ebooks-esamhita-evagbhata-esangraha-dinacarya-adhyaya

Devanagari Version

वाहटापरनामा वृद्धवाग्भटप्रणीतः

अष्टाङ्गसङ्ग्रहः

इन्दोः शशिलेखाख्यव्याख्यया संवलितः

सूत्रस्थानम् - ३. दिनचर्या


अथातो दिनचर्यानामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||


अस्मिंन्त्रे आयुषः पालनं प्रकृतं तच्च द्विविधं स्वस्थवृत्तमातुरवृत्तञ्च| मङ्गल्यत्वात् स्वल्पवक्तव्यत्वात् आतुरोपयोगित्वाच्च स्वस्थवृत्तमेवादावुच्यते- अथातो दिनचर्यामित्यादि| प्रतिदिनं कर्त्तव्या चर्या दिनचर्या|| १||

ब्राह्मे मुहूर्त उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्|
रक्षार्थमायुषः स्वस्थः………………..||२||


किं तदित्याह- ब्राह्म इति| स्वस्थो नीरोगः| आयुषो यथोपचितस्य रक्षार्थम्| ब्राह्मे मुहूर्ते उत्तिष्ठेत्| मुहूर्तो नाडिकाद्वयम्| ब्रह्मणोऽयं ब्राह्मः| ब्रह्म ज्ञानन्तदर्थमध्ययनाद्यपि ब्रह्म तस्य योग्यो मुहूर्तो ब्राह्मः ब्रह्मयोग्यश्च कालो योगशास्त्रेषु निशायाः पश्चिमो यामो निश्चितः| तेन निशाक्षये निद्रानाशप्रयुक्तत्वादुत्थानस्याप्राप्तसन्ध्यासंसर्गो मुहूर्तोऽभिप्रेतः| सन्ध्यायां स्वप्नप्रतिषेधात्| यद्यपि च ज्योतिश्शास्त्रेषु सूर्योदयात्प्रभृति षड्विंशो मुहूर्त्तो नाडिकाष्टकव्यवहितद्वितीयसूर्योदयो ब्राह्म इत्युच्यते तथापि नासाविहाभिप्रेतः| अन्नस्य जरणकाले जागरणप्रसङ्गात्| तस्मात् सन्ध्यायाः पूर्वो मुहूर्त्तो ब्रह्मोपासनयोग्यत्वात् ब्राह्मः| अभ्यासाद्यपेक्षं तत्पूर्वोऽपि वा| तस्मिन् शय्यात उत्तिष्ठेत्| केचित्तु ज्योतिः शास्त्रविदः विरिञ्चप्रभवं मुहूर्त्तं निशान्तभवमाहुः| किं कुर्वन्नुत्तिष्ठेत् जीर्णाजीर्णं निरूपयन् ह्यस्तनमाहारं मया भुक्तं जीर्णं न वेति विकल्पयन्| एतावता हि कदाचित् स्वप्यादजीर्णीति नोत्तिष्ठेत्| अथवा षड्विंश एव ब्राह्मो मुहूर्त्तः अत्र गृह्यते| जीर्णाजीर्णं निरूपयन्नित्येतच्च दोषपरिहाराय भविष्यति|| २||

……………….जातवेगः समुत्सृजेत्|
उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि|
वाचं नियम्य प्रयतः संवीताङ्गोऽवगुण्ठितः|
प्रवर्तयेत्प्रचलितं न तु यत्नादुदीरयेत्|
नामेध्यमार्गमृद्भस्मगोस्थानाकीर्णगोमये|
पुरान्तिकाग्निवल्मीकरम्योत्कृष्टचितिद्रुमे|
न नारीपूज्यगोऽर्केन्दुवाय्वन्नाग्निजलं प्रति|
न चातिरस्कृत्य महीं भयाशक्त्योस्तु कामतः|
न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्|
निःशल्यादुष्टमृत्पिण्डीपरिमृष्टमलायनः|
अभ्युद्धृताभिः शुचिभिरद्भिर्मृद्भिश्च योजयेत्|
लेपगन्धापहं शौचमनुत्पतितबिन्दुभिः||३||


उत्थितश्च किं कुर्यादित्याह- जातवेग इत्यादि| मूत्रपुरीषमुदङमुख उत्तरां दिशं प्रेक्षमाण उत्सृजेत्त्यजेत्| किम्भूतः? प्राप्तवेगः नोदीरितवेग इति| एतावता हि वातादिनां कोपो भवति| निशि रात्रौ दक्षणदिगभिमुखः मूत्रशकृदुत्सृजेत्| किं कृत्वा मूत्रपुरीषमुत्सृजेत्? वाचं नियम्य कृतमौनः| प्रयतः अनन्यकार्यः| संवीताङ्गः गृहीतपरिधानः| अवगुण्ठितः अनग्नशिराः| स्थानात् प्रचलितं मूत्रशकृत्स्तोकं स्तोकं प्रवर्तयेत् प्रेरयेत्| न त्वतियत्नेनाचलितमेवोदीरयेत्| नामेध्ये अत्यन्ताशुचौ स्थाने| मार्गः रथ्या| तत्रापि नोत्सृजेत्| न मृदि राशीभूतायामपि| न भस्मनि| न गोस्थाने, न आकीर्णे जनसंसदि, न गोमयस्योपरि, न पुरनिकटे, नाग्निनिकटे, न वल्मीकोपरि| मृदा पिपीलिकादिकृतं स्थाण्वाकारं वल्मीकशब्देनोच्यते| नातिरमणीये भूमिभागे, न हललिखिते, न कृताध्वराग्निचये, न वृक्षस्याध उपरि वा| न च नार्याभिमुखं, पूज्यो गुर्वादिः| गवादयः प्रसिद्धाः| न च महीं भूमिमतिरस्कृत्य तृणादिभिरनवच्छाद्य| उत्सृजेदिति सर्वत्रानुवर्तते| यदा तु स्वामिचोरादिभयं, यदा वा शरीराशक्तता तदा कामतो यथेच्छम्| तथा वेगितः प्राप्तमूत्रादिवेगो नान्यकार्यो भवेत्| अन्यकार्यप्रतिषेधप्रसङ्गेन आह- साध्यमपि रोगमजित्वा नान्यकार्यो भवेदिति| उत्सृष्टवेगश्च शौचं योजयेत्कुर्यात्| किम्भूतः कुर्यादत आह- निःशल्यया काष्ठादिशल्यरहितया| अदुष्टया योग्यया मृत्पिण्डया परिमृष्टमलायनः सम्मार्जितगुदः| केन शौचं योजयेदत आह- अभ्युद्धृताभिरद्भिः नदीतटाकादितः कलशपाण्यादिना उद्धृताभिः| न तु कटीमेव नद्यामवगाह्य शौचयेत्| नाशुचिना करेण मृत्सहिताभिरद्भिः| किम्भूतं शौचमित्याह-लेपगन्धापहमिति| लेपगन्धापहं मलायने लेपगन्धौ, लेपश्च गन्धश्च येन नश्यति| एतेन मृदः अपां शौचस्य च मानमुक्तं भवति| अनुत्पतितबिन्दुभिरद्भिः यत उत्पतिता बिन्दवोऽस्पृश्याः|| ३||

स्पृष्ट्वा धातून् मलानश्रुवसाकेशनखांश्च्युतान्|
स्नात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्च्चने|
रथ्यामाक्रम्य चाऽचामेदुपविष्ट उदङ्मुखः|
प्राङ्मुखो वा विविक्तस्थो न बहिर्जानु नान्यदृक्|
अजल्पन्नुत्तरासङ्गी स्वच्छैरङ्गुष्ठमूलगैः|
नोद्धृतैर्नानतो नोर्ध्वं नाग्निपक्वैर्न पूतिभिः|
न फेनबुद्बुदक्षारैर्नैकहस्तार्पितैर्जलैः|
नार्द्रैकपाणिर्न्नामेध्यहस्तपादो न श्ब्दवत्||४||


अन्यच्चेदं कुर्यात्, आचामेत् जलेनोपस्पृशेत्| किं कृत्वाऽऽह- धात्वादिकान् स्पृष्ट्वा| किम्भूतान् शरीराच्चलितान्| धातवः रक्तादयः| मलाः मूत्रशकृत्कर्णमलादयः| अश्रु दृशोर्जलम्| अप्सदृशो मेदसो भागो वसा| तथा च `शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता’ इति चरकः| स्नात्वा च आचामेत्| भोक्तुमनाः बुभुक्षुः| भुक्त्वा च, सुप्त्वा च, क्षुत्त्वा च क्षवथुं कृत्वा, सुरार्चने देवार्चनारम्भे, रथ्यामाक्रम्य मार्गं परिभ्रम्य, चकारात्प्रकृतं शौचं कृत्वा| किम्भूतः? पूर्वामुत्तरां वा दिशमीक्षमाणः उपविष्टः| न बहिर्जानु जानुभ्यां बहिः पाणी अकृत्वा| नान्यदृक् आचमनजलादन्यत्र न दृष्टिं कुर्वन्| अजल्पन् कृतमौनः| उत्तरासङ्गी गृहीतोपरिवसनः| कैराचमेत्? जलैः| किम्भूतैः? स्वच्छैः निर्मलैः, अङ्गुष्ठमूलगैः ब्राह्मतीर्थोपवेशिभिः| नोद्धृतैराचामेत्| किं तर्हि? अविच्छिन्नधारया दत्तैः| नानतः न नमिताङ्गः, नोर्ध्वं उत्थितो न| नाग्निपक्वैः, न दुर्गन्धिभिः, न फेनिलैः, नबुद्बुद्भिः, न क्षारैः विरसैः, नाप्येकहस्तदत्तैः| आर्द्रैकपाणिर्नाचामेत्| यावद् द्वावपि पाणी न प्रक्षालितौ| नाशुचिहस्तपादः| जलपाने शब्दं न कुर्वन्|| ४|

वटासनार्कखदिरकरञ्जकरवीरजम्|
सर्जारिमेदापामार्गमालतीककुभोद्भवम्|
कषायतिक्तकतुकं मूलमन्यदपीदृशम्|
विज्ञातवॄक्षं क्षुण्णाग्रमृज्वग्रन्थि सुभूमिजम्|
कनीन्यग्रसमस्थौल्यंं सुकूर्च्चं द्वादशाङ्गुलम्|
प्रातर्भुक्त्वा च यतवाग्भक्षयेद्दन्तधावनम्|
व्याप्य त्रिवर्गत्रितयक्षौद्राक्तेन च घर्षयेत्|
शनैस्तेन ततो दन्तान् दन्तमांसान्यबाधयन्||५||


अन्यच्च किं कुर्यात्? कृतशौचो दन्तधावनकाष्ठं भक्षयेत्| किं तत्? वटादिवृक्षाणामन्यतमस्य मूलं यत् कषायादिरससंयुक्तं न त्वन्यरसं वटादिजं मूलं वटादिमूलादन्यदपीदृशं कषायादिरससंयुक्तं
मूलं वा काष्ठं वा सर्वं भक्षयेत्| विज्ञातवृक्षं वृक्षा हि मोहनादिनानाशक्तयो दृश्यन्ते| क्षुण्णाग्रमापोथिताग्रम्, ऋजुस्पष्टम्,तथा ग्रन्थिरहितम्, सुभूमिजं श्मशानाद्यजातम्, स्थूलतया च कनीनिकाप्रान्तसमम्, कनीनिका कनिष्ठाङ्गुलिः, सुकूर्च्चं
अपरुषकूर्च्चम्, परिमाणेन द्वादशाङ्गुलम्| द्वौ कालौ दन्तमांसं रक्षन् दन्तपवनं भक्षयेत्| दिनारम्भे भोजनान्ते च| यतवाङ्मौनी| ततो दन्तपवनं मलापनुत्यर्थं भक्षयित्वा अनन्तरं शनैः व्याप्यादिक्षौद्रान्वितप्रान्तेन दन्तकाष्ठेन दन्तान् घर्षयेत्| व्याप्यं कुष्ठम्| त्रिवर्गत्रितयं त्रिकटु त्रिफला त्रिजातकं च|| ५||

लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च|
तथास्यमलवैरस्यगन्धा जिह्वास्यदन्तजाः|
रुचिवैशद्यलघुता न भवन्ति भवन्ति च||६||


अनु पश्चात् तेनैव लेखनयोग्यकृतेन दन्तपवनेन जिह्वां सुखं लिखेत्, जिह्वानिर्लेखनेन लोहादिकृतेन वा जिह्वां सुखं लिखेत्| स्वल्पमपि मांसमबाधमानस्तां लिखेत्| एवं हि दन्तपवनजिह्वानिर्लेखनाभ्यामस्य पुंसो मलादयो जिह्वादिजा न भवन्ति| यथासङ्ख्यं विविक्षिता रुच्यादयो लघुतान्ताश्च भवन्ति|| ६||

नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती|
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत्||७||


तच्च दन्तपवनमजीर्णादियुतः पुरुषो नाद्यात्| वमथुः छर्दिः, श्वासादयो वक्ष्यमाणलक्षणाः| आमयशब्देन रोगपर्यायेण हृदादीनां सम्बन्धः|| ७||

नैव श्लेष्मातकारिष्टबिभीतधवधन्वजान्|
बिल्ववञ्जुलनिर्गुण्डीशिग्रुतिल्वकतिन्दुकान्|
कोविदारशमीपीलुपिप्पलेङ्गुदगुल्गुलून्|
पारिभद्रकमम्लीकामोचक्यौ शाल्मलीं शणम्|
स्वाद्वम्ललवणं शुष्कं सुषिरं पूति पिच्छिलम्||८||


श्लेष्मातकादिकं दन्तपवनमवश्यमेव नाद्यात्| तथा प्रथमरसत्रययुक्तं, दुर्गन्धिपिच्छिलञ्च, शुष्कं नीरसं, सुषिरमन्तः शून्यम्| श्लेष्मातकादीनां शणान्तानां पर्यायाणि नोच्यन्ते, विशिष्टदेशप्रसिद्धत्वात्| या चात्राकाङ्क्षा सा निघण्टुज्ञानादेव नश्यति|| ८||

पालाशमासनं दन्तधावनं पादुके त्यजेत्||९||


दन्तधावनप्रसङ्गेनाह- पालाशवृक्षजातम् आसनं, दन्तधावनं, पादुके च त्यजेत्|| ९||

दन्तान् पूर्वमधो घर्षेत्……………….||१०||


दन्तपवने चाधो दन्तान् पूर्वं घर्षेत्|| १०||

………………….प्रातः सिञ्चेच्च लोचने|
तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा||११||


प्रतिदिनं प्रातर्दिनारम्भे अक्षिणी सिञ्चेत्तोयपूर्णमुखः सन्| केन सिञ्चेत्? शीतवारिणा| किं नित्यमेव शीतवारिणा? ग्रीष्मशरदोरेव| अन्यस्मिन् ऋतौ कोष्णवारिणा इत्यर्थाल्लभ्यते|

प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम्|
श्रृण्वन् काञ्चनविन्यस्तं सर्पिः पश्येदनन्तरम्||१२||


