Hareetaki (हरीतकी) – Terminalia chebula : Dravyaguna: Ayurveda References

HAREETAKI

HAREETAKI 

CLASSICAL SANSKRIT SHLOKA

I भावप्रकाश निघण्टु

 
कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत् |
तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी ||
(भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – १. मिश्रवर्ग /२२३)
 
रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम् |
यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु ||
(भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – १. मिश्रवर्ग /२३७)
 
हरीतकी उत्पत्ति
दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः |
कुतो हरीतकी जाता तस्यास्तु कति जातयः ||१||
रसाः कति समाख्याताः कति चोपरसाः स्मृताः |
नामानि कति चोक्तानि किं वा तासां च लक्षणम् ||२||
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते |
केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति ||३||
प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि |
अश्विनीर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ||४||
पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् |
ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ||५||
 
हरीतकीपर्याय
हरीतक्यभया पथ्या कायस्था पूतनाऽमृता |
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा |
वयस्था विजया चापि जीवन्ती रोहिणीति च ||६||
 
हरीतकी सप्तभेद
विजया रोहिणी चैव पूतना चामृताऽभया |
जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ||७||
“विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना
सिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिस्थानके |
चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये |
जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः”(१) ||७||
अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता |
पूतनास्थिमती सूक्ष्मा कथिता मांसलाऽमृता ||८||
पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी |
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ||९||
 
हरीतकीप्रयोग
विजया सर्वरोगेषु रोहिणी व्रणरोहिणी |
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ||१०||
अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् |
चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ||११||
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः |
षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता ||१२||
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् |
काचित्स्पर्शेन दृष्ट्याऽन्या चतुर्धा भेदयेच्छिवा ||१३||
चेतकीपादपच्छायामुपसर्पन्ति ये नराः |
भिद्यंते तत्क्षणादेव पशुपक्षिमृगादयः ||१४||
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः |
तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ||१५||
नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् |
चेतकी परमा शस्ता हिता सुखविरेचनी ||१६||
सप्तानामपि जातीनां प्रधाना विजया स्मृता |
सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ||१७||
 
हरीतकीगुण, प्रभाव
हरीतकी पञ्चरसाऽलवणा तुवरा परम् |
रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी |
चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी ||१८||
श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् |
वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् ||१९||
गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् |
कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा |
अश्मरीमूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् ||२०||
स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा |
कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा ||२१||
पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा |
प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते |
हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ||२२||
कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः |
यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ||२३||
पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः |
वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः ||२४||
 
श्रेष्ठहरीतकीलक्षण
नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि |
निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा ||२५||
नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता |
हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ||२६||
 
हरीतकीप्रयोगविधि, ऋत्वनुसार प्रयोगविधि
चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी |
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ||२७||
उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् |
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन ||२८||
अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् |
हरीतकी हरत्याशु भुक्तस्योपरि योजिता ||२९||
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा |
घृतेन वातजान् रोगान्सर्वरोगान्गुडान्विता ||३०||
सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् |
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ||३१||
 
हरीतकीसेवनाऽनार्ह
अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च |
पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ||३२||
(भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – २. हरीतक्यादिवर्ग /१-३२)
 

II अभिधानमञ्जरी

विजया हरीतकी स्यादभया पथ्याऽव्यथा प्रपथ्या च |
अमृता जया कयस्था हैमवती चेतकी शिवा साध्वी |
प्राणदा मानवी पथ्या (मानवी? जीवन्ती) पञ्चभद्रिका |
पिशाची पूतना चेति पर्यायैर्भद्रसप्तिका ||
ज्ञेयो हरीतकीगन्धवासितश्चोत्कटो मुदित ऊह्यः |
सुरवृक्षः सूर्याह्निः सुपर्णपुष्पः शीतपुष्प इति ||
(अभिधानमञ्जरी / मदनादिगणवर्ग – १७. वरणादिवर्ग/ २४३-२४४)
 

III अमरकोश

अभया त्वव्यथा पथ्या कायस्था पूतनामृता |
हरीतकी हैमवती चेतकी श्रेयसी शिवा ||
(अमरकोश/ द्वितीयकाण्ड – १. वनौषधिवर्ग /५९)
 

IV कैयदेवनिघण्टु

हरीतक्यभया पथ्या प्रपथ्या हैमवत्यपि ||२२१||
कायस्था श्रेयसी ज्ञेया प्राणदा विजया शिवा |
जया विलवणा पञ्चरसानु तुवरोत्करा ||२२२||
स्वादुपाकरसायुष्या रूक्षोष्णा बृंहणी लघुः |
दीपनी पाचनी मेध्या वयसःस्थापनी परम् ||२२३||
रसायनी च चक्षुष्या बलबुद्धिस्मृतिप्रदा |
कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् ||२२४||
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् |
सशोषशोफातीसारमेहमोहवमिकृमीन् ||२२५||
श्वासकासप्रसेकार्शःप्लीहानाहगदोदरान् |
विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् ||२२६||
हिध्माध्मानव्रणान् शूलं त्रीन् दोषांश्च व्यपोहति |
स्वाद्वम्लभावात्पवनं कटुतिक्ततया कफम् ||२२७||
कषायमधुसत्त्वाच्च पित्तं हन्ति हरीतकी |
मज्जवक्स्नायुमांसास्थिस्थिताः पञ्चाभयोद्भवाः ||२२८||
स्वादुकट्वम्लतिक्ताख्यकषायाः क्रमशो रसाः |
पथ्यामज्जा च चक्षुष्यो वातपित्तहरो गुरुः ||२२९||
नीरजा वनजा चैव पर्वतीया इति त्रिधा |
यथोतरं पथ्यतमा विज्ञेया त्रिविधाभया ||२३०||
कालयोगात्स्वयं पक्वा पतिता च महीतले |
नवा स्निधायता वृत्ता गुर्वी क्षिप्ता तथाम्भसि ||२३१||
निमज्जेद्या तथैकस्मिन् फले स्याच्च द्विकर्षता |
सर्वदा गुणकृत्सा तु ततोऽन्या तु विवर्जिता ||२३२||
नवादिगुणयुक्तत्वं तथैकत्वं द्विकर्षता |
हरीतक्याः फले यत्र तत्सर्वं गुणकृद् भवेत् ||१३३||
जन्तुजग्धा दवादग्धां जले पङ्के स्थितां पुनः |
ऊषरे च स्थितां भिन्नां वर्जयेत्तु हरीतकीम् ||२३४||
(कैयदेवनिघण्टु – १. ओषधिवर्ग )
 

