kṣīyēta kōpakṣuddhyānaśōkaśramādibhiḥ||39||
bibhēti durbalō’bhīkṣṇaṁ dhyāyati vyathitēndriyaḥ|
duḥcchāyō durmanā rūkṣō bhavētkṣāmaśca tatkṣayē||40||
jīvanīyauṣadhakṣīrarasādyāstatra bhēṣajam|
—————————————————|41|


sa0-ōjaḥ kōpādibhiḥ kṣīyēta| tatkṣayē-tasyaujasaḥ kṣayē, bibhēti durbala ityādilakṣaṇam| jīvanīyauṣadhādyāstatra bhēṣajam| jīvanīyauṣadhāni-jīvantyādīni daśa jīvanasaṁjñāni (hr̥. sū. a. 15|8) tathā’nyāni yāni madhurāṇi kṣīrādīni dravyāṇi| kṣīrasya jīvanīyatvēnaiva grahaṇē siddhē pr̥thakpāṭhō’tiśayārthaḥ, atiśayēnātra kṣīramauṣadhamiti| rasō-māṁsarasaḥ| ādi (dya)-grahaṇēna kākāṇḍōlātmaguptāghr̥tādiparigrahaḥ|


ā0 ra0-kṣayahētūnāha-ōjaḥ kṣīyētēti| kṣut-bubhukṣā| dhyānaṁ-cintā| ādiśabdāt-bhramōntrāsakaṭurūkṣabhōjanādayaḥ|

ōjaḥkṣayaṁ lakṣayati-bibhētīti| bibhēti-trasyati| durbalō-hīnabalō bhavati| abhīkṣṇaṁ-punaḥpunarakasmāt| dhyāyati-cintayati| vyathitēndriyaḥ-hr̥dayādisthānēṣu vyāthāvān| duḥcchāyō-malinakāntiḥ| durmanāḥ-gatōtsāhaḥ| rūkṣō-nisnēhāṅgaḥ| kṣāmaḥ-kr̥śāṅgaḥ|

kṣayauṣadhabhaṅgyā vr̥ddhihētūnāha-jīvanīyēti| jīvanīyāḥ-jīvantyādayaḥ| rasō-māṁsarasaḥ| ādi(dya) śabdēna śarkarādayaḥ|

—————————————————|
ōjōvr̥ddhau hi dēhasya tuṣṭipuṣṭibalōdayaḥ||41||


sa0-ōjōvivr̥ddhau satyāṁ dēhasya tuṣṭiḥ-praharṣaḥ, puṣṭiḥ-vr̥ddhiḥ, balaṁ-sāmarthyam, ēṣāmudayaḥ-samyagvr̥ddhirbhavati|


ā0 ra0-ōjōvr̥ddhiṁ lakṣayati-ōjōvr̥ddhāviti| tuṣṭiḥ santōṣaḥ| puṣṭiḥ-sthaulyam| balōdayaḥ-śaktyutkarṣaḥ| ōjōvr̥ddhēstuṣṭyādihētutvānna vātādivr̥ddhikārakāritvam| vrūddhamapi yadā tvōjō vyāpadyatē svasthānādvisraṁsatē vā, tadā vātādivadvikārakāritvam| tathā ca suśrutaḥ (sū. a. 15/30) -“trayō dōṣā balasyōktā vyāpadvisraṁsanakṣayāḥ|” iti| balaṁ-ōjaḥ|

idānīṁ saṅkṣēpēṇa vr̥ddhikṣayabhēṣajaṁ kathayannāha – – – –

yadannaṁ dvēṣṭi yadapi prārthayētāvirōdhi tu|
tattattyajan samaśnaṁśca tau tau vr̥ddhikṣayau jayēt||42||


sa0-yadannaṁ puruṣō dvēṣṭi-nābhinandati, yadapyannaṁ prārthayēta, tattadannaṁ dviṣṭaṁ tyajan-pariharan, iṣṭamannaṁ samaśnan-bhakṣayan, dōṣāṇāṁ sambandhinau vr̥ddhikṣayau tau tau-yau yasya dōṣasyātmīyau vr̥ddhikṣayau, tau tau jayēt| nanu, kimaviśēṣēṇaitat prārthitamaśnan dōṣakṣayaṁ jayēt ? nētyāha-avirōdhi tu| turavadhāraṇē| avirōdhyēva| tattathāvidhamannamaśnan dōṣāṇāṁ kṣayaṁ jayēt, na tu virōdhyannamaśnan|


