ebooks-esamhita-esushruta-sutrasthana-shonitavarnaneeya-adhyaya
Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता सूत्रस्थानम् – १४. शोणितवर्णनीयाध्यायः अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| अथात इत्यादि||१-२|| तत्र [१] पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य [२] द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगादश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति [३] यापयति चादृष्टहेतुकेन […]
ebooks-esamhita-esushruta-sutrasthana-shonitavarnaneeya-adhyaya Read More »