V द्रव्यगुणसङ्ग्रह

पथ्या पञ्चरसाऽऽयुष्या चक्षुष्याऽलवणा सरा ||३७||
मेध्योष्णा दीपनी दोषशोथकुष्ठज्वरापहा |३८|
(द्रव्यगुणसङ्ग्रह – ५. फलवर्ग )
 

VI धन्वन्तरिनिघण्टु

हरीतक्याभया पथ्या प्रपथ्या पूतनाऽमृता |
जयाऽव्यथा हैमवती वयःस्था चेतकी शिवा ||२३३||
प्राणदा नन्दिनी चैव रोहिणी विजया च सा |
कषायाऽम्ला च कटुका तिक्ता मधुरसान्विता |
इति पञ्चरसा पथ्या लवणेन विवर्जिता ||२३४||
अम्लभावाज्जयेद्वातं पित्तं मधुरतिक्तकात् |
कफं रूक्षकषायत्वात्त्रिदोषघ्नी ततोऽभया ||२३५||
प्रपथ्या लेखनी लघ्वी मेध्या चक्षुर्हिता सदा |
मेहकुष्ठव्रणच्छर्दिशोफवातास्रकृच्छ्रजित् ||२३६||
वातानुलोमनी हृद्या सेन्द्रियाणां प्रसादनी |
सन्तर्पणकृतान्रोगान्प्रायो हन्ति हरीतकी ||२३७||
तृष्णायां मुखशोषे च हनुस्तम्भे गलग्रहे |
नवज्वरे तथा क्षीणे गर्भिण्यां न प्रशस्यते ||२३८||
हरस्य भवने जाता हरीता च स्वभावतः |
सर्वरोगांश्च च हरते तेन ख्याता हरीतकी ||२३९||
(धन्वन्तरिनिघण्टु – १. गुडूच्यादिवर्ग )
 

VII निघण्टुशेष

हरीतक्यां जया पथ्या हैमवत्यभयाऽमृता ||८०||
कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा |८१|
(निघण्टुशेष – १. वृक्षकाण्ड)
 

VIII पर्यायरत्नमाला

शिवा हरीतकी पथ्या चेतकी पूतनाभया ||२१८||
(पर्यायरत्नमाला)
 

IX मदनपालनिघण्टु

हरस्य भवने जाता हरिता च स्वभावतः |
हारयेत्सर्वरोगाञ्च तेन प्रोक्ता हरीतकी ||८||
जीवन्ती पूतना पश्चादमृता विजयाऽभया |
रोहिणी चेतकी सप्त भेदभिन्ना हरीतकी ||९||
जीवन्ती जीवनोद्योगात्पावनात्पूतना मता |
सुधावदमृता ज्ञेया विजया विजयप्रदा ||१०||
नृणामभयदा यस्मादभया तत् प्रकीर्तिता |
रोहिणी तु गुणारोहाच्चेतनाच्चेतकी मता ||११||
जीवन्ती स्वर्णवर्णाभा पूतनाऽस्थिमती मता |
अमृता त्रिदला प्रोक्ता विजया तुम्बरूपिणी ||१२||
पञ्चाङ्गी त्वभया ज्ञेयाऽमृता वृत्ता तु रोहिणी |
त्र्यङ्गी तु चेतकी ज्ञेया कर्म तासामथोच्यते ||१३||
सर्वरोगेषु जीवन्ती प्रलेपे पूतना हिता |
शुद्ध्यर्थममृता प्रोक्ता विजया सर्वरोगहृत् ||१४||
अक्षिरोगेऽभया शस्ता रोहिणी व्रणरोहिणी |
चेतकी चूर्णयोगे स्यात्सप्तधैव प्रकीर्तिता ||१५||
नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि |
निमज्जेत्सा प्रशस्ता स्याद्रोगध्न्यतिगुणप्रदा ||१६||
शोणा च्छिन्ना गुडनिभा किञ्चिदल्पा कषायिणी |
स्थूलत्वक् सरसा स्वल्पबीजा गुर्वी हरीतकी ||१७||
चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी |
स्विन्ना सङ्ग्राहिणी प्रोक्ता भृष्टा पथ्यान्नदोषनुत् ||१८||
ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावृते ह्यम्बरे तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषारागमे |
पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां राजन् प्राप्य हरीतकीमिव रुजो नश्यन्तु ते शत्रवः ||१९||
हरीतकीनामगुण-
शिवा हरीतकी पथ्या चेतकी विजया जया |
प्रपथ्या प्रथमाऽमोघा कायस्था प्राणदाऽमृता ||२०||
जीवनीया हेमवती पूतना वृतनाऽभया |
वयस्था नन्दिनी ज्ञेया श्रेयसी रोहिणी तथा ||२१||
हरीतकी पञ्चरसाऽलवणा तुवरोत्कटा |
रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ||२२||
सरा बुद्धिप्रदायुख्या चक्षुष्या बृंहणी लघुः |
श्वासकासप्रमेहार्शः कुष्ठशोफोदरान् कृमीन् ||२३||
वैस्वर्यग्रहणीदोषविबन्धविषमज्वरान् |
गुल्माध्मानव्रणच्छर्दिहिध्माकण्डूहृदामयान् |
कामलां शूलमानाहं प्लीहानं चापकर्षति ||२४||
मधुराम्लतया वातं कषायस्वादुभावतः |
पित्तं हन्ति कफं हन्ति कटुत्वेन हरीतकी ||२५||
(मदनपालनिघण्टु – १. अभयादिवर्ग )
 

