ebooks-esamhita-ecaraka-siddhisthana-kalpana-siddhi
Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सिद्धिस्थानम् – १. कल्पनासिद्धिः अथातः कल्पनासिद्धिं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| कल्पस्थानानन्तरं पारिशेष्यादेव सिद्धिस्थानमभिधीयते| सिद्धेरभिधायकं स्थानं सिद्धिस्थानम्| सिद्धिशब्देन चेह वमनादीनां वमनाद्यसम्यग्योगजन्यानां व्यापदां भेषजस्य साध्यतारूपा सिद्धिरुच्यते, एवम्भूतसिद्धिकारणाभिधायकतया चैतत् सिद्धिस्थानमुच्यते; किंवा कार्यकारणयोरभेदोपचारात् सिद्धिशब्देनेह सिद्धिकारणान्येव वमनादीन्युच्यन्ते, उक्तं हि “सम्यक्प्रयोगं चैव कर्मणां व्यापन्नानां च व्यापत्साधनानि सिद्धिषूपदेक्ष्यामः” (सू.अ.४) इति| […]
ebooks-esamhita-ecaraka-siddhisthana-kalpana-siddhi Read More »