ā0 ra0-vr̥ddhikṣayau jñātvā yadanuṣṭhēyaṁ tatsaṅkṣēpēṇāha-yadannamiti| yadyadanna dvēṣṭi tattattyajan tathā yadyatprārthayēta tattatsamaśnan tau tau vr̥ddhikṣayau jayēt| kiṁ tatsarvam ? nētyāha-avirōdhi tviti| yatprārthayēt taccēdavirōdhi-apathyaṁ na bhavati, tatsamaśnīyādityarthaḥ| tacchabdē’pi vīpsākaraṇāt yacchabdē’pi vīpsā jñēyā|

nanu, dvēṣyānnatyāgēnēṣṭānnabhakṣaṇēna | ca ] kutō hētōrdōṣāṇāṁ vr̥ddhikṣayau jayēt ? ityāha – – – –

kurvatē hi ruciṁ dōṣā viparītasamānayōḥ|
vr̥ddhāḥ kṣīṇāśca bhūyiṣṭhaṁ lakṣayantyabudhāstu na||43||


sa0-hi-yasmāt, dōṣāḥ-vātādayō, viparītasamānayōḥ ruciṁ kurvanti| kimbhūtāḥ santaḥ ? vr̥ddhāḥ kṣīṇāśca, yathākramam| vr̥ddhāḥ-pramāṇādhikāḥ santaḥ, svaguṇēbhyō yadviparītaguṇamannaṁ tēṣāṁ kṣapaṇahētuḥ, tadviṣayāṁ ruciṁ-prītimutpādayanti| bhūyiṣṭhaṁ-bāhulyēna| kṣīṇāḥ-svapramāṇāpacitāḥ santō, yatsvasamānaguṇamāhārajātaṁ tēṣāṁ vardhanahētuḥ, tadviṣayāṁ prītimutpādayanti| yathā,-vātō vr̥ddhaḥ snigdhāmlamadhuramannamabhilaṣati|pittaṁ vr̥ddhaṁ śītamadhurarukṣatiktakaśāyamannabhilaṣati| ślēṣmā vr̥ddhō rūkṣōṣṇakaṭutiktakaṣāyamannamabhilaṣati| vātaḥ kṣīṇō rūkṣakaṣāyādyannamabhilaṣati| pittaṁ kṣīṇamamlalavaṇakaṭukamannamabhilaṣati| ślēṣmā kṣīṇaḥ snigdhamadhurāmlalavaṇamannamabhilaṣati| bhūyiṣṭhamityanēna prāyikatvamasyā vyavasthāyā darśayati| tēna dōṣagativaicitryādanyathā’pi kvacidbhavati| yathā,-kasyacinnarasya vātō’pi kṣīṇaḥ snigdhamadhurādyannamabhilaṣati, pittamapi vr̥ddhamamlalavaṇādyannamabhilaṣati, ślēṣmā’pi vr̥ddhō madhurāmlādyannamabhilaṣatīti vyabhicārāt| ata ēvābudhāḥ-apaṇḍitāḥ, na lakṣayanti-na vidanti, yathā-kimaya dōṣaḥ kṣīṇa uta vr̥ddha iti|


ā0 ra0-na ca yathārucyupacārasyānucitatvamāśaṅkanīyamityāha-kurvatē hīti| hi-yasmāt, vr̥ddhā dōṣāḥ viparītē ruciṁ kurvatē, kṣīṇāḥ samānē| cakārāddr̥ddhā dōṣāḥ samānē dvēṣaṁ kurvatē, kṣīṇāstu viparītē, ityapi jñēyam| ayamarthaḥ,-yadā vāyōrvr̥ddhistadā tadviparītānāṁ snigdhādiguṇānāṁ rucistatsamānānāṁ rūkṣādiguṇānāṁ dvēṣa utpadyatē, ata iṣṭasēvanāddviṣṭatyāgādvāyōrvr̥ddhiṁ jayēt| yadā tu vāyōḥ kṣayastadā tatsamānānāṁ rūkṣādiguṇānāṁ rucistadviparītānāṁ snigdhādiguṇānāṁ dvēṣa utpadyatē, ata iṣṭasēvanāddviṣṭatyāgādvāyōḥ kṣayaṁ jayēt| ēvaṁ pittādiṣvapi| dōṣaśabdō dōṣadhātumalānāmupalakṣaṇam| bhūyiṣṭhaṁ-prāyēṇa, kadācidanyathā’pi rucidvēṣau bhavataḥ| yathā vakṣyati (hr̥. ni. a. 16/30) sāmē vāyau-“kaṭurūkṣābhilāṣēṇa tadvidhōpaśayēna ca|” iti| ēvaṁ satyapyētādr̥śīṁ sthitimabudhā na lakṣayanti| ētēna buddhimatā bhiṣajā parīkṣyāyamupacāraḥ kāryaḥ| mandabuddhīnāṁ tu yathōpadēśamityuktaṁ bhavati| uktaṁ ca saṅgrahē (sū. a. 15) -“yathōktanusaraṇamēva tu śrēyō mandabuddhēḥ|” iti|

na cānēnaiva lakṣaṇēna vr̥ddhāḥ kṣīṇāśca lakṣaṇīyāḥ|
kiṁ tarhi ? anyadapi lakṣaṇamastītyāha – – – –

yathābalaṁ yathāsvaṁ ca dōṣā vr̥ddhā vitanvatē|
rūpāṇi, jahati kṣīṇāḥ, samāḥ svaṁ karma kurvatē||44||