X मदनादिनिघण्टु

हरीतक्यभया पथ्या प्राणदा विजया शिवा |
अव्यथा पूतनाऽमोघा चेतकी प्रमथाऽमृता ||७||
कफवातप्रशमनी रेचनी दीपनी लघुः |
अर्शोगुल्महितारुच्या जठरघ्नी हरीतकी ||८||
(मदनादिनिघण्टु – २. द्वितीयगण)
 

XI माधवद्रव्यगुण

शिवा पञ्चरसायुष्या चक्षुष्या लवणा सरा |
मेध्योष्णा दीपनी दोषशोथकुष्ठव्रणापहा ||७||
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् |
विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् ||८||
हरीतकी हरेद् व्याधींस्तांस्तांश्च कफवातजान् |
(माधवद्रव्यगुण – १. विविधौषधिवर्ग )
 

XII राजनिघण्टु

हरीतकी हैमवती जयाऽभया शिवाऽव्यथा चेतनिका च रोहिणी |
पथ्या प्रपथ्याऽपि च पूतनाऽमृता जीवप्रिया जीवनिका भिषग्वरा ||२१४||
जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा |
देवी दिव्या च विजया वह्निनेत्रमिताभिधा ||२१५||
हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता |
रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ||२१६||
बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुरुष्णवीर्या |
मांसांशतश्चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ||२१७||
हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता |
तस्या नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमम् ||२१८||
विजया रोहिणी चैव पूतना चामृताऽभया |
जीवन्ती चेतनी चेति नाम्ना सप्तविधा मता ||२१९||
अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता |
स्वल्पत्वक् पूतना ज्ञेया स्थूलमांसाऽमृता स्मृता ||२२०||
पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् |
त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणम् ||२२१||
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिस्थानके |
चम्पायाममृताऽभया च जनिता देशे सुराष्ट्राह्वये जीवन्ती च हरीतकी निगदिता सप्तप्रभेदा बुधैः ||२२२||
सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता |
विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ||२२३||
स्याच्चेतकी सर्वरुजापहारिका नेत्रामयघ्नीमभयां वदन्ति |
इत्थं यथायोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ||२२४||
चेतकी च धृता हस्ते यावत् तिष्ठति देहिनः |
तावद्विरेचते वेगात्तत्प्रभावान्न संशयः ||२२५||
सप्तानामपि जातीनां प्रधानं विजया स्मृता |
सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ||२२६||
क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः |
यस्या यस्या भूयो निमज्जनं सा गुणाढ्या स्यात् ||२२७||
हरते प्रसभं व्याधीन्भूयस्तरति यद्वपुः |
हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ||२२८||
हरीतकी तु तृष्णायां हनुस्तम्भे ग्रलग्रहे |
शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शक्यते ||२२९||
(राजनिघण्टु – ११. आम्रादिवर्ग)
 

XIII राजवल्लभनिघण्टु

हरीतकीभेद
जीवन्ती रोहिणी चैव विजया चाभयामृता |
पूतना कालिका चेति पथ्या सप्तविधा मता ||१९७||
 
हरीतकीभेद लक्षण
सुवर्णवर्णा जीवन्ती रोहिणी कपिलद्युतिः |
अलाबुवृन्ता विजया पञ्चाशा चाभया स्मृता ||१९८||
स्थूलमांसामृता ज्ञेया पूतनास्थिमती मता |
त्र्यंशा च कालिकेत्येवं सप्तजातिहरीतकी ||१९९||
 
हरीतकीप्रयोगविधि
स्नेहपानेषु सर्वेषु जीवन्ती च प्रशस्यते |
रोहिणी क्षयरोगेषु विजया सर्वकर्मसु ||२००||
पूतना लेपने ज्ञेया चामृता तु विरेचने |
अभया नेत्ररोगेषु गन्धयुक्तेषु कालिका ||२०१||
 
हरीतकी निरुक्ती
हरस्य भवने जाता हरिता च स्वभावतः |
हरते सर्वरोगांश्च तेन नाम्ना हरीतकी ||२०२||
 
हरीतकी उत्पत्ति
पीयूषं पिबतास्त्रिविष्टपपतेर्ये बिन्दवो निर्गता- |
स्तेभ्योऽभूदभया दिवाकरकरश्रेणीव दोषापहा |
कालिन्दीव बलप्रमोदजननी गौरीव शूलिप्रिया |
वह्नेर्द्योतकरी घृताहुतिरिव क्षोणीव नानारसा ||२०३||
 
द्रव्यविशेषेण हरीतकीभक्षणगुण
वातघ्नी लवणैः पथ्या पित्तघ्नी घृतसंयुता |
नागरेण कफं हन्ति सर्वदोषन् गुडान्विता ||२०४||
 
हरीतकीसाधारणगुण
पथ्या पञ्चरसायुष्या चक्षुष्या लवणा सरा |
मध्योष्मा दीपनी शोथदोषकुष्ठव्रणापहा ||२०५||
(राजवल्लभनिघण्टु – ३. माध्याह्निकपरिच्छेद )
 
