ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता निदानस्थानम् – १. वातव्याधिनिदानम् अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| हेतुलिङ्गौषधज्ञानबीजभूतेन सूत्रस्थानेन सङ्क्षेपोद्दिष्टस्य हेतुलिङ्गौषधस्य विवरणे सर्वाण्येव स्थानानि प्रस्तुतानि, तेषु च प्रस्तुतेषु स्वाधिकारिणां शल्यतन्त्रव्याधीनां हेतुलक्षणप्रतिपादकतया निदानस्थानस्यारम्भः, तत्रापि दोषाणां वातस्य प्रधानत्वात्तद्व्याधीनां हेतुलक्षणाभ्यां प्राक् प्रतिपादनं युज्यत इत्याह- अथात इत्यादि| वातव्याधेराक्षेपकादेर्निदानं हेतुलक्षणनिर्देशः| अथातो वातव्याधिनिदानमित्यादि यद्यपि […]

ebooks-esamhita-esushruta-nidanasthana-vatavyadhi-nidana Read More »