इदञ्चानन्तरं कुर्यात् देवान् वृद्धांश्च प्रणम्य मङ्गलाष्टशतं शुभं श्रृण्वन् सौवर्णभाण्डस्थं घृतमवाङ्मुखः पश्येत्, मङ्गलाष्टशतं दूतादिविज्ञानीये (शा०अ०-१२) वक्ष्यते|| १२||

सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्|
लोचने तेन भवतो मनोज्ञे सूक्ष्मदर्शने|
व्यक्तत्रिवर्णे विमले सुस्निग्धघनपक्ष्मणी||१३||


ततः सौवीरमञ्जनमक्षिभ्यां हितं नित्यं भजेत्| तेन चाञ्जनेन लोचने नेत्रे, मनोज्ञे दर्शनीये भवतः| सूक्ष्मञ्च रूपं पश्यतः| व्यक्तत्रिवर्णत्वाच्च निर्मले, रक्तशुक्लकृष्णं वर्णत्रयम्| सुस्निग्धानि सुघनानि च पक्ष्माणि ययोस्ते तथाविधे|| १३||

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्|
योजयेत्सप्तरात्रेऽस्मात् स्रावणार्थं रसाञ्जनम्||१४||


तथा सप्तरात्रान्तरेण चक्षुषः श्लेष्मस्रावणार्थं रसाञ्जनं योजयेत्| कुतः? यतश्चक्षुस्तेजोमयं, चक्षुषस्तेजोमयव्यपदेशो भूयसा| यतः पञ्चभूतात्मकमिन्द्रियं तस्य च वातादितो विशेषाच्छ्लेष्मणो विपरीतत्वाद्भयमिति|| १४||

अणुतैलं ततो नस्यन्ततो गण्डूषधारणम्|
घनोन्नतप्रसन्नत्वक् स्कन्धग्रीवास्यवक्षसः|
सुस्निग्धवदनाः स्निग्धनिःस्वना विमलेन्द्रियाः|
निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः|
ओष्ठस्फुटनपारुष्यमुखशोषद्विजामयाः|
न स्युः स्वरोपघाताश्च स्नेहगण्डूषधारणात्|
खदिरक्षीरिवृक्षारिमेदाम्बुकवलग्रहः|
अरोचकास्यवैरस्यमलपूतिप्रसेकजित्|
सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्||१५||


अनन्तरं वक्ष्यमाणमणुतैलं नस्यं योज्यम्| अनन्तरं गण्डूषधारणम्| नस्यशीलिन एव भवन्ति घनोन्नतप्रसन्नाः त्वगादयः येषां ते तथाविधाः| घनत्वादिभिस्त्वगादीनां यथासम्भवं सम्बन्धः| प्रसन्नत्वचः उन्नतस्कन्धाः, घनग्रीवाः, प्रसन्नमुखाः, घनवक्षसः, सुगन्धास्याः, मधुरस्वराः, वलीपलितव्यङ्गरहिताश्च| वल्यस्त्वक्सङ्कोचः, व्यङ्गानि मुखे श्यावानि मण्डलानि| स्नेहगण्डूषधारणादोष्ठफुटनादयो न भवन्ति| पारुष्यमोष्ठयोरेव, तथा आस्यशोषः, दन्तरोगः, स्वरहानिश्च| तथा अरोचकादिनाशकामेन खदिराद्यम्बुकवलग्रहः कार्यः| तथा वक्त्रलाघवकामेन उष्णोदकगण्डूषः| कवलगण्डूषयोर्भेदो गण्डूषादिविधौ वक्ष्यते| प्रसेकः आस्यस्रावः|| १५||

प्रायोगिकं ततो धूमं गन्धमाल्यादि चाचरेत्|
धूमादस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः||१६||


अनन्तरं वक्ष्यमाणलक्षणं प्रायोगिकं धूमं गन्धमाल्यादि चाऽऽचरेत्| आदिशब्देन वासः प्रभृतीनां ग्रहणम्| धूमपस्य किं भवति? जत्रारक्षकसन्ध्यभिधानस्य, ऊर्ध्वमुपरि शिरसि वातकफजा रोगा न भवन्ति|| १६||

अञ्जनोत्क्लेशितं नस्यैः कवलैर्नावनेरितम्|
धूमेन कवलोत्क्लिष्टं क्रमाद्वातकफं जयेत्||१७||


नन्वञ्जनादीनामेवम्भूतः क्रमः किमर्थमाश्रित इत्याह- अञ्जनो-त्क्लेशितमित्यादि|| १७||

गन्धमाल्यादिकं वृष्यमलक्ष्मीघ्नं प्रसाधनम्||१८||


गन्धमाल्यादिकमुपयुज्यमानं वृष्यमलक्ष्मीघ्नं कान्तिकरं च भवति|| १८||

वासो न धारयेज्जीर्णं मलिनं रक्तमुल्बणम्|
माल्यं न लम्बं न बहिर्न रक्तं जलजादृते|
नैव चान्येन विधृतं वस्त्रं पुष्पमुपानहौ||१९||


अन्यच्चेदमिदं कुर्यात्| जीर्णं जीर्णप्रायं वासः परिधानं न धारयेत्| मलिनं रक्तमुल्बणञ्च, उन्नद्धम् (उल्बणम्) उद्भटं माल्यं पुष्पं, लम्बं स्रग्दामादि, न धारयेत्| न बहिः राजमार्गे दृश्यमानं वा| जलजं वर्जयित्वा रक्तमन्यन्माल्यं न धारयेत्| प्रसङ्गेनाह- अन्येन विधृतं वस्त्रं न धारयेत् पुष्पमुपानहौ चर्मपादुके तथा|| १९||

रुचिवैशद्यसौगन्ध्यमिच्छन्वक्त्रेण धारयेत्|
जातीलवङ्गकर्पूरकङ्कोलकटुकैः सह|
ताम्बूलीनां किसलयं हृद्यं पूगफलान्वितम्|
रक्तपित्तक्षतक्षीणरूक्षोत्कुपितचक्षुषाम्|
विषमूर्च्छामदार्त्तानामपथ्यं शोषिणां च तत्|
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे|
द्विपत्रमेकं पूगं च सचूर्णखदिरं च तत्||२०||


रूच्यादिकमिच्छन् वक्त्रेण जात्यादिभिः सह पूगफलान्वितं ताम्बूलीनां नागलतानां किसलयं पल्लवं धारयेत्| रक्तपित्ताद्युपहतस्य शोषिणश्च तत्सेवनमपथ्यम्| रूक्षेण हेतुनोत्कुपितानि चक्षूंषि येषां ते रूक्षोत्कुपितचक्षुषः, तेषामथवा रूक्षाणामुत्कुपितचक्षुषाञ्च सुबोधम्|| २०||

उत्तिष्ठेत ततोऽत्यर्थमर्थेष्वर्थानुबन्धिषु|
निन्दितं दीर्घमप्यायुरसन्निहितसाधनम्|
कृषिं वणिज्यां गोरक्षामुपायैर्गुणिनं नृपम्|
लोकद्वयाविरुद्धाञ्च धनार्थी संश्रयेत्क्रियाम्||२१||


ततोऽनन्तरमर्थानुबन्धिषु धनहेतुषु कार्येष्वत्यर्थमुत्तिष्ठेत यत्नाच्चेष्टेत| यस्माद्दीर्घमप्यायुरसन्निहितसाधनं दारिद्र्ययुक्तं निन्दितं गर्हितम्| तथा धनार्थी कृष्यादिकमारभेत| अन्याञ्च क्रियां धनलाभहेतुकीमुभयलोकाविरुद्धां सतीमाश्रयेत्|| २१||

मुक्तवेगश्च गमनस्वप्नाहारसभास्त्रियः|
पाणिनालभ्य निष्क्रामेद्रत्नपूज्याज्यमङ्गलम्|
सातपत्रपदत्राणो विचरेद्युगमात्रदृक्|
निशि चात्ययिके कार्ये दण्डी मौली सहायवान्|
प्रावृत्य पर्यटेद्रात्रौ न प्रावृत्य शिरोऽहनि||२२||


तथा मुक्तवेग उत्सृष्टमूत्रपुरीषादिवेगश्च अध्वगमनादिकम्| तथा रत्नादिकमालभ्य सपूजं संस्पृश्य, कार्यार्थं निष्क्रामेत्| निर्गतश्च छत्रपादत्राणसंयुक्तो युगमात्रदृग्विचरेत्| युगो हस्तद्वयम्, अन्ये हस्तचतुष्टयं युगमाहुः, तन्मात्रमग्रतः पश्यन् कृमिस्थाण्वादिभयात्| निशि रात्रावात्ययिके अतिप्रयोजनवति कार्ये, दण्डी मौली सहायवांश्च विचरेत्| अर्थबलादुक्तम् अनात्ययिके कार्ये नैव विचरेन्निशीति| मौली वेष्टितशिराः| तथा रात्रौ शिरः पिधाय पर्यटेत् परिभ्रमेदिति|| २२||

चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन्|
नाक्रामेच्छर्करालोष्ठबलिस्नानभुवो न च||२३||


चैत्यादीनां छायां नाक्रामेत पादाभ्यां न ल~ग़्ग़येत्| चैत्यः प्रसिद्धः, पूज्यो गुर्वादिः, अशस्तममङ्गल्यं वस्तु, तथा भस्मादिकमपि| तथा शर्करादिकमपि| शर्करा शिलाचूर्णं बलिर्भूतोपहारः, स्नानभूः यत्र कश्चित् स्नातः|| २३||

मध्याह्ने सन्ध्ययो रात्रावर्धरात्रे चतुष्पथम्|
न सेवेत न शर्वर्यां वृक्षचैत्यं न चत्वरम्|
सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न||२४||


तथा मध्याह्नादिषु कालेषु चतुष्पथं न सेवेत| तथा शर्वर्यां सर्वस्यामपि रात्रौ, वृक्षादिकं न सेवेत| चत्वरं त्रिपथमाहुः, ग्रामाद्बहिरवताराश्रयमन्ये, ग्रामीणसमाजस्थानमित्यन्ये, यस्तु लोके चत्वर इति प्रसिद्धः| सूनाटव्यादिकं दिवाऽपि न सेवेत| सूनाटवी वधारण्यम्|| २४||

न हुङ्कुर्याच्छवं पूज्यं प्रशस्तान्मङ्गलानि च|
नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणम्|
चतुष्पथं नमस्कुर्यात्प्रज्ञातांश्च वनस्पतीन्|
न व्यालव्याधिताशस्तैर्नादान्तक्षुत्पिपासितैः|
न च्छिन्नपुच्छैर्नैकाक्षैर्गोपृष्ठेन च न व्रजेत्|
नातिप्रगेऽतिसायं वा न नभोमध्यगे रवौ|
नासन्निहितपानीयो नातितूर्णं न सन्ततम्|
न शत्रुणा नाविदितैर्नैको नाधार्मिकैः सह|
दद्याद्वर्त्मार्तवृद्धस्त्रीभारिचक्रद्विजन्मने|
स्नानभोजनपानानि वाहेभ्यो नाचरेत्पुरः|
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्|
नारोहेद्विषमं शैलं नावं संशयितां तरुम्|
निपातयेन्न लोष्टेन न फलेन फलं द्रुमात्|
न वार्यमाणः प्रविशेन्नाद्वारेण न चाऽसने|
स्वयम् तिष्ठेत्परगृहे युक्तनिद्रं न बोधयेत्|
नाऽचरेत्पाणिवाक्पाददृङ्मेढ्रोदरचापलम्||२५||


शवं न हुङ्कुर्यात् मृतशरीरं हुङ्कारेण न तर्जयेत्| पूज्यादीनि चापसव्यं वामं परित्यज्य न गच्छेत्| इतराणि तद्विपरीतानि दक्षिणं त्यक्त्वा न गच्छेत्| चतुष्पथं प्रज्ञातान् प्रसिद्धांश्च वनस्पतीन् वृक्षान् नमस्कुर्यात्| व्यालादिभिश्च वाहैर्न व्रजेत्| व्यालः दुष्टः, क्षुद्रः, अतिपूर्वाह्णादिकाले च न व्रजेत्| असन्निहितपानीयः अगृहीतपानीयः, तूर्णं वेगेन, न संततं बहुकालमपि तु विश्रम्यैव गन्तव्यमित्यभिप्रायः, शत्रुणा सह न व्रजेत्, अविदितैरविज्ञातस्वरूपैः सह न व्रजेत्, एकाकी न व्रजेत्, अधार्मिकैश्च सह| तथा आर्तादिभ्यो वर्त्म दद्यात् मार्गं त्यजेत्| भारी भारवाहकः, चक्री गन्त्र्यादिः| वाहेभ्यः पुरा स्नानादिकं नाऽऽचरेत्| पूर्वं स्ववाहानश्वादीन् स्नापयेत् भोजयेत् पाययेच्च पश्चात्स्वयम् स्नायात् भुञ्जीत चेत्यर्थः| बाहुभ्यां च नदीं न तरेत्| अग्निस्कन्धाभिमुखो न गच्छेत्| अग्निस्कन्धो महानग्निराशिः| विषममतिनिम्नोन्नतप्रदेशं, शैलं पर्वतं नाऽरोहेत्| संशयितामविज्ञातस्वरूपां नावं, वृक्षञ्च सर्वं नाऽऽरोहेत्| द्रुमाद्वृक्षात्, लोष्टेन, फलेन वा फलं न पातयेत्| परगृहे वार्यमाणः प्रतिषिध्यमानप्रवेशो न प्रविशेत्| अप्रसिद्धेन मार्गेण न प्रविशेत्| प्रविष्टश्च अदत्ते आसने न स्वयं तिष्ठेत् नोपविशेत्| युक्ता अविरुद्धा निद्रा यस्य तं न बोधयेत्| पाण्यादिचापलं च नाऽऽचरेत्| हस्तचापलं वाद्यानुकरणादि, पादचापलमप्येवंप्रकारमेव, वाक्चापलं यत्किञ्चनवादित्वं, दृक्चापलं परयुवत्यादिदर्शनं, मेढ्रचापलमप्रासङ्गिकानुचितयोषिद्गमनादि, उदरचापलं भोजनगृघ्नुता|| २५||

त्रिः पक्षस्य कचश्मश्रुनखरोमाणि वर्धयेत्|
न स्वहस्तेन दन्तैर्वा स्नानं चानु समाचरेत्||२६||


पक्षस्य मध्ये त्रीन् वारान् केशादीन् कर्तयेत्, स्वहस्तेन दन्तैर्वा न कर्तयेत्| कर्तयित्वा च स्नानमाचरेत्|| २६||

अथ जातान्नपानेच्छो मारुतघ्नैः सुगन्धिभिः|
यथर्तुसंस्पर्शसुखैस्तैलैरभ्यङ्गमाचरेत्||२७||


