Hareetaki (हरीतकी) – Terminalia chebula : Dravyaguna: Ayurveda References Leave a Comment / Ayurveda Herbs - Dravyaguna Table of Contents Toggle HAREETAKI CLASSICAL SANSKRIT SHLOKAI भावप्रकाश निघण्टुII अभिधानमञ्जरीIII अमरकोशIV कैयदेवनिघण्टुV द्रव्यगुणसङ्ग्रहVI धन्वन्तरिनिघण्टुVII निघण्टुशेषVIII पर्यायरत्नमालाIX मदनपालनिघण्टुX मदनादिनिघण्टुXI माधवद्रव्यगुणXII राजनिघण्टुXIII राजवल्लभनिघण्टुXIV शब्दचन्द्रिकाXV सरस्वतीनिघण्टुXVI सोढलनिघण्टुXVII चरकसंहिताharītakī TRANSLITERATED VERSESI bhāvaprakāśa nighaṇṭuII abhidhānamañjarīIII amarakośaIV kaiyadevanighaṇṭuV dravyaguṇasaṅgrahaVI dhanvantarinighaṇṭuVII nighaṇṭuśeṣaVIII paryāyaratnamālāIX madanapālanighaṇṭuX madanādinighaṇṭuXI mādhavadravyaguṇaXII rājanighaṇṭuXIII rājavallabhanighaṇṭuXIV śabdacandrikāXV sarasvatīnighaṇṭuXVI soḍhalanighaṇṭuXVII carakasaṃhitā HAREETAKI CLASSICAL SANSKRIT SHLOKAI भावप्रकाश निघण्टु कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत् |तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी || (भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – १. मिश्रवर्ग /२२३) रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम् |यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु || (भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – १. मिश्रवर्ग /२३७) हरीतकी उत्पत्तिदक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः |कुतो हरीतकी जाता तस्यास्तु कति जातयः ||१||रसाः कति समाख्याताः कति चोपरसाः स्मृताः |नामानि कति चोक्तानि किं वा तासां च लक्षणम् ||२||के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते |केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति ||३||प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि |अश्विनीर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ||४||पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् |ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ||५|| हरीतकीपर्यायहरीतक्यभया पथ्या कायस्था पूतनाऽमृता |हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा |वयस्था विजया चापि जीवन्ती रोहिणीति च ||६|| हरीतकी सप्तभेदविजया रोहिणी चैव पूतना चामृताऽभया |जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ||७||“विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतनासिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिस्थानके |चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये |जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः”(१) ||७||अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता |पूतनास्थिमती सूक्ष्मा कथिता मांसलाऽमृता ||८||पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी |त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ||९|| हरीतकीप्रयोगविजया सर्वरोगेषु रोहिणी व्रणरोहिणी |प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ||१०||अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् |चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ||११||चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः |षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता ||१२||काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् |काचित्स्पर्शेन दृष्ट्याऽन्या चतुर्धा भेदयेच्छिवा ||१३||चेतकीपादपच्छायामुपसर्पन्ति ये नराः |भिद्यंते तत्क्षणादेव पशुपक्षिमृगादयः ||१४||चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः |तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ||१५||नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् |चेतकी परमा शस्ता हिता सुखविरेचनी ||१६||सप्तानामपि जातीनां प्रधाना विजया स्मृता |सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ||१७|| हरीतकीगुण, प्रभावहरीतकी पञ्चरसाऽलवणा तुवरा परम् |रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी |चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी ||१८||श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् |वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् ||१९||गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् |कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा |अश्मरीमूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् ||२०||स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा |कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा ||२१||पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा |प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते |हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ||२२||कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः |यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ||२३||पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः |वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः ||२४|| श्रेष्ठहरीतकीलक्षणनवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि |निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा ||२५||नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता |हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ||२६|| हरीतकीप्रयोगविधि, ऋत्वनुसार प्रयोगविधिचर्विता वर्धयत्यग्निं पेषिता मलशोधिनी |स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ||२७||उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् |विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन ||२८||अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् |हरीतकी हरत्याशु भुक्तस्योपरि योजिता ||२९||लवणेन कफं हन्ति पित्तं हन्ति सशर्करा |घृतेन वातजान् रोगान्सर्वरोगान्गुडान्विता ||३०||सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् |वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ||३१|| हरीतकीसेवनाऽनार्हअध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च |पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ||३२||(भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – २. हरीतक्यादिवर्ग /१-३२) II अभिधानमञ्जरीविजया हरीतकी स्यादभया पथ्याऽव्यथा प्रपथ्या च |अमृता जया कयस्था हैमवती चेतकी शिवा साध्वी |प्राणदा मानवी पथ्या (मानवी? जीवन्ती) पञ्चभद्रिका |पिशाची पूतना चेति पर्यायैर्भद्रसप्तिका ||ज्ञेयो हरीतकीगन्धवासितश्चोत्कटो मुदित ऊह्यः |सुरवृक्षः सूर्याह्निः सुपर्णपुष्पः शीतपुष्प इति ||(अभिधानमञ्जरी / मदनादिगणवर्ग – १७. वरणादिवर्ग/ २४३-२४४) III अमरकोशअभया त्वव्यथा पथ्या कायस्था पूतनामृता |हरीतकी हैमवती चेतकी श्रेयसी शिवा ||(अमरकोश/ द्वितीयकाण्ड – १. वनौषधिवर्ग /५९) IV कैयदेवनिघण्टुहरीतक्यभया पथ्या प्रपथ्या हैमवत्यपि ||२२१||कायस्था श्रेयसी ज्ञेया प्राणदा विजया शिवा |जया विलवणा पञ्चरसानु तुवरोत्करा ||२२२||स्वादुपाकरसायुष्या रूक्षोष्णा बृंहणी लघुः |दीपनी पाचनी मेध्या वयसःस्थापनी परम् ||२२३||रसायनी च चक्षुष्या बलबुद्धिस्मृतिप्रदा |कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् ||२२४||शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् |सशोषशोफातीसारमेहमोहवमिकृमीन् ||२२५||श्वासकासप्रसेकार्शःप्लीहानाहगदोदरान् |विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् ||२२६||हिध्माध्मानव्रणान् शूलं त्रीन् दोषांश्च व्यपोहति |स्वाद्वम्लभावात्पवनं कटुतिक्ततया कफम् ||२२७||कषायमधुसत्त्वाच्च पित्तं हन्ति हरीतकी |मज्जवक्स्नायुमांसास्थिस्थिताः पञ्चाभयोद्भवाः ||२२८||स्वादुकट्वम्लतिक्ताख्यकषायाः क्रमशो रसाः |पथ्यामज्जा च चक्षुष्यो वातपित्तहरो गुरुः ||२२९||नीरजा वनजा चैव पर्वतीया इति त्रिधा |यथोतरं पथ्यतमा विज्ञेया त्रिविधाभया ||२३०||कालयोगात्स्वयं पक्वा पतिता च महीतले |नवा स्निधायता वृत्ता गुर्वी क्षिप्ता तथाम्भसि ||२३१||निमज्जेद्या तथैकस्मिन् फले स्याच्च द्विकर्षता |सर्वदा गुणकृत्सा तु ततोऽन्या तु विवर्जिता ||२३२||नवादिगुणयुक्तत्वं तथैकत्वं द्विकर्षता |हरीतक्याः फले यत्र तत्सर्वं गुणकृद् भवेत् ||१३३||जन्तुजग्धा दवादग्धां जले पङ्के स्थितां पुनः |ऊषरे च स्थितां भिन्नां वर्जयेत्तु हरीतकीम् ||२३४||(कैयदेवनिघण्टु – १. ओषधिवर्ग ) V द्रव्यगुणसङ्ग्रहपथ्या पञ्चरसाऽऽयुष्या चक्षुष्याऽलवणा सरा ||३७||मेध्योष्णा दीपनी दोषशोथकुष्ठज्वरापहा |३८|(द्रव्यगुणसङ्ग्रह – ५. फलवर्ग ) VI धन्वन्तरिनिघण्टुहरीतक्याभया पथ्या प्रपथ्या पूतनाऽमृता |जयाऽव्यथा हैमवती वयःस्था चेतकी शिवा ||२३३||प्राणदा नन्दिनी चैव रोहिणी विजया च सा |कषायाऽम्ला च कटुका तिक्ता मधुरसान्विता |इति पञ्चरसा पथ्या लवणेन विवर्जिता ||२३४||अम्लभावाज्जयेद्वातं पित्तं मधुरतिक्तकात् |कफं रूक्षकषायत्वात्त्रिदोषघ्नी ततोऽभया ||२३५||प्रपथ्या लेखनी लघ्वी मेध्या चक्षुर्हिता सदा |मेहकुष्ठव्रणच्छर्दिशोफवातास्रकृच्छ्रजित् ||२३६||वातानुलोमनी हृद्या सेन्द्रियाणां प्रसादनी |सन्तर्पणकृतान्रोगान्प्रायो हन्ति हरीतकी ||२३७||तृष्णायां मुखशोषे च हनुस्तम्भे गलग्रहे |नवज्वरे तथा क्षीणे गर्भिण्यां न प्रशस्यते ||२३८||हरस्य भवने जाता हरीता च स्वभावतः |सर्वरोगांश्च च हरते तेन ख्याता हरीतकी ||२३९||(धन्वन्तरिनिघण्टु – १. गुडूच्यादिवर्ग ) VII निघण्टुशेषहरीतक्यां जया पथ्या हैमवत्यभयाऽमृता ||८०|| कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा |८१|(निघण्टुशेष – १. वृक्षकाण्ड) VIII पर्यायरत्नमालाशिवा हरीतकी पथ्या चेतकी पूतनाभया ||२१८||(पर्यायरत्नमाला) IX मदनपालनिघण्टुहरस्य भवने जाता हरिता च स्वभावतः |हारयेत्सर्वरोगाञ्च तेन प्रोक्ता हरीतकी ||८||जीवन्ती पूतना पश्चादमृता विजयाऽभया |रोहिणी चेतकी सप्त भेदभिन्ना हरीतकी ||९||जीवन्ती जीवनोद्योगात्पावनात्पूतना मता |सुधावदमृता ज्ञेया विजया विजयप्रदा ||१०||नृणामभयदा यस्मादभया तत् प्रकीर्तिता |रोहिणी तु गुणारोहाच्चेतनाच्चेतकी मता ||११||जीवन्ती स्वर्णवर्णाभा पूतनाऽस्थिमती मता |अमृता त्रिदला प्रोक्ता विजया तुम्बरूपिणी ||१२||पञ्चाङ्गी त्वभया ज्ञेयाऽमृता वृत्ता तु रोहिणी |त्र्यङ्गी तु चेतकी ज्ञेया कर्म तासामथोच्यते ||१३||सर्वरोगेषु जीवन्ती प्रलेपे पूतना हिता |शुद्ध्यर्थममृता प्रोक्ता विजया सर्वरोगहृत् ||१४||अक्षिरोगेऽभया शस्ता रोहिणी व्रणरोहिणी |चेतकी चूर्णयोगे स्यात्सप्तधैव प्रकीर्तिता ||१५||नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि |निमज्जेत्सा प्रशस्ता स्याद्रोगध्न्यतिगुणप्रदा ||१६||शोणा च्छिन्ना गुडनिभा किञ्चिदल्पा कषायिणी |स्थूलत्वक् सरसा स्वल्पबीजा गुर्वी हरीतकी ||१७||चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी |स्विन्ना सङ्ग्राहिणी प्रोक्ता भृष्टा पथ्यान्नदोषनुत् ||१८||ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावृते ह्यम्बरे तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषारागमे |पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां राजन् प्राप्य हरीतकीमिव रुजो नश्यन्तु ते शत्रवः ||१९||हरीतकीनामगुण-शिवा हरीतकी पथ्या चेतकी विजया जया |प्रपथ्या प्रथमाऽमोघा कायस्था प्राणदाऽमृता ||२०||जीवनीया हेमवती पूतना वृतनाऽभया |वयस्था नन्दिनी ज्ञेया श्रेयसी रोहिणी तथा ||२१||हरीतकी पञ्चरसाऽलवणा तुवरोत्कटा |रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ||२२||सरा बुद्धिप्रदायुख्या चक्षुष्या बृंहणी लघुः |श्वासकासप्रमेहार्शः कुष्ठशोफोदरान् कृमीन् ||२३||वैस्वर्यग्रहणीदोषविबन्धविषमज्वरान् |गुल्माध्मानव्रणच्छर्दिहिध्माकण्डूहृदामयान् |कामलां शूलमानाहं प्लीहानं चापकर्षति ||२४||मधुराम्लतया वातं कषायस्वादुभावतः |पित्तं हन्ति कफं हन्ति कटुत्वेन हरीतकी ||२५||(मदनपालनिघण्टु – १. अभयादिवर्ग ) X मदनादिनिघण्टुहरीतक्यभया पथ्या प्राणदा विजया शिवा | अव्यथा पूतनाऽमोघा चेतकी प्रमथाऽमृता ||७|| कफवातप्रशमनी रेचनी दीपनी लघुः | अर्शोगुल्महितारुच्या जठरघ्नी हरीतकी ||८||(मदनादिनिघण्टु – २. द्वितीयगण) XI माधवद्रव्यगुणशिवा पञ्चरसायुष्या चक्षुष्या लवणा सरा |मेध्योष्णा दीपनी दोषशोथकुष्ठव्रणापहा ||७||शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् |विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् ||८||हरीतकी हरेद् व्याधींस्तांस्तांश्च कफवातजान् |(माधवद्रव्यगुण – १. विविधौषधिवर्ग ) XII राजनिघण्टुहरीतकी हैमवती जयाऽभया शिवाऽव्यथा चेतनिका च रोहिणी |पथ्या प्रपथ्याऽपि च पूतनाऽमृता जीवप्रिया जीवनिका भिषग्वरा ||२१४||जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा |देवी दिव्या च विजया वह्निनेत्रमिताभिधा ||२१५||हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता |रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ||२१६||बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुरुष्णवीर्या |मांसांशतश्चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ||२१७||हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता |तस्या नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमम् ||२१८||विजया रोहिणी चैव पूतना चामृताऽभया |जीवन्ती चेतनी चेति नाम्ना सप्तविधा मता ||२१९||अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता |स्वल्पत्वक् पूतना ज्ञेया स्थूलमांसाऽमृता स्मृता ||२२०||पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् |त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणम् ||२२१||विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिस्थानके |चम्पायाममृताऽभया च जनिता देशे सुराष्ट्राह्वये जीवन्ती च हरीतकी निगदिता सप्तप्रभेदा बुधैः ||२२२||सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता |विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ||२२३||स्याच्चेतकी सर्वरुजापहारिका नेत्रामयघ्नीमभयां वदन्ति |इत्थं यथायोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ||२२४||चेतकी च धृता हस्ते यावत् तिष्ठति देहिनः |तावद्विरेचते वेगात्तत्प्रभावान्न संशयः ||२२५||सप्तानामपि जातीनां प्रधानं विजया स्मृता |सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ||२२६||क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः |यस्या यस्या भूयो