ebooks-esamhita-evagbhata-ehrudayam-ayushkaameeya-adhyaya
Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् सूत्रस्थानम् – १. आयुष्कामीयाध्यायः सन्धिविच्छेदेन मूलश्लोकः / moola śloka with sandhiviccheda रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्|औत्सुक्यमोहारतिदाञ्जघानयोऽपूर्ववैद्याय नमोस्तु तस्मै|१| राग-आदि-रोगान् सतत-अनुषक्तान् अशेष-काय-प्रसृतान्-अशेषान्|औत्सुक्य-मोह-अरति-दन् जघानयः अपूर्व-वैद्याय नमः अस्तु तस्मै| इदानीमिष्टदेवतां नमस्कृत्य शास्त्रकारस्तन्त्रमारिरिप्सुरिदमाह —- अथात आयुष्कामीयमध्यायं व्याख्यास्यामः|(गद्यसूत्रम्)||१||इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रम्)|२| अथ अतः आयुष्कामीयम् अध्यायं व्याख्यास्यामः|इति ह स्म आहुः आत्रेय-आदयः महर्षयः| आयुःकामायमानेन धर्मार्थसुखसाधनम्|आयुर्वेदोपदेशेषु विधेयः परमादरः||२|| आयुः-कामाय-मानेन धर्म-अर्थ-सुख-साधनम्|आयुर्वेद-उपदेशेषु विधेयः परम-आदरः|| अथास्यायुर्वेदस्य गौरवोत्पादनायागमशुद्धिं दर्शयति —- ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्|सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्||३||तेऽग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे|————————————————|४| ब्रह्मा […]
ebooks-esamhita-evagbhata-ehrudayam-ayushkaameeya-adhyaya Read More »