ebooks-esamhita-ecaraka-cikitsasthana-grahanidosha-cikitsa

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – १५. ग्रहणीदोषचिकित्सितम्   अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| अर्शःकार्यत्वाद्ग्रहणीदोषस्य अर्शश्चिकित्सितमनु ग्रहणीचिकित्सितं ब्रूते| ग्रहणीमाश्रितोऽग्निदोषो ग्रहणीदोषः, एवं चाश्रयाश्रयिणोरभेदोपचाराद् ग्रहणीदोषशब्देन ग्रहण्याश्रितोऽग्निदोषोऽपि गृह्यते||१-२|| आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३||शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४|| तत्र ग्रहणीदोषनिर्दिष्टाग्निदोषे वक्तव्ये प्रकृतिज्ञानानन्तरत्वाद्विकृतिज्ञानस्य प्रथमं तावदविकृतस्याग्ने रूपमाह- आयुरित्यादि| आयुः […]

ebooks-esamhita-ecaraka-cikitsasthana-grahanidosha-cikitsa Read More »