ebooks-esamhita-ecaraka-sutrasthana-sneha-adhyaya
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता सूत्रस्थानम् – १३. स्नेहाध्यायः अथातः स्नेहाध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| निर्देशवातकलाकलीये वातादयोऽभिहिताः, तेषां भेषजं यथा कल्पनीयं तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते| भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्रव्याभिधानं विना न पार्यते कल्पयितुम् [१] ; अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पनेहाभिधीयते, बस्तिकल्पना त्विह बहुवक्तव्यत्वान्नोक्ता| अत्रापि वमनादिप्रवृत्तौ स्नेहस्यैव प्रथमं विधीयमानतया तथा दोषप्रधानस्य वातस्य […]
ebooks-esamhita-ecaraka-sutrasthana-sneha-adhyaya Read More »