Carakasamhita

ebooks-esamhita-ecaraka-cikitsasthana-rasayana-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – १/१. अभयामलकीयरसायनपादः अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते| रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते, तथाऽनन्तरमेव वक्ष्यति| तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर्महाफलत्वेनादावभिधानम्| तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलमिति तदभिधीयते, तत्रापि चाभयामलकीयश्चिकित्सास्थानार्थसूत्राभिधायकतयाऽग्रेऽभिधीयते||१-२|| चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्||३||विद्याद्भेषजनामानि, …|४| तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य […]

ebooks-esamhita-ecaraka-cikitsasthana-rasayana-adhyaya Read More »

ebooks-esamhita-ecaraka-shareerasthana-shareerasankhya-shareera

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता शारीरस्थानम् – ७. शरीरसङ्ख्याशारीरम् अथातः शरीरसङ्ख्याशारीरं [१] व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२||शरीरसङ्ख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेशः पप्रच्छ||३|| पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसङ्ख्याभेदेन प्रतिपादयितुं शरीरसङ्ख्याध्यायोऽभिधीयते| अवयवसङ्ख्याभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् [२] साधनं चिकित्सोपयुक्तं कथयिष्यत्यध्यायान्ते ‘शरीरसङ्ख्यां यो वेद’ इत्यादिना| अवयवशः शरीरं प्रविभज्य शरीरसङ्ख्यां पप्रच्छेति योजना| पृच्छाप्रयोजनमाह-

ebooks-esamhita-ecaraka-shareerasthana-shareerasankhya-shareera Read More »

ebooks-esamhita-ecaraka-sutrasthana-vatakalakaleeya-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १२. वातकलाकलीयोऽध्यायः   अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वाध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैरभिहिताः, उपयुक्तज्ञानास्तत्कारणवातादयो बहुवाच्यत्वान्नोक्ताः, अतः सम्प्रति पृथक्प्रकरणे तेऽभिधीयन्ते वातकलाकलीये; तत्रापि प्राधान्याद्वायुरेव प्रथममुच्यते| कला गुणः, यदुक्तं- “षोडशकलम्” (सू.अ.१०) इति; अकला गुणविरुद्धो दोषः; तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः; यदि वा कला सूक्ष्मो भागः, तस्यापि

ebooks-esamhita-ecaraka-sutrasthana-vatakalakaleeya-adhyaya Read More »

ebooks-esamhita-ecaraka-sutrasthana-kiyantahshiraseeya-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १७. कियन्तःशिरसीयोऽध्यायः अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वचतुष्कचतुष्टयेन भेषजमभिहितं, सम्प्रति तद्विषयरोगाभिधानार्थं रोगचतुष्कोऽभिधातव्यः, चिकित्सा च विधेयत्वेनैव प्रधानमतः प्रथममुक्ता, किञ्च दर्शितश्चायं प्रथमाध्याय एव सम्बन्धः, एवं चाङ्गेषु मर्मसु च प्रधानभूतशिरोहृदयरोगाभिधायकत्वेन कियन्तः शिरसीयोऽभिधीयते||१-२|| कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम्|कति चाप्यनिलादीनां रोगा मानविकल्पजाः||३||क्षयाः कति

ebooks-esamhita-ecaraka-sutrasthana-kiyantahshiraseeya-adhyaya Read More »