 

XIV शब्दचन्द्रिका

अभया त्वन्यथा पथ्या वयःस्था पूतनाऽमृता |
हरीतकी हैमवती चेतकी श्रेयसी शिवा ||७८||
रोहिणी विजयानन्ता जीवन्ती कणिका च सा |७९|
(शब्दचन्द्रिका – १. वृक्षादिवर्ग )
 

XV सरस्वतीनिघण्टु

अभयात्वव्यथा पथ्या वयःस्था पूतनाऽमृता ||३७||
हरीतकी हैमवती चेतकी श्रेयसी शिवा |
प्राणदा विजया श्रेष्ठा कायस्था दीपनी वरा ||३८||
(सरस्वतीनिघण्टु – १. महावृक्षवर्ग )
 

XVI सोढलनिघण्टु

विजया रोहिणी चैव पूतना चामृता तथा ||२०४||
चेतकी चाभया प्रोक्ता जीवन्ती सप्तयोनयः |
अलाबुवृत्ता विजया त्वव्यक्ता चैव रोहिणी ||२०५||
पूतनास्थिमती श्लक्ष्णा स्थूलमांसा तथामृता |
त्र्यस्रा तु चेतकी ज्ञेया पञ्चास्रा त्वभया स्मृता ||२०६||
सुवर्णवर्णा जीवन्ती सप्तानामपि लक्षणम् |
सर्वप्रयोगे विजया रोहिणी क्षतरोहिणी ||२०७||
लेपार्थे पूतनां विद्युर्विरेकार्थेऽमृतां विदुः |
चेतनी सर्वरोगेषु यथार्हमुपकल्पयेत् ||२०८||
नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या |
परीक्ष्य यत्नतो धीमान् गुणकृत्सा प्रशस्यते ||२०९||
चेतकी द्विविधा प्रोक्ता कृष्णा शुक्ला च वर्णतः |
षडङ्गुलायता कृष्णा शुक्ला चैकाङ्गुला मता ||२१०||
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् |
काचित्स्पर्शेन दृष्ट्यान्या सैव चोक्ता चतुर्विधा ||२११||
चेतकीपादपच्छायामुपसर्पन्ति ये नराः |
भिन्द्यते तत्क्षणादेव पशुपक्षिमृगास्तथा ||२१२||
चेतकी तु धृता हस्ते यावत्तिष्ठन्ति देहिनः |
तावद्भिद्येत वेगैश्च प्रभावान्नात्र संशयः ||२१३||
नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् |
चेतकी परमा शस्ता हिता सुखविरेचनी ||२१४||
हरीतकी रसाः पञ्च विद्याल्लवणवर्जिताः |
मज्जाश्रितं तु मधुरमम्लं स्नाय्वाश्रितं विदुः ||२१५||
त्वगाश्रितं तु कटुकं तिक्तं वृन्ताश्रितं तथा |
अस्थ्याश्रितं कषायं तु रसमाहुर्मनीषिणः ||२१६||
कफं कटुकषायत्वादम्लत्वान्मारुतं जयेत् |
पित्तघ्नी स्वादुतिक्तत्वात् रौक्ष्यादामविपाचिनी ||२१७||
विपाकमधुरा मेध्या वयःस्थापनदीपनी |
उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा ||२१८||
कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् |
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् ||२१९||
सशोषशोफातीसारमेहमोहवमिकृमीन् |
श्वासकासप्रसेकार्शःप्लीहानाहगरोदरान् ||२२०||
विबन्धं स्रोतसां गुल्ममूरुस्तभमरोचकम् |
हरीतकी जयेद्व्याधीन् तांस्तांस्तु कफवातजान् ||२२१||
तृष्णायां कण्ठशोषे च हनुस्तम्भे गलग्रहे |
नवज्वरे वपुःक्षीणे गर्भिण्यां नैव शस्यते ||२२२||
(सोढलनिघण्टु/ गुणसङ्ग्रह (द्वितीय भाग) – १. गुडूच्यादिवर्ग )

XVII चरकसंहिता

 
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|
दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम्||२९||
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्|
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम्||३०||
कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्|
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||
हृद्रोगं सशिरोरोगमतीसारमरोचकम्|
कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्|
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः|
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४||
(अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः|
सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये)||३५||
(च.चि.१/१)

harītakī

 

TRANSLITERATED VERSES

I bhāvaprakāśa nighaṇṭu

 
kṛtvā pākaṃ malānāṃ ca bhitvā bandhamadho nayet |
taccānulomanaṃ jñeyaṃ yathā proktā harītakī ||
(bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa – 1. miśravarga /223)
 
rasāyanantu tajjñeyaṃ yajjarāvyādhināśanam |
yathā harītakī dantī gugguluśca śilājatu ||
(bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa – 1. miśravarga /237)
 
harītakī utpatti
 
dakṣaṃ prajāpatiṃ svasthamaśvinau vākyamūcatuḥ |
kuto harītakī jātā tasyāstu kati jātayaḥ ||1||
rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ |
nāmāni kati coktāni kiṃ vā tāsāṃ ca lakṣaṇam ||2||
ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate |
kena dravyeṇa saṃyuktā kāṃśca rogānvyapohati ||3||
praśnametadyathā pṛṣṭaṃ bhagavanvaktumarhasi |
aśvinīrvacanaṃ śrutvā dakṣo vacanamabravīt ||4||
papāta bindurmedinyāṃ śakrasya pibato’mṛtam |
tato divyātsamutpannā saptajātirharītakī ||5||
 
harītakīparyāya
 
harītakyabhayā pathyā kāyasthā pūtanā’mṛtā |
haimavatyavyathā cāpi cetakī śreyasī śivā |
vayasthā vijayā cāpi jīvantī rohiṇīti ca ||6||
 