अथानन्तरमनन्तरोक्तप्रकारेण कालमतिवाह्य उत्पन्नान्नपानेच्छोऽभ्यङ्गमाचरेत्| केनेत्याह-तैलैः| किम्भूतैः? वातघ्नैः सुगन्धिभिश्च ऋत्वनतिक्रमेण संस्पर्शसुखकरैश्च उष्णकाले शीतैः, शीतकाले चोष्णैरित्यर्थः|| २७||

अभ्यङ्गो वातहा पुष्टिस्वप्नदार्ढ्यबृहत्वकृत्|
दग्धभग्नक्षतरुजा क्लमश्रमजरापहः|
रथाक्षचर्मघटद्भवत्यभ्यङ्गतो गुणाः|
स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रयम्|
त्वच्यश्च परमभ्यङ्गो यस्मात्तं शीलयेदतः|
शिरः श्रवणपादेषु तं विशेषेण शीलयेत्||२८||


अभ्यङ्गगुणानाह-अभ्यङ्गेति| दग्धादित्रयस्य ऱ्रुजया
सम्बन्धः| क्षतः शस्त्रादिना| तथा रथाक्षादिवदभ्यङ्गाद्गुणा भवन्ति, रथाक्षं चक्रनाभिः, तस्य चर्मघटयोश्च यथाऽभ्यङ्गेन श्लक्ष्णत्वं, यथा मार्दवं, यथा च दार्ढ्यं, तथा शरीरस्यापि| यथा च रथाक्षस्य स्नेहस्पर्शनमात्रेण, चर्मनो मर्दनेन, घटस्य स्नेहसंस्कारेणेति| यतश्च परमत्यर्थं त्वच्यश्चाभ्यङ्गः, तस्मादभ्यङ्गमाचरेत्| कथमित्याह-स्पर्शनमिति| स्पर्शनं त्वगाश्रितम्| स्पर्शने चावश्यं वायुना भवितव्यम्| अतो वाताऽऽबाधभयादित्यर्थः| शिरः प्रभ्रुतिषु तमभ्यङ्गं विशेषेणशीलयेत्|| २८||

स केश्यः शीलितो मूर्ध्नि कपालेन्द्रियतर्पणः||२९||


किमर्थमित्याह-सोऽभ्यङ्गः मूर्ध्नि शिरसि, शीलितः केश्यो केशेभ्यो हितः, कपालस्येन्द्रियाणाञ्च तर्पणः तृप्तिकरः|| २९||

हनुमन्याशिरः कर्णशूलघ्नं कर्णपूरणम्||३०||


स्नेहेन कर्णपूरणं हनुमन्यादिशूलघ्नम्|| ३०||

पादाभ्यङ्गस्तु तत्स्थैर्यनिद्रादृष्टिप्रसादकृत्|
पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत्||३१||


पादादिषु तमभ्यङ्गं विशेषेण शीलयेत्| पादाभ्यङ्गस्तु तत्स्थैर्यादिकृत् पादसुप्त्यादिघ्नश्च| सुप्तिरिव सुप्तिः अभिघाताद्यचैतन्यम्|| ३१||

वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः||३२||


सर्वोऽभ्यङ्गः कफग्रस्तादिभिर्वर्ज्यः न सेव्यः| कफग्रस्तः श्लेष्मरोगार्त्तः| ग्रस्तग्रहणमतिशयोपलक्षणार्थम्| कृतसंशुद्धिः वमनविरेचनादिभिरचिरकालनिःसृतदोषः|| ३२||

शरीरायासजननं कर्म व्यायाम उच्यते||३३||


अनन्तरं व्यायामं शीलयेत्| क उच्यते व्यायामः? आह- शरीरेति| येन कर्मणा क्रियमाणेन शरीरमायस्यते तद्व्यायामशब्देन वाच्यम्| तेनैतदुक्तं भवति- कस्यचिच्चंक्रमणमेव व्यायामः, कस्यचिदन्यदधिकमिति|| ३३||

लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः|
विभक्तघनगात्रत्त्वं व्यायामादुपजायते||३४||


तेन कृतेन किं भवतीत्याह- लाघवमित्यादि| लाघवं देहस्य लघुत्वम्| अन्यत् सुबोधम्|| ३४||

वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्||३५||


वातपित्तरोगार्तो बालो वृद्धश्च व्यायामं त्यजेत्|| ३५||

अर्द्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः|
शीतकाले वसन्ते च मन्दमेव ततोऽन्यदा|
तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः||३६||


स च व्यायामो बलवद्भिः पुरुषैः शीतकाले हेमन्तशिशिरयोः वसन्ते च स्निग्धान्नभोजिभिः सद्भिरर्द्धशक्त्या (सु०चि०२४/४७) निषेवणीयः यावच्छक्यं ततोऽर्द्धमिति| अन्यस्मिन्पुनः ऋतौ स्वल्पमेव| तञ्च व्यायामं कृत्वा यथासुखं देहं मर्दयेत्सर्वम्|| ३६||

तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः|
अतिव्यायामतः कासो ज्वरश्च्छर्दिश्च जायते||३७||


यथोक्तप्रमाणातिक्रमादतिव्यायामेन कासादिरोगोत्पत्तिः|

गजं सिंह इवाकर्षन् भजन्नति विनश्यति||३८||


प्रसङ्गेनाह- व्यायामादीनां साहसमतिसेवां भजन् पुरुषो विनश्यति| यथा सिंहो विक्रमवानतिस्वल्पबलः महाबलं दन्तिनमाकर्षयन् स्वयमेव विनश्यति|| ३८||

उद्वर्त्तनं कफहरं मेदसः प्रविलायनम्|
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्||३९||


अनन्तरं कषायद्रव्यैरुद्वर्तनं कुर्यात्| तद्गुणानाह- कफहरमित्यादि|| ३९||

दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्|
कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपाप्मजित्||४०||


तदनु स्नानमाचरेत्| तच्चाग्न्युदीरणत्वादियुक्तं कण्ड्वादिघ्नञ्च|| ४०||

उष्णाम्बुनाऽधःकायस्य परिषेको बलावहः|
तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम्||४१||


उष्णाम्बुनेत्यादि सुबोधम्|| ४१||

नाऽनाप्लुत्य शिरः स्नायान्न जलेऽल्पे न शीतले|
स्नानोदकावतरणस्वप्नान्नग्नो न चाचारेत्|
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिणि|
नात्मानमीक्षेत जले न तटस्थो जलाशयम्|
न प्रतिस्फालयेदम्बु पाणिना चरणेन वा|
स्नात्वा न मृज्याद्गात्राणि धुनुयान्न शिरोरुहान्||४२||


शिरस्यनाप्लुते असिक्ते न स्नायात्| जले नद्यादिस्थे स्वल्पे शीतले च न स्नायात्| नग्नः अगृहीतपरिधानः, स्नानमुदकावतरणं च नाऽऽचरेत्| तथा स्वप्नं च नग्नो नाचरेत्| परवारिणि अन्यकृते तटाकादौ पञ्च पिण्डाननुद्धृत्य न स्नायात्| पञ्चभिः पिण्डैरुद्धृतैरात्मनैव स्नानार्थं जलाशयः कृतो भवति| दर्पणवदात्मानं जले नेक्षेत| तटस्थः कूलस्थो, जलाशयं कूपादिकं नेक्षेत| पाणिना पादेन वा जलं न प्रतिस्फालयेन्नाभिहन्यात्| स्नात्वा च पाण्यादिनाऽङ्गानि न परिमार्जयेत्| केशांश्च स्नात्वा न धुनुयात्|| ४२||

निवसीतार्द्र एवाऽशु सोष्णीषे धौतवाससी|
न त्वम्बरं पूर्वधृतं न च तैलवसे स्पृशेत्||४३||


आर्द्र एव धौतोष्णीषं धौतवाससी च निवसीत परिदध्यात्| उष्णीषः शिरः पट्टकम्| स्नात्वा च स्नानकालधृतं वासो न स्पृशेत्| तैलं वसां च स्नात्वा न स्पृशेत्|| ४३||

वासोऽन्यदन्यच्छयने निर्गमे देवतार्चने||४४||


शयनाद्यवसरे अन्यदन्यद्वासः परिवर्तयेत्| निर्गमे देवतार्चने चान्यदन्यद्वासो निवसीत|| ४४||

स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु|
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्||४५||


अर्दिताद्यार्तानां स्नानं गर्हितं निन्द्यम्| आध्मानं वायुना जठरापूरणं, पीनसो नासास्रावः||४५||

अन्नपानविधानेन भुञ्जीतान्नं विनाऽत्ययात्|
अभिनन्द्य प्रसन्नात्मा हुत्वा दत्वा च शक्तितः|
पाकं सजलमेकान्ते यथासुखमिति ब्रुवन्|
प्रयच्छेत्सर्वमुद्दिश्य पाचयेन्नाऽन्नमात्मने||४६||


ततोऽनन्तरमन्नपानविधानेनान्नं भुञ्जीत| अत्यये तु यथेच्छमेव| प्राप्तमाहारमभिनन्द्य प्रसन्नात्मा प्रसन्नहृदयः, हुत्वा चाग्निमुखे, शक्तितश्च दत्वा कृपणादिभ्यो यथाशक्ति दत्त्वा, सर्वं भूतग्राममुद्दिश्य, एकान्ते पाकं सर्वमाहार्यं सोदकं यथासुखमिति मन्त्रपदमिव ब्रुवन् दद्यात्| दानादिव्यवच्छेदेनात्मार्थमन्नं न पाचयेत्|| ४६||

नाऽन्नमद्यान्मुमूर्षूणां मृतानां दुःखजीविनाम्|
स्त्रीजितक्लीबपतितक्रूरदुष्कृतकारिणाम्|
गणारिगणिकासत्रधूर्तान्नापणिकञ्च न||४७||


मुमूर्षुप्रभृतीनामन्नं नाद्यात्| गणान्नं बह्वायत्तमन्नं नाद्यात्| आपणिको वणिक्|| ४७||

नोत्सङ्गे भक्षयेद्भक्ष्याञ्जलं नाञ्जलिना पिबेत्|
सर्वञ्च तिलसम्बद्धं नाऽद्यादस्तमिते रवौ|
न भुक्तमात्र आयस्येन्न निषिद्धं भजेत्सुखम्||४८||


उत्सङ्गे गृहीत्वा भक्ष्यान्नं न भक्षयेत्| अञ्जलिना पाणिसम्पुटेन जलं न पिबेत्| रवौ दिनकृति, अस्तमिते तिलसम्बद्धं सर्वं भक्ष्यं नाद्यात्| भोजनादुत्थितः शरीरायासं न कुर्यात्| स्मृत्यादिप्रतिषिद्धं सुखं न सेवेत|| ४८||

धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः|
मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान्||४९||


दिनस्य च मध्यमिष्टैः शिष्टैश्च सहायैर्युतः कथाभिर्गमयेत्| किम्भूताभिः? धर्मप्रधानाभिः, मध्यार्थाभिः, अर्थबलात् स्वल्पकायाभिः| एवं त्रिगुणात्मभिः त्रिगुणो धर्मादीनां स्थानवृद्धिक्षयलक्षणः|| ४९||

न लोकभूपविद्विष्टैर्न सङ्गच्छेत नास्तिकैः|
कलिवैररुचिर्न स्याद्धीरः सम्पद्विपत्तिषु|
श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली|
क्षान्तिमान्दक्षिणो दक्षः सुसमीक्षितकार्यकृत्|
ह्रीमान्धीमान्महोत्साहः संविभागी प्रियातिथिः|
अक्षुद्रवृत्तिर्गम्भीरः साधुराश्रितवत्सलः|
दाता पितृभ्यः पिण्डस्य यष्टा होता कृपात्मकः|
अनुज्ञाता सुवार्तानां दीनानामनुकम्पकः|
आश्वासकारी भीतानां क्रुद्धानामनुनायकः|
पूर्वाभिभाषी सुमुखः सुशीलः पूज्यपूजकः|
वित्तबन्धुवयोविद्यावृत्तैः पूज्या यथोत्तरम्|
आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्|
सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्|
धर्म्यमर्थ्यं प्रियं तथ्यं मितं पथ्यं वदेद्वचः|
नाऽत्मानमवजानीयान्न स्तूयान्न च पीडयेत्|
न हीनानवमन्येत वृत्तार्थाङ्गबलश्रुतैः|
नारुन्तुदः स्यान्न क्रूरो न तीक्ष्णो नोपतापवान्|
हेतावीर्ष्येन्न तु फले पापं पापेऽपि नाचरेत्|
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत्|
अन्यत्र पुत्राच्छिष्याद्वा शासनार्हाद्धिताशयः|
नृत्यवादित्रगीतादि नोल्बणामाचरेत्क्रियाम्|
प्रसिद्धकेशवाग्वेशशमसान्त्वपरायणः|
ऊर्ध्वे नाभेः शरीरस्य स्पृशेन्नाऽधरवाससा|
न कुर्यान्मिथुनीभूय शौचं प्रति विलम्बनम्|
नाऽसंवृतमुखो हास्यक्षवोद्गारविजृम्भणम्|
पाणिद्वयेन युगपत्कण्डूयेन्नात्मनः शिरः|
वहेन्न भारं शिरसा युगपच्चाग्निवारिणी|
नासिकां न विकुष्णीयाद्दशनान्न विघट्टयेत्|
कुर्याद्विलेखनच्छेदभेदास्फोटनमर्दनम्|
नाऽकार्ये न च कार्येऽपि मुखाङ्गनखवादनम्|
पादं पादेन नाक्रामेन्न कण्डूयेन्न शौचयेत्|
ना कांस्यभाजने तौ च नोपविष्टः प्रसाधयेत्|
अभीक्ष्णं निर्मलान् दध्यान्नखपादमलाशयान्|
नाऽसमिद्धमुपासीत हुताशं नैव चाशुचिः|
नाऽनुवातं न विवृते न क्लान्तो नाऽन्यमानसः|
धमेन्नास्येन न स्कन्देन्नाऽधः कुर्यान्न पादतः|
सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च|
नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितम्|
उद्यन्तमस्तमायान्तं तपन्तं प्रतिमागतम्|
उपरक्तं च भास्वान्तं वाससा वा तिरोहितम्|
नान्यदप्यतितेजस्वि क्रुद्धस्य च गुरोर्मुखम्|
स्त्रीं न स्रवन्तीं नोदक्यां न नग्नां नान्यसङ्गताम्|
न पत्नीं भोजनस्वप्नक्षुतजृम्भादुरासने|
शयीत नैकशयने न चाश्नीयात्तया सह|
तामनीर्ष्यंश्च गोपायेत् स्वैरिणीं नाधिवासयेत्|
नोच्छिष्टस्तारकाराहुतुहिनांशुदिवाकरान्|
पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेच्छिरः|
पाययन्तीं चरन्तीं वा नान्यस्मै गां निवेदयेत्|
अर्केन्दुपरिवेषोल्काशतक्रतुधनूंषि च|
नान्यद्देवार्चने कर्म कुर्याद्धावेन्न वर्षति|
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि न निर्दिशेत्|
नात्मनो जन्मलग्नर्क्षघनसारं गृहे मलम्|
प्रकाशयेन्नावमानं न च निःस्नेहतां प्रभोः|
पुरोवातातपरजस्तुषारपरुषानिलान्|
अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्|
सशब्दमलिनं हस्तभ्रूनेत्रोत्क्षेपवादिताम्|
कूलच्छायां सुरापानं व्यालदंष्ट्रिविषाणिनः|
हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः|
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्|
आरोग्यजीवितैश्वर्यविद्यासु स्थिरमानिताम्|
तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्|
मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत्||५०||


