Bhavaprakasha

ebooks-enighantu-bhavaprakasha-nighantu-pushpavarga

Devanagari Version ||श्रीभावमिश्रविरचित|| भावप्रकाशनिघण्टु [भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण] ५. पुष्पवर्ग कमलवा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् |सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ||१||पङ्केरुहं तामरसं सारसं सरसीरुहम् |बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ||२||विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् |रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ||३||कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् |तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम् ||४||धवलं कमलं शीतं मधुरं कफपित्तजित् |तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम् ||५||मूलनालदलोत्फुल्लफलैः समुदिता पुनः |पद्मिनी प्रोच्यते प्राज्ञैर्बिसिन्यादि च सा स्मृता ||६||पद्मिनी […]

ebooks-enighantu-bhavaprakasha-nighantu-pushpavarga Read More »

ebooks-enighantu-bhavaprakasha-nighantu-amradiphalavarga

Devanagari Version ||श्रीभावमिश्रविरचित|| भावप्रकाशनिघण्टु [भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण] ७. आम्रादिफलवर्ग आम्रआम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः |कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ||१|| आम्रपुष्पआम्रपुष्पमतीसारकफपित्तप्रमेहनुत् |असृग्दुष्टिहरं शीतं रुचिकृद्ग्राहि वातलम् ||२|| आम्रफलआम्रं बालं कषायाम्लं रुच्यं मारुतपित्तकृत् |तरुणं तु तदत्यम्लं रूक्षं दोषत्रयास्रकृत् ||३|| आमाम्रफलआम्रमामं त्वचा हीनमातपातिविशोषितम् |अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित् ||४|| पक्वाम्रफलपक्वं तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम् |गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम् |कषायानुरसं वह्निश्लेष्मशुक्रविवर्धनम्

ebooks-enighantu-bhavaprakasha-nighantu-amradiphalavarga Read More »

ebooks-enighantu-bhavaprakasha-nighantu-vatadivarga

Devanagari Version ||श्रीभावमिश्रविरचित|| भावप्रकाशनिघण्टु [भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण] ६. वटादिवर्ग वटवटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः |क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ||१||वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः |वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत् ||२|| अश्वत्थबोधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः |पिप्पलो दुर्जरः शीतः पित्तश्लेष्मव्रणास्रजित् |गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः ||३||पिप्पलभेद-पारीषोऽन्यः पलाशश्च कपिचूतः कमण्डलुः |गर्दभाण्डः कन्दरालः कपीतनसुपार्श्वकौ ||४||पारीषो दुर्जरः स्निग्धः कृमिशुक्रकफप्रदः |फलेऽम्लो मधुरो मूले कषायस्वादुमज्जकः ||५|| नन्दीवृक्ष

ebooks-enighantu-bhavaprakasha-nighantu-vatadivarga Read More »

ebooks-enighantu-bhavaprakasha-nighantu-karpuradivarga

Devanagari Version ||श्रीभावमिश्रविरचित|| भावप्रकाशनिघण्टु [भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण] ३. कर्पूरादिवर्ग कर्पूरपुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः |घनसारश्चन्द्रसंज्ञो हिमनामापि स स्मृतः ||१||कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः |सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः ||२||दाहतृष्णाऽस्यवैरस्यमेदोदौर्गन्ध्यनाशनः |कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः |पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ||३|| चीनाककर्पूरचीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः |कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः ||४|| कस्तूरीमृगनाभिर्मृगमदः कथितस्तु सहस्रभित् |कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ||५||कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक्

ebooks-enighantu-bhavaprakasha-nighantu-karpuradivarga Read More »

ebooks-enighantu-bhavaprakasha-nighantu-guducyadivarga

Devanagari Version ||श्रीभावमिश्रविरचित|| भावप्रकाशनिघण्टु [भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण] ४. गुडूच्यादिवर्ग गुडूचीअथ लङ्केश्वरो मानी रावणो राक्षसाधिपः |रामपत्नीं बलात्सीतां जहार मदनातुरः ||१||ततस्तं बलवान् रामो रिपुं जायापहारिणम् |वृतो वानरसैन्येन जघान रणमूर्धनि ||२||हते तस्मिन्सुरारातौ रावणे बलगर्विते |देवराजः सहस्राक्षः परितुष्टश्च राघवे ||३||तत्र ये वानराः केचिद्राक्षसैर्निहता रणे |तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ||४||ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः |पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका ||५||गुडूची नामानि-गुडूची मधुपर्णी स्यादमृताऽमृतवल्लरी |छिन्ना छिन्नरुहा

ebooks-enighantu-bhavaprakasha-nighantu-guducyadivarga Read More »