harītakī saptabheda
 
vijayā rohiṇī caiva pūtanā cāmṛtā’bhayā |
jīvantī cetakī ceti pathyāyāḥ saptajātayaḥ ||7||
“vindhyādrau vijayā himācalabhavā syāccetakī pūtanā
sindhau syādatha rohiṇī nigaditā jātā pratisthānake |
campāyāmamṛtābhayā ca janitā deśe surāṣṭrāhvaye |
jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ”(1) ||7||
alābuvṛttā vijayā vṛttā sā rohiṇī smṛtā |
pūtanāsthimatī sūkṣmā kathitā māṃsalā’mṛtā ||8||
pañcarekhā’bhayā proktā jīvantī svarṇavarṇinī |
trirekhā cetakī jñeyā saptānāmiyamākṛtiḥ ||9||
 
harītakīprayoga
 
vijayā sarvarogeṣu rohiṇī vraṇarohiṇī |
pralepe pūtanā yojyā śodhanārthe’mṛtā hitā ||10||
akṣiroge’bhayā śastā jīvantī sarvarogahṛt |
cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet ||11||
cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ |
ṣaḍaṅgulāyatā śuklā kṛṣṇā tvekāṅgulā smṛtā ||12||
kācidāsvādamātreṇa kācidgandhena bhedayet |
kācitsparśena dṛṣṭyā’nyā caturdhā bhedayecchivā ||13||
cetakīpādapacchāyāmupasarpanti ye narāḥ |
bhidyaṃte tatkṣaṇādeva paśupakṣimṛgādayaḥ ||14||
cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ |
tāvadbhidyeta vegaistu prabhāvānnātra saṃśayaḥ ||15||
nṛpādisukumārāṇāṃ kṛśānāṃ bheṣajadviṣām |
cetakī paramā śastā hitā sukhavirecanī ||16||
saptānāmapi jātīnāṃ pradhānā vijayā smṛtā |
sukhaprayogā sulabhā sarvarogeṣu śasyate ||17||
 
harītakīguṇa, prabhāva
 
harītakī pañcarasā’lavaṇā tuvarā param |
rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī |
cakṣuṣyā laghurāyuṣyā bṛṃhaṇī cānulominī ||18||
śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn |
vaisvaryagrahaṇīrogavibandhaviṣamajvarān ||19||
gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān |
kāmalāṃ śūlamānāhaṃ plīhānañca yakṛttathā |
aśmarīmūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet ||20||
svādutiktakaṣāyatvātpittahṛtkaphahṛttu sā |
kaṭutiktakaṣāyatvādamlatvādvātahṛcchivā ||21||
pittakṛtkaṭukāmlatvādvātakṛnna kathaṃ śivā |
prabhāvāddoṣahantṛtvaṃ siddhaṃ yattatprakāśyate |
hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate’dhunā ||22||
karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ |
yatastato neti cintyaṃ dhātrīlakucayoryathā ||23||
pathyāyā majjani svāduḥ snāyvāmamlo vyavasthitaḥ |
vṛnte tiktastvaci kaṭurasthisthastuvaro rasaḥ ||24||
 
śreṣṭhaharītakīlakṣaṇa
 
navā snigdhā ghanā vṛttā gurvī kṣiptā ca yā’mbhasi |
nimajjetsā praśastā ca kathitā’tiguṇapradā ||25||
navādiguṇayuktatvaṃ tathaivātra dvikarṣatā |
harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate ||26||
 
harītakīprayogavidhi, ṛtvanusāra prayogavidhi
 
carvitā vardhayatyagniṃ peṣitā malaśodhinī |
svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut ||27||
unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām |
visraṃsinī mūtraśakṛnmalānāṃ harītakī syāt saha bhojanena ||28||
annapānakṛtāndoṣānvātapittakaphodbhavān |
harītakī haratyāśu bhuktasyopari yojitā ||29||
lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā |
ghṛtena vātajān rogānsarvarogānguḍānvitā ||30||
siṃdhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt |
varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā ||31||
 
harītakīsevanānārha
 
adhvātikhinno balavarjitaśca rūkṣaḥ kṛśo laṅghanakarśitaśca |
pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet ||32||
(bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa – 2. harītakyādivarga /1-32)
 

II abhidhānamañjarī

 
vijayā harītakī syādabhayā pathyā’vyathā prapathyā ca |
amṛtā jayā kayasthā haimavatī cetakī śivā sādhvī |
prāṇadā mānavī pathyā (mānavī? jīvantī) pañcabhadrikā |
piśācī pūtanā ceti paryāyairbhadrasaptikā ||
jñeyo harītakīgandhavāsitaścotkaṭo mudita ūhyaḥ |
suravṛkṣaḥ sūryāhniḥ suparṇapuṣpaḥ śītapuṣpa iti ||
(abhidhānamañjarī / madanādigaṇavarga – 17. varaṇādivarga/ 243-244)
 

III amarakośa

 
abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā |
harītakī haimavatī cetakī śreyasī śivā ||
(amarakośa/ dvitīyakāṇḍa – 1. vanauṣadhivarga /59)
 