निमज्जनं सा गुणाढ्या स्यात् ||२२७||हरते प्रसभं व्याधीन्भूयस्तरति यद्वपुः |हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ||२२८||हरीतकी तु तृष्णायां हनुस्तम्भे ग्रलग्रहे |शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शक्यते ||२२९||(राजनिघण्टु – ११. आम्रादिवर्ग) XIII राजवल्लभनिघण्टुहरीतकीभेदजीवन्ती रोहिणी चैव विजया चाभयामृता |पूतना कालिका चेति पथ्या सप्तविधा मता ||१९७|| हरीतकीभेद लक्षणसुवर्णवर्णा जीवन्ती रोहिणी कपिलद्युतिः |अलाबुवृन्ता विजया पञ्चाशा चाभया स्मृता ||१९८||स्थूलमांसामृता ज्ञेया पूतनास्थिमती मता |त्र्यंशा च कालिकेत्येवं सप्तजातिहरीतकी ||१९९|| हरीतकीप्रयोगविधिस्नेहपानेषु सर्वेषु जीवन्ती च प्रशस्यते |रोहिणी क्षयरोगेषु विजया सर्वकर्मसु ||२००||पूतना लेपने ज्ञेया चामृता तु विरेचने |अभया नेत्ररोगेषु गन्धयुक्तेषु कालिका ||२०१|| हरीतकी निरुक्तीहरस्य भवने जाता हरिता च स्वभावतः |हरते सर्वरोगांश्च तेन नाम्ना हरीतकी ||२०२|| हरीतकी उत्पत्तिपीयूषं पिबतास्त्रिविष्टपपतेर्ये बिन्दवो निर्गता- |स्तेभ्योऽभूदभया दिवाकरकरश्रेणीव दोषापहा |कालिन्दीव बलप्रमोदजननी गौरीव शूलिप्रिया |वह्नेर्द्योतकरी घृताहुतिरिव क्षोणीव नानारसा ||२०३|| द्रव्यविशेषेण हरीतकीभक्षणगुणवातघ्नी लवणैः पथ्या पित्तघ्नी घृतसंयुता |नागरेण कफं हन्ति सर्वदोषन् गुडान्विता ||२०४|| हरीतकीसाधारणगुणपथ्या पञ्चरसायुष्या चक्षुष्या लवणा सरा |मध्योष्मा दीपनी शोथदोषकुष्ठव्रणापहा ||२०५||(राजवल्लभनिघण्टु – ३. माध्याह्निकपरिच्छेद ) XIV शब्दचन्द्रिकाअभया त्वन्यथा पथ्या वयःस्था पूतनाऽमृता | हरीतकी हैमवती चेतकी श्रेयसी शिवा ||७८|| रोहिणी विजयानन्ता जीवन्ती कणिका च सा |७९|(शब्दचन्द्रिका – १. वृक्षादिवर्ग ) XV सरस्वतीनिघण्टुअभयात्वव्यथा पथ्या वयःस्था पूतनाऽमृता ||३७||हरीतकी हैमवती चेतकी श्रेयसी शिवा |प्राणदा विजया श्रेष्ठा कायस्था दीपनी वरा ||३८||(सरस्वतीनिघण्टु – १. महावृक्षवर्ग ) XVI सोढलनिघण्टुविजया रोहिणी चैव पूतना चामृता तथा ||२०४||चेतकी चाभया प्रोक्ता जीवन्ती सप्तयोनयः |अलाबुवृत्ता विजया त्वव्यक्ता चैव रोहिणी ||२०५||पूतनास्थिमती श्लक्ष्णा स्थूलमांसा तथामृता |त्र्यस्रा तु चेतकी ज्ञेया पञ्चास्रा त्वभया स्मृता ||२०६||सुवर्णवर्णा जीवन्ती सप्तानामपि लक्षणम् |सर्वप्रयोगे विजया रोहिणी क्षतरोहिणी ||२०७||लेपार्थे पूतनां विद्युर्विरेकार्थेऽमृतां विदुः |चेतनी सर्वरोगेषु यथार्हमुपकल्पयेत् ||२०८||नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या |परीक्ष्य यत्नतो धीमान् गुणकृत्सा प्रशस्यते ||२०९||चेतकी द्विविधा प्रोक्ता कृष्णा शुक्ला च वर्णतः |षडङ्गुलायता कृष्णा शुक्ला चैकाङ्गुला मता ||२१०||काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् |काचित्स्पर्शेन दृष्ट्यान्या सैव चोक्ता चतुर्विधा ||२११||चेतकीपादपच्छायामुपसर्पन्ति ये नराः |भिन्द्यते तत्क्षणादेव पशुपक्षिमृगास्तथा ||२१२||चेतकी तु धृता हस्ते यावत्तिष्ठन्ति देहिनः |तावद्भिद्येत वेगैश्च प्रभावान्नात्र संशयः ||२१३||नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् |चेतकी परमा शस्ता हिता सुखविरेचनी ||२१४||हरीतकी रसाः पञ्च विद्याल्लवणवर्जिताः |मज्जाश्रितं तु मधुरमम्लं स्नाय्वाश्रितं विदुः ||२१५||त्वगाश्रितं तु कटुकं तिक्तं वृन्ताश्रितं तथा |अस्थ्याश्रितं कषायं तु रसमाहुर्मनीषिणः ||२१६||कफं कटुकषायत्वादम्लत्वान्मारुतं जयेत् |पित्तघ्नी स्वादुतिक्तत्वात् रौक्ष्यादामविपाचिनी ||२१७||विपाकमधुरा मेध्या वयःस्थापनदीपनी |उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा ||२१८||कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् |शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् ||२१९||सशोषशोफातीसारमेहमोहवमिकृमीन् |श्वासकासप्रसेकार्शःप्लीहानाहगरोदरान् ||२२०||विबन्धं स्रोतसां गुल्ममूरुस्तभमरोचकम् |हरीतकी जयेद्व्याधीन् तांस्तांस्तु कफवातजान् ||२२१||तृष्णायां कण्ठशोषे च हनुस्तम्भे गलग्रहे |नवज्वरे वपुःक्षीणे गर्भिण्यां नैव शस्यते ||२२२||(सोढलनिघण्टु/ गुणसङ्ग्रह (द्वितीय भाग) – १. गुडूच्यादिवर्ग )XVII चरकसंहिता हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम्||२९||आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्|सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम्||३०||कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्|अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||हृद्रोगं सशिरोरोगमतीसारमरोचकम्|कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्|श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः|स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४||(अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः|सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये)||३५||(च.