cikitsasthana

ebooks-esamhita-ecaraka-cikitsasthana-madatyaya-cikitsa

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – २४. मदात्ययचिकित्सितम् अथातो मदात्ययचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| मोहजनकत्वसामान्यात् तथा विषसमानगुणजन्यत्वाच्च विषचिकित्सितमनु मदात्ययस्य चिकित्सितमुच्यते||१-२|| सुरैः सुरेशसहितैर्या पुरा [१] परिपूजिता|सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता||३||यज्ञौही या यया शक्रः सोमातिपतितो भृशम्|निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः||४||विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः|दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये||५|| सुरैरित्यादिना मदिरास्तुत्या तथा वक्ष्यमाणनिन्दया विधिना पीयमानसुरायाः […]

ebooks-esamhita-ecaraka-cikitsasthana-madatyaya-cikitsa Read More »

ebooks-esamhita-ecaraka-cikitsasthana-rasayana-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – १/१. अभयामलकीयरसायनपादः अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते| रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते, तथाऽनन्तरमेव वक्ष्यति| तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर्महाफलत्वेनादावभिधानम्| तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलमिति तदभिधीयते, तत्रापि चाभयामलकीयश्चिकित्सास्थानार्थसूत्राभिधायकतयाऽग्रेऽभिधीयते||१-२|| चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्||३||विद्याद्भेषजनामानि, …|४| तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य

ebooks-esamhita-ecaraka-cikitsasthana-rasayana-adhyaya Read More »

ebooks-esamhita-esushruta-cikitsasthana-netrabastivyapat-cikitsa

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता चिकित्सास्थानम् – ३६. नेत्रबस्तिव्यापच्चिकित्सितम् अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| नेत्रानन्तरमादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन प्रणिधानद्रव्यशय्याव्यापदोऽपि गृह्यन्ते||१-२|| अथ नेत्रे विचलिते तथा चैव विवर्तिते |गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ||३||अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा |विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ||४||तिर्यक्प्रणिहिते नेत्रे तथा

ebooks-esamhita-esushruta-cikitsasthana-netrabastivyapat-cikitsa Read More »

ebooks-esamhita-ecaraka-cikitsasthana-grahanidosha-cikitsa

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – १५. ग्रहणीदोषचिकित्सितम्   अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| अर्शःकार्यत्वाद्ग्रहणीदोषस्य अर्शश्चिकित्सितमनु ग्रहणीचिकित्सितं ब्रूते| ग्रहणीमाश्रितोऽग्निदोषो ग्रहणीदोषः, एवं चाश्रयाश्रयिणोरभेदोपचाराद् ग्रहणीदोषशब्देन ग्रहण्याश्रितोऽग्निदोषोऽपि गृह्यते||१-२|| आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३||शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४|| तत्र ग्रहणीदोषनिर्दिष्टाग्निदोषे वक्तव्ये प्रकृतिज्ञानानन्तरत्वाद्विकृतिज्ञानस्य प्रथमं तावदविकृतस्याग्ने रूपमाह- आयुरित्यादि| आयुः

ebooks-esamhita-ecaraka-cikitsasthana-grahanidosha-cikitsa Read More »

ebooks-esamhita-ecaraka-cikitsasthana-jvara-cikitsa/

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – ३. ज्वरचिकित्सितम् अथातो ज्वरचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| स्वस्थोर्जस्करमभिधाय व्याधिनिर्घातकरचिकित्सितं वक्तव्यम्| सर्वरोगप्रधानत्वेन ज्वरस्यैवादौ चिकित्सितं तत्रोच्यते| ज्वरस्य च यथा प्राधान्यं तथाऽत्रैव वक्ष्यति| ज्वरचिकित्सिताभिधायकोऽध्यायो ज्वरचिकित्सितमुच्यते, अभिधानाभिधेययोरभेदोपचारात्| एवमुत्तराध्यायेष्वपि व्याख्येयम्||१-२|| विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३|| विज्वरमिति विज्वरशब्दो नीरोगोपदर्शकः [१] ; यतो ज्वरशब्देन चात्र सामान्येन

ebooks-esamhita-ecaraka-cikitsasthana-jvara-cikitsa/ Read More »