IV kaiyadevanighaṇṭu

 
harītakyabhayā pathyā prapathyā haimavatyapi ||221||
kāyasthā śreyasī jñeyā prāṇadā vijayā śivā |
jayā vilavaṇā pañcarasānu tuvarotkarā ||222||
svādupākarasāyuṣyā rūkṣoṣṇā bṛṃhaṇī laghuḥ |
dīpanī pācanī medhyā vayasaḥsthāpanī param ||223||
rasāyanī ca cakṣuṣyā balabuddhismṛtipradā |
kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān ||224||
śiro’kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān |
saśoṣaśophātīsāramehamohavamikṛmīn ||225||
śvāsakāsaprasekārśaḥplīhānāhagadodarān |
vibandhaṃ srotasāṃ gulmamūrustambhamarocakam ||226||
hidhmādhmānavraṇān śūlaṃ trīn doṣāṃśca vyapohati |
svādvamlabhāvātpavanaṃ kaṭutiktatayā kapham ||227||
kaṣāyamadhusattvācca pittaṃ hanti harītakī |
majjavaksnāyumāṃsāsthisthitāḥ pañcābhayodbhavāḥ ||228||
svādukaṭvamlatiktākhyakaṣāyāḥ kramaśo rasāḥ |
pathyāmajjā ca cakṣuṣyo vātapittaharo guruḥ ||229||
nīrajā vanajā caiva parvatīyā iti tridhā |
yathotaraṃ pathyatamā vijñeyā trividhābhayā ||230||
kālayogātsvayaṃ pakvā patitā ca mahītale |
navā snidhāyatā vṛttā gurvī kṣiptā tathāmbhasi ||231||
nimajjedyā tathaikasmin phale syācca dvikarṣatā |
sarvadā guṇakṛtsā tu tato’nyā tu vivarjitā ||232||
navādiguṇayuktatvaṃ tathaikatvaṃ dvikarṣatā |
harītakyāḥ phale yatra tatsarvaṃ guṇakṛd bhavet ||133||
jantujagdhā davādagdhāṃ jale paṅke sthitāṃ punaḥ |
ūṣare ca sthitāṃ bhinnāṃ varjayettu harītakīm ||234||
(kaiyadevanighaṇṭu – 1. oṣadhivarga )
 

V dravyaguṇasaṅgraha

 
pathyā pañcarasā’’yuṣyā cakṣuṣyā’lavaṇā sarā ||37||
medhyoṣṇā dīpanī doṣaśothakuṣṭhajvarāpahā |38|
(dravyaguṇasaṅgraha – 5. phalavarga )
 

VI dhanvantarinighaṇṭu

 
harītakyābhayā pathyā prapathyā pūtanā’mṛtā |
jayā’vyathā haimavatī vayaḥsthā cetakī śivā ||233||
prāṇadā nandinī caiva rohiṇī vijayā ca sā |
kaṣāyā’mlā ca kaṭukā tiktā madhurasānvitā |
iti pañcarasā pathyā lavaṇena vivarjitā ||234||
amlabhāvājjayedvātaṃ pittaṃ madhuratiktakāt |
kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato’bhayā ||235||
prapathyā lekhanī laghvī medhyā cakṣurhitā sadā |
mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit ||236||
vātānulomanī hṛdyā sendriyāṇāṃ prasādanī |
santarpaṇakṛtānrogānprāyo hanti harītakī ||237||
tṛṣṇāyāṃ mukhaśoṣe ca hanustambhe galagrahe |
navajvare tathā kṣīṇe garbhiṇyāṃ na praśasyate ||238||
harasya bhavane jātā harītā ca svabhāvataḥ |
sarvarogāṃśca ca harate tena khyātā harītakī ||239||
(dhanvantarinighaṇṭu – 1. guḍūcyādivarga )
 

VII nighaṇṭuśeṣa

 
harītakyāṃ jayā pathyā haimavatyabhayā’mṛtā ||80||
kāyasthā pūtanā cetakyavyathā śreyasī śivā |81|
(nighaṇṭuśeṣa – 1. vṛkṣakāṇḍa)
 

VIII paryāyaratnamālā

 
śivā harītakī pathyā cetakī pūtanābhayā ||218||
(paryāyaratnamālā)
 

IX madanapālanighaṇṭu

 
harasya bhavane jātā haritā ca svabhāvataḥ |
hārayetsarvarogāñca tena proktā harītakī ||8||
jīvantī pūtanā paścādamṛtā vijayā’bhayā |
rohiṇī cetakī sapta bhedabhinnā harītakī ||9||
jīvantī jīvanodyogātpāvanātpūtanā matā |
sudhāvadamṛtā jñeyā vijayā vijayapradā ||10||
nṛṇāmabhayadā yasmādabhayā tat prakīrtitā |
rohiṇī tu guṇārohāccetanāccetakī matā ||11||
jīvantī svarṇavarṇābhā pūtanā’sthimatī matā |
amṛtā tridalā proktā vijayā tumbarūpiṇī ||12||
pañcāṅgī tvabhayā jñeyā’mṛtā vṛttā tu rohiṇī |
tryaṅgī tu cetakī jñeyā karma tāsāmathocyate ||13||
sarvarogeṣu jīvantī pralepe pūtanā hitā |
śuddhyarthamamṛtā proktā vijayā sarvarogahṛt ||14||
akṣiroge’bhayā śastā rohiṇī vraṇarohiṇī |
cetakī cūrṇayoge syātsaptadhaiva prakīrtitā ||15||
navā snigdhā ghanā vṛttā gurvī kṣiptā ca yā’mbhasi |
nimajjetsā praśastā syādrogadhnyatiguṇapradā ||16||
śoṇā cchinnā guḍanibhā kiñcidalpā kaṣāyiṇī |
sthūlatvak sarasā svalpabījā gurvī harītakī ||17||
carvitā vardhayatyagniṃ peṣitā malaśodhinī |
svinnā saṅgrāhiṇī proktā bhṛṣṭā pathyānnadoṣanut ||18||
grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvṛte hyambare tulyāṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame |
pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājan prāpya harītakīmiva rujo naśyantu te śatravaḥ ||19||
 
