Shareerasthana

ebooks-esamhita-evagbhata-ehrudayam-shareerasthana-garbhavakranti-shareera

Devanagari Version श्रीमद्वाग्भटविरचितम् अष्टाङ्गहृदयम् श्रीमदरुणदत्तविरचितया ‘सर्वाङ्गसुन्दराख्या’ व्याख्यया हेमाद्रिप्रणीतया ‘आयुर्वेदरसायनाह्वया’ टीकया च समुल्लसितम् शारीरस्थानम् – १. गर्भावक्रान्तिरध्यायः श्रीगणेशाय नमः| अथ सूत्रस्थानादनन्तरं शारीरस्थानमिदमारभ्यते| तत्रायं सम्बन्धः,-पूर्वस्मिन्स्थाने कायादीन्यष्टावङ्गानि चिकित्साधारभूतानि सकलतन्त्रसारभूतानि सूत्रितानि “कायबाल” (हृ. सू. अ. १/५) इत्यादिना ग्रन्थेन| कायश्च निजागन्तूनां व्याधीनामधिष्ठानम्| तस्य च कायस्य चतुर्वर्गसाधनस्य पालनार्थं हेतुलिङ्गौषधस्कन्धभेदेन त्रिस्कन्धोऽयं ग्रन्थो ग्रन्थकृता प्रणीतः| ततश्च शरीरस्य प्रथमं सूत्रितत्वात्प्राधान्याच्च प्राक् सूत्रस्थानमनन्तरं शारीरस्थानमिदमारभ्यत इत्याह- […]

ebooks-esamhita-evagbhata-ehrudayam-shareerasthana-garbhavakranti-shareera Read More »

ebooks-esamhita-ecaraka-shareerasthana-shareerasankhya-shareera

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता शारीरस्थानम् – ७. शरीरसङ्ख्याशारीरम् अथातः शरीरसङ्ख्याशारीरं [१] व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२||शरीरसङ्ख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेशः पप्रच्छ||३|| पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसङ्ख्याभेदेन प्रतिपादयितुं शरीरसङ्ख्याध्यायोऽभिधीयते| अवयवसङ्ख्याभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् [२] साधनं चिकित्सोपयुक्तं कथयिष्यत्यध्यायान्ते ‘शरीरसङ्ख्यां यो वेद’ इत्यादिना| अवयवशः शरीरं प्रविभज्य शरीरसङ्ख्यां पप्रच्छेति योजना| पृच्छाप्रयोजनमाह-

ebooks-esamhita-ecaraka-shareerasthana-shareerasankhya-shareera Read More »