लोकद्विष्टैः राजद्विष्टैः सह सङ्गतिं न कुर्यात्, नास्तिकैश्च| अदृष्टं नास्तीति बोद्धारो नास्तिकाः| कलहं वैरं न रोचयेत्| सम्पत्स्वापत्सु च धैर्यवलम्बेत्| शास्त्रश्रवणादन्यत्राशनादिके सन्तुष्टः श्रुते त्वसन्तुष्टः| उपनतादधिकेनाऽऽकांक्षा असन्तोषः| तत्रैव च श्रुते शेषविषये कुतूहलवान्| सर्वभूतेषु क्षान्तिमत्वादियुक्तो भवेत्| दक्षिणः पक्षपाती| अन्यत्सुबोधम्| पूज्यांश्च पूजयेत्| अत आह- वित्तेत्यादि| (१) धनवान् पूज्यः, (२) अतोऽधिकं बन्धुः, (३) अतोऽधिकमधिकवयाः, (४) ततोऽधिकं विद्यावान्, (५) ततोऽधिकं शीलवान् पूज्य इति यथोत्तरार्थः| यो यस्मादुत्तरः स तस्मात्पूज्य इति| आत्मद्रोहादियुक्तमत्यन्तं कृपया सत्पथयोजनादिना, परमनुकम्पेत| सर्वस्य च धर्म्यादिकं वाक्यं वदेत्| धर्मादनपेतं धर्म्यमर्थादनपेतमर्थ्यं, प्रियं श्रोतुः, तथ्यं सत्यं, मितं स्वल्पं, पथ्यं हितानुबन्धि| आत्मनः शरीरस्यावज्ञां न कुर्यात्| न चात्मानं स्तूयात्| न च पीडयेत्| वृत्तादिहीनानामवमानो न विधेयः| अरुन्तुदो मर्मस्पृक्| उपतापः परनिर्बन्धः| हेतौ सेवादिके ईर्ष्येत्| ईर्ष्या नाम यत् परस्य भूतं तत्कथं मम नेति बुद्धिः| न तु तत्फले अर्थादिके, फलार्थिना हि तत्कारणे प्रयतितव्यमित्यर्थः| पापशीलेऽप्यभद्रं नाऽऽचरेत्| परस्य च दण्डं नोद्यच्छेत्| क्रुद्धश्च सन् परस्य एनं दण्डं न पातयेत्| पुत्रं शासनार्हं शिष्यं च अन्यत्र वर्जयित्वा| अशासनार्हयोस्तयोरपि न निपातयेत्| हिताशयः तद्धितकामः| नृत्यादिक्रियामुल्बणामतिमात्रं नाऽऽचरेत्| देशकालादप्रसिद्धान् केशादीन् न धारयेत्| नाभेरुपरि शरीरमधः कायवाससा न स्पृशेत्| कृतव्यवायश्च शीघ्रं शौचमाचरेत्| अस्थगितास्यो हास्यादिकं नाऽचरेत्| हस्तद्वयेन युगपच्छिरो न कण्डूयेत्| अन्यत्सुबोधम्| निष्प्रयोजनं विलेखनादिकं नाचरेत्| आस्यादिवादनं सर्वथैव न कुर्यात्| पादेन पादं नाऽक्रामेत्| न च शौचयेत्| तौ पादौ कांस्यमये भाजने कृत्वा न शौचयेत्| नखादीन् निर्मलान् दध्याद्धारयेत्| मुखेन हुताशनमग्निं न धमेत् मुखवातेन नोदीरयेदित्यर्थः| न स्कन्देत् न विकिरेत् शयनासनादिष्वधो न कुर्यात्| उद्यदाद्यवस्थास्थितं सूर्यं नेक्षेत| उपरक्तोराहुराच्छादितः| अन्यदप्यतितेजोयुक्तं नेक्षेत| गुरोः क्रुद्धस्य मुखं नेक्षेत| स्रवन्तीं मूत्रायमाणां स्त्रियं नेक्षेत| उदक्यां रजस्वलामपि नेक्षेत| अन्यपुरुषमिथुनीभूताञ्च नेक्षेत| भोजनादिकां क्रियां कुर्वन्तीं दुरासने चोपविष्टां स्वपत्नीं नेक्षेत| न च स्वभार्यया सहैकशयने शयीत| तया सह नाश्नीयात्| ईर्ष्यां चाकुर्वन् स्वगृहिणीं रक्षेत्| स्वैरिणीं च स्त्रियं स्वगृहे नाधिवासयेत्, भर्तारं जीवन्तं परित्यज्य स्वेच्छया गृहान्निर्गता स्वैरिणी|
उच्छिष्टः अप्रयतः, तारकादीन्न पश्येत्| यानादिकञ्च न कुर्यात्| पाययन्तीं वत्सं, चरन्तीं भक्षयन्तीं सस्यादि, गामन्यस्मै न दर्शयेत्| अर्केंदुपरिवेषादिकं चान्यस्मै न दर्शयेत्| परिवेषो मण्डलम्, देवार्चन प्रसंगे अन्यत्कर्म न कुर्वीत| वर्षति पतति पानीये, न धावेत्| पक्षस्य तिथिं न ब्रूयात्, अद्यामावास्येति न कस्मैचित्कथयेदित्यर्थः| पक्षस्य मध्ये सर्वां तिथिं न ब्रूयादिति केचित्, ते पक्षशब्दस्य प्रयोजनं प्रष्टव्याः| आत्मनश्च जन्मलग्ननक्षत्रादिकं न कथयेत्| गृहे मलं गृहदोषं, आत्मन्यवमानं प्रभोः निःस्नेहताञ्च न लोके प्रकाशयेत्| पुरोवातादीनां त्यजेदित्युत्तरेण सम्बन्धः| हस्ताद्युत्क्षेपेण प्रायेण जनो वदति तत्प्रतिषिद्धम्| हीनातिसेवाञ्च त्यजेत्|
आरोग्यादीनां स्थिरज्ञानं विश्वासः, तं `अहमरोगः’ ‘अहं गृहीतविद्यः’ इत्यादिकं त्यजेदुपेक्षया नाशभयात्||५०||

नैकाहमप्यधिवसेद्वास्तुतच्छास्त्रगर्हितम्||५१||


एकाहमपि वास्तुविद्यागर्हितं गृहं नाधिवसेत्||५१||

न देश व्याधिबहुलं नावैद्यं नाप्यनायकम्|
नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतम्||५२||


व्याधिबहुलादिकं देशञ्च| उपसृष्टं नोपसर्गं मारकादिना|

वसेत्प्राज्याम्बुभैषज्यसमित्पुष्पतृणेन्धने|
सुभिक्षक्षेमरम्यान्ते पण्डितैर्मण्डिते पुरे||५३||


प्रभूताम्ब्वादिके पुरे वसेत्|| ५३||

नरामराणां सिद्धानां शास्त्राणाञ्चाजुगुप्सकः|
आधारकस्त्रिवर्गस्य यथायोग्यं जनस्य च|
दश कर्मपथान् रक्षञ्जयन्नभ्यन्तरानरीन्|
हिंसास्तेयान्यथाकामं पैशून्यं परुषानृतम्|
सम्भिन्नालापं व्यापादमभिध्यां दृग्विपर्ययम्|
पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत्|
परोपघातक्रियया वर्जयेदर्जनं श्रियः|
अर्थानां धर्मलब्धानामदातापि ह्यसम्भवात्|
स्वर्गापवर्ग विभवानयत्नेनाधितिष्ठति||५४||


गुणवन्नरादीनां चाजुगुप्सकोऽद्वेष्टा| दश कर्मपथान् रक्षन्नभ्यन्तरानरीन् रागादीञ्जयन् त्रिवर्गं साधयेत्| दश कर्मपथाः- कायवाङ्मानसाः| तत्र कायिकास्त्रयः- (१) प्राणातिपातः, (२) परद्रव्यापहारः, (३) अगम्यागमनमिति| वाचिकं चतुर्विधं- (४) असत्यवचनम्, (५) परेषां भेदकृद्वचनम्, (६) परुषवचनम्, (७) असम्बद्धप्रलापश्च| मानसं त्रिविधं- (८) अभिध्या, (९) व्यापादः (१०) मिथ्यादृष्टिश्च| परस्वस्यान्यायेन स्पृहा अभिध्या| व्यापादः सत्त्वविद्वेषः| दृग्विपर्ययः शास्त्रदृष्टिवैपरीत्यम्, नास्तिकत्वमिति यावत्| परोपघातेन श्रिय अर्जनं वर्जयेत्| यो ह्यर्थो दानाद्यर्थमुपयुज्यते सोऽधर्मेणार्जितो यदि दत्तो निष्फल एव| वरं धर्मपरस्य साधुधनासम्भवाददानम्| एतदेवाह- अर्थानामित्यादि| धर्मलब्धानामर्थामसम्भवाददातापि स्वर्गादीनयत्नेनाधितिष्ठति|| ५४||

सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः|
शास्तारमनुसंस्मृत्य स्वचर्याञ्चाथ संविशेत्||५५||


अथ सायाह्ने पुनर्भोजनं कृत्वा समाहितमनाः शास्तारं महेश्वरादिकं संस्मृत्य स्वचर्याञ्च शरीरस्थितिं विकल्प्य शय्यायां संविशेत्| संवेशनं निषदनाध्यासनम्|| ५५||

देशे शुचावनाकीर्णे द्वित्राप्तपरिचारकः|
युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखम्|
जानुतुल्यं मृदु शुभं सेवेत शयनासनम्|
प्राग्दक्षिणशिराः पादावकुर्वाणो गुरून् प्रति|
पूर्वापरदिशोभागे धर्ममेवानुचिन्तयन्||५६||


शुच्यादौ देशे शयनमासनञ्च सेवेत| आकीर्णं बहुजनाध्यासितं, युक्तोपधानं दर्शनीयशिरोगण्डिकं, जानुतुल्यमुच्चतया, प्राचीं दक्षिणां वा दिशं प्रति कृतशिराः| गुरून् प्रति च पादावकुर्वाणः| वेश्मनः पूर्वे अपरे वा दिग्भागे शयनासनं सेवेत|| ५६||

आददीत सदा देहादित्थं सारमसारतः|
बिभ्यत्प्रतिक्षणं मृत्योरयथातथचेष्टितात्|
आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः|
सुखमायुर्हितं चोक्तं विपरीतं विपर्यये||५७||


इत्थमनेनानन्तरोक्तप्रकारेण सारं गृह्णीयादसारात् देहात्| `एतदेव हि तत्सारं देहे यत्साधुशीलता’| किं कुर्वन्नाह- अयथातथचेष्टितादनियताचारिणो मृत्योः प्रतिक्षणं बिभ्यत् भयमाकलयन् मम कदाचिन्मृत्युरापतिष्यतीति| यच्चायुर्जीवितं तदारोग्यादियुक्तस्य हितं सुखञ्च साधुभिरुक्तम्| एतद्विपरीते विपरीतसुखमहितञ्च|| ५७||

सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि|
अदूषयन्मनस्तस्माद्भक्तिमांस्तदुपाचरेत्||५८||


तथा सकलतेजोनिधानं राजशब्दवाच्यम्| मनसा शुद्धेन भक्त्या चोपचरेत् सेवेत|| ५८||

पर्यस्तिकोपाश्रयकोपहास
विवादनिष्ठीवनजृम्भणानि|
सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टा
स्तत्सन्निधाने परिवर्जयेत्तु||५९||


तत्सन्निधाने च पर्यस्तिकादीनि वर्जयेत्| पर्यस्तिका वस्त्रादिना स्वपृष्ठजानुपरिवेष्टनम्| उपविष्टस्य उपाश्रयो भित्यादिके शरीरसंक्रमणम्|| ५९||

सत्त्वाद्यवस्था विविधाश्च तास्ताः
सम्यक्समीक्ष्यात्महितं विदध्यात्|
अन्योऽपि यः कश्चिदिहाऽस्ति मार्गो
हितोपदेशेषु भजेत तं च||६०||


सत्त्वरजस्तमसां नानाविधानवस्थाविशेषान् परीक्ष्यात्महितं करणीयम्| दुस्तरा हि धर्मप्रतिबन्धका रजस्तमोविकाराः| तथा मनुबुद्धादिप्रणीतेषु हितोपदेशशास्त्रेषु यः मार्गः अस्ति तमपि सेवेत|| ६०||

इति चरितमुपेतः सर्वजीवोपजीव्यं
प्रथितपृथुगुणौघो रक्षितो देवताभिः|
समधिकशतजीवी निर्वृतः पुण्यकर्मा
व्रजति सुगतिनिम्नो देहभेदेऽपि तुष्टिम्|६१|
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने दिनचर्यानाम तृतीयोऽध्यायः|३|


इति सर्वभूतोपजीव्यं चरितं प्राप्तः पुरुषः तथा प्रख्यातविस्तीर्णगुणसमूहः देवताभी रक्षितः परिपूर्णसंवत्सरशतजीवी च देहनाशेऽपि तुष्टिमपवर्गाख्यां व्रजति गच्छति| किम्भूतः? सुगतौ सुवर्त्मनि, निम्नः मग्नः|| ६१||
इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया-मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने तृतीयोऽध्यायः||३||