चि.१/१)harītakī TRANSLITERATED VERSESI bhāvaprakāśa nighaṇṭu kṛtvā pākaṃ malānāṃ ca bhitvā bandhamadho nayet |taccānulomanaṃ jñeyaṃ yathā proktā harītakī ||(bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa – 1. miśravarga /223) rasāyanantu tajjñeyaṃ yajjarāvyādhināśanam |yathā harītakī dantī gugguluśca śilājatu ||(bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa – 1. miśravarga /237) harītakī utpatti dakṣaṃ prajāpatiṃ svasthamaśvinau vākyamūcatuḥ |kuto harītakī jātā tasyāstu kati jātayaḥ ||1||rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ |nāmāni kati coktāni kiṃ vā tāsāṃ ca lakṣaṇam ||2||ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate |kena dravyeṇa saṃyuktā kāṃśca rogānvyapohati ||3||praśnametadyathā pṛṣṭaṃ bhagavanvaktumarhasi |aśvinīrvacanaṃ śrutvā dakṣo vacanamabravīt ||4||papāta bindurmedinyāṃ śakrasya pibato’mṛtam |tato divyātsamutpannā saptajātirharītakī ||5|| harītakīparyāya harītakyabhayā pathyā kāyasthā pūtanā’mṛtā |haimavatyavyathā cāpi cetakī śreyasī śivā |vayasthā vijayā cāpi jīvantī rohiṇīti ca ||6|| harītakī saptabheda vijayā rohiṇī caiva pūtanā cāmṛtā’bhayā |jīvantī cetakī ceti pathyāyāḥ saptajātayaḥ ||7||“vindhyādrau vijayā himācalabhavā syāccetakī pūtanāsindhau syādatha rohiṇī nigaditā jātā pratisthānake |campāyāmamṛtābhayā ca janitā deśe surāṣṭrāhvaye |jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ”(1) ||7||alābuvṛttā vijayā vṛttā sā rohiṇī smṛtā |pūtanāsthimatī sūkṣmā kathitā māṃsalā’mṛtā ||8||pañcarekhā’bhayā proktā jīvantī svarṇavarṇinī |trirekhā cetakī jñeyā saptānāmiyamākṛtiḥ ||9|| harītakīprayoga vijayā sarvarogeṣu rohiṇī vraṇarohiṇī |pralepe pūtanā yojyā śodhanārthe’mṛtā hitā ||10||akṣiroge’bhayā śastā jīvantī sarvarogahṛt |cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet ||11||cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ |ṣaḍaṅgulāyatā śuklā kṛṣṇā tvekāṅgulā smṛtā ||12||kācidāsvādamātreṇa kācidgandhena bhedayet |kācitsparśena dṛṣṭyā’nyā caturdhā bhedayecchivā ||13||cetakīpādapacchāyāmupasarpanti ye narāḥ |bhidyaṃte tatkṣaṇādeva paśupakṣimṛgādayaḥ ||14||cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ |tāvadbhidyeta vegaistu prabhāvānnātra saṃśayaḥ ||15||nṛpādisukumārāṇāṃ kṛśānāṃ bheṣajadviṣām |cetakī paramā śastā hitā sukhavirecanī ||16||saptānāmapi jātīnāṃ pradhānā vijayā smṛtā |sukhaprayogā sulabhā sarvarogeṣu śasyate ||17|| harītakīguṇa, prabhāva harītakī pañcarasā’lavaṇā tuvarā param |rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī |cakṣuṣyā laghurāyuṣyā bṛṃhaṇī cānulominī ||18||śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn |vaisvaryagrahaṇīrogavibandhaviṣamajvarān ||19||gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān |kāmalāṃ śūlamānāhaṃ plīhānañca yakṛttathā |aśmarīmūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet ||20||svādutiktakaṣāyatvātpittahṛtkaphahṛttu sā |kaṭutiktakaṣāyatvādamlatvādvātahṛcchivā ||21||pittakṛtkaṭukāmlatvādvātakṛnna kathaṃ śivā |prabhāvāddoṣahantṛtvaṃ siddhaṃ yattatprakāśyate |hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate’dhunā ||22||karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ |yatastato neti cintyaṃ dhātrīlakucayoryathā ||23||pathyāyā majjani svāduḥ snāyvāmamlo vyavasthitaḥ |vṛnte tiktastvaci kaṭurasthisthastuvaro rasaḥ ||24|| śreṣṭhaharītakīlakṣaṇa navā snigdhā ghanā vṛttā gurvī kṣiptā ca yā’mbhasi |nimajjetsā praśastā ca kathitā’tiguṇapradā ||25||navādiguṇayuktatvaṃ tathaivātra dvikarṣatā |harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate ||26|| harītakīprayogavidhi, ṛtvanusāra prayogavidhi carvitā vardhayatyagniṃ peṣitā malaśodhinī |svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut ||27||unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām |visraṃsinī mūtraśakṛnmalānāṃ harītakī syāt saha bhojanena ||28||annapānakṛtāndoṣānvātapittakaphodbhavān |harītakī haratyāśu bhuktasyopari yojitā ||29||lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā |ghṛtena vātajān rogānsarvarogānguḍānvitā ||30||siṃdhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt |varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā ||31|| harītakīsevanānārha adhvātikhinno balavarjitaśca rūkṣaḥ kṛśo laṅghanakarśitaśca |pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet ||32||(bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa – 2. harītakyādivarga /1-32) II abhidhānamañjarī vijayā harītakī syādabhayā pathyā’vyathā prapathyā ca |amṛtā jayā kayasthā haimavatī cetakī śivā sādhvī |prāṇadā mānavī pathyā (mānavī? jīvantī) pañcabhadrikā |piśācī pūtanā ceti paryāyairbhadrasaptikā ||jñeyo harītakīgandhavāsitaścotkaṭo mudita ūhyaḥ |suravṛkṣaḥ sūryāhniḥ suparṇapuṣpaḥ śītapuṣpa iti ||(abhidhānamañjarī / madanādigaṇavarga – 17. varaṇādivarga/ 243-244) III amarakośa abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā |harītakī haimavatī cetakī śreyasī śivā ||(amarakośa/ dvitīyakāṇḍa – 1. vanauṣadhivarga /59) IV kaiyadevanighaṇṭu harītakyabhayā pathyā prapathyā haimavatyapi ||221||kāyasthā śreyasī jñeyā prāṇadā vijayā śivā |jayā vilavaṇā pañcarasānu tuvarotkarā ||222||svādupākarasāyuṣyā rūkṣoṣṇā bṛṃhaṇī laghuḥ |dīpanī pācanī medhyā vayasaḥsthāpanī param ||223||rasāyanī ca cakṣuṣyā balabuddhismṛtipradā |kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān ||224||śiro’kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān |saśoṣaśophātīsāramehamohavamikṛmīn ||225||śvāsakāsaprasekārśaḥplīhānāhagadodarān |vibandhaṃ srotasāṃ gulmamūrustambhamarocakam ||226||hidhmādhmānavraṇān śūlaṃ trīn doṣāṃśca vyapohati |svādvamlabhāvātpavanaṃ kaṭutiktatayā kapham ||227||kaṣāyamadhusattvācca pittaṃ hanti harītakī |majjavaksnāyumāṃsāsthisthitāḥ pañcābhayodbhavāḥ ||228||svādukaṭvamlatiktākhyakaṣāyāḥ kramaśo rasāḥ |pathyāmajjā ca cakṣuṣyo vātapittaharo guruḥ ||229||nīrajā vanajā caiva parvatīyā iti tridhā |yathotaraṃ pathyatamā vijñeyā trividhābhayā ||230||kālayogātsvayaṃ pakvā patitā ca mahītale |navā snidhāyatā vṛttā gurvī kṣiptā tathāmbhasi ||231||nimajjedyā tathaikasmin phale syācca dvikarṣatā |sarvadā guṇakṛtsā tu tato’nyā tu vivarjitā ||232||navādiguṇayuktatvaṃ tathaikatvaṃ dvikarṣatā |harītakyāḥ phale yatra tatsarvaṃ guṇakṛd bhavet ||133||jantujagdhā davādagdhāṃ jale paṅke sthitāṃ punaḥ |ūṣare ca sthitāṃ bhinnāṃ varjayettu harītakīm ||234||(kaiyadevanighaṇṭu – 1. oṣadhivarga ) V dravyaguṇasaṅgraha pathyā pañcarasā’’yuṣyā cakṣuṣyā’lavaṇā sarā ||37||medhyoṣṇā dīpanī doṣaśothakuṣṭhajvarāpahā |38|(dravyaguṇasaṅgraha – 5. phalavarga ) VI dhanvantarinighaṇṭu harītakyābhayā pathyā prapathyā pūtanā’mṛtā |jayā’vyathā haimavatī vayaḥsthā cetakī śivā ||233||prāṇadā nandinī caiva rohiṇī vijayā ca sā |kaṣāyā’mlā ca kaṭukā tiktā madhurasānvitā |iti pañcarasā pathyā lavaṇena vivarjitā ||234||amlabhāvājjayedvātaṃ pittaṃ madhuratiktakāt |kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato’bhayā ||235||prapathyā lekhanī laghvī medhyā cakṣurhitā sadā |mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit ||236||vātānulomanī hṛdyā sendriyāṇāṃ prasādanī |santarpaṇakṛtānrogānprāyo hanti harītakī ||237||tṛṣṇāyāṃ mukhaśoṣe ca hanustambhe galagrahe |navajvare tathā kṣīṇe garbhiṇyāṃ na praśasyate ||238||harasya bhavane jātā harītā ca svabhāvataḥ |sarvarogāṃśca ca harate tena khyātā harītakī ||239||(dhanvantarinighaṇṭu – 1. guḍūcyādivarga ) VII nighaṇṭuśeṣa harītakyāṃ jayā pathyā haimavatyabhayā’mṛtā ||80||kāyasthā pūtanā cetakyavyathā śreyasī śivā |81|(nighaṇṭuśeṣa – 1. vṛkṣakāṇḍa) VIII paryāyaratnamālā śivā harītakī pathyā cetakī pūtanābhayā ||218||(paryāyaratnamālā) IX madanapālanighaṇṭu harasya bhavane jātā haritā ca svabhāvataḥ |hārayetsarvarogāñca tena proktā harītakī ||8||jīvantī pūtanā paścādamṛtā vijayā’bhayā |rohiṇī cetakī sapta bhedabhinnā harītakī ||9||jīvantī jīvanodyogātpāvanātpūtanā matā |sudhāvadamṛtā jñeyā vijayā vijayapradā ||10||nṛṇāmabhayadā yasmādabhayā tat prakīrtitā |rohiṇī tu guṇārohāccetanāccetakī matā ||11||jīvantī svarṇavarṇābhā pūtanā’sthimatī matā |amṛtā tridalā proktā vijayā tumbarūpiṇī ||12||pañcāṅgī tvabhayā jñeyā’mṛtā vṛttā tu rohiṇī |tryaṅgī tu cetakī jñeyā karma tāsāmathocyate ||13||sarvarogeṣu jīvantī pralepe pūtanā hitā |śuddhyarthamamṛtā proktā vijayā