ebooks-esamhita-ecaraka-nidanasthana-jvara-nidana

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता निदानस्थानम् – १. ज्वरनिदानम् अथातो ज्वरनिदानं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| सङ्क्षेपेण हेतुलिङ्गाभिधायकं सूत्रस्थानमनु प्रपञ्चेन हेतुलिङ्गाभिधायकं निदानस्थानमुच्यते; हेतुलिङ्गज्ञानपूर्विका हि चिकित्सा साध्वी भवति| यच्च चिकित्सासूत्रमात्रमभिधातव्यं, तदुपशयान्तर्गतमेवेति कृत्वा; किंवा, हेतुलिङ्गाभिधानस्यापि चिकित्सार्थत्वाच्चिकित्सासूत्रमात्राभिधानमिह [१] | तत्रापि च शारीरविकारेषु प्रधानत्वाज्ज्वरस्यैव निदानमादावुच्यते| यथा च ज्वरः प्रधानं तथाऽत्रैव ‘ज्वरस्तु खलु’ इत्यादिना […]

ebooks-esamhita-ecaraka-nidanasthana-jvara-nidana Read More »