sneha

ebooks-esamhita-ecaraka-sutrasthana-upakalpaneeya-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १५. उपकल्पनीयोऽध्यायः   अथात उपकल्पनीयमध्यायं व्याख्यास्यामः।।१।। इति ह स्माह भगवानात्रेयः।।२।। ।     स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोक्तात् सम्बन्धात् स्वेदाध्यायानन्तरं शोधनविधेरभिधायकमुपकल्पनीयमाह। उपकल्पनीयमिति शोधनोपकल्पनामधिकृत्य कृतोऽध्याय उपकल्पनीयः।।१-२।।॥   इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पाययितुकामेन भिषजा प्रागेवौषधपानात् सम्भारा उपकल्पनीया भवन्ति सम्यक्चैव हि गच्छत्यौषधे […]

ebooks-esamhita-ecaraka-sutrasthana-upakalpaneeya-adhyaya Read More »

ebooks-esamhita-ecaraka-sutrasthana-sveda-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १४. स्वेदाध्यायः अथातः स्वेदाध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| स्नेहपूर्वकत्वात् स्वेदस्य स्वेदाध्यायोऽभिधीयते| स्वेदप्रतिपादकोऽध्यायः स्वेदाध्यायः||१-२|| अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः|स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः||३||स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले|पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन||४||शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः|नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्||५|| वातकफात्मका असंसृष्टवातकफजाः, वातकफजत्वेऽप्युदरादयः स्वेदेन न शाम्यन्ति, अत आह- स्वेदसाध्याः; एतेनोदरादयोऽस्वेद्या व्यावर्त्यन्ते| स्नेहपूर्वमिति क्रियाविशेषणम्| न सज्जन्ति अप्रवृत्तानि न भवन्ति  यथान्यायं यथागमम्, एतच्च स्नेहस्वेदोपपादनैरित्यनेन सम्बध्यते; यदि वा यथान्यायं यथासहजं नमयन्तीति सम्बन्धः||३-५|| रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च|द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः||६|| रोगमृतुं व्याधितं च बलवत्त्वादिनाऽपेक्षत इति रोगर्तुव्याधितापेक्षः| नात्युष्णो नातिचण्डतापः| द्रव्यवानिति स्निग्धरूक्षादिद्रव्यवान्| कल्पित इति रोगादीनपेक्ष्य यथोचितेन द्रव्येण देशे चामाशयादौ यथायोग्यतया सम्पादित इति मन्तव्यम्||६||

ebooks-esamhita-ecaraka-sutrasthana-sveda-adhyaya Read More »

ebooks-esamhita-ecaraka-sutrasthana-sneha-adhyaya

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १३. स्नेहाध्यायः अथातः स्नेहाध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| निर्देशवातकलाकलीये वातादयोऽभिहिताः, तेषां भेषजं यथा कल्पनीयं तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते| भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्रव्याभिधानं विना न पार्यते कल्पयितुम् [१] ; अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पनेहाभिधीयते, बस्तिकल्पना त्विह बहुवक्तव्यत्वान्नोक्ता| अत्रापि वमनादिप्रवृत्तौ स्नेहस्यैव प्रथमं विधीयमानतया तथा

ebooks-esamhita-ecaraka-sutrasthana-sneha-adhyaya Read More »