sarvarogahṛt ||14||akṣiroge’bhayā śastā rohiṇī vraṇarohiṇī |cetakī cūrṇayoge syātsaptadhaiva prakīrtitā ||15||navā snigdhā ghanā vṛttā gurvī kṣiptā ca yā’mbhasi |nimajjetsā praśastā syādrogadhnyatiguṇapradā ||16||śoṇā cchinnā guḍanibhā kiñcidalpā kaṣāyiṇī |sthūlatvak sarasā svalpabījā gurvī harītakī ||17||carvitā vardhayatyagniṃ peṣitā malaśodhinī |svinnā saṅgrāhiṇī proktā bhṛṣṭā pathyānnadoṣanut ||18||grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvṛte hyambare tulyāṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame |pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājan prāpya harītakīmiva rujo naśyantu te śatravaḥ ||19|| harītakīnāmaguṇa- śivā harītakī pathyā cetakī vijayā jayā |prapathyā prathamā’moghā kāyasthā prāṇadā’mṛtā ||20||jīvanīyā hemavatī pūtanā vṛtanā’bhayā |vayasthā nandinī jñeyā śreyasī rohiṇī tathā ||21||harītakī pañcarasā’lavaṇā tuvarotkaṭā |rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī ||22||sarā buddhipradāyukhyā cakṣuṣyā bṛṃhaṇī laghuḥ |śvāsakāsapramehārśaḥ kuṣṭhaśophodarān kṛmīn ||23||vaisvaryagrahaṇīdoṣavibandhaviṣamajvarān |gulmādhmānavraṇacchardihidhmākaṇḍūhṛdāmayān |kāmalāṃ śūlamānāhaṃ plīhānaṃ cāpakarṣati ||24||madhurāmlatayā vātaṃ kaṣāyasvādubhāvataḥ |pittaṃ hanti kaphaṃ hanti kaṭutvena harītakī ||25||(madanapālanighaṇṭu – 1. abhayādivarga ) X madanādinighaṇṭu harītakyabhayā pathyā prāṇadā vijayā śivā |avyathā pūtanā’moghā cetakī pramathā’mṛtā ||7||kaphavātapraśamanī recanī dīpanī laghuḥ |arśogulmahitārucyā jaṭharaghnī harītakī ||8||(madanādinighaṇṭu – 2. dvitīyagaṇa) XI mādhavadravyaguṇa śivā pañcarasāyuṣyā cakṣuṣyā lavaṇā sarā |medhyoṣṇā dīpanī doṣaśothakuṣṭhavraṇāpahā ||7||śiro’kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān |vibandhaṃ srotasāṃ gulmamūrustambhamarocakam ||8||harītakī hared vyādhīṃstāṃstāṃśca kaphavātajān |(mādhavadravyaguṇa – 1. vividhauṣadhivarga ) XII rājanighaṇṭu harītakī haimavatī jayā’bhayā śivā’vyathā cetanikā ca rohiṇī |pathyā prapathyā’pi ca pūtanā’mṛtā jīvapriyā jīvanikā bhiṣagvarā ||214||jīvantī prāṇadā jīvyā kāyasthā śreyasī ca sā |devī divyā ca vijayā vahninetramitābhidhā ||215||harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā |rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī ||216||bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭuruṣṇavīryā |māṃsāṃśataścāmlakaṣāyayuktā harītakī pañcarasā smṛteyam ||217||harītakyamṛtotpannā saptabhedairudīritā |tasyā nāmāni varṇāṃśca vakṣyāmyatha yathākramam ||218||vijayā rohiṇī caiva pūtanā cāmṛtā’bhayā |jīvantī cetanī ceti nāmnā saptavidhā matā ||219||alābunābhirvijayā suvṛttā rohiṇī matā |svalpatvak pūtanā jñeyā sthūlamāṃsā’mṛtā smṛtā ||220||pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk |tryasrāṃ tu cetakīṃ vidyādityāsāṃ rūpalakṣaṇam ||221||vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī tu vijayā jātā pratisthānake |campāyāmamṛtā’bhayā ca janitā deśe surāṣṭrāhvaye jīvantī ca harītakī nigaditā saptaprabhedā budhaiḥ ||222||sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā |virecane syādamṛtā guṇādhikā jīvantikā syādiha jīrṇarogajit ||223||syāccetakī sarvarujāpahārikā netrāmayaghnīmabhayāṃ vadanti |itthaṃ yathāyogamiyaṃ prayojitā jñeyā guṇāḍhyā na kadācidanyathā ||224||cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ |tāvadvirecate vegāttatprabhāvānna saṃśayaḥ ||225||saptānāmapi jātīnāṃ pradhānaṃ vijayā smṛtā |sukhaprayogasulabhā sarvavyādhiṣu śasyate ||226||kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ |yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt ||227||harate prasabhaṃ vyādhīnbhūyastarati yadvapuḥ |harītakī tu sā proktā tatra kīrdīptivācakaḥ ||228||harītakī tu tṛṣṇāyāṃ hanustambhe gralagrahe |śoṣe navajvare jīrṇe gurviṇyāṃ naiva śakyate ||229||(rājanighaṇṭu – 11. āmrādivarga) XIII rājavallabhanighaṇṭu harītakībheda jīvantī rohiṇī caiva vijayā cābhayāmṛtā |pūtanā kālikā ceti pathyā saptavidhā matā ||197|| harītakībheda lakṣaṇa suvarṇavarṇā jīvantī rohiṇī kapiladyutiḥ |alābuvṛntā vijayā pañcāśā cābhayā smṛtā ||198||sthūlamāṃsāmṛtā jñeyā pūtanāsthimatī matā |tryaṃśā ca kāliketyevaṃ saptajātiharītakī ||199|| harītakīprayogavidhi snehapāneṣu sarveṣu jīvantī ca praśasyate |rohiṇī kṣayarogeṣu vijayā sarvakarmasu ||200||pūtanā lepane jñeyā cāmṛtā tu virecane |abhayā netrarogeṣu gandhayukteṣu kālikā ||201|| harītakī niruktī harasya bhavane jātā haritā ca svabhāvataḥ |harate sarvarogāṃśca tena nāmnā harītakī ||202|| harītakī utpatti pīyūṣaṃ pibatāstriviṣṭapapaterye bindavo nirgatā- |stebhyo’bhūdabhayā divākarakaraśreṇīva doṣāpahā |kālindīva balapramodajananī gaurīva śūlipriyā |vahnerdyotakarī ghṛtāhutiriva kṣoṇīva nānārasā ||203|| dravyaviśeṣeṇa harītakībhakṣaṇaguṇa vātaghnī lavaṇaiḥ pathyā pittaghnī ghṛtasaṃyutā |nāgareṇa kaphaṃ hanti sarvadoṣan guḍānvitā ||204|| harītakīsādhāraṇaguṇa pathyā pañcarasāyuṣyā cakṣuṣyā lavaṇā sarā |madhyoṣmā dīpanī śothadoṣakuṣṭhavraṇāpahā ||205||(rājavallabhanighaṇṭu – 3. mādhyāhnikapariccheda ) XIV śabdacandrikā abhayā tvanyathā pathyā vayaḥsthā pūtanā’mṛtā |harītakī haimavatī cetakī śreyasī śivā ||78||rohiṇī vijayānantā jīvantī kaṇikā ca sā |79|(śabdacandrikā – 1. vṛkṣādivarga ) XV sarasvatīnighaṇṭu abhayātvavyathā pathyā vayaḥsthā pūtanā’mṛtā ||37||harītakī haimavatī cetakī śreyasī śivā |prāṇadā vijayā śreṣṭhā kāyasthā dīpanī varā ||38||(sarasvatīnighaṇṭu – 1. mahāvṛkṣavarga ) XVI soḍhalanighaṇṭu vijayā rohiṇī caiva pūtanā cāmṛtā tathā ||204||cetakī cābhayā proktā jīvantī saptayonayaḥ |alābuvṛttā vijayā tvavyaktā caiva rohiṇī ||205||pūtanāsthimatī ślakṣṇā sthūlamāṃsā tathāmṛtā |tryasrā tu cetakī jñeyā pañcāsrā tvabhayā smṛtā ||206||suvarṇavarṇā jīvantī saptānāmapi lakṣaṇam |sarvaprayoge vijayā rohiṇī kṣatarohiṇī ||207||lepārthe pūtanāṃ vidyurvirekārthe’mṛtāṃ viduḥ |cetanī sarvarogeṣu yathārhamupakalpayet ||208||navā vṛttā ghanā snigdhā gurvī majjati cāpsu yā |parīkṣya yatnato dhīmān guṇakṛtsā praśasyate ||209||cetakī dvividhā proktā kṛṣṇā śuklā ca varṇataḥ |ṣaḍaṅgulāyatā kṛṣṇā śuklā caikāṅgulā matā ||210||kācidāsvādamātreṇa kācidgandhena bhedayet |kācitsparśena dṛṣṭyānyā saiva coktā caturvidhā ||211||cetakīpādapacchāyāmupasarpanti ye narāḥ |bhindyate tatkṣaṇādeva paśupakṣimṛgāstathā ||212||cetakī tu dhṛtā haste yāvattiṣṭhanti dehinaḥ |tāvadbhidyeta vegaiśca prabhāvānnātra saṃśayaḥ ||213||nṛpādisukumārāṇāṃ kṛśānāṃ bheṣajadviṣām |cetakī paramā śastā hitā sukhavirecanī ||214||harītakī rasāḥ pañca vidyāllavaṇavarjitāḥ |majjāśritaṃ tu madhuramamlaṃ snāyvāśritaṃ viduḥ ||215||tvagāśritaṃ tu kaṭukaṃ tiktaṃ vṛntāśritaṃ tathā |asthyāśritaṃ kaṣāyaṃ tu rasamāhurmanīṣiṇaḥ ||216||kaphaṃ kaṭukaṣāyatvādamlatvānmārutaṃ jayet |pittaghnī svādutiktatvāt raukṣyādāmavipācinī ||217||vipākamadhurā medhyā vayaḥsthāpanadīpanī |uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā ||218||kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān |śiro’kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān ||219||saśoṣaśophātīsāramehamohavamikṛmīn |śvāsakāsaprasekārśaḥplīhānāhagarodarān ||220||vibandhaṃ srotasāṃ gulmamūrustabhamarocakam |harītakī jayedvyādhīn tāṃstāṃstu kaphavātajān ||221||tṛṣṇāyāṃ kaṇṭhaśoṣe ca hanustambhe galagrahe |navajvare vapuḥkṣīṇe garbhiṇyāṃ naiva śasyate ||222||(soḍhalanighaṇṭu/ guṇasaṅgraha (dvitīya bhāga) – 1. guḍūcyādivarga )XVII carakasaṃhitā harītakīṃ pañcarasāmuṣṇāmalavaṇāṃ śivām|doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm||29||āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām|sarvarogapraśamanīṃ buddhīndriyabalapradām||30||kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam|arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram||31||hṛdrogaṃ saśirorogamatīsāramarocakam|kāsaṃ pramehamānāhaṃ plīhānamudaraṃ navam||32||kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn|śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam||33||srotovibandhān vividhān pralepaṃ hṛdayorasoḥ|smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī||34||(ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ|severannābhayāmete kṣuttṛṣṇoṣṇārditāśca ye)||35||(ca.ci.1/1) SOURCE: https://niimh.nic.in/ebooks/e-Nighantu/Details of other herbs of Dravyaguna: https://ayurveda360.in/category/ayurveda-herbs-dravyaguna/HareetakiLashuna