harītakīnāmaguṇa-
 
śivā harītakī pathyā cetakī vijayā jayā |
prapathyā prathamā’moghā kāyasthā prāṇadā’mṛtā ||20||
jīvanīyā hemavatī pūtanā vṛtanā’bhayā |
vayasthā nandinī jñeyā śreyasī rohiṇī tathā ||21||
harītakī pañcarasā’lavaṇā tuvarotkaṭā |
rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī ||22||
sarā buddhipradāyukhyā cakṣuṣyā bṛṃhaṇī laghuḥ |
śvāsakāsapramehārśaḥ kuṣṭhaśophodarān kṛmīn ||23||
vaisvaryagrahaṇīdoṣavibandhaviṣamajvarān |
gulmādhmānavraṇacchardihidhmākaṇḍūhṛdāmayān |
kāmalāṃ śūlamānāhaṃ plīhānaṃ cāpakarṣati ||24||
madhurāmlatayā vātaṃ kaṣāyasvādubhāvataḥ |
pittaṃ hanti kaphaṃ hanti kaṭutvena harītakī ||25||
(madanapālanighaṇṭu – 1. abhayādivarga )
 

X madanādinighaṇṭu

 
harītakyabhayā pathyā prāṇadā vijayā śivā |
avyathā pūtanā’moghā cetakī pramathā’mṛtā ||7||
kaphavātapraśamanī recanī dīpanī laghuḥ |
arśogulmahitārucyā jaṭharaghnī harītakī ||8||
(madanādinighaṇṭu – 2. dvitīyagaṇa)
 

XI mādhavadravyaguṇa

 
śivā pañcarasāyuṣyā cakṣuṣyā lavaṇā sarā |
medhyoṣṇā dīpanī doṣaśothakuṣṭhavraṇāpahā ||7||
śiro’kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān |
vibandhaṃ srotasāṃ gulmamūrustambhamarocakam ||8||
harītakī hared vyādhīṃstāṃstāṃśca kaphavātajān |
(mādhavadravyaguṇa – 1. vividhauṣadhivarga )
 

XII rājanighaṇṭu

 
harītakī haimavatī jayā’bhayā śivā’vyathā cetanikā ca rohiṇī |
pathyā prapathyā’pi ca pūtanā’mṛtā jīvapriyā jīvanikā bhiṣagvarā ||214||
jīvantī prāṇadā jīvyā kāyasthā śreyasī ca sā |
devī divyā ca vijayā vahninetramitābhidhā ||215||
harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā |
rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī ||216||
bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭuruṣṇavīryā |
māṃsāṃśataścāmlakaṣāyayuktā harītakī pañcarasā smṛteyam ||217||
harītakyamṛtotpannā saptabhedairudīritā |
tasyā nāmāni varṇāṃśca vakṣyāmyatha yathākramam ||218||
vijayā rohiṇī caiva pūtanā cāmṛtā’bhayā |
jīvantī cetanī ceti nāmnā saptavidhā matā ||219||
alābunābhirvijayā suvṛttā rohiṇī matā |
svalpatvak pūtanā jñeyā sthūlamāṃsā’mṛtā smṛtā ||220||
pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk |
tryasrāṃ tu cetakīṃ vidyādityāsāṃ rūpalakṣaṇam ||221||
vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī tu vijayā jātā pratisthānake |
campāyāmamṛtā’bhayā ca janitā deśe surāṣṭrāhvaye jīvantī ca harītakī nigaditā saptaprabhedā budhaiḥ ||222||
sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā |
virecane syādamṛtā guṇādhikā jīvantikā syādiha jīrṇarogajit ||223||
syāccetakī sarvarujāpahārikā netrāmayaghnīmabhayāṃ vadanti |
itthaṃ yathāyogamiyaṃ prayojitā jñeyā guṇāḍhyā na kadācidanyathā ||224||
cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ |
tāvadvirecate vegāttatprabhāvānna saṃśayaḥ ||225||
saptānāmapi jātīnāṃ pradhānaṃ vijayā smṛtā |
sukhaprayogasulabhā sarvavyādhiṣu śasyate ||226||
kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ |
yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt ||227||
harate prasabhaṃ vyādhīnbhūyastarati yadvapuḥ |
harītakī tu sā proktā tatra kīrdīptivācakaḥ ||228||
harītakī tu tṛṣṇāyāṃ hanustambhe gralagrahe |
śoṣe navajvare jīrṇe gurviṇyāṃ naiva śakyate ||229||
(rājanighaṇṭu – 11. āmrādivarga)
 

XIII rājavallabhanighaṇṭu

 
harītakībheda
 
jīvantī rohiṇī caiva vijayā cābhayāmṛtā |
pūtanā kālikā ceti pathyā saptavidhā matā ||197||
 
harītakībheda lakṣaṇa
 
suvarṇavarṇā jīvantī rohiṇī kapiladyutiḥ |
alābuvṛntā vijayā pañcāśā cābhayā smṛtā ||198||
sthūlamāṃsāmṛtā jñeyā pūtanāsthimatī matā |
tryaṃśā ca kāliketyevaṃ saptajātiharītakī ||199||
 
harītakīprayogavidhi
 
snehapāneṣu sarveṣu jīvantī ca praśasyate |
rohiṇī kṣayarogeṣu vijayā sarvakarmasu ||200||
pūtanā lepane jñeyā cāmṛtā tu virecane |
abhayā netrarogeṣu gandhayukteṣu kālikā ||201||
 
harītakī niruktī
 
harasya bhavane jātā haritā ca svabhāvataḥ |
harate sarvarogāṃśca tena nāmnā harītakī ||202||
 
harītakī utpatti
 
pīyūṣaṃ pibatāstriviṣṭapapaterye bindavo nirgatā- |
stebhyo’bhūdabhayā divākarakaraśreṇīva doṣāpahā |
kālindīva balapramodajananī gaurīva śūlipriyā |
vahnerdyotakarī ghṛtāhutiriva kṣoṇīva nānārasā ||203||
 
dravyaviśeṣeṇa harītakībhakṣaṇaguṇa
 
vātaghnī lavaṇaiḥ pathyā pittaghnī ghṛtasaṃyutā |
nāgareṇa kaphaṃ hanti sarvadoṣan guḍānvitā ||204||
 
harītakīsādhāraṇaguṇa
 
pathyā pañcarasāyuṣyā cakṣuṣyā lavaṇā sarā |
madhyoṣmā dīpanī śothadoṣakuṣṭhavraṇāpahā ||205||
(rājavallabhanighaṇṭu – 3. mādhyāhnikapariccheda )
 
