Nidanasthana

ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता निदानस्थानम् – १. वातव्याधिनिदानम् अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| हेतुलिङ्गौषधज्ञानबीजभूतेन सूत्रस्थानेन सङ्क्षेपोद्दिष्टस्य हेतुलिङ्गौषधस्य विवरणे सर्वाण्येव स्थानानि प्रस्तुतानि, तेषु च प्रस्तुतेषु स्वाधिकारिणां शल्यतन्त्रव्याधीनां हेतुलक्षणप्रतिपादकतया निदानस्थानस्यारम्भः, तत्रापि दोषाणां वातस्य प्रधानत्वात्तद्व्याधीनां हेतुलक्षणाभ्यां प्राक् प्रतिपादनं युज्यत इत्याह- अथात इत्यादि| वातव्याधेराक्षेपकादेर्निदानं हेतुलक्षणनिर्देशः| अथातो वातव्याधिनिदानमित्यादि यद्यपि […]

ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana Read More »

ebooks-esamhita-ecaraka-nidanasthana-jvara-nidana

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता निदानस्थानम् – १. ज्वरनिदानम् अथातो ज्वरनिदानं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| सङ्क्षेपेण हेतुलिङ्गाभिधायकं सूत्रस्थानमनु प्रपञ्चेन हेतुलिङ्गाभिधायकं निदानस्थानमुच्यते; हेतुलिङ्गज्ञानपूर्विका हि चिकित्सा साध्वी भवति| यच्च चिकित्सासूत्रमात्रमभिधातव्यं, तदुपशयान्तर्गतमेवेति कृत्वा; किंवा, हेतुलिङ्गाभिधानस्यापि चिकित्सार्थत्वाच्चिकित्सासूत्रमात्राभिधानमिह [१] | तत्रापि च शारीरविकारेषु प्रधानत्वाज्ज्वरस्यैव निदानमादावुच्यते| यथा च ज्वरः प्रधानं तथाऽत्रैव ‘ज्वरस्तु खलु’ इत्यादिना

ebooks-esamhita-ecaraka-nidanasthana-jvara-nidana Read More »