ebooks-enighantu-bhavaprakasha-nighantu-haritakyadivarga

Devanagari Version ||श्रीभावमिश्रविरचित|| भावप्रकाशनिघण्टु [भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण] २. हरीतक्यादिवर्ग हरीतकी उत्पत्तिदक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः |कुतो हरीतकी जाता तस्यास्तु कति जातयः ||१||रसाः कति समाख्याताः कति चोपरसाः स्मृताः |नामानि कति चोक्तानि किं वा तासां च लक्षणम् ||२||के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते |केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति ||३||प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि |अश्विनीर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ||४||पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् |ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ||५|| हरीतकीपर्यायहरीतक्यभया पथ्या कायस्था पूतनाऽमृता |हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा |वयस्था विजया चापि जीवन्ती रोहिणीति च ||६|| हरीतकी सप्तभेदविजया रोहिणी चैव पूतना चामृताऽभया |जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ||७||“विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतनासिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिस्थानके |चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये |जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः”(१) ||७||अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता |पूतनास्थिमती सूक्ष्मा कथिता मांसलाऽमृता ||८||पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी |त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ||९|| हरीतकीप्रयोगविजया सर्वरोगेषु रोहिणी व्रणरोहिणी |प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ||१०||अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् |चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ||११||चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः |षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता ||१२||काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् |काचित्स्पर्शेन दृष्ट्याऽन्या चतुर्धा भेदयेच्छिवा ||१३||चेतकीपादपच्छायामुपसर्पन्ति ये नराः |भिद्यंते तत्क्षणादेव पशुपक्षिमृगादयः ||१४||चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः |तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ||१५||नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् |चेतकी परमा शस्ता हिता सुखविरेचनी ||१६||सप्तानामपि जातीनां प्रधाना विजया स्मृता |सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ||१७|| हरीतकीगुण, प्रभावहरीतकी पञ्चरसाऽलवणा तुवरा परम् |रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी |चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी ||१८||श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् |वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् ||१९||गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् |कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा |अश्मरीमूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् ||२०||स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा |कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा ||२१||पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा |प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते |हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ||२२||कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः |यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ||२३||पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः |वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः ||२४|| श्रेष्ठहरीतकीलक्षणनवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि |निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा ||२५||नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता |हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ||२६|| हरीतकीप्रयोगविधि, ऋत्वनुसार प्रयोगविधिचर्विता वर्धयत्यग्निं पेषिता मलशोधिनी |स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ||२७||उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् |विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन ||२८||अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् |हरीतकी हरत्याशु भुक्तस्योपरि योजिता ||२९||लवणेन कफं हन्ति पित्तं हन्ति सशर्करा |घृतेन वातजान् रोगान्सर्वरोगान्गुडान्विता ||३०||सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् |वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ||३१|| हरीतकीसेवनाऽनार्हअध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च |पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ||३२|| विभीतकबिभीतकस्त्रिलिङ्गः स्यान्नाक्षः कर्षफलस्तु सः |कलिद्रुमो भूतवासस्तथा कलियुगालयः ||३३||बिभीतकं स्वादुपाकं कषायं कफपित्तनुत् |उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम् ||३४||रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम् |बिभीतमज्जा तृट्छर्दिकफवातहरो लघुः |कषायो मदकृच्चाथ धात्रीमज्जाऽपि तद्गुणः ||३५|| आमलकीत्रिष्वामलकमाख्यातं धात्री तिष्यफलाऽमृता |हरीतकीसमं धात्रीफलं किन्तु विशेषतः |रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ||३६||हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः |कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित् ||३७||यस्य यस्य फलस्येह वीर्यं भवति यादृशम् |तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ||३८|| त्रिफलापथ्याबिभीतधात्रीणां फलैः स्यात्त्रिफला समैः |फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता ||३९||त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा |चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ||४०|| शुण्ठीशुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् |ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम् ||४१||शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः |स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ||४२||वृष्या स्वर्या वमिश्वासशूलकासहृदामयान् |हन्ति श्लीपदशोथार्श आनाहोदरमारुतान् ||४३||आग्नेयगुणभूयिष्ठं तोयांशपरिशोषि यत् |संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ||४४||विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् |शक्तिर्विबन्धभेदे स्याद्यतो न मलपातनो ||४५|| आर्द्रकआर्द्रकं शृङ्गवेरं स्यात्कटुभद्रं तथार्द्रिका |आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी मता |कटुका मधुरा पाके रूक्षा वातकफापहा |ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः ||४६||भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् |अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ||४७||कुष्ठपाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे |दाहे निदाघशरदोर्नैव पूजितमार्द्रकम् ||४८|| पिप्पलीपिप्पली मागधी कृष्णा वैदेही चपला कणा |उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला ||४९||पिप्पली दीपनी वृष्या स्वादुपाका रसायनी |अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः ||५०||पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् |कुष्ठप्रमेहगुल्मार्शः प्लीहशूलाममारुतान् ||५१||आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः |पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी ||५२||पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी |श्वासकासज्वरहरा वृष्या मेध्याऽग्निवर्धिनी ||५३||जीर्णज्वरोऽग्निमान्द्ये च शस्यते गुडपिप्पली |कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् |द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ||५४|| मरिचमरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम् |मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् |उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् ||५५||तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु |किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम् ||५६|| त्रिकटुविश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते |कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते ||५७||त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् |गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ||५८|| पिप्पलीमूलग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः |दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु |रूक्षं पित्तकरं भेदि कफवातोदरापहम् |आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम् ||५९|| चतुरूषणत्र्यूषणं सकणामूलं कथितं चतुरूषणम् |व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे ||६०|| चव्यभवेच्चव्यं तु चविका कथिता सा तथोषणा |कणामूलगुणं चव्यं विशेषाद् गुदजापहम् ||६१|| गजपिप्पलीचविकायाः फलं प्राज्ञैः कथिता गजपिप्पली |कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा ||६२||गजकृष्णा कटुर्वातश्लेष्महृद्वह्निवर्धिनी |उष्णा निहन्त्यतीसारं श्वासकण्ठामयक्रिमीन् ||६३|| चित्रकचित्रकोऽनलनामा च पाठी व्यालस्तथोषणः |चित्रकः कटुकः पाके वह्निकृत्पाचनो लघुः |रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् |वातश्लेष्महरो ग्राही वातर्शःश्लेष्मपित्तहृत् ||६४|| पञ्चकोलपिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः |पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ||६५||पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम् |तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् |गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ||६६|| षडूषणपञ्चकोलं समरिचं षडूषणमुदाहृतम् |पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ||६७|| यवानीयवानिकोग्रगन्धा च ब्रह्मदर्भाऽजमोदिका |सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया ||६८||यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः |दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् |वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ||६९|| अजमोदाअजमोदा खराश्वा च मयूरो दीप्यकस्तथा |तथा ब्रह्मकुशा प्रोक्ता कारवी च समस्तका ||७०||अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् |उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः |नेत्रामयकफमिच्छर्दिहिक्काबस्तिरुजो हरेत् ||७१|| पारसीकयवानीपारसीकयवानी तु यवानीसदृशी गुणः |विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः ||७२|| शुक्लजीरक, कृष्णजीरकजीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः |कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ||७३||कालाजाजी तु सुषवी कालिका चोपकालिका |पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका |उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ||७४||जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु |संग्राही पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ||७५||ज्वरघ्नं पाचनं वृष्यं बल्यं रुच्यं कफापहम् |चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् ||७६|| धान्यकधान्यकं धानकं धान्यं धाना धानेयकं तथा |कुनटी धेनुका छत्रा कुस्तुम्बुरु वितुन्नकम् ||७७||धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु |तिक्तं कटूष्णवीर्यञ्च दीपनं पाचनं स्मृतम् ||७८||ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् |तृष्णादाहवमिश्वासकासकार्श्यक्रिमिप्रणुत् |आर्द्रन्तु तद्गुणं स्वादु विशेषात्पित्तनाशि तत् ||७९|| शतपुष्पा, मिश्रेयाशतपुष्पा शताह्वा च मधुरा कारवी मिसिः |अतिलम्बी सितच्छत्रा संहिता छत्रिकापि च ||८०||शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः |उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् ||८१||छत्रा शालेयशालीनौ मिश्रेया मधुरा मिसिः |मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत् |अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशूलहृत् |रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्हरेत् ||८२|| मेथी, वनमेथीमेथिका मेथिनी मेथी दीपनी बहुपत्रिका |बोधिनी बहुबीजा च जातिर्गन्धफला तथा ||८३||वल्लरी चन्द्रिका मन्था मिश्रपुष्पा च कैरवी |कुञ्चिका बहुपर्णी च पित्तजिद्वायुनुद्द्विधा ||८४||मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी |ततः स्वल्पगुणा बल्या वाजिनां सा तु पूजिता ||८५|| चन्द्रशूरचन्द्रिका चर्महन्त्री च पशुमेहनकारिका |नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ||८६||चन्द्रशूरं हितं हिक्कावातश्लेष्मातिसारिणाम् |असृग्वातगदद्वेषि बलपुष्टिविवर्धनम् ||८७|| चतुर्बीजमेथिका चन्द्रशूरश्च कालाऽजाजी यवानिका |एतच्चतुष्टयं युक्तं चतुर्बीजमिति स्मृतम् ||८८||तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम् |अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम् ||८९|| हिङ्गुसहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम् |हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासहृत् |शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्द्धनम् ||९०|| वचावचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका |क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ||९१||वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् |विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी |अपस्मारकफोन्मादभूतजन्त्वनिलान्हरेत् ||९२|| पारसीकवचापारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा |हैमवत्युदिता तद्वद्वातं हन्ति विशेषतः ||९३|| कुलञ्जनसुगन्धाऽप्युग्रगन्धा च विशेषात्कफकासनुत् |सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी ||९४|| महाभारी वचाअपरा सुगन्धा स्थूलग्रन्थिः यस्या लोके महाभरी इति नाम |स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता ||९५|| द्वीपान्तरवचाद्वीपान्तरवचा किञ्चित्तिक्तोष्णा वह्निदीप्तिकृत् |विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ||९६||वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् |व्यपोहति विशेषेण फिरङ्गामयनाशिनी ||९७|| हपुषाद्वयहवुषा वपुषा विस्रा पराश्वत्थफला मता |मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वांक्षनाशिनी ||९८||हवुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः |पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् |पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि ||९९||

ebooks-enighantu-bhavaprakasha-nighantu-haritakyadivarga Read More »