 

XIV śabdacandrikā

 
abhayā tvanyathā pathyā vayaḥsthā pūtanā’mṛtā |
harītakī haimavatī cetakī śreyasī śivā ||78||
rohiṇī vijayānantā jīvantī kaṇikā ca sā |79|
(śabdacandrikā – 1. vṛkṣādivarga )
 

XV sarasvatīnighaṇṭu

 
abhayātvavyathā pathyā vayaḥsthā pūtanā’mṛtā ||37||
harītakī haimavatī cetakī śreyasī śivā |
prāṇadā vijayā śreṣṭhā kāyasthā dīpanī varā ||38||
(sarasvatīnighaṇṭu – 1. mahāvṛkṣavarga )
 

XVI soḍhalanighaṇṭu

 
vijayā rohiṇī caiva pūtanā cāmṛtā tathā ||204||
cetakī cābhayā proktā jīvantī saptayonayaḥ |
alābuvṛttā vijayā tvavyaktā caiva rohiṇī ||205||
pūtanāsthimatī ślakṣṇā sthūlamāṃsā tathāmṛtā |
tryasrā tu cetakī jñeyā pañcāsrā tvabhayā smṛtā ||206||
suvarṇavarṇā jīvantī saptānāmapi lakṣaṇam |
sarvaprayoge vijayā rohiṇī kṣatarohiṇī ||207||
lepārthe pūtanāṃ vidyurvirekārthe’mṛtāṃ viduḥ |
cetanī sarvarogeṣu yathārhamupakalpayet ||208||
navā vṛttā ghanā snigdhā gurvī majjati cāpsu yā |
parīkṣya yatnato dhīmān guṇakṛtsā praśasyate ||209||
cetakī dvividhā proktā kṛṣṇā śuklā ca varṇataḥ |
ṣaḍaṅgulāyatā kṛṣṇā śuklā caikāṅgulā matā ||210||
kācidāsvādamātreṇa kācidgandhena bhedayet |
kācitsparśena dṛṣṭyānyā saiva coktā caturvidhā ||211||
cetakīpādapacchāyāmupasarpanti ye narāḥ |
bhindyate tatkṣaṇādeva paśupakṣimṛgāstathā ||212||
cetakī tu dhṛtā haste yāvattiṣṭhanti dehinaḥ |
tāvadbhidyeta vegaiśca prabhāvānnātra saṃśayaḥ ||213||
nṛpādisukumārāṇāṃ kṛśānāṃ bheṣajadviṣām |
cetakī paramā śastā hitā sukhavirecanī ||214||
harītakī rasāḥ pañca vidyāllavaṇavarjitāḥ |
majjāśritaṃ tu madhuramamlaṃ snāyvāśritaṃ viduḥ ||215||
tvagāśritaṃ tu kaṭukaṃ tiktaṃ vṛntāśritaṃ tathā |
asthyāśritaṃ kaṣāyaṃ tu rasamāhurmanīṣiṇaḥ ||216||
kaphaṃ kaṭukaṣāyatvādamlatvānmārutaṃ jayet |
pittaghnī svādutiktatvāt raukṣyādāmavipācinī ||217||
vipākamadhurā medhyā vayaḥsthāpanadīpanī |
uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā ||218||
kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān |
śiro’kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān ||219||
saśoṣaśophātīsāramehamohavamikṛmīn |
śvāsakāsaprasekārśaḥplīhānāhagarodarān ||220||
vibandhaṃ srotasāṃ gulmamūrustabhamarocakam |
harītakī jayedvyādhīn tāṃstāṃstu kaphavātajān ||221||
tṛṣṇāyāṃ kaṇṭhaśoṣe ca hanustambhe galagrahe |
navajvare vapuḥkṣīṇe garbhiṇyāṃ naiva śasyate ||222||
(soḍhalanighaṇṭu/ guṇasaṅgraha (dvitīya bhāga) – 1. guḍūcyādivarga )

XVII carakasaṃhitā

 
harītakīṃ pañcarasāmuṣṇāmalavaṇāṃ śivām|
doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm||29||
āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām|
sarvarogapraśamanīṃ buddhīndriyabalapradām||30||
kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam|
arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram||31||
hṛdrogaṃ saśirorogamatīsāramarocakam|
kāsaṃ pramehamānāhaṃ plīhānamudaraṃ navam||32||
kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn|
śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam||33||
srotovibandhān vividhān pralepaṃ hṛdayorasoḥ|
smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī||34||
(ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ|
severannābhayāmete kṣuttṛṣṇoṣṇārditāśca ye)||35||
(ca.ci.1/1)
 
SOURCE: https://niimh.nic.in/ebooks/e-Nighantu/
Details of other herbs of Dravyaguna:  https://ayurveda360.in/category/ayurveda-herbs-dravyaguna/
Hareetaki
Lashuna

Leave a Comment

Your email address will not be published. Required fields are marked *