sa0-yathābalaṁ-balānatikramēṇa, yathāsvaṁ ca-yadyadātmīyaṁ yathā, rūpāṇi-guṇakarmalakṣaṇāni, dōṣā vr̥ddhā vitanvatē-vistārayanti| kṣīṇāśca balānatikramēṇa yathāsvaṁ rūpāṇi jahati-tyajanti| yathā,-vāyurvr̥ddhō raukṣyaśaityapāruṣyasraṁsavyāsādīni vistārayati| kṣīṇastu vāyuḥ pūrvōktāni raukṣyādīni jahāti, ata ēva na vyañjayati|
atha samā dōṣāḥ kiṁ vidadhati ? ityāha-samā ityādi| yadā na vr̥ddhā na ca kṣīṇāḥ-samā dōṣāḥ,-svapramāṇasthāḥ, tadā svaṁ karma-utsāhōcchvāsādikaṁ yathōktaṁ kurvatē| tallakṣaṇattē lakṣaṇīyāḥ| tadēvaṁ vr̥ddhakṣīṇasamā dōṣā vēdyāḥ|


ā0 ra0-uktayō rucidvēṣayōrupapattimāha-yathābalamiti| vr̥ddhā dōṣā rūpāṇi-raukṣyādīni, vitanvatē-viśēṣēṇa prakaṭayanti| tānyēva kṣīṇā jahati-nyūnāni darśayantītyarthaḥ| yathābalaṁ-vr̥ddhā adhikāni, vr̥ddhatarā adhikatarāṇi, vr̥ddhatamā adhikatamānītyarthaḥ| ēvaṁ kṣīṇēṣvapi| yathāsvaṁ-vāyū rākṣyādīni, pittamauṣṇyādīni, ślēṣmā snēhādīnītyarthaḥ| ētaduktaṁ bhavati,- śarīrē yō yō guṇō’dhikō bhavati tasya tasya dvēṣa utpadyatē, yō yō hīnastasya tasya ruciḥ| vāyō vr̥ddhē rūkṣādayaḥ śarīrē adhikā bhavanti, tatastēṣāṁ dvēṣa utpadyatē, kṣīṇē’ta ēva hīnāḥ, atastēṣāṁ ruciḥ| ēvaṁ pittādiṣvapi|
samēṣu punardōṣēṣvapūrvau rucidvēṣau nōtpadyētē ityāha-samāḥ svamiti| svaśabdēna jātivayōdēśakālānurūpaṁ śārīraṁ karmōcyatē, na dōṣakarma| tasya yathāsvamityanēnaiva labdhatvāt| tasmājjātyādivaśādyasya yathā rucidvēṣau tasya tathaivānuvartayanti samā dōṣāḥ, nānyathā kurvantītyarthaḥ|

kṣīṇā dōṣāḥ kṣīṇatvādēvākiñcitkaratvāt kadācitpīḍāṁ nōtpādayantyēva, iti vicintyālpamatayō vaidyāḥ kṣīṇadōṣavardhanārthaṁ kadācidanādaraṁ kuryurityāha – – – –

ya ēva dēhasya samā vivr̥ddhyai
ta ēva dōṣā viṣamā vadhāya|
yasmādatastē hitacaryayaiva
kṣayādvivr̥ddhēriva rakṣaṇīyāḥ|45|
iti śrīvaidyapatisiṁhaguptasunūśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahr̥dayasaṁhitāyāṁ sūtrasthānē dōṣādivijñānīyō nāmaikādaśō’dhyāyaḥ|11|


sa0-ya ēva dōṣāḥ samāḥ santō dēhasya vivr̥ddhyai-vardhanāya bhavanti, ta ēva dōṣā viṣamāḥ-svapramāṇādadhikā hīnā vā santō, vadhāya-dēhavighātāya syuḥ| yasmādēvaṁ tatastē dōṣā hitacaryayaiva kṣayāt-hīnatvādrakṣaṇīyāḥ| kuta iva ? vivr̥dhēriva| yathā vivr̥ddhēḥ-viśēṣēṇa vardhanāttē rakṣyantē, tathā kṣayādapi rakṣaṇīyā iti| upajātirvr̥ttam|

iti śrīmr̥gāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahr̥dayaṭīkāyāṁ sarvāṅgasundarākhyāyāṁ sūtrasthānē dōṣādivijñānīyādhyāya ēkādaśaḥ samāptaḥ|| 11||


ā0 ra0-dōṣavaiṣamyānutpādanē yatnaṁ vidhattē-ya ēva dēhasyēti| hitacaryayā-pathyābhyāmāhāravihārābhyām, caratērgatibhakṣaṇārthatvāt| ēvaśabdēna hitacaryāyā ayōgaḥ, ahitacaryāyāścha yōgō vyavacchidyatē|

iti hēmādriṭīkāyāmāyurvēdarasāyanē|
dōṣādīnāṁ prakaraṇaṁ sāmastyēna nirūpitam|| 11||