Diacritic Version

vāhaṭāparanāmā vr̥ddhavāgbhaṭapraṇītaḥ

Aṣṭāṅgasaṅgrahaḥ

indōḥ śaśilēkhākhyavyākhyayā saṁvalitaḥ

sūtrasthānam - 3. dinacaryā

athātō dinacaryānāmādhyāyaṁ vyākhyāsyāmaḥ|

iti ha smāhurātrēyādayō maharṣayaḥ||1||

asmiṁntrē āyuṣaḥ pālanaṁ prakr̥taṁ tacca dvividhaṁ svasthavr̥ttamāturavr̥ttañca| maṅgalyatvāt svalpavaktavyatvāt āturōpayōgitvācca svasthavr̥ttamēvādāvucyatē- athātō dinacaryāmityādi| pratidinaṁ karttavyā caryā dinacaryā|| 1||

brāhmē muhūrta uttiṣṭhējjīrṇājīrṇaṁ nirūpayan|

rakṣārthamāyuṣaḥ svasthaḥ………………..||2||

 

kiṁ tadityāha- brāhma iti| svasthō nīrōgaḥ| āyuṣō yathōpacitasya rakṣārtham| brāhmē muhūrtē uttiṣṭhēt| muhūrtō nāḍikādvayam| brahmaṇō’yaṁ brāhmaḥ| brahma jñānantadarthamadhyayanādyapi brahma tasya yōgyō muhūrtō brāhmaḥ brahmayōgyaśca kālō yōgaśāstrēṣu niśāyāḥ paścimō yāmō niścitaḥ| tēna niśākṣayē nidrānāśaprayuktatvādutthānasyāprāptasandhyāsaṁsargō muhūrtō’bhiprētaḥ| sandhyāyāṁ svapnapratiṣēdhāt| yadyapi ca jyōtiśśāstrēṣu sūryōdayātprabhr̥ti ṣaḍviṁśō muhūrttō nāḍikāṣṭakavyavahitadvitīyasūryōdayō brāhma ityucyatē tathāpi nāsāvihābhiprētaḥ| annasya jaraṇakālē jāgaraṇaprasaṅgāt| tasmāt sandhyāyāḥ pūrvō muhūrttō brahmōpāsanayōgyatvāt brāhmaḥ| abhyāsādyapēkṣaṁ tatpūrvō’pi vā| tasmin śayyāta uttiṣṭhēt| kēcittu jyōtiḥ śāstravidaḥ viriñcaprabhavaṁ muhūrttaṁ niśāntabhavamāhuḥ| kiṁ kurvannuttiṣṭhēt jīrṇājīrṇaṁ nirūpayan hyastanamāhāraṁ mayā bhuktaṁ jīrṇaṁ na vēti vikalpayan| ētāvatā hi kadācit svapyādajīrṇīti nōttiṣṭhēt| athavā ṣaḍviṁśa ēva brāhmō muhūrttaḥ atra gr̥hyatē| jīrṇājīrṇaṁ nirūpayannityētacca dōṣaparihārāya bhaviṣyati|| 2||

……………….jātavēgaḥ samutsr̥jēt|

udaṅmukhō mūtraśakr̥ddakṣiṇābhimukhō niśi|

vācaṁ niyamya prayataḥ saṁvītāṅgō’vaguṇṭhitaḥ|

pravartayētpracalitaṁ na tu yatnādudīrayēt|

nāmēdhyamārgamr̥dbhasmagōsthānākīrṇagōmayē|

purāntikāgnivalmīkaramyōtkr̥ṣṭacitidrumē|

na nārīpūjyagō’rkēnduvāyvannāgnijalaṁ prati|

na cātiraskr̥tya mahīṁ bhayāśaktyōstu kāmataḥ|

na vēgitō’nyakāryaḥ syānnājitvā sādhyamāmayam|

niḥśalyāduṣṭamr̥tpiṇḍīparimr̥ṣṭamalāyanaḥ|

abhyuddhr̥tābhiḥ śucibhiradbhirmr̥dbhiśca yōjayēt|

lēpagandhāpahaṁ śaucamanutpatitabindubhiḥ||3||

 

utthitaśca kiṁ kuryādityāha- jātavēga ityādi| mūtrapurīṣamudaṅamukha uttarāṁ diśaṁ prēkṣamāṇa utsr̥jēttyajēt| kimbhūtaḥ? prāptavēgaḥ nōdīritavēga iti| ētāvatā hi vātādināṁ kōpō bhavati| niśi rātrau dakṣaṇadigabhimukhaḥ mūtraśakr̥dutsr̥jēt| kiṁ kr̥tvā mūtrapurīṣamutsr̥jēt? vācaṁ niyamya kr̥tamaunaḥ| prayataḥ ananyakāryaḥ| saṁvītāṅgaḥ gr̥hītaparidhānaḥ| avaguṇṭhitaḥ anagnaśirāḥ| sthānāt pracalitaṁ mūtraśakr̥tstōkaṁ stōkaṁ pravartayēt prērayēt| na tvatiyatnēnācalitamēvōdīrayēt| nāmēdhyē atyantāśucau sthānē| mārgaḥ rathyā| tatrāpi nōtsr̥jēt| na mr̥di rāśībhūtāyāmapi| na bhasmani| na gōsthānē, na ākīrṇē janasaṁsadi, na gōmayasyōpari, na puranikaṭē, nāgninikaṭē, na valmīkōpari| mr̥dā pipīlikādikr̥taṁ sthāṇvākāraṁ valmīkaśabdēnōcyatē| nātiramaṇīyē bhūmibhāgē, na halalikhitē, na kr̥tādhvarāgnicayē, na vr̥kṣasyādha upari vā| na ca nāryābhimukhaṁ, pūjyō gurvādiḥ| gavādayaḥ prasiddhāḥ| na ca mahīṁ bhūmimatiraskr̥tya tr̥ṇādibhiranavacchādya| utsr̥jēditi sarvatrānuvartatē| yadā tu svāmicōrādibhayaṁ, yadā vā śarīrāśaktatā tadā kāmatō yathēccham| tathā vēgitaḥ prāptamūtrādivēgō nānyakāryō bhavēt| anyakāryapratiṣēdhaprasaṅgēna āha- sādhyamapi rōgamajitvā nānyakāryō bhavēditi| utsr̥ṣṭavēgaśca śaucaṁ yōjayētkuryāt| kimbhūtaḥ kuryādata āha- niḥśalyayā kāṣṭhādiśalyarahitayā| aduṣṭayā yōgyayā mr̥tpiṇḍayā parimr̥ṣṭamalāyanaḥ sammārjitagudaḥ| kēna śaucaṁ yōjayēdata āha- abhyuddhr̥tābhiradbhiḥ nadītaṭākāditaḥ kalaśapāṇyādinā uddhr̥tābhiḥ| na tu kaṭīmēva nadyāmavagāhya śaucayēt| nāśucinā karēṇa mr̥tsahitābhiradbhiḥ| kimbhūtaṁ śaucamityāha-lēpagandhāpahamiti| lēpagandhāpahaṁ malāyanē lēpagandhau, lēpaśca gandhaśca yēna naśyati| ētēna mr̥daḥ apāṁ śaucasya ca mānamuktaṁ bhavati| anutpatitabindubhiradbhiḥ yata utpatitā bindavō’spr̥śyāḥ|| 3||

spr̥ṣṭvā dhātūn malānaśruvasākēśanakhāṁścyutān|

snātvā bhōktumanā bhuktvā suptvā kṣutvā surārccanē|

rathyāmākramya cā’cāmēdupaviṣṭa udaṅmukhaḥ|

prāṅmukhō vā viviktasthō na bahirjānu nānyadr̥k|

ajalpannuttarāsaṅgī svacchairaṅguṣṭhamūlagaiḥ|

nōddhr̥tairnānatō nōrdhvaṁ nāgnipakvairna pūtibhiḥ|

na phēnabudbudakṣārairnaikahastārpitairjalaiḥ|

nārdraikapāṇirnnāmēdhyahastapādō na śbdavat||4||

 

anyaccēdaṁ kuryāt, ācāmēt jalēnōpaspr̥śēt| kiṁ kr̥tvā”ha- dhātvādikān spr̥ṣṭvā| kimbhūtān śarīrāccalitān| dhātavaḥ raktādayaḥ| malāḥ mūtraśakr̥tkarṇamalādayaḥ| aśru dr̥śōrjalam| apsadr̥śō mēdasō bhāgō vasā| tathā ca `śuddhamāṁsasya yaḥ snēhaḥ sā vasā parikīrtitā’ iti carakaḥ| snātvā ca ācāmēt| bhōktumanāḥ bubhukṣuḥ| bhuktvā ca, suptvā ca, kṣuttvā ca kṣavathuṁ kr̥tvā, surārcanē dēvārcanārambhē, rathyāmākramya mārgaṁ paribhramya, cakārātprakr̥taṁ śaucaṁ kr̥tvā| kimbhūtaḥ? pūrvāmuttarāṁ vā diśamīkṣamāṇaḥ upaviṣṭaḥ| na bahirjānu jānubhyāṁ bahiḥ pāṇī akr̥tvā| nānyadr̥k ācamanajalādanyatra na dr̥ṣṭiṁ kurvan| ajalpan kr̥tamaunaḥ| uttarāsaṅgī gr̥hītōparivasanaḥ| kairācamēt? jalaiḥ| kimbhūtaiḥ? svacchaiḥ nirmalaiḥ, aṅguṣṭhamūlagaiḥ brāhmatīrthōpavēśibhiḥ| nōddhr̥tairācāmēt| kiṁ tarhi? avicchinnadhārayā dattaiḥ| nānataḥ na namitāṅgaḥ, nōrdhvaṁ utthitō na| nāgnipakvaiḥ, na durgandhibhiḥ, na phēnilaiḥ, nabudbudbhiḥ, na kṣāraiḥ virasaiḥ, nāpyēkahastadattaiḥ| ārdraikapāṇirnācāmēt| yāvad dvāvapi pāṇī na prakṣālitau| nāśucihastapādaḥ| jalapānē śabdaṁ na kurvan|| 4|

vaṭāsanārkakhadirakarañjakaravīrajam|

sarjārimēdāpāmārgamālatīkakubhōdbhavam|

kaṣāyatiktakatukaṁ mūlamanyadapīdr̥śam|

vijñātavr̥̄kṣaṁ kṣuṇṇāgramr̥jvagranthi subhūmijam|

kanīnyagrasamasthaulyaṁṁ sukūrccaṁ dvādaśāṅgulam|

prātarbhuktvā ca yatavāgbhakṣayēddantadhāvanam|

vyāpya trivargatritayakṣaudrāktēna ca gharṣayēt|

śanaistēna tatō dantān dantamāṁsānyabādhayan||5||

 

anyacca kiṁ kuryāt? kr̥taśaucō dantadhāvanakāṣṭhaṁ bhakṣayēt| kiṁ tat? vaṭādivr̥kṣāṇāmanyatamasya mūlaṁ yat kaṣāyādirasasaṁyuktaṁ na tvanyarasaṁ vaṭādijaṁ mūlaṁ vaṭādimūlādanyadapīdr̥śaṁ kaṣāyādirasasaṁyuktaṁ

mūlaṁ vā kāṣṭhaṁ vā sarvaṁ bhakṣayēt| vijñātavr̥kṣaṁ vr̥kṣā hi mōhanādinānāśaktayō dr̥śyantē| kṣuṇṇāgramāpōthitāgram, r̥juspaṣṭam,tathā granthirahitam, subhūmijaṁ śmaśānādyajātam, sthūlatayā ca kanīnikāprāntasamam, kanīnikā kaniṣṭhāṅguliḥ, sukūrccaṁ

aparuṣakūrccam, parimāṇēna dvādaśāṅgulam| dvau kālau dantamāṁsaṁ rakṣan dantapavanaṁ bhakṣayēt| dinārambhē bhōjanāntē ca| yatavāṅmaunī| tatō dantapavanaṁ malāpanutyarthaṁ bhakṣayitvā anantaraṁ śanaiḥ vyāpyādikṣaudrānvitaprāntēna dantakāṣṭhēna dantān gharṣayēt| vyāpyaṁ kuṣṭham| trivargatritayaṁ trikaṭu triphalā trijātakaṁ ca|| 5||

likhēdanusukhaṁ jihvāṁ jihvānirlēkhanēna ca|

tathāsyamalavairasyagandhā jihvāsyadantajāḥ|

rucivaiśadyalaghutā na bhavanti bhavanti ca||6||

 

anu paścāt tēnaiva lēkhanayōgyakr̥tēna dantapavanēna jihvāṁ sukhaṁ likhēt, jihvānirlēkhanēna lōhādikr̥tēna vā jihvāṁ sukhaṁ likhēt| svalpamapi māṁsamabādhamānastāṁ likhēt| ēvaṁ hi dantapavanajihvānirlēkhanābhyāmasya puṁsō malādayō jihvādijā na bhavanti| yathāsaṅkhyaṁ vivikṣitā rucyādayō laghutāntāśca bhavanti|| 6||

nādyādajīrṇavamathuśvāsakāsajvarārditī|

tr̥ṣṇāsyapākahr̥nnētraśiraḥkarṇāmayī ca tat||7||

 

tacca dantapavanamajīrṇādiyutaḥ puruṣō nādyāt| vamathuḥ chardiḥ, śvāsādayō vakṣyamāṇalakṣaṇāḥ| āmayaśabdēna rōgaparyāyēṇa hr̥dādīnāṁ sambandhaḥ|| 7||

naiva ślēṣmātakāriṣṭabibhītadhavadhanvajān|

bilvavañjulanirguṇḍīśigrutilvakatindukān|

kōvidāraśamīpīlupippalēṅgudagulgulūn|

pāribhadrakamamlīkāmōcakyau śālmalīṁ śaṇam|

svādvamlalavaṇaṁ śuṣkaṁ suṣiraṁ pūti picchilam||8||

 

ślēṣmātakādikaṁ dantapavanamavaśyamēva nādyāt| tathā prathamarasatrayayuktaṁ, durgandhipicchilañca, śuṣkaṁ nīrasaṁ, suṣiramantaḥ śūnyam| ślēṣmātakādīnāṁ śaṇāntānāṁ paryāyāṇi nōcyantē, viśiṣṭadēśaprasiddhatvāt| yā cātrākāṅkṣā sā nighaṇṭujñānādēva naśyati|| 8||

pālāśamāsanaṁ dantadhāvanaṁ pādukē tyajēt||9||

 

dantadhāvanaprasaṅgēnāha- pālāśavr̥kṣajātam āsanaṁ, dantadhāvanaṁ, pādukē ca tyajēt|| 9||

dantān pūrvamadhō gharṣēt……………….||10||

 

dantapavanē cādhō dantān pūrvaṁ gharṣēt|| 10||

………………….prātaḥ siñcēcca lōcanē|

tōyapūrṇamukhō grīṣmaśaradōḥ śītavāriṇā||11||

 

pratidinaṁ prātardinārambhē akṣiṇī siñcēttōyapūrṇamukhaḥ san| kēna siñcēt? śītavāriṇā| kiṁ nityamēva śītavāriṇā? grīṣmaśaradōrēva| anyasmin r̥tau kōṣṇavāriṇā ityarthāllabhyatē|

praṇamya dēvān vr̥ddhāṁśca maṅgalāṣṭaśataṁ śubham|

śṟuṇvan kāñcanavinyastaṁ sarpiḥ paśyēdanantaram||12||

 

idañcānantaraṁ kuryāt dēvān vr̥ddhāṁśca praṇamya maṅgalāṣṭaśataṁ śubhaṁ śṟuṇvan sauvarṇabhāṇḍasthaṁ ghr̥tamavāṅmukhaḥ paśyēt, maṅgalāṣṭaśataṁ dūtādivijñānīyē (śā0a0-12) vakṣyatē|| 12||

sauvīramañjanaṁ nityaṁ hitamakṣṇōstatō bhajēt|

lōcanē tēna bhavatō manōjñē sūkṣmadarśanē|

vyaktatrivarṇē vimalē susnigdhaghanapakṣmaṇī||13||

 

tataḥ sauvīramañjanamakṣibhyāṁ hitaṁ nityaṁ bhajēt| tēna cāñjanēna lōcanē nētrē, manōjñē darśanīyē bhavataḥ| sūkṣmañca rūpaṁ paśyataḥ| vyaktatrivarṇatvācca nirmalē, raktaśuklakr̥ṣṇaṁ varṇatrayam| susnigdhāni sughanāni ca pakṣmāṇi yayōstē tathāvidhē|| 13||

