ebooks-esamhita-ecaraka-cikitsasthana-jvara-cikitsa/
Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता चिकित्सास्थानम् – ३. ज्वरचिकित्सितम् अथातो ज्वरचिकित्सितं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| स्वस्थोर्जस्करमभिधाय व्याधिनिर्घातकरचिकित्सितं वक्तव्यम्| सर्वरोगप्रधानत्वेन ज्वरस्यैवादौ चिकित्सितं तत्रोच्यते| ज्वरस्य च यथा प्राधान्यं तथाऽत्रैव वक्ष्यति| ज्वरचिकित्सिताभिधायकोऽध्यायो ज्वरचिकित्सितमुच्यते, अभिधानाभिधेययोरभेदोपचारात्| एवमुत्तराध्यायेष्वपि व्याख्येयम्||१-२|| विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३|| विज्वरमिति विज्वरशब्दो नीरोगोपदर्शकः [१] ; यतो ज्वरशब्देन चात्र सामान्येन […]
ebooks-esamhita-ecaraka-cikitsasthana-jvara-cikitsa/ Read More »