ebooks-esamhita-ecaraka-sutrasthana-trishotheeya-adhyaya/

Devanagari Version महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १८. त्रिशोथीयोऽध्यायः अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| पूर्वाध्याये पिडका उक्ताः, ताश्च शोथरूपाः, अतः शोथाधिकारात् त्रिशोथीयोऽभिधीयते||१-२|| त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन||३|| वक्ष्यमाणद्विविधादिभेदे विद्यमानेऽपि वातादिकृतत्रित्वाभिधानमग्रे वातादिकृतस्यैव प्राधान्यख्यापनार्थम्||३|| तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते||४|| भेदनम् आशयविदारणं, क्षणनम् अस्थिचूर्णनं, भञ्जनं जर्जरीकरणं, […]

ebooks-esamhita-ecaraka-sutrasthana-trishotheeya-adhyaya/ Read More »