cakṣustējōmayaṁ tasya viśēṣācchlēṣmatō bhayam|

yōjayētsaptarātrē’smāt srāvaṇārthaṁ rasāñjanam||14||

 

tathā saptarātrāntarēṇa cakṣuṣaḥ ślēṣmasrāvaṇārthaṁ rasāñjanaṁ yōjayēt| kutaḥ? yataścakṣustējōmayaṁ, cakṣuṣastējōmayavyapadēśō bhūyasā| yataḥ pañcabhūtātmakamindriyaṁ tasya ca vātāditō viśēṣācchlēṣmaṇō viparītatvādbhayamiti|| 14||

aṇutailaṁ tatō nasyantatō gaṇḍūṣadhāraṇam|

ghanōnnataprasannatvak skandhagrīvāsyavakṣasaḥ|

susnigdhavadanāḥ snigdhaniḥsvanā vimalēndriyāḥ|

nirvalīpalitavyaṅgā bhavēyurnasyaśīlinaḥ|

ōṣṭhasphuṭanapāruṣyamukhaśōṣadvijāmayāḥ|

na syuḥ svarōpaghātāśca snēhagaṇḍūṣadhāraṇāt|

khadirakṣīrivr̥kṣārimēdāmbukavalagrahaḥ|

arōcakāsyavairasyamalapūtiprasēkajit|

sukhōṣṇōdakagaṇḍūṣairjāyatē vaktralāghavam||15||

 

anantaraṁ vakṣyamāṇamaṇutailaṁ nasyaṁ yōjyam| anantaraṁ gaṇḍūṣadhāraṇam| nasyaśīlina ēva bhavanti ghanōnnataprasannāḥ tvagādayaḥ yēṣāṁ tē tathāvidhāḥ| ghanatvādibhistvagādīnāṁ yathāsambhavaṁ sambandhaḥ| prasannatvacaḥ unnataskandhāḥ, ghanagrīvāḥ, prasannamukhāḥ, ghanavakṣasaḥ, sugandhāsyāḥ, madhurasvarāḥ, valīpalitavyaṅgarahitāśca| valyastvaksaṅkōcaḥ, vyaṅgāni mukhē śyāvāni maṇḍalāni| snēhagaṇḍūṣadhāraṇādōṣṭhaphuṭanādayō na bhavanti| pāruṣyamōṣṭhayōrēva, tathā āsyaśōṣaḥ, dantarōgaḥ, svarahāniśca| tathā arōcakādināśakāmēna khadirādyambukavalagrahaḥ kāryaḥ| tathā vaktralāghavakāmēna uṣṇōdakagaṇḍūṣaḥ| kavalagaṇḍūṣayōrbhēdō gaṇḍūṣādividhau vakṣyatē| prasēkaḥ āsyasrāvaḥ|| 15||

prāyōgikaṁ tatō dhūmaṁ gandhamālyādi cācarēt|

dhūmādasyōrdhvajatrūtthā na syurvātakaphāmayāḥ||16||

 

anantaraṁ vakṣyamāṇalakṣaṇaṁ prāyōgikaṁ dhūmaṁ gandhamālyādi cā”carēt| ādiśabdēna vāsaḥ prabhr̥tīnāṁ grahaṇam| dhūmapasya kiṁ bhavati? jatrārakṣakasandhyabhidhānasya, ūrdhvamupari śirasi vātakaphajā rōgā na bhavanti|| 16||

añjanōtklēśitaṁ nasyaiḥ kavalairnāvanēritam|

dhūmēna kavalōtkliṣṭaṁ kramādvātakaphaṁ jayēt||17||

 

nanvañjanādīnāmēvambhūtaḥ kramaḥ kimarthamāśrita ityāha- añjanō-tklēśitamityādi|| 17||

gandhamālyādikaṁ vr̥ṣyamalakṣmīghnaṁ prasādhanam||18||

 

gandhamālyādikamupayujyamānaṁ vr̥ṣyamalakṣmīghnaṁ kāntikaraṁ ca bhavati|| 18||

vāsō na dhārayējjīrṇaṁ malinaṁ raktamulbaṇam|

mālyaṁ na lambaṁ na bahirna raktaṁ jalajādr̥tē|

naiva cānyēna vidhr̥taṁ vastraṁ puṣpamupānahau||19||

 

anyaccēdamidaṁ kuryāt| jīrṇaṁ jīrṇaprāyaṁ vāsaḥ paridhānaṁ na dhārayēt| malinaṁ raktamulbaṇañca, unnaddham (ulbaṇam) udbhaṭaṁ mālyaṁ puṣpaṁ, lambaṁ sragdāmādi, na dhārayēt| na bahiḥ rājamārgē dr̥śyamānaṁ vā| jalajaṁ varjayitvā raktamanyanmālyaṁ na dhārayēt| prasaṅgēnāha- anyēna vidhr̥taṁ vastraṁ na dhārayēt puṣpamupānahau carmapādukē tathā|| 19||

rucivaiśadyasaugandhyamicchanvaktrēṇa dhārayēt|

jātīlavaṅgakarpūrakaṅkōlakaṭukaiḥ saha|

tāmbūlīnāṁ kisalayaṁ hr̥dyaṁ pūgaphalānvitam|

raktapittakṣatakṣīṇarūkṣōtkupitacakṣuṣām|

viṣamūrcchāmadārttānāmapathyaṁ śōṣiṇāṁ ca tat|

pathyaṁ suptōtthitē bhuktē snātē vāntē ca mānavē|

dvipatramēkaṁ pūgaṁ ca sacūrṇakhadiraṁ ca tat||20||

 

rūcyādikamicchan vaktrēṇa jātyādibhiḥ saha pūgaphalānvitaṁ tāmbūlīnāṁ nāgalatānāṁ kisalayaṁ pallavaṁ dhārayēt| raktapittādyupahatasya śōṣiṇaśca tatsēvanamapathyam| rūkṣēṇa hētunōtkupitāni cakṣūṁṣi yēṣāṁ tē rūkṣōtkupitacakṣuṣaḥ, tēṣāmathavā rūkṣāṇāmutkupitacakṣuṣāñca subōdham|| 20||

uttiṣṭhēta tatō’tyarthamarthēṣvarthānubandhiṣu|

ninditaṁ dīrghamapyāyurasannihitasādhanam|

kr̥ṣiṁ vaṇijyāṁ gōrakṣāmupāyairguṇinaṁ nr̥pam|

lōkadvayāviruddhāñca dhanārthī saṁśrayētkriyām||21||

 

tatō’nantaramarthānubandhiṣu dhanahētuṣu kāryēṣvatyarthamuttiṣṭhēta yatnāccēṣṭēta| yasmāddīrghamapyāyurasannihitasādhanaṁ dāridryayuktaṁ ninditaṁ garhitam| tathā dhanārthī kr̥ṣyādikamārabhēta| anyāñca kriyāṁ dhanalābhahētukīmubhayalōkāviruddhāṁ satīmāśrayēt|| 21||

muktavēgaśca gamanasvapnāhārasabhāstriyaḥ|

pāṇinālabhya niṣkrāmēdratnapūjyājyamaṅgalam|

sātapatrapadatrāṇō vicarēdyugamātradr̥k|

niśi cātyayikē kāryē daṇḍī maulī sahāyavān|

prāvr̥tya paryaṭēdrātrau na prāvr̥tya śirō’hani||22||

 

tathā muktavēga utsr̥ṣṭamūtrapurīṣādivēgaśca adhvagamanādikam| tathā ratnādikamālabhya sapūjaṁ saṁspr̥śya, kāryārthaṁ niṣkrāmēt| nirgataśca chatrapādatrāṇasaṁyuktō yugamātradr̥gvicarēt| yugō hastadvayam, anyē hastacatuṣṭayaṁ yugamāhuḥ, tanmātramagrataḥ paśyan kr̥misthāṇvādibhayāt| niśi rātrāvātyayikē atiprayōjanavati kāryē, daṇḍī maulī sahāyavāṁśca vicarēt| arthabalāduktam anātyayikē kāryē naiva vicarēnniśīti| maulī vēṣṭitaśirāḥ| tathā rātrau śiraḥ pidhāya paryaṭēt paribhramēditi|| 22||

caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn|

nākrāmēccharkarālōṣṭhabalisnānabhuvō na ca||23||

 

caityādīnāṁ chāyāṁ nākrāmēta pādābhyāṁ na la~ghghayēt| caityaḥ prasiddhaḥ, pūjyō gurvādiḥ, aśastamamaṅgalyaṁ vastu, tathā bhasmādikamapi| tathā śarkarādikamapi| śarkarā śilācūrṇaṁ balirbhūtōpahāraḥ, snānabhūḥ yatra kaścit snātaḥ|| 23||

madhyāhnē sandhyayō rātrāvardharātrē catuṣpatham|

na sēvēta na śarvaryāṁ vr̥kṣacaityaṁ na catvaram|

sūnāṭavīśūnyagr̥haśmaśānāni divā’pi na||24||

 

tathā madhyāhnādiṣu kālēṣu catuṣpathaṁ na sēvēta| tathā śarvaryāṁ sarvasyāmapi rātrau, vr̥kṣādikaṁ na sēvēta| catvaraṁ tripathamāhuḥ, grāmādbahiravatārāśrayamanyē, grāmīṇasamājasthānamityanyē, yastu lōkē catvara iti prasiddhaḥ| sūnāṭavyādikaṁ divā’pi na sēvēta| sūnāṭavī vadhāraṇyam|| 24||

na huṅkuryācchavaṁ pūjyaṁ praśastānmaṅgalāni ca|

nāpasavyaṁ parikrāmēnnētarāṇyanudakṣiṇam|

catuṣpathaṁ namaskuryātprajñātāṁśca vanaspatīn|

na vyālavyādhitāśastairnādāntakṣutpipāsitaiḥ|

na cchinnapucchairnaikākṣairgōpr̥ṣṭhēna ca na vrajēt|

nātipragē’tisāyaṁ vā na nabhōmadhyagē ravau|

nāsannihitapānīyō nātitūrṇaṁ na santatam|

na śatruṇā nāviditairnaikō nādhārmikaiḥ saha|

dadyādvartmārtavr̥ddhastrībhāricakradvijanmanē|

snānabhōjanapānāni vāhēbhyō nācarētpuraḥ|

nadīṁ tarēnna bāhubhyāṁ nāgniskandhamabhivrajēt|

nārōhēdviṣamaṁ śailaṁ nāvaṁ saṁśayitāṁ tarum|

nipātayēnna lōṣṭēna na phalēna phalaṁ drumāt|

na vāryamāṇaḥ praviśēnnādvārēṇa na cā’sanē|

svayam tiṣṭhētparagr̥hē yuktanidraṁ na bōdhayēt|

nā’carētpāṇivākpādadr̥ṅmēḍhrōdaracāpalam||25||

 

śavaṁ na huṅkuryāt mr̥taśarīraṁ huṅkārēṇa na tarjayēt| pūjyādīni cāpasavyaṁ vāmaṁ parityajya na gacchēt| itarāṇi tadviparītāni dakṣiṇaṁ tyaktvā na gacchēt| catuṣpathaṁ prajñātān prasiddhāṁśca vanaspatīn vr̥kṣān namaskuryāt| vyālādibhiśca vāhairna vrajēt| vyālaḥ duṣṭaḥ, kṣudraḥ, atipūrvāhṇādikālē ca na vrajēt| asannihitapānīyaḥ agr̥hītapānīyaḥ, tūrṇaṁ vēgēna, na saṁtataṁ bahukālamapi tu viśramyaiva gantavyamityabhiprāyaḥ, śatruṇā saha na vrajēt, aviditairavijñātasvarūpaiḥ saha na vrajēt, ēkākī na vrajēt, adhārmikaiśca saha| tathā ārtādibhyō vartma dadyāt mārgaṁ tyajēt| bhārī bhāravāhakaḥ, cakrī gantryādiḥ| vāhēbhyaḥ purā snānādikaṁ nā”carēt| pūrvaṁ svavāhānaśvādīn snāpayēt bhōjayēt pāyayēcca paścātsvayam snāyāt bhuñjīta cētyarthaḥ| bāhubhyāṁ ca nadīṁ na tarēt| agniskandhābhimukhō na gacchēt| agniskandhō mahānagnirāśiḥ| viṣamamatinimnōnnatapradēśaṁ, śailaṁ parvataṁ nā’rōhēt| saṁśayitāmavijñātasvarūpāṁ nāvaṁ, vr̥kṣañca sarvaṁ nā”rōhēt| drumādvr̥kṣāt, lōṣṭēna, phalēna vā phalaṁ na pātayēt| paragr̥hē vāryamāṇaḥ pratiṣidhyamānapravēśō na praviśēt| aprasiddhēna mārgēṇa na praviśēt| praviṣṭaśca adattē āsanē na svayaṁ tiṣṭhēt nōpaviśēt| yuktā aviruddhā nidrā yasya taṁ na bōdhayēt| pāṇyādicāpalaṁ ca nā”carēt| hastacāpalaṁ vādyānukaraṇādi, pādacāpalamapyēvaṁprakāramēva, vākcāpalaṁ yatkiñcanavāditvaṁ, dr̥kcāpalaṁ parayuvatyādidarśanaṁ, mēḍhracāpalamaprāsaṅgikānucitayōṣidgamanādi, udaracāpalaṁ bhōjanagr̥ghnutā|| 25||

triḥ pakṣasya kacaśmaśrunakharōmāṇi vardhayēt|

na svahastēna dantairvā snānaṁ cānu samācarēt||26||

 

pakṣasya madhyē trīn vārān kēśādīn kartayēt, svahastēna dantairvā na kartayēt| kartayitvā ca snānamācarēt|| 26||

atha jātānnapānēcchō mārutaghnaiḥ sugandhibhiḥ|

yathartusaṁsparśasukhaistailairabhyaṅgamācarēt||27||

 

athānantaramanantarōktaprakārēṇa kālamativāhya utpannānnapānēcchō’bhyaṅgamācarēt| kēnētyāha-tailaiḥ| kimbhūtaiḥ? vātaghnaiḥ sugandhibhiśca r̥tvanatikramēṇa saṁsparśasukhakaraiśca uṣṇakālē śītaiḥ, śītakālē cōṣṇairityarthaḥ|| 27||

abhyaṅgō vātahā puṣṭisvapnadārḍhyabr̥hatvakr̥t|

dagdhabhagnakṣatarujā klamaśramajarāpahaḥ|

rathākṣacarmaghaṭadbhavatyabhyaṅgatō guṇāḥ|

sparśanē’bhyadhikō vāyuḥ sparśanaṁ ca tvagāśrayam|

tvacyaśca paramabhyaṅgō yasmāttaṁ śīlayēdataḥ|

śiraḥ śravaṇapādēṣu taṁ viśēṣēṇa śīlayēt||28||

 

abhyaṅgaguṇānāha-abhyaṅgēti| dagdhāditrayasya Rrujayā

sambandhaḥ| kṣataḥ śastrādinā| tathā rathākṣādivadabhyaṅgādguṇā bhavanti, rathākṣaṁ cakranābhiḥ, tasya carmaghaṭayōśca yathā’bhyaṅgēna ślakṣṇatvaṁ, yathā mārdavaṁ, yathā ca dārḍhyaṁ, tathā śarīrasyāpi| yathā ca rathākṣasya snēhasparśanamātrēṇa, carmanō mardanēna, ghaṭasya snēhasaṁskārēṇēti| yataśca paramatyarthaṁ tvacyaścābhyaṅgaḥ, tasmādabhyaṅgamācarēt| kathamityāha-sparśanamiti| sparśanaṁ tvagāśritam| sparśanē cāvaśyaṁ vāyunā bhavitavyam| atō vātā”bādhabhayādityarthaḥ| śiraḥ prabhrutiṣu tamabhyaṅgaṁ viśēṣēṇaśīlayēt|| 28||

sa kēśyaḥ śīlitō mūrdhni kapālēndriyatarpaṇaḥ||29||

 

kimarthamityāha-sō’bhyaṅgaḥ mūrdhni śirasi, śīlitaḥ kēśyō kēśēbhyō hitaḥ, kapālasyēndriyāṇāñca tarpaṇaḥ tr̥ptikaraḥ|| 29||

hanumanyāśiraḥ karṇaśūlaghnaṁ karṇapūraṇam||30||

 

snēhēna karṇapūraṇaṁ hanumanyādiśūlaghnam|| 30||

pādābhyaṅgastu tatsthairyanidrādr̥ṣṭiprasādakr̥t|

pādasuptiśramastambhasaṅkōcasphuṭanapraṇut||31||

 

pādādiṣu tamabhyaṅgaṁ viśēṣēṇa śīlayēt| pādābhyaṅgastu tatsthairyādikr̥t pādasuptyādighnaśca| suptiriva suptiḥ abhighātādyacaitanyam|| 31||

varjyō’bhyaṅgaḥ kaphagrastakr̥tasaṁśuddhyajīrṇibhiḥ||32||

 

sarvō’bhyaṅgaḥ kaphagrastādibhirvarjyaḥ na sēvyaḥ| kaphagrastaḥ ślēṣmarōgārttaḥ| grastagrahaṇamatiśayōpalakṣaṇārtham| kr̥tasaṁśuddhiḥ vamanavirēcanādibhiracirakālaniḥsr̥tadōṣaḥ|| 32||

śarīrāyāsajananaṁ karma vyāyāma ucyatē||33||

 

anantaraṁ vyāyāmaṁ śīlayēt| ka ucyatē vyāyāmaḥ? āha- śarīrēti| yēna karmaṇā kriyamāṇēna śarīramāyasyatē tadvyāyāmaśabdēna vācyam| tēnaitaduktaṁ bhavati- kasyaciccaṁkramaṇamēva vyāyāmaḥ, kasyacidanyadadhikamiti|| 33||

lāghavaṁ karmasāmarthyaṁ dīptō’gnirmēdasaḥ kṣayaḥ|

vibhaktaghanagātrattvaṁ vyāyāmādupajāyatē||34||

 

tēna kr̥tēna kiṁ bhavatītyāha- lāghavamityādi| lāghavaṁ dēhasya laghutvam| anyat subōdham|| 34||

vātapittāmayī bālō vr̥ddhō’jīrṇī ca taṁ tyajēt||35||

 

vātapittarōgārtō bālō vr̥ddhaśca vyāyāmaṁ tyajēt|| 35||

arddhaśaktyā niṣēvyastu balibhiḥ snigdhabhōjibhiḥ|

śītakālē vasantē ca mandamēva tatō’nyadā|

taṁ kr̥tvā’nusukhaṁ dēhaṁ mardayēcca samantataḥ||36||

 

sa ca vyāyāmō balavadbhiḥ puruṣaiḥ śītakālē hēmantaśiśirayōḥ vasantē ca snigdhānnabhōjibhiḥ sadbhirarddhaśaktyā (su0ci024/47) niṣēvaṇīyaḥ yāvacchakyaṁ tatō’rddhamiti| anyasminpunaḥ r̥tau svalpamēva| tañca vyāyāmaṁ kr̥tvā yathāsukhaṁ dēhaṁ mardayētsarvam|| 36||

tr̥ṣṇā kṣayaḥ pratamakō raktapittaṁ śramaḥ klamaḥ|

ativyāyāmataḥ kāsō jvaraścchardiśca jāyatē||37||

 

yathōktapramāṇātikramādativyāyāmēna kāsādirōgōtpattiḥ|

gajaṁ siṁha ivākarṣan bhajannati vinaśyati||38||

 

prasaṅgēnāha- vyāyāmādīnāṁ sāhasamatisēvāṁ bhajan puruṣō vinaśyati| yathā siṁhō vikramavānatisvalpabalaḥ mahābalaṁ dantinamākarṣayan svayamēva vinaśyati|| 38||

udvarttanaṁ kaphaharaṁ mēdasaḥ pravilāyanam|

sthirīkaraṇamaṅgānāṁ tvakprasādakaraṁ param||39||

 

anantaraṁ kaṣāyadravyairudvartanaṁ kuryāt| tadguṇānāha- kaphaharamityādi|| 39||

dīpanaṁ vr̥ṣyamāyuṣyaṁ snānamūrjābalapradam|

kaṇḍūmalaśramasvēdatandrātr̥ḍdāhapāpmajit||40||

 

tadanu snānamācarēt| taccāgnyudīraṇatvādiyuktaṁ kaṇḍvādighnañca|| 40||

uṣṇāmbunā’dhaḥkāyasya pariṣēkō balāvahaḥ|

tēnaiva tūttamāṅgasya balahr̥tkēśacakṣuṣām||41||

 

uṣṇāmbunētyādi subōdham|| 41||

nā’nāplutya śiraḥ snāyānna jalē’lpē na śītalē|

snānōdakāvataraṇasvapnānnagnō na cācārēt|

pañca piṇḍānanuddhr̥tya na snāyātparavāriṇi|

nātmānamīkṣēta jalē na taṭasthō jalāśayam|

na pratisphālayēdambu pāṇinā caraṇēna vā|

snātvā na mr̥jyādgātrāṇi dhunuyānna śirōruhān||42||

 

śirasyanāplutē asiktē na snāyāt| jalē nadyādisthē svalpē śītalē ca na snāyāt| nagnaḥ agr̥hītaparidhānaḥ, snānamudakāvataraṇaṁ ca nā”carēt| tathā svapnaṁ ca nagnō nācarēt| paravāriṇi anyakr̥tē taṭākādau pañca piṇḍānanuddhr̥tya na snāyāt| pañcabhiḥ piṇḍairuddhr̥tairātmanaiva snānārthaṁ jalāśayaḥ kr̥tō bhavati| darpaṇavadātmānaṁ jalē nēkṣēta| taṭasthaḥ kūlasthō, jalāśayaṁ kūpādikaṁ nēkṣēta| pāṇinā pādēna vā jalaṁ na pratisphālayēnnābhihanyāt| snātvā ca pāṇyādinā’ṅgāni na parimārjayēt| kēśāṁśca snātvā na dhunuyāt|| 42||

nivasītārdra ēvā’śu sōṣṇīṣē dhautavāsasī|

na tvambaraṁ pūrvadhr̥taṁ na ca tailavasē spr̥śēt||43||

 

ārdra ēva dhautōṣṇīṣaṁ dhautavāsasī ca nivasīta paridadhyāt| uṣṇīṣaḥ śiraḥ paṭṭakam| snātvā ca snānakāladhr̥taṁ vāsō na spr̥śēt| tailaṁ vasāṁ ca snātvā na spr̥śēt|| 43||

vāsō’nyadanyacchayanē nirgamē dēvatārcanē||44||

 

śayanādyavasarē anyadanyadvāsaḥ parivartayēt| nirgamē dēvatārcanē cānyadanyadvāsō nivasīta|| 44||

snānamarditanētrāsyakarṇarōgātisāriṣu|

ādhmānapīnasājīrṇabhuktavatsu ca garhitam||45||

 

arditādyārtānāṁ snānaṁ garhitaṁ nindyam| ādhmānaṁ vāyunā jaṭharāpūraṇaṁ, pīnasō nāsāsrāvaḥ||45||

annapānavidhānēna bhuñjītānnaṁ vinā’tyayāt|

abhinandya prasannātmā hutvā datvā ca śaktitaḥ|

pākaṁ sajalamēkāntē yathāsukhamiti bruvan|

prayacchētsarvamuddiśya pācayēnnā’nnamātmanē||46||

 

tatō’nantaramannapānavidhānēnānnaṁ bhuñjīta| atyayē tu yathēcchamēva| prāptamāhāramabhinandya prasannātmā prasannahr̥dayaḥ, hutvā cāgnimukhē, śaktitaśca datvā kr̥paṇādibhyō yathāśakti dattvā, sarvaṁ bhūtagrāmamuddiśya, ēkāntē pākaṁ sarvamāhāryaṁ sōdakaṁ yathāsukhamiti mantrapadamiva bruvan dadyāt| dānādivyavacchēdēnātmārthamannaṁ na pācayēt|| 46||

nā’nnamadyānmumūrṣūṇāṁ mr̥tānāṁ duḥkhajīvinām|

strījitaklībapatitakrūraduṣkr̥takāriṇām|

gaṇārigaṇikāsatradhūrtānnāpaṇikañca na||47||

 

mumūrṣuprabhr̥tīnāmannaṁ nādyāt| gaṇānnaṁ bahvāyattamannaṁ nādyāt| āpaṇikō vaṇik|| 47||

nōtsaṅgē bhakṣayēdbhakṣyāñjalaṁ nāñjalinā pibēt|

sarvañca tilasambaddhaṁ nā’dyādastamitē ravau|

na bhuktamātra āyasyēnna niṣiddhaṁ bhajētsukham||48||

 

utsaṅgē gr̥hītvā bhakṣyānnaṁ na bhakṣayēt| añjalinā pāṇisampuṭēna jalaṁ na pibēt| ravau dinakr̥ti, astamitē tilasambaddhaṁ sarvaṁ bhakṣyaṁ nādyāt| bhōjanādutthitaḥ śarīrāyāsaṁ na kuryāt| smr̥tyādipratiṣiddhaṁ sukhaṁ na sēvēta|| 48||

dharmōttarābhirarthyābhiḥ kathābhistriguṇātmabhiḥ|

madhyaṁ dinasya gamayēdiṣṭaśiṣṭasahāyavān||49||

 

dinasya ca madhyamiṣṭaiḥ śiṣṭaiśca sahāyairyutaḥ kathābhirgamayēt| kimbhūtābhiḥ? dharmapradhānābhiḥ, madhyārthābhiḥ, arthabalāt svalpakāyābhiḥ| ēvaṁ triguṇātmabhiḥ triguṇō dharmādīnāṁ sthānavr̥ddhikṣayalakṣaṇaḥ|| 49||

na lōkabhūpavidviṣṭairna saṅgacchēta nāstikaiḥ|

kalivairarucirna syāddhīraḥ sampadvipattiṣu|

śrutādanyatra santuṣṭastatraiva ca kutūhalī|

kṣāntimāndakṣiṇō dakṣaḥ susamīkṣitakāryakr̥t|

hrīmāndhīmānmahōtsāhaḥ saṁvibhāgī priyātithiḥ|

akṣudravr̥ttirgambhīraḥ sādhurāśritavatsalaḥ|

dātā pitr̥bhyaḥ piṇḍasya yaṣṭā hōtā kr̥pātmakaḥ|

anujñātā suvārtānāṁ dīnānāmanukampakaḥ|

āśvāsakārī bhītānāṁ kruddhānāmanunāyakaḥ|

pūrvābhibhāṣī sumukhaḥ suśīlaḥ pūjyapūjakaḥ|

vittabandhuvayōvidyāvr̥ttaiḥ pūjyā yathōttaram|

ātmadruhamamaryādaṁ mūḍhamujjhitasatpatham|

sutarāmanukampēta narakārciṣmadindhanam|

dharmyamarthyaṁ priyaṁ tathyaṁ mitaṁ pathyaṁ vadēdvacaḥ|

nā’tmānamavajānīyānna stūyānna ca pīḍayēt|

na hīnānavamanyēta vr̥ttārthāṅgabalaśrutaiḥ|

nāruntudaḥ syānna krūrō na tīkṣṇō nōpatāpavān|

hētāvīrṣyēnna tu phalē pāpaṁ pāpē’pi nācarēt|

parasya daṇḍaṁ nōdyacchētkruddhō nainaṁ nipātayēt|

anyatra putrācchiṣyādvā śāsanārhāddhitāśayaḥ|

nr̥tyavāditragītādi nōlbaṇāmācarētkriyām|

prasiddhakēśavāgvēśaśamasāntvaparāyaṇaḥ|

ūrdhvē nābhēḥ śarīrasya spr̥śēnnā’dharavāsasā|

na kuryānmithunībhūya śaucaṁ prati vilambanam|

nā’saṁvr̥tamukhō hāsyakṣavōdgāravijr̥mbhaṇam|

pāṇidvayēna yugapatkaṇḍūyēnnātmanaḥ śiraḥ|

vahēnna bhāraṁ śirasā yugapaccāgnivāriṇī|

nāsikāṁ na vikuṣṇīyāddaśanānna vighaṭṭayēt|

kuryādvilēkhanacchēdabhēdāsphōṭanamardanam|

nā’kāryē na ca kāryē’pi mukhāṅganakhavādanam|

pādaṁ pādēna nākrāmēnna kaṇḍūyēnna śaucayēt|

nā kāṁsyabhājanē tau ca nōpaviṣṭaḥ prasādhayēt|

abhīkṣṇaṁ nirmalān dadhyānnakhapādamalāśayān|

nā’samiddhamupāsīta hutāśaṁ naiva cāśuciḥ|

nā’nuvātaṁ na vivr̥tē na klāntō nā’nyamānasaḥ|

dhamēnnāsyēna na skandēnnā’dhaḥ kuryānna pādataḥ|

satataṁ na nirīkṣēta calasūkṣmāpriyāṇi ca|

nāpraśastaṁ na viṇmūtraṁ na darpaṇamamārjitam|

udyantamastamāyāntaṁ tapantaṁ pratimāgatam|

uparaktaṁ ca bhāsvāntaṁ vāsasā vā tirōhitam|

nānyadapyatitējasvi kruddhasya ca gurōrmukham|

strīṁ na sravantīṁ nōdakyāṁ na nagnāṁ nānyasaṅgatām|

na patnīṁ bhōjanasvapnakṣutajr̥mbhādurāsanē|

śayīta naikaśayanē na cāśnīyāttayā saha|

tāmanīrṣyaṁśca gōpāyēt svairiṇīṁ nādhivāsayēt|

nōcchiṣṭastārakārāhutuhināṁśudivākarān|

paśyēnna yāyānna paṭhēnna svapyānna spr̥śēcchiraḥ|

pāyayantīṁ carantīṁ vā nānyasmai gāṁ nivēdayēt|

arkēnduparivēṣōlkāśatakratudhanūṁṣi ca|

nānyaddēvārcanē karma kuryāddhāvēnna varṣati|

tithiṁ pakṣasya na brūyāt nakṣatrāṇi na nirdiśēt|

nātmanō janmalagnarkṣaghanasāraṁ gr̥hē malam|

prakāśayēnnāvamānaṁ na ca niḥsnēhatāṁ prabhōḥ|

purōvātātaparajastuṣāraparuṣānilān|

anr̥juḥ kṣavathūdgārakāsasvapnānnamaithunam|

saśabdamalinaṁ hastabhrūnētrōtkṣēpavāditām|

kūlacchāyāṁ surāpānaṁ vyāladaṁṣṭriviṣāṇinaḥ|

hīnānāryātinipuṇasēvāṁ vigrahamuttamaiḥ|

sandhyāsvabhyavahārastrīsvapnādhyayanacintanam|

ārōgyajīvitaiśvaryavidyāsu sthiramānitām|

tōyāgnipūjyamadhyēna yānaṁ dhūmaṁ śavāśrayam|

madyātisaktiṁ viśrambhasvātantryē strīṣu ca tyajēt||50||

 

lōkadviṣṭaiḥ rājadviṣṭaiḥ saha saṅgatiṁ na kuryāt, nāstikaiśca| adr̥ṣṭaṁ nāstīti bōddhārō nāstikāḥ| kalahaṁ vairaṁ na rōcayēt| sampatsvāpatsu ca dhairyavalambēt| śāstraśravaṇādanyatrāśanādikē santuṣṭaḥ śrutē tvasantuṣṭaḥ| upanatādadhikēnā”kāṁkṣā asantōṣaḥ| tatraiva ca śrutē śēṣaviṣayē kutūhalavān| sarvabhūtēṣu kṣāntimatvādiyuktō bhavēt| dakṣiṇaḥ pakṣapātī| anyatsubōdham| pūjyāṁśca pūjayēt| ata āha- vittētyādi| (1) dhanavān pūjyaḥ, (2) atō’dhikaṁ bandhuḥ, (3) atō’dhikamadhikavayāḥ, (4) tatō’dhikaṁ vidyāvān, (5) tatō’dhikaṁ śīlavān pūjya iti yathōttarārthaḥ| yō yasmāduttaraḥ sa tasmātpūjya iti| ātmadrōhādiyuktamatyantaṁ kr̥payā satpathayōjanādinā, paramanukampēta| sarvasya ca dharmyādikaṁ vākyaṁ vadēt| dharmādanapētaṁ dharmyamarthādanapētamarthyaṁ, priyaṁ śrōtuḥ, tathyaṁ satyaṁ, mitaṁ svalpaṁ, pathyaṁ hitānubandhi| ātmanaḥ śarīrasyāvajñāṁ na kuryāt| na cātmānaṁ stūyāt| na ca pīḍayēt| vr̥ttādihīnānāmavamānō na vidhēyaḥ| aruntudō marmaspr̥k| upatāpaḥ paranirbandhaḥ| hētau sēvādikē īrṣyēt| īrṣyā nāma yat parasya bhūtaṁ tatkathaṁ mama nēti buddhiḥ| na tu tatphalē arthādikē, phalārthinā hi tatkāraṇē prayatitavyamityarthaḥ| pāpaśīlē’pyabhadraṁ nā”carēt| parasya ca daṇḍaṁ nōdyacchēt| kruddhaśca san parasya ēnaṁ daṇḍaṁ na pātayēt| putraṁ śāsanārhaṁ śiṣyaṁ ca anyatra varjayitvā| aśāsanārhayōstayōrapi na nipātayēt| hitāśayaḥ taddhitakāmaḥ| nr̥tyādikriyāmulbaṇāmatimātraṁ nā”carēt| dēśakālādaprasiddhān kēśādīn na dhārayēt| nābhērupari śarīramadhaḥ kāyavāsasā na spr̥śēt| kr̥tavyavāyaśca śīghraṁ śaucamācarēt| asthagitāsyō hāsyādikaṁ nā’carēt| hastadvayēna yugapacchirō na kaṇḍūyēt| anyatsubōdham| niṣprayōjanaṁ vilēkhanādikaṁ nācarēt| āsyādivādanaṁ sarvathaiva na kuryāt| pādēna pādaṁ nā’krāmēt| na ca śaucayēt| tau pādau kāṁsyamayē bhājanē kr̥tvā na śaucayēt| nakhādīn nirmalān dadhyāddhārayēt| mukhēna hutāśanamagniṁ na dhamēt mukhavātēna nōdīrayēdityarthaḥ| na skandēt na vikirēt śayanāsanādiṣvadhō na kuryāt| udyadādyavasthāsthitaṁ sūryaṁ nēkṣēta| uparaktōrāhurācchāditaḥ| anyadapyatitējōyuktaṁ nēkṣēta| gurōḥ kruddhasya mukhaṁ nēkṣēta| sravantīṁ mūtrāyamāṇāṁ striyaṁ nēkṣēta| udakyāṁ rajasvalāmapi nēkṣēta| anyapuruṣamithunībhūtāñca nēkṣēta| bhōjanādikāṁ kriyāṁ kurvantīṁ durāsanē cōpaviṣṭāṁ svapatnīṁ nēkṣēta| na ca svabhāryayā sahaikaśayanē śayīta| tayā saha nāśnīyāt| īrṣyāṁ cākurvan svagr̥hiṇīṁ rakṣēt| svairiṇīṁ ca striyaṁ svagr̥hē nādhivāsayēt, bhartāraṁ jīvantaṁ parityajya svēcchayā gr̥hānnirgatā svairiṇī|

ucchiṣṭaḥ aprayataḥ, tārakādīnna paśyēt| yānādikañca na kuryāt| pāyayantīṁ vatsaṁ, carantīṁ bhakṣayantīṁ sasyādi, gāmanyasmai na darśayēt| arkēṁduparivēṣādikaṁ cānyasmai na darśayēt| parivēṣō maṇḍalam, dēvārcana prasaṁgē anyatkarma na kurvīta| varṣati patati pānīyē, na dhāvēt| pakṣasya tithiṁ na brūyāt, adyāmāvāsyēti na kasmaicitkathayēdityarthaḥ| pakṣasya madhyē sarvāṁ tithiṁ na brūyāditi kēcit, tē pakṣaśabdasya prayōjanaṁ praṣṭavyāḥ| ātmanaśca janmalagnanakṣatrādikaṁ na kathayēt| gr̥hē malaṁ gr̥hadōṣaṁ, ātmanyavamānaṁ prabhōḥ niḥsnēhatāñca na lōkē prakāśayēt| purōvātādīnāṁ tyajēdityuttarēṇa sambandhaḥ| hastādyutkṣēpēṇa prāyēṇa janō vadati tatpratiṣiddham| hīnātisēvāñca tyajēt|

ārōgyādīnāṁ sthirajñānaṁ viśvāsaḥ, taṁ `ahamarōgaḥ’ ‘ahaṁ gr̥hītavidyaḥ’ ityādikaṁ tyajēdupēkṣayā nāśabhayāt||50||

naikāhamapyadhivasēdvāstutacchāstragarhitam||51||

 

ēkāhamapi vāstuvidyāgarhitaṁ gr̥haṁ nādhivasēt||51||

na dēśa vyādhibahulaṁ nāvaidyaṁ nāpyanāyakam|

nādharmijanabhūyiṣṭhaṁ nōpasr̥ṣṭaṁ na parvatam||52||

 

vyādhibahulādikaṁ dēśañca| upasr̥ṣṭaṁ nōpasargaṁ mārakādinā|

vasētprājyāmbubhaiṣajyasamitpuṣpatr̥ṇēndhanē|

subhikṣakṣēmaramyāntē paṇḍitairmaṇḍitē purē||53||

 

prabhūtāmbvādikē purē vasēt|| 53||

narāmarāṇāṁ siddhānāṁ śāstrāṇāñcājugupsakaḥ|

ādhārakastrivargasya yathāyōgyaṁ janasya ca|

daśa karmapathān rakṣañjayannabhyantarānarīn|

hiṁsāstēyānyathākāmaṁ paiśūnyaṁ paruṣānr̥tam|

sambhinnālāpaṁ vyāpādamabhidhyāṁ dr̥gviparyayam|

pāpaṁ karmēti daśadhā kāyavāṅmānasaistyajēt|

parōpaghātakriyayā varjayēdarjanaṁ śriyaḥ|

arthānāṁ dharmalabdhānāmadātāpi hyasambhavāt|

svargāpavarga vibhavānayatnēnādhitiṣṭhati||54||

 

guṇavannarādīnāṁ cājugupsakō’dvēṣṭā| daśa karmapathān rakṣannabhyantarānarīn rāgādīñjayan trivargaṁ sādhayēt| daśa karmapathāḥ- kāyavāṅmānasāḥ| tatra kāyikāstrayaḥ- (1) prāṇātipātaḥ, (2) paradravyāpahāraḥ, (3) agamyāgamanamiti| vācikaṁ caturvidhaṁ- (4) asatyavacanam, (5) parēṣāṁ bhēdakr̥dvacanam, (6) paruṣavacanam, (7) asambaddhapralāpaśca| mānasaṁ trividhaṁ- (8) abhidhyā, (9) vyāpādaḥ (10) mithyādr̥ṣṭiśca| parasvasyānyāyēna spr̥hā abhidhyā| vyāpādaḥ sattvavidvēṣaḥ| dr̥gviparyayaḥ śāstradr̥ṣṭivaiparītyam, nāstikatvamiti yāvat| parōpaghātēna śriya arjanaṁ varjayēt| yō hyarthō dānādyarthamupayujyatē sō’dharmēṇārjitō yadi dattō niṣphala ēva| varaṁ dharmaparasya sādhudhanāsambhavādadānam| ētadēvāha- arthānāmityādi| dharmalabdhānāmarthāmasambhavādadātāpi svargādīnayatnēnādhitiṣṭhati|| 54||

sāyaṁ bhuktvā laghu hitaṁ samāhitamanāḥ śuciḥ|

śāstāramanusaṁsmr̥tya svacaryāñcātha saṁviśēt||55||

 

atha sāyāhnē punarbhōjanaṁ kr̥tvā samāhitamanāḥ śāstāraṁ mahēśvarādikaṁ saṁsmr̥tya svacaryāñca śarīrasthitiṁ vikalpya śayyāyāṁ saṁviśēt| saṁvēśanaṁ niṣadanādhyāsanam|| 55||

dēśē śucāvanākīrṇē dvitrāptaparicārakaḥ|

yuktōpadhānaṁ svāstīrṇaṁ vistīrṇāviṣamaṁ sukham|

jānutulyaṁ mr̥du śubhaṁ sēvēta śayanāsanam|

prāgdakṣiṇaśirāḥ pādāvakurvāṇō gurūn prati|

pūrvāparadiśōbhāgē dharmamēvānucintayan||56||

 

śucyādau dēśē śayanamāsanañca sēvēta| ākīrṇaṁ bahujanādhyāsitaṁ, yuktōpadhānaṁ darśanīyaśirōgaṇḍikaṁ, jānutulyamuccatayā, prācīṁ dakṣiṇāṁ vā diśaṁ prati kr̥taśirāḥ| gurūn prati ca pādāvakurvāṇaḥ| vēśmanaḥ pūrvē aparē vā digbhāgē śayanāsanaṁ sēvēta|| 56||

ādadīta sadā dēhāditthaṁ sāramasārataḥ|

bibhyatpratikṣaṇaṁ mr̥tyōrayathātathacēṣṭitāt|

ārōgyavibhavaprajñāvayōdharmakriyāvataḥ|

sukhamāyurhitaṁ cōktaṁ viparītaṁ viparyayē||57||

 

itthamanēnānantarōktaprakārēṇa sāraṁ gr̥hṇīyādasārāt dēhāt| `ētadēva hi tatsāraṁ dēhē yatsādhuśīlatā’| kiṁ kurvannāha- ayathātathacēṣṭitādaniyatācāriṇō mr̥tyōḥ pratikṣaṇaṁ bibhyat bhayamākalayan mama kadācinmr̥tyurāpatiṣyatīti| yaccāyurjīvitaṁ tadārōgyādiyuktasya hitaṁ sukhañca sādhubhiruktam| ētadviparītē viparītasukhamahitañca|| 57||

sarvatējōnidhānaṁ hi nr̥pa ityucyatē bhuvi|

adūṣayanmanastasmādbhaktimāṁstadupācarēt||58||

 

tathā sakalatējōnidhānaṁ rājaśabdavācyam| manasā śuddhēna bhaktyā cōpacarēt sēvēta|| 58||

paryastikōpāśrayakōpahāsa

vivādaniṣṭhīvanajr̥mbhaṇāni|

sarvāḥ prakr̥tyabhyadhikāśca cēṣṭā

statsannidhānē parivarjayēttu||59||

 

tatsannidhānē ca paryastikādīni varjayēt| paryastikā vastrādinā svapr̥ṣṭhajānuparivēṣṭanam| upaviṣṭasya upāśrayō bhityādikē śarīrasaṁkramaṇam|| 59||

sattvādyavasthā vividhāśca tāstāḥ

samyaksamīkṣyātmahitaṁ vidadhyāt|

anyō’pi yaḥ kaścidihā’sti mārgō

hitōpadēśēṣu bhajēta taṁ ca||60||

 

sattvarajastamasāṁ nānāvidhānavasthāviśēṣān parīkṣyātmahitaṁ karaṇīyam| dustarā hi dharmapratibandhakā rajastamōvikārāḥ| tathā manubuddhādipraṇītēṣu hitōpadēśaśāstrēṣu yaḥ mārgaḥ asti tamapi sēvēta|| 60||

iti caritamupētaḥ sarvajīvōpajīvyaṁ

prathitapr̥thuguṇaughō rakṣitō dēvatābhiḥ|

samadhikaśatajīvī nirvr̥taḥ puṇyakarmā

vrajati sugatinimnō dēhabhēdē’pi tuṣṭim|61|

iti vaidyapatisiṁhaguptasya sūnōrvāgbhaṭasya kr̥tāvaṣṭāṅgasaṁgrahasaṁhitāyāṁ sūtrasthānē dinacaryānāma tr̥tīyō’dhyāyaḥ|3|

 

iti sarvabhūtōpajīvyaṁ caritaṁ prāptaḥ puruṣaḥ tathā prakhyātavistīrṇaguṇasamūhaḥ dēvatābhī rakṣitaḥ paripūrṇasaṁvatsaraśatajīvī ca dēhanāśē’pi tuṣṭimapavargākhyāṁ vrajati gacchati| kimbhūtaḥ? sugatau suvartmani, nimnaḥ magnaḥ|| 61||

iti śrīmanmahāmahōpādhyāyēnduviracitāyā-maṣṭāṅgasaṁgrahavyākhyāyāṁ śaśilēkhāyāṁ sūtrasthānē tr̥tīyō